Digital Sanskrit Buddhist Canon

मन्त्रोद्धार

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

मन्त्रोद्धार

नमो बुद्धाय॥

 

श्रीगुह्यसमाजमहायोगतन्त्रस्य

साधनोपायिकानुपूर्वीं दर्शयन्नाह-

 

मन्त्रावधारणं पूर्वं

द्वीतीया न्यासदेशना।

व्यवस्थोलिस्तृतीया

च चतुर्थं तत्त्वदर्शनम्॥

 

इति। अस्य सूत्रस्यायमर्थः

- प्रथमं तावदशेषमन्त्रपदं साधना-

ङ्गादुद्धृत्य चेतस्येवावरोप्यावधारयेदिति

मन्त्रावधारणं पूर्वम्। ततः

स्कन्धधात्वायतनादिषु

वैरोचनाद्याकारेण स्वकायमण्डले न्यसेदिति

द्वितीया न्यासदेशना।

विन्यस्तदेवतानामेकैकस्यानुपूर्वेण स्वलक्षणं

परिज्ञाय निरूपितं

देवताचक्रमिति व्यवस्थोलिस्तृतीया।

सूक्ष्मयोगेनैकीकृत्य

प्रवेशस्थितिव्युत्थानैर्मन्त्रान्न्यसेदिति चतुर्थं तत्त्व-

दर्शनम्॥

 

इदानीं मन्त्रावधारणमन्त्रो

लिख्यते- वज्रघृक्। हूं। ओं सुम्भ

निसुम्भ हूं गृह्ण

गृह्ण हूं गृह्णापय गृह्णापय हूं आनय हो भगवन् विद्याराज

 

()

 

हूं फट्। ओं घ ४

घातय घातय सर्वदुष्टान् फट् २ कीलय २ सर्व-

पापान् फट् २ हूं

२ वज्रकील वज्रधरो आज्ञापयति सर्व विघ्नानां काय-

वाक्चित्तवज्रं

कीलय २ हूं २ फट् २। टक्कि हूं जः। हूं। भ्रूं। ओं आः

हूं। अनेन रक्षाचक्रालम्बनम्॥

 

अभावे भावनाऽभावो

भावना नैव भावना।

इति भावो न भावः

स्याद्भावना नोपलभ्यते॥

 

निःस्वभावालम्बनम्॥

 

हूं यं हूं। हूं

रं हूं। हूं वं हूं। हूं लं हूं। चतुर्मण्डलनिष्पादनम्॥

भ्रूं। कूटागारनिष्पादनम्॥

 

ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम्।

परमार्थमण्डलप्रवेशः॥

सूर्यचद्रपद्मं

च त्र्यक्षरवालं च। पर्यन्ते चन्द्रमण्डलालम्बनम्॥

ओं धर्मधातुस्वभावात्मकोऽहम्।

दृढीकरणम्। इति योगः॥

ओं आः हूं। महावज्रधरनिष्पादनम्।

अनुयोगः॥

ओं आः हूं स्वां

हा। पञ्चस्कन्धानुप्रवेशः॥

मोहरति द्वेषरति

रागरति वज्ररति। धात्वनुप्रवेशः॥

थ्लीं ओं ओं ओं

हूं ओं सं मैं। चक्षुराद्यायतनानुप्रवेशः॥

 

()

 

हूं। यमान्तक-प्रज्ञान्तक-पद्मान्तक-अमृतकुण्डलि-अचल-टक्किराज-

नीलदण्ड-महाबल-उष्णीषचक्रवर्ति-निसुम्भराजश्चेति

स्वकायमण्डल-

निष्पादितस्वभावालम्बनं

चेति। अतियोगः॥

 

ओं। अनेन लोचनाव्यूहस्फरणं॥

 

बुद्धकायधरः श्रीमांस्त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य

करोतु कायवज्रिणः॥

 

दशदिक्संस्थिता

बुद्धास्त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य

कुर्वन्तु कायवज्रिणः॥

 

अनेन प्रार्थना॥

 

यत्कायं सर्वबुद्धानां

पञ्चस्कन्धप्रपूरितम्।

बुद्धकायस्वभावेन

ममापि तादृशं भवेत्॥

 

ओं सर्वतथागतकायवज्रस्वभावात्मकोऽहम्।

अनेन कायवज्राधि-

ष्ठानम्॥

आः। पाण्डरवादिनीव्यूहस्फरणम्॥

 

()

 

धर्मो वै वाक्पथः

श्रीमांस्त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य

करोतु वाग्वज्रिणः॥

 

दशदिक्संस्थिता

बुद्धास्त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य

कुर्वन्तु वाग्वज्रिणः॥

 

अनेन प्रार्थना॥

 

येदेव वज्रधर्मस्य

वाचा निरुक्तिसम्पदा।

ममापि तादृशी वाचा

भवेद्धर्मधरोपमा॥

 

ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहम्।

अनेन वाग्वज्राहङ्कारं

कुर्यादिति वाग्वज्राधिष्ठानम्॥

 

हूं। मामकीव्यूहस्फरणम्॥

 

चित्तवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य

करोतु चित्तवज्रिणः॥

 

दशदिक्संस्थिता

बुद्धास्त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य

कुर्वन्तु चित्तवज्रिणः॥

 

अनेन प्रार्थना॥

 

()

 

यच्चित्तं समन्तभद्रस्य

गुह्यकेन्द्रस्य धीमतः।

ममापि तादृशं चित्तं

भवेद्वज्रधरोपमम्॥

 

ओं सर्वतथागतचित्तवज्रस्वभावात्मकोऽहम्।

अनेन चित्तवज्राहङ्कारं

कुर्यादिति चित्तवज्राधिष्ठानम्॥

 

ओं सर्वतथागतकायवाक्चित्तवज्रस्वभावात्मकोऽहम्।

अनेन महावज्र-

धराहङ्कारं कुर्यादिति॥

 

हूं। अनेन समाधिसत्वालम्बनम्॥

 

एवं त्रिसत्वात्मकं

महावज्रधरमात्मानं निष्पाद्य देवतीसंस्कारं कुर्यात्।

अनेन क्रमेण- ओं

आः हूं स्वा हा। लोचना मामकी पाण्डरवासिनी

समयतारा। रूपवज्रा

शब्दवज्रा गन्धवज्रा रसवज्रा स्पर्शवज्रा। वज्र-

वेताली अपराजिता

भृकुटी विश्ववज्री विश्वरत्नी विश्वपद्मी विश्वकर्मी

गगनवज्रिणी धरणींधरी

चेति प्राकृतस्त्रीभावापनयनम्॥

 

ओं हूं। वज्रसंस्कारः॥

आः। पद्मसंस्कारः॥

 

ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहम्।

रत्नसम्भवाधि-

ष्ठानम्॥

हूं। चालनं॥

 

()

 

फट्। उत्सर्गः॥

 

ओं सर्वतथागतपूजावज्रस्वभावात्मकोऽहम्।

अमोघसिद्ध्यधिष्ठानम्॥

 

उत्सर्गमण्डलस्य

मन्त्रपदानि भवन्ति- वज्रधृक् जिनजिक् रत्नधृक्

आरोलिक् प्रज्ञाधृक्

मोहरति द्वेषरति रागरति

वज्ररति रूपवज्रा

शब्दवज्रा गन्धवज्रा रसवज्रा स्पर्शवज्रा मैत्रेयः

क्षितिगर्भः वज्रपाणिः

खगर्भः लोकेश्वरः मञ्जुश्रीः

सर्वनिवरणविष्कम्भी

समन्तभद्रः यमान्तकृत् प्रज्ञान्तकृत् पद्मा-

न्तकृत् विघ्नान्तकृत्

अचलः टक्किराजः नीलदण्डः महाबलः

उष्णीषचक्रवर्ती

सुम्भराजश्चेत्युत्सर्गमण्डलम्॥

 

सुक्ष्मयोगः॥

 

ओं आः हूं। वाग्जापः॥

 

त्वं वज्रचित्त

भुवनेश्वर सत्त्वधातो

त्रायाहि मां रतिमनोज्ञ

महार्थकामैः।

कामाहि मां जनक

सत्त्वमहाग्रबन्धो

यदीच्छसे जीवितुमद्य

नाथ॥

 

त्वं वज्रकाय बहुसत्त्वप्रियाङ्कचक्र

बुद्धार्थ बोधिपरमार्थं

हितानुदर्शी।

 

()

 

रागेण रागसमयां

मम कामयस्व

यदीच्छसे जीवितुमद्य

नाथ॥

 

त्वं वज्रवाच सकलस्य

हितानुकम्पी

लोकार्थकार्यकरणे

सद सम्प्रवृत्तः।

कामाहि मां सुरतचर्य

समन्तभद्र

यदीच्छसे जीवितुमद्य

नाथ॥

 

त्वं वज्रकाम समयाग्र

महाहितार्थ

सम्बुद्धवंशतिलक

समतानुकम्पी

कामाहि मां गुननिधिं

बहुरत्नभूतां

यदीच्छसे जीवितुमद्य

नाथ॥

 

परमार्थप्रविष्टस्य

सञ्चोदना॥

 

अक्षोभ्यवज्र महाज्ञान

वज्रधातु महाबुध।

त्रिमण्डल त्रिवज्राग्रि

भाष गुह्यं नमोऽस्तु ते॥

 

वैरोचन महाशुद्ध

वज्रशान्त महारते।

प्रकृतिप्रभास्वरान्धर्मान्देश

वज्र नमोऽस्तु ते॥

 

()

 

रत्नराज सुगाम्भीर्य

खवज्राकाशनिर्मल।

स्वभावशुद्ध निर्लेप

भाष गुह्यं नमोऽस्तु ते॥

 

वज्रामित महाराज

निर्विकल्प खवज्रिणः।

रागपारमिताप्राप्त

भाष वज्र नमोऽस्तु ते॥

 

अमोघवज्र सम्बुद्ध

सर्वाशापरिपूरक।

शुद्धस्वभावसम्भूत

वज्रसत्व नमोऽस्तु ते॥

 

पूवप्रणिधानवशाद्व्युत्थितस्य

स्तुतिकरणम्॥

हूं॥ अनेन मन्त्रोपसंहारः॥

 

इति श्रीगुह्यसमाजमहायोगतन्त्रे

भवोत्पत्तिक्रमसाधनस्य मन्त्रोद्धारः

समाप्तः॥ कृतिरियं

चन्द्रकीर्तिपादानाम्॥॥

 

()

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project