Digital Sanskrit Buddhist Canon

आर्यमायाजालमहातन्त्रोद्धृतमण्दलगाथाटिप्पणी

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

आर्यमायाजालमहातन्त्रोद्धृतमण्दलगाथाटिप्पणी


-सम्पा-ठाकुरसेन नेगी-


ओं नमो बुद्धाय। 


दानं गोमयमम्बुना च सहितं शीलं च संमार्जनम् 

शान्ति-क्षुद्र-पिप्पलिका पनयनं वीर्यं क्रियापस्थापनम्।

ध्यानं तत्क्षणमेकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला 

एताः पारमिताः षडेव लभते कृत्वा मुनेर्मण्डलम्।। १।। 


दानमित्यादि। श्रावक-प्रत्येक-आदिकर्मिक-मृदु-मध्याधिमात्र-सत्त्वानां च किं 

दानं, षट्पारमितापूरणेन विना न बुद्धत्वं सिद्धत्वं च भवति। अधिमात्राधिमात्रसत्त्वानां च किं दानम् ? 


उक्तं च भगवता यस्मिन्पक्षे -


न मन्त्रजापो न तपो न होमो

न मण्डलेयं न च मण्डलं च। 

स मन्त्रजापः स जपः स होमः 

तन्मण्डलेयं तन्मण्डलं च।। 

समासतश्चित्तसमाजरूपी चेत्। 


इति वचनात्। पुनरप्युक्तम् -


न बुद्धो लभ्यतेऽन्यत्र लोकधातुषु कुत्रचित्। 

चित्तमेव हि संबुद्धो न बुद्धोऽन्यत्र दर्शितः।। 


चित्तशोधनमाचरेत्। चित्तं शुद्ध्यति नियतं तावदाचरेत् इत्यदिकं, न वन्दे( त् ) धीमान् देवान् काष्ठपाषाणमृण्मयान्। पुनः पाठः। 


धीमान् देवान् न तद् वन्देत् काष्ठपाषाणमृण्मयान्। 

चित्तादेव भवन्तीति कल्पं भावहेतुना।। 


एतत्प्रतिपादितं भवति। 


अधिमात्रोत्तरसत्त्वस्य किं दानम्, [ अथवा ] किं गोमयम्, केनाम्बुना, केन सहितम्, किं शीलम्, किं संमार्जनम्, का क्षान्तिः, किं क्षुद्रम्, का पिपीलिका, कस्माद् अपनयनम्, किं वीर्यम्, का क्रिया, किं उपस्थानम्, किं ध्यानम्, कस्य तत्क्षणम्, कस्यैकचित्तकरणा, का प्रज्ञा, कस्याः सुरेखोज्ज्वलाः, एताः पारमितादयः किं इति। किं फ़लं अथ चेत् तत्रापि पारमिता त्रिविधा स्मृता। सत्त्वावलंबिनी। धर्मावलंबिनी, शून्यता च। सत्त्वावलंबिनी श्रावकाणाम्। धर्मावलंबिनी श्रावकप्रत्येकयोः। निरालंबिनी अधिमात्राणां पारमिता त्रिविधा स्मृता। तत्राधिमात्रस्य किं दानं इति। उक्तं च हेवज्रे-


शरीरं दानं दत्वा तु पश्चाच्चर्यां समारभेत्। 

भागाभागविचारेण तस्माद्दानं न दीयते। 


इति न्यायात्। 


महामुद्राया एको भागः। सत्त्वार्थस्य द्वितीयो भागः। अत एव शरीरदानेन मुद्रासिद्धिर्न लभ्यते। इति भगवतोक्तविशेषात्। निरालंबिन्याः पारमितापक्षैः षण्णां दानं संज्ञादीनां किं दानं इति। 'दो अवखण्डने' इत्येतस्य दानम्। अवखण्डनं रागादीनामिति दानम्। अथ मन्त्रान्तरम्। अथ दीयते वा चाण्डालिकां पञ्चगतिकां पोषणं बोधिचित्तदानं एतद्दानं इति। गोमयेति। पञ्चेन्रियादयः। गोमयेतीतिमिति हृतं हिंसायां इन्द्रियाणां दूषणमित्यर्थः। हिंसनं परस्परसमताज्ञानम्। 


अथ गो अवधूती नाडीगामिनीति तेन द्वारेण परिणामयतीत्यर्थः। अम्बुना च शीतांशुधारद्रवं महासुखचक्रस्थं तेनाम्बुना सहितं युग्मम्। सहमर्षणे एकीकृतं चाण्डाल्या सह शशिरूपत्वेन संमिश्री भूतम्। उक्तं च श्रीहेवज्रे-


नाभौ दहति चण्डाली दहति पञ्चतथागतान्। 

दहति च लोचनादीः दग्धेहं स्रवते शशी। 


इत्यम्बुना च सहितम्। कर्मबोधकम्। किं तत् शीलं शीलसमाधौ समाधि समिधि एकचित्तकरणमित्यर्थः। 


सन्मार्जनमिति। सतो वस्तुनो मार्जनं सृजो शुद्धो सतो ( सजो ) विद्यमानस्य भावरूपस्य शुद्धीकरणम्। अथ परित्यागः शुद्धिरित्यर्थः। 


क्षान्तिं चक्षुः समूहनं। सह संयोगे शून्यताः करूणा चेकता सुक्षान्तिः। क्षुद्रमिति मधु क्षुद्रं मधु क्षौद्रम्। मधु पुष्परसं बिन्दुः। क्षुद्रं बोधिचित्तं च क्षुद्रममृतं शुद्धा इति न्यायात्। क्षुद्रं बोधिचित्तमिति।। ०।। 


पिपिलिका पनयनं द्योतकमित्यर्थः। पिपीलिका नाडी ललना तया अपनयनं क्षुद्रपिपीलिकापनयनं बोधिचित्तमास्वादनमित्यर्थः। बोधि-शब्द इति। अनुत्तरसम्यक्संबोधिगत चित्तस्वभावकं ललना प्रज्ञास्वरूपं च बोधिचित्तमुपायकम्। तस्यापनयञ्चापि क्षुद्रपिपीलिका पनयनं इत्यर्थः। 


वीर्यं ध्यानेन्द्रियस्य प्रवर्द्धनम्। उत्तरे जः कारणं सत्कृतस्यृपरित्यागः। अथवा शूरवीरः विक्रान्तो विक्रमणं विक्रान्तिरित्यर्थः। 


वीर्यं श्रावकयानस्य विक्रमणं वीर्यमिति। क्रियाहेतुधर्मा येषु धर्मधातुस्वरूपाः तस्याः तन्त्रारभ्यमाणमिति क्रिया उपस्थानं समीकरणं सादरनिरन्त्रकालं मार्गाभ्यासात्। 


ध्यानमिति। ध्यानसमृ( मा ) धौ चिन्तायां तस्या धर्ममुद्रायाः, तस्यैकक्षणं तत्क्षणं तया क्रियया उपस्थानमित्यर्थः। 


एकचित्त्करूणा या, एकपुत्रप्रेमाकारेण या करूणा, सा एकचित्तकरूणा। प्रज्ञासुरेखोज्ज्वला शोभनरेखा सुरेखा विद्युत्छटाकारेण या रेखा। सा भगवती चण्डाली नाभिमण्डलस्थिता सा भगवती महामुद्रा परिकल्पिता। एताः पारमितास्वभावाः प्रज्ञारमितार्थतः प्रतिपत्तव्याः। तथा चादि-कर्मिकानां सत्त्वानां गोमयेति सुगमः। अधिमात्रसत्त्वानां प्रज्ञापारमिता-पूरणेन सर्वाः पारमिताः पूरिता भवति इति न्याया। तदुक्तं- प्रज्ञापारमितायाम्- "एवमेव सुभूते महायानं महायानमिति" ( अष्टसाहस्रिकाप्रज्ञापारमिता, पृ0 १२, पञ्चविंशतिसाहस्रिकाप्रज्ञापारमिता, प्रथम भाग, पृ0 385 -  391 यथा कायस्यान्तं नोपलभ्यते मध्यं नोपलभ्यते, नादि उपलभ्यते। सर्वे भावा आकाशे विलीना भवन्ति। नाकाशस्य उच्छेद्यमुपलभ्यते, न भेद्यमुपलभ्यते। एवं हि सुभूते महायानमिति। महायानञ्च प्रज्ञापारमितास्वरूपा प्रज्ञापारमितां हि श्रुतिचिन्ता- भावनायाः पारमिता गतेति। प्रज्ञापारमिता धर्मधातुस्वरूपा तस्या प्रज्ञापारमितायाः सर्व पारमिताः परिपुरिता भवन्ति। अधिमात्राणामिदं मण्डलम्। उक्तं च श्रीहेवज्रे -


मनोमण्डलमित्युक्तं मीलनान्मण्डलमुच्यते। 

तथागतं पञ्चरजसि वर्णभेदैः क्रमं सदा। 


नाडिकाकाश सूत्रं तु चित्तमक्षोभ्य-मुद्रणम्। इति न्यायात्। 

नान्यमण्डलं अधिमात्रोत्तरादीनामिति। इति 


मायाजालमहातन्त्रे उक्तम्-


दानचित्तशोधनं गोमयेन्द्रिय-धारणम्। 

अम्बुना यानभेदे च कायमण्डलमण्डितम्।। 


इति आर्यमायाजालमहातन्त्रोद्धृतमण्दलगाथाटिप्पणी समाप्ता। 

कृतिरियं आचार्यश्रीनागार्जुनपादानाम्।

इति शुभमस्तु।। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project