Digital Sanskrit Buddhist Canon

लुप्त बौद्धवचन संग्रह

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2017
  • Proof Reader:
    Anjana Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

लुप्त बौद्ध-वचन
संग्रह

आदिबुद्ध

()

 

विरागान्न परं पापं
न पुण्यं सुखतः परम्।

अतोऽक्षरसुखे चित्तं
निवेश्यं तु सदा नृप॥

 

()

पतिते बोधिचित्ते
तु सर्वसिद्धिनिधानके।

मूर्च्छिते स्कन्धविज्ञाने
कुतः सिद्धिरनिन्दिता॥

आर्यदेवपाद

()

विग्रहे यः परिहारं
कृते शून्यतया वदेत्।

सर्वं तस्याप(रि)हृतं समं साध्येन
जायते॥

()

नान्यया भाषया म्लेच्छः
शक्यो ग्राहयितुं यथा।

न लौकिकमृते लोकः
शक्यो ग्राहयितुं तथा॥

 

आलिचतुष्टय

()

चतस्रो गतय ऊर्ध्वं
पार्श्वमृजुरधश्चेति।

 

उच्छुष्मतन्त्र

()

शिवशक्तिसमायोगात्
सत्सुखं परमाद्वयम्।

न शिवो नापि शक्तिश्च
रत्नान्तर्गतसंस्थितम्॥

गुह्यतत्त्वप्रकाश

()

एकारः पृथिवी ज्ञेया
कर्ममुद्रा तु लोचना।

()

चतुर्भिः प्रत्ययैर्ग्राह्यम्।

चतुर्देवीपरिपृच्छामहायोगतन्त्र

()

चतुरशीतिसाहस्रे
धर्मस्कन्धे महामुने।

तत्त्वं वै ये न
जानन्ति सर्वे ते निष्फलाय वै॥

 

चतुःप्रदीप

()

यः प्रत्ययैर्जायति
स ह्यजातो

न तस्य उत्पाद स्वभावतोऽस्ति।

यः प्रत्ययाधीन
स शून्य् उक्तः

यः शून्यतां जानति
सोऽप्रमत्तः॥

ज्ञानपाद

()

एवंविधैश्च चेतसि
यत्किञ्चित् कायवाङ्मनस्कर्ममुद्रामन्त्राकारं गदितं सर्वबुद्धैरित्युक्तम्।

ज्ञानालोकालङ्कारमहायानसूत्र

 

()

अविकल्पितसङ्कल्प
अप्रतिष्ठितमानस।

अस्मृत्यमनसिकार
निरालम्ब नमोऽस्तु ते॥

डाकिनीवज्रपञ्जर

()

प्रथमं तोयसेकेन
द्वितीयं मौलिसेकतः।

तृतीयं पट्टसेकेन
चतुर्थं वज्रघण्टया॥

पञ्चमं स्वाधिपेनैव
नामसेकं तु षष्ठमम्।

बुद्धाज्ञा सप्तमं
सेकं कलशं सेकमष्टमम्॥

नवमं गुह्यसेकेन
दशमं प्रज्ञाभिषेकतः।

तत्त्ववज्रप्रयोगेण
सर्वान् वज्रव्रतान् ददेत्॥

व्याकरोति स्वय
शास्ता एष सेकविधिं स्वयम्।

आचार्यो नावमन्तव्यः
सुगताज्ञां न लङ्घयेत्॥

()

सर्वज्ञहेतुकं तद्धि
सुद्धिनिकटे प्रवर्तकम्।

पश्चान्मायोपमाकारं
स्वप्नाकारं क्षणात्क्षणम्॥

()

षडङ्गं भावयेत्
तस्मात् स्वाधिष्ठानसमं पुनः।

पश्चात् स्वं लक्षयेच्चिह्नमनुलोमविधिक्रमैः॥

()

सिद्धयत्यशेषनिःशेषं
त्रैधातुकं चराचरम्।

लोकधातुषु सर्वेषु
यावन्तो वज्रदेहिनः॥

()

शून्यताकरुणाभिन्नं
यत्र चित्तं प्रभाव्यते।

सा हि बुद्धस्य
धर्मस्य संघस्यापि हि देशना॥

()

अक्षोभ्य एव नाम्योती? सर्वरागविवर्जितः।

सा(शा)श्वतेनायुतं प्रोक्तं
कोटिवज्राङ्कवज्रिणे॥

अमितायुनाख्यातं
यावद
Aकाशसप्तिरात्रि?

तत्त्वसंग्रहतन्त्रराज

()

सर्वतथागतमहाबोधिदृढसत्त्व
इत्यारभ्य अनादिनिधनः शान्तो भगवान् महाबोधिसत्त्ववज्रः समन्तभद्रो महाबोधिसत्त्वः
सर्वतथागतहृदयेषु विजहार

 

अथ सर्वतथागताः
प्राहुः - कथं त्वं कुलपुत्रानुत्तरां सम्यक्सम्बोधिमभिसंभोत्स्यसे यस्त्वं सर्वतथागततत्त्वान्यभिज्ञाय
इष्टतरपुण्यान्युपहससीति।

सर्वार्थसिद्धिबोधिसत्त्व
आह-भगवन्तः सर्वतथागता आज्ञाप
[यथ] कथं प्रतिपद्यामीदृशं
तत्त्वमिति।

तथागता आहुः - प्रतिपद्यस्व
कुलपुत्र स्वचित्तप्रत्यवेक्षणसमाधानेन प्रकृतिसिद्धेन रुचिजप्तेन मन्त्रेणेति। ॐ चित्तप्रतिवेधं
करोमीति।

महावोधिसत्त्व आह-
आ ज्ञातो भगवन्तः सर्वतथाग
[ताः] स्वहृदि चन्द्रमण्डलाकारं पश्यामि।

 

प्रकृतिभास्वरमिदं
कुलपुत्र चित्तं चन्द्रमण्डलवत्। चन्द्रमण्डलं 
प्रकृतिप्रभास्वरं तद्वज्ज्ञानम्। यथा क्रमाच्चन्द्रमण्डलं सम्पूर्णं भवति
, तद्वत् प्रकृतिप्रभास्वरं
चित्तरत्नमपि परिपूर्णं भवति। यथा चन्द्रमण्डलमागन्तुककलाभिः सूर्यमण्डलरश्म्यपगमात्
क्रमात् पूर्णं दृश्यते
, तद्वत् प्रकृतिपरिशुद्धं चित्तरत्नमपि सर्वक्लेशमलकलङ्कापगमक्रमात् परिपूर्णबुद्धगुण
दृश्यत इति।

तथावादी

()

केचित् तस्याभासमात्रा
सुमनसि जनितादर्शबिम्बोपमा वै

योगीन्द्रैः सेवनीया
परमजिनसुतैः सेविता या च बुद्धैः।

सा ज्ञानार्चिः
प्रवृद्धा दहति सविषयं मारवृन्दं समस्तं

रागादिं चापि काये
दहति समसुखं योगिनां वर्षयोगात्॥

त्रिसमयमहातन्त्रराज

()

बोधिचित्तं दृढं
यस्य निःशङ्का च मतिर्भवेत्।

विचिकित्सा न कर्तव्या
तस्येदं सिद्धयति ध्रुवम्॥

()

असमाचलाः समतसारधर्मिणः

करुणात्मका जगति
दुःखहारिणः।

असमन्तसर्वगुणसिद्धिदायिनो

अमलाचलाः समवराग्रधर्मिणः॥

गगनसमोपमकता न विद्यते

गुणलेशरेणुकणिकेऽप्यसौमिके।

सदसत्त्वधातुवरसिद्धिदायिषु

विगतोपमेषु असमन्तसिद्धिषु॥

सततामला करुणवेगतोत्थिता

प्रणिधानसिद्धिरविरोधधर्मता।

जगतोऽर्थसाधनपरा
समन्तिनी

सततं विरोचति महाकृपात्मनाम्॥

न निरोधतां करुणचारिकाकुला

व्रजते त्रिलोकिवरसिद्धिदायिका।

अमितामितेषु सुसमाप्तितां
गता

गतिं गतेष्वपि अहो
सुधर्मता॥

त्रिसमयेऽग्रसिद्धि
वरदा ददन्तु मे

वरदानताग्रगतितां
गताः सदा।

सकलास्त्रिलोकवरदाग्रसाधका

नाथास्त्रियध्वगतिका
अनावृताः॥

दौडीपाद

()

प्राणी वज्रधरः
कपालवनितातुल्यो जगत्स्त्रीजनः

सोऽहं हेरुकमूर्तिरेषु
भगवान् यो न प्रभिन्नोऽपि च।

श्रीपद्मं मदनं
च गोकुदहनं कुर्वन् यथा गौरवाद्

एतत् सर्वमतीन्द्रियैकमनसा
योगीश्वरः सिद्धयति॥

()

रागान्ते विरमप्रवेशसमये
चित्ते स्वभावस्थिते

या चित्तिर्मनसः
प्रवृत्तिरपरा वायोर्निरुद्धा गतिः।

तत्कले यदनन्यसंभवसुखं
साक्षात् परं तत्पदं

तत्र स्वानुभवो
हि यस्य स पुनः सिद्धो महामुद्रया॥

 

()

गवां यूथन्यायः।

()

एते पञ्च यन्ति
मोहतटिनो पारम्।

()

अदूरे दूरे वा।

धौकडिपाद

()

संसारे बहु संसरन्ति
सुधियो तेन प्रभावेण च

भावाभावयुगे विचार्य
सकलं स्वप्रज्ञया संस्थितम्।

पक्षापक्षमवेक्ष्य
वादिगदितं किञ्चिन्न पश्याम्यहं

ग्राह्यग्राहकवर्जितं
हि मुदिभिर्दुःखैर्यथा
[]न्ततम्॥

नागार्जुनपाद

(१०)

अकृत्रिमः स्वभावो
हि निरपेक्षः परत्र च।

यदि निःस्वभावाभावः
स्वभावतो न विद्यन्ते॥

(११)

चित्तमात्रमिदं
सर्वमिति या देशना मुनेः।

उत्त्रासपरिहारार्थं
बालानां सा न तत्त्वतः॥

 

निदत्ताक

 

()

केशोण्ड्रकं यथाकारो
दृश्यते तैमिरकैर्जनैः।

तथा लोकादिदोषेण
भावो बालैर्विकल्प्यते॥

निर्नादतन्त्र

()

रत्नपुरमिदं देवि
किञ्जल्के ज्वलतां व्रजेत्।

रुद्रो युग्मः शिवः
श्रेष्ठः शक्तिः सैव परात्परा॥

लक्ष्लक्षणनिर्मुक्तं
वागुदाहारवर्जितम्।

शिवशक्तिसमायोगात्
जायते चाद्भुतं सुखम्॥

न सन्ति तत्त्वतो
भावाः शक्तिरूपेण भाविताः।

शक्तिस्तु शून्यतादृष्टिः
सर्वारोपविनाशिनी॥

पञ्चक्रम

()

नास्ति रात्रौ न
सन्ध्यायां दिवापि च न विद्यते।

भो तं सहजमानन्दं
गुरुचरणेषु पृच्छ॥

बुद्धकपाल(योगिनीतन्त्र)

अशुद्धचित्तशोधनाद्
भगिनी भवेच्चक्षु -

र्भागिनेया श्रोत्रमेव
च जननी भण्यते घ्राणम्।

रसना दुहिता तथा
मनो भवेद् भार्या

षडेता वरा विद्या
महामुद्राप्रदायिकाः॥

 

भगवत्प्रवचन

()

वरं जेतवने रम्ये
शृगालत्वं व्रजाम्यहम्।

न तु वैशेषिकं मोक्षं
गोतमागन्तुमर्हति॥

महामण्डलव्यूहतन्त्र

नमःसमन्तबुद्धानां
ॐ वज्रपुष्पे स्वाहा। मृत्तिकाग्रहणमन्त्रः।

ॐ वज्रोद्भवाय स्वाहा।
बिम्बवलनमन्त्रः।

ॐ अरजे विरजे स्वाहा।
तैलम्रक्षणमन्त्रः।

ॐ धर्मधातुगर्भे
स्वाहा। मुद्राक्षेपणमन्त्रः।

ॐ वज्रमुद्गराकोटन
स्वाहा। आकोटनमन्त्रः।

ॐ धर्मरते स्वाहा।
आकर्षणमन्त्रः।

ॐ अप्रतिष्ठितवज्र
स्वाहा। स्थापनमन्त्रः।

ॐ सर्वतथागतमणिशतदीप्ते
ज्वल ज्वल धर्मधातुगर्भे स्वाहा। प्रतिष्ठामन्त्रः।

ॐ स्वभावशुद्धे
आहर आहर आगच्छ आगच्छ धर्मधातुगर्भे स्वाहा। विसर्जनमन्त्रः।

ॐ आकाशधातुगर्भे
स्वाहा। क्षमापनमन्त्रः।

मूलतन्त्र

()

"योगिन्यः सहजसिद्धाः" इति वचनात् ता
एवाह -

शिरसस्तु समुद्भूता
नाडयः शिरसिजाः स्मृताः॥

वज्रडाक

()

रोचते दीयते यत्तद्
महावैरोचनो मुनिः।

विरमान्ते परमश्चासौ
वायूनां विश्वसंभवात्॥

()

यथा स्तम्भेन महता
घ्रियते लीलया गृहम्।

न च द्वारस्तथा
कायः कङ्कालैरेव धार्यते॥

वज्रपाणि

()

नरा वज्रधराकारा
योषितो वज्रयोषितः।

वज्रमण्डलालङ्कारमहायोगतन्त्र

()

इदं तत् सर्वबुद्धानामद्भुतं
गुणविस्तरम्।

सिद्धयन्ति सर्वमन्त्रा
वै सकृदुच्चारितेऽपि हि॥

अनेन स्तोत्रराज्ञा
वै तोषितास्ते तथागताः।

ददन्ति विपुलां
सिद्धिं कल्पस्थां कल्पचोदिताम्॥

दर्शयन्ति च आत्मानं
आसेचनकविग्रहम्।

वैरोचनमहानाथमक्षोभ्यं
रत्नसम्भवम्॥

अमिताभं जिनं शुद्धममोघराजं
च सर्वतः।

रसं रसायनं तत्त्वं
प्रवदन्ति वराणि च॥

अशेषाः सिद्धयो
रम्या विपुला अर्थसम्पदः।

सर्वाशापरिपूरिं
च ददन्ति मनसेप्सिताः।

ज्ञानमायुर्बलं
वेगं ददन्ति परमं शुभम्॥

विरुपाक्षापाद

()

वज्रोत्थानं सदा
कुर्यात् चन्द्रार्कगतिमञ्चनात्।

अन्यथा नावधूत्यंशे
विशति प्राणमारुतः॥

 

शाक्यनाथ

()

ताम्रस्य कालिमा
यद्वद्रणयोगेन नश्यति।

न तस्य सत्त्वता
नश्येन्निर्मलत्वेन या स्थिता॥

तद्वच्चित्तमलः
शून्यतायोगेन नश्यति।

न तस्य ज्ञानता
नश्येन्निर्मलत्वेन या स्थिता॥

सन्ध्याव्याकरण

()

स्कन्धा एव हि सम्बुद्धा
बोद्धयर्थं प्रत्ययोद्भवाः।

ते वै तथागताः ख्यातास्तथागताद्वययोगतः॥

()

आकाशैकस्वभावेऽस्मिन्
विजगार महामुनिः।

()

आग्नेये चैव वायव्ये
माहेन्द्रे वारुणे तथा।

चक्रे चित्तस्य
संचारादूर्ध्वपार्श्वस्त्वघोगतिः॥

तासां मध्ये स्वदैवत्यं
तुर्ययोगः परस्परम्।

समयवज्रपाद

()

यस्तु वज्रनयोपायविचित्रीकृतमानसः।

स्फुटीकृतस्वसंवेद्यधर्मकायमहासुखः॥

तस्य वज्रधरस्येह
सिद्धिः करतले स्थिता।

सम्पुटतन्त्र

()

मातृजास्त्रयमात्राणि
पितृजास्त्रयमेव च।

तत् षाट्कौशिकं
पिण्डं षट्तथागतरूपकम्॥

()

द्वादश द्विगुणीभूय
पार्श्वतस्तु द्विपक्षयोः।

वीरयोगिनीवृन्देन
समन्तात् परिवारितः॥

कङ्कालो दण्डरूपे
योऽसौ हेरुकः परमाश्रयः।

स्कन्धधात्वादिबुद्धानां
स्तूप इत्यभिधीयते॥

()

आग्नेये चैव वायव्ये
माहेन्द्रे वारुणे तथा।

चक्रे चित्तस्य
संचारादूर्ध्वं पार्श्वर्ज्वधोगतिः॥

सम्पुटतिलक

()

सर्वडाकिनीमयो रक्तं
सर्ववज्रसमुद्भवम्।

पद्मप्रकाशयोगतः॥॥॥।

वर्जसूर्यः परं
ख्यातः स्फुरेदूर्ध्वप्रभास्वरम्॥

संवरतन्त्र

()

न योगः प्रतिबिम्बेषु
निषिक्तादिषु जायते।

बोधिचित्तमहायोगाद्
योगिनस्तेन देवता॥

बोधिचित्तमिदं वज्रं
सर्वबुद्धत्वमात्मनः।

तस्मात् सार्वात्म्ययोगेन
सर्वबुद्धत्वमाप्नुते॥

एनं पश्यन्ति संयुक्तं
सर्वथा पूजयन्ति ये।

दृष्टास्तैः पूजिताश्चैव
सर्वबुद्धा भवन्ति हि॥

दर्शनस्पर्शनाभ्यां
च सर्वबुद्धस्य वाऽस्य हि।

अमण्डलप्रविष्टाश्च
दृष्टसत्या भवन्ति हि॥

 

दर्शनस्पर्शनाभ्यां
च श्रवणस्मरणेन च।

सर्वपापैर्विमुच्यन्ते
पूज्यन्ते सर्वसिद्धिभिः॥

सर्वयोगसमायोगैः
सर्वबुद्धस्य वाऽस्य हि।

नार्योऽपि हि विमुच्यन्ते
बुद्धबोधिं स्पृशन्ति च॥

सर्वत्र सर्वतः
सर्व सर्वथा सर्वदा स्वयम्।

सर्वबुद्धमयं सिद्धं
स्वमात्मानं प्रपश्यति॥

सर्वात्मसंस्थिताश्चैनं
पूजयन्ति तथागताः।

सर्वपूजामहामेघव्यूहप्रसरसञ्चयैः॥

 

सर्वभोगोपभोगैश्च
सेव्यमानैर्यथासुखम्।

स्वाधिदैवतयोगेन
स्वमात्मानं प्रपूजयेत्॥

विचित्रकर्मयोगेन
विचित्रविनयात्मना।

सत्त्वानां विनयार्थाय
तदन्ये विधयः स्मृताः॥

अनादिनिधनः सत्त्वो
वज्रसत्त्वः परं यतः।

सुभगेति च विख्यातो
सुस्थितो बुद्धमुद्रया॥

विचित्रकर्मयोगेन
विचित्रविधिकाङ्क्षिणाम्।

बुद्धवज्रधराद्यास्तु
कृतका विनयाः स्मृताः॥

()

आत्मानमपि निर्यात्य
पुनर्मूल्यैस्तु मोक्षयेत्।

नानातन्त्रेषु निर्दिष्टा
दक्षिणेयं निरुत्तरा॥

संवरनाथ

()

अनामाङ्गुष्ठवक्त्राभ्यां
लेहयेद् योगवित् सदा।

संवरोत्तरतन्त्र

()

ककारादिदकारान्तं
ङ्ञवर्जं निवेशयेत्।

घकारादिहकारान्तं
आलिद्वयं समालिखेत्।

मध्यस्थेन त्वकारालिर्न्यस्तव्यः
शशिमण्डले॥

सहजसंवर

()

सर्वव्यापि निराभासि
करुणैकरसं मनः।

आलिङ्गति झटित्येषा
वृषस्यन्ती च शून्यता॥

सेकोद्देश

()

यावन्नो पतति प्रभास्वरमयः
शीतांशुधाराद्रवो

देवीपद्मदलोदरे
समरसीभूतो जिनानां गणः।

स्फूर्जद्वज्रशिखाग्रतः
करुणया भिन्नं जगत्काननं

गर्जद्धीकरुणाचलस्य
सहजं जानीहि रूपं विभोः॥

()

तस्मात् सर्वप्रयत्नेन
च्युतिरागं विवर्जयेत्।

येनाक्षरसुखं याति
योगी संसारबन्धनात्॥

कामुकोऽपि विरागान्न
कामशास्त्रं समीहते।

मयोक्तं किं पुनस्तत्र
योगी दुःखं समीहते॥

शुक्लाक्षरस्वभावेन
साधयेत् परमाक्षरम्।

आधारे च्युति आपन्नं
आधेयस्य विरागता॥

आधाराधेयसंबन्धो
यावदक्षरतां व्रजेत्।





















































































































































































































































































































































































































































































































































































































































चित्तमक्षरताप्राप्तं
नाधाराधेयलक्षणम्॥

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project