Digital Sanskrit Buddhist Canon

समन्तभद्र नाम साधन टीका

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

समन्तभद्र नाम साधन
टीका

 

आदियोग नाम समाधि

 

[न चाभावऽपि निर्वाणम्] कुत एवास्य भावता।
भावाभाव-

परामर्षक्षयो निर्वाणम्
उच्यत इति। भगवताप्य् उक्तं। अनिर्वाणं हि

निर्वाणं लोकनाथेन
देशितं। आकशेन कृतो ग्रन्थिर् आकाशेनै व मोचित

इति। तद् इयता सेवा
नाम प्रथमम् अङ्गं हेतुसदृश देवताख्यं

मृदुनिष्यन्दफलम्
उक्तम्॥

 

(५०)

 

॥द्वितीयम् अङ्गम्
आह। तदन्व् इत्य् अधिष्ठानानन्तरम्। निज

बीजभाभिर् इति क्षितिगर्भादीनां
षण्णां

बीजैर् यथाक्रमं
क्षिंकारादिभिश् चक्षुरादिस्थानेषु स्वस्वचिह्नवरटक-

स्थितैः। तेषाम्
एव भाभिश् च तैर् एव सप्रभैर् इत्य् अर्थः। तद् एवन्

निजबीजभाभिर् हेतुभिर्
निष्पन्ना ये क्षितिगर्भादयः।

षट् तैश् चक्षुरादीन्य्
आपूर्य ध्यायाद् इति परेण

सम्बन्धः। यथास्वम्
इति चक्षुःस्थाने चन्द्रस्थचक्रमध्यस्थित-

चन्द्रस्थभास्वत्क्षिंकारजं
क्षितिगर्भं श्रोत्रादि स्थानेषु

वज्रपाण्यादिकं
विधिवद् भावयेद् इत्य् अर्थः।

 

(५२)

 

अनेनोपसाधनन् नामाङ्गं।
सर्वज्ञतालक्षणमृदु
(विपाक) विपाकफलम्

उक्तम्। चक्षुरादीनां
विशुद्धस् तद्विषये सूक्ष्मादिविशेष

परिज्ञानसंभवात्।
अमलेत्यादिना तृतीयम् अङ्गम् आहा॥ अमले

स्वहृदीन्दौ वज्रवरटकमध्यस्थं

हूंकारेण चित्तवज्रं
ध्यायाद् इत्य् अर्थः।

 

(५४)

 

वदनशिरसा यथाक्रमं
ये कमलचक्रे

तस्य नाभौ मध्यभागे
आःकारेण वाग्वज्रं।

प्रणव ओंकारस् तेन
कायवज्रं ध्यायाद् इति

सम्बन्धः

 

तेषां चित्तवज्रादीनां
हृदयानि तेषां। रश्मि निवहाः

। इह हि तद्धृदयेषु
चन्द्रस्थवज्रपद्मचक्रस्था

यथाक्रमं हूं आः
ओंकारा द्रष्टव्याः। तेषां रश्मि निवहा इत्य् अर्थः।

 

(५६)

 

तैस् सत्प्रज्ञासङ्गभासिभिः।

मयूखमुखनिर्गतरूपवज्रादिपूजादेवी
रूपैः परितो दशदिग्-

अवस्थितान् जिनेन्द्रान्
संपूज्य तैर् एव

जिनेन्द्रैः पूजितैः।
सत्प्राज्ञासङ्गभासिभिः। पश्चाद् इति चित्तवज्रधरः

श्रीमान् इत्यादिक्रमेण
चित्तवज्रादीन् अधितिष्ठेत्।

 

चित्तवज्रधरह् श्रीमांस्
त्रिवज्राभेद्यभाविनः।

अधिष्ठानपदं मेऽद्य
करोतु चित्तवज्रिणः॥५८॥

(=गुह्यसमाज XII,74 )

 

त्रिवज्राभेद्यभाविन
इति त्रिवज्रकायवज्रादि तदभेदभावितस् तत्स्वभाव

इत्य् अर्थः।

 

दशदिक्संस्थिता
बुद्धास् त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य
कुर्वन्तु चित्तसम्भवाः॥५९॥

(=गुह्यसमाज XII,75 )

 

(५८)

 

ओं सर्वतथागतचित्तवज्रस्वभावात्मकोऽहं

 

धर्मो वै वाक्पथः
श्रीमांस् त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य
करोतु वाक्यवज्रिणः॥६०॥

(=गुह्यसमाज XII,72 )

 

धर्मो वाग्वज्रह्[] वाक्पथ इति वचनस्थापनोपपन्नः।
शेषन् तु

प्रसिद्धम् एव।

 

दशदिक्संस्थिता
बुद्धास् त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं तस्य
कुर्वन्तु वाक्पथोद्भवम्॥६१॥

(=गुह्यसमाज XII,73 )

 

ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहं

 

बुद्धकायधरः श्रीमांस्
त्रिवज्राभेद्यभावितः।

अधिष्ठानपदं मेऽद्य
करोतु कायवज्रिणः॥६२॥

(=गुह्यसमाज XII,70 )

 

दशदिक्संस्थिता
बुद्धास् त्रिवज्राभेद्यभाविताः।

अधिष्ठानपदं मेऽद्य
कुर्वन्तु कायलक्षितम्॥६३॥

(=गुह्यसमाज XII,71 )

 

(६०)

 

ओं सर्वतथागतकायवज्रस्वभावात्मकोऽहं

 

ततो गाथामन्त्रैर्
अधिष्ठितस्यास्य त्रिवज्रस्य विशुद्धिरूपताम् आख्यातुम् आह॥

गगनोपमेत्यादि।
ग्राह्यादिलक्षणापगत

त्वाद् एव गगनोपमस्वभावं
शून्यता

रूपम् इदं त्रिवज्रं
द्रष्टव्यम् इत्य् अर्थः। तद् इत्थं

त्रिवज्रं विशुद्ध
रूपम् आल
[क्ष्य] स्व[कु] लोद्भासिमौलिः स्याद् इति

परेण सम्बन्धः।
इयता तु साधनन् नामाङ्गं॥ धर्म्मसम्भोग-

निर्म्माणलक्षणकायत्रितयविशुद्धि
रूपमृदुपुरुषकारफलम् उक्तं।

चित्तवज्रादीनां
यथाक्रमं
[धर्म]कायादिरूपत्वात्॥

 

(६२)

 

॥ चतुर्थम् अङ्गम्
आहा। संचोद्येत्य् आदि। इह खलु चित्तवज्रादिनिष्पादनवेलायाम्

एव चित्तवाग्वज्रयोर्
अन्तराले ज्ञानसत्वो भगवान् समयसत्त्वरूपी

चन्द्रस्थखड्ग मुष्टिमध्यस्थचन्द्रे
निषण्णो द्रष्टव्यस् तस्य

हृत्प्रभाभिः सकलाकाश
वलयवर्त्तिमुनि-

वृन्दम् इति सर्वदिक्समूह-

स्थितं। सुगतनिवहं
संचोद्य

 

(६४)

 

तेषाम् संचोदितानां
मुनिवराणां मरीचिभ्यो

निर्गता ये विद्यागणा

रूपवज्रादयस् तेषां
करैः समुद्धृता ये

ज्ञानापूर्ण्णाः
कलशास् तैः कलशैर् ज्ञानाम्ब्व्

अभिषिक्तः सन्।
मञ्जुवज्रात्मयोगी स्वकुलो-

द्भासिमौलिः स्यात्।
अस्य स्वकुलेशो

ऽक्षोभ्यस् तेनोद्दीपितमौलिर्
भवेत्। अभिषेकानन्तरं मञ्जुश्री मकुटे

अक्षोभ्यो द्रष्टव्य
इत्य् अर्थः। अनेन महासाधनम् अङ्गम् अभिषेक-

रूपमृदुवैमल्यफलम्
उक्तं। ज्ञानोदकाभिषेकेण वैमल्यायार्दनात्। तद्

एवं सेवादीनि चत्वार्य्
अङ्गानि प्रधानदेवता गतत्वाद् उत्तमशब्द-

विशेषणानि सकलविपक्षापनयनाशक्तत्वेना
पटुत्वान् मृदूनि यथास्वं

फलयुक्तान्य् उक्तानि।

 

(६६)

 

इदानीम् अपराणि
चत्वारि सेवा निष्यन्दादीनि। प्रज्ञाविशोधनानि। मृदु
[]

धिमात्रयोश् चतुरंगयोर्
म्मध्यवर्त्तित्वान् मध्यशब्दविशेष णान्य् आह।

तद्वद् इति। मञ्जुवज्रवत्
सेवादिक्रमेण विद्यां संवीक्ष्य

तत्वज्ञो मन्त्री
सुगतान् अनुरागयामीत्य् अधिमोक्षेण तया

सह रतिम् आरभेद्
इति सम्बन्धः। तान्य् एव सेवादीनि दर्शयन् विद्याम् विशिनष्टि।

स्वहृदे ति मञ्जुवज्रबीजेन
निर्मितां। स्व

देवताभाम् इति।
मञ्जुवज्राकारा। एते न्यस्याः सेवा
[.]

मध्यनिष्यन्दफलाः
सूचिताः।

 

(६८)

 

आपूर्ण्णचक्षुराद्याम्
इति। तद्वद् एव स्वबीज-

निष्पन्नैः क्षितिगर्भादिभिर्
निष्पादितचक्षुरादि- षट्कामेनोपसाधनं

मध्यमविपाकफलं सूचितं
त्र्यक्षरं। हूं आः ओंकारास्

तेषां पूर्वदेवचित्तवज्रादिरूपेण
पूर्वोक्तस्थानेषु ध्यानं विन्यासं

एतेन साधनं मध्यपुरुषकारफलं
सूचितं।

तदनन्तरं पूर्वदेवज्ञानोदकाभिषेका-
दिना भास्वरं निर्म्मलशरीरं

यस्याः सा अक्षरविन्यासभास्व[रशरी]रा

एतेन महासाधनम्
मध्य- वैमल्यफलं सूचितं।

 

(७०)

 

ताम् एवंभूतां पञ्चकुलकलापिनीत्वेन
विशिनष्टि। शिरसि हृदि

नाभौ गुह्ये। ऊरुयुग्मादिके
च।

यथाक्रमम्। ओं हूं
स्वा आः हा इत्य् एतैर् बीजर्
[र्] निष्पादितानि यानि

कायमनोवज्रसत्कुलाद्यानि
कायवज्ररूपं

सत्कुलन् तथागतकुलं।
एवम् मनोवज्रसत्कुल
[] वज्रकुलं। आद्यशब्दाद् र

त्नकुलम्। पद्मकुलं
कर्म्मकुलं च गृह्यते।

 

(७२)

 

तैः पञ्चभिर् यथाक्रमं
अधिष्ठिताङ्गी

जगत्त्रयव्यापि
सत्प्रभावलयाम्

इति। त्रैधातुकव्यापिस्फुरत्करनिकराम्।
आः कारेण

कृतविचित्रकर्ण्णिकश्
च। हूंकारेण

विनिर्मिताष्टदलश्
च कमलं

यस्याः सा तथोक्तां।

 

(७४)

 

ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहं

 

ताम् ईदृशी[] संवीक्ष्य किंभूतो
रतिम् आरभत

इत्य् आह॥ सत्प्रज्ञा
हेतु जनक वज्रधरप्रज्ञा। तन्

निष्यन्दस्वभावः।
सोपायभूतो

निजदेहो यस्य मन्त्रिणः
स तथोक्तं।

वज्र[] मन्त्रिणो हूंकारेण
निष्पाद्यं। अत एवानन्तरं वक्ष्यति।

हूं वज्रनिर्गतामलम्
इति। अनुरागणयोगाधिष्ठानमन्त्रम् आह॥ ओं

इत्यादि॥॥ इयता
ग्रन्थेणादियोगो नाम प्रथाम
[समाधि] निरुक्तः॥

 

(७६)

 

इदानीम् अपराणि
चत्वारि सेवानिष्यन्दादीनि सर्वदेवता
() गतत्वात् ()

सामान्यानि ज्ञानविशेषवशाद्
अधिमात्रशब्द विशेषणानि वक्तुं मण्डलराजाग्रीसमाधिम् उत्पत्ति क्रमेणाह। हृच्चन्द्रेत्यादि।

 

(७८)

 

ज्ञानसत्वहृच्चन्द्रस्थमुष्टिस्थितचन्द्रस्थो
मन्त्रो हृच्चन्द्रमन्त्रः

तस्य भाभिर् न्निःशेष
बुद्ध

सन्दोहं। स्वशरीरे
मुखेन प्रवेश्य

समस्तनिजमाण्डलेय
रूपेण

स्वहृतप्रसूतं ध्यात्वा
लोकहितहेतुः

स्थिरचित्तः समुत्सृजेद्
इति

सम्बन्धः () हूंकारेण वज्रं
हूंवज्रं तन्मार्गेण

निर्गतञ् च तद्
अमलञ् च सन्मनोरूपम्

इति प्रवेशित बुद्धसमूहपरिणामजं
बोधिचित्तं। अंभोरुहवत्ती

ति देवीकमलोदरवर्त्तिध्यात्वा

 

(८०)

 

स्वहृत्प्रसूतम्
इति। स्वहृद् यथोक्तो मंकारो।

तत्परिणतक्रमेण
समस्तनिज माण्डलेयदेवतारूपेण्

ओत्पन्नं तद् एव
बोधिचित्तम् ईदृशं ध्यात्वा

इति वक्ष्यमाणेन
विधिना समुत्सृजेत्

कूटागार[] मण्डले स्थापयितुं
योगी देवीकमलोदरान्

निश्चारयेद् इत्य्
अर्थः। यद् उक्तं। प्रथमं शून्यता बोधि
[] द्वितीयं

बीजसंग्रहं। तृतीयं
बिम्बनिष्पत्ति
[श्] चतुर्थं न्यासम् अक्षरम् इति। तम् एव कमलोत्पन्नदेवताचक्रो[त्स]र्ग विधिम् आह।

 

(८२)

 

संचोद्येत्यादि।
चित्तवज्रम् अक्षोभ्य यथानिर्द्दिष्ट
[]

विशेषान्वितं।

 

परमाद्यवद्भुजान्वितम्
इति

वज्रसत्ववद्भुजैः।
कुलिशासि कमलमणिधरैर् अन्वितं। वज्रधृग् इत्य्

उत्सर्गमन्त्रेण
संचोद्य संहृतव्ये ति
() विपञ्चित[स्]फरणाद्य्-

आकारसंहारेणानीय
सर्वभावेन सर्वात्मेना

आत्मनि मञ्जुश्री
रूपे निवेशयेत् धीमान्

इति निवेश्यनिवेशक
ग्रहरहितः।

 

(८४)

 

कायवज्रं वैरोचनं
यथोक्तविशेषणञ् चक्रादिचिह्नम्

इति चक्रखद्गपद्ममणिभि[र्]

लक्षितं। तद्वद्
इति चित्त वज्रवज् जिनजिग् इत्य् उत्सर्गमन्त्रेण

संचोद्य पूर्वकमलेन्दुमध्ये
ध्यायत्।

 

(८६)

 

आननैः कुमाराभम्
इति। दक्षिणवाममध्याननैर्

नीलसितपीतै[र्] मञ्जुश्री सदृश
तप्ततपनीयसंनिभ

मरकतरत्नादिरम्यकरषट्कम्

इति। भास्वर सुवर्ण्णसदृशवर्ण्णं।
हरित-

मणिपद्मखड्गचक्रप्रज्ञालिङ्गनैः।
शोभित करषट्कङ् च। रत्नेशं

रत्नसंभवं रत्नधृग्
इति संचोद्य मञ्जुवज्रस्य

दक्षिणतो ध्यायाद्
इति सम्बन्धः।

 

(८८)

 

सरोरुहरागारुणम्
इति। पद्मरागवल् लोहितम्।

आननद्वयन् तद्वद्
इति कुमारस्येवास्यापि

दक्षिणवामवचने नीलसिते
[] पङ्कजादिचिह्नकरम्

इति। रक्तपद्मखड्गचक्रमणिविशिष्ट
करम् इति।

अमिताभम् उज्ज्वलप्रभम्
आरो
[लि]ग् इति संचोद्य।

मञ्जुवज्रस्य पश्चिमतो
ध्यायाद् इत्यर्थः॥

 

(९०)

 

मरकतमणिप्रकाशम्
इति

हरितरत्नसदृशवर्ण्णम्।
प्राग् इव वदनादि सम्पदोपेतम्

इति। नीलसित दक्षिणवाममुखनानाविध-

किरणस्फरणादिसम्पत्त्या
पूर्व
[वद्] अवन्वितं। कृपाणाद्यैर्

इति। खड्गचक्रपद्मरत्नैर्
अन्वितं। अमोघसिद्धि

प्रज्ञाधृग् इति
संचोद्य मञ्जुवज्रस्योत्तर तो ध्यायाद्

इत्यर्थः।

 

(९२)

 

सर्वेषाम् एव समानानि
विशेषणान्य् आह। रुचिरेत्यादि। रुचिरजटामुकुटाश्

च ते उत्तमनानाप्रभाभिर्

उज्ज्वलाभरणाश्
चे ति तथोक्तम्।

विद्यासनाथवपुष
इति आलिङ्गित-

स्वाभप्रज्ञाः सर्व
इति वैरोचनाद् अन्ये रविमण्डले ध्येयाः।

वैरोचनस्य चन्द्रासनेनो
क्तत्वात्।

 

(९४)

 

सृङ्गार कायवज्राभे
इत्। शृङ्गार

रसान्वितं मुखादिभि[र्] वैरोचनसदृशी पूर्ण्णचन्द्रस्था

परमे इत् विशुद्धरूपा
लोचनादेवी

मोहरतीति मन्त्रेण
संचोदनाद् आग्नेये दिक्प्रदेशे

स्यात् ध्यानेन
तत्र द्रष्टव्येत्य् अर्थः।

 

नैरृती त्यादि।
महारतपरमोत्सुका

मामकी यथोक्तरूपा
द्वेषरतीति संचोदिता नैरृतिकोणे द्रष्टव्येत्य्

अर्थः।

 

(९६)

 

वागीशामल देहे ति
अमिताभ

वन् निर्मलवर्ण्णादिशरीरा
पाण्डराख्या
(यथारूपा)

यथोक्तरूपा रागरतीति
() संचोदिता प्रभञ्जनाशाया[]

द्रष्टव्या।

 

(९८)

 

रत्नेशवत् सुरूप(ण्ण)[र्]ण्णादिभी रत्नसम्भव-

सदृ[क्] तारा यथो[क्त]विशेषणा। वज्ररतीति
प्रचोदिता

। ऐशाने दिक्प्रदेशे
द्रष्टव्या।

 

आसां प्रधानचिह्नान्य्
आह॥ सच्चक्रे त्यादि। शिष्ठानी

ति लोचनायाः। खद्गपद्ममणयः।
परिशिष्टानि चिह्नानि

एवं मामक्याः। पाण्डराया[] खद्गचक्रमणयः।
तारायाः खड्गपद्म-

मणय इत्यर्थः।

 

(१००)

 

मण्डले त्यादि।
आग्नेयादिषु चतुर्षु कोणेषु

मूलद्वारपार्श्वद्वये

रूपवज्रादयः () षट् देव्यो

यथाक्रमं कायवज्रादिनिभा
तत्व्
[अत्रय्]एने

ति() ओं आः हूं इति
मन्त्रेणोत्सृज्य यथाविधि वक्षमाण-

दर्प्पणादिप्रधानचिह्ना
ध्यातव्या। इत्यर्थः। तत्र कायो वैरो-

चनस् तत्सदृशी दर्प्पणचिह्ना।
खड्ग
[पद्म]मणिपरिशिष्टचिह्ना च

रूपवज्रा।

 

(१०२)

 

शब्दवज्रा चित्तवज्रनिभा
वीणाचिह्ना खड्गपद्ममणिपरिशिष्टचिह्ना च।

गन्धवज्रा रत्नेश
निभा गन्धशंखचिह्ना। खड्गपद्मचक्र-

परिशिष्टचिह्ना
च। रसवज्रा वाग्वज्रनिभा स्वादुरसाधारपूर्ण्ण-

पद्मभाण्डचिह्ना।
खड्गचक्रमणिपरिशिष्टचिह्ना च। स्पर्शवज्रा अमोघसि

द्धिनिभा वस्त्रचिह्ना।
खड्गपद्ममणिपरिशिष्टचिह्ना च।

धर्मधातुवज्रा वज्रसत्वनिभा
धर्मोदयमुद्राचिह्ना। खड्गपद्म-

मणिपरिशिष्टचिह्ना
च। पूर्ण्णेन्दुमण्डलस्थेति। च पूर्
(न्न)र्व्वम्

उक्तं। सर्वासु
देवीसु योज्य
[]

 

(१०४)

 

इदानीं द्वारपालक्रोधान्
आह। पूर्वद्वार इत्यादि। सर्वाशा-

वर्त्तिन् यो अनन्ताभीमा
आभा अस्येति सर्वाशा वर्त्यनन्तभीमाभः

॥ क्षयोग्रघनमण्डल

च्छाय इति प्रलय-

कालोग्रमेघसमूहाकारः।
चित्ताधिराजो अक्षोभ्यस् तेन

समा भुजमुखादिभिस्
तुल्या या तनुर् यमारिशरीरः॥

 

(१०६)

 

ततो विनि[]सृतानाम् अनेकारौद्र
कुलानां भाभिर्

उपलक्षितः। क्रूरा
भुजङ्गा अङ्गभूषणम् अस्येति क्रूर-

भुजङ्गाङ्गै[र्] भूषणः

। श्रीमान् सर्वार्थसम्पन्नः।
स एवंभूतो

वैवस्वन्तान्तकारी
ति यमान्तको यमान्तकृद् इत्य्

एवं संचोदितः सन्
भास्वतीति सूर्यमण्डले पूर्वद्वारस्थख्यातं

प्रस्थितः। तत्र
द्रष्टव्य इति यावत्।

 

(१०८)

 

दक्षिणेत्यादि।
जगदन्धकारापहारित्वाद् अनुत्तरज्योतिः कायेशो

वैरोचनस् तद्वद्भुजमुखवर्ण्णैर्
उग्रः।

स एवम्भूतः। क्लेशादि
मारैर् अनभिभूतत्वाद् अपराजितः

। प्रसहः प्रचण्डरूपः
प्रज्ञान्तकृद् इत्य्

एवं संचोदितः सन्।
दक्षिणदिग्द्वारस्थो

भास्वति द्रष्टव्यः।

 

(११०)

 

हयकन्धरेत्यादि
वाग्वज्रवद्भुजाद्यैर्

इति भुजमुखवर्ण्णैर्
अमिताभसदृशः। यथोक्तपरिशेषणो

हयग्रीवः। पद्मान्तकृद्
इत्य् एवं संचोदितः
() सन् पश्चिमद्वारे

भास्वन्मण्डले द्रष्टव्य
इति संक्षेपार्थः।

 

(११२)

 

विघ्नान्तकोत्सर्गम्
आह। अक्षोभ्यवद् इत्यादि।

भुजमुखवर्ण्णैर्
अक्षोभ्यसदृशः। प्रलयकालानलवद् उग्र

आर्यो[]मृतकुण्डलिन् पापैर्
यो

धर्मेभ्य आरा(र्या)त त्वाद् आर्यः।
सकलविघ्नविनाशत्वाद्

वीरः। विघ्नान्तकृद्
इत्य् एवं संचोदितः

() सन्न् उत्तरद्वारे
सूर्यमण्डलस्थो ध्येय

इत्य् अर्थः।

 

(११४)

 

वैरोचनेत्यादि।
एषाम् एव यमार्यादीनाम् अभिषेकानन्तरं मकुटेषु

क्रमशो वैरोचनाक्षोभ्यामिताभामोघसिद्धि
द्रष्टव्याः॥ मुद्गरादीनि

चत्वारि प्रधानचिह्नानि
यथाक्रमं करे ध्यातव्यानि। आदिशब्दात्

खड्गादीन्य् अपि
यथायोगं योज्यानीत्य् अर्थः
[] क्रोधरूपत्वेऽपि
कृपालूनां

सत्वविनयम् एव प्रयोजनं।
तद् उक्तम्
() महासमयतत्वे। अहो हि

सर्वबुद्धानां वज्रकर्ममहादृढम्।
यच्छान्ता रौद्रता
[] यांति

रौद्राणां हितहेतुनेति।
तथा गुह्यतिलके अहो हि वशिताज्ञानं बुद्धानां

तत्त्वदर्शिनां
तत्र ह्य् उपायविनयाः क्रोधत्वं यान्ति निर्म्मला इत्यादि।

 

(११६)

 

इति परित इत्यादि।
इत्य् अनन्तरोक्तेण क्रमेण परितः
() सर्वथा

निष्पन्नमण्डलं
सर्वभावेना वलोक्य

() ज्ञानसत्वहृन्मन्त्रस्य

मयूखा एवांकुशास्
तैः समाहृतान्

आकृष्टान् सुगतान्
मण्डलचक्राकारान्

समयमण्डलपुरोवर्त्तिनो
भावयेत्। एतेन ज्ञानमण्डला-

कर्षणम् उक्तम्।

 

(११८)

 

प्रज्ञेत्य् आदि।
प्रज्ञा स्त्रीरूप आकारः उपायः पुरुषरूपः प्रज्ञो पाय-

मयः प्रज्ञोपायस्वभावो
यो
[]यम् अमलः

समाधिस् ततह् सम्भूतं
यत् सत्सुखं

तेनापूर्ण्णं तच्
चक्रम्। अन्तक

मथनाद्यैर् इति
यमान्तकादिभिः
() कृतारक्षः

सन् योगी ध्यायात्।
एतच् च समयमण्डले
[]पि द्रष्टव्य[]

 

(१२०)

 

स्वहृदेति स्वबीजेनाभिजप्तं
सच्चन्दना-

दिकुसुमाड्याम्
अर्घन्

तस्मै मण्डलचक्राय
दत्वा तन् मण्ड
[]चक्रन् यथास्वं यमा

न्तकादिकृताकर्षणप्रवेशन
बन्धनतोषणक्रमेण समयमण्डले

सिकतास्व् इव तैलम्
अन्तर्भाव्य तद् एवं
() परिनिष्पन्न [] मण्डलचक्र[]

स्वम् इवाहिताभिषेकम्
इति

मञ्जुवज्रम् इव
() सेवादिक्रमेण कृताभिषेक[] इति वक्ष्यमाणेन
विधिना

।प्रयतः सन्न् अभ्यर्च्चयेत्
पूजयेत्।

तत्र यो मण्डलदेवतानां
निष्पत्तिक्रमः। सा सामान्यसेवाऽधिमात्र-

निष्यन्दनफला।

 

(१२२)

 

यत् पूर्ववच् चक्षुराद्यधिष्ठानं
तत् सामान्योपसोधनम् अधिमात्र-

विपाकफलम्। यत्
पूर्ववच् चित्ताद्यधिष्ठानं
() तत् सामान्यसा
धनम्

अधिमात्रपुरुषकारफलम्।
यः पूर्ववत् ज्ञानांबुनाभिषेकक्रमस् तत्

सामान्य [महासाधन]म् अधिमात्रवैमल्यफलं।
अभिषेकानन्तरञ् च

वैरोचनादितथागतानां
मकुटे अक्षोभ्यो द्रष्टव्यः। एवं

लोचनारूपवज्रयोः
वैरोचनः। मामकीशब्दवज्राधर्मधातुवज्राणाम्

अक्षोभ्यः। पाण्डरारसवज्रादयोर्
अमिताभः। तारास्पर्शवज्रयोर्

अमोघसिद्धिः। गन्धवज्रा(वज्रा)या रत्नसम्भवः।
यमार्यादीनाम्

उक्ता एवाधिपत(व्) य इति॥

 

(१२४)

 

॥ तद् एवम् आहिताभिषेकं
चक्र
[] येन विधिना पूजयितव्यं। तम् विधि[]

कमलोदर इत्यादिना
आर्यषट्केन पूजापर्यन्तेनाह।

ज्ञानसत्वहृद्बीजभाभिः।
सर्वरूपाद्याम् आकृष्य

स्वशरीरे प्रवेश्य
वज्रमार्गनिर्गत
[] कृत्वा

मयूखमण्डल बोधिचित्तस्वरूपं

विद्याकमलोदरे ध्यायात्।

 

(१२६)

 

अत इति तद् एवं
ध्यात्वा प्रज्ञाप्रति
(रूपा) रोमोद्भवं

ननाविधरश्मि विस्तरव्यूहं

व्याप्तसर्वाकाशतलं

मतिमान् इत्य् उत्सर्गादि
भेदबुद्धिरहितः सन्न्

अभितह् सर्वतो भावेन
प्रोत्सृजेत्।

 

ततो रश्मि मुखनिर्गताभिर्

अमलसर्वाभरणस्वलङ्कृता(भि)ङ्गी

ति रूपादिदेवताभिः

 

(१२८)

 

क्रमेण ति यथाक्रमं
षड्भिर् दर्प्पणादिचिह्नैस्

तदायैश् च यथायोग[] खड्गपद्मादिभिर्
विलसन्ती

शोभमाना सलीलकर
पल्लवानाम्

आभावभासा। यासाञ्
च भास्वङ्गहस्तिभिर् निर्मिता

नानापूजांभुजालविसरा

रूपादिपूजामेघसमूहप्रसाराः

 

(१३०)

 

ताभिर् मायोपमादि
रूपेण वस्तूनां या प्रतिसम्वित्

। या च लोकदृष्टिस्
तद्विषयानुरक्ताल्

लोकानुरूपनृतगीतादिपरिचयरूपात्
तयोः। कुशलाभि
[र्]

निर्विकल्प महासुखोत्पत्तिहेतुभूताभिः।

 

(१३२)

 

ओं सर्वतथागतपूजावज्रस्वभावात्मकोऽहं।

 

तद् एवंभूतारूपवज्रादिदेवीभिस्
तद्वद्

बाह्यैश् च स[र्]वगन्धाद्यै[र्]

जिनेन्द्रान् मण्डलचक्रान्तर्गतान्।
ओं

सर्वतथागत[पूजा]वज्रस्वभावात्मकोऽहम्।
इत्य् एवं

पूजाधिष्ठानमन्त्रेण
पूज्यपूजकपूजाभेदविकल्पनिर्मुक्त

योगी संपूजयेद्
इति॥

 

(१३४)

 

॥ इदानीं स्तोत्रोपहारम्
आह। प्रतिशब्देत्य् आदि। तदन्व् इति

पूजाविधेर् अनन्तरं
प्रतिशब्दवत् समस्तस्तुतिरूप-

शब्दग्रामन् निरूपयन्।
स्वमनस्य् एवाधिदेवतां

प्रधानदेवता[]। तस्य स्तुत्या
सुख सन्

धर्मान् प्रतिभासारू[]

 

(१३६)

 

अक्षोभ्यवज्र महाज्ञान
वज्रधातु महाबुध।

त्रिमण्डल त्रिवज्राग्र
घोष वज्र नमोऽस्तु ते॥१०२॥

(= गुह्यसमाज XVII,1)

 

[.....]क्षोभ्यः। स एवाभेद्यत्वाद्
वज्रः सुविशुद्ध
[धर्मधातु-

ज्ञानात्मकत्वात्] महाज्ञानः। अभेद्यः।....[? ] धत्वाद् वज्रधातु

महाबुधः। कायवाक्चित्तमण्डलात्मकत्वात्
त्रिमण्डलः। कायादिवज्रेषु

चित्तस्य प्रधानत्वात्
त्रिवज्राग्रः। एवंभूतम् अक्षोभ्यञ् च प्रतिपदं

संबोध्य नमो[]स्तु ते ति नमस्
तुभ्य
[] स्तुतिमुखेभ्यो धर्मा[न्]

आहुः। घोषेत्य्
प्रदेशय। वज्रेत्य् अद्वैतधर्मताम् इत्य् अर्थः।

 

वैरोचन महाशुद्ध
वज्रशान्त महारत।

प्रकृतिप्रभास्वरान्
धर्मान् देश वज्र नमोऽस्तु ते॥१०३॥

(=गुह्यसमाज XVII,2)

 

(१३८)

 

एव विरोचनाद् वैरोचनः।
निःक्लेशसत्वान् महाशुद्ध अभेद्यशान्तिक क

र्म्माधिपत्याद्
वज्रशान्तः। परमानन्दात्मकत्वान् महारत

आदर्शज्ञानात्मकत्वात्
प्रकृतिप्रभास्वराणाम् अग्र। एवम् संबोध्य देश

वज्र नमो[]स्तु त इति पूर्ववद्
आहु
[ः।

 

रत्नराज सुगाम्भीर्य
खवज्राकाशनिर्मल।

स्वभावशुद्ध निर्लेप
कायवज्र नमोऽस्तु ते॥१०४॥

(= गुह्यसमाज XVII,3)

 

रत्नराजे ति रत्नसम्भवः।
सुष्ठुगाम्भीर्यत्वात् सुगाम्भीर्य। आकाशवद्

अभेद्यवज्रत्वात्
खवज्रः। समताज्ञानत्वाद् आकाशनिर्म्मलः स
() एव

स्वभावशुद्ध क्लेशकर्मजन्मज्ञेयवासनामलविगमान्
निर्लेप

....आकाशवत्....[कायवज्र] नमो []स्तु त इति पूर्ववद्
आहु
[]

 

(१४०)

 

वज्रामृत महाराज
निर्विकल्प खवज्रधृक्।

रागपारमिताप्राप्त
भाषवज्र नमोऽस्तु ते॥१०५॥

(= गुह्यसमाज XVII,4)

 

वज्रामृतेत्य् अमिताभ....

 

























































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(१४२)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project