Digital Sanskrit Buddhist Canon

गुह्यासमाजतन्त्रप्रदीपोद्योतनटीका षट्कोटिव्याख्या

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

आचार्यचन्द्रकीर्तिकृता

गुह्यासमाजतन्त्रप्रदीपोद्योतनटीका

षट्कोटिव्याख्या

 

एकादशः पटलः

 

एवमुभययोगिनां द्विप्रकारेण
हृदयसंचोदनमभिधायेदनीं विकल्पितनिष्पतनिष्पन्नयोगिनां प्र्थमपटलोक्तद्विविधदेवतारुपोद्दयोतनार्थमेकादशमपटलमुपक्षिपन्नाह।
अथेत्यादि।सर्वतथागतवज्रं प्रणवाद्यक्षरत्रयं तेनोत्पद्यमाना पुरुषोत्तमा देवता यस्मिन्
समाधौ तन्नामकं समाधि चितैकाग्रतां समापद्यामुखीकृत्य इदमुदाजहार। किं तत्
?  सर्वतथागतानां मन्त्राः गुह्याभूता वज्रविद्या सर्वतथागतमन्त्रवज्रविद्या
ओङ्कारादित्रितयमेव। तैर्निष्पाद्यते परुषदेवता यस्मिन् तत्पटलमुक्तवानिति सङ्गितिकारः
अमु मेवार्थ भगवद्वचनेन दर्शयन्नाह।

 

त्रिवज्राः कायवाक्चित्तवज्राः
तन्निष्पादकान्यक्षराणि ओङ्कारादीनि त्रिवज्राक्षराणि तानि मन्त्राग्राणि सर्वमन्त्रप्रभावत्वात्।
तैर्महामुद्राविभावनं कर्तव्यम्। महामुद्रेति भूर्भुवः स्वः प्रपूज्यत्वान्महर्ती मुदं
हर्ष द्रवति गच्छतीति महामुद्रा। तस्या विभावनं कर्तव्ययनुष्ठे यम्। ज्ञानवज्रेण सधकेन
सर्वबोधिः पञ्चाकाराभिसंबोधिः तत्समावहम्।

 

ओङ्कारमित्यादिना
अक्षरत्रयस्य कारित्रं दर्शयति। ओङ्कारं तथागतहृदयं तद् योगिनोऽभेद्यकायनिवर्तकत्वात्
वज्रकयसमावहम्। बोधिस्तथता। ततो निर्मितो निष्पन्न आत्मा यस्य स बोधिर्निरात्मा अमितभः।
तस्य भावो नैरात्म्यम्। नैरात्म्यमाःकरां तत्स्वभावं योगिनोऽभेद्यवाङ्निवर्तकत्वात्
वग्वज्रसमावहम्। कायवाचोराश्रयभूतं चित्तं कायवाक्चित्तम् अक्षोभ्यस्वभावम्। त्रिवज्राणामभेद्यभिन्नत्वं
यस्मिन् तत् त्रिवज्राभेद्यं चित्तं तद्योगिसन्ताने निष्पादयतीति त्रिवज्राभेद्यसमावहं
हूंकारमित्येवमाह सर्वतथागतकाय वाक्चित्तमन्त्रपुरुषो महावज्रधरः।

 

अनन्तरोक्तमहामुद्रानिष्पत्ति(त्तै) रानुपूव्र्य दर्शयन्नाह।
खवज्रेत्यादि। खवज्रमकाशं मध्यं तद्गतं सर्ववज्रजं मण्डलं चिन्तयेत्। सर्ववज्राणि लोचनादिचतुर्देव्यः
ताभिरनुपूव्र्येण निर्वर्तितं मण्डलं भवयेत्। तत्र भूभागोपरि भ्रूंकारं कूटागारनिष्पत्तिहेतु
भूतं वज्रमेघास्तथागतसमूहाः। तेषामधिमोक्षेण यथास्थनं स्फरणं तदावहयति धारयतीति वज्रमेघस्फरावहं
भ्रूंकारम्। तत्रेत्यादिना भ्रुंकरप्रदर्शनं वज्रमण्डलं सूर्यमण्डलं तन्मध्यस्थं हूंकारं
प्रभावयेत्। हूंकारनिष्पन्नं सूर्यमण्डलं भावयेदित्यभिप्रायः।

 

तथैवोंकाराःकारनिष्पन्नं
चन्द्रपध्ममण्डलं भावयेत्। एवं मण्डलत्रयं निष्पाद्य पध्मकर्णिकोपरि तदेव बीजत्रयं
विन्यसेदित्याम्नायः। भ्रूंकार्मालयमित्यादिना पूर्वोक्तमर्थ निगमयति। आधारमण्डलं ध्यात्वैनं
चिह्नत्रयं भावयेत्। नान्यथेति।

 

हृदयमित्यादि। त्र्यध्वबुद्धेभ्यः
त्र्यध्वतथागतानां त्र्यध्वबुद्धानामिति प्राप्तत्वात्। हृदयं चन्द्रमण्डलं चित्तसंकेतितत्वात्।
कायवाक्चितं त्र्यक्षरं तेन यस्मिन् रच्यते स्थिवते तत् कायवाक्चित्तरञ्जनं चन्द्रबिम्बं
चिह्नत्रयमुपमर्द्यतां भवयेत्। ततः किमित्याह ओमित्यादि। तस्मिश्चन्द्रमण्डले बुद्धकायसंज्ञकमोङ्कारं
तथा बुद्धवाक्पथमाःकारम्।

 

ज्ञानानां प्रकृतीनामोघः
समूहो यस्मिस्तज़्ज्ञानौघं चित्तं तत्स्वभावं हूम्कारम्। इदमक्षरत्रयं बोधिनयोत्तममिति।
बोधिर्महासुखपदम्। तन्नीयते प्राप्यते येन तद् बोधिनयम्। किं तत् अक्षरत्रयपरावृत्त्या
संजातं पञ्चाकाराभिसंबोधिसूचकं वज्रं तदेवोत्तमं सर्वकुल विशिष्टत्वात्। इदमिति अनन्तरोक्तं
यद्वज्रं तत् सर्वबुद्धानां महावज्र धरयोगिनं बुद्धबोधिप्रसधकम्। उत्पत्तिकक्रमेण महामुद्रानिष्पादकम्।

 

निर्मितमित्यादि।
एतन्महामुद्ररुपं ज्ञानवज्रेण महावज्रधरेण निर्मितं प्रदर्शितम्। किमर्थम्
? बुद्धा रत्नपुद्गलास्तेषां
हेतुः संवृतिसत्यम्। फलं च परमार्थसत्यम्। हेतुफलाभ्या मुदेति निष्पाद्यते इति हेतुफलोदयम्।
परिशुद्धदेवतारुपं तदर्थ निर्मितं महावज्रधरेण। एत इत्यादि। मन्त्रा विद्या इति च कल्पादौ
कीर्तिताः निष्पादनादिसमयैरिति। निष्पादनं पूर्वमेवार क्षणभक्षणादिसमयैः सार्ध कथिताः।
बुद्धपुरुषा अक्षोभ्यादय एव नान्यैः। कैरित्याह। त्रिवज्राभेद्यभावनैस्तथागतैः।

 

सर्वतथागतेत्यादिना
अनुमेवार्थमुपसंहरति। सर्वतथागतकायवाकिचत्तत्र्यक्षरं तस्य समयं तदुद्भूतं सूर्यादिमण्डलत्रितयम्।
तस्मिन् तत्त्वं पद्योपरि त्र्यक्षरम्। ज्ञानमिति सर्व परावृत्तिनिष्पन्नंचन्द्रमण्डलम्
वज्रं चन्द्रमण्डलोपरि विन्यस्ताक्षरत्रितयनिवृत्तं पञ्चसूचिकमहावज्रम् तेनाधिष्ठियते
निष्पाद्यत इत्यधिष्ठानं महामुद्रारुपम् तस्य हेतुः कारणम्। तन्निष्पादिका चित्तैकाग्रता
समाधिः स तथोक्तः।

 

विविक्तेष्वित्यादिना
साधकस्य प्रतिपत्ति दर्शयति। विविक्तेषु जनसम्पातरहितेषु रम्येष्विति पुष्पफलपल्लवोपेतविविधतरुलतोपगूदमनोज्ञसलिलाशयविरजितमनोनुकूलेषु
स्थानेषु स्थित्वा यः साधकः इममनन्तरोक्त्तं योगं समारभेदभ्यसेत्
, तेन कायवाक्चित्तं
महावज्रधरत्वं सिध्यते साध्यते। पक्षैकेनेति पक्षः गुरुदेवताविषये सम्प्रत्ययः। तस्मिन्नेकेन
निश्चितेन तत्परेण न संशयः। नियतं कायवाक्चित्तं साध्यतेऽनेन क्रमेणोत्पत्ति क्रममभ्यसन्
मन्त्री निष्पन्नक्रमसमाधिमधिगम्य नियतमिहैव जन्मनि महावज्रधरत्वं प्राप्नोतीत्यभिप्रायः।

 

एवं महावज्रधरयोगिनामुत्पत्तिक्रमसाधनं
संदश्र्य वैरोचनादियोगिनमेकस्मृतिसमाधि दर्शयन्नाह। खवज्रमध्यगतं चिन्तेत् स्वच्छं
मण्डलमुत्तममिति। अभावेत्यादि गाथानुर्वेण कूटागारोदरे द्वात्रिशद्देवताविन्यासपर्यन्तमधिमोक्षेण
समापद्य ओंशून्यतेत्यादिमन्त्रेण सर्व निराभासीकृत्य ओम्ङ्काराद्यक्षरत्रयेण चन्द्रसूर्यपद्यानि
निष्पाद्य पध्मकर्णिकोपरि त्र्यक्षरं विचिन्त्य सर्वपरावृत्त्या स्वच्छमण्डलं चन्द्रमण्डलं
विचिन्तयेत्। निष्पाद्य स्वमन्त्रसमयमिति। चन्द्रमण्डलोपरि त्र्यक्षरं विन्यस्य तत्परावृत्या
चक्रं भवयित्वा तज्जातं वैरोचनं समयसत्त्वं भावयेत्।

 

तस्य हृदये ज्ञानसत्त्वं
विभाव्य तस्यापि हृदये ओङ्कारं समाधिसत्त्वाख्यं हृदयभूतं पञ्चरश्मि पञ्चरश्म्युपेतं
न्यसेत्। वैरोचनग्रभावनैः वैरोचनयोगिभिः महामेघाः वैरोचनसमूहाः तान्। ओङ्कारं स्फारयन्
ध्यायात्।

 

अनेन समाधिना बुद्धस्योत्पत्तिक्रमज्ञस्य
वज्रवैरोचनस्योदधिरिव स्वकुलीलानां प्रभवत्वात्। स यस्य साधकस्य कायं कायः सिध्यते
पक्षमात्रेण समाध्यासक्तिमत्रेण क्रियप्रपञ्चनिरपेक्षयैवेत्यभिप्रायः। बुद्धकायः सर्वलक्षणोपेतवज्रकायः।
तत्समप्रभः तत्समर्द्धिः सिध्यति। त्रिवज्रकल्पं महावाज्रधरप्रभुभूत्व सेवयन् पञ्चज्ञानिनां
तिष्ठेयुः तिष्ठेत्। पञ्चज्ञानानि चक्षुरादीनि विज्ञानानि तानि ग्राहकस्वभावेन येषां
ते पञ्चज्ञानिनो रुपादयो विषयाः। ताननुभवन्नासंसारा
(रं) तिष्ठेदित्याह
भगवान् कायवज्रग्रुह्यो महावज्रधरः। सर्वतथागतचन्द्रमण्डलं तत्र वज्रमभेद्यस्वभावं
चक्रं तस्य रष्मिव्यूहो महामुद्रारुपं तन्निष्पादकः समाधिः सर्वतथागतवज्ररश्मिव्यूहो
नाम।

 

खवज्रेत्यादि। तथैव
सर्व संपाद्य धर्ममण्डलं पध्ममुत्तमं रक्तमष्टदलं ध्यात्वा तत्परावृत्या स्वमन्त्रपुरुषममिताभं
निष्पाद्य तद्दृदि ज्ञानसत्त्वं ध्यात्वा वाक्पथे ज्ञानसत्त्वे आःकारं समाधिसत्त्वं
पञ्चवर्ण महावज्रमभेद्यस्वरुपं लोकेश्वराग्रभावनैरमिताभगतचेतोवृत्तिभिः न्यसेत्। निष्पाद्य
समयज्ञानवाक्समय
[प्र] पञ्चकमिति। समयः समयसत्त्वः ज्ञानं ज्ञानसत्त्वम्। वाक्समयः समाधिसत्त्वः।
निष्पाद्यैतत्सत्त्वत्रितयमेकीकृत्य भावयेत्। अनेनैव न्यायेन पञ्चकं तथगतपञ्चकं त्रिसत्त्वर्संपुटीकरणेन
भावयेत्।

 

धर्मवक्पथोऽमिताभसमाधिः
समारुदः सम्प्प्राप्तः धर्मः परमार्थसत्यं
, वज्रं संवृतिसत्यम्।
धर्मसमायुक्तं वज्रं धर्मवज्रं महावज्रधरपदं समावहेत्
, प्राप्नुयात्।
त्रिवज्रकल्पमित्यादि विवृतार्थम्।

 

सर्वतथागतो ज्ञानसत्त्वः
वाग्वज्रं समाधिसत्त्वः समयः समयसत्त्वः सर्वतथागवाग्वज्रसमयानां संभवो यस्मिन् स तथोक्तः
समाधिः।

 

खवजेत्यादि। महावज्रधरसमाधिवत्
सर्व संपाद्य स्वबिम्बपुरुषं समयसत्त्वं निष्पाद्य चित्तं ज्ञानसत्त्वस्तत्संस्थितं
ज्ञानसत्त्वहृदयसंस्थितं हूंकारं समाधिसत्त्वाख्यं चिन्तयेत्।

 

एवं त्रिसत्त्वमयं
महासमयतत्त्वम क्षोभ्यं पञ्चवर्णरश्मिप्रभामण्डलोपेतं विभावयेत्। ज्ञानवज्रेणाक्षोभ्ययोगिना।
सर्ववज्रजिनौऽक्षोभ्यः तस्यालयं महामुद्रारुपम्। कर्तव्यं निष्पाद्य। एवं सातत्येन
चतुःसन्ध्यमभ्यस्यते सपरिपक्ककुशलमूलत्वात्। वज्रोपमसमाधिमधिमधिगम्येहैव जन्मनि महामुद्रसिद्धि
प्रतिलभत इति दर्शयितुमाह। वज्रचित्तेत्यादि। वज्रं परमार्थसत्यं चित्तं सम्वृतिसत्यं
ताभ्यां घटितः वज्रचित्तमयः। देवमनुष्याणामनुशासकत्वात् शास्ता। ज्ञानगुणाः कामैश्वर्यादयोऽष्टौ
तेषामुदधिराकरत्वात्। त्रिवज्रकल्पमित्यादि गतार्थम्।

 

वज्रं समयसत्त्वः
चित्तं ज्ञानसत्त्वः गुह्यां समाधिसत्त्वः। एवं त्रिसत्त्वात्मकत्वाद् वज्रचित्तगुह्य
महावज्रधर इत्याह। सर्वतथागतेत्यादिना प्रकरणार्थमुपसंहरति। सर्वतथगतो महावज्रधरः।
कायवाक्चित्त वैरोचनदित्रयम्। स मयोऽमोघसिद्धिः। वज्रो रत्नसंभवः। एषां समाधिरभेदोपचारात्
सर्वतथागतकायवाक्चित्तसमयवज्रो नाम। यथारुतम्। 

 

एवं कल्पितयोगस्य
फलरुपेण निष्पन्नक्रमं सूचयित्वा तत्साक्षादेव दर्शयितुमाह। महवज्रधरमित्यादि। ज्ञायत
इति ज्ञानं स्थिरचलं तस्य मण्डलं समुहः त्रैलोक्यं तन्मध्ये महवज्रं स्वं महामुद्रारुपं
समाधायाधिपतित्वेन स्थापयित्वा सर्वकायेषु स्थावरजंगमेषु खकारमाकाशीकरणमनुभेदक्रमेण
सर्व निराभासीकृत्यात्मन्यनुक्रमेण प्रवेशः। तं क्र्रित्वा खवज्रज्ञानसमो भवेत्। त्रिसत्त्वात्मक
एकः स्यात्। खमिति प्रभास्वरः।

 

तस्य च बुद्धैः
वैरोचनादिस्वभावैः रुपस्कन्धादिभिर्बोधिसत्त्वैः क्षितिगर्भदिस्वभावैः चक्षुरादिभिर्मुहुर्मुहुरिति।
रुपस्कन्धगतेत्यादिक्रमेण प्रतिक्षणं पूज्यमानः। ज्ञानत्रयात्मके स्वस्मिन् प्रवेश्यमानरित्रधा
प्रज्ञोपायोपलब्धस्वभावेन कल्प्यत इति त्रिकल्पं ज्ञानत्रयं तत् समयति विलयं गच्छति
यस्मिन् तत् त्रिकल्पसमयं प्रभास्वरं तं तिष्ठेत्। तिष्ठन् बुद्धैरपि न दृश्यत इति।
बुद्धास्त्रीणि ज्ञानानि। तैरपि यथा न दृश्यते यथादर्शनमनाभासस्तथा तिष्ठेदित्याह भगवान्
खवज्रसमय इति। खवज्रं प्रभास्वरं तस्मात् समेति उद्रच्छतीति खवज्रसमयो महावज्रधरः वक्ष्यमाण
कं व्युत्थानसमाधि सूचयन्नाह कायेत्यादि। कायवाक्चित्तं महामुद्रा तस्या अन्तर्द्धानं
प्रभास्वरं तस्मात् संभतीति संभवः व्यूहः स्थिरचलसर्वभावात्मकं ज्ञानकायं तस्य माला
यथाशयं वैरोचनादिरुपेण प्रवृत्तिः सा यस्मिन् समाधौ चित्तक्षणे स तथोक्तः।

 

तमेव सर्वासमाधि
दर्शयन्नाह ध्यात्वेत्यादि। स्वमन्त्रपुरुषोऽत्र परिशुद्धमहामुद्रारुपं वज्रमण्डमध्यतः
प्रभास्वरमध्यादुत्थितं ध्यात्वा तदनन्तरं प्राकृतसत्त्वानां विषयौभूतनिर्माण

 

कायं परिगृह्या
प्राणायामाङ्गभूतमनाहतं हंकारवज्राख्यं हृदये कृत्वा स्थापयित्वा तदनन्तरं रश्मिविभावना
कार्या। दश रश्मय। प्राणायामे स्थिताः। तेषां विभावना दक्षिणादिभेदेन प्रवेशादिक्रमेण
प्रवृत्तिः।

 

हूमिति अनभिलाप्यानभिलाप्यसूचकम्।
मञ्जुरविनश्वरः श्री
[] प्रभास्वरः। तस्मात् समुदेतीति मञ्जुश्रीसमयः। संभुज्यतेऽवैवर्तिकैर्विषयीक्रियत
इति स एव संभोगः ज्ञानसमयः कायः तं प्राप्य कायवाक्चित्तवज्राणि निर्मितकायवाक्चित्तानि
तानि यस्य सन्ति स कायवाक्चित्तवज्रिणः वज्रीति प्राप्ते। बोधिः परमार्थः सत्त्वः संवृतिसत्यं
ते आत्मा देहो यस्य स बोधिसत्त्वात्मा। दश भूमयः दश रश्मयः। तेषु प्रतिष्ठितः। योऽनन्तरोक्तक्रमेण
भावकः स एवं संभवेत्।

 

बोधिस[७४अ]त्त्वेत्यादिना
समाधि समापयति। सत्यद्वयेन परिगृहीतं रुपं बोधिसत्त्वः। तच्च ज्ञां स एव समयः। स एव
त्रैधातुकाच्छादकत्वाच्चन्द्रः आसंसारं स्थित्वा सत्त्वार्थकरणाद् वज्रः। तन्निप्पादकसमाधिरपि
तथोच्यते। सन्ध्याभाषा।

 

अनन्तरोक्तक्रमेणोपात्तनिर्माणकायस्य
चक्षुराद्यातनविशुद्धिद्वारेण फलं दर्शंयितुमाह। खधात्वित्यादि। आदौ चक्षुर्गोलकशून्यीकरणेन
लब्धं यत्सौसीर्य तत् खधातुः। तन्मध्यगतं थ्लीं कारं ज्वालसुप्रभं सूर्येन्दुरश्मिभिर्दीप्यमानं
अस्यन्ते क्षिप्यन्ते येनेत्यस्त्रं परमाः शक्रादिविघ्नगणाः तदर्थमस्त्रं परमास्त्रम्
, तन्निष्पन्नेन
चक्षुर्भ्रमणेन सर्वविघ्रविध्वंसनात् परमास्त्रं थ्लींकारं तं वज्रकायेन क्षितिगर्भस्वभावेन
ध्यात्वा खवज्रकायसमो भवेदिति। महावज्रधर इवानन्तलोकधातुस्थितः सर्वभावान् हस्तमलकवत्
पश्येत्। थ्लीं इति उक्तार्थसूचकं बीजम्।

 

खवज्रसमयो महावज्रधरः।
तस्य व्युहो महामुद्रा। सा आलयः स्थनं यस्य क्षितिगर्भस्य स खवज्रसमयव्यूहालयः। तत्स्चकसमाधिरपि
तथोच्यते।

 

एवमनन्तरोक्तक्रमेण
वक्षयमाणेन च दिव्यवक्षुःश्रोत्रादिकं भावयति यः स योगी पञ्चाभिज्ञासमो महावज्रधरतुल्यो
जायते। कथम्
? बुद्धाभिज्ञाग्रसमयैः बुद्धास्त्र्यध्ववर्तिनो

 

जिनाः तेषामभिज्ञाग्रसमया
दिव्यनेत्रादयः। तैर्महावज्रधरसमो भवेत्। इदमिति यदनन्तरोक्तं दिव्यं चक्षुः सर्वसिद्धीनामिति।
सर्वे स्वपरयूथ्याः तेषां सिद्धीनां बुद्धं स्वचित्तं तद् यथाभूतमभिजानतीति बुद्धाभिज्ञा
महायोगिनः। तेषामग्रसाधनम् सर्वसिद्धीनामपि प्रधानसाधनम्। बुद्धमण्डलं सर्वतथागतसमयमुत्तम्।
वज्रवदभेद्यात्मकः सत्त्वः वज्रसत्त्वः। तं भावयित्वा निष्पाद्य खधातुमध्यगतं श्रोत्रस्थानभावितप्रभास्वरमध्यगतं
ज्ञानं वज्रपाणीः। तन्निष्पादकमोङ्कारं भावयेत्।

 

त्रिवज्रसमयो वज्रपाणिः।
तस्य साधनेन तन्मयीकरणेन त्रिवज्राक्षोभ्यो महावज्रधरः अनन्तलोकधातुस्थितैविधराब्दानां
श्रोत्रबिलपतितैकशब्दवत् ग्रहणेन तत्समत्वात् त्रिवज्राक्षोभ्यसमो भवति योगीत्याह भगवानक्षोभ्यवज्रो
महावज्रधरः।

 

अक्षोभ्यसमकायेनेति।
महावज्रधरतुल्यकायः तथैवाप्राकृतवाक्चित्तधारणात् वाक्चित्ताग्रधृक् सदा सर्वकालं सर्वेषु
लोकधातुषु पूज्यते अक्षोभ्यवज्रिणेति श्रोत्रस्थेन वज्रपाणिना पूज्यते सेव्यते।

 

अक्षोभ्यसमयोऽक्षोभ्यः
तस्मात् संभवतीति अक्षोभ्यसमयाभिसंभयो वज्रपाणिः। तदुत्पादकः समाधिरपि तथोक्तः।

 

खधात्प्वित्यादिना
आकाशगर्भसमाधिमाह। खधातुमध्यगतं प्रभास्वरमध्वर्ग बुद्धमण्डलं चिन्तेत् आकाशवज्रं प्रभावित्वेति।
महामुद्रारुपस्यापि घ्राणेन्द्रियदेशे आकाशवज्रं प्रभास्वरं ध्यात्वा रत्नः। आकाशगर्भः
तन्निष्पादक ओंकारो रत्न ओंकारस्तं विभावयेत्।

 

त्रिवज्रसमयध्यानेनेति।
त्रिवज्रः त्रिविधो गन्धः। तं समेति गच्छतीति त्रिवज्रसमयः। आकाशगर्भः। तस्य ध्यानेन
तत्स्वभावालम्बनेन। त्रिवज्रकेतुमंहावज्रधरोऽनेकलोकधातुस्थितगन्धग्रहणेन तत्समो भवेत्
इत्याह भगवान् रत्नकेतुवज्रो महावज्रधरः।

 

कायेत्यादि। एवंभावकः
अप्राकृतकायवाक्चित्तेन रत्नकेतुसमप्रभ इति। गगनगज्रसमाधिना रत्नकेतुसमर्द्धिः स भवेत्।
बोधिनैरात्यं प्रभास्वरम् तत्र ज्ञानं चतुःशून्यात्मकं महावज्रधरुपम्। तदेव श्रावकाद्यविषयत्वाद्
गुह्याम्। तेन सममालयं शरीरं यस्य स बोधिनैरात्म्यज्ञानगुह्यासमालयः साधकः रत्नसमयः।

 

त्रिष्प्रकारो गन्ध[] संभुज्यते अनुभूयते
येन स रत्नसमयसंभोगवज्र आकाशगर्भः। तन्निवर्तकसमाधिरपि तथा।

 

खधात्वित्यादि।
पूर्ववन्महामुद्रारुपं निष्पाद्य तस्मिन् जिह्वाप्रदेशे लोकानमीश्वरो भूतकोटिस्तत्प्रभावित्वात्
धर्मो लोकेश्वरः तन्निवर्तक ओंकारो धर्म ओंकारः तंभावयेत्।

 

त्रिवज्रेत्यादि।
त्रिवज्रं त्रिविधो रसः तं समेति गच्चतीति त्रिवज्रसमयो लोकेश्वरः। तस्य ध्यानेन तद्द्वारेण
त्रिविधरसानुभवनात् त्रिवज्रामितो महावज्रधरः दशदिग्लोकधातुपर्यायेषु रसानुभावनेन तत्समो
भवेत् इत्याह भगवानमितवज्रः।

 

य एवमालम्बयति, भवेत् स कायादीनाममितायुःसमतेजाः।
मृद्विन्द्रियादिसर्वसत्त्वानां महायानपथः बुद्धत्वमार्गः। तदर्थ उपायो
(उदयो) यस्य स महायानपथोदयो
भवेत्।

 

अमितगुणो महावज्रधरः
तस्मिन् त्रैधातुकस्थितसर्वरसानां जिह्वेन्द्रियस्थैकरसवत् ग्रहणेन प्रभा सा शोहमाना
श्रीर्यस्य सोऽमितगुणप्रभासश्रीः लोकेश्वरः तत्सूचकसमाधिरपि तदाख्यः।

 

खधात्वित्यादि।
पूर्ववदादियोगं कृत्वा समय ओंकारं प्रभावित्वा वज्रोत्पलं प्रभावयेदित्याम्रायः। समयः
सर्वनिवरणविष्कम्भी तन्निष्पादकं बीजं समय ओंकारः स्पर्शेन्द्रियस्थाने प्रभास्वरशोधनपूर्वकं
तत्समय ओंकारं प्रभावित्वा वज्रमेवोत्पलं मुकुलाकरत्वाद् वज्रोत्पलं तं प्रभावयेत्।

 

त्रिवज्रं त्रिविधं
स्पर्श तत् समेति गच्छतीति त्रिवज्रसमयः सर्वनिवरणविष्कम्भी। तस्य ध्यानेन त्रिवज्रोऽमोघसिद्धिः
अपर्यन्तलोकधातुस्थितानेकस्पर्शानामेकमुद्रापध्मगतस्पर्शवज्रवदनुभवनेन तत्समो भवेत्।
इत्याह भगवानमोघवज्रो महावज्रधरः।

 

अस्यानुशंसाप्रदर्शनं
कायेत्यादि। य एवं भावयति स कायादिना वज्रामोघः अमोघसिद्धिः तत्समा प्रभा यस्य स तथोक्तः।
ज्ञानं सर्वनिवरणविष्कम्भी तस्योद्रधिः स्थानममोघसिद्धिः। श्रीः परमानन्दसुखं तदस्यास्तीति
श्रीमान् सर्वसत्त्वानामर्थः सर्वसत्त्वार्थः 
सर्वसत्त्वार्थजननलक्षणः स संभवति यस्मादिति सर्वसत्त्वसंभवः अमोघसमयोऽमोघसिद्धिः।
तस्मात् संभवो यस्य स सर्वनिवरणविष्कम्भी। तस्य रश्मयः तद्विनिर्गतबोधिचित्तबिन्दवः।
तेषां संभवः प्रसवो यस्मिन् समाधौ युक्तः स तथोक्तः।

 

एवं बोद्धिसत्त्वानां
चक्षुरिन्द्रियादिषु न्यासमुक्त्वा तथागतन्यासेनापि निष्पादयेदिति दर्शयन्नाह। खधात्वित्यादि।
खधातुस्तथता। तन्मध्यादागतः खधातुमध्यगतं उत्पतिक्रमेण निष्पन्नं सुप्रभं बुद्धमण्डलं
महावज्रधरुपं चिन्तेदात्मानं भावयेत्। तस्य चक्षुःस्थाने वैरोचनवज्रं प्रभावित्वा त्रिकाय
ओंकारं प्रभावयेदिति। प्रभावित्वा त्रिकाय ओंकारं वैरोचनवज्रं प्रभावयेदित्यानुपूव्र्या
योगः। त्रिकायो वैरोचनः तन्निष्पादक ओंकारः त्रिकाय ओंकारः। तं चक्षुर्गोलके भावयित्वा
तत्परावृत्या वैरोचनमेव चक्षुरिन्द्रियस्वरुपेण तावत्।

 

त्रिवज्रं त्रिविधं
रुपं चक्षुरिन्द्रियस्वभावेन समेत्यालम्बयतीति त्रिविधवज्रसमयो वैरोचनः। तस्य चक्षुर्भावेन
ध्यानेन त्रिवज्रवैरोचनो महावज्रधरः पूर्ववत् तत्समो भवेत्। इत्याह भगवान् वैरोचनवज्रः।

 

कायेत्यादिनानुशंसामाह।
एवं भावयति यः साधकः स कायादिवज्रेण वैरोचनसप्रभः वैरोचनसमानतेजाः ज्ञानस्वरुपेण ज्ञानमूर्तित्वेन
संबुध्यते ज्ञायत इति ज्ञानसंबोधिः त्रिकायभेद्यंमहावज्रधरपदं तत् साधयतीति त्रिकायाभेद्यसाधकः
स साधको भवेत्।

 

कायवाक्चित्तत्वेनालम्ब्यते
गृह्यात इति कायवाक्चित्तालम्बनं महावज्रधरुपं तस्य चक्षुरिन्द्रियस्थाने स्थित्वा
त्रिविधं रुपं संबुध्यते जानातीति संबोधिः। स एवाप्रतिहतप्रसरत्वाद् वज्रः तन्निष्पादकसमाधिरपि
कायवाक्चित्तालम्बनसंबोधिवज्रो नाम। नासन्ध्यम्।

 

पर्वतेष्वित्यादिना
साधधनस्थानमाह। पर्वतेषु फलपुष्पाद्यलङ्कृतेषु गिरिशिखरेषु विविक्तेषु जनसंपातरहितेषु
नदीप्रस्रवणेषु उद्यानादिनिकटप्रदेशेषु श्मशानादिप्विति। आदिशब्दादेकवृक्षशून्यागारदेवतालयाद्यन्येष्वपि
मनोऽनुकुलेषु इदमनन्तरोक्तं ध्यानसमुच्चयं क्षितिगतभंदिसमाधिवृन्दं कार्य करणीयम्।
नेयार्थः।

 

पर्वतेषु पीनस्तन
जघनादिसमन्वितेषु नारीजनेषु विविक्तेषु कन्याजनेषु नदीप्रस्रवणेसू सर्वजनसाधारणेषु
वेश्यादिस्त्रीजनेषु श्मशानादिष्विति श्मशानवल्लोकगर्हितेषु चण्डालरजकादिस्त्रीजनेष्विदं
ध्यानसमुच्चयं कार्यमिति नीतार्थः।

 

एवंस्थानसम्पदमासाद्य
वैरोचनन्यासेन दिव्यचक्षुःसाधनमभिधाय तथैवाधिपत्यादिन्यासेन दिव्यश्रोत्रादिसाधनमाह।
अक्षोभ्येत्यादि। अक्षोभ्यनिष्पादकं ज्ञानर्मोंकारबीजं तत्परावृत्त्या संभूतं वज्रमक्षोभ्यः
अक्षोभ्यज्ञानवज्रादयोऽक्षोभ्यत्नसंभवामिताभामोघसिद्धयः तान्। पूर्ववत्। श्रोत्रायतनादिषु
प्रभास्वरालम्बनपूर्वकं ध्यात्वा पञ्चाभिज्ञाप्रयोगेण महावज्रधरयोगेन स्थाने क्षितिगर्भदिस्थाने
बुद्धाग्रा वैरोचनादयः तेषां भावना कार्या। इत्याह भगवान्। महावज्राः साधकाः तेषां
समयवज्रः अभेद्यसमयः तमुपदेष्टुं जानातीति महावज्रसमयः वज्राभिज्ञो महावज्रधरः। यथारुतम्।

 

 उत्पत्तिक्रमेण बीजविन्यासपूर्वकं पञ्चाभिज्ञासाधनमुपदिश्य
निष्पन्नक्रमेणोपक्षिपन्नाह। पञ्चशूलमित्यादि। पञ्चशूलं पञ्चेन्द्रियाणि शूलवद्विषयेषु
निमज्जनात्। तदेव महावज्रमव्याहतप्रसरत्वात्। पञ्चज्वाला उद्वाहादिपञ्चरश्मयः तैर्विभूषितं
मण्डितं स्फरणसंहरणनिर्वर्तनात्। पञ्चस्थानं रुपशब्दादिकं तस्मिन् प्रयोगेण प्रसरणेन
वज्राभिज्ञो महावज्रधरः तत्समो भवेत्।

 

स्वमन्त्रं प्रवेशादिस्वभवमक्षरत्रयम्
अनवरतं घटियन्त्रवत्। अहर्निशं प्रवर्तमानत्वात्। चक्रं स्फुलिङ्गगहनाकुलं पञ्चरश्म्यात्मकपञ्चवज्राणि
पञ्चाक्षराणि तेषु प्रयोगेण प्रेरणे वज्राभिज्ञसमो भवेत्।

 

खवज्रं स्वमहामुद्रारुपं
तन्मध्यगतं स्थितं चक्रमिन्द्रियवृदं बुद्धा वैरोचनादयः तदुपलक्षितज्वाला सितादिरश्मयः
तत्समप्रभं तत्समप्रभं तत्समानवर्ण ध्यात्वा विज्ञाय बुद्धा

 

रुपादयो विषया[] तेषु प्रवेशेन
समायोगेन बुद्धास्त्वत्र पञ्चस्कन्धाः तेषामाश्रयः ज्ञानमूर्तिर्महावज्रधरः तत्समो
भवेदिति।

 

निष्पन्नक्रमेणैव
समाध्यन्तरमुपक्षिपन्नाह। बुद्धमण्डलमित्यादि। बुध्यत इति बुद्धं किं तत्
? ज्ञेयमण्डलं स्वकायम्।
त्रैधातुककायमधिमुच्य वैरोचनं कल्पयेत् ॐकारं हृदये ध्यात्वेति। त्रैधातुकस्वभावकायवज्रहृदये
ॐकारं ज्ञानसत्त्व ध्यात्वा मन्त्रे ज्ञानसत्त्वे विज्ञानभावना विन्द्वात्मकसमाधिसत्त्वभावना
कर्तव्या।

 

एवमभ्यस्यतो योगिनश्चित्तं
यदा निरोधमध्यगतं बिन्दुभावनामप्यपहाय यदा प्रभास्वरनिष्ठं जायते
, तदा सयोगी चिन्तामणिवत्
अभिलषितार्थप्रपूरकः संभाराद्वयोपेतत्वात्। श्रीमान् सर्वबुद्धाग्रो महावज्रधरस्तं
साधयतीति सर्वबुद्धाग्रसाधको भवति।

 

एवं स्वचित्तं त्रैधातुकचित्तस्वभावं
अक्षोभ्यं प्रभावयेत्। ततस्त्रैधातुकसमयसत्त्वहृदये हूंकारं ज्ञानसत्त्वं ध्यात्वा
चित्तं बिन्दुगतं न्यसेदिति समयसत्त्वहृदयस्थज्ञानसत्त्वाख्यो बिन्दुगतं स्वचित्तं
सम्धीसत्त्वरुपं न्यसेत्।

 

स्ववाग्वज्रं तु
पूर्ववत् त्रैधातुकवाक्स्वभावं ध्यात्वा ध्यात्वा तदमिताभं प्रभावयेत्। समयसत्त्वस्य
हृदये आःकारं ज्ञानसत्त्वरुपं ध्यात्वा वज्रं स्वचित्तं समाधिसत्त्वगतं न्यसेत् स्थापयेत्।

 

इदमित्यादिनानन्रोक्तं
समाधित्रयस्यानुशांसामुपसंहरति। समयाग्रमुत्पत्तिक्रमभावनं तस्याग्रं समयाग्राग्रं
त्रिवज्रं सर्वसत्त्वकायवाक्चित्तं तेन स्वकायवाक्चित्तवज्रस्याभेद्यत्वेन भावनं त्रिवज्राभेद्यत्वेन
भावनं निरोधसमयो धारणं तञ्ज्ञायते येन तन्निरोधसमयज्ञानं बुद्धा रुपादयो स्कन्धाः तेषां
सिद्धिः प्राकृतदेहापगमेन औदार्यगाम्भीर्यात्मकज्ञानदेहपरिग्रहः। तत्समावहति प्रापयतीति
बुद्धसिद्धिसमावहम्।

 

अमुमेवार्थ प्रकारान्तरेण
द्योतयन्नाह। खवज्रेणेत्यादि। प्रभास्वरं तत्र धार्यत इति खवज्रधातुः त्रैधातुकं तत्रस्थं
भावयेत्। स्वच्छमण्डलं कायवज्रंत्रैधातुकं कायवाक्चित्ते ॐकारं ज्ञानसत्त्वं ध्यायात्।
त्रैधातुकं कायवाक्चित्तोपमर्दनेन ज्ञानकायं भावयेदिति यावत्। एवं ध्यात्वा किमित्याह।
कल्पं संतिष्ठितीति सर्वसत्त्वमनोरथस्य कल्पनं संपादनं कल्पः। तस्मिन् तिष्ठति आसंसारं
त्रिकायात्मको भूत्वा सकलजगदभिप्रेतार्थसंपादनसमर्थस्तिष्ठतीति यावत्। समाधिद्वयमप्यनेनैव
व्याख्यानेन बोद्धव्यम्।

 

त्रिवज्रकल्पसमय
इति। कायादिवज्रैजंगदर्थ कल्पयति संपादयतीति त्रिवज्रकल्पसमयो महावज्रधरः। यतः प्रभृतीत्याद्यनुशंसा।
इमं द्विविधं योगं प्राप्तभिषेको गुरुभिरनुज्ञातो यतः प्रभृत्यारभ्य कायवाक्चित्तवज्रिणो
महावज्रधरस्य यः पठे
[दि]ति यःपरेभ्यः उपदिशेत्, चिन्तयेदिति यः
स्वयमभ्यसेत् स च वज्रधरो भवेत्। न केवलं भावक इत्यभिप्रायः।

 

सर्वतथागतमन्त्रा
ॐकारादयः। तैर्निष्पन्नसमयो महावज्रधरः। तदेव मन्त्रपरायणानां तत्त्वं विद्या प्रज्ञापारमिता
तत्समुत्थितपुरुषो विद्यापुरुषः। स एव ज्ञानसमयत्वादुत्तमः सर्वतथागतमन्त्रसमयतत्त्वं
च विद्यापुरुषोत्तमश्च यस्मिन् सर्वतथागतमन्त्रसमयतत्त्वविद्यापुरुषोत्तमपटलः। सन्ध्याभाषा।

 





































































































































































































































































॥ प्रदीपोद्योतनटीकायमेकादशपटले
षट्कोटिव्याख्या॥११॥ 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project