Digital Sanskrit Buddhist Canon

तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Tṛtīyaḥ
CHAPTER 3

VAJRA-JNANA-DHARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागतसूक्ष्मवज्रज्ञानमुद्रासमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सूक्ष्मवज्रज्ञानसमय हूं॥

अथ खल्वक्षोभ्यः तथागतः सर्वतथागतवज्रसत्वसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रसत्व सूक्ष्मज्ञानसमय हूं॥

अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्ररत्न सूक्ष्मज्ञानसमय हूं॥

अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रधर्म सूक्ष्मज्ञानसमय हूं॥

अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रकम सूक्ष्मज्ञानसमय हूं॥

अथ भगवान् वैरोचनः सर्वतथागतसूक्ष्मज्ञानवज्रं नाम समाधिं समापन्नः, समनन्तरसमापन्ने च भगवत्यथ तावदेव सर्वतथागतहृदयेभ्यः सूक्ष्मज्ञानवज्ररश्मयो विनिश्चरित्वा, सर्वलोकधातवोऽवभास्य सर्वसत्वानां, सर्वतथागतसूक्ष्मज्ञानवज्रसमाधिसमापत्तीन् दृढी कृत्य पुनरप्येकध्यीभूत्वा, समाधिज्ञानवज्रकायतामध्यालम्ब्यैकघनस्तथागतज्ञानः संभूय, भगवतो वैरोचनस्य हृदये प्रविष्टः॥

अथ वज्रपाणिः सर्वतथागतज्ञानहृदयेभ्यः प्रविष्ट्वेदं सर्वतथागतसूक्ष्मज्ञानमहासमयवज्रमभाषत् सूक्ष्मवज्र॥

अथास्मिन् भाषितमात्रे सर्वतथागतहृदयेभ्यो वज्रपाणिर्विनिःसृत्य, सर्वतथागतसूक्ष्मज्ञानवज्रबिम्बमात्मानमधिष्ठाय, सर्वतथागतनासिकाग्रेषु स्थित्वेदमुदानमुदानयामास।

अहो हि सर्वबुद्धानां सूक्ष्मवज्रमहं महत्।
यन्महत्वात्स सूक्ष्मोऽपि त्रैधातुकमपि स्फरेद्॥ इति॥

अथेदमुक्त्वा भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतनासिकाग्रेभ्यः सुसूक्ष्मवज्रज्ञाननिमित्तस्फरणताय सर्वतथागतकायेभ्यः स्फरित्वा, सकलधर्मधातुस्फरणतायोगेन सर्वाकाशधातुं सुसूक्ष्मवज्रज्ञाननिमित्तैः संस्फर्य, सकलाकाशधातुविस्फरितसर्वतथागतज्ञानवज्रबिम्बमात्मानमधिष्ठायावस्थितः॥

अथ तस्मिन्नेव क्षणे सर्वतथागताः सर्वतथागतज्ञानवज्रमध्ये वज्रधर्मतामध्यालम्ब्य, सर्वतथागतसूक्ष्मज्ञानवज्राधिष्ठानन्नाम समाधिं समापद्यावस्थिताः॥

अथ ततः सर्वतथागतज्ञानवज्रात्‌सर्वतथागतसमाधिज्ञानहृदयं निश्चचार वज्रनाभि तथागत हूं॥

अथास्मिन् विनिःसृतमात्रे भगवान् वज्रपाणिः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन सर्वतथागतकायेषु प्रविष्ट्वा, हृदये वज्रबिम्बानि भूत्वावस्थिताः।

अथ तेभ्यः सर्वतथागतसत्ववज्रेभ्य इदं महाज्ञानहृदयचतुष्टयं निश्चचार।

वज्रात्मक॥
हृद्वज्राङ्कुश॥
तिष्ठ रागवज्र प्रविश हृदयं॥
अहो वज्रतुष्टि॥

वज्रसत्वज्ञानमुद्रः, सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रः, सर्वतथागतानुरागणज्ञानमुद्रः, महातुष्टिज्ञानमुद्रश्चेति। सर्वतथागतमहावज्रसमाधयः॥

अथ वज्रपाणिः सर्वतथागतहृदयः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन स्वहृदयं प्रविष्ट्वा हृदये वज्रबिम्बमात्मानमधिष्ठायावस्थितः॥

अथ ततो वज्रविग्रहादिदं हृदयचतुष्टयं निश्चचार।
वज्ररत्नात्मक॥
हृदय वज्रसूर्य॥
तिष्ठवज्रध्वजाग्र वं॥
हृदयवज्रहास॥

सर्वतथागतवज्राभिषेकज्ञानमुद्रः, महाप्रभामण्डलव्यूहज्ञानमुद्रः, सर्वतथागताशापरिपूरणज्ञानमुद्रः, सर्वतथागतमहाहासज्ञानमुद्र इति। सर्वतथागतरत्नसमाध्यः॥

अथ वज्रपाणिः पुनरपि सूक्ष्मवज्रज्ञानप्रवेशयोगेन स्वहृदयं वज्रहृदयं प्रविष्ट्वा वज्रबिम्बमात्मानमधिष्ठायावस्थितः॥

अथ ततो वज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार।
वज्रपद्मात्मक॥
हृद्वज्रकोश॥
तिष्ठ वज्रचक्र हृदयं प्रविश॥
वज्रजिव्हाग्र हृदय॥

सर्वधर्मसमताज्ञानमुद्रः, सर्वतथागतप्रज्ञाज्ञानमुद्रः, महाचक्रप्रवेशज्ञानमुद्रः, सर्वतथागतधर्मवाग्निःप्रपञ्चज्ञानमुद्र इति। सर्वतथागतधर्मसमाधयः॥

अथ वज्रपाणिः पुनरपि स्वहृदयवज्रहृदयवज्रात् सुसूक्ष्मज्ञानप्रवेशयोगेन तद्वज्रहृदयं प्रविष्ट्वा, पुनरपि सूक्ष्मवज्रबिम्बमात्मानमधिष्ठायावस्थितः॥

अथ ततः सूक्ष्मवज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार।
सर्ववज्रात्मक॥
हृद्वज्रकवच॥
तिष्ठ वज्रयक्ष हृदय॥
वज्रमुष्टिहृदय॥

सर्वतथागतविश्वकर्मज्ञानमुद्रः, दुर्योधनवीर्यज्ञानमुद्रः, सर्वमारमण्डलविध्वंसनज्ञानमुद्रः, सर्वतथागतबन्धज्ञानमुद्र इति। सर्वतथागतकर्मसमाधयः॥

अथ भगवान् वज्रपाणिः पुनरपि सुसूक्ष्मज्ञाननिमित्तस्फरणयोगेन सर्वतथागतकायेभ्यो निःक्रम्य, वज्रपाणिमहाबोधिसत्त्वकायः संभूय, पुनरपि वज्रसत्वादिमहाबोधिसत्वविग्रहाणि भूत्वा, स्वानि स्वानि चिन्हानि हृदयेषु प्रतिष्ठाप्य, वज्रधातुमहामण्डलसन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्य स्वहृदयसमाधयः समापद्यावस्थिता इति॥

Delineation of the mandala
अथ वज्रापाणिः पुनरपि सर्वतथागतसमाधिज्ञानाभिज्ञानिष्पादनार्थमिदं वज्रसूक्ष्मज्ञानमण्डलमभाषत।
अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं।
वज्रधातुप्रतीकाशं वज्रसूक्ष्ममिति स्मृतं॥१॥
महामण्डलयोगेन महासत्वान्निवेशयेत्।
वज्रमध्ये लिखेद्बुद्धं बुद्धमण्डलकेष्वपि॥२॥
महासत्वाः समालेख्याः स्वमुद्राहृदयन्तथा।
समाधितो निषण्णास्तु वज्रबन्धकरद्वया॥३॥ इति॥

Mudra
अथात्र वज्रसूक्ष्मधर्ममण्डल आकर्षणादिविधिविस्तरो, महामण्डलयोगेन प्रवेशादिविधिविस्तरं ज्ञानचिन्हं पाणिभ्यां दत्वा, स्वचित्तपरिकर्ममहामुद्राज्ञानं शिक्षयेत्।

जिव्हां तालुगतां कृत्वा नासिकाग्रं तु चिन्तयेत्।
सूक्ष्मवज्रसुखस्पर्शाद् भवेच्चितं समाहितं॥१॥
सूक्ष्मवज्रसुखस्पर्शनिमित्तं जायते यदा।
स्फरयेत् तन्निमित्तन्तु तच्चित्तं सर्वतः स्फरेत्॥२॥
यथेच्छास्फरणाच्चित्तं त्रैधातुकमपि स्फरेत्।
पुनस्तु संहरेत् तत् तु यावन्नासाग्रमागतं॥३॥
ततः प्रभृति यत्किञ्चद् भावयेत् सुसमाहितः।
सर्वं चैतद् दृढीकुर्यात् समाधिज्ञानकल्पितं॥४॥

अथैषां हृदयानि भवन्ति।
सूक्ष्म वज्र॥
स्फर वज्र॥
संहर वज्र॥
वज्र दृढ तिष्ठ॥
मैत्री यस्य सत्वस्य सह भूयात् महादृढा।
चित्तस्फरणयोगेन सर्वसत्वेषु तां स्फरेत्॥१॥
मैत्रीस्फरणयोगेन कारुण्यं यस्य कस्यचित्।
सर्वसत्वार्थयुक्तस्तु स्फरेद्वै प्रतिपत्तितः॥२॥
प्रकृतिप्रभास्वराः सर्वे ह्यादिशुद्धा नभःसमाः।
अधर्मोऽप्यथ वा धर्म् [अः स्फ] रं भावेन तुष्यति॥३॥
दुर्दुरूटसममुख्या बुद्धबोधावभाजयाः।
तेषां संशोधनार्थाय महोपेक्षां तु भावयेद्॥ इति॥४॥

तत्रैतानि हृदया [नि भव]न्ति।
महामैत्र्या स्फर॥
महाकरुणया स्फर॥
सर्वशुद्ध प्रमोद स्फर॥
सर्वसत्वान् संबोधय॥

ततः सर्वतथागतानुस्मृतिज्ञानं शिक्षयेत्।
आकाशे वान्यदेशे वा सूक्ष्मवज्रप्रयोगतः।
उत्थितो वा निषण्णो वा वज्रबिम्बं तु भावयेत्॥१॥
तथैव सर्वस्थानेषु सुक्ष्मवज्रप्रयोगतः।
हृद्वज्रं बोधिसत्वं तु भावयेत्सुसमाहितः॥२॥
वज्रपाणिमहाबिम्बं सर्वस्थानेषु भावयेत्।
सूक्ष्मवज्रप्रयोगेण यथावदनुपूर्वशः॥३॥
सर्वाकारवरोपेतं बुद्धबिम्बं तु सर्वतः।
यथावदनुपूर्वेण भावयेत्सुसमाहित॥ इति॥४॥

तत्रैतानि हृदयानि भवन्ति।
वज्रामुखीभव॥
महाबोधिसत्वाविश॥
वज्रपाणि दर्शय स्वं रूपं॥
बुद्धानुस्मृत्याविश॥
सूक्ष्मवज्रप्रयोगेण भावयेत्स्वयमात्मना।
चन्द्रबिम्बं स्वमात्मानं बोधिचित्तस्य भावना॥१॥
चन्द्रमण्डलमध्ये तु भावयेत्स्वयमात्मना।
वज्रबिम्बं स्वमात्मानं सत्ववज्रस्य भावना॥२॥
सूक्ष्मवज्रविधिं योज्य भावयेत्स्वयमात्मना।
सत्ववज्रहृदात्मानं वज्रसत्वस्य भावना॥३॥
सर्वाकारवरोपेतं भावयेत्स्वयमात्मना।
बुद्ध बिम्बं स्वमात्मानं बुद्धबोधेस्तु भावना॥ इति॥४॥

तत्रेमानि हृदयानि भवन्ति।
समन्तभद्राविश॥
सत्ववज्राविश॥
वज्रसत्वसमाधिज्ञानाविश॥
तथागतोऽहं॥

ततः सर्वतथागतधर्मतारहस्यमुद्राज्ञानं शिक्षयेत्।
तथागतसमोऽहं हि वज्रवाचा सकृद्वदन्।
द्वयेन्द्रियसमापत्त्या सर्वसत्वां स मारयेत्॥१॥
महावज्रसमोऽहं हि वज्रवाचा सकृद्वदन्।
द्वयेन्द्रियसमापत्त्या लोकमाकर्षयेद्ध्रुवं॥२॥
वज्रधर्मसमोऽहं हि वज्रवाचा सकृद्वदन्।
द्वयेन्द्रियसमापत्त्या सर्वलोकं स नाशयेत्॥३॥
विश्ववज्रसमोऽहं हि वज्रवाचा सकृद्वदन्।
द्वयेन्द्रियसमापत्त्या सर्वकर्म स साधयेद्॥ इति॥४॥

ततः सर्वतथागतज्ञानवज्राधिष्ठानसमाधिमुद्राज्ञानं शिक्षयेत्।
सूक्ष्मवज्रप्रयोगेण भावयेद्वज्रमध्यतः।
बुद्धबिम्बं स्वमात्मानं बुद्धत्वं सो ह्यवाप्नुयाद्॥ इति॥

ततो वज्रसत्वसमाधिमुद्राज्ञानं शिक्षयेत्।
सुक्ष्मवज्रविधिं योज्य हृदि वज्रादयो गणाः।
भावयं वज्रसत्वाद्याः प्रददन्ति स्वसिद्धये॥ इति॥

ततः सर्वतथागतकुलसमाधिसमयमुद्राज्ञानं शिक्षयेत्।
वज्रबन्धसमुद्भूताः षोडशस्तु प्रकीर्तिताः।
समाधिसमयाग्र्यस्तु तासां बन्धः प्रवक्ष्यते॥१॥
पर्यङ्कस्था समुत्ताना वलितोद्ववलिता तथा।
हृदिस्था च चतुर्थी तु वज्रसत्वादिमण्डले॥२॥
ललातस्था शिरः पृष्ठे स्कन्धे हासप्रयोजिता।
मुखधात्री हृदि खड्गा हृद्विकासा मुखस्थिता॥३॥
मू(र्धन्)वक्षस्तु वक्त्रस्था ज्येष्ठस्था पुरतस्तथा।
अतः परं समासेन धर्ममुद्रास्तु शिक्षयेद्॥ इति॥४॥
दृ क्कि। ग्र ग्र। म टः। अ ग्र।
त्रं त्रं। अं अं। चं चं। त्र टः।
धृ टः। भृ टः। क्र सः। ह हः।
व व। वं वं। फ टः। ग्र सः॥
ततस्तु धर्मकर्माग्र्य शिक्षयेत्सूक्ष्मवज्रिणं।
ज्ञानमुष्टिन्तु समायां द्विधीकृत्य प्रयोजयेद्॥ इति॥

सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद् वज्रज्ञानधर्ममण्डलविधिविस्तरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project