Digital Sanskrit Buddhist Canon

दण्डिकथा

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

दण्डिकथा

 

कस्मिंश्चिद् देशे

दण्डीत्यभिहितो ब्राह्मणः कश्चित् प्रतिवसति स्म।
[] नितरां दीनोऽशनेन

हीनो
[बभूव][स च] वसनैर् [अपि] हीनो बभूव। तेन कस्माच्चिद् गृहपतेर्वृषः कश्चिद् धारितः। दिवाभागे स

वृषभं कर्मणि नियोज्य पश्चात् तमादाय च तस्य गृहपतेर्गृहं जगाम।

 

तत्र [गृहे] गृहपतिर्हि भोज्यं

बुभुजे। दण्डिना स च वृषो भवनस्य
[अजिर-] मध्ये त्यक्तः।

ऋषभो द्वारान्तरं क्रान्त्वा नष्टो बभूव। स गृहपतिरपि भुक्त्वा तद् भोज्यमुत्तस्थौ।

तत्र
[गृहचत्वरे] च वृषं नावलोक्य तेन [गृहपतिना] "वृषभः क्कास्ती"ति दण्डी पप्रच्छे।

 

तेन [दण्डिना] [प्रत्य्-] उक्तम् - "तव गृहे मुक्तः" [इति][गृहपतिः पुनर्] उवाच - "त्वया मे पुंगवो

यतस्त्यक्तः
[अतस्तं त्वं मे] प्रत्यर्पये" ति।

तेन [दण्डिना] उत्तरितम् - "न मया [वृषो] नाशितः" इति।

ततस्तौ सहितौ " राज्ञः सकाशं गच्छाव।[ स राजा] आवयोर्न्याय्यत्वम्

अन्याय्यत्वं च विचारयिष्यती
" त्युक्त्वा जामतुश्च।

[तदा] कस्यचिज् जनान्तरस्य

काश्चिदश्वा
[छिन्नबन्धना सर्ता] पलायितवती। तेन [जनान्तरेण] दण्डी ["क्क ममाश्वे"ति] पृष्टः।

 

[दण्डी प्रत्य-] उवाच - "[मया वृषवत्] तुर्ङ्गमा[ऽपि बन्धनान्] नोचिते" ति।

[ततस्] तेन [दण्डिना अश्वागतिरोधार्थ]उपलः कश्चिज् जगृहे

अश्वां
[प्रति] निचिक्षिपे च [;] [स चोपलः] अश्वायाः पदमेकमाहत्य

[तद्] बभञ्ज।

तेन[जनेन] जगदे - "यतस्त्वया तुरगा

मम मारिताऽतः प्रतिदेहि
[मे] ममाऽश्वाम्" [इति]

[दण्डिनोक्तम् -] "कस्य हेतोरश्वां

दास्यामि
?" [इति]

[जनेन] तेनाऽऽकारितम्

-
"इहागच्छ। नृपस्य सविधे च व्रजाव। [] आवयोर्विचारनिष्पत्तिं

करिष्यती
"ति।

तदा तौ जग्मतुश्च।

[ततो वैरिभयात्] स दण्डी पलायितुमारेभे।

[अपसरणावसरे] स च कस्यचित् कुडयस्याधस्ताद् अवपुप्लुवे। तस्य पुरतस्तन्तुवायः कश्चित्

तन्तून् संवायासीनः। तस्य
[कुविन्दस्य] उपरिष्टात् [दण्डी] पपात। स च तन्तुवायः कालगतः। [ततस्] तन्तुवायस्य भार्यया

स दण्डी
[करे] दध्रे।

[सा] उवाच - "यतस्त्वया मम भर्ता

निहतः
[अतः] प्रतियच्छ मे भर्तारम्" इति।

[दण्डी प्रत्य्-] उवाच - "कथं ते स्वामी मया

प्रतिदायिष्यते
?" इति।

[सोवाच-] " इत एहि [;] राज्ञः सन्निधिं

गच्छाव। तेनावयोर्विचारो निष्पादयिष्यत
" इति [.

tatastau]
जग्मतुः।

[तेषां गमन-] मार्गस्य मध्ये

काचिद् गम्भीरा नदी बभूव। सलिलस्य तस्य सम्मुख
[तटे] सूत्रधरः कश्चिन्

मुखेन कुठारमुद्रहन्नागतः। पप्रच्छे स च दण्डिना -
"कियज् जलस्य गाम्भीर्यम्" इति।

"गभीरताऽस्ति नीरस्ये" ति कथनेन [सूत्रधरस्य] कुठारो जले पपात।

[तक्षा] परशुं च न प्राप। तेन [तक्षणा] दण्डी [हस्ते] कगृहे।

[सूत्रधरेणाधिंक्षिप्तो

-
] "त्वया मे परश्वधः पयसि पातितः " [इति]

 

तेन [दण्डिना प्रत्य्

-
] ऊचे - "[मयाऽयम्] अस्तः" [इति]

"इहाऽऽयाहि [;] नृपतेः सकाशं च

प्रसराव। तेनाऽऽवयोर्निर्णयो विधास्यत
" इति वदिंस्वा [तौ] जग्मतुः।

[ततस्] ते [सर्वे] गत्वा च नरपतेः

सन्निधिं प्रापुः। ते भूभृतश्चरणे शिंरसा प्रणेमुः
[,] एकपार्श्वे [] निषेदुः।

ततश्च भूपतिंना

ते पप्रच्छिरे -
"किंमर्थं यूयमागताः" इति।

[तदा] तैः सर्वैर्दण्डिगृहपत्योर्विवादो

[राज्ञे] विवृतः।

[तद् विवरणमाकर्ण्य] भूपेन दण्डी बभाषे

-
"किं त्वया वृषो धारित ?" इतिं।

[दण्डी गिरमाददे

-
] "अथ किंम्" [इति]

[राजोवाच -] "यावत् प्रतियच्छ

[वृषभम्][तथा]प्रतिदेहि यथा गृहपतिना [पुंगवः प्रत्यर्णणकाले] दृश्यते" [इति]

[दण्डयुवाच - ] "ससम्बोधनं हि न

[वृषो गृहपतये प्रति -]दत्तः" [इति]

नराधिपेनोद्धोषितम्

-
"यतोऽमुना दण्डिनाऽऽभाषणमन्तरेण वृषभः प्रतिददे [अतोऽस्य] रसनां छिन्धि।

यतो हि गृहस्वामी वृषमागच्छन्तं पश्यन्नपिं न बबन्ध
[अतोऽस्य] नयनम् [एकम्] उत्पाटये" ति।

गृहपतिंनोचे - "प्रथमतो मम वृषो

दण्डिना नाशितः। द्वितीयतो मम नयनापनयनं यतो वरमतो
[विवादे] दण्ड्येव जयी भवतु" [इति]

जनेन केनचित् [तुरङ्गमाखामिना] ऊचे - "देव दण्डिना ममाश्वा

मारिते
" ति।

नृपेण दण्डी पप्रच्छे

"कथं त्वयाश्वा निहते" ति।

[दण्डी चचक्षे -] " यदाहं पथा गन्तुमारब्धवांस्तदा

[तुरङ्गमा] सनागता। जनेनाऽनेनाऽश्वा [बन्धनान्] न मोचितेति [सा स्वयमुच्छिन्नबन्धना

] तदा प्राप्ता।[तस्या जवनिरोधार्थं] मयाऽश्मा कश्चिदात्तः।

[ग्रावाणं तं] निरत्याश्वा [सा मया] निहता" इति।

नरपतिनोचे - "अश्वपतिनाऽश्वा

[बन्धनान्] न मोचितेति हेतोरस्य रसनां छिन्धि। दण्डिनोपलो निचिक्षिप इति बाहुम्

[अस्यैकं] कृन्धि" [इति]

 

जनेन तेन [सप्तिपतिना] प्रोक्तम् - "प्रथमतो मम घोटकी

हता। द्वितीयतो यतो जिंह्वा मे छेत्स्यते वरमतो दण्डयेव जयी भवतु
" [इति]

[ततस्] तन्तुवायस्य भार्यया

बभाषे -
" भर्ता मे दण्डिना हतः" [इति]

दण्डिना [नृपाय] निवेदितम् - "वर्धिता मम शत्रव

इति भीतः
[सन्नहं] प्राचीरादवप्लुत्य पलायितवान्। [तेन च] अन्तराले आसीनोऽदृष्टो

जनः
[कुविन्दो] निहतः" [इति]

नरपतिनोचे - "[तद्] गच्छ, [दण्डिन्,] अस्या एव भर्ता

भव
" [इति]

तया [तन्तुवायजायया] जगदे - "प्रथमतो मे खामी

मृतः। द्वितीयतो यतोऽयं
[वैधेयो] धवो [मम] भविष्यति वरमतो दण्डयेव जयी भवतु [निर्णये" इति]

[ततः] सूत्रधरेणोदीरितम्

-
"यतोऽयं दण्डी मां पृष्टवान् 'कियज् जलस्य गाम्भीर्यमि'ति [अतो मम] मुखाद् विधृतः

कुठारो नीरे पतितः
" [इति]

भूपेन मणितम् -

"यत् किञ्चिदपि हार्य वस्तु स्कन्धे वहनस्य योग्यमिति हेतोर् [अनेन] यत आनने [परशुर्] ऊढः [अतः] पूर्वम् [अस्य] सूत्रधरस्य दन्तद्वयं

भङ्ग्धि।
'किम् [अस्त्य्] अम्भसो गाम्भीर्यमि'ति यतः [पप्रच्छे] दण्डी [अतोऽस्य] जिह्वां छिन्धि" [इति]

[तदा] सूत्रधरेणोक्तम्

-
"प्रथमतो मम परशुर्नष्टः। द्वितीयतो मम रदनभञ्जनं यतस्ततो वरं जयतु दण्डी" [इति]

[एवं] ते सर्वे [स्वस्वोचितां] पृथग् विचारनिष्पत्तिं

चाक्रिंरे। दण्डी
[] सर्वापराधेभ्यो मुमुचे इति॥

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project