Digital Sanskrit Buddhist Canon

रत्नत्रयानुस्मृतिर्नामाष्टादशः परिच्छेदः

Technical Details
रत्नत्रयानुस्मृतिर्नामाष्टादशः परिच्छेदः।



उक्ता भद्रचर्याविधिना पुण्यवृद्धिः। अस्याश्चायमपरो हेतुः। योऽयम्-



श्रद्धादीनां सदाभ्यासः



यथोक्तमार्यतथागतगुह्यसूत्रे-चत्वार इमे महाराज धर्मा महायानसंप्रस्थितानां विशेषगामिताय संवर्तन्तेऽपरिहाणाय च । कतमे चत्वारः? श्रद्धा महाराज विशेषगामितायै संवर्ततेऽपरिहाणाय। तत्र कतमा श्रद्धा? यया श्रद्धया आर्यानुपसंक्रामति, अकरणीयं च न करोति। गौरवं महाराज विशेषगामितायै संवर्तते। येन गौरवेण सुभाषितं शृणोति, शुश्रूषते अविरहितश्रोत्रश्च धर्मं शृणोति। निर्मानता महाराज विशेषगामितायै संवर्तते, यया निर्मानतया आर्याणामभिनमति, प्रणमति, नमस्यति। वीर्यं महाराज विशेषगामितायै संवर्ततेऽपरिहाणाय, येन वीर्येण कायलधुतां चित्तलघुतां च प्रतिलभते, सर्वकार्याणि चोत्तारयति। इमे महाराज चत्वार इति॥



एषां श्रद्धादीनां सदाभ्यासः कार्यः। अथवा अन्येषां श्रद्धादीनाम्। यथाह आर्याक्षयमतिसूत्रे- पञ्चेमानीन्द्रियाणि। कतमानि पञ्च? श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिति। तत्र कतमा श्रद्धा? यया श्रद्धायाश्चतुरो धर्मानमिश्रद्दधाति। कतमांश्चतुरः? संसारावचरीं लौकिकीं सम्यग्दृष्टिं श्रद्दधाति। स कर्मविपाकप्रतिशरणो भवति- यद्यत्कर्म करिष्यामि, तस्य तस्य कर्मणः फलविपाकं प्रत्यनुभविष्यामीति। स जीवितहेतोरपि पापं कर्म न करोति। बोधिसत्त्वचारिकामभिश्रद्दधाति। तच्चर्याप्रतिपन्नश्च अन्यत्र याने स्पृहां नोत्पादयति। परमार्थनीतार्थ गम्भीरप्रतीत्यसमुत्पादनैरात्म्यनिः सत्त्वनिर्जीवनिः पुद्गलव्यवहारशून्यतानिमित्ताप्रणिहितलक्षणान् सर्वधर्मान् श्रुत्वा श्रद्दधाति। सर्वदृष्टिकृतानि च नानुशेते। सर्वबुद्धधर्मान् बलवैशारद्यप्रभृतींश्च श्रद्दधाति। श्रद्धाय च विगतकथंकथस्तान् बुद्धधर्मान् समुदानयति। इदमुच्यते श्रद्धेन्द्रियम्॥ तत्र कतमद् वीर्येन्द्रियम्? यान् धर्मान् श्रद्धेन्द्रियेण श्रद्दधाति, तान् धर्मान् वीर्येन्द्रियेण समुदानयति। इदमुच्यते वीर्येन्द्रियम्। तत्र कतमत् स्मृतीन्द्रियम्? यान् धर्मान् वीर्येन्द्रियेण समुदानयति, तान् धर्मान् स्मृतीन्द्रियेण न विप्रणाशयति। इदमुच्यते स्मृतीन्द्रियम्। तत्र कतमत्समाधीन्द्रियम्? यान् धर्मान् स्मृतीन्द्रियेण न विप्रणाशयति, तान् समाधीन्द्रियेणैकाग्रीकरोति। इदमुच्यते समाधीन्द्रियम्। तत्र कतमत्प्रज्ञेन्द्रियम्? यान् धर्मान् समाधीन्द्रियेणैकाग्रीकरोति, तान् प्रज्ञेन्द्रियेण प्रत्यवेक्षते, प्रतिविध्यति। यदेतेषु धर्मेषु प्रत्यात्मज्ञानमपरप्रत्ययज्ञानम्, इदमुच्यते प्रज्ञेन्द्रियम्। एवमिमानि पञ्चेन्द्रियाणि सहितान्यनुप्रबद्धानि सर्वबुद्धधर्मान् परिपूरयन्ति, व्याकरणभूमिं चाप्याययन्ति[इति]॥



श्रद्धादीनां बलानां सदाभ्यासः कार्यः। यथोक्तमार्यरत्नचूडसूत्रे- तत्र कतमत्कुलपुत्र बोधिसत्त्वस्य बलचर्यापरिशुद्धिः? यदेभिरेवेन्द्रियैरुपस्तब्धोऽनवमर्द्यो भवति सर्वमारैः असंहार्यो भवति श्रावकप्रत्येकबुद्धयानाभ्याम्। अविनिवर्त्यो भवति महायानात्। दुर्धर्षो भवति सर्वक्लेशैः। दृढो भवति पूर्वप्रतिज्ञासु। तृप्तो भवति चि न। बलवान् भवति कायेन। गुप्तो भवतीन्द्रियैः। दुःपराजयो भवति तीर्थिकैः। इत्यादि॥

एवं तावच्छ्रद्धादीनां सदाभ्यासः पुण्यवृद्धये। का



मैत्री?

यथाह चन्द्रप्रदीपसूत्रे-

यावन्ति पूजा बहुविध अप्रमेया

या क्षेत्रकोटी नयुत य बिम्बरेषु।

तां पूज कृत्वा पुरुषवरेषु नित्यं

संख्याकलापा न भवति मैत्रचित्तः॥ इति॥



का

बुद्धाद्यनुस्मृतिः?

तत्र राष्ट्रपालसूत्रे संवर्णिता-

वन्दामि ते कनकवर्णनिभा वरलक्षणा विमलचन्द्रमुखा।

वन्दामि (ते) असमज्ञानपरा सदृशो न तेऽस्ति त्रिभवे विरजा॥

मृदुचारुस्निग्धशुभकेशनखा गिरिराजतुल्य तव चोष्णिरिह।

नोष्णीषमीक्षितु तवास्ति समो विभ्राजते भ्रुवि तवोर्ण मुने॥

कुन्देन्दुशङ्खहिमशुभ्रनिभा नीलोत्पलाभशुभनेत्रवरा।

कृपयेक्षसे जगदिदं हि यया वन्दामि ते विमलनेत्र जिन॥

जिह्वा प्रभूत तनु ताम्रनिभा वदनं च छादयसि येन स्वकम्।

धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुरस्निग्धगिरा॥

दशनाः शुभाः सुदृढ वज्रनिभाः त्रिंशदृशाप्यविरलाः सहिताः।

कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुरसत्यकथा॥

रूपेण चाप्रतिसमोऽसि जिन प्रभया च भासयसि क्षेत्रशतान्।

ब्रह्मेन्द्रपाल जगतो भगवान् जिह्मीभवन्ति तव ते प्रभया॥

एणेयजङ्घ भगवन्नसमा गजराजबर्हिमृगराजगतो।

ईक्षन् व्रजस्यपि युगं भगवन् संकम्पयन् धरणिशैलतटान्॥

कायश्च लक्षणचित्तो भगवन् सूक्ष्मा च्छवी कनकवर्णनिभा।

नेक्षञ्जगद् व्रजति तृप्तिमिदं रूपं तवाप्रतिमरूपधर॥

त्वं पूर्वकल्पशतचीर्णतपाः त्वं सर्वत्यागदमदानरतः।

त्वं सर्वसत्त्वकृप मैत्रमना वन्दामि ते परमकारुणिकम्॥

त्वं दानशीलनिरतः सततं त्वं क्षान्तिवीर्यनिरतः सुदृढः।

त्वं ध्यानप्रज्ञप्रभ तेजधरो वन्दामि ते असमज्ञानधर॥

त्वं वादिशूर कुगणप्रमथीं त्वं सिहवन्नदसि पर्षदि च।

त्वं वैद्यराज त्रिमलान्तकरो वन्दामि ते परमप्रीतिकर॥

वाक्कायमानसविशुद्ध मुने त्रिभवेष्वलिप्त जलपद्ममिव।

त्वं ब्रह्मघोषकलविङ्करुतो वन्दामि ते त्रिभवपारगतम्॥

मायोपमं जगदिदं भवता नटरङ्गस्वप्नसदृशं विदितम्।

नात्मा न सत्व न च जीवगती धर्मा मरीचिदकचद्रसमाः॥

शून्याश्च शान्त अनुत्पादनयं अविजानदेव जगदुद्भमति।

तेषामुपायनययुक्तिशतैः अवतारयस्यतिकृपालुतया॥

रागादिभिश्च बहुरोगशतैः संभ्रामितं सतत वीक्ष्य जगत्।

वैद्योपमो विचरसेऽप्रतिमो परिमोचयन् सुगत सत्त्वशतान्॥

जातीजरामरणशोकहतं प्रियविप्रयोगपरिदेवशतैः।

सततातुरं जगदवेक्ष्य मुने परिमोचयन् विचरसे कृपया॥

रथचक्रवद्भमति सर्वजगत् तिर्यक्षु प्रेतनिरये सुगतौ।

मूढा अदेशिक अनाथगता तस्य प्रदर्शयसि मार्गवरम्॥

ये ते बभूवु पुरिमाश्च जिना धर्मेश्वरा जगति चार्थकराः।

अयमेव तैः प्रकथितार्यपथो यद्देशयस्यपि विभोऽप्रतिमः॥

स्निग्धं ह्यकर्कश मनोज्ञ वरं ब्रह्माधिकं परमप्रीतिकरम्।

गन्धर्वकिन्नरवराप्सरसाम् अभिभूय तां गिरमुदाहरसे॥

सत्यार्जवाक्षयमुपायनयैः परिशोधितां गिरमनन्तगुणाम्।

श्रुत्वा हि यां नियुत सत्त्वशताः यानत्रयेण जनयन्ति शमम्॥

तव पूजया सुखमनेकविधं दिव्यं लभन्ति मनुजेषु तथा।

आढयो महाधन महाविभवो भवते जगद्धितकरो नृपतिः॥

बलचक्रवर्त्यपि च द्वीपपतिः जगदावृणोति दशभिः कुशलैः।

रत्नानि सप्त लभते सुशुभा त्वयि संप्रसादजनकोऽप्रतिमः॥

ब्रह्मापि शक्र अपि लोकपतिः भवते च संतुषित देवपति।

परनिर्मितोऽपि च स यामपतिः त्वत्पूजया भवति चापि जिनः॥

एवं ह्यमोघ तव पूजा कृता संदर्शनं श्रवणमप्यसमम्।

भवते जगद्विविधदुःखहरं स्पृशते पदं च परमं विरजम्॥

मार्गज्ञ मार्गकुशला भगवन् कुपथान्निवारयसि लोकमिमम्॥

क्षेमे शिवे विरजि आर्यपथे प्रतिष्ठापयसि जगद्भगवन्॥

पुण्यार्थिकस्य तव पुण्यनिधे सतताक्षया भवति पुण्यक्रिया।

बहुकल्पकोटिषु न याति क्षयं यावद्धि न स्पृशति बोधि वराम्॥

परिशुद्ध क्षेत्र लभते रुचिरं परनिर्मिताभ सद प्रीतिकरम्।

शुद्धाश्च कायवचसा मनसा सत्त्वा भवन्त्यपि च क्षेत्रवरे॥

इत्येवमादिगुण नैकविधान् लभते जिनार्चनकृतान् मनुजः।

स्वर्गापवर्ग मनुजेषु सुखं लभते च पुण्यनिधि सर्वजगे॥

कीर्तिर्यशश्च प्रसृतं विपुलं तव सर्वदिक्षु बहुक्षेत्रशतान्।

संकीर्तयन्ति सुगताः सततं तव वर्णमाल परिषत्सु जिनाः॥

विगतज्वरा जगति मोक्षकरा प्रियदर्शना असमकारुणिका।

शान्तेन्द्रिया शमरता भगवन् वन्दामि ते नरवरप्रवर॥

लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम्।

भवितास्मि वीर सुगतप्रतिमो विभजिष्य धर्मममलं जगतः॥

स्तुत्वाद्य सर्वगुणपारगतं नरदेवनागमहितं सुगतम्।

पुण्यं यदर्जितमिदं विपुलं जगदाप्नुयादपि च बुद्धपदम्॥ इति॥



अथवा यथा आर्यधर्मसंगीतिसूत्रे कथितम्- पुनरपरं बुद्धा भगवन्तो महत्पुण्यज्ञानसंभारा महामैत्रीमहाकरुणागोचरा महासत्त्वराशेः त्राणभूता महाभैषज्यशल्यहर्तारः सर्वसत्त्वसमचित्ता नित्यसमाधिगोचराः संसारनिर्वाणविमुक्ता यावत्सत्त्वानां मातापितृकल्पाः समानमैत्रचित्ताः।

पे। सर्वलोकानभिभूताः सर्वलोकस्यालोकभूता महायोगयोगिनो महात्मानो महाजनपरिवारा विशिष्टजनपरिवारा अनिवारितदर्शनश्रवणपर्युपासनाः स्वसुखनिरपेक्षाः परदुःखप्रशमनप्रिया धर्मप्रिया धर्मधरा धर्माहारा धर्मभिषजो धर्मेश्वरा धर्मस्वामिनो धर्मदानपतयो नित्यत्यागाभिरता नित्याप्रमत्ता नित्यविवेकाभिरताः सर्वत्र तीर्थसेतुभूता महाराजमार्गप्रख्या यावदसेचकदर्शना बुद्धा भगवन्तः। एवं ताननुस्मरति। एवं च ताननुस्मृत्य तद्रुणपरिनिष्पत्त्यर्थं स्मृतिमुपस्थापयति। तदुच्यते बुद्धानुस्मृतिरिति॥



अत्रैव धर्मानुस्मृतिमाह-इह बोधिसत्त्वस्यैवं भवति- य एते बुद्धा भगवन्तोऽनन्तापर्यन्तगुणाः, एते धर्मजा धर्मपदा धर्मनिर्मिता धर्माधिपतेया धर्मप्रभा धर्मगोचरा धर्मप्रतिशरणा धर्मनिष्पन्नाः। पेयालं। यान्यपि लौकिकानि लोकोत्तराणि च सुखानि सन्ति, तान्यपि धर्मजानि धर्मनिष्पन्नानि। तस्मान्मया बोध्यर्थिकेन धर्मगुरुकेण भवितव्यम्, धर्मगौरवेण धर्मप्रतिशरणेन धर्मपरायणेन धर्मसारेण धर्मान्वे[षिणा] धर्मप्रतिपन्नेन। इतीयमुच्यते बोधिसत्त्वस्य धर्मानुस्मृतिः। पुनरपरं बोधिसत्त्वस्यैवं भवति- समो हि धर्मः, समः सत्त्वेषु प्रवर्तते। धर्मो हीनमध्यविशिष्टानपेक्ष्यः प्रवर्तते। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मः सुखप्रेक्षिकया प्रवर्तते। अपक्षपतितो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मः कालमपेक्ष्य प्रवर्तते। अकालिको हि धर्मः, ऐहिपश्यिकः प्रत्यात्मवेदनीयः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्म उदारे प्रवर्तते, हीनेषु न प्रवर्तते। अनुन्नामावनामो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मः शुद्धेषु प्रवर्तते, क्षतेषु न प्रवर्तते। उत्कर्षापकर्षापगतो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मः आर्येषु प्रवर्तते, पृथग्जनेषु न प्रवर्तते। क्षेत्रदृष्टिविगतो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मो दिवा प्रवर्तते, रात्रौ न प्रवर्तते। रात्र्यां वा प्रवर्तते, दिवा न प्रवर्तते। सदाधिष्ठितो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मो विनयवेलामतिक्रामति। न धर्मस्य क्कचिद्विलम्बः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मस्योनत्वं न पूर्णत्वम्। अप्रमेयासंख्येयो हि धर्मः आकाशवन्न क्षीयते न वर्धते। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मः सत्त्वै रक्ष्यते। धर्मः सत्त्वान् रक्षति। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मः शरणं पर्येषते। धर्मः सर्वलोकस्य शरणम्। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मस्य क्कचित्प्रतिघातः। अप्रतिहतलक्षणो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मोऽनुशयं वहति। निरनुशयो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। न धर्मः संसारभयभीतो न निर्वाणानुनीतः। सदा निर्विकल्पो हि धर्मः। तथा मया धर्मसदृशचित्तेन भवितव्यम्। एवं बोधिसत्त्वो धर्मवद्धर्मे स्मृतिमुपस्थापयति। तदुच्यते धर्मानुस्मृतिरिति॥



अत्रैवाह- संघो हि धर्मवादी धर्मवरणो धर्मचिन्तको धर्मक्षेत्रं धर्मधरो धर्मप्रतिशरणो धर्मपूजको धर्मकृत्यकारी धर्मगोचरो धर्मचारित्रसंपन्नः स्वभावऋजुकः स्वभावशुद्धः सानुक्रोशो धर्मानुकारुणिकः सदा विवेकगोचरः सदाधर्मपरायणः सदाशुक्लकारीत्यादि।तत्र बोधिसत्त्वस्य संघमनुस्मरतः एवं भवति- य एते संघस्य भूता गुणाः, एते मया आत्मनः सर्वसत्त्वानां च निष्पादयितव्याः। इति॥



यथा आर्यविमलकीर्तिनिर्देशे बोधिसत्त्वगुणा उक्तास्तथा संघानुस्मृतिर्भाव्या-



सर्वसत्त्वान ये रूपा रूतघोषाश्च ईरिताः।

एकक्षणेन दर्शेन्ति बोधिसत्त्वा विशारदाः॥

ते जीर्णव्याधिता भोन्ति मृतमात्मान दर्शयी।

सत्त्वानां परिपाकाय मायाधर्म विक्रीडिताः॥

कल्पोद्दाहं च दर्शेन्ति उद्दहित्वा वसुंधराम्।

नित्यसंज्ञिन सत्त्वानामनित्यमिति दर्शयी॥

सत्त्वैः शतसहस्त्रेभिरेकराष्ट्रे निमन्त्रिताः।

सर्वेषां गृह भुञ्जन्ति सर्वान्नामन्ति बोधये॥

ये केचिन्मन्त्रविद्या वा शिल्पस्थाना बहूविधाः।

सर्वत्र पारमिप्राप्ताः सर्वसत्त्वसुखावहाः॥

यावन्तो लोक पाषण्डाः सर्वत्र प्रव्रजन्ति ते।

नानादृष्टिगतं प्राप्तांस्ते सत्त्वान् परिपाचति॥

चन्द्रा वा भोन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः।

भवन्ति आपस्तेजश्च पृथिवी मारुतस्तथा॥

रोग‍अन्तरकल्पेषु भैषज्यं भोन्ति उत्तमाः।

येन ते सत्त्व मुच्यन्ते सुखी भोन्ति अनामयाः।

दुर्भिक्षान्तरकल्पेषु भवन्ती पानभोजनम्।

क्षुधापिपासामपनीय धर्मं देशेन्ति प्राणिनाम्॥

शस्त्र‍अन्तरकल्पेषु मैत्रीध्यायी भवन्ति ते।

अव्यापादे नियोजेन्ति सत्त्वकोटिशतान् बहून्॥

महासंग्राममध्ये च समपक्षा भवन्ति ते।

संधिसामग्रि रोचेन्ति बोधिसत्त्वा महावलाः॥

ये चापि निरयाः केचिद्बुद्धक्षेत्रेष्वचिन्तिषु॥

संचिन्त्य तत्र गच्छन्ति सत्त्वानां हितकारणात्॥

यावन्त्यो गतयः काश्चित्तिर्यग्योनौ प्रकाशिताः।

सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः॥

कामभोगां[श्च] दर्शेन्ति ध्यानं च ध्यायिनां तथा।

विध्वस्तमारं कुर्वन्ति अवतारं न देन्ति ते॥

अग्निमध्ये यथा पद्ममभूतं तं विनिर्दिशेत्।

एवं कामांश्च ध्यानं च अभूतं ते विदर्शयी॥

संचिन्त्य गणिकां भोन्ति पुंसामाकर्षणाय ते।

रागाङ्कुरं च संलोभ्य बुद्धज्ञाने स्थापयन्ति ते॥

ग्रामिकाश्च सदा भोन्ति सार्थवाहाः पुरोहिताः।

अग्रामात्या थ चामात्यः सत्त्वानां हितकारणात्॥

दरिद्राणां च सत्त्वानां निधाना भोन्ति अक्षयाः।

तेषां दानानि दत्त्वा च बोधिचित्तं जनेन्ति ते॥

मानस्तब्धेषु सत्त्वेषु महानग्रा भवन्ति ते।

सर्वमानसमुद्धातं बोधिं प्रार्थेन्ति उत्तमाम्॥

भयार्दितानां सत्त्वानां संतिष्ठन्तेऽग्रतः सदा।

अभयं तेषु दत्त्वा च परिपाचेन्ति बोधये॥

पञ्चाभिज्ञाश्च ते भूत्वा ऋषयो व्रह्मचारिणः।

शीले सत्त्वान्नियोजेन्ति क्षान्तिसौरत्यसंयमे॥

उपस्थानगुरून् सत्त्वान् पश्यन्तीह विशारदाः।

चेटा भवन्ति दासा वा शिष्यत्वमुपयान्ति च॥

येन येनैव चाङ्गेन सत्त्वो धर्मरतो भवेत्।

दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः॥

येषामनन्ता शिक्षा हि अनन्तश्चापि गोचरः।

अनन्तज्ञानसंपन्ना अनन्तप्राणिमोचकाः॥

न तेषां कल्पकोटीभिः कल्पकोटिशतैरपि।

बुद्धैरपि वदद्भिस्तु गुणान्तः सुवचो भवेत्॥ इति॥



यथा आर्यरत्नोल्काधारण्यां बोधिसत्त्वगुणा उक्तास्तथा भावयितव्याः-



रश्मि प्रमुञ्चिय माल्यवियूहा माल्यवतंसक माल्यवितानाः।

माल्यविचित्र विकीर्णसमन्ताः ते जिनपूज करोन्ति महात्मा॥

रश्मि प्रमुञ्चिय चूर्णवियूहा चूर्णवतंसक चूर्णविताना।

चूर्ण विचित्र विकीर्ण समन्तात् ते जिनपूज करोन्ति महात्मा॥

रश्मि प्रमुञ्चिय पद्मवियूहा पद्मवतंसक पद्मविताना।

पद्म विचित्र विकीर्ण समन्तात् ते जिनपूज करोन्ति महात्मा॥

रश्मि प्रमुञ्चिय हारवियूहा हारवतंसक हारविताना।

हार विचित्र विकीर्ण समन्तात् ते जिनपूज करोन्ति महात्मा॥

रश्मि प्रमुञ्चि ध्वजाग्रवियूहा ते ध्वज पाण्डुरलोहितपीताः।

नीलमनेक पताकविचित्रा॥।

ध्वज समलंकरि ते जिनक्षेत्राः ते मणिजालविचित्रवियूहा॥

पट्टपताकप्र[ल] म्बितदामा किङ्किणिजाल जिनस्वरघोषान्।

छत्र धरेन्ति तथागतमूर्ध्ने ते यथ एकजिनस्य करोन्ति।

पाणितलात्तु अचिन्तियपूजां एवमशेषत सर्वजिनानाम्॥

एष समाधि विकुर्व ऋषीणां ते जगसंग्रहज्ञानविकुर्वा।

अग्रसमाध्यभिनिर्हरमाणाः सर्वक्रिया‍उपचारमुखेभिः॥

सत्त्व विनेन्ति उपायसहस्त्रैः केचि तथागतपूजमुखेन।

दान अचिन्तिय त्यागमुखेन सर्वधुतं गुणशीलमुखेन॥

अक्षयक्षान्ति अक्षोभ्यमुखेन केचि व्रतं तपवीर्यमुखेन।

ध्यान प्रशान्तिविहारमुखेन स्वर्थविनिश्चय प्रज्ञमुखेन॥

सर्व उपाय सहस्त्रमुखेन व्रह्मविहार अभिज्ञमुखेन।

संग्रहवस्तु हितैषिमुखेन पुण्यसमुच्चय ज्ञानमुखेन॥

सत्यप्रतीत्य विमोक्षमुखेन केचि बलेन्द्रिय मार्गमुखेन।

श्रावकयान विमुक्तिमुखेन प्रत्यययान विशुद्धिमुखेन॥

उत्तमयान विकुर्वमुखेन केचिदनित्यत दुःखमुखेन।

केचि निरात्मनिजीवमुखेन अशुभत संज्ञिविरागमुखेन॥

शान्त निरोध समाधिमुखेन यातुक चर्यमुखा जगतीये।

यातुक धर्ममुखाः प्रतियन्तः ते तु समन्तविमोक्षमुखेन॥

सत्त्व विनेन्ति यथाशय लोके ये तु समन्तविमोक्षमुखेन।

सत्त्व विनेन्ति यथाशय लोके तेष निमित्त न शक्य ग्रहीतुम्॥

केनचिदेष समाधि विकुर्वाः तेन ति व्यूहत अग्रसमाधीः।

सर्वजगत्परिपाचनुलोमा सर्वरतीमुखप्रीतिप्रहर्षाः॥

चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्भिक्ष सुदुर्लभ सर्वम्॥

ये परिष्कार सुखावह लोके तत्र च सर्वभिप्रायक्रियाभिः॥

दानु ददन्ति करोन्ति जगार्थं ते वरभोजनपानरसाग्रैः।

वस्त्रनिबन्धनरत्नविचित्रैः राज्यधनात्मप्रियैः परित्यागैः॥

दानधिमुक्ति जगद्विनयन्ति ते वरलक्षणचित्रितगात्रा॥

उत्तमआभरणा वरधीराः माल्यविभूषितगन्धनुलिप्ता॥

रूप विदर्शिय सत्त्व विनेन्ति दर्शनप्रीतिप्रहर्षरतानाम्।

ते वररूप सुरूप सुमेधाः उत्तमरूप निदर्शयमानाः॥

रूपधिमुक्ति जगद्विनयन्ति ते मधुरैः कलविङ्करुतेभी।

कोकिलहंसकुणालरवेण दुन्दुभिकिन्नरब्रह्मरुतेन।

देशयि सर्वधिमुक्तिषु धर्मम्॥

ये चतुरेव अशीति सहस्त्रा येभि जिना जगतोऽर्थ करोन्ति।

तेऽमितधर्मप्रभेदमुखेभिः सत्त्व विनेन्ति यथाशय लोके॥

ते सुखदुःखसहाय करोन्ति अर्थ‍अनर्थसहायक भोन्ती।

सर्वक्रियासु सहाय भवित्वा सत्त्व विनेन्ति सहायमुखेन॥

दुःख‍उपद्रवसत्कृतदोषान् ते तु सहन्ति सहायनिदानाः।

तेभि सहाय सहन्ति य पीडां सर्वजगस्य हिताय सुखाय॥

यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्यगतो नच मोक्षः।

तत्र तु राज्यसमृद्धिसहाय निष्क्रम शान्तमना अनिकेताः॥

ते गृहबन्धनतृष्ण निकेतात्सर्वजगत्परिमोचनहेतोः।

सर्वत कामरती अनिकेता निष्क्रममोक्ष प्रभावयमानाः॥

ते दश चर्य प्रभावयमाना आचरि धर्म महापुरुषाणाम्।

सर्वमशेषत चर्य ऋषीणां भावयमान करोन्ति जगार्थम्॥

यत्र मितायुष सत्त्व भवन्ती सौख्यसमर्पित मन्दकिलेशाः।

तत्र जरार्दित व्याधिन पृष्टा दर्शयि मृत्युवशं अवशात्मा॥

रागप्रदीपितु दोषप्रदीप्तं मोहमहाग्निप्रदीपितु लोकम्।

प्रज्वलितं जरव्याधिगतमृत्यु लोक निर्दर्शिय सत्व विनेन्ति॥

दशबलैश्चतुर्वैशारद्यैरष्टदशैरपि धर्मविशेषैः।

बुद्धमहात्म तु सूचयमानाः बुद्धगुणेभि करोन्ति जगार्थम्॥

ते च अदेश ऋध्यनुशास्ती रूपधिष्ठानबलेन समन्तात्।

दर्शयमान तथागत ऋद्धी ऋद्धिविकुर्वित सत्त्व विनेन्ति॥

ते विविधेहि उपायनयेहि लोक विचारि करोन्ति जगार्थम्

लोकि अलिप्त जले यथ पद्मं प्रीतिप्रसादकरा विचरन्ति॥

काव्यकराः कविराज भवन्ती ते नटनर्तकझल्लकमल्लाः।

उत्कुटशोभिकहारकनृत्या मायकराः पृथुरूपनिदर्शी॥

ग्रामिक नायक सारथि भोन्ति सार्थिक श्रेष्ठिक गृहपति भोन्ति।

राजआमात्य पुरोहित दूता वैद्यविशारद शास्त्रविधिज्ञाः॥

ते अटवीषु महाद्रुम भोन्ती औषध अक्षयरत्ननिधानाः।

चिन्तमणि द्रुम कामददाश्च देशिक उत्पथमार्गगतानाम्॥

अर्चिय सन्तु तु लोक विदित्वा कर्मविधीषु अजानक सत्वाः॥

ते कृषिकर्मप्रयोगवणिज्या शिल्पिविचित्र प्रभावयि लोके॥

ये अविहेठ अहिंसप्रयोगा सर्वसुखावह विज्ञप्रशस्ताः।

विद्य बलौषधिशास्त्रविचित्राः सर्व प्रभावित तेभि ऋषीभिः॥

ये ऋषिणां चरणाः परमाग्रा यत्रधिमुक्त सदेवकु लोकः।

ये व्रत दुष्कर ये तपश्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः॥

ते चरकाः परिव्राजक तीर्थ्याः तापसगोतममोनचराणाम्।

नग्न‍अचेलगुरुश्रमणानां तीर्थिक आ[चरिया] हि भवन्ति॥

ते तु अजीविक धर्मचराणां उत्तरिकाण अनुत्तरिकाणाम्।

दीर्घजटान कुमारव्रतानां ते[ष्व] पि आचरिया हि भवन्ति॥

सूर्यनुवर्तक पञ्चतपानां कुक्कुरगोव्रतिका मृगचर्या।

चारिक तीर्थ्य दश त्रितयानां तेष्वपि आचरिया हि भवन्ति॥

देवतज्ञानप्रवेशरतानां तीर्थुपदर्शनदेशचरणाम्।

मूलफलाम्बुचरा अपि भूत्वा धर्म अचिन्तिय ते परमाग्राः॥

उत्कुटस्थायिन एकचराणां कण्टकभस्मतृणश्शयनानाम्।

ये मुसलेशय युक्तिविहारी तेष्वपि आचरिया हि भवन्ति॥

यावत बाहिरकाः पृथुतीर्थ्या आशय तेष्वधिमुक्ति समीक्ष्य।

तीक्ष्ण दुरासद् उग्रतपेभी तीर्थिक दुःखप्रहाण विनेन्ति॥

दृष्टिसमाकुल लोक विदित्वा सर्वकुदृष्टिसमाश्रित तीर्थ्याः॥

सूक्ष्मपदेभिरुपायनयेमी सत्यप्रकाशन तेषु करोन्ति॥

केषुचि द्रामिडमन्त्रपदेभी देशयि सत्य सुगुप्तपदेभिः।

केषुचि[उज्जुक] व्यक्तपदेभिः केषुचिदेव रहस्यपदेभिः॥

केषुचि अक्षरभेदपदेभिः अर्थविनिश्चयवज्रपदेभिः।

वादिप्रमर्दनज्ञानपदेभिः शास्त्र‍अधर्मकमोक्षपदेभि ॥।

केषुचि मानुषमन्त्रपदेभिः सर्वप्रवेशनिरुक्तिपदेषु।

केषुचि देवनिरुक्तिपदेभिः नागनिरुक्तित यक्षपदेभिः॥

राक्षसाथ[र्व]गन्धर्वपदेभिः भूतकुम्भाण्डमहोरगकेभिः।

किन्नर‍अप्सरगरुडपदेभिः सत्यप्रकाशन मोक्षुपनेन्ति॥

ते यथसत्य निरुक्तिविधिज्ञा एवमशेषत ये जिनधर्मा।

धर्ममचिन्तिय वाक्यपथज्ञा देशयि एष समाधि विकुर्वा॥

ते जगसौख्यत अग्रसमाधी सर्वजगे अभिनिर्हरमाणा।

रश्मिमचिन्तियमुत्सृजमाना रश्मि प्रमुञ्चिय सत्त्व विनेन्ति॥

रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्त्व विनानित रश्मि।

तेषु सुदर्शन भोति अमोघं हेतु अनुत्तरि ज्ञानवरस्य॥

दर्शयि बुद्ध विदर्शयि धर्म संघ निदर्शयि मार्ग नराणाम्।

दर्शयि चेतिक ते जिनबिम्बा तेन सुदर्शनरश्मि निवृत्ता॥

रश्मि प्रमुञ्चि प्रभंकरनामा या प्रभ जिह्म करोति मरूणाम्।

सर्वरजं च तमं च हनित्वा सो प्रभ भासति लोकहितानाम्॥

ताय प्रभासय चोदित सत्त्वास्ते जिनपूजप्रदीप धरेन्ती।

ते जिनपूजप्रदीप धरित्वा लोकप्रदीपकरा जिन भोन्ति॥

तैलप्रदीप धृतस्य प्रदीपा दारु तृणा नडवेणु प्रदीपान।

गन्धरसायनरत्नप्रदीपान् दत्त्व जिनेषु प्रभंकर लब्धाः॥

रश्मि प्रमुञ्चि प्रतारणि नामा ताय प्रभासय चोदित सत्त्वाः॥

नावप्रतारणि नद्यपथेषु।



दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता॥

रश्मि पिपासविनोदनिनामा ताय प्रभासय चोदित सत्त्वाः।

कामगुणेषु तृषां प्रजहित्वा धर्मविमुक्तिरसार्थिक भोन्ति॥

[कामगुणेषु तृषां प्रजहित्वा] धर्मविमुक्तिरसार्थिक भूत्वा।

बुद्ध भवन्त्यमृतजलवर्षी तृष्णपिपासविनोदन लोके॥

पुष्करिणीनदिकूपतडागा उत्स य कारित बोधिनिदानाः।

काम विवर्णित वर्णित ध्याना तृष्णविनोदनि तेन निवृता॥

प्रीतिकरी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्त्वाः।

प्रीतिफुटा वरबोधिनिदानं चिन्त जनेन्ति भविष्य स्वयंभू॥

लक्षणमण्डित पद्मनिपण्णा यत्कृतविग्रह कारुणिकानाम्।

भाषित बुद्धगुणाः सदकालं प्रीतिकरी प्रभ तेन निवृत्ता॥

रश्मि प्रमुञ्चि रतिंकरनामा ताय प्रभासय बोधित सत्त्वा।

बुद्धरतीरत धर्मरतीरत संघरतीरत ते सद भोन्ति॥

त्रितयरतीरत ते सद भूत्वा बुद्धसमागमधर्मगणार्ये।

लब्धनुपत्तिकक्षान्ति लभन्ति चोदित स्मारित ये बहु सत्त्वा॥

बुद्ध‍अनुस्मृति धर्मगणार्ये बोधि य चित्तगुणान् विवरित्वा।



तेन रतिंकर रश्मि निवृत्ता॥

पुण्यसमुच्चय रश्मिः प्रमुञ्ची ताय प्रभासय चोदित सत्त्वा।

दानु ददन्ति विचित्रमनेकं प्रार्थयमानु अनुत्तरु बोधिं॥

आशय पूरितु याचनकानां यज्ञ निरर्गल तैर्यजमानैः।

सर्वभिप्रायत दानु ददित्वा पुण्यसमुच्चय रश्मि निवृत्ता॥

ज्ञानबती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्त्वाः।

एकतु धर्ममुखातु अनेका धर्ममुखानवबुद्धि क्षणेन॥

धर्मप्रभेद ग्राहित सत्वान् अर्थविनिश्चयज्ञानविभक्ती।

धर्मपदार्थविभाषण कृत्वा ज्ञानवती प्रभ तेन निवृत्ता॥

प्रज्ञप्रदीपय ओसरि रश्मि ताय प्रभासय चोदित सत्त्वाः॥

शून्य निसत्त्व अजातविपन्नान् ओतरि धर्म अभावस्वभावान्॥

मायमरीचिसमा दकचन्द्रस्वप्नसमान् प्रतिबिम्बसमान् वा।

धर्म अस्वामिक शून्य निरीहान् भाषति प्रज्ञप्रदीप निवृत्ता॥

धर्मविकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्त्वा।

धारणि अक्षयकोषु लभित्वा सर्वतथागतकोषु लभेन्ति॥

धर्मधराण परिग्रहु कृत्वा धार्मिकरक्ष करित्व ऋषीणाम्।

धर्म‍अनुग्रह कृत्व जगस्य धर्मविकुर्वणि रश्मि निवृत्ता॥

त्यागवती यद रश्मि विमुञ्ची ताय य मत्सरचोदित सत्त्वा।

ज्ञात्व अनित्य अशाश्वत भोगान् त्यागरतीरत ते सद भोन्ति॥

मत्सरदुर्दम सत्त्व अदान्ता ज्ञात्व धनं सुपिनाभ्रस्वभावम्।

बृहितत्याग प्रसन्नमनेन त्यागवतीप्रभ तेन निवृत्ता॥

निष्परिदाह य ओसरि रश्मि ताय दुशीलय चोदित सत्त्वा।

शीलविशुद्धिप्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयंभूः॥

कर्मपथे कुशले परिशुद्धे शील समादयि यद्बहुसत्त्वान्।

बोधयि चित्तसमादपनेन रश्मि निवृत्त स निष्परिदाहः।

क्षान्तिवियूह य ओसरि रश्मि ताय य अक्षम चोदित सत्त्वाः।

क्रोधखिलं अधिमान जहित्वा क्षान्तिरतीरत ते सद भोन्ति॥

दुष्कृत क्षान्ति अपायमतीनां चित्त अक्षोमित बोधिनिदानम्।

वर्णित क्षान्तिगुणाः सदकालं तेन निवृत्त स क्षान्तिवियूहा॥

रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीद य चोदित सत्त्वाः।

युक्तप्रयुक्त त्रिषू रतनेषु पूज करोन्ति अखिन्नप्रयोगाः॥

[ युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्व अखिन्नप्रयोगाः।]

ते चतुमारपथा अतिक्रान्ताः क्षिप्र स्पृशन्ति अनुत्तर बोधिम्।

वीर्य समादयि यद्बहुसत्त्वान् पूज करित्व त्रिषू रतनेषु।

धर्म धरित्व क्षयंगत काले तेन उत्तप्तवती प्रभ लब्धा॥

शान्तिकरी यद रश्मि प्रमुञ्ची ताय विभ्रान्त य चोदित सत्त्वाः।

तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहितचित्ताः॥

पाप कुमित्र किलिष्टचरीये संगणिकाविनिवर्तन कृत्वा।

वर्णित ध्यान प्रशान्त अरण्ये शान्तिकरी प्रभ तेन निवृत्ता॥

प्रज्ञवियूह य ओसरि रश्मी ताय दुःप्रज्ञ संचोदित सत्त्वाः।

सत्य प्रतीत्य विमोक्ष नयेऽस्मिन्निन्द्रिय ज्ञानगतिं गत भोन्ति॥



इन्द्रिय ज्ञानगतिं गत भूत्वा।

सूर्यप्रदीप समाधि लभित्वा प्रज्ञप्रभासकरा जिन भोन्ति॥

राज्यधनात्मप्रियैः परित्यागैः धर्म य मार्गित बोधिनिदानम्।

तं च सत्कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञवियूहाः॥

बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्त्वाः।

बुद्धसहस्त्र अनेक अचिन्त्यान् पश्यिषु पद्मवनेषु निषण्णान्॥

बुद्धमहात्मत बुद्धविमोक्षा भासित बुद्धविकुर्व अनन्ता।

बुद्धबलाविप्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता॥

तेऽभयंदद रश्मि प्रमुञ्ची ताय भयार्दित सत्त्व स स्पृष्टाः।

भूतग्रहावधताडनबन्धे मुच्यिषु सर्वुपसर्गभयेभ्यः॥

ये अभयेन निमन्त्रित सत्त्वाः प्राणिवधात्तु निवारित भोन्ति।

त्रायित यच्छरणागत भीतास्तेनभयंदद रश्मि निवृत्ता॥

सर्वसुखावह ओसरि रश्मी ताय गिलान य आतुर स्पृष्टाः।

सर्वत व्याधिदुखात्प्रतिमुक्ता ध्यानसमाधिसुखानि लभन्ति॥

रोगविनोदनि मूलफलोपधि रत्न रसायन गन्धनुलपान्।

फाणित क्षीर मधू धृत तैलान् भोजनपान ददित्व य लब्धा॥

बुद्धनिदर्शनि रश्मि प्रमुञ्ची ताय स चोदित आयुक्षयान्ते।

बुद्ध अनुस्मरि पश्यिपु बुद्धं तेऽच्युत गच्छि स बुद्धक्षेत्रम्॥

काल करोन्ति च स्मारित बुद्धा दर्शितप्रीतकरा जिनबिम्बान्।

बुद्धगताः शरणं मरणान्ते भासिय बुद्धनिदर्शनि लब्धा॥

धर्मप्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्त्वा।

धर्म पठन्ति शृण्वन्ति लिखन्ती धर्मरती रत ते सद भोन्ति॥

धर्मदुर्भिक्षय द्योतितु धर्मो धर्मगवेषिण पूरित आशा।

छन्द जनित्व प्रयुज्य य धर्मे भाषत धर्मप्रभावनि लब्धा॥

घोषवती यद रश्मि प्रमुञ्ची बुद्धसुता परिचोदनतायाम्।

यातुक शब्दप्रचारु त्रिलोके सर्व तथागतघोष शृण्वन्ति॥

उच्चस्वरेण स्तवन्ति महर्षीन् तुर्यमहत्तरघण्टप्रदानैः।

सर्वजगे जिनघोषरुतार्थं निश्चरि घोषवती प्रभ लब्धा॥

तेऽमृतंदद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्त्वाः।

सर्व प्रमाद चिरं प्रजहित्वा सर्वगुणैः प्रतिपद्यति योगम्॥

दुःख अनेक उपद्रवपूर्णं भाषित संस्कृत नित्यमक्षेमम्।

शान्तिनिरोधसुखं सद क्षेमं भाषयता अमृतंदद लब्धा॥

रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्त्वा।

शीलविशेष समाधिविशेषं प्रज्ञविशेष शृणोन्ति जिनानाम्॥

शीलत अग्र समाधित अग्रो प्रज्ञत अग्र महामुनिराजा।

यः स्तुत वर्णित बोधिनिदानं तेन विशेषवती प्रभ लब्धा॥

रत्नवियूह य ओसरि रश्मि ताय प्रभासय चोदित सत्त्वाः।

अक्षर रत्ननिधान लभित्वा पूजयि रत्नवरेभि महर्षीन्॥

रत्नविसर्ग जिने जिनस्तूपे संग्रहि कृत्स्नजनं रतनेभिः।

रत्नप्रदान करित्व जिनानां रश्मि निवृत य रत्नवियूहा॥

गन्धप्रभास य ओसरि रश्मी ताय प्रभासय चोदित सत्त्वाः।

घ्रात्व अमानुष गन्ध मनोज्ञान् बुद्धगुणे नियुतानि भवन्ति॥

गन्धनुलेपनु मानुषदिव्यैर्यत्कृत पूज नराधिपतीनाम्।

गन्धमयान् जिनविग्रहस्तूपान् कृत्व निवृत्त सुगन्धप्रभासः॥

मुञ्चति रश्मि विचित्रवियूहान् इन्द्रपताकध्वजाग्रविचित्रान्।

तूर्यनिनादित गन्धप्रधूपित शोभि सुरोत्तमपुष्पविकीर्णम्॥

तूर्यप्रत्युद्गमि पूज जिनानां पुष्पविलेपनधूपनचूर्णैः।

छत्रध्वजाग्रपताकवितानैस्तेन विचित्रवियूह निवृत्ताः॥

रश्मि प्रसादकरी यद मुञ्ची पाणितलोपम संस्थिहि भूमिः।

शोधयतो ऋषि आश्रमस्तूपान् तेन प्रसादकरी प्रभ लब्धा॥

मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघम्।

स्तूपवराङ्गण गन्धजलेना सिञ्चिय मेघवती प्रभ लब्धा॥

भूषणव्यूह प्रमुञ्चतु रश्मीन्नग्न अचेल सुभूषण भोन्ती।

वस्त्रनिबन्धनहारविचित्रं दत्त्व विभूषण रश्मि निवृत्ता॥

रश्मि रसाग्रवती यद मुञ्चीभुक्षित भोज्य रसाग्र लभन्ती॥

भोजन पान विचित्र रसाग्रान् दत्व रसाग्रवती प्रभ लब्धा॥

अर्थनिदर्शनि मुञ्चति रश्मीन् रत्ननिधान लभन्ति दरिद्राः।

अक्षयरत्ननिधिं त्रिभि रत्नैर्दानत अर्थनिदर्शनि लब्धा।

चक्षुविशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम्।

दीपप्रदान जिने जिनस्तूपे चक्षुविशोधनि रश्मि निवृत्ता॥

श्रोत्रविशोधनि मुञ्चति रश्मीन् श्रोत्रविहीन श्रुणी पृथु शब्दान्।

वाद्यप्रदान जिने जिनस्तूपे श्रोत्रविशोधनि रश्मि निवृत्ता॥

घ्राणविशोधनि मुञ्चति रश्मीन् घ्रायि अघ्रायितपूर्व सुगन्धान्।

गन्धप्रदान जिने जिनस्तूपे घ्राणविशोधनि रश्मि निवृत्ताः॥

जिह्वविशोधनि मुञ्चति रश्मीन् स्निग्धमनोज्ञरुतैः स्तुति बुद्धान्।

वाच दुरुक्त विवर्जित रूक्षा श्लक्षण उदीरित रश्मि निवृत्ता॥

कायविशोधनि मुञ्चति रश्मीन् इन्द्रियहीन सु‍ईन्द्रिय भोन्ति।

कायप्रणाम जिने जिनस्तूपे कुर्वत कायविशोधनि लब्धवा॥

चित्तविशोधनि मुञ्चति रश्मीन् उन्मतु सर्व सचित्त भवन्ति।

चित्त समाधिवशानुग कृत्वा चितविशोधनि रश्मि निवृत्ता॥

रूपविशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूप नरेन्द्रान्।

रूपकशोधनि चित्र समन्तात् स्तूप अलंकरता प्रतिलब्धा॥

शब्दविशोधनि मुञ्चति रश्मीन् शब्द अशब्दत शून्य विजानी।

प्रत्ययजात प्रतिश्रुततुल्यं शब्दप्रकाशनरश्मि निवृत्ता॥

गन्धविशोधनि मुञ्चति रश्मीन् सर्व दुगन्ध सुगन्ध भवन्ती।

गन्धवराग्र जनैर्जिनस्तूपान् स्नापन बोधिद्रुमप्रभ एषा॥

ते रसशोधनि मुञ्चति रश्मीन् सद्विष निर्विष भोन्ति रसाग्राः।

बुद्ध सश्रावक मातृपितृणां सर्वरसाग्रप्रदानप्रभैषाम्॥

स्पर्शविशोधनि मुञ्चति रश्मीन् कक्खट स्पर्श मृदू सुख भोन्ती।

शक्तित्रिशूलसितोमरवर्षा माल्यमृदू पदुमोत्पल भोन्ती॥

द्ष्य अनेक मृदू सुखस्पर्शा संस्तरि मार्गि व्रजन्ति जिनानाम्।

पुष्प विलेपन चीवर सूक्ष्मा माल्यवितानप्रदानप्रभेयम्॥

धर्मविशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान्।

निश्चरतः श्रुणि लोकहितानां तोषयि सर्वधिमुक्ति जिनानाम्॥

प्रत्ययजात अजातस्वभावा धर्मशरीर अजातशरीराः।

धर्मत नित्यस्थिता गगनस्था सूचत धर्मविशोधनि लब्धा॥

रश्मि सुखाप्रमुखा इति कृत्वा एकतु रोममुखात्तु ऋषीणाम्।

निश्चरि गङ्गरजोपम रश्मी सर्व पृथग्विध कर्मप्रयोगाः॥

ते यथ एकत रोममुखातो ओसरि गङ्गरजोपम रश्मी।

एवमशेषत सर्वतु रोमा देश समाधि विकुर्व ऋषीणाम्॥

येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे।

तेषु तमेव प्रमुञ्चति रश्मिं ज्ञानविकुर्वण एष ऋषीणाम्॥

तेष य पुण्यसहायक पूर्वे यैरनुमोदित याचित येभिः।

येभि च दृष्ट शुभोपचितं वा ते इम रश्मि प्रजानति तेषाम्॥

ये च सुभोषचित्ताः कृतपुण्याः पूजित येभि पुनः पुनः बुद्धाः।

अर्थिक छन्दिक बुद्धगुणेभिः चोदन तेष करोति य रश्मिः॥

सूर्य यथा जात्यन्ध न पश्यी नो च स नास्ति उदेति स लोके।

चक्षुसमेत उदागमु ज्ञात्वा सर्व प्रयुज्य स्वकस्वक धर्मे॥

एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी।

मिथ्यहता अधिमुक्तिविहीनाः दुर्लभ ते च उदारमतीनाम्॥

आभरणानि निपान विमानाः रत्न रसायन गन्धनुलेपाः।

तेऽपि तु अस्ति महात्मजनस्य ते च सुदुर्लभ कृच्छ्रगतानाम्॥

एवत रश्मि महापुरुषाणां अस्ति च ते इतरे च न पश्यी।

मिथ्यहता अधिमुक्तिविहीनाः दुर्लभ ते च उदारमतीनाम्॥

यस्यिमु रश्मिप्रभेद श्रुणित्वा भेष्यति श्रद्दधिमुक्ति प्रसादः।

तेन न काङ्क्ष न संशय कार्यो नाङ्ग न भेष्यि महागुणकेतुः॥

ते परिवारवियूह विकुर्वा अग्रसमाध्यभिनिर्हरमाणाः।

सर्वदशद्दिशि अप्रतिमानाः दर्शयि बुद्धसुताः परिवारम्॥

ते त्रिसहस्त्रप्रमाणु विचित्रं पद्ममधिष्ठिहि रश्मिवियूहाः।

कायपर्यङ्क परिस्फुट पद्मं दर्शयि एष समाधि विकुर्वा॥

ते दशक्षेत्ररजोपम अन्ये पद्ममधिष्ठिहि संपरिवारम्।

सर्व परीवृत बुद्धसुतेभी ये च समाध्यसमाधिविहारी॥

ये परिपाचित तेन ऋषीयां सत्त्व निष्पादित बुद्धगुणेषु।

ते परिवारिय तं महपद्मं सर्व उदिक्षिषु प्राञ्जलिभूताः॥

ते च समाहित बालशरीरे व्युत्थिहि यौवनवेगस्थितेभ्यः।

यौवनवेगस्थितेषु सप्ताहित व्युत्थिहि जीर्णक वृद्धशरीराः॥

जीर्णक वृद्धशरीरि समाहित व्युत्थिहि श्रद्ध उपासिककायात्।

श्रद्ध उपासिककायसमाहित व्युत्थिहि भिक्षुणिकायशरीरा॥

भिक्षुणिकाय शरीरि समाहित व्युथिहि भिक्षु बहुश्रुतकायाः।

भिक्षु बहुश्रुतकाय समाहित व्युत्थिहि शैक्ष‍अशैक्षशरीराः॥

शैक्ष‍अशैक्षशरीरि समाहित व्युत्थिहि प्रत्ययबुद्धशरीरा।

प्रत्ययबुद्ध शरीरि समाहित व्युत्थिहि बुद्धवराग्रशरीरा॥

बुद्धवराग्रशरीरि समाहित व्युत्थिहि देवतकायशरीरा।

देवतकायशरीरि समाहित व्युत्थिहि नागमहर्द्धिककायाः॥

नागमहर्द्धिककायसमाहित व्युत्थिहि यक्षमहर्द्धिककायाः॥

यक्षमहर्द्धिककायसमाहित व्युत्थिहि सर्वतभूतशरीराः॥

सर्वत भूतशरीरि समाहित व्युत्थिहि एकतु रोमसुखातः।

एकतु रोममुखस्मि समाहित व्युत्थिहि सर्वत रोममुखेषु॥।

सर्विषु रोममुखेषु समाहित व्युत्थिहि एकतु वालपथातः॥

एकतु वालपथस्मि समाहित व्युत्थिहि सर्वत वालपथेभ्यः॥

सर्विषु वालपथेषु समाहित व्युत्थिहि ते परमाणुरजातः॥

एकरजस्मि समाहित भूत्वा व्युत्थिहि सर्वरजेभ्य अशेषम्॥

सर्वरजे समाहित भूत्वा व्युत्थिहि सागरवज्रतलातः।

सागरवज्रतलस्मि समाहित व्युत्थिहि ते मणिवृक्षफलेभ्यः॥

वृक्षफलेषु समाहित भूत्वा व्युत्थिहि रश्मिमुखेभि जिनानाम्।

रश्मिमुखेषु जिनान समाहित व्युत्थिहि सागरतोयनदीभ्यः॥

सागरतोयनदीषु समाहित व्युत्थिहि तेजपथातु महात्मा।

तेजपथस्मि समाहित भूत्वा व्युत्थिहि वायुपथानुस्मृतीमान्॥

वायुपथे तु समाहित भूत्वा व्युत्थिहि भूमितलातु महात्मा।

भूमितले तु समाहित भूत्वा ब्युत्थिहि सर्वतु देवविमानात्॥

सर्वि तु देवबलान समाहित ब्युत्थिहि ते गगनानुस्मृतीमान्।

एति समाधिविमोक्ष अचिन्त्यास्तेष अचिन्त्यगुणोपचितानाम्॥

कल्प अचिन्त्य प्रभाषियमाणाः सर्वजिनेभि न शक्य क्षयीतुम्।

सर्वजिनेभि च भाषित एते कर्मविपाकु जगस्य अचिन्त्यो॥

नागविकुर्वित बुद्धविकुर्वा ध्यायिन ध्यान अचिन्त्य विकुर्वा।

ते च वशे स्थित अष्ट विमोक्षाः श्रावक एकभवी बहु भोन्ती॥

भूत्व बहुः पुन एक भवित्वा ध्यायति प्रज्वलते गगनस्मिन्॥

ते हि महाकरुणाय विहीना बोधि‍अनर्थिकु लोक उपेक्षी॥

दर्शयि कायविकुर्व अचिन्त्या कस्य न दर्शयि लोकहितैषी।

चन्द्र ससूर्य नभे विचरन्तौ दर्शयि सर्वदिशि प्रतिभासम्॥

उत्ससरोह्रदकूपतडागे भाजनरत्नसमुद्रनदीषु।

एवमचिन्तिय दर्शियि रूपं सर्वदशद्दिशि ते नरवीराः॥

सर्वसमाधिविमोक्षविधिज्ञा यत्र तथागत साक्षि स्वयंभूः।

सागरदेव रुतावतिनामा यावत्सत्व समुद्रयुत्पन्ना॥

तेषु स्वराङ्गरुतेषु विधिज्ञा तोषयि सर्वरुतान् स्वरुतेन।

सा हि सराग सदोष रुतावति सर्वरुते प्रतिघोषविधिज्ञा॥

धारणि धर्मबलं वशिप्राप्ता कः स न तोषि सदेवकलोकम्।

मायकरो यथ विद्यविधिज्ञो दर्शयि रूप विचित्र अनन्तान्॥

रत्रिदिवैकमुहूर्तुकु मासान् वर्षशतं पुन स्फीतप्रदीप्तान्।

मायकरो हि सरागु सदोषो तोषयि मायविकुर्वित लोकम्॥

ध्यान‍अभिज्ञविमोक्षसुशिक्षित कस्य न तोषयि चर्यविधिज्ञः।

राहु यथे[ष] य निर्मिणि कायं कुर्वति वज्रपदे तलबन्धम्॥

दर्शनसागरु नाभिप्रमाणं भोति सुमेरुतले समशीर्षः।

सोऽपि सरागु सदोष समोहो राहु निदर्शयि ईदृश ऋद्धी॥

मारप्रमर्दन लोकप्रदीप कस्य न दर्शयि ऋद्धि अनन्ता।

पश्य अचिन्तिय [ शक्रवि] कुर्वा देवसुरेन्द्ररणस्मि प्रवृत्ते॥

यातुक बिम्बर नेकसुराणां तातुक निर्मिणि शक्रु स्वकायान्।

सर्वसुरेन्द्रसुराश्च विजानी शक्रमपुरतोगत स्वायुम्॥

एष गृह्येत वज्रधराणां संभ्रमु गच्छिसु सर्वसुरेन्द्राः।

नेत्र सहस्त्र भयंकर दर्शी ज्वालप्रमुञ्चन वज्र गृहीतम्॥

वर्मितकाय दुरासदतेज शक्रमुदीक्ष्य पलात्वसुरेन्द्राः।

सो हि त इत्वर पुण्यवलेना, शक्र विकुर्वति देवजयार्थी॥

सर्वजगस्य अशेषत त्राणं अक्षय पुण्य कुतो न विकुर्वी।



वायुत संभुत मेघ प्रवर्षी वायुत मेघ पुनः प्रसमेन्ती।

वायुत सस्य विरोहति लोके वायु सुखावह सर्वजगस्य॥

सो हि अशिक्षित पारमितासु बुद्धगुणेषु अशिक्षित वायु।

दर्शयि लोकविपाक अचिन्त्या कस्य न दर्शयि ते वर लब्धा॥



इति शिक्षासमुच्चये रत्नत्रयानुस्मृतिर्नामाष्टादशः परिच्छेदः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project