Digital Sanskrit Buddhist Canon

तत्त्वज्ञानसंसिद्धि-महासुखरकाशिका-टीका

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

तत्त्वज्ञानसंसिद्धि-महासुखरकाशिका-टीका


- सम्पा-बनारसी लाल -


ॐ नमः श्रीभगवत्यै वज्रवाराह्यै 


आनन्दाम्बुधिमण्डनादुपगता सम्बुद्धलक्ष्मीरसौ सर्वाकारगुणान्विता जगदघध्वान्तौघविध्वंसिनी। 

ज्योतिर्ज्ञाननिधेर्धृतिः स्मृतिनिधेः शान्तिर्मनीषानिधेः पायाद्वज्रविलासिनी भगवती लोकत्रयं दुर्गतेः।। 


श्रीवज्रदेवीपद पद्यरेणुराजिं नमस्कृत्य गुरोः पदं च। 

श्रीसंवरं संवृतबोधिचित्तं प्रज्ञाकृपाद्वैतपदं प्रशस्तम्।। 


वज्रदेवीपदद्वंद्ववन्दनानन्दवर्तिना।

भिक्षुणा ध्यानचन्द्रेण चन्द्रे वसुवशर्मणा।। 


साधनं वज्रवाराह्याः स्वार्थं किञ्चिद्विभज्यते। 

सुभाषितपदे नित्यं मतिः कल्पनसोत्सुका।। 


ततः श्रद्धापरेणेदं मन्दस्वल्पधिया मया। 

कर्तव्य न मम दोषो वीक्षणीयो महाजनैः।। 


आचार्य श्रीशून्यतासमाधिवज्रपादः श्रीवज्रदेव्याः साधनं कर्तुकामः प्रथमतो भगवतीस्वरूपगुणोद्भावेन(वन) द्वारेणाशीर्वादपरं श्र्लोकद्वयं करोति स्म। उद्यातेत्यादि। 


उद्याता तलचक्रतोऽनिलधुता विद्युच्छटाभास्वरा दग्धालि(रि) त्रितया त्रिलोकमहिता पीयूषधाराप्लुता। 

बुद्धज्ञानरसाविला विकलुषा स्वानन्दसन्दोहदा भावाभावविचारणाविरहिता वाराहिका पातु वः।। १।। 


वो युष्मान्वाराहिका पात्विति सम्बन्धः। वरं बोधिचित्तं आहिनोतीति वाराही, हि गतौ आङ्पूर्वात्, संज्ञायां अण् ( कन् )। पृषोदरादित्वादाऽत्वम्। महासुखचक्रस्थितं भगवन्तमन्वेतीत्यर्थः, बोधिचित्तभगवतोरभेदात्। कीदृशी भगवती। उद्याता ऊर्ध्वं गता, कस्मात्तलचक्रतो निर्माणचक्रतः। अनिलधुता अनिलेन वातेनापानसंज्ञकेन तेन कम्पिता। विद्युच्छटाभास्वरा , विद्युदिव सरागा निर्मला च। दग्धारित्रितया दग्धं अरित्रितयं यया अरिशब्देन चक्रमभिधीयते, धर्मसंभोगमहासुखाख्यं दग्धं तद्विकल्पापगमात्। त्रिलोकमहिता त्रिभिर्लोकैः कामरूपारूपावचरैर्महिता पूजिता या सा तथोक्ता। अथवा चक्रयस्थितैस्तथागतैर्लोकैः पूजिता अत एव पीयूषधाराप्लुता पीयूषं बोधिचित्तं, तस्य धाराप्लुता स्नापिता, बाह्येपि पूजाजलदिभिः क्रियते। अत्र च बोधिचित्तं धारेव ( त्तधारयैव ) जलस्नानम्। बुद्धज्ञानरसाविला बुद्धज्ञानं सदसदादिविकल्परहितं तदेव रसस्तेन आविला व्याप्ता, सहजसुखमयि(य) त्वाद् भगवत्याः। अत एव विकलुषा , कलुषं बोधिचित्तं ( त्त ) च्युतिरभिधीयते। अत एव विरागोत्पत्तिः। "च्युतैर्विरागसंभूतिर्विरागाद्दुःखसम्भव" इति प्रवचनात् तदेव दुःखं यत्संसारावाहकं कर्मतः ( कर्म तच् ) च्युतेरेव संभवति। तथा च - " न विरागात्परं पां न पुण्यं सुखतः परमिति "। स्वानन्दसन्दोहदा सुष्ठु आनन्दसन्दोहः स्वानन्दसन्दोहस्तं ददातीति। सर्वजनायेति शेषः। भावाभावविचारणाविरहिता भावः शाश्वतग्रहः, अभाव उच्छेदग्रहस्तयोर्विचारणा, तया विचाररहिता अत्यन्तानन्दनिर्भरत्वात्।। १।। 


निर्माणालिदिनेशमण्डलगता काद्यादिवर्णावृता प्रोज्वालज्वलनोज्ज्वलामृतसवा सूक्ष्माब्जसूत्रोपमा। 

विद्या बुद्धकदम्बकं दहति या चक्रत्रयोर्भेदिनी सानन्दा ललितोर्ध्वगा स्फ़ुरतु वा वाराहिका चेतसि।। २।। 


निर्माणालीत्यादि। वो युष्माकं चेतसि वाराहिका स्फ़ुरत्विति सम्बन्धः। निर्माणालिदिनेशमण्डलगता निर्माणचक्रसम्भोगचक्रमहासुखचक्रसूर्यमण्डलगतेत्यर्थः। काद्यादिवर्णावृता प्रज्ञास्वभावेयं वज्रवाराही प्रज्ञा च सकलबाह्ये या व्याप्ता भगवती। प्रोज्वालज्वलनोज्ज्वला अत्यन्तभास्वराकारत्वात्। समस्तपापान्धदहनाच्च। अमृतसवा अमृतं बोधिचित्तं तेन सवः स्नानं यस्याः , सूक्ष्माब्जसूत्रोपमा सूक्ष्मं अब्जसूत्रं मृणालसूत्रं तदेवोपमा यस्याः। अवधूतीस्वरूपत्वात् अनुपलम्भज्ञानसूचनाच्च। विद्या बुद्धकदम्बकं दहति या विद्या लोचनादयः पृथिव्यादिस्वभावाः बुद्धा वैरोचनादयो तयोर्मेलकं दहति। अनुपलम्भे प्रवेशयति। तथा च हेवज्रे-


चण्डाली ज्वलिता नाभौ दहति पञ्च तथागतान्। 

दहति लोचनांश्च दग्धे हं स्रवते शशी।। 


ततश्चण्डाली स्वरूपेयं भगवती। चक्रत्रयोर्बेह्दिनी धर्मसम्भोगमहासुखचक्रोर्ध्वगमनात्। अत एव सानन्दा ललिता सर्वाकारवरोदयात्, ऊर्ध्वगा ऊर्ध्वतः सततं महासुखचक्रगमनादिति।। २।। 


प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीं शिरसा। 

स्वस्मृतये वक्ष्येऽहं तत्त्वज्ञानस्य संसिद्धिम्।। ३।। 


प्रणीपत्येत्यादि। तत्त्वज्ञानस्य संसिद्धिं वक्ष्ये इति सम्बन्धः। तस्य स्वभावस्तत्त्वम्, अनुत्पादलक्षणं अनुत्पादतत्त्वमिति वचनात्। तस्य ज्ञानं सम्यगवबोधं तस्य सम्यक्सिद्धिमभिधास्ये वाराहीं प्रणिपत्य वज्रपूर्वां वज्रवाराहीमित्यर्थः। वज्रयोगिनीं वज्रमनुपलम्भज्ञानं तेन सह योगो अस्यास्तीति। शिरसा उत्तमाङ्गेन। किमर्थं वक्ष्ये स्वस्मृतये आत्मस्मरणायेत्यर्थः। औद्धत्यपरिहार एव आचार्यवरस्य।। ३।। 


[ बाह्यपूजाविधिः ]


विजनमनोऽनुकूलस्थानं नाथाङ्ककः प्रविश्य सुधीः। 

तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिम्।। ४।। 


प्रथमतः स्थानसम्पत्तिमाह। विजनमित्यादि शुद्धिं भावयेदिति सम्बन्धः। शून्यतां भावयेदित्यर्थः। सर्वेषामेव वस्तूनां विशुद्धिस्तथता मतेति न्यायात्, अनादिकालसंचितविकल्पसमूहपरित्याग एव प्रयोजनं शून्यताभावनायाः। विजनं स्थानं प्रविश्य जनरहितं एकाकिनैव चित्तसमाधानकारणं विजनमपि स्थानं यथा कथंचिद्भवति। न चित्तसमाधानाय। अत आह मनोऽनुकूल यत्र चित्तस्थिरता भवति, तत्र किं कृत्वा। आसनमुपविश्य आसनमपि सामान्यं न सुखकारि अतो विशिष्यते सुकुमारं कोमलं, किं विशिष्टं सन्नाथाङ्ककः नाथः स्वकीयो गुरूः तेनाङ्कितं लक्षितं कोमलं, किं विशिष्टं सन्नाथाङ्ककः नाथः स्वकीयो गुरूः तेनाङ्कितं लक्षितं शिरो यस्य स नाथाङ्ककः। अथवा वैरोचनाङ्कितमस्तकम्। सुधीः पण्डितः। एवंविधेऽर्थे प्राज्ञस्यैवाधिकारात्। अथ विशेषस्तु कथ्यते। विजनं विगतो जनोपलम्भो यत्र विजनं महासुखं लक्षणमित्यर्थः। अत एव मनोऽनुकूलं महासुख एव जगतोऽवस्थानात्। "सर्वसुखमयं जगदिति" वचनात्। नाथाङ्ककः प्रविशेत्सुधीः। तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिम्। नाथाङ्ककः नाथो वज्रगुरूस्तस्याङ्कश्चिन्हं चतुर्थक्षणस्तत्र कं सुखं यस्य स नाथङ्कः अतएव सुधीः तदपि कारणसव्यपेक्षम्। तत्र कारणमाह-सुकुमारमासनमुपविश्य आसनं धर्मोदया। सुकुमारमित्यनेन प्रथमयौवनोपेतं दर्शयति तत्रैव महासुखोदयसम्भवात्। उपविश्य द्वंद्वमापद्य। अत्रोच्यते यदि तदपि सुखं कारणसव्यपेक्षं, तत् सुखं तत्कथं महासुखमित्युच्यते। यत्कारणाधीनं तदनित्यं, तत्कथं सुखम्। तथा च - "अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखमिति "। अत्रोच्यते सत्यमेतत् किं तु सकारणमिति। यदुक्तं तत्संवृत्या कार्यकारणभावमुदिश्य लोको बुध्यते। तथाचार्यदेवपादाः-


नान्यया भाषया म्लेच्छः शक्यो ग्राहयितुं यथा। 

न लौकिकमृते लोकः शक्यो ग्राहयितुं तथा।। इति। 


यच्च सुखमनुत्पादलक्षणं तत्कालसहितं वा कालरहितं वेति रूप्यते। तस्य बुद्धेरगोचरत्वात्। "बुद्धेरगोचरं तत्त्वं" इति न्यायात्। ततश्च स्थितमेतत् यद्वत्संवृतौ कार्यकारणभावव्यपदेश इति।। ४।। 


तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयम्। 

संलिख्यानामिकया लोहितकुसुमार्चितं कुर्यात्।। ५।। 


तदनु चेत्यादि। वज्रधरहृदयं लोहितकुसुमार्चितं कुर्यात्। वज्रं अभेद्यज्ञानं तद्धारयतीति वज्रधरः। सम्यक्सम्बुद्धः। तस्य हृदयमप्रकाश्यत्वात् धर्मोदयाभिधीयते। करवीरादिलोहितपुष्पैरर्चितं करणीयम्। संलिख्यानामिकया वामहस्ताऽनामिकाङ्गुल्येत्यर्थः। षष्ठजिनेन षष्ठो जिनो वज्रसत्त्वो द्रव्यमभिधीयते। ततस्तदुत्पत्तेः कारणे कार्योपचारात्। त्र्यक्षरजप्तेन ॐ आः हुँ इत्यनेन जप्तेन। द्वितीयोऽर्थः। वज्रधरस्य सम्बुद्धस्य हृदयं पङ्कजं अनामिकया संलिख्य वज्रेण संचाल्य तथा च श्रीसंवरनाथः - "अनामाङ्गुष्ठवक्त्राभ्यां लेहयेद्योगवित्सदा"। षष्ठजिनेन षष्ठो वज्रसत्त्वस्तदुत्पत्तिहेतुत्वात्। बोधिचित्तमेव वज्रसत्त्वोऽभिधीयते कारणे कार्योपचारात्। तेनोपलक्षणभूतेन। न तु प्रज्ञाकमलोदरगतं बोधिचित्तं विधेयम्। तदा महासुखासंभवात्। तथा चादिबुद्धे-


पतिते बोधिचित्ते तु सर्वसिद्धिनिधानके । 

मूर्च्छिते स्कन्धविज्ञाने कुतः सिद्धिरनिन्दिता।। इति। 


त्र्यक्षरजप्तेन कायवाक्चित्ताभेदैकरूपेण महासुखावस्थागतेनेत्यर्थः। लोहितकुसुमार्चितं कुर्यात् तदीय रजसा पूजितं विदध्यात्।। ५।। 


तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा। 

विदधीत [वज्र]सवनं यथोपदेशं शयस्पर्शात्।। ६।। 


तदनु परमाद्यपात्रे इत्यादि। वज्रसवनं विदधीत इति सम्बन्धः। वज्रमनुपलम्भज्ञानं तदुत्पत्तिहेतुत्वात् द्रव्यमेवाभिधीयते। तेन सवनं स्नानं कर्णीयम्। परमाद्यपात्र इत्यादि। वज्रसवनं करकमलक्षिप्तो हस्तपद्यप्रक्षिप्य दक्षिणेतरं दक्षिणहस्तादन्यं वामहस्तमित्यर्थः। परमाद्यपात्रे परमाद्यं द्रव्यं तस्य पात्रं तत्र यथोपदेशं उपदेशनतिक्रमेण। त्र्यक्षरेण द्रव्यं परिशोध्य शयस्पर्शात् अस्यायमभिप्रायः। करगतदेवतागणसंतर्पणात्। तत्र वृद्धायां हाँ योँ। तर्जन्यां ह्रीँ मोँ। मध्यमायां ह्रेँ ह्रीँ। अनामिकायां हुँ ह्रँ। कनिष्ठायां फ़ट् फ़ट्। हस्तमध्ये ॐ वँ विन्यस्य [सन्]तर्प्य च वामहस्तेन भगवतीमन्त्रेण द्रव्यमात्मनोऽङ्गप्रत्यङ्गं भावयेत्। द्वितीयोऽर्थः। परमाद्यपात्रे परमुत्कृष्टत्वात् आद्यं सुखस्यादिकारणभूतत्वात् तदेव पात्रं सुखस्याधारभूतत्वात्। विद्यापञ्कजमेवाभिधीयते। तत्र पात्रे निमित्तीभूते करकमलं कं सुखं रातीति करः बोधिचित्तमुत्पद्यते तदेव कमलं विवुद्धत्वात् स्पृहणीयत्वाच्च श्रेष्ठगुण युक्तत्वाच्च। अत एव दक्षिणेतरं दक्षिणेऽपि रजोधातुरस्ति। ततोऽन्ये चन्द्रधातु हं क्षिप्त्वाऽवधूतिवन्मनः ऊर्ध्वमुत्क्षिप्य विदधीत वज्रसवनं अवधूतिगतं यदा बोधिचित्तं भवेत्तदा वज्रमभिधीयते। तेन सवनं स्नानं कुर्यात्। महासुखचक्रं बोधिचित्तं नयेदिति। यथोपदेशं गुरूपदेशत इति अत्र गुरूचरणः शरणीकरणीयः शयस्पर्शात् हस्तेन विद्यास्तनस्पर्शात् तदेव सरागं चित्तं भवति, यदा च सरागं चित्तं भवेत् तदानीमवधूतिविकाशो(सो) भवति। यदाऽवधूतिविकाशः ( सः) स्यात्तदैव महासुखचक्रमभिव्याप्नोति बोधिचित्तमिति।। ६।। 


प्रविधाय करन्यासं वृद्धाङ्गुष्ठाङ्गुलिसमायोगात्। 

कुर्वीताङ्गन्यासं षडिभर्वीरेश्वरीमन्त्रैः।। ७।। 


प्रविधायेत्यादि। अङ्गन्यासं कुर्वीतेति सम्बन्धः। प्रविधाय करन्यासं उक्तक्रमेणैव षड्देवतामन्त्रेण करन्यासं कृत्वा, वृद्धाङ्गुष्ठाङ्गुलिसमायोगात् वामहस्त वृद्धानामिकाभ्यां द्रव्यं गृहीत्वा हस्तमभिम्रक्ष्य ततोङ्गन्यासं कुर्वीत। षड्भर्वीरेश्वरीमन्त्रैः। तत्र ॐ वँ नाभौ रक्तवर्णवाराहीदेव्युपलक्षकम्, हाँ याँ हृदि नीलवर्णयामिनीदेव्युपलक्षम्, ह्रीँ मोँ वक्त्रे सितवर्णमोहिनीदेव्युपलक्षकम्, ह्रेँ ह्रीँ शिरसि पीतं संचारिणीदेव्युपलक्षम् , हुँ हूँ शिखायां हरितवर्णसं त्रासिनीदेव्युपलक्षकम्, फ़ट् फ़ट् ललाटे धूम्रवर्णचण्डिकादेव्युपलक्षकं मन्त्राक्षरं विन्यसेत्। मन्त्रदेवतयोरभेदात्। अथवा तदक्षरं तत्तदक्षरपरिणामेन देवता एव भावनीयाः। ततो वज्रवाराही रक्तवर्णा त्रिमुखा षड्भुजा मूलमुखं रक्तं वामे नीलं दक्षिणे हरितं, वामे कपालखट्वाङ्गधरं पाशधारिणी दक्षिणेऽङ्कुशब्रह्यमुण्डकर्तिधारिणी आलीदपदा यामिनी नीलवर्णा एकमुखा चतुर्भुजा वामे कपालखट्वाङ्गघण्टा दक्षिणे डमरूकर्तिधारिणी। मोहनी संचारिणी संत्रासिनी चण्डिका सितपीतहरितधूम्रवर्णा एकवक्त्रा चतुर्भुजाः सर्वासामेव वामे कपालखट्वाञ्गघण्टाः दक्षिणे डमरूकर्तिकाः सर्वा एवालीदपदा मुक्तकेशिन्यः त्रिनेत्रा या शुक्ला सा चन्द्रप्रभा चन्द्रमण्डलिनी अन्या सूर्यप्रभा सूर्यमण्डलिन्यः। द्वितीयोऽर्थः-कं सुखं करोतीति करो बोधिचित्तं तस्य न्यासं सर्वाङ्गव्यापनं वृद्धाङ्गुष्ठाङ्गुली समायोगात्। प्रज्ञापङ्कजसुवज्रयोगात् अनामाङ्गुष्ठवक्त्राभ्यां लेहयेद्योगवित् सदेव(सदा) इति वचनात्। 


भगे लिङ्गं प्रतिष्ठाप्य बोधिचित्तं न चोत्सृजेत्। 

भावयेद् बुद्धबिम्बं वै त्रैधातुकमशेषतः।। 


इति न्यायात्। कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः। विशुद्धभगवतीरूपं वक्ष्यमाणं षड्देवतापरमाणु ( ? ) घटितम्। ज़्हटिति शून्यतानन्तरं समालक्षणीयं शून्यताभावनानन्तरं श्रीवज्रदेवीरूपमारक्षाङ्गन्यासादिकं विधाय वज्रधरहृदयं लिखित्वा लोहितकुसुमार्चितं करणीयमिति बोधव्यम्।। ७।। 


तदनु च वज्रधरोपरि रङ्गारूणयोगजं समममन्त्रम्। 

भुजगभवैः सुविशिष्टैः सिचयगतैरवकिरेच्छनकैः।। ८।। 


तदनु च वज्रधरोपरीत्यादि। अमन्त्रमवकिरेदिति सम्बन्धः। अमन्त्रं पात्रमुच्यते। रङ्गारूणयोगजं रंगो वङ्गोऽरूणं ताम्रं तयोर्योगो मेलकस्तत्र जातं रङ्गारूणयोगजं कान्स्यमित्यर्थः। समं वैषम्यादिदोषरहितत्वात् कुत्रावकिरेद् वज्रधरोपरि वज्रं द्रव्यं धारयतीति वज्रधरः तस्योपरि मदनसहितनृकपालोपरीत्यर्थः। भुजगभवैः भुजगो नागः शीशकमित्यर्थः। तत्र भवैः सिन्दूरैः सुविशिष्टैरूत्कृष्टैः सिचयगतैः सिचयो वस्त्रान्तर्गतैः। अत्रोपदेशः रजस्वलावस्त्र उत्कृष्टसिंदूरेण दोलापटयन्त्रेण तर्जन्याङ्गुल्या कान्स्यपात्रमवकिरेत् शनकैरिति स्थैर्यैरित। द्वितीयोऽर्थः। वज्रमद्वयज्ञानं धारयतीति वज्रधरः प्रज्ञापङ्कजं तस्योपरि रंगारूणयोगजं समममन्त्रं रंगो रागयुक्तं मण्यग्रमेव अरूणमिवारूणं विद्यापद्यकिञ्जल्कं तयोर्योगो मेलकः। तत्र जातं रङ्गारूणयोगजं महासुख सहितं बोधिचित्तमित्यर्थः। अत एव समममन्त्रं सकलविकल्पापगमादमन्त्रं सर्वज्ञानस्य प्रतिष्ठाभूतत्वात्तदवकिरेद् भुजगभवैः सिन्दूररागैरित्यर्थः। सुविशिष्टैर्महारागैः सिचयगतै रिव सुप्रतिबद्धैरित्यर्थः शनकैः क्रमेण।। ८।। 


तर्त जिनहृदयचक्रं शिखिकोटिकं समभिलिख्य। 

तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत्।। ९।। 


तत्रेत्यादि। मन्त्रालीं विलिखेदिति सम्बन्धः। चक्रं समभिलिख्य शिखिकोटिकं शिखिनो वह्नेरिव कोटिरग्रं यस्य तच्छिखिकोटिकं त्रिकोणमित्यर्थः। अत्रोपदेशः षडारमेव चक्रं लेखनीयं जिनहृदयं हृदयं जिनस्य सम्बुद्धस्य हृदयं तस्यापि हृदयं गुह्यज्ञानोत्पत्तिहेतुत्वात्। तद्गर्भे तच्चक्रमध्ये गाङ्गेयशलाकया सुवर्णशलाकया वामहस्तेनैव लिखितव्योऽयं मन्त्रः। द्वितीयोऽर्थः। जिनहृदयं हृदयं विद्याकमलं तदेव चक्रं अशेषजिन ज्ञानालयत्वात्। शिखिकोटिकं शिखिनः कोटिर्यत्रज्ञानाग्रितेजभूतत्वात्। समभिलिख्य सुवज्रेण सह संयोगमापद्य तद्गर्भगतस्य च गर्भो यस्य तद्गर्भे सुनिर्माणचक्रं तल इत्यर्थः। मन्त्रालीं विलिखेत् मनः संत्राणनान्मन्त्रः बोधिचित्तं तस्यालिः पङ्क्तिः तां बोधिचित्तधारां अर्पयेत् गाङ्गेयशलाकयेति। अवधूत्यास्तु सुवर्णलोहितत्वात् अवधूत्यामपि सरागत्वात् अतः सुवर्णस्य शलाकया समानता।। ९।। 


चक्रस्य बाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे। 

सत्स्वस्तिकानभिलिखेत्क्रमेण वामेन हस्तेन।। १०।। 


चक्रस्येत्यादि। सत्स्वस्तिकानभिलिखेदिति सम्बन्धः। नन्द्यावर्तामिति चक्रस्य बाह्यभागे। पूर्वोत्तरपश्चिमार्किदिग्देशे पूर्वोत्तरपश्चिमदक्षिणक्रमेण वामावर्तेनापि वामेनापि हस्तेन। द्वितीयोऽर्थः चक्रस्य बाह्यभागे निर्माणचक्रस्य बाह्ये पूर्वोत्तरपश्चिमार्किदिग्देशे सर्वत्रैवेत्यर्थः। स्वस्तिकानभिलिखेत्। शोभनस्वस्तिकं स्थितिर्यत्र सर्वत्रैवावधारणां कुर्यात्। क्रमेण शनैः शनैः। वामेन हस्तेन हस्तो धारणा कर्माः तत्साधर्म्यात् हस्तो वात ( म ) स्तेन वामेन वामनासिकापुटस्थितेनेति।। १०।। 


आकृष्येत्यादि। वज्रदेवीं परितोषयेदिति सम्बन्धः। आकृष्य [ अ ] कनिष्ठ भुवनवासिनीं भगवतीमाहूय प्रवेश्य मन्त्राक्षरेषु वद्ध्वा विधानात्। तत्रायं विधि ज्वालामुद्रां बद्ध्वा वामावर्तेन ललाटे भ्रामयेत् ऊर्ध्वं निरीक्षमाणः फ़ेँकारपाठपूर्वकं जः हुँ वँ होरिति पठित्वा तत्र जःकारेणाकर्षणं हुँकारेण प्रवेशनं वँकारेण बन्धनं होकारेण तोषणम्। द्वितीयोऽर्थः आकृष्य वज्रदेवीं चण्डालीस्वरूपामाकृष्याऽवधूत्यां प्रवेश्य मन्त्राक्षरेषु बद्ध्वा च मन्त्रो बोधिचित्तं तस्याक्षराणि शून्यता तन्मयीकृत्य परितोषयेद्विधानात्। पुनः पुनरेवं कुर्यात्। यथाविशेषं ( शेषं ) सुगमम्।। ११।। 


तदनु सपर्यां विविधां तस्या विदधीत मन्त्ररूपायाः। 

भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः।। १२।। 


तदन्वित्यादि। सपर्या विदधीतेति सम्बन्धः। पूजां विदध्यादित्यर्थः। विविधां महतीं तस्या वज्रदेव्या मन्त्ररूपाया दर्पणतले सिन्दूरपात पुरः सरं। विलिखितायाः शेषं सुगमम्। सकामगुणैरिति विशिष्टतरैरित्यर्थः। द्वितीयोऽर्थः। सपर्या पूजां विदध्यादित्यर्थः बोधिचित्तेति बोधव्यम्। विविधां अविच्छिन्नबोधिचित्तधाराविनिर्मितां मन्त्ररूपायाः शून्यतास्वभावायाः। भक्ष्यैरित्यादि रूपादिभिरित्यर्थः। सकामगुणैर्महासुखसहितैरियमेव पूजा सर्वविकल्पशान्तये।। १२।। 


विविधैर्बलैः समदनैरूपहारैः पञ्चभिरतिपरार्ध्यैः। 

गीतवाद्यैर्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्चा।। १३।। 


विविधैरित्यादि। विविधैर्बलैर्बहुभिर्बलैर्मान्सैः समदनैर्द्रव्यसहितैरूपहारैः पञ्चभिः मुद्गमाषमसूरकलायगोधूमैः अथ[वा] रूपशब्दगन्धरसस्पर्शैः। अतिपरार्ध्यैरूत्कृष्टैः। गीतैर्वज्रगीतैः वाद्यैर्वीणादिभिर्नृत्यैर्वज्रपदनृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्चेति सुबोधम्। द्वितीयोऽर्थः। बलैर्मान्सोच्छय पञ्चस्कन्धैः सहानुपलम्भप्रवेशः कर्तव्यः अत एव समदनैर्महासुखोपस्थागत-बोधिचित्तैः शेषं यथारूतम्।। १३।। 


प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्यां [ सन् ]। 

कुर्याद्यथोक्तपूजाविधिमस्याः सिद्धिमाकाङ्क्षणः ( न् )।। १४।। 


प्रतिदिवसमित्यादि। यथोक्तपूजाविधिं कुर्यादिति सम्बन्धः। प्रत्यहन् वा प्रतिपक्षं वा प्रतिमासं वा दशम्यां तिथौ वा सम(न्) सुधीः अस्या वज्रयोगिन्याः सिद्धिमाकाङ्क्षणः। लौकिकलोकोत्तरां सिद्धिं मनसि कुर्वाणः इयमेव भगवती सर्वसुखसन्दोहं ददातीत्यभिप्रायः।। १४।। 


इति तत्त्वज्ञानसंसिद्धौ मध्यमकरूचिभिक्षुश्रीध्यानचन्द्र विरचितायां महासुखप्रकाशिकायां टीकायां बाह्यपूजाविधिः प्रथमः।। १।। 


[ भावनाविधिः ]


अथ कृतबाह्यार्चनविधिरूरूकरूणो निर्मितारि(र) मध्याब्जे। 

व्यसुहृदयोष्णगुबिम्बां ध्यायात् पूर्वोदितां देवीम्।। १।। 


इदानीं वज्रवाराह्या भावनाविधिरूच्यते। अथेत्यादि। ध्यायाद्देवीमिति सम्बन्धः। पूर्वोदितां दीपङ्करशाक्यमुनिप्रभृतिभिस्तथागतैः कथितां अथवा यथा पूर्वभावनाकाले कथितां तां भावयेत्। उरूकरूणो महाकरूणः बोधिचित्तं सम्पूर्णकायमित्यर्थः। निर्मितारि(र) मध्याब्जो इति निर्माणचक्रमध्ये पङ्कजे। व्यसुहृदयोष्णगुबिम्ब इति विगता असवः प्राणा यस्य सः व्यसुस्तस्य हृदयं। उष्णो गौ रश्मिर्यस्य स उष्णगुस्तस्य बिम्बं व्यसुहृदयोष्णगुबिम्बं स्वहृदयोष्णगुम्बिम्बां अस्यायमर्थः। निर्माणचक्रपद्योपरि मृतकहृदये सूर्यबिम्बभगवतीं ध्यायात्। एतदुक्तं भवति बोधिचित्तं मण्यग्रगत्वा व्यावृत्य यदा निर्माणचक्रगतं तदा यादृशं सुखमुत्पद्यते तत्सूचकः शव( असव ) स्तस्य हृदयं शून्यता सूर्यबिम्बं तु निर्विकल्पज्ञानमार्तण्डद्योतकं सकलविकल्पान्धकारविध्वंसनात्। तत्र भगवतीं सर्वाकारवरोपेतां शून्यतां ध्यायादिति।। १।। 


कीदृशीं -


सन्ध्यासिन्दूरवर्णां खरकरनिरापास्तसप्तार्ककान्तीं कर्त्रीं सर्वार्तिहन्त्रीं बिभ्रतीं स्फ़ुरदमृतघृणीं बिभ्रतीं सव्यदोष्णा। 

बिभ्राणां वामदोष्णा कमलमतिसितं रक्तपूर्णध्वजाद्यां काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्ध्वोख ( त्थ ) हस्ताम्।। २।। 


सन्ध्यासिन्दूरवर्णामित्यादि। सन्ध्यासिन्दूरयोरिव वर्णा यस्यास्तां महारागस्योदयात्। खरकरनिकरापास्तसप्तार्ककान्तीं खरस्तीव्रः करो रश्मिः खरश्चासौ करश्चेति खरकरस्तस्य निकरः समूहः खरकरनिकरेणापास्ता विध्वस्ता सप्तार्ककान्तिर्यथा तां कर्त्रीं बिभ्रतीमिति सम्बन्धः। सर्वार्तिहन्त्रीं सर्वामर्ति पीडां हन्त्रीं। रागादिक्लेशनिर्मूलनात् प्रज्ञाकर्त्रिदधानाम्। स्फ़ुरदमृतघृणीं स्फ़ुरदनन्तरश्मिकां, केन बिभ्रतीं सव्यदोष्णा दक्षिणबाहुना दक्षिणे सूर्यधातोरवस्थानात् प्रज्ञायास्तीक्ष्णस्वभावत्वात् दक्षिणे कर्त्रिधारणं युक्तं किं च प्रज्ञा प्रज्ञाप्रहर्षेण मया महासुखचक्रे श्रीबोधिचित्तं विधृतमित्यपि दर्शयति कमलं बिभ्राणमिति सम्बन्धः। कमलं महासुखद्योत्कम्, अतिसितं बोधिचित्तरूपत्वात्। रक्तपूर्णं महाशून्यतास्वभावत्वात्। ध्वजाद्यां ध्वजेन खट्वाङ्गेन आद्यो महति खट्वाङ्गधारणमवधूत्यां बोधिचित्तधारणसूचनम्। काल्या दम्भोलिकाल्या परिगतशिरसं कस्य मस्तकस्य आलिः पङ्क्तिस्तया काल्या शूण्यपञ्चकपालधारणात् अनेन बोधिचित्तधारणं महासुखचक्रे व्यक्तीकृतं दम्भोलिकाल्या दम्भोलिर्वज्रं दम्भोलिरेव दम्भोलिकः तस्यालिर्दम्भोलिकालिः तया दम्भोलिकाल्या परिगतं सर्वतोभावेन ज्ञातं शिरो यस्याः शून्यता समन्वितबोधि ( चित्त ) धारणं सूचितं ललाटे वज्रमालाधारणात्। मुक्तमूर्ध्वोत्थहस्तां मुक्तं यथा भवति तथा ऊर्ध्वेणोत्थो हस्तो यस्याः।। २।। 


पुनः कीदृशम् 


मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां सव्ये चोर्ध्वं किरास्यां वरशुभगमनां क्रोधमूलाननान्ताम्। 

सानन्दां सानुरागां विविधरसयुतामर्द्धपर्यङ्कनृत्यां मुद्राषण्मुद्रिताङ्गीं व्यपगतवसनां षोडशाब्दां वराङ्गीम्।। ३।। 


मुण्डालीमण्डिताङ्गीमित्यादि। आलिकालिधारणात् मुण्डालीमण्डिताङ्गीं। मुखगलदसृजं मुखां गलदसृक् रक्तं यस्याः स्कन्धादिचतुर्माराणां शून्यतारक्तपानात्। स्वादगुं स्वादाः षट्स्वादैरूपलक्षितं गौचक्षुर्यस्याः षण्णेत्रामित्यर्थः। मुखद्वयं श्रीवज्रदेव्याः प्रतिमुखे नेत्रत्रयः। संवृतिपरमार्थसत्यां कालत्रयस्य सर्वाकारेण दर्शनात्। मुक्तनादां अत्यन्तानन्दनिर्भरत्वात्। सव्ये चोद्र्ध्वं किरास्यां दक्षिणे ऊर्ध्वशूकरमुखीं संवृतिविशुद्धितः संवृतेर्मोहमोहस्वरूपत्वात् शूकरमुखधारणं शूकरस्य मोहनिर्जातत्वात्। वरशुभगमनां क्रोधमूलाननान्तां शृङ्गारललितस्वभावत्वात् प्रधानमुखस्य। सानन्दां सततं बोधिचित्तधारणात्। सानुरागां अविच्छिन्नं महारागोदयात्। विविधरसयुतां नवनाट्यरसयोगात्। अर्धपर्यङ्कनृत्यां महासुखचक्रगमनात्। मुद्राषण्मुदिर्ताङ्गीं मुदं हर्षं रातीति मुद्राः मुद्राषटिभर्मुद्रितमङ्गयस्याश्चक्रीकुण्डलकण्ठिकरूचकमेखलासूत्रादिभिः षड्भिः षट्पारमिताविशुद्धितः। व्यपगतवसनां क्लेशज्ञेयावरणप्रहाणात्। षोडशब्दां षोडशशून्यताविशुद्धितः। वराङ्गीं कल्पशतसहस्रसञ्चितपुण्यसंभारनिर्जातत्वात् भगवत्या कलेवरस्य।। ३।। 


ज्ञानाकर्षादिविधिं प्रागिव कृत्वा विधानविन्मन्त्री।

स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रुतं ध्यायात्।। ४।। 


ज्ञानाकर्षाविधिरित्यादि। स्वस्तिकं ध्यायादिति सम्बन्धः। उक्तक्रमेण ज्ञानचक्राकर्षणविधिं विधाय मन्त्री विधानवित् यथाविधिज्ञः। अलिकाभिमुखं भ्रमरमुखसमीप भ्रमन्तं कुलालचक्रवत् एकं न द्वयं द्रुतं शीघ्रम्।। ४।। 


तदनु वियद्वति धातौ त्रिकूटगिरिगहवरे भ्रमच्चक्रम्। 

प्रागुक्तमिव ध्यायाद्रक्तं जाज्वल्यमानं सत्।। ५।। 


तदन्वित्यादि। चक्रं ध्यायादिति सम्बन्धः। प्रागुक्तमिव सिन्दूरपूजायां यथाचक्र निर्दिष्टं मन्त्राक्षरपरिपूर्णं तथैव वियद्वति धातौ आकाशयुक्ते धातौ धर्मोदयामित्यर्थः। त्रिकूटगिरिगहवरे त्रिदलपङ्कजमध्ये भ्रमत् कुम्भकारचक्रवद्वसत् ( भ्रमत् ) उत्कृष्टत्वादिति।। ५।। 


तत्र स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तम्। 

द्रावयेदुरूसुखचक्रं स्रवदमृतासारकृतसवनम्।। ६।। 


तत्र स्थिरमिवेत्यादि। तच्चक्रं ध्यायादिति पूर्वोक्तेनैव सम्बन्धः। स्थिरमिवातिवेगात् अत्यन्त भ्रमणात्। निर्वातनिष्कम्पदीपमिव दीप्तमिति सुबोधम्। द्रावयेदुरूसुखचक्रं द्रवीकुर्वन्महासुखचक्रं स्रवदमृतसारकृतवसनं एतद्वोधिचित्तकृतस्थानं तच्चक्रं गुदमेद्रान्तरं स्थितं भावनीयम्। अत्रोपदेशः किञ्चि दभिधीयते। प्रथमं तावद्यत्नतः सरागं चित्तं करणीयं विद्यापङ्कजवज्रयोगतः पूर्वानुभूतसुखस्मरणात्। महासुखचक्रात्सम्भोगचक्रं सम्भोगचक्राद्धर्मचक्रं धर्मचक्रान्निर्माणचक्रं निर्माणचक्राद्वज्रमूलचक्रं वज्रमूलचक्राद्वज्रमध्यं वज्रमध्याद्वज्राग्रगते श्रीबोधिचित्ते यादृशमनुत्पादलक्षणं सुखमुत्पद्यते तस्मिन्नेव सुखे स्थित्वा पुनरपि तद्वोधिचित्तं व्यावृतावधूत्यां प्रवेशयेत्। निर्मलदर्पणतलगतवाष्पविलीनं भावयेच्चिन्तयेत्। अत्र श्रीवज्रगुरोः यद्वद्धाबद्धरजोराजिः सेवनीया बोधिचित्तं तु सर्वथैव न परित्यजनीयं परित्यागाद्विरागः स्यात्तथा च सेकोद्देशे सम्बुद्धभाषितम्। 


तस्मात्सर्वप्रयत्नेन च्युतिरागं विवर्जयेत्। 

येनाक्षरसुखं याति योगी संसारबन्धनात्।। 

कामुकोऽपि विरागान्न कामशास्त्रं समीहते। 

मयोक्तं ( क्ते ) किं पुनस्तत्र ( तन्त्रे ) योगी दुःखं समीहते।।

शुक्ला( शुक्रा) क्षर स्वभावेन साधयेत्परमाक्षरम्। 

आधारे च्युति आ(मा)पन्नं ( न्ने) आधेयस्य विरागता।।

आधाराधेयसम्बन्धो यावद(न्ना) क्षरतां व्रजेत्। 

चित्तमक्षरता प्राप्तं नाधाराधेयलक्षणम्।। 


ततश्च बोधिचित्तधारणं विना न बोधिर्लभ्यते। तथा च श्रीकालचक्रे- मध्ये प्राणप्रवेशः सरविशशिगतेर्बन्धनं सव्यवामे चित्तं मुद्राप्रसङ्गे परमसुखगतं वज्रसम्बोधनं च। 


अब्जे ( पद्ये ) वज्रध्वनिर्वा सु(स्व) करसलिलजोल्लासनं सौख्यहेतोः बीजात्यागः ससौख्यो मरणभयहरः श्रीगुरोर्वक्त्रमेतत्।। 

तस्मादयमेवोपायः सम्बोधेः।। ६।। 


इदानीं तस्य महासुखसमन्वितस्य चक्रस्वरूपमाह-


कायत्रयस्वभावं परमं सहजात्मकं जगव्द्यापिनम् [ च ]। 

स्फ़ुरदमितशान्तसन्ततिं पश्येत् पश्चान्मुखं ( खः ) पश्चात्।। ७।। 


कायत्रयस्वभावमित्यादि। धर्मसम्भोगनिर्माणरूपं तत्र धर्मकायः सर्वप्रपञ्चातीतः सर्वज्ञवेद्यः शून्यतास्वरूपः अनुत्पादज्ञानलक्षणः सम्भोगकायो द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनसमन्वितः पुण्यसम्भारनिर्या( जा ) तो निरूद्धचित्तचैत्तप्रचारो बोधिसत्त्वैकगम्यो निर्माणकायः पूर्वप्रणिधानो वेधविनेयकुशलबलनिर्जातो हि चिन्तामणिवन्निर्विकल्पः सर्वाभिप्रायपरिपूरकः एतत् स्वभावम्। परममत्युकृष्टत्वात्। सहजात्मकं सहज आत्मस्वभावो यस्य कायत्रयस्यैकत्वात् महासुखकाय उच्यते स एव युगनद्धलक्षणः संवृतिपरमार्थैकरसः कथं संवृतिपरमार्थयोः एकत्वमुह्यते यावता संवृतेर्भावसु(स्व)भावत्वात् परमार्थास्य शून्यतास्वरूपत्वात्। परस्परविरूद्धयोरैक्यं कथमैक्यं अतः प्रतिविधीयते तथागतः स्वापेक्षया निरूद्धचित्तश्चैत्तः। सन् शून्यतासु(स्व)रूप एव विनेयचित्तापेक्षया प्रतिभासनाद्भावस्वभावं ततो न विरोधः कल्पवृक्षवत्। सर्वजनाभिप्रायपरिपूरकं साधूक्तं किं तु निरूद्धो चित्तचैत्तरूपं कायस्तिष्ठतु कायस्थिष्ठतु कायस्यैव कायचित्ताधीनत्वात्। न दोषो यतः पुण्यसम्भारनिर्जातः समन्तत आसंसारं तिष्ठत्येवं ज्ञानसम्भारबलात्। पुनश्चित्तचैत्तनिरोधः स्यात्। ततः सर्वमेव स्वस्थं अतएव सर्वजगव्द्यापकं सर्वस्यैव हि भावस्य युगनद्धात्मकत्वात् स्फ़ुरदमितशान्तसन्तति रविनश्वरस्वभावत्वात्। स्फ़ुरदनन्तसुख सन्नित्यर्थः पश्येत् संलक्षयेदित्यर्थः। पश्चान्मुखः प्रत्यग्राभिमुखः तत्रैव लक्षितुं शक्यत्वात्। पश्चात्सुखभावनायामभियोगं कथयति।। ७।। 


प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणं वा विभावयेदेतत्। 

यावत्सिद्धिनिमित्तं तावदिदमुच्यते व्यक्तम्।। ८।। 


प्रतिदिवसमित्यादि। विभावयेदिति सम्बन्धः। एतत् पूर्वोक्तं महासुखं प्रत्यहं प्रतिसन्ध्यं वा। यदा यदा अवधूत्यां वायुः पविशति अथवा चतुःसन्ध्यं यथाक्षणं वा सर्वदैवेत्यर्थः। यावत्सिद्धिनिमित्तं सिद्धिः महामुद्रा तस्याः निमित्तं कारणं यावन्न भवति तावद्भावयेव्द्यक्तम् सर्वत्रैव। इदम् तावत्सिद्धिनिमित्तं वक्ष्यमाणं कथ्यते।। ८।। 


तदेवमाह-


अयत्नजं प्रीतिलयानुबन्धनात् यदा भवेद् व्यक्तमिदं विभावितम्। 

कशाचपेटादिहते न वेदना तदा भेव्त्सिद्धिरदूरवर्त्नी।। ९ ।।


अयत्नजमिति। निरन्तराभ्यासादयत्नं विना प्रीतिरयानुबन्धनात् तस्य स्थैर्यात्। इदं विभावितं व्यक्तं भवेत् स्फ़ुटतरं भवेत्। तदाह कशाचपेटादिहते न वेदना कशाचर्मछटा चपेटा करप्रहारादिना स्वां हते यदि दुःखवेदना न भवति तदा भवेत्सिद्धिरदूरवर्तिनी समीपभूता सिद्धिरिति वेदितव्यम्।। ९।। 


अपरमपि निमित्तमाह-


प्रताडितानां पणवादिकानां पटुध्वनिर्न श्रुत(ति) गोचरश्चेत्।

यदाप्यते बोधिरनुत्तराग्रा स्वप्नेऽचिराद् ध्यानवतोऽग्रसिद्धिः।। १०।। 


प्रताडितानामित्यादि। प्रकर्षेण महता प्रकारेण ताडितानां पणवादिकानां पणवा-मर्दल-आदिशब्देन दक्काभेर्यादयः तेषां पटुध्वनिर्महाशब्दो न श्रुतिगोचरो न श्रोत्रविज्ञानविषयो भवति। अपरमपि निमित्तमाह-यदाप्यते बोधिरनुत्तराग्रा स्वप्ने स्वप्ने यदा योगी सम्यक्सम्बुद्धमात्मानं पश्यति तदा अचिराद् ध्यानवतोऽग्रसिद्धिः प्रस्तुतैव तर्हि महासुखभावनायुक्तस्य योगिनोऽग्रसिद्धिर्वज्रधरत्वं स्यादेवेति।। १०।। 


एतत्सिद्धिनिमित्तं दृष्ट्वा यत् कर्तव्यम् तदाह-


दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ।

निवसन्नुत्पन्नक्रमयोगजस्रं सुधीः कुर्यात्।। ११।। 


दृष्ट्वेत्यादि। उत्पन्नक्रमयोगं सुधीः कुर्यात् महासुखं भावयेदित्यर्थः। अजस्रं निरन्तरं पितृवनगिरिकुञ्जे वृक्षमूलादौ पितृवनं श्मशानं गिरिः पर्वतः कुञ्जो लतागृहम्। वृक्षमूलं सुगमम्। आदिशब्दात् शून्यागारादि तत्र निवसन् तिष्ठन् एवंविधे स्थाने निवसन् तिष्ठन् योगी ज़्हटित्येव महासुखसमाधिं साक्षात्कुर्यात् चित्तविक्षेपाभावात्।। ११।। 


समाधिसिद्धौ यद्भवति तदाह-


सिद्धौ वसुधादीनां भवति लयो ह्युत्तरोत्तरक्रमशः। 

ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत्।। १२।। 


सिद्धावित्यादि। वसुधादीनां भवति लयो ह्युत्तरोत्तरक्रमशः पृथिव्यप्तेजोवायुविज्ञानादीनां लयो निष्पद्यते। तत्र भूधातुर्जले लीनो भवति जलं तेजसि तेजो वायौ वायुश्चित्ते चित्तं चेतसि। चैतसो अविद्यायां अविद्यापि प्रभास्वरे। तथा चोक्तम्-


भूधातुर्लीयते तोये तोयं तेजसि लीयते। 

तेजश्च सूक्ष्मधातौ च वायुश्चित्ते प्रलीयते। 

चित्तश्चैतसिके लीयेदविद्यायां तु चैतसः। 

सापि प्रभास्वरं गच्छेन्निरोधोयं भवत्रये।। 


एवं सति किं स्यात् ख्याति प्रकाशते तदा निरोधो गगनाभं आकाशसदृशं सकलविकल्पापगमात् प्रभास्वरं निर्मलं ज्ञानमात्रं मायोपमं अतएव सदुत्कृष्टं अत्रोच्यते-सर्वनिरोधे ज्ञानमपि कथं तिष्ठतु तस्य ज्ञेयसापेक्षत्वात्। न वक्तव्यं ज्ञानमात्रं शून्यतालक्षणमभिप्रेतं स्वभावशून्यं मायोपमं विकल्पमनहीनं तदत्र न निषिध्यते। तथा चोक्तं श्रीशाक्यनाथेन -


ताम्रस्य कालिमा यद्वद्रजयोगेन नश्यति। 

न तस्य सत्वता नश्येन्निर्मलत्वेन या स्थिता। 


तद्वच्चित्तमलः शून्यतायोगेन नश्यति। न तस्य ज्ञानता नश्येन्निर्मलत्वेन या स्थिता। ततश्च शून्यस्वभावं ज्ञानमात्रं विद्यत एव। तज्ज्ञानोत्पादे प्रथमतः संप्रत्यर्थं निमित्तान्युत्पद्यन्ते।। १२।। 


जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः। 

अत एव तानि योगी समाहितो लक्षयेन्मनसा।। १३।। 


जानीयादित्यादि। निश्चित्तज्ज्ञानं चिह्नैर्निमित्तैः। कियन्ति तानि चिहनानीति चिह्नानि तु पञ्चप्रकाराणि विदुर्जानन्तीति तज्ज्ञास्तदर्थविचक्षणा अत एव कारणात्तानि चिह्नानि योगी समाधियुक्तो लक्षयेन्मनसा निमित्तानि क्रमेण सम्भवन्ति।। १३।। 


तत्र क्रममाह-


प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिहनम्। 

खद्योतवत्तृतीयं तुर्यं दीपोज्ज्वलं स्पष्टम्।। १४।। 


प्रथममित्यादि। मृगतृष्णाभं मरीचिकासदृशं धूमाकारं द्वितीयकं चिहनं एतत्स्पष्टमेव खद्योतवत्तृतीयं ज्योतिर्लिंगनवत्तुर्यं चतुर्थं दीपोज्ज्वलं दीपकलिकासदृशं स्पष्टं व्यक्तम्।। १४।। 


पञ्चमचिह्नमाह-


विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पम्। 

एवं लब्धनिमित्तो मुद्रां महतीमवप्नोति।। १५।। 


विगता इति। विगताभ्रगगनसदृशं निर्मलाकाशवत्। प्रभास्वर(प्रकाश) मविकल्पं तस्मिंक्षणे चित्तचैत्तनिरोधात्। एवं लब्धनिमितः उक्तक्रमेण प्राप्तनिमित्तो योगी मुद्रां महतीमवाप्नोति। महामुद्रां सर्वाकारवरसहितं शून्यता साक्षात् कुर्यात् इत्यर्थः।। १५।। 


उत्थातुकामः प्रणिपत्य योगिनीं नाथं च कस्थं समुदीर्य मूःकृतिम्। 

उत्थाय कृत्यं विदधीत तत्त्वधीस्तिष्ठेत्सदा योगयुगेन योगवित्।। १६।। 


उत्थातुकाम इत्यादि। तस्मात्समाधेरूत्थातुकामो यदा भवति तदा योगिनीं वज्रवाराहीं प्रणिपत्य नमस्कृत्य नाथं च कः शिरस्थं समुदीर्य उच्चार्य च मूःकृतिं मूरिति मन्त्रं पठित्वा उत्थाय कृत्यं विदधीत तत्त्वधीः निः स्वभावबुद्धिस्तिष्ठेत् सदा योगयुगेन युगनद्धाहंकारेण योगविन्महासुखसमाधिज्ञानम्।। १६।। 


इति तत्त्वज्ञानसंसिद्धौ मध्यमकरूचिभिक्षुध्यानचन्द्रविरचितायां महासुखप्रकाशिकायां भावनाविधिः।। २।। 


[शिष्यानुग्रहविधिः ] 


अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाब्जनतैः। 

मन्त्री तिथौ दशम्यां विदधीतानुग्रहं तेषाम्।। १।। 


इदानीं शिष्यकरणार्थमुच्यते। अध्येषितश्चेत्यादि। अध्येषितः प्रार्थितो बहुशः अनेकधा शिष्यैः कृतमण्डलैः कृतं मण्डलं यैर्मण्डलकरण पुरः सरं गुरूरध्येषणीयः। पदाब्जनतैः पदपद्यं नतैः येषां तैर्विमन्त्रैः विमन्त्रर्भगवती मन्त्रजस्थितौ दशम्यां नान्यस्यां तिथौ विदधीत कुर्यादनुग्रहं कृपां तेषां शिष्याणाम्।। १।। 


संपूज्य मन्त्ररूपां देवीं चक्रस्थितां विहितयोगः। 

आदाय मन्त्रजप्तं परमाद्यं निष्क्रमेत्तस्मात्।। २।। 


संपूज्य मन्त्ररूपामित्यादि। सिन्दूरपूजाप्रस्तावे विलिखितां मन्त्रस्वभावमार्चयित्वा देवीं तदेवाह। चक्रस्थितां षडारचक्रे स्थितां विहितयोगः कृतसमापत्तिः अथवा भगवत्या महाभिन्नमूर्तिः। आदाय गृहीत्वा मन्त्रजप्तं भगवतीमन्त्रेण परिशोधयेत्। 


परमाद्यं निष्क्रमेत्तस्माद्भगवतीपूजास्थानात् एतदुक्तं भवति भगवती पूज्यते तन्त्रान्तःपटादिकं दातव्यं ततो भगवतीं पूजयित्वा तस्माद्देशान्मन्त्रविशुद्धं द्रव्यं गृहीत्वा बहिर्गच्छेत्। शिष्यार्थमिति भावः।। २।। 


अथ विहितपञ्चमण्डलमूर्ध्वस्थं तद्दत्तदक्षिणं शिष्यम्। 

कुसुमस्रजं दधानं ध्यातकनाथं गुरूः पश्येत्।। ३।। 


अथेत्यादि। शिष्यं पश्येदिति सम्बन्धः। विहितपञ्चमण्डल जानुद्वयकरद्वयशिरोभिः कृतनमस्कारमित्यर्थः। ऊर्ध्वस्थं तद्दत्त दक्षिणं कृतसर्वस्वपरित्यागं कुसुमस्रजं दधानं पुष्पमालां हस्तद्वयेन बिभ्राणं ध्यातके शिरसि नाथो गुरूर्येन तं गुरूर्वज्रगुरूरित्यर्थः।। ३।। 


तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत्। 

ध्यात्वाऽन्तवासिगात्रे वज्रभृत्तस्य सन्दद्यात्।। ४।। 


तदन्वित्यादि। तदनन्तरं यथोक्तं देवीचक्रं षडारं मन्त्राक्षरपरिपूर्णं प्रोद्यन्मरीचिकं स्फ़ुरद्रश्मिकं रयवत् भ्रमत् एवंविधं चक्रं ध्यात्वा चिन्तयित्वा अन्तवासिगात्रे अन्तवासी शिष्यस्तस्य गात्रे निर्माणचक्रे तदनन्तरं किं कर्तव्यं वज्रभृत्तस्य सन्दद्यात् तदा परिपूर्णं पात्रं शिष्यस्य सन्दद्यात् शिष्येण च सर्वमेवोपयोक्तव्यम्। तन्मदनमित्युपदेशः।। ४।। 


एवं स्यादावेशोत्कलिका प्रकम्पनं बाष्पः। 

पातो ज्ञानोत्पादः स्व(सा)रूप्यं चापि परिपाट्याः।। ५।। 


एवमित्यादि। अनेन क्रमेणावेशः स्यात् तत्र विविध आवेशः कायावेशो वागावेशश्चित्तावेशश्च। तत्र कायावेशे उत्कलिका रोमाञ्चो भवति प्रकम्पनं गात्राणां स्युः हर्षाश्रुपातो भुवि पतित्वा याति चित्तावेशे ज्ञानोत्पादः स्वरूपप्रतिभानं स्वयमेव स्यात् वागावेशे अपूर्वप्रवचनं सारूप्यं सदृशं सर्वज्ञज्ञानप्रतिपादनम्। सदृशं कथयति परिपाट्या क्रमेणेति। अथवा इत्थमपि मन्दपुण्यस्यावेशो न भवेत् तदायं विधिः करणीयः। छागलपञ्चाङ्गं पञ्चतथागतबीजेनाधितिष्ठेत् महातैलमहागुग्गुलसहितं समभागं तु कारयेत् तेन वाराह्या मन्त्रेण धूपो देयः घ्राणित मात्रेण समावेशो भवति निश्चितमिति।। ५।। 


तदनु कथयेत्समाधिं पूजामन्त्रं च वज्रयोगिन्याः। 

श्रद्धान्वितस्य गुणिनो गुरूबुद्धाभिन्नसद्भक्तेः।। ६।। 


तदन्वित्यादि। समाधिं कथयेत् महासुखसमाधिमित्यर्थः। पूजामन्त्रं च वज्रयोगिन्याः। श्रद्धायुक्तस्य गुणिनः प्राज्ञस्य गुरूबुद्धाभिन्नसद्भक्तेर्गुरौ बुद्धे तयोरभिन्नत्वात् सद्भक्तिर्यस्य यथा शास्तारं पश्यति तथा गुरूमपि।। ६।। 


कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धं वा। 

श्रद्धाविरहितमनसो भक्तिविहीनस्य शिष्यस्य।।। ७।। 


कथयेन्नेत्यादि। न कथयेन्न प्रकाशयेदेनं योगं पूर्वोक्तसमाधिं सद्यः प्रत्ययकरं न मित्रेण प्रतीतिजनकं सुसिद्धिदं शोभना सिद्धिर्महामुद्रा तां ददातीति श्रद्धाविरहितमनसः श्रद्धापरित्यक्तचित्तस्य भक्तिविहीनस्य शिष्यस्य।। ७।। 


इदानीं पुनर्दृष्ट्वानुशंसामाह-


विदधाति यस्तु पूजां देवीचक्रस्य मन्त्रयुक्तस्य। 

तस्यापयान्ति भयान्यष्टौ पापानि च महान्ति।। ८।। 


विदधातीत्यादि। यो मन्त्रपूजां कुरूते देवीचक्रस्य वज्रवाराहीभगवत्या षडारचक्रस्य मन्त्रयुक्तस्य मन्त्रपरिपूर्णस्य तस्याष्टौ भयान्यपयान्ति सिंहहस्तिवह्निसर्पचौरनिगडजलेभ्यो भयान्यपयान्ति पापानि च महान्ति च पञ्चानन्तर्यकर्माण्यपि पलायन्ते।। ८।। 


दुर्भगता दारिद्र्य व्याधिजरादुःखदौर्मनस्यानि। 

भ्रमकलिकलुषक्लेशाः पीडा नानाविधाश्चापि।। ९।। 


दुर्भगतेत्यादि। लोके परमसौभाग्यसम्पन्नो भवति दारिद्रयं निर्धनता व्याधिः कायपीडाजरावार्धक्यं दुःखं कायिकी वेदना दौर्मनस्यं चैतसिकी वेदना भ्रमो भ्रान्तिः कलिर्विवादः कलुषं पापं क्लेशा रागद्वेषमोहाः ग्रहद्युपद्रवाः नानाविधा अनेकप्रकारा अपयान्तीत्यनेन सम्बन्धः।। ९।। 


यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचाऽसौ। 

प्राप्नोत्यष्टौ सिद्धीः पञ्चाभिज्ञास्तथाष्टगुणान्।। १०।। 


यो जपतीत्यादि। चक्रमन्त्रं चक्रसहितमन्त्रं ध्यात्वा चिन्तयित्वा हृदये निरोधवाचा मनसा असौ मन्त्री अष्टौ सिद्धीः प्राप्नोति अञ्जनगुटिकापादुकासिद्धौषधिमणिमन्त्रयक्षस्त्रीपरपुरप्रवेशान्, पञ्चाभिज्ञाः दिव्यं श्रोत्रं दिव्यचक्षुः परचित्तज्ञानं पूर्वनिवासानुस्मृति ऋद्धिविज्ञानं तथाष्टगुणान् अणिमा लघिमा गरिमा ईशित्वं वशित्वं कर्तृत्वं भोज्यत्वं इच्छाप्रकामजा(ता) एतानष्टगुणान्।। १०।। 


ध्यायति यः किरवक्त्रां प्रतिदिवसं यत्नतश्चतुःसन्ध्यम्। 

हरिहरिण्यगर्भैर्जेतुमशक्यां मृतिं जयति।। ११।। 


ध्यायतीत्यादि। यो मन्त्री किरवक्त्रां कोलास्यां ध्यायति प्रतिदिवसं यत्न तश्चतुः सन्ध्यं प्रातर्मध्याह्नविकाले मध्यरात्रिषु स मृतिं मरणं जयति। हरिहरहिरण्यगर्भैर्जेतुमशक्यम्।। ११।। 


वस्त्रान्नपानधनधान्यविशालभूमिः प्रासाददिव्यशयनासनसाधनानि। 

तस्योद्भवन्ति दयिता विविधाश्च विद्या यो भावयत्यशनिकोलमुखीं सचक्राम्।। १२।। 


।। इति तत्त्वज्ञानसंसिद्धौ सानुशंसा शिष्यानुग्रहविधिः।। 


वस्त्रान्नेत्यादि। वस्त्रं वसनं अन्नं भक्तादि पानं दुग्धादि धनं सुवर्णादि धान्यं ब्रीह्यादि विशालभूमिर्महती पृथ्वी प्रासादो दिव्यगृहं दिव्यशयनं तूलिकादि आसनं सिंहासनादि साधनानि मञ्चादि एतानि सकलानि तस्य मन्त्रिणो भवन्ति। दयिताश्च दिव्याङ्गनाः विविधाश्च विद्या नानाशिल्पकलादयः यो भावयत्यशनिकोलमुखीं वज्रकोलास्यां सचक्रां अधर्ध्वचक्रद्वयसहिताम्।। १२।। 


इति तत्त्वज्ञानसंसिद्धिटीकायां मध्यमकरूचिभिक्षुध्यानचन्द्रविरचितायां सानुशंसा शिष्यानुग्रहविधिः। 


[ मन्त्रोद्धारविधिः ]


अथातो मन्त्ररहस्यं , गुरूपरम्परायातो मन्त्रोद्धारो विलिख्यते-


मन्त्रोद्धारमतः परमभिधास्ये वज्रयोगिनीहृदयम्। 

कर्णात्कर्णमुपागतमास्यादास्यं तथा क्रमतः।। १।। 


मन्त्रेत्यादि। अतः परं पूर्वोक्तादनन्तरं मन्त्रोद्धारमभिधास्ये वक्ष्यामि वज्रयोगिनीहृदयं कोलमुखीहृदयं कर्णात्कर्णमुपागतं कर्णपरम्परासमायातं अत्यन्तगोपनीयत्वात्।। १।। 


पूर्वोदितमिव चक्रं संलिख्य मरूद्गणालयोपेताम्। 

तत्र लिखेत् परिपाटित आलिकालिं तथैव कोणम्।। २।। 


पूर्वेत्यादि। पूर्वोदितमिव पूर्वकथितमिव धर्मोदयाकारं चक्रं संलिख्य। मरूद्गणालयोपेतां ऊनपञ्चाशकोष्ठान्वितं परिपाटितो यथाक्रमं आलिकालिं तत्र चक्रे लिखेत्। अकारमारभ्य षोडशस्वरान् ककारमारभ्य हकारं यावत्। अतएव त्रिकोणप्रस्तावक्रमोऽभिधीयते। 


एकं त्रीणि तथा पञ्च सप्त नव विशेषतः। 

एकादशत्रिभिर्युक्तं दशमं कोष्ठलक्षणम्।। 

उपर्युपरिभावेन लिखेत्तत्र क्रमेण तु। 

आलिकालिं क्षकारेण शून्यं कृत्वा न्यसेद्बुधः।। २।। 


अक्षरोद्धारः सम्प्रत्यभिधीयते-


ज़्हाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तम्। 

त्रिकमादितो विलिख्य सदक्षरं तत्त्वपरिदीपि।। ३।। 


ज़्हाधरगेत्यादि। ज़्हकारस्याधरगो यस्तं ज़्हाधरगं अकारं लिखेत् इति सर्वत्र सम्बन्धः। डकारस्याधरस्थो यस्तं डाधरस्थं उकारं हाधरगविभूषितं हकारस्याधरो यस्तं हाधरगं मकारं तेन विभूषितं समायुक्तं अकारउकाराभ्यां समायोगे सति अकारस्तं मकारेण भूषितम्। ॐ कारमित्यर्थस्त्रिकमादितो विलिख्यं। ॐ ॐ ॐ सदक्षरतत्त्वपरिदीपि उत्कृष्टाक्षरतत्त्वप्रकाशकः।। ३।। 


भोर्ध्वगतं छोर्ध्वस्थितसमेत ( तं ) टोर्ध्वस्थितं तदनु लेख्यम्। 

डाधरयुतं षाधरगं षोर्ध्वस्थितयुक्तशोर्ध्वगतम्।। ४।। 


भोर्ध्वगेत्यादि। भकारस्योर्ध्वगतो यः सकारं ( स ) छोर्ध्वस्थितं छकारस्योर्ध्वस्थितं बकारं संयुत टोर्ध्वस्थितं रेफ़ं तदनु लेख्यं ( व ) डाधरयुतं षाधरगं डकारस्याधर उकारस्तेन युक्तं षाधरगं बकारं ( बु ) षोर्ध्वस्थित युक्त शोर्ध्वगतं षकारस्योर्ध्वस्थितं धकारं तेन युक्तं शकारस्योर्ध्वगतं दकारम् ( द्ध )।। ४।। 


ञाधरयुतलृतलस्थं टाधरयुतपोर्ध्वसंस्थितं तदनु। 

ठाधरगान्वितफ़ोर्ध्वगं ऐवमयुतं हटान्तः स्थम्।। ५।। 


ञाधेरत्यादि। ञाधरयुतं लृतलस्थं ञकारस्याधरं आकारं तेन युतं लृकारस्य तलस्थं डकारं ( डा) टाधरयुतं पोर्ध्वसंस्थितं तदनु टकारस्याधरं इकारं तेन युतं पकारस्योर्ध्वस्थितं ककारं ( कि ) ठाधरगान्वित फ़ोर्ध्वगं ठकारस्याधरं ईकारं तेन सहितं फ़कारस्योर्ध्वगं नकारं ( नी ) ऐवमयुतं हटान्तः स्थं ऐकारस्य वामं एकारं तत्स्थितं हटान्तस्थं हकारटकारयोर्मध्यगतं यकारम् ( ये )।। ५।। 


चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितम्। 

तदनु हथमध्यगतं तवामगयुक्तं ठलमध्यगं पश्चात्।। ६।। 


चसमध्यगतं विलेख्यं चकारसकारयोर्मध्यगतं बकारं ( ब ) ठसव्यसमेतं भाधरसुसंस्थितं तदनु ठकारस्य दक्षिणगतं रेफ़ं तेन युक्तं भाधरसुसंस्थितं भकारस्याधरसुसंस्थितं जकारं ( ज्र) हथमध्यगतं हकारथकारयोर्मध्यगं वकारम् ( व )। तवामगयुतं ठलमध्यगं तकारस्य वामगं णकारं तेन युतं ठकारलकारयोर्मध्यगतं रेफ़म् ( ण्ण )।। ६।। 


सर्वकरा(ला) न्तफ़मध्यं तृतीयवर्गादिवामगसमेतम्। 

णोर्ध्वयुतं लाधरगं छोर्ध्वस्थं भतलगं ठसव्ययुतम्।। ७।। 


सर्वकरा(ला) न्तफ़लमध्यं तृतीयवर्गादि वामगसमेतं सर्वकलान्तं अःकार फ़कारश्च तयोर्मध्ये नकारः तृतीयवर्गस्यादि टकारस्तस्य वामगं इकारः तेन सहितं ( नी ) णोर्ध्वयुतं लाधरं णकारस्योर्ध्वे एकारं तत्सहितं लाधरगं लाधरगतं यकारं ( ये ) छोर्ध्वस्थितं ( स्थं ) छकारस्योर्ध्वस्थितं बकारं ( व ) भतलगं ठसव्ययुतं भकारस्य तलगं जकारं ठकारस्य दक्षिणं रेफ़ं तद्युक्तम् ( ज्र )।। ७।। 


तोर्ध्वगयुतं षाधरगं थोर्ध्वगसंयुक्तं णाधरगं पश्चात्। 

फ़ाधरगं ठाधरसंयुक्तं फ़ोर्ध्वस्थं णोर्ध्वयुक्तं लाधरगम्।। ८।। 


तोर्ध्वगयुतं षाधरगं तकारस्योर्ध्वगं ऐकारं तत्सहितं षकारस्याधरगं बकारं ( वै) थोर्ध्वगसंयुक्तं णाधरगं पश्चात् थकारस्योर्ध्वगतं अकारं तत्संयुक्तं णाधरं रेफ़ं ( रो ) फ़ाधरगं फ़कारस्याधरगं चकार ( च ) ठाधरसंयुक्तं फ़ोर्ध्वस्थं ठकारस्याधरगं ईकारं तद्युक्तं फ़कारस्योर्ध्वस्थितं नकारं ( र ) ( नी ) णोर्ध्वयुक्तं लाधरगं णकारस्योर्ध्वं एकारं तद्युक्तं लकारस्याधरगं यकारम् ( ये )।। ८ ।। 


डाधरशून्यसमेतं त्रिवतलगं चोर्ध्वस्थितं रतलम्। 

थाधरयुतं शाधरगं ञाधरगसमायुक्तं चापि।। ९।। 


डाधरशून्यसमेतं त्रिवतलगं डकारस्याधरं उकारं शून्यमनुस्वारं ताभ्यां समेतं वतलगं हकारं ( हुँ ) तदपि त्रयं ( हुँ हुँ हुँ ) चोर्ध्वस्थितं चकारस्योर्ध्व स्थितं फ़कारं। रतलं रेफ़तलं टकार समुदायेन फ़ट्त्रयं बोधव्यं ( फ़ट् फ़ट् फ़ट् ) थाधरयुतं शाधरगं ञाधरगं समायुक्तं चापि थकारस्याधरं वकारं तत्सहितं शकारस्याधरगं सकारं ञाधरगसमायुक्तं चापि ञकारस्याधरं आकारं समायुक्तं आकारेणेत्यर्थः ( स्वा )।। ९।। 


सयमध्यगं ज़्हवामगसमेतमुक्ताक्षरकृतो रहस्यः। 

मन्त्रोयमशनिदेव्या लेख्यो जप्यो विभाव्यश्च।। १०।। 


सयमध्यगं ज़्हवामसमेतं सकारयकारयोर्मध्यगतं हकारं ज़्हकारस्य वामगेनाकारेण सहितमित्यर्थः ( हा )। उक्ताक्षरकृतो रहस्य अक्षरकृतकाद्यक्षरात् समाकृष्य रहस्यतद्धेतुत्वात् कोसौ रहस्यः मन्त्रोयं अशनिदेव्याः। वज्रवाराह्याः मन्त्र इत्यर्थः अयं मन्त्रः किंकर्तव्यः अत आह लेख्यो जप्यो विभाव्यश्च। लिखनीयो जपनीयो भावनीयश्च।। १०।। 


चिन्तामणिः कल्पकुठाग्रकुम्भः श्रीकामधुग्धेनुरपि प्रशस्ताः।

ते साध्यमाना ददतीह वित्तान्ययं तु सौख्यं सधनं ददाति।। ११।। 


।। इति तत्त्वज्ञानसंसिद्धौ मन्त्रोद्धारविधिः।। 


चिन्तामणिरित्यादि। चिन्तामणिरत्न ( त्नं ) कल्पकुठः कल्पवृक्षः अग्रकुम्भो भद्रघटः श्रीकामधुक् श्रीकामधेनुः अपि ये प्रशस्ताः ख्याताः सन्ति ते साध्यमानाः सन्तो वित्तानि ददति। अस्मिंल्लोके। अयं पुनर्मन्त्रराजः सौख्यं लोकोत्तरं महासुखं ददाति। सधनं धनसहितमित्यर्थः अन्ये पुनः साधिताः सन्तो धनमेव किं च ददति न निरूत्तरसुखं अयं तु सर्वप्रदः ततश्चायमेव सर्वप्रकारेण सर्वदा सर्वाभिवाञ्छितसिद्ध्यर्थं लोके लोकोत्तरसिद्धिनिमित्तकं बोधिसत्त्वैः सेव्यः।। ११ ।। 


इति तत्त्वज्ञानसंसिद्धौ टीकायां मध्यमकरूचिभिक्षुश्रीध्यानचन्द्रविरचितायां मन्त्रोद्धारविधिः। 


[ स्वाधिष्ठानम् ] 


यस्मिन्नयं पात्रगते व्यलेखि पूजानिमित्तं विधिना विधिज्ञः। 

बालस्य रक्षा विधिवद्विधेया बद्धेन दोः कण्ठशिखासु बाहौ।। १।। 


यस्मिन्नित्यादि। यस्मिन्दर्पणादिभाजनगतोऽयं मन्त्रराजो व्यलेखि पूजानिमित्तं विधिना यथाविधिज्ञ स्सन्मन्त्रिभिः बालस्य रक्षा विधिवद्विधेया शिशोः रक्षा कार्या भगवतीपूजा पुरः सरं बद्धेन तेन मन्त्रसहितं सिन्दूरेण कुत्र दोः कण्ठशिखासु बाहौ कण्ठे शिखायाम्।। १।। 


दृष्ट्वाऽपयान्ति भुजगाः शिशुकं सरक्षं भूता ग्रहा निशिचराः सपिशाचसंघाः। 

अन्ये च बालकभयार्तिकराः सुभीमाः सिंहं यथा वनचरा बलिनं भयार्ताः।। २।। 


दृष्ट्वेत्यादि। अपयान्ति पलायन्ते भुजगाः सर्पाः। शिशुकं दृष्ट्वा सरक्षं रक्षासहितं भूतग्रहा निशिचराः सपिशाचसंघा अपि पलायन्ते अन्येऽपि बालकभयार्तिकराः डाकिन्यादयः सुभीमाः परमभयानकाः। अत्र दृष्टान्तमाह-सिंहं दृष्ट्वा यथा वनचरा मृगादयः अपयान्ति भयभीता प्रपलायन्ते, सिंहं किं विशिष्टं बलिनं बलवन्तं वनचराः किं विशिष्टाः पलायन्ते भयार्ता भयपीडिताः सन्तः।। २।। 


संप्राप्य सदुपदेशं दृष्ट्वा संप्रत्ययं च योगस्य। 

सिद्धिरियं समभिलेखि स्फ़ुरदमलज्ञानसंवसतिः।। ३।। 


संप्राप्येति। सिद्धिरियं समभिलेखीति सम्बन्धः। सम्प्राप्य सदुपदेशं यथावदुपदेशं लब्ध्वा दृष्ट्वा संप्रत्ययं च योगस्य अस्य भगवतीयोगस्य प्रतीतिं वीक्ष्य स्फ़ुरदमलज्ञानं संवसतिः स्फ़ुरत्प्रकाशरूपत्वात् अमलं ज्ञानं सर्वक्लेशोपरमात्तस्य संवातिः स्थानम्।। ३।। 


तस्मात्तत्संप्राप्त्यै सम्सेव्यं सुगुरोः पदाम्बुरूहम्। 

साम्ना प्रदानविधिना कायक्लेशैः प्रणामैश्च।। ४।। 


तस्मादित्यादि। अतएव तत्संप्राप्त्यै तदुपदेशलाभाय संसेव्यं सम्यगाराधनीयं सुगुरोर्लब्धनिमित्तस्य पादाम्बुरूहं चरणपद्यं साम्ना सौमनस्येन अथवा प्रदानविधिना प्रकृष्टवस्त्रदानेन कायक्लेशैर्वा प्रणामैर्वा सर्वप्रकारेण गुरोः आराधनं सर्वम्।। ४।। 


तत्त्वज्ञानाग्रसिद्धिर्बहुहितजननी या जनन्येव लोके सत्त्वानां यन्मयासीत्कुशलकलुषं पूर्णचन्द्रांशुशुभ्रम्। 

भूयासुस्तेन लोकाः कलिमलविकलाः शुद्धसम्बोधिभाजो लब्ध्वा मुद्रामुदारां भवभयशमनीं सर्वसत्त्वार्थकर्त्रीम्।। ५।। 


समाप्तोऽयं तत्त्वज्ञानसिद्धिर्नाम स्वाधिष्ठानश्चेति। 


तत्त्वज्ञानेत्यादि। तत्त्वं अनुत्पादं तथा च जिनजनन्यां योऽनुत्पादः सर्वधर्माणां सा प्रज्ञापारमिता तस्य तत्त्वज्ञानाग्रसिद्धिः श्रेष्ठसिधिश्च हितजननी चक्रपुण्यजननी यो लोके त्रैधातुके जनन्येव सर्वसत्त्वानां समीहितार्थप्रसवनाद्वहुपुण्यमासीत् कुशलं अकलुषं क्लेशरहितं पूर्णचन्द्रांशुवत् शुभ्रं भूयासुः तेन पुण्येन लोकाः कलिमलविकलाः कलिविवादो मलं क्लेशास्ताभ्यां विकला रहिताः शुद्धसम्बोधिभाजः सम्यक्सम्बोधिमभिलब्ध्वा उदारा महामुद्रां प्राप्य भवभयशमनीं भवः संसारः शमो निर्वाणं तयोः शमनीं भवनिर्वाणग्रहनिवारणीं सर्वसत्त्वार्थकर्त्रीं सर्वसत्त्वानां सम्बोधिकारिणीत्यर्थः।। ५।। 


इति तत्त्वज्ञानसंसिद्धिटीकायां मध्यमकरूचिभिक्षुश्रीध्यानचन्द्रविरचितायां सामर्थ्यपुण्यपरिणामनाविधिः समाप्तः। 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project