Digital Sanskrit Buddhist Canon

वाङ्मण्डलनमस्कारश्लोकाः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

वाङ्मण्डलनमस्कारश्लोकाः

 

एकानना वेदकरास्त्रिनेत्राः

चच्र्यादिदेव्यः सुविशाखपादाः।

नाभि(भी)सरोजस्थितयामनाडीशुद्धाः

सुरत्नान्वितमौलियुक्त्ताः॥१॥

 

पूर्वे हकत्र्युद्भवकृष्णचाच्र्चि

वन्दे शवस्थारुणपध्मसंस्थाम्।

तां कर्तिशूले च

भुजेषु शक्त्तिः खट्वाङ्ग इन्द्रोऽङ्कगतश्च यस्याः॥ २

 

पध्मेषु चर्चिकादीनां

दण्डनाडयात्मिकाः क्रमात्।

संमुखाड्डक्षिणावर्त्ते

दलस्था ललिताङ्घ्रयः॥ ३॥

 

भीमोग्रा कालदंष्ट्रा

ज्वलदनलमुखा वायुवेगा प्रचण्डा

रौद्राक्षी स्थूलनासा

कमलवसुदले चर्चिकादद्याः स्वदिक्षु।

अष्टौ श्रीनायिकाभा

हि-भव-य-यि-यृ-ही-जातकर्त्युद्भवाया-

स्ताभ्यः श्रीयोगिनीभ्यो

नम इह इहु-य्ळृ-यं-जातकर्त्युद्भवाश्च॥४॥

 

वाराहिकार्ककमले

महिषारुणाभा

हःकारदण्डजनिता

सितशङ्कराङ्का।

दण्डः करेष्वसिवरो

वरशृङ्खला च

खेटं यमे पदयुगं

प्रणमामि तस्याः॥५॥

 

कङ्काली कालरात्री(त्रिः) प्रकुपितवदना कालदंष्ट्रा

(जिह्वा) कराली

काली घोरा विरूपा

कमलवसुदले शूकरी यन्त्रदेवी।

अष्टौ श्रीनायिकाभा

हृभव-र-रि-रृ-जातदण्डोद्भवायाः

ताभ्यः श्रीयोगिनीभ्यो

नम इह रु-र्ळृ-रं जातदण्डोद्भवाश्च॥६॥

 

शुक्लोत्तरे वृषभलोहितपद्मसंस्थां

रौद्रीं च हंजनितशूलभवां

नमामि।

यस्यास्त्रिशूलडमरू

क्रमतो भुजेषु

खट्वाङ्गशुक्लभुजगा

वरुणो यमोऽङ्के॥७॥

 

गौरी गङ्गा च नित्या

स्वपरमन्त्रेरिता त्रो
(तो)तला लक्ष्मणा च

पिङ्गा कृष्णा तथाष्टौ

कमलवसुदले नायिका यत्र रौद्री।

श्रीमद्रौद्रीसमाना

हुभव-व-वि-वृ-ह-जातशूलेन जाताः

ताभ्यः श्रीयोगिनीभ्यो

नम इह वु-वॢ-वं-जातशूलोद्भवायाः॥८॥

 

ऐरावतारुणपयोजगहाजवज्र-

जाता स्ववर्णसदृशी

दनुभूमिताङ्का।

ऐन्द्री स्थिता

च वरुणे पविवाणघण्टा-

कोदण्डपाणिकमला

प्रणमामि तां च॥९॥

 

वज्राभा वज्रगात्रा

वरकनकवती चोर्वशी चित्रलेखा

रम्भाऽहल्या सुतारा

कमलवसुदले वज्रहस्ताधिदेवे।

अष्टौ श्रीनायिकाभा

हृभव-ल-लि-ऌ-हृ-जातवज्रोद्भवाया-

स्ताभ्यः श्रीयोगिनीभ्यो

नम इह ऌ लॣ लं जातवज्रोद्भवाभ्यः॥१०॥

 

ब्राह्मी तु हंसगसिताब्जगतार्कनेत्रा

क्ष्माजातसूचितचतुर्मुखपीतवर्णा।

वायौ तु तां धृतपयोभवदण्डकुण्डी-

पात्रां नमामि घनवर्णहरिर्यदङ्के॥११॥

 

सावित्री पद्मनेत्रा

खलु जलजवती बुद्धिवागीश्वरर्द्धि-

र्गायत्री विद्युदेव

स्मृतिरपि कमले वेदवक्त्राधिदैव।

ताभ्यो ब्राह्मीनिभाभ्यो

नम इह सततं योगिनीभ्यः क्षृ-ला-ली-

ऌ-क्षॄ-लु-ॡ-लः

एभिः क्रमपरिनिहितैर्जातशून्योद्भवाभ्यः॥२॥

 

क्षं जातपद्मजनिता

शशिकान्तिलक्ष्मि

सिंहस्थशुक्लकमले

गिरिशे नमामि।

पद्माक्षसूक्त्रकमलानि

मणिश्च पाणौ

क्रोडे स्थितो रसमुखश्चरणं

हि तस्याः॥१३॥

 

श्रीश्चेता चन्द्रलेखा

शशधरवदना हंसवर्णा धृतिश्च

पद्मेशा तारनेत्रा

विमलशशधरा ईशपद्मे सचिह्ना।

ताभ्यो लक्ष्मीनिभाभ्यो

नम इह सततं योगिनीभ्यं क्षु-रा-री-

रॄ-क्षॄ-रू-र्ळी-रः-एभीः

क्रमपरिविहितैर्जातपद्मोद्भवाभ्यः॥१४॥

 

क्षं-शक्तिचिह्नजनितां

रविसन्निभां तां

केकिस्थशुक्लकमले

गणनायकाङ्काम्।

कौमारिकां दनुदिशि

प्रणमामि यस्याः

शक्त्यङ्कृशौ च

मणिपाशवरौ करेषु॥५॥

 

पद्मानङ्गा कुमारी

मृगपतिनयना रत्नमाला सुनेत्रा

क्लीना भद्रा पयोजे

वरशिखिगमना नायिका यत्र राजन्।

ताभ्यो देवीसमाभ्यो

नम इह सततं योगिनीभ्यः क्षु-रा-री-

रॄ-क्षॄ-रू-रॣ-रः-एभिः

क्रमपरिनिहितैर्जात
[रत्नोद्?]भवाभ्यः॥१६॥

 

वह्नौ क्षचक्रजनितासितपद्मसंस्था

श्रीवैष्णवी [] गरुडा चतुराननाङ्का।

अत्यन्तकृष्णतनुचक्रगदापयोज-

शङ्खोत्तमाङ्कितकरा

च नमोस्तु तस्यै॥१७॥

 

श्रीमायाकीर्तिलक्ष्म्यौ

स्वपरमविजया श्रीजया श्रीजयन्ती

श्रीचक्री चाष्टमी

वै कमलसुदले वैष्णवी दिक्षु देशे।

ताभ्यो देवीनिभाभ्यो

नम इह सततं योगिनीभ्यः क्षि-या-यी-

यृ-क्षी-यॢ-यः-एभिः

क्रमविधिनिहितैर्जातचक्रोद्भवाभ्यः॥१८॥

 

सव्यद्वार्वामवेद्यां

खलु क-ख-ग-घ-ङ-व्यञ्जैर्बिन्दुयुग्म-

युक्तैर्बीजैः प्रजातैर्द्विभुजशशिमुखेच्छादिकाः

पञ्च जाताः।

पूर्वादेः सव्यवेद्यामपि

च-ट-प-त-वर्गाक्षरेभ्यः प्रजातै-

स्ते वर्णाः पञ्च

पञ्च प्रतिदिशि निहिता बीजधातुस्वचिह्नैः॥१९॥

 

तद्वत्सवर्गजैर्वामवेद्यां

पूर्वहवर्गजैः।

वामोत्थेकापरे चन्द्रे

क्षःकारजेन तास्तथा॥२०॥

 

























































































































































































































































































































































































[॥ इति वाङ्मण्डलनमस्कारश्लोकाः॥

]

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project