Digital Sanskrit Buddhist Canon

अन्तर्व्याप्तिसमर्थनम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

अन्तर्व्याप्तिसमर्थनम्

 

ॐ नमो बुद्धाय।

 

.१ इह सत्त्वमर्थक्रियाकारित्वं
तदितरसत्त्वलक्षणायोगात्। १
.२ तच्च क्रमयौगपद्याभ्यां व्याप्तं परस्परव्यवच्छेदलक्षणत्वादनयोः।
.३ प्रकारान्तरेण करणासम्भवात्। १.४ क्रमयौगपद्ये
चाक्षणिकत्वे न स्तः। १
.५ पूर्वापरकालयोरविचलितैकस्वभावस्य कर्त्तृत्वाकर्त्तृत्वे विरूद्धधर्मद्वयायोगात्।

 

.१ तत्र न तावत्
क्रमः क्रमाणामेकैकं प्रति पूर्वापर
- कालयोः कर्त्तृत्वाकर्त्तृत्वापत्तेः।
.२ एवं सर्वक्रमाभावात् केवलं सकलकार्ययौगपद्यमवशिष्यते। २.३ तत्र च स्फ़ुटतरः
पूर्वापरकालयोः कत्तृत्वाकर्त्तृत्वप्रसङ्गः। २
.४ विरूद्धे च कर्त्तृत्वाकर्त्तृत्वे
एकधर्मिणि न सम्भवतः। २
.५ एकस्वभावश्च तावत्कालमक्षणिक इति सिद्ध एतस्मिन् क्रमयौगपद्ययोरयोगः।
.६ तदेवमक्षणिके व्यापकानुपलब्ध्या निषिद्धं सत्त्वं क्षणिक एवा [] तिष्ठते इति क्षणिकत्वेन
व्याप्तं
( व्याप्तम् )। २.७ तत्तेन व्याप्तं यत् यत्र धर्मिणि सिध्यति तत्र क्षणिकत्वं प्रसाधयति।
.८ इदमेवेदानीं विचार्यते। २.९ केयं [क्वेयं ] व्याप्तिर्ग्रहीतव्या
दृष्टान्तधर्मिणि साध्यधर्मिणि वा। २
.१० केचिदाहुः। २.११ दृष्टान्तधर्मिण्येव
धूमवत्। २
.१२ अन्यथा साधनवैफ़ल्यं स्यात्। २.१३ उभयधर्मसिद्धि
[द्धे] रनान्तरीयकत्वात् व्याप्तिसिद्धेः। २.१४ नहि महानससिद्धायामग्निधूमयोर्व्याप्तौ
पुनरग्निसिद्धये धूमलिङ्गान्विष्यत इति। २
.१५ तथाहि।

 

.० दृष्टान्ते गृह्यते
व्याप्तिर्धर्मयोस्तत्र दृष्टयोः।

हेतुमात्रस्य दृष्टस्य
व्याप्तिः पक्षे तु गम्यते।।

सा च सर्वोपमंहारात्
सामान्यमवलम्बते।

तस्य धर्मिणि वृत्तिस्तु
प्रतीयेतानुमानतः।।

 

.० प्रत्यक्षदृष्टयोर्वह्निधूमयोः
कार्यकारणभावसिद्धौ तयोर्व्याप्तिसिद्धिरिति प्रत्यक्षसिद्धे वह्नौ युक्तमनुमानवैफ़ल्यम्।
.१ नैवं व्याप्तिसिद्धेः प्राक् प्रमाणान्तरसिद्धं धर्मिणि क्षणिकत्वम्।
.२ साधनधर्ममेव तु केवलमनुपश्यन्तो विपर्य्यये बाधकप्रमाणबलात्तस्य क्षणिकत्वेन
व्याप्तिं प्रतीमः। ४
.३ तत्ततः साधनवैफ़ल्यम्। ४.४ वैफ़ल्यमेव, क्षणिकत्वव्याप्तस्य
सत्त्वस्य तथात्वेन धर्मिणि प्रतीतौ क्षणिकत्वस्यापि प्रतीतेरिति चेत्। ४
.५ न। ४.६ सर्वोपसंहारवती
हि व्याप्तिः साध्यसिद्धेरङ्गम्। ४
.७ तदियमनपेक्षितधर्मिविशेषं
साधनधर्ममात्रमवलम्बते। ४
.८ तद्यथा। ४.९ यत्र धूमस्तत्राग्निरिति। ४.१० न पुनर्यत्र
महानसे धूमस्तत्राग्निरिति। ४
.११ एवमिहापि यत् सत्तत्क्षणिकमिति व्याप्तिप्रतीतौ
साधनधर्मस्यापि धर्मिणि सत्त्वं नान्तर्भवति। ४
.१२ किं पुनः साध्यधर्मस्य।
.१३ तस्मात् सत्त्वसामान्यस्य साधनधर्मस्य पक्षधर्मत्वं व्याप्तिश्चैकशः
प्रतिपाद्य तदुभयसामर्थ्यात् साध्यधर्मस्य धर्मिणि वृत्तिः प्रतीयत इति कुतोऽनुमानवैफ़ल्यं
( कुतोऽनुमानवैफ़ल्यम् )। ४.१४ यद्येवं व्याप्तिप्रतीतावसति
धर्मिणि परामर्शे साध्यधर्मिणि व्याप्तिग्रहणमिति। ४
.१५ कुतः। ४.१६ तत्र दृष्टस्य
सत्त्वस्य व्याप्तिप्रतीतेः। ४
.१७ यथा महानसदृष्टाग्निधूमयोर्व्याप्तिग्रहे
दृष्टान्तधर्मिणि व्याप्तिग्रहणमुच्यते। ४
.१८ न हि व्यप्तिग्रहणे
महानसपरामर्शोऽस्तीत्युक्तं
( महानसपरामर्शोऽस्तीत्युक्तम् )। ४.१९ ननु व्याप्तिपक्षधर्मत्वयोरेकशः
प्रतीतावपि यस्यैव पक्षधर्मत्वमवगतन्तस्यैव साध्येन व्याप्तिरवसितेति सामर्थ्यात् साध्यसत्ताकथनमवैयर्थ्यं
साधनस्य।

 

.० ननु पक्षधर्मत्वगतिः
साध्यगतिः साध्यधर्मसंस्पर्शात्। ५
.१ नापि व्याप्तिप्रतीतिरेव
साध्यसिद्धिः। ५
.२ सामान्यालम्बनतया धर्मिविशेषेण धर्मयोरनवच्छेदात्। ५.३ अन्यथा विशेषयोर्व्याप्ति
प्रसङ्गात् तदयं व्यस्तविषयः समर्थ्यादिति हेतुनिर्द्देशः। ५
.४ अथ हेतोस्त्रैरूप्यपरिच्छेदसामर्थ्यात्
साध्यप्रतीतिरूत्पद्यते इत्युच्यते। ५
.५ न तहींदानीं व्यर्थोहेतुः।
.६ स्वरूपनिश्चयेन साध्यनिश्चयोपजननात्। ५.७ न हि क्वचिदियत्ताधिकं
लिङ्गस्य कर्त्तव्यमस्तीति।

 

.० अपि च गृहीते
पक्षधर्मत्वे सम्बन्धे च स्मृते अनुमानं भवद्भिरिष्यते। ६
.१ तद्वदन्तर्व्याप्तावपीष्यतां
( तद्वदन्तर्व्याप्तावपीष्यताम् )। ६.२ न हि बहिर्व्याप्तिवादिनामपि
विस्मृतायां व्याप्तौ अनुमानप्रवृत्तिरस्ति। ६
.३ तत्र यस्यैव पक्षधर्मत्वमवगतं
तस्यैव साध्यधर्मेण व्याप्तिस्मृतेः किन्न सर्वानुमानवैयर्थ्यं
( सर्व्वानुमानवैयर्थ्यम्
)। ६.४ साध्यधर्मिणोऽपरामर्शेण व्याप्तेः स्मरणादिति चेत्। ६.५ साध्यधर्मिणि
दृष्टस्यैव व्याप्तिस्मरणे कथं साध्यधर्मिणोऽपरामर्शः। ६
.६ सामान्यलम्बनत्वाद्व्याप्तेः।
.७ साध्यधर्मिणोऽनवच्छेदादिति चेत्। ६.८ ननु तत्र दृष्टस्य
कथं तेनानवच्छेदः। ६
.९ तेनावच्छिन्नस्य वा असाधारणत्वात् कथं व्याप्तिः। ६.१० अयोगव्यवच्छेदेन
विशेषणान्नासाधारणतेति चेत्। ६
.११ तथापि किन्न साध्यधर्मी परामृश्यते। ६.१२ यत्र यत्र पर्वते
धूमस्तत्र तत्राग्निर्यथा महानस इति सामान्यालम्बनायां व्याप्तौ धर्मिविशेष परामर्शस्यानङ्गत्वादिति
चेत् युक्तमेतत् साध्यधर्मिणा ह्ययोगव्यवच्छेदः साधनधर्मस्य रूपान्तरमेव पक्षधम्मत्वाख्यं
( पक्षधर्मत्वाख्यम् )। ६.१३ न त्वयं व्याप्तेरङ्गं
( व्याप्तेरङ्गम् )। ६.१४ तमन्तरेणापि
व्याप्तेः सामान्यलम्बनायाः परिच्छेदपरिसमाप्तेः कथमन्यथा दृष्टान्तधर्मिणि व्याप्तिग्रहणवार्त्तापि
तदेदानीं पक्षधर्मत्वायोगात् पक्षधर्मत्वाग्रहणात्
; पक्षधर्मत्वग्रहणे
वा तदैव साध्यमपि सामर्थ्यादसिद्धं सिद्धमिति सर्वानुमानवैयर्थ्यप्रसङ्गः। ६
.१५ पश्चात्कालभाविलिङ्गज्ञानमपि
च स्मृतिरेव स्यात् न प्रमाणं
( प्रमाणम् )। ६.१६ तस्मात् व्याप्तेरनङ्गत्वात्
पक्षधर्मत्वं व्याप्तिग्रहणे सदपि नान्तर्भवतीति पृथग्गृहीतस्मृतयोः पक्षधर्मत्वव्याप्त्योः
सामर्थ्यादनुमेयगतिरूत्पद्यते इति। ६
.१७ एवमवैयर्थ्यं
साधनानामेषितव्यम् इति मानफ़लत्वात्। ६
.१८ तद्वत् पृथग्भूतयोः
पक्षधर्मत्वव्याप्त्योः सामर्थ्यादनुमानोत्पत्तिरन्तर्व्याप्तावपि किन्नेष्यते। ६
.११ तदिष्टौ वा कथं
साधनवैयर्थ्यं
( साधनवैयर्थ्यम् )। ६.२० त्रैरूप्यगतिसामर्थ्यादनुमेयगतिरिति
हि तदुपादानशक्तिरेव सामर्थ्यमुच्यते
, न तु त्रैरूप्यप्रतीतेरन्तर्भाव
इति सर्वं समानं
( समानम् )। ६.२१ न सर्वं समानं ( समानम् )। ६.२२ अन्तर्व्याप्तौ
हि व्याप्तिं प्रति गत्यैव पक्षधर्मत्वमवगतं अनवगते पक्षधर्मत्वे व्याप्तेरप्यनवगतेः।
.२३ ततो व्याप्तिपूर्वके साधनवाह्ये पक्शधर्मवचनमनर्थकमनन्तव्याप्तौ ( पक्षधर्मवचनमनर्थकमन्तर्व्याप्तौ
)। ६.२४ नैवं बहिर्व्याप्तौ बहिरेव व्याप्तिग्रहणात्। ७.० अत्राह -

 

" येन तेन क्रमेणत्रि
( क्रमेणापि प्रयुक्ते साधने सति।

अवेत्य पक्षधर्मत्वं
पश्चाद्व्याप्तिः प्रतीयते।।

प्रत्यक्ष इव दृष्टान्ते
तत्र सेत्यन्यथा कथं
( कथम् )

द्वौ दृष्ट्वा विद्य
इति चेद् व्याप्तेः प्राक् द्वयदृक् कथं
( कथम् )।। "

 

.१ व्याप्तिपक्षधर्मत्वे
हि स्ववाक्याभ्यां येन तेन प्रयुक्ताभ्यां सूच्येते न तु साक्षात् प्रतीयेते। ७
.२ वाचः स्वयमप्रमाणत्वात्।
.३ यदाह -

 

शक्तस्य सूचकं हेतुर्वचोऽशक्तमपि
स्वयमिति।

 

.४ सूचितयोऽस्तु
तयोः सत्त्वे हेतौ प्रथमतरपक्षधर्मत्वविषयमेव प्रमाणमभिमुखीभवतु। ७
.५ तेन प्रमाणेन
धर्मिणि सिद्धस्य सत्त्वस्य पश्चाद्व्याप्तिः प्रमाणान्तरेण गृह्यत इति कस्य वैयर्थ्यमिति।
.६ प्रत्यक्षेऽपि दृष्टान्तधर्मिणि प्रथमं हेतुर्गृह्यते पश्चाद्व्याप्तिरित्येष
एव क्रमः अन्यथा दृष्टान्तधर्मिणि व्याप्तिर्गृहीतेत्येतदेव न स्यात्। ७
.७ दृष्टान्तधर्मिण्यदृष्टस्यैव
हेतोर्व्याप्तिग्रहणात्। ७
.८ यद्येवं साध्यधर्मोऽपि व्याप्तिग्रहणाधिकरणे धर्मिणि ग्रहीतव्य एव यथा
वह्निधूमयोरिति चेत्। ७
.९ न। ७.१० तत्र दृष्टस्य हेतोर्विपक्षे बाधकवृत्तिमादेव व्याप्तिसिद्धेः। ७.११ ज्ञातश्चैवं
न खलु व्याप्तिग्रहणात् प्राक् क्षणिकस्य क्वचिदपि सिद्धिरस्ति तस्यानुमेयत्वात्। ७
.१२ असिद्धायाञ्च
व्याप्तावनुमानाप्रवृत्तेः। ७
.१३ असिद्धायाञ्च व्याप्तावनुमानाप्रवृत्तेः।
.१३ साधनान्तरस्य च तदर्थमननुसरणात्। ७.१४ अनुसरणेऽप्यनवस्था
स्यात्। ७
.१५ अवस्थाने तावत् प्रयासस्य वैयर्थ्यात्। ७.१६ विपर्य्यये व्याप्तिबलादेव
व्याप्तिसिद्धेरविघातात्। ७
.१७ वह्निधूमयोस्तु नादृष्टयोः कार्यकारणभावसिद्धेः।
.१८ तत्सिद्धौ न विपक्षे बाधकवृत्तिरिति द्वयदर्शनव्यपेक्षा वह्निधूमयोर्व्याप्तिसिद्धिः।
.१९ सत्त्वक्षणिकत्वयोस्तु नैवं ( नैवम् )। ७.२० यथोक्तन्यायेन
व्याप्तिसिद्धेः। ७
.२१ तस्मात् सत्त्वमात्रस्य तत्र धर्मिणि सिद्धस्य बाधकवशाद्व्याप्तिः
सेत्स्यतीत्येषितव्यं
( सेत्स्यतीत्येषितव्यम् )। ७.२२ तद्वदन्तर्व्याप्तावपि।
.२३ ते इमे व्याप्तिपक्षधर्मत्वे स्वस्वप्रमाणव्यवच्छ ( छे ) द्यसाधनवाक्ये
न तु केवलं सूचयितव्ये। ७
.२४ न चान्यतरवाक्येन शक्यमुभयं सूचयितुमिति कुतोऽन्यतरवाक्यवैयर्थ्यं
( वैयर्थ्यम् )

 

.२५ एकस्यैव हि धर्मस्य
क्रमात्त्रैरूप्यनिश्चयः।

विस्मृतावनुमाभावात्
तत् किं व्यर्थानुमाखिलेति।।

 

.० अपि च संग्रहश्लोकः-

बाधकात् साध्यसिद्धिश्चेह्यर्थो
हेत्वन्तरग्रहः।

बाधकात्तदसिद्धिश्चेह्यर्थो
धर्म्यन्तरग्रहः।।

 

.१ यदि हि धर्मिणि
व्याप्तिः सिध्यन्त्येव साध्यसिद्धिमन्तर्भावयति। ८
.२ ननु लाभ एवैषः।
.३ व्याप्तिप्रसाधकादेव प्रमाणात् साध्यसिद्धेः सत्त्वहेत्वपाश्रयणप्रयासस्य
निरसनात्। ८
.४ न हि व्यसनमेवैतल्लिङ्गान्तरानुसरणं नाम। ८.५ अथ न व्याप्तिसाधकात्
साध्यसिद्धिः। ८
.६ न तर्ह्यन्यर्व्याप्तौ हेतुवैयर्थमिति किमकाण्डकातरतया बहुतरमायासमाविशसि।
.७ द्वयं हि भवतः साध्यं दृष्टान्तधर्मिणि वृत्तिः साध्यधर्मिणि च यथाक्रमं
व्याप्तिपक्षधर्मत्वयोः सिद्धयर्थं
( सिद्धयर्थम् )। ८.८ ननु यदा प्रतिनियते
धर्मिणि विवादः
, तद्वहिर्भूते च धर्मिणि व्याप्तिग्रहणं तदानीं भवेद्वैयर्थ्यं ( भवेद्वैयर्थ्यम्
)। ८.९ यदा तु वस्तुमात्रे विवादः तदा सर्व्ववस्तुषु हेतोर्वृत्तिस्त्वयापि
साध्या मयापि चेति कतमस्मिन् धर्मिणि हेतोर्वृत्तिसाधनं मम व्यर्थं भविष्यति। ८
.१० कथमिदानीं बहिर्व्याप्तिर्विवादाधिकरणं
भूत एवान्यतमस्मिन् व्याप्तिसाधनात्। ८
.११ तावन्मात्रलक्षणत्वाच्च
साध्यधर्मिणः। ८
.१२ बाधकं प्रमाणं प्रवर्त्तमानमन्तर्गतमपि धर्मिणं बहिष्करोतीति चेत्
एतदेव कथं भवतु बाधकेन प्रवर्त्तमानेनैव तस्मिन् साध्यसाधनात्। ८
.१३ साध्य संशयोपगमे
साध्यधर्मिणि लक्षणोपगमादिति चेत् अयुक्तमेतत्। ८
.१४ बाधकमात्रात्
न साध्यसिद्धिरित्यस्मिन् पक्षे धर्म्यन्तरपरिग्रहवैयर्थ्याभिधानात्। ८
.१५ बाधकात् साध्यसिद्धिरित्यस्मिस्तु
पक्षे साधनवैयर्थ्यमापादितं
( साधनवैयर्थ्यमापादितम् )। ८.१६ तस्माद्वाधकमात्रेण
साध्यासिद्धौ न क्वचित् सन्देहनिवृत्तिः। ८
.१७ सन्देहानिवृत्तौ
न बहिष्करणमवहिष्कृतश्च साध्यधर्म्येवेति तत्र व्याप्तिरन्तर्व्याप्तिरेव नेदानीं बहिर्व्याप्तेर्वार्त्तापि।
.१८ तदियं बहिर्व्याप्तिरमुस्मिन् पक्षे कथं भवति। ८.१९ यदि प्रतिनियते
धर्मिणि विवादः तद्वहिर्भूते च धर्मिणि व्याप्तिग्रहणम्भवति। ८
.२० तत्र च दुरूद्धरः
धर्म्म्यन्तरपरिग्रहवैयर्थ्यदोषः। ८
.२१ बाधकमात्रेण
तु साध्यसिद्धौ हेत्यन्तरमेव व्यर्थं
( व्यर्थम् )। ८.२२ अपि च सत्वहेतोर्विशेषेण
न वहिर्व्याप्तिसम्भवः।

 

.२३ असिद्धे धर्मिणः
सत्त्वे विवादानवतारतः।

तत्रासिद्धस्य च
व्याप्तिग्रहणे साध्यधर्मिणि।।

व्याप्तिग्रहः कथं
नस्याद्दुष्टान्तेऽपि न वा भवेत्।।

 

.२४ यत्र हि धर्मिणि
दृष्टस्य हेतोर्व्याप्तिः प्रतीयते तत्र तस्य व्याप्तिग्रहणमाख्यायते। ८
.२५ दृष्टञ्च साध्यधर्मिणि
सत्त्वमन्यथा विमत्ययोगादिति कथं नान्तर्व्याप्तिः।

 

.० तथापि साधनवैयर्थ्यनिषेधाय
बहिरेव गृह्णीम इति चेत् तत् किमिदानीं त्वदिच्छानुरोधात् धर्मिणि हेतोर्द्द
( र्द ) र्शनम् दर्शनमस्तु।
.१ दर्शनविशेषे वा बहिरेव व्याप्तिग्रहणव्यवस्थास्तु। ९.२ उभयत्र दृष्टस्य
व्याप्तिग्रहणेऽप्यस्ति बहिर्व्याप्तिभाग इति चेत्। ९
.३ ननु किमर्थमियान्
भागो यत्नेन संरक्ष्यते। ९
.४ माभूत् हेतुवैयर्थ्यमिति चेत्। ९.५ ननु यदि बाधकवृत्तिमात्रेण
व्याप्तिग्रहणाधिकरणे धर्मिणि साध्यसिद्धेः साधनवैयर्थ्यमन्तर्व्याप्तौ तदेतद्वहिर्व्याप्तावपि
तुल्यं
( तुल्यम् )। ९.६ तस्माद् व्यसनमात्रं बहिर्व्याप्तिग्रहणे विशेषेण सत्त्वे हेतौ केवलं
जधियामेव नियमेन दृष्टान्तसापेक्षः साधनप्रयोगः परितोषाय जायते। ९
.७ तेषामेवानुग्रहार्थमाचार्यो
दृष्टान्तमुपादत्ते।

 

.८ यत् सत्तत्क्षणिकं
यथा घट इति। ९
.९ पटुमतयस्तु नैवं दृष्टान्तमपेक्षन्ते।

 

.१० " तस्माद्दृष्टान्तरोक्तेभ्यो
घटं दृष्टान्तमब्रवीत्।

तथा मानेष्ववैयर्थ्यादन्तर्व्याप्तावपीष्यताम्।।
"

 

.११ इत्यन्तरश्लोकः।।

 

१०.० कथमिदानीं अनुमेये
सत्त्वमेव सपक्ष एव सत्त्वमसपक्षे वासत्त्वमेव निश्चितमिति हेतोस्त्रैरूप्यमवगन्तव्यम्।

 

१०." मतौ सपक्षासपक्षौ
साध्यधर्मयुतायुतौ।

सत्त्वासत्त्वे
तत्र हेतोस्ते ग्राह्ये यत्र तत्र वा।।
"

 

१०.२ साध्यधर्मयुक्तः
सर्वः सामान्येन सपक्षः
, अतद्युक्तश्चासपक्ष इति। १०.३ तस्मिन् सपक्ष
एव सत्त्वमसपक्षे चासत्त्वमेव यथाक्रममन्वयव्यतिरेकौ तौ पुनर्यत्र तत्र वा धर्मिणि
ग्रहीतव्यौ यत्र शक्यौ ग्रहीतुम्।

 

१०.४ तदिह सत्त्वस्य
सर्वतोऽक्षणिकाद्व्यावृत्तौ बाधकबलात् सिद्धायां यत् सत्तत् क्षणिकमेवेति अन्वयः साध्यधर्मिण्यवगृह्यते।
१०
.५ तत्र दृष्टस्य हेतोर्व्याप्तिग्रहणात् धर्म्यन्तरासम्भवात्। १०.६ सम्भवेऽपि तदनुसरणवैयर्थ्यात्।
१०
.७ यद्येवमसाधारणो नाम कथमनै-कान्तिक उक्तः।।

 

११.० असाधारणतां हेतुदोषम्मूदव्यपेक्षया।।

अब्रवीदग्रहाद्व्याप्ति
[ प्ते ] नैवं सर्वोपसंहृतौ।।

 

११.१ उक्तमेतज्जडधियो
धर्म्यन्तर एव व्याप्तिग्रहणं प्रतिपन्नाः। ११
.२ तदभिमानापेक्षयाऽसाधारणमनैकान्तिकमाह
श्रावणत्वं दृष्टान्ताभावात्। ११
.३ साध्यधर्मिणि च व्याप्तिरनिष्टेरगृहीतायां
व्याप्तौ सन्दिग्धोभयतयाऽ निश्चयकरत्वात्। ११
.४ अथवा असाधारणतैव
श्रावणत्वस्य मूदाभिमानोपकल्पिता। ११
.५ दृष्टैव हि शब्दव्यक्ति
धर्मिणी विवादाधिकरणात्। ११
.६ अन्यथा धर्म्यसिद्धिप्रसङ्गाच्च। ११.७ दृष्टादृष्टशब्दव्यक्तिसाधारणञ्च
श्रावणत्वं हेतुः। ११
.८ धूमसामान्यवत्। ११.९ ततः सर्वोपसंहारवत्याः
व्याप्तेः सम्भवात् सत्त्वादिवददृष्टमेव साधनं श्रावणत्वाख्यं
( श्रावणत्वाख्यम्
)। ११.१० क्रमयौगपद्यानुपलम्भ एव चात्र बाधकं प्रमाणं ( प्रमाणम् )। ११.११ श्रोत्रज्ञानजनकत्वमेव
हि श्रावणत्वं
( श्रावणत्वम् )। ११.१२ तस्मान्मूदव्यपेक्षयाऽसाधारणत्वात्।
११
.१३ असाधारणस्य सर्वोपसंहारायोगात्। ११.१४ साध्यधर्मिणि
व्याप्तिप्रतीतावेव साध्यप्रतीतेः साधनवैफ़ल्यं स्यादेव। ११
.१५ तन्माभूद्वैफ़ल्यमिति
नैवं व्याप्तिर्ग्रहीतव्या। ११
.१६ तस्यामगृहीतायां सन्दिग्धोभयतया स्यादनैकान्तिकत्वं
( स्यादनैकान्तिकत्वम् )। ११.१७ सर्वोपसंहारेण
तु व्याप्तिग्रहणे यथोक्तन्यायेन साधनवैफ़ल्याभावात्। ११
.१८ अदुष्टं सत्त्वादि
साधनमेवेति वेदितव्यम्। ११
.१९ तदेवमुभयथा मूदजनापेक्षयाऽसाधारणमनैकान्तिकमुक्तम्।

 

१२.० समानञ्चैतद्वहिर्व्याप्तिवादिनामपि
यदि हि मूदमतापेक्षा न स्यात् स्यादेव श्रावणत्वमदुष्टो हेतुः। १२
.१ सत्वादिवन्नियतशब्देषु
हि विवादे शब्दान्तरं दृष्टान्तः स्यात्।

 

१२.२ सर्वशब्देषु विगतौ
बाधकं प्रमाणं प्रवर्त्तमानं अदृष्टान्तमपि तत्रैकं दृष्टान्तयतीति कथमसाधारणमनैकान्तिकं
वेति।।

 

अन्तर्व्याप्तिसमर्थनं
समाप्तमिति।।



















































































































































कृतिरियं रत्नाकरशान्तिपादानामिति।। 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project