Digital Sanskrit Buddhist Canon

आदिकर्मप्रदीप

Technical Details
  • Text Version:
    Miroj Shakya
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

आदिकर्मप्रदीप

 

ओं नमो बुद्धाय

 

प्रणम्य स्रीगुरून्

भक्त्या जिनान्
[] ससुतान् अथ।

आदिकर्मप्रदीप्[ओऽय्]अं तदर्थिभ्यो विधियते॥

 

श्रिष्याणाम् आशुबोधार्थं

(?) लिखयते स्पर्धया न तु।

अतः शान्तदुःखाः

(?) सर्वे क्षन्तुम् अर्हन्ति मां प्रति॥२

 

तत्रादौ देशिता

ये तु मन्त्रः पूजदिकर्मसु।

आकृष्यैकत्र संपिण्डे

लिख्यन्ते ते तु नान्यथा॥३

 

मुखशौचादिकं कृत्वा

प्रात
[र्]ध्यानं जपं तथा।

नामसंगीतिपाठं च

कुर्यात् प्रणिधिम् एव च॥ ४

 

भद्रचर्यादिना पश्चान्

नमस्कारं प्रकृत्य वै।

शुचि निष्प्राणकं

तोयं जम्भलाय यथाविधि॥ ५

 

दद्याद् अष्टौ शतान्य्

एव प्रेतेभ्यश् चुलुकांस् तथा।

पश्चान् मृच्चैत्यकर्मादि

बुद्धादिनां च पूजनम्॥६

 

गुरो[र्] मण्डलकं कृत्वा

स्वेष्टदेवस्य मण्डलम्।

प्रज्ञापारमितादिनां

पाठं कुर्याद् यथेप्सितम्॥७

 

कृत्वा प्रदक्षिनां

तेभ्यो प्रणिधिं च विशेषतः।

बोधिसत्वबलिं दत्वा

शासनस्य चिरस्थितिम्॥८

 

आशंसयेत् प्रहृष्टेन

चेतसा सुसमाहितः

वन्दनापूर्वकं पश्चाद्

गुरुबुद्धान् विसर्जयेत्॥९

 

(1)

 

पुनर् भोजनकाले

च भक्तव्यञ्जनकादिभिः।

सर्वभौतिकमन्त्रेण

बलिं दद्यद् विधानतः॥१०

 

नैवेद्यं त्रिषु

रत्नेषु हा रीत्यै घटिकात्रयम्।

अग्रासनं चेष्टदेवस्य

पश्चाद् भुञ्जीद् यथाविधि॥११

 

उच्छिष्टाहारपिण्डं

च दत्वाऽचमनम् आचरेत्।

दानगाथादिकं पश्चात्

पठित्वा विहरे
[द्] बुधः॥१२

 

बोधिसत्वक्रिया[] सर्वश् चतुर्थया[] हृष्टचेतसा।

पुनः प्रदोषवेलायां

सद्धर्माध्ययनादिकम्॥१३

 

कृत्वा प्रणम्य

भावेन पञ्चङ्गैर् अखिलान् जिनान्

देवतायोगयुक्तेन

सुप्यतां सिंहशय्यय॥ १४

 

उत्थाने च पुनः

कार्या वन्दनादिविधिक्रिया।

आधिकर्मिकसत्वनं

मार्गस् तावद् अयं मतः॥ १५

 

इह हि सुगतशासनाभिप्रसन्नेन

कुलपुत्रेण वा कुलदुहित्रा वा प्र-

थमं रत्नत्रयं शरणगामिना

भावयम्। तदनुशंसा च सूकरिका-

वदाने विस्तरेण

प्रतिपादिता भगवता। तथा हि

 

ये बुद्धं शरणं

यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषन्

कयन् दिव्या
[न्] काया[न्] लभन्ति ते॥

एवं बुद्धं धर्मं

संघं शरणं यान्ति
....

 

इत्यादि। त्रिशरणानुशंसासूत्रे

 

एकचित्तक्षणे पुण्यम्

अप्रमेयं शरणोद्भवम्।

 

(2)

 

अतिरिच्यन्ते [भिशस्ता अह्नापि] यदि संभवेत्॥

तस्माद् बुद्धं

च धर्मं च संघं च गणनं वरम्।

प्रयायाच् छरणं

सम्यग् यदीच्छेद् उपधिक्षयम्॥

 

इति वचनात्। तत्रायं

विधिः। शुभदिवसे श्राद्धेन कुलपुत्रेण

कुलदुहित्रा वा

शुचिना शुचिवस्त्रप्रावृतेन विविक्तप्रदेशे बुद्धप्रतिमां

पञ्चोपहारैः संपूज्य।

तदग्रे त्रिरत्नेभ्यो गुरुवे च मण्डलकानि

कृत्वा दक्षिणापूर्वकं

तीव्रप्रसादेन त्रिरत्नेभ्यो गुरुचरणयोश् च

प्रणिपत्य। पुरतो

जानुमण्डलेन। उत्कुटुकेन वा स्थित्वा त्रिर् एवम्

अध्येषितव्यम्।

प्रयच्छ मे कल्याणमित्र त्रीणि शरणगमनानि। उपासा-

कशिक्षासंवरं च॥

ततः सम्यगध्याशयप्रवृत्तं शिष्यम् अव-

लोक्य गुरुणा वक्तव्यम्।

यथाशक्तितः प्रयच्छामीति वद त्वम्

आयुष्मन्। समन्वाहराचार्य

अहम् अमुकनामा इमां वेलाम् उपादाय

यावद् आ बोधिमण्डनिषदनात्।

बुद्धं भगवन्तं सर्वज्ञं सर्व-

दर्शिनम्। सर्ववैरभयातीतं

महापुरुषम्। अभेद्यकायम् अनुत्तर-

कायम्। शरणं गच्छामि

दिव्पदानाम् अग्रम्। एवं धर्मं शरणं

गच्छामि विरागाणां

श्रेष्ठम्। संघं शरणं गच्छामि गणानां

प्रवरम्॥ एवं द्विर्

अपि त्रिर् अपि। त्रिशरणगतं माम् आचार्याधारयत्व्

इति।

 

त्रिशरणस्य दशशिक्षापदानि

दातव्यानि॥ तद् यथा। समन्वाहराचार्य

अहम् अमुकनाना इमां

वेलाम् उपादाय। यावद् आ बोधिमण्डनिष-

 

(3)

 

दनात्। प्राणातिपाताद्

विरमामि। एवम् अदत्तादानम्। काममिथ्याचारम्।

मृषावादम्। पैशुन्यम्।

पारुष्यम्। संभिन्नप्रलापम्। अभिध्याम्

व्यापादम्। मिथ्यादृष्टिं

प्रहाय मिथ्यादृष्टेर् विरमामि॥॥ एवं द्विर्

अपि त्रिर् अपि।

गृहीतदशशिक्षापदेन

चोपासकसंवरिणा भाव्यम्। तत्रेयं संव-

रज्ञप्तिः। समन्वाहराचार्य

यथा ते आर्यार्हन्तो यवज्जीवं प्राणाति-

पातं विहाय प्राणातिपाताद्

विरताः। एवम् एवाहम् इमां वेलाम् उपादाय।

यावज्जीवं प्राणातिपातं

विहाय प्राणातिपाताद् विरमामि। अनेन चाहं

प्रथमेनाङ्गेन तेषाम्

आर्याणाम् अर्हतां शिक्षायाम् अनुशिक्षिष्येऽनुविधीये

ऽनुकरोमि॥ पुनर्

अपरं यथा ते आर्यार्हन्तो यावज्जीवम् अदत्तादानम्।

काममिथ्याचारम्।

मृषावादम्। सुरामैरेयमद्यप्रमादस्थानाद् विर-

ताः। एवम् एवाहम्

एवंनामा इमां वेलाम् उपादाय यावज्जीवम् अदत्ता-

दानम्। काममिथ्याचारम्।

मृषावादम्। सुरामैरेयमद्यप्रमाद-

स्थानात् प्रतिविरमामि।

अनेन चाहं पञ्चमेनाङ्गेन तेषाम् आर्याणाम्

अर्हतां शिक्षायाम्

अनुशिक्षिष्येऽनुविधीयेऽनुकरोमि॥॥ एवं द्विर् अपि त्रिर्

अपि।

 

औपयिकं साध्व् इति।

तदनु दशाकुशलपरित्याय-षड्गतिकारिका-

सत्वाराधन-गुर्वाराधन-आदिभिः

संस्कृत्य ससेकैर् अनुग्रहं

कुर्यात्।

 

एवं लब्धोपासकनामधेयेन

कृतसंबोधिसाधनप्रणिधिना।

श्रीगुरुचरणशरणगतेन।

श्राद्धेन। सत्वहितैषिणा प्रत्यहं यत्

कर्तव्यं तदाह॥॥

न त्व् एतत् सर्वं शरणगमनादिकं मूलसूत्रे-

 

(4)

 

णोक्तं तथा महास्योपन्यासः॥

अत्राह। यदि नाम ग्रन्थविस्तर-

भयाद् आदौ नोक्तम्

अस्माभिस् तथाप्य् एतत् सर्वं विज्ञैर् उक्तं

यस्मात् सर्वम्

इदं ध्यानादिकं परिशुद्धोपासकेनैव कर्तव्यं

नान्येन। अतस् तस्य

शिक्षासंवरादिकं वक्तुं सूचितम् एवेति सर्व
[]

सुस्थम्।

 

मुखशौचादिकम् इत्यादि।

रात्रौ तृतीयप्रहरोपरि यथोपदेशतः।

शयनीयाद् उत्थाय।

कृताञ्जलिना क्षितितलनमितशिरसा। एवं वक्तव्यम्

ओं सर्वतथागतपादवन्दनां

करोमि। सर्वतथागतकायवाक्चित-

प्रयोगेण। ओं सर्वतथागतपूजोपस्थानायात्मानं

निर्यातयामि। सक-

लधर्मधातुस्वकायवाक्चित्तवज्रस्फरणतया।

सर्वथागतवज्र-

सत्व अधितिष्ठस्व

माम्। ओं सर्वतथाग
[]पूजाभिषेकायात्मानं

निर्यातयामि। सर्वतथागतवज्ररत्नाभिषिञ्च

माम्। ओं सर्वतथागत-

पूजाप्रवर्तनायात्मानं

निर्यातयामि। सर्वतथागतवज्रधर्म प्र-

वर्तय माम्। ओं

सर्वतथागतपूजाकर्मणे आत्मानं निर्यातयामि।

सर्वतथागतवज्रकर्म

कुरु माम्॥ सर्वाकारज्ञतावज्रचित्तम् उत्पा-

दयामि। सर्वतथागतज्ञानवज्रसमताचित्तोत्पादेन।

कुशलमूलसमता

ऽप्रपञ्चधर्मतास्वभावसिद्ध्यारागणतायै।

आशुसंभारोपचयार्थं

बोधिसत्त्वेन विधिर्

एषः कर्तव्य इति वज्रशिखर-आदितन्त्रेषूक्तत्वाद् इति।

ततः पञ्चाङ्गेन

प्रणम्य। कायादिपाटवार्थं दन्तकाष्ठं

कृत्वा। ओं विशुद्धधर्म

सर्वपापानि मे शोधय सर्वविकल्पान् अप-

नय हूँ॥ अनेनाभिमन्त्रितजलचुलुकेन

कलयनं कुर्यात्। ततः। ओं

 

(5)

 

पद्म पद्म॥ ९ आक्षिपद्मशुभग

हूं ३॥ सप्ताभिमन्त्रितजलेन

मुखं प्रक्षालयेत्

सर्वजनप्रियो भवति। चक्षूरोगो न भवति।

सिद्धैकवीरतन्त्रे

महानुशंसोक्तोऽयं मन्त्रराजः।

 

पश्चात् कोमलतरासनोपरि

ध्यानालये स्वेष्टदेवतां यथासुखं विभा-

व्य मन्त्रं जपेत्।

ध्यानात् खिन्नो मन्त्रं जपेद् इति वचनात्॥॥ तदनु

सकलमुनीन्द्रतत्वसंग्राहकं

नामसंगीती पाठं कुर्यात्।

प्रणिधिम् एव चेति

परेण संबन्धः।

भद्रचर्यादिप्रणिधानपूर्वकं

सर्वगुरुबुद्धबोधिसत्वेभ्यो

नमस्कारं कुर्याद्

इत्य् अर्थः।

 

सूर्योदयानन्तरं

यत् कर्तव्यं तद् आह। शुचि नि
[ष्]प्राणकं तोयम्

इत्यादि। अनन्तरोक्तविधया

जम्बलाय जलं दद्यात्। किंभूतं शुचि।

पवित्रम्। निष्प्राणकम्

इति। यथोक्तविधिना प्रत्यवेक्षितम्॥ तथा चाह

 

हस्तपर्णपुटकुम्भे

पुर्णे गुह्यदिसंभवे।

प्रत्यवेक्ष्योपभोक्तव्यं

रसद्रव्यं दयावता॥

ऊर्ध्वम् अधस् तिर्यग्गामि

स्थिरसंकोचचक्रकृत्।

गोमूत्रिकोद्भूतग्गामि

प्राणिनाम् अष्टधा गतिः॥

 

इति सम्यङ् निरुध्य॥

यथाविधिर् इति। यथाविधेर् अयम् अर्थः। पुरतो

रक्तयँकारजाष्टदलकमलोपरि

शुक्लाकारजं चन्द्रमण्डलं प्रज्ञो-

 

(6)

 

पायात्माकम् ईषद्रक्तम्।

तदुपरि पीतजँकारजवसुधारया सह समा-

पन्नम्। सुवर्णवर्णरत्नसंभवमुकुटिनम्।

सर्वाभरणभूषितं

प्रलम्बोदरम्। वामनाकारम्।

नीलोत्पलमालाधरं सम्यग् विभाव्य।

स्वदक्षिणहस्ते

मणिबन्धे ओं। हस्तमध्ये हूँ। सर्वाङ्गुल्यग्रे

ब्लूँ। सर्वाङ्गुलीमूले

सः सम्यग् विभाव्य। ओं जम्भलजलेन्द्राय

स्वाहेति हस्तम्

अभिमन्त्र्य पञ्चमृतं तदभावे अक्षोभ्यमात्रम्

अप्य् उदकमिश्रं

चुलुकेन पीत्वा ओं हूँ ब्लूँ सः इत्य् उच्चार्य।

अष्टोत्तरशतजलचुलकानि

देयानि। स्थिरचित्त
[स्] तीव्रेण प्रसादेन यो

ददाति। सो अचिराद्

एव जम्भलसदृशो भवतीति भगवतो वचनात्। सं-

भारपरिपूरिश् च।

जम्भलजलदानविधिः।

 

प्रेतेभ्य इति।

प्रेतेभ्यः शुचिप्रदेशे ओं जलम् इदं सर्वप्रेतेभ्यः

स्वाहेति मन्त्रम्

उच्चार्य। जलचुलुकान्य् अष्टोत्तरशतानि देयानि। इति प्रेत-

जलदानविधिः।

 

पश्चान् मृच्चैत्यादिकर्मादीत्यादि।

पश्चाद् इति जलदानानन्तरं

मृच्चैत्यादिकं

कुर्याद् इत्य् अर्थः। आदिशब्दात् सर्वकातडनोपादानम्

तत्रायं चैत्यकरणविधिः।

 

ओं नमो भगवते वैरोचनप्रभराजाय

तथागतायार्हते सम्यक्-

संबुद्धाय। तद्यथा।

ओं सूक्ष्मेऽसमसमे प्रशान्ते दान्ते
[]

समारोधेऽनालम्बे।

तरस्व यशोवति महाभजे निराकुले निर्वाणे।

सर्वबुद्धाधिष्ठानाधिष्ठिते

स्वाहा॥ अनया धारण्या मृत्पिण्डं वालु-

कापिण्डं वा। एकविंशतिवारान्

परिजप्य चैत्यं कुर्यात्। यावन्तस् तस्-

 

(7)

 

मिन् परमाणवस् तावत्य[] कोट्[य्][श्] चैत्यानि कृतानि

भवन्तीति। तद्-

अनु

 

ये धर्म हेतुप्रभवा

हेतुं तेषं तथागतो

ह्य् अवदत् तेषं

च यो निरोध एवंवादि महाश्रमणः

 

अनया गाथाया प्रतिष्ठाय।

ओं नमो भगवते पुष्पकेतुराजाय तथा-

गतायार्हते सम्यक्संबुद्धाय॥

तद्यथा। ओं पुष्प २ महापुष्प-

सुपुष्प- पुष्पोद्भव-

पुष्पसंभव- पुष्पविक्रान्त- पुष्प-विकीर्ण स्वाहा॥ अनया धारण्याऽभिमन्त्रितपुष्पं दद्यात्।

यावन्ति पुष्पाणि तावत्यः कोट्यः पुष्पाणि दत्तानि भवन्तिति।

 

ततह्। ओं नमो भगवते

रत्नकेतुराजाय तथागतायार्हते सम्यक्-

संबुद्धाय॥ तद्यथा।

ओं रत्न २ महारत्न रत्नविजय स्वाहा। अनया

चैत्यवन्दनां कुर्यात्।

एकचैत्यवन्दनया कोटिचैत्यवन्दनाः कृता भ-

------ चैत्यकरणविधिः।

 

सर्वकताडनविधिर्

उच्यते॥ ओं वसुधे स्वाहा। मृत्तिकाग्रहणमन्-

त्रः। ओं वज्रद्भवाय

स्वाहा। बिम्बबलनमन्त्रः॥ ओं अरज विरज

स्वाहा। तैलम्रक्षणमन्त्रः॥

ओं वज्रधातुगर्भ स्वाहा। बिम्बक्षे-

पणमन्त्रः॥ ओं धर्मधातुगर्भ

स्वाहा। मुद्रक्षेपणमन्त्रः॥

ओं वज्रमुद्गर आकोटयति

हूँ फट् स्वाहा। आकोटनमन्त्रः॥ ओं

धर्मरत स्वाहा।

निह्षारणमन्त्रः॥ ओं सुप्रतिष्ठितवज्र स्वाहा

स्थपनमन्त्रः। ओं

सर्वतथागतमणिचतदीप्तज्वल २ धर्मधातु-

गर्भ स्वाहा। प्रतिष्थापनमन्त्रः॥

ओं स्वभावविशुद्ध आहर

 

(8)

 

२ आगच्छ ३ धर्मधातुगर्भ

स्वाहा। विसर्जनमन्त्रः॥ ओं आकाश-

धातुगर्भ स्वाहा।

क्षमापणमन्त्रः॥ ततस् तच् चैत्यादिकम् अनुपह-

तप्रदेशे निवेशयेत्।

इति सर्वकताडनविधिः।

 

बुद्धादीनां च पूजनम्

इति। आदिशब्दाद् आर्यमैत्रेय- मञ्जुश्री-

अवलोकितेश्वर- प्रज्ञापारमिता-

तारा- मारीचीप्रभृतीनां ग्रहणम्।

तत्रायं क्रमः।

विचित्रप्रतिमादिकं मयूरपिच्छकादिनाऽवमार्जयेत्

स्नानारिहम्। वक्ष्[य्]अमाणमन्त्रेण स्नानं

कुर्यात्। तत्र ओं आः

सर्वतथागताभिषेकसम्य[क्]श्रिये (?) हूँ २। स्नानमन्त्रः।

ओं आः

वज्रसंव[] हूँ स्वाहा। ओं

आः वज्रसमालम्बन हूँ स्वाहा। ओं

आः वज्रवस्त्र हूँ

स्वाहा। ओं आः वज्रपुष्प हूँ स्वाहा। ओं आः वज्र-

धूप हूँ स्वाहा।

ओं आः वज्रदीप हूँ स्वाहा। ओं आः वज्रनैवेद्य

हूँ स्वाहा। यच्

चान्यद् अपि तत् सर्वं त्रितत्वविद् अभि
[हि]तेन ढौकयेत्।

 

गुरो[र्] मण्डलकम् इत्यादि।

आदौ तावद् गुरोर् मण्डलकं कुर्यात्।

पश्चाद् अन्यत्॥॥

कस्माद् आदाव् एव गुरुमण्डलकोपन्यासः।

 

सर्वबुद्धसमो ह्य्

असौ।

 

इति वचनात्।

गुरु[र्] बुद्धो भवेद् धर्मः

संघश् चापि स एव हि।

 

इति प्रवचनाच् चापि।

नैवम्। यद् एतत् सर्वम् उक्तम् भगवता तद्

गुरो[र्] मोहात्मातिशयम्

उपदर्शनायां न पुनर् अत्र वाचकेन

मण्डलककरणं प्रतिपादितम्।

भगवता विस्तरेण श्रीपरमादिबुद्-

 

(9)

 

धकालचक्रतन्त्र-

आदौ। सत्यम्। स तु सद्धर्मश्रवणकाले

सत्कृत्य धर्मः

श्रोतव्य इत्य् अभिप्रायेणोपदिष्टम्। नैवम्। अन्य-

दापि त्रिष्कालं

परमया भक्त्या इत्यादिनाभिहितं गुर्वाराधणे चोक्तम्

 

नित्यं च गुरवे

देयं नित्यं पुज्यस् तथागतः।

 

अस्यायम् अर्थः।

विद्यमाने वस्तुनि श्रीमद्गुरुभट्टारकपादानां स्व-

मनोभिलषितं वस्तु

हृष्टचेतसा दद्यात्।

 

यद् यद् इष्ट[]रं किं चिद् विशिष्ट[]रम् एव व।

तत् तद् धि गुरवे

देयम्
....

 

इत्यादिना प्रबन्धेनोक्तम्।

अविद्यमने[तु] पुनर् मस्ये स

च प्रकल्पयेत्।

 

इतिवचनात्॥ मण्डलके

चतुर्द्वीपान् नानारत्नमयान् संपूज्य गुरवे

निर्यातयेत्। एतेन

 

तज्जत[] पुण्यसंभरः संभा[रा]द् बोधिर् उत्तमा।

 

तद् अप्य् असंगतं

भवति। ननु संभारद्वयसंभृतस्य मुक्तिर्

भवति। कथम् एकेनैव

पुण्यसंभारेण युक्तो भवति ज्ञानसंभा-

रेण विना।

 

यस्माद् अन्योन्यापेक्षका[] क्षितौ शकुनिपक्षवत्।

 

(10)

 

अत्राह। अनयोः पुण्यज्ञानसंभारयोः

परिपूरणं षट्पारमितापरिपूरणाद् एव भवति। ता गुरुमण्डलककरणात् परिपूर्यन्ते। हेमप्र-

भताम्रतादिगुणा

लभ्यन्ते। तथा हि

 

दानं गोमयम् अम्भुन

च सहितं शीलं च सन्मर्जनं

क्षान्तिः क्षुद्रपिपीलिकापनयनं

विर्यं क्रियोत्थपनम्।

ध्यानं तत्क्षणम्

एकचित्तकरणं प्रज्ञा सुरेखो
[ज्]ज्वल

एताः पारमिता[] षड् एव लभते कृत्वा

मुनेर् मण्डलम्॥

 

भवति कनकवर्ण[] सर्वरोगै[र्] विमुक्तः

सुरमनुजविशिष्टश्

चन्द्रवद् दीप्तकन्तिः।

धनकनकसमृद्धे जायते

राजवंशे

सुगतवरगृहेऽस्मिन्

कायकर्माणि कृत्वा॥

 

मण्डलं प्[र्]अकरोमि॥ कृत्वा

मुनेर् मण्डलम् इति उपलक्षणधरम् एतत्। गुरोर् मण्डलकम् अपि कृत्वा एते गुणा लभ्यन्ते।

कस्मान्

 

नानात्वं नैव कुर्वित

गुरो
[र्] वज्रधरस्य च।

 

इति वचनात्। अन्वत्रापि

दानशीलक्षमावीर्यध्यानादिन्

सेवयेत् सद।

अचिरेणैव कालेन

प्राप्यते बोधिर् उत्तमा।

 

इति सर्वं सुस्थम्।

तत्रायं गुरुमण्डलकविधिः।

ओं आः हूँ इति स्थानात्मयोगकृत-

रक्षः। ओं ह्रीँ

स्वाहेति विहितहस्तप्रक्षालनाचमनः। ओं हूँ इत्य्

अधिष्ठितासनः। ओं

आः वज्रभूमे हूँ इति कृतभूमिपरिग्रहः। ओं

 

(11)

 

वज्रसत्व सर्वविघ्नान्

उत्सारय हूँ फट् इत्य् अभिमन्त्रितगोमया-

दिना शुचिप्रदेशे

मण्डलकं विधाय। ओं आः वज्ररेखे हूँ इति तम्

अधितिष्ठ्य। अभिमन्त्रितपुष्पं

गृहीत्वा ओं वज्रगुरुप्रवर सत्का-

रार्घ्य[] प्रतीच्छ स्वाहेति

मध्ये पुष्पं दत्वा हस्तं प्रक्षालयेत्।

ततो मध्ये चतुरश्रम्

अष्टशृङ्गोपशोभितं पूर्वदक्षिणपश्चिमोत्तर-

पार्श्वेषु रूप्यवैदूर्यस्फटिकसुवर्णपरिघटितत्वेन

चतूरत्नमयं

सुमेरुं व्याधात्।

तन्मध्ये नानारत्नखचितसिंहासनोपरि विकचाष्-

टदलकमलकमलगर्भश्रीमद्गुरुभट्टारकं

विचित्राभरणभूषितं

वज्रसत्वलीलाया

स्थितं दृष्ट्वा। ततः सुमेरोः पूर्वतोऽर्धचन्द्राकारं

शुक्लं पूर्वविदेह[म्]। दक्षिणे त्र्यश्रम्

सुवर्णवर्णं जम्बुद्वी-

पम्। पश्चिमे परिमण्डलं

रक्तम् अपरगोदानीयम्। उत्तरे चतुर-

श्रं श्यामम् उत्तरकुरुं

विभाव्य। सर्वम् एतत् प्रत्येकं पद्म-

रागेन्द्रनीलवैदूर्यमरक्तवज्रमुक्ताप्रबालपरिपूर्णं

व्याधात्।

 

तदनु पूर्वदत्तं

पुष्पम् अपनीय। ओं हूं मध्यगुरवे

नम इति मध्ये पुष्पं

दद्यात्। ओं वज्रगुरवे नम इति तदुपरि॥

ओं यँ पूर्वविदेहाय

नमः। ओं रँ जम्बुद्वीपाय नमः। ओं

लँ अपरगोदा[नी]याय नमः। ओं वँ

उत्तरकुरवे नमः। पूर्वादि-

दिक्षु। ओं या देहविदेहाय

द्वीपाय नम। ओं रा अम्बराय द्वीपाय

नमः। ओं ला कुरुकौरवाय

द्वीपाय नमः। ओं वा शाखा उत्तर-

 

(12)

 

मञ्जर्याय द्वीपाय

नमः। आग्नेयादिविदिक्षु॥ ओं य गजर्
[अत्न्]आय

नमः। ओं र पुरुषरत्नाय

नमः। ओं ल अश्वरत्नाय नमः। ओं व

स्त्रीरत्नाय नमः

इति सुमेरुद्वीपयोर् मध्ये पूर्वादिदिक्षु॥ ओं याः

खड्गर[त्ना]य नमः। ओं रा[] मणिरत्नाय नमः।

ओं लाः चक्र-

रत्नाय नमः। ओं

वाः सर्वनिधानेभ्यो नमः। इति विदिक्षु॥ ओं अः

चन्द्राय नमः। ओं

आः सूर्याय नमः। सुमेरोः पश्चिमे पूर्वे च

पुष्पं दद्यात्।

अमी च सर्वे स्वस्वबीजनिष्पन्ना गुरवे निर्यातनीयाः॥

ततः। गृहीतपुष्पाञ्जलिना

[ना]नारत्नपरिपूर्णान् विभाव्य।

 

नमस् तेऽस्तु नमस्

तेऽस्तु नमस् तेऽस्तु नमो नमः।

भक्त्यहं त्वं नमस्यामि

गुरुनाथ प्रसीद मे॥

 

इति पठित्वा। ओं

सर्वतथागतपादवन्दनां करोमीत्य् अनेन वन्दनां

कुर्याद् इति गुरुमण्डलकरणविधिः।

 

स्वेष्टदेवस्य पूजनम्

इति। ओं आः वज्रभूमे हूँ इत्य् आरभ्य। ओं

सुरेखे सर्वतथागता

अधि
[ति]ष्ठन्तु स्वाहा। इति पठित्वा मण्डलके

पुष्पं दत्वा हस्तं

च प्रक्षाल्य। ओं मणिधरि वज्रिणि महाप्रतिसरे

रक्ष २ मां हूँ

फट् स्वाहेति मन्त्रेण स्वशिरोदेशे पुष्पं क्षिपन्न्

आत्मरक्षां कुर्यात्।

तदनु सुमेरुद्वीपान् तथैव विभाव्य। तदुपरि

स्वेष्टदेवतां यथोपदेशतः

पूजयेत्। पञ्च तथागतान् कायत्रयं च

तथागतानां पक्षे।

हूँ ओं त्राँ ह्रीः खँकारपरिणताः। नील-शुक्ल-

पीत-रक्त-हरिताः।

सचीवरोष्णीषाः। भूस्पर्श-बोध्यग्री-वरद-ध्यान-

 

(13)

 

अभयमुद्राः। वैरोचनं

विहाय सर्वे सूर्यासनस्थाः। सूर्यप्र-

भाः। वैरोचनस् तु

चन्द्रासनश् चन्द्रप्रभः। कोनेषु। लँ वँ

रँ यँ कारजेभ्यः

पीत-शुक्ल-रक्त-धूम्रवर्णेभ्यश् चतुरश्र-

वर्तुल-त्र्यश्र-

अर्धचन्द्राकारेभ्यश् चतुर्महाभूतमण्डलेभ्यो-

परि आग्नेयादिषु

चन्द्रस्था योगिन्यो बहुभूषणाः। श्वेतेन्द्र-नीलसं-

काश-रक्त-श्यामल-विषहा[]। लाँ माँ याँ भाँ

समुत्पन्नाः।

भूतोयाग्निचलात्मिकाः।

चक्रदम्भोलिरक्ताम्भसंभवोत्पलधारिकाह्।

इति सम्यग् विभाव्य।

भो चेन् मन्त्रदेवतयोर् अभेदात्। बीजाक्षरं

वा यथास्थानं पूजयेत्।

ततः पञ्चकामगुणान् उपढौकयेत्।

 

पण्चकामगुणैर् बुद्धान्

पूजयेद् वि
[धि]वत् सद।

पञ्चोपचरपुजभिर्

लघु बुद्धत्वम् अप्नुयत्॥

 

इति श्रीसमाजवचनात्॥

तद् एतेषाम् अक्षोभ्यादीनां यथासंख्यं मूर्त्या

वीणादिशब्दं दीपादिरूपं

चन्दनादिगन्ध
[] दुग्धादिरसं वस्त्रादि-

स्पर्शनीयं दद्यात्।

ततोऽसति वस्तुनि भावनया सर्वं निष्पाद्यम् इति

वचनात्। अन्य्[अत्र्]आपि मानसी महती

पूजा कर्तव्या। ननु मनसा

सर्वम् अनुष्ठेयम्

इति चेत्। कथम् अविद्यमाने वस्तुनि पूजा कृता बुद्ध-

त्वाय संपद्यते।

आह संपद्यते। कथम्। मनोपूर्वंगमत्वाद्

 

(14)

 

धर्माणाम्। तथा

हि। चित्तमात्रं भो जिनपुत्रा यद् उत त्रै-

धातुकम् इति। अन्यत्रापि

 

चित्तेन लभ्यते

बोधि
[श्] चित्तेन गतिपञ्चकम्।

न हि चित्ताद् ऋते  किं चित् लक्षणं सुखदुःखयोः॥

 

इति गतम् एतत्।

पश्चात्। ओं सर्वतथागतपूजामेघप्रसरसमूहः

फरहि संग-

गनकं हूँ। इति पूजाम्

अधितिष्ठेत्।

 

ततः। नमः सर्वबुद्धबोधिसत्वेभ्यो

दशदिग्लोकधातुव्यवस्थिते-

भ्यो निरवशेषसत्वधातुपरित्राणकरेभ्यः।

समन्वाहरन्तु मां

सर्वबुद्धबोधिसत्वाः

सपरिवाराः। अहम् अमुकनामा सर्वबुद्धबो-

धिसत्वेभ्यः सपरिवारेभ्यो

आत्मानं निर्यातयामि सर्वथा सर्वकालं

परिगृह्नन्तु मां

महाकारुणिकाः। अधितिष्ठन्तु माम् अशेषलोकधा-

तुपरित्रायका नाथा

अनुत्तरसिद्धिवरदायकाश् च मे भवन्तु रक्षां

च कुर्वन्त्व् इत्य्

आत्मभावनिर्यातना।

 

सर्वपापान् रागद्वेषमोहजा[न्] सार्वकालिकान्

अशेषान् यैश् चित्तोत्पादै
[र्]

बुद्धबोधिसत्वैर्

देशितं तैश् चित्तोत्पादै
[र्] देशयामि॥ यथा ते

बु[द्]धा भगवन्तोऽभ्यनुजानन्तीति

पापदेशना।

 

त्र्यध्वगतानां

सर्वबुद्धाबोधिसत्वानां सर्वश्रावकप्र-

त्येकबुद्धा[ना]ं सर्वसत्वानां

च ये पुण्यज्ञानसंभाराः। सत्व-

धातुविशोधकाः। सत्वधातुपरित्रायकाः।

लौकिकलोकोत्तरास् तान् सर्वान्

 

(15)

 

अनुमोदे। अनुत्तरया

अनुमोदनया। यथा ते बुद्धा बोधिसत्वाश् च

जानन्तीत्य् अनुमोदना।

 

ततो यथाभिमित[] स्तुति[] प्रणिधानं च कृत्वा

पुण्यपरिणा-

मनां कुर्यात्।

यथा ते तथागतार्हन्तः सम्यक्संबुद्धा बुद्-

धज्ञानेन बुद्धचक्षुषा

जानन्ति पश्यन्ति तत् कुशलमूलं यज्जातिकं

यन्निकाय[] यादृशं यत्स्वभावं

यल्लक्षणं यया धर्मतया

संविद्यते तथानुमोदे

तत् कुषलमूलम्। यथा च तथागतार्हन्तः

सम्यक्संबुद्धा

अनुजानन्ति परिणाम्यमानं तत् कुशलमूलम् अनुत्त-

रायां सम्यक्संबोधौ

तथा परिणामयामीति।

 

तदनु पुष्पाञ्जलिं

कृत्वा। ओं सर्वतथागतसुललितनमितैर् नमामि

भगवन्तम् अमुकनाथं

जाः हूँ वँ हूः प्रतीच्छेमं पुष्पाञ्जलिं

नाथ हाः इति पठित्वा

वन्दनां कुर्यात्।

 

प्रज्ञापारमितादीनाम्

इत्यादि सुगमनम्।

 

बोधिसत्वबलिं दत्वेति।

तत्रायं विधिः नमो रत्नत्रयाय।

नमो भगवते सुरूपाय

तथागतायार्हते सम्यक्संबुद्धाय। तद्

यथा। ओं सुर ३ प्रसुरु

३ तर ३ तर ३ सम्भर ३ स्मर ३ सन्तर्पय ३

सर्वप्रेताना[] स्वाहा। अनया धारण्या

उदकसहितं भक्त
[]

सप्त वारान् परिजप्याच्छटात्रयम्

दत्वा सर्वप्रेतेभ्यो विविक्तप्रदेशे

दातव्यम्॥ एवं च

वक्तव्यम्। अपसरन्त्व् अवतारप्रेक्षिणो ददाम्य् अहं

सर्वलोकधातुनिवासिनां

प्रेतानां आहारम् इति। एवं सर्वप्रेतानां

तण्डुलद्रोणभक्तं

प्रत्येकं दत्तं भवति। एवं क्षुधन् न कदा

चिद् दुर्बलो भवति

[] दरिद्रोऽपि तु जातौ महाबलः प्रासादिको

 

(16)

 

दर्शनीय आढ्यो महाभोगो

भवति दीर्घायुर् अरोगी क्षिप्रं चानुत्-

तरां सम्यक्संबोधिम्

अभिसंभोत्स्यते। च्युतश् च सुखावत्यां

लोकधाताव् उपपद्यत

इति बोधिसत्वबलिविधिः।

 

शासनस्य चिरस्थितिम्

इति। कुशलाभिवृद्ध्यर्थं प्रहृष्टचेतसा

शासनस्य चिरस्थितिम्

आशंसयेत्। तथा चाह

 

येन येन प्रकारेण

चिरं तिष्ठतु शासनम्।

तियाशंसावतः पुंसो.....

 

.... सदा सौख्यम् आयुर्

आरोग्यसंपदः।

 

इत्यादिदानगाथा

आवर्तनीया। आदिशब्दात् पिण्डपात्रपरिशोधनै
[] नाम

धारणीम् आवर्तयेत्॥

नमः समन्तप्रभराजाय तथागतायार्हते सम्यक्-

संबुद्धाय। नमो

मञ्जुश्रिये कुमारभूताय बोधिसत्वाय महासत्-

वाय महाकारुणिकाय॥

तद् यथा। ओं निरालम्ब निराभाष जयलब्ध

महामते दक्ष दक्षिणां

परिशोधय स्वाहा॥ य इमां धारणीं सकृद्

उच्चारयिष्यति।

सुमेरुमात्रपिण्डपात्रं परिशोधयिष्यतीति।

 

बोधिसत्वक्रियाः

सर्वत्
[र्]अ यथाशक्तितः श्रीमद्गुरुभट्टारकपाद

...................... दानप्रियवचने॥

अर्थचर्यासमानार्थतया

 

(17)

 

सत्वसंग्रहः। तथा

ध्यानाध्ययनमन्त्रजापसद्धर्मश्रवणव्या-

ख्यानमहापुरुषालाय

(?)

 

अन्य्[अत्र्]आपि शिक्षासमुच्चय-आद्युक्तम्।

यो बोधिसत्वक्रियया दिनम्

अभिवाहयेत्....

हृष्टचेतसेति। न

मन्दचित्तेन सर्वदा मुदितचित्तेन नाप्य् अन्यचित्-

तेन॥ तथा चोक्त[] विध्याधरपिटके

 

जपास् तपांसि सर्वणि

दीर्घकलकृतन्य् अपि।

अन्यचित्तेन मन्देन

सर्वं भवति निष्फलम्॥ इति।

 

पुनः प्रदोषवेलायाम्

इत्यादि सद्धर्मस्वाध्यायादिना पूर्वरात्रं

जागरिका कर्तव्या॥

ततो नमः सर्वबुद्धबोधिसत्वेभ्य इत्यादिना पूर्-

वोक्तगाथाया सर्वबुद्धबोधिसत्वेभ्यः

पञ्चाङ्गेन प्रणम्य स्वेष्ट-

देवतायोगयुक्तः॥

नमो भगवत्यै प्रज्ञापारमितायै भक्तिवत्सलायै।

सर्वतथागतसर्वपारमितापरिपूरितायै॥

तद् यथा ओं सिद्ध २ बुद्ध

२ बोधय २ चल २ तिष्ठ

२ ह्रीः कम्प २ राव २ गच्छ २ आगच्छ २

भगवति मा विलम्ब

अलं स्वाहा। अनया धारण्या दक्षिणबाहुम्

एकविंशतिवारान्

परिजप्य तस्योपरि शिरं दत्वा सिंहसज्या स्वपेत्।

 

उत्थाने च पुनः

कार्येत्यादि। अपररात्रौ यत् कर्तव्य
[] तादर्-

थ्[य्][म्] []वोक्तम्। रात्रौ

तृतीयप्रहरोपरीत्यादिना।

 

आदिकर्मिकबोधिसत्वानां

मार्गस् तावद् अयं मतः संमतः

 

(18)

 

सर्वबोधिसत्वानाम्।

एवं कुर्वतां कुलपुत्राणां कुलदुहितॄणा
[] वा

अचिरेणैव बोधिर्

आसन्ना भवतीति।

 

वीहारेन्दपदेवपालरचितश्रीविक्रमाक्षस्थितः

श्रीमत्सौगतशासनैकतिलकः

ख्यातो
[]द्वितीयः कृती।

शीलाढ्यश् चिरब्रह्मचर्यचरितो

धर्मकरह् शान्तधीः
(?)

तस्यादेशकरो बभूवऽनुपमस्

तेनादिकर्मोद्धृतम्॥

 

अदिकर्मप्रदीपो

[] प्रदीप इव तिष्ठतु।

करोतु शासनालोकं

यावद् आकाशसंतति
[]

 

अधिकर्मप्रदीप[] समाप्त[] कृतिर् आचार्यानुपमवज्रस्य।

 

श्रेयोऽस्तु। संवत्

२०० १० ८ आश्विनकृष्णे अष्टम्यां श्रीविद्याधरवर्-

मसोमकारितश्रीयशोधरवर्ममहाविहार्यः।

वज्राचार्यः श्रीशाक्य-

भिक्षुः।


(19)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project