Digital Sanskrit Buddhist Canon

श्रीचक्रसम्बराभिसमयव्याख्या

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

श्रीचक्रसम्बराभिसमयव्याख्या

नमः श्रीचक्रसम्बराय

 

प्रथमतरं श्मशानपर्वतादावुच्चस्थानेषु
चोपविष्टो मुक्तकेशो दक्षिणाभिमुखो योगी मुखप्रक्षिप्तपञ्चामृतवटिकः श्रीहेरुकेत्यक्षरचतुष्टयस्यार्थमामुखयन्

 

श्रीकारमद्वयज्ञानं
हे इति हेतुशून्यम्।

रु इतिपगतव्यूहं
क इति न क्वचित् स्थितमिति॥

 

सर्वसत्त्वहितसुखहेतवे
श्रीहेरुकोऽहमिति त्रिरुच्चार्य द्विभुजसम्बरमात्मानमधिमुच्य तदनन्तरम् - ओंकारादि
हुँ हुँ फट् मन्त्रमालिकालिपंक्तिं पञ्चरश्मिकां त्रिरुच्चार्य परिवेष्ट्य स्थिता स्फरन्ति
(?)। चक्रे देवतावृन्दमर्द्धितविप्रवृन्दां(न्दं) भावयित्वा किं
कर्तव्यमित्याह -

 

प्रथमं तावद्योगेश्वरेण
चतुर्ब्रह्याविहारिणा भावव्यम्। एवं सर्व कृत्वा चतुर्ब्रह्याविहारभावनेति कुतो लभ्यते
? गुरुपदेशतो योगेश्वरवचनाच्च।
अभिमात्रसत्त्वापेक्षया संक्षिप्ता मैत्रयादि
[सं] [] सारदुःखादुद्धृत्य
तथतैकरसमहासुखे सर्वसत्त्वा मया प्रतिष्ठापयितव्या इति। तत्र दुःखोद्धरणात्करुणा। सुखे
प्रतिष्ठा
[पना] न्मैत्री। तथता रुपत्वेनोपेक्षा। स्थिरसुखत्वेन मुदित। विस्तारात्तु
मैत्र्यदिभावना प्रसिद्धैव। भाव्यमित्यनेन सर्वेयं भावनासूचिता। प्र योगनमुच्यतेसर्वविकल्पमलनाशाय
शून्यताधिमोक्षः। द्विभुजसम्बराहङ्कारेण सर्वकायव्यापारशुद्धिः। सर्वस्य च जगतोऽनादिसंसिद्धिप्रकृतिपरिशुद्धश्रीहेरुकरुपता
च सूचिता। आलिकालिभावनया सर्ववाग्व्यापारविशुद्धिः। बोधिचित्तोत्पादेन सर्वकुशलमूलवृद्धिः
विशुद्धस्कन्धादिसमुन्त
(मन्त)पूजादिकं बोधिः शीघ्रहेतुकं भवतीत्यत आह ततः पञ्चस्कन्धाहङ्कारमुत्पादयेत्।
तत्र रुपादिषु विज्ञानपर्यन्तेषु फेनबुद्रुदमरीचिकदलीमायोपमत्वेन निश्चयो वैरोचनादयः
सर्वतथागतत्वे तथतायामित्यर्थः। य द्वा वैरोचनादि
[देवता]धिमोक्ष एवं तेषां
विशुद्धिः। तत्र रुपवेदनासंज्ञासंस्कारविज्ञानेषु वैरोचनरत्नसम्भव अमिताभ अमोघपसिद्धिवज्रसत्त्वाः।
रुपादितथतायामक्षोभ्यः। शुक्ल
(सित)पीतरक्तहरितशुक्ल(रक्त)कृष्णाः षडेते वर्णतो
बोद्धव्याः। चक्रोद्यतदक्षिणकरो घण्टायुतसर्वकटिस्थवाम
[]रो वैरोचनः रत्नसम्भवमिताभामोघसिद्धयो
रत्नरक्तपध्मविश्ववज्रोद्यतसलीलदक्षिणभुजाः घण्टायुतहृद्रतवामकराः। वज्रसत्त्वो वज्रधारी
सलीलहृद्रतदक्षिणकरः घण्टायुतसगर्वकटिस्थवामकरः। हेरुकवज्रः सवज्रभूस्पर्शमुद्रादक्षिणकरः
[घण्टायुतसगर्वकटिस्थवामकरः]। चक्षुषोरित्यादि।
अन्य तन्त्रेषु सिद्धस्तु
()। क्षितिगर्भवज्र

 

पाणीखगर्भलोकेश्वरसर्वनिवरणविष्कम्भिसमन्तभद्राः।
अत्र मोहवज्रादयः क्रमशो बोद्धव्याः।
[शुक्ल] [] कृष्णपीतरक्तश्यामसितवर्णाः।
मोहवज्रश्चक्रोद्यतदक्षिणकरः सलीलघण्टायुतहृद्रतवामकरः। द्वेषवज्रः सवज्रहृद्रतदक्षिणकरः
सगर्वघण्टान्वितकटिस्थवामकरः।ईर्ष्र्यागमात्सर्यवज्राः क्रमशो रत्नरक्तकमलविश्ववज्रोद्यतसलीलदक्षिणभुजाः
घण्टान्वितसलीलहृद्रतवामकराः। ऐश्वर्यवज्रस्तु सवज्रहृद्रतदक्षिणकरः घण्टान्वितसगर्वकटिस्थवामकरः।
पातनीमारणिकर्षणीनर्त्तेश्वर्य एकवक्त्राश्चतुर्भुजाः पीतकृष्णरक्तहरितवर्णाः। लोचनामामकी
पान्डरातारा
[आकाशधातु]स्वभावाः चक्रकर्तिवज्रकर्तिकमलकर्तिखड्गकर्तिधारिदक्षिणभुजद्वयाः। कपालखट्वाङ्गधारिवामभुजद्वयाः।
पध्मज्वालिनी धूम्रशुक्लरक्तत्रिमुखी षड्भुजाधर्मधातुवज्रस्वभावा धूम्रवर्णा कपालखट्वाङ्गपाशधारिवाम
[भुजत्र]या अङ्कुशब्रह्मामुण्डकर्तिशोभितदक्षिणभुजत्रया। आदर्शज्ञानस्वभावो वैरोचनः।
समताज्ञानस्वभावो वज्रसूर्यः। प्रत्यवेक्षणाज्ञानस्वभावः पध्मनर्तेश्वरः। कृत्यानुष्ठानज्ञानस्वभावो
वज्रराजः। अत्र साधनं सुविशुद्धधर्मधातुज्ञानस्वभावो वज्रसत्त्वः। धर्मधातुस्वभावोऽक्षोभ्यः।
मोहविनाशनात् मोहवज्रः। द्वेषद्वेषणाद् द्वेषवज्रः। इष्र्याविनाशनादीष्र्यावज्रः। सर्वाङ्गविनाशाद्रागवज्रः।
मात्सर्य विनाशनान्मात्सर्यवज्रः। सर्वेश्वर्यदानादैश्वर्यवज्रः। नामानुरुपकर्मसाधिकाः
पातन्यादयः। वैरोचनादय आलीदपदाः जटामुकुटिनः त्रिनेत्राः पञ्चमुद्रिणः। देव्यो मुक्तकेश्यो
नग्ना आलीदपदाः। तत इति स्कन्धादिशोधनानन्तरम्। वज्रपञ्जरं विचिन्तयेत्। पूर्वादिदिक्षु
निवेशयेत्। उर्द्भ्यं तु शरजालकम्। हूंकारेण विश्ववज्रमर्यीं भूमि मधितिष्ठेत्। तद्रश्म्यवभासतः
वज्रप्राकारं वज्रवितानं चेति। एषा सप्तवाक्यानां यथोपदेशमानुपूर्वी लिख्यते। वामज्र्जन्यङ्गुष्ठच्छोटिकादानपूर्वकम्।
ओं सुम्भनिसुम्भेत्यादि चतुरो मन्त्रानुच्चारयन् कृष्णहतितरक्तपीतवर्णेः ब्रह्याण्डरसातलव्यापिज्व
[]न्महाकायान्। पूर्वोत्तरपश्चिमदक्षिणासु
दिक्षु क्रमेण निवेशयेत्। सुम्भदिमन्त्ररश्मिभिस्तद्वर्णाश्चतुरः प्राकारान् तत्समकालमेव
हूंकारज तदधिष्ठितविश्ववज्रेण विश्ववज्रमर्यी भूमिमारसातलपर्यन्तां तद्वज्ररश्मिभिः
पञ्चसूचिका वज्राकारमुपरिशरजालम्। तस्माधो वज्रपञ्जरं वज्रवितानं च यथास्थनं विचिन्तयेत्।

 

ततः सुम्भादिमन्त्रचतुष्टयनिष्पन्नाः
काकास्यादि चतस्रो देव्यः। तदेवोभयोभयमन्त्ररश्मिसम्भूता यमदाद्यादिचतस्र देव्यः। एता
अष्टौ द्विभुजैकवक्त्राः। नाभेरधः शूलाकारादक्षिणे वज्रमुद्ररधराः। वामे आत्मरुपिकीलकहस्ताः
स्फरणयोगेन गत्वा दशदिग्गतविघ्नवृन्दमानीय दीर्घनादोच्चारितहूंकारनिष्पन्नाष्टदिगष्टप्राकारसमीपकूपेषु
प्रवेश्य कीलनमन्त्रोच्चारणपूर्वकं विघ्नवृन्दं कीलयन्त्यः आकोटनमन्त्रोच्चारणपूर्वकमाकोटयन्त्यः
कीलनाकोटनाभ्यां विघ्नवृन्दं महासुखेन तथतैकरुपं विचिन्तयेत्।

 

पुनः शेषविघ्नानुत्साद्य
प्राकारे लीयमानासु तासु तोये तोयस्फालनबिन्दुनिर्गमन्यायेन सीमाबन्धनार्थ वर्तुलां
वज्रपद्यचक्रप्राकारान्विचिन्तयेत्। तदेवं वज्रप्राकारादिकं निःसन्ध्यैकखण्डीभूतं सर्वथा
निर्विघ्नं च जगदधिमुञ्चेत्। वज्रपञ्जरादि
(दे)रनन्तरं किमर्थ
मन्त्र
(मर्थमन्त्र) शून्यताभावनेति न चोद्यम्, यतोऽधिमात्रप्रज्ञाधिकारादिदं
तन्त्रं तस्य च शुन्यतैव परमा रक्षा। कथं तहिं बहिर्लेख्यमण्डले बाह्यावज्रावलीति चेत्
न। यदेव भगवतो निष्पत्तिस्तदेव समयचक्रपरिच्छेदिकाया विश्ववज्रावलेर्निष्पत्तेः। त
त इति रक्षाभावनानन्तरम्। स्वहृदय इति रक्षापञ्जरमध्यस्थितस्यात्मनो हृदये। अकारेणेति
अनुस्वारयुक्तेनाक्षरपरिणतचन्द्रोपरि। हुंकारेण वज्रधरुपेण। वज्रधरस्य च चन्द्रमण्डलित्वं
युक्तमेव। नानारश्मिविस्फुरन्तमिति स्फुरत्पञ्चरश्मिकम्। निजवर्णस्तु हूंकारं चास्यपारदर्शिदृशः।
मध्ये नीलत्वेन बाह्यो शुभ्रत्वेन। संपूज्येति वीणादिषोडशदेवीभिः। तत्र वीणा वंशा मृदङ्गा
मुरजा एकवक्त्राश्चतुर्भुजाः। नीला पीता रक्ता हरिताः स्वस्ववाद्यवादनतत्परप्रधानभुजद्वया
वज्रवज्रघण्टाघराऽपरभुजद्वयाः। हास्या लास्या गीता
[नृत्या] एकमुखाश्चतुर्भुजाः।
अरुण नील पीत हरिताः। हास्या हास्याभिनयकरद्वया।लास्या वज्रवज्रघण्टाधारिसगर्वलास्याभिनयप्रधानभुजद्वया।  गीता कं
[सीका]धारिभुजद्वया। नृत्या
कमलाभिनयप्रधानभुजद्वया। आसा मन्यदक्षिणोत्तर
(णेतर)भुजद्वया(ये) कपालखट्वाङ्गौ।
पुष्पा धूपा दीपा गन्धाः श्वेतधूम्रदीपशिखाभरक्तवर्णाश्चतुर्भुजा एकमुखाः। आसां प्रधानैकभुजे
पुष्पधूपकटच्छुकदीपयष्टिगन्धशङ्खम्
(शङ्खाः)। इतरभुजत्रयेषु
डमरुकपालखट्वाङ्गानि। अदर्शा रसा स्पर्शा धर्माः। श्वेतरक्तहरितधवलाश्चतुर्भुजैकमुखाः
प्रधानैकभुजेन दर्पण
()रसपात्रविश्ववज्रधर्मोदयधराः। इतरभुजत्रयेषु डमरुकपालखट्वाङ्गानि। अष्टपदमन्त्रैः
स्तुत्वा ततः सर्वसत्त्वाभ्युद्धरणायात्मानं तेभ्यो निर्र्यात्य पापदेशनाद्यर्थ रत्न्त्रयं
मे शरणमित्यादिगाथां त्रिधा पठेदिति पुण्यसम्भार उक्तः। तत इत्यादिना ज्ञानसम्भारमाह।
पूज्यपूजकपूजादीनां विज्ञप्तिमात्राव्यु
(भ्यु)पगमे ओंकारः। स्वभावशुद्धोऽहमिति
ग्राहकविशुद्धिः। पुनः भूयः। शून्यं विचिन्तयेदिति तद्विकल्पमपि त्यजेत्। चित्तमात्रं
तु चित्तमात्रमपि। वै तिष्ठेदिति नादरुपेणावस्थितम्। बोधिसम्भारभावनैरिति बोधिसम्भारो
महाकरुणा तद्भावनासहितं द्रष्टव्यम्। मन्त्रोच्चारणपूर्वकम्। प्रतिभासमात्रज्ञानलक्षणां
शून्यतां भावयेदित्यर्थः प्रतिभसमात्रं ज्ञानमिति। ओं स्वभावेत्यस्यानन्तरम्। तदयमर्थः।
पूजाद्यनन्तरं पूजादिकं प्रतित्यसमुत्पन्नचित्तमात्रत्वेनाधिमुच्य। आत्मनः षिरः कण्ठहृत्सु
हेरुकेत्यक्षक्षरत्रयं भावयेन्। हेत्वपगता
[] सर्वधर्माः। एवं
उहापगताः। न क्वचित् स्थिता इति निरुध्य। एवंरुपान् सर्व
[धर्मान्] अजानन्तः। सत्त्वा
आत्मात्म
(त्मि)यादिग्रहेण संसरन्ति। ततोऽहं हेरुको भूत्वा तथा करिष्यामि यथैवों रुपान्
सर्वधर्मान् ज्ञास्यन्तीति धर्मालम्बनां करुणामुत्पाद्य। ओं स्वभावेत्यादि मन्त्रमुच्चारयन्
त्रैधातुकं शून्यं पश्येत्। प्रणिधानवशात्तच्चित्तमुपर्युपरि स्थितम्। सितरक्तकृष्ण
ओं आ हूंकाररुपं चिन्तयेत्। तत ओंकारात्कायचक्रे देवता
[] संस्फार्य जगदर्थ
कृत्वा समापत्तिपूर्वकं द्रवीकृत्य तस्मिन्नेव प्रवेशयेत्। तथा आःकाराद्वाक्चक्रदेवता।
हूंकाराच्चित्तचक्रदेवता। तत ओंकारं आःकारे आःकारं हूंकारे उ
(हूं)कारं हकारे हकारं
शिरसि शिरोऽर्धचन्द्रे अर्धचन्द्रं बिन्दौ बिन्दुं नादे अन्तर्भाव्यम्। बालाग्रशतसहस्रभागप्रमाणमवस्थाप्य
धर्मतामनवबुध्य संत्वा
[] संसरन्ति। ततश्र्चाहं धर्मतामवबुध्य अवबोधयिष्यामीति। करुणानालम्बनं
महाबीजभूता
(तं) विभाव्यम्। ओं शून्यताज्ञानवज्रेत्यादि मन्त्रमुच्चार्य नाद त। तत इति
शून्यतातः। विबुध्येति नादरुपेण स्वचित्तं नभस्यवस्थाप्य। आधाराधेय
[रुपं] संस्थितम्। वायुमण्डलाद्युपरि
गतं चिन्तयेत्। अयमुद्देशः। अस्य निर्देशो यंकारेत्यादिषु निर्जातम्। विश्र्ववज्रमित्यस्यायमर्थः।
सुमेरुपरि पंकारजविश्र्वपद्यकर्णिकोपरीत्यर्थः। वि
[श्र्वपध्ममष्टदल]कर्णिकाकेशरान्वितमित्यस्य
पध्मस्य दिगनुक्रमेण वर्णा उच्यन्ते।

 

पूर्वादिदिग्वासिफलारुणाभं
वम्।

प्रेतापिशाचानदिशौ() च दूर्वाश्यामाब्जकृष्णं
खलु विश्र्वपध्मम्॥

 

इत्यस्यायमर्थः।
पूर्वादिदिग्ग च पीतम्। नैर्क्रत्यां श्यामः। एशान्यां कृष्णः। आलिकालियोगमिति वामदक्षिणावर्तस्थिता
त्विका
[] तदाकृति चन्द्रमण्डलं चिन्तयेदिति वर्तते॥ इति योगः॥

 

तन्मध्ये इति चन्द्रमध्ये।
हूंकारं नादात्क्रमेण निष्पन्नम्। वज्रसत्त्वस्वरुपकमिति। हेतुवज्रधररुपम्। नाना रश्मिनिश्र्चरन्तमिति।
मुखनिर्गतपञ्चचक्रदेवताभिर्जगत्तन्मयीकृत्य संहरणेन  च दशदिग्वर्तिसिद्धवीरयोगिन्या योगपूर्वकं  द्रवीकृत्य नादे प्रवेश्य चिन्तयेदिति। परमानन्दस्वरुपं
बीजं तत्कालं तदभिमुखी व्यस्य हेतुर्वज्रधररुपता। भगवता सहजानन्दरुपत्वात् फलरुपता॥
इत्यनुयोगः॥

 

(तत्परिणतमिति) वज्रपरिणतम्। श्रीहेरुकवज्रमिति
सकलं भगवन्तं सहजरुपनिष्पन्नम्। त्र्यक्षरदिमन्त्रमुच्चारयेत्। ओं आः हूं। ओं सर्ववी
भावाभावविकल्पविनाशनमोक्षस्वपुपम्। उपचितसकलकुशलमूलत्वेन जटामकुटमण्डितम्। धर्मधातोः
समुत्थितत्वात् कपालमालशेखरम्। स्रवद्वोधिचित्तस्वभावत्वात् अर्धचन्द्रधारिणम्। सकलजगदर्थकारकत्वेन
विश्र्वज्राक्रान्त
(लङ्कृत)मौलिनम्। मिथ्यादृष्टिप्रहाणाद्विकृताननम्। मिथ्यादृष्टिप्रहाणाद्विकृताननम्।
चतुर्मारविनाशनाद्दंष्ट्रीत्कटभीषणम्। पञ्चतथागतचतुर्देवीस्वभावशमथविपश्यनाभ्यासरतियोगात्
शून्याङ्गारादिरश्म्यान्वितम्
(शृङ्गारादिरसान्वितम्)। रागादिविशोधकम्
व्याघ्रचर्मनिवसनम्। आलिकालिपञ्चाशदक्षरस्वभावशिरोमालाम् भस्मना
(मालाभस्मना) सर्वान्गलेपनं
तु सर्वाङ्गव्यापकबोधिचित्तसूचकम्।

 

अग्रत इति सम्मुखं
भगवन्तमालिङ्ग्य स्थितैत्यर्थ। खण्डमण्दितमेखलेति कपालखण्डकृतकटिभूषणा। कल्पाग्निवदिति
शून्यरुपतया जगदनुपलम्भसाम्यात्। महातेजा इति सुविशुद्धज्ञानालोकयोगात्। सूर्यप्रभामण्डलिनी
रजोयोगाद् ब्रु
(स्र)वन्ती। पञ्चमुद्राविभूषिता बोद्धव्या। समावैष्ट्यति(समावेष्टेति) वृक्षारोहकरणस्थिता।
महासुखकरुणात्मिकेति विपश्यनारुपे महासुखे निमग्नपि जगदर्थकारिका।

 

इर्षद्धास्यपरिष्वङ्गे
नग्नत्वं मुक्तकेशता।

रोमञ्चैः स्वसुखोत्पत्तौ
पञ्चलिङ्गानि वाह्यातः॥

 

साक्षल्लिङ्गत्रयस्योक्तैरुह्यां
लिङ्गद्वयं ततः।

पञ्चवक्त्रं(चक्र) स्थिता देव्यः
पञ्चलिङ्गव्यवस्थितः॥

 

कुलिशादिशोधनमुच्यते
शुक्लहूंकारेण वज्रं कृष्णं रक्तव्या
()कारेणारक्ततन्मणिपीतव्या(द्य)कारेणाधिष्ठिताग्रः।
अकारेण रक्तं त्रिदलं पध्यम्। द्यकारेण बीरबोधिचित्तोपलक्षकं सितकिञ्जल्कं पीतद्यकाराधिष्ठिताग्रम्।
तत ओं वैरोचनीय इत्यादि। ओं सर्वबुद्धडाकिनीय इत्यदिभ्यां देव्या हृदयोपहृदयमन्त्राभ्यां
नाभौ हृदि। तथा स्वहृदयोपहृदयोपऋदयमन्त्राभ्यां कण्ठे ललाटे च भगवर्ती भगवान् चुम्बयेत्।
भगवती च भगवती च भगवधृधयोपहृदयमन्त्राभ्यां कण्ठललाटयोः भगवन्तं चुम्बयेत्। ततः त्र्यक्षरेण
रतिमरभेत्। बह्योऽपि शोभनरतेरयमेव विधिः।

 

देवीषु वामे वीरेषु
दक्षिणे प्रथमं चिह्नन्यासो ज्ञेयम्। जटामकुटाङ्कपट्टका इति जटामुकुटिनो वीरपट्टयुक्ताश्चेत्यर्थः।
चूडेति रुचकपर्यायः। द्वौ हि रुपो मनोहराविति विदिग्वर्तिभ्यो मानुखी
(षी)मुखा द्विवर्णा
न तु काकादिमुखा। प्रेतासनमहाघोरा इत्यष्टावपि बोद्धव्याः। श्मशानवासिनीत्वाच्छवासनत्वमासाम्।
वीरयोगिनीनामिति वाराह्यादीनाम्।

 

देवताकाराभिनिवेशत्यागाय
सर्वज्ञतालाभदर्शनाय च बोधिपाक्षिकधर्मयोजना। तत्र कायानुस्मृत्युपस्थानं रुपस्कन्धपरिज्ञानप्रारम्भः।
वेदनास्मृत्युपस्थानं वेदनास्कन्धपरिज्ञानप्रारम्भः। धर्मानुस्मृत्युपस्थानं संज्ञासंस्कारस्कन्धयोर्मायोपमत्वेनावधारणः
(णा)। विज्ञानस्कन्धस्य
स्वरुपेण प्रतिवेधश्र्चित्तनुस्मृत्युपस्थानम्। सद्धर्मश्रुताद्यभिलाषे अत्यन्तादरः
छन्दरिधि
(ऋद्धि)पादः। वीर्येऽनवरताभ्यासो वीर्यक्रद्धिपादः। मीमांसाक्रद्धिपादोऽत्यन्तविचरणा।
चित्तक्रद्धिपादो बोधौ साक्षात्क्रियायामतिशयः। सत्यरत्नत्रयकर्मफलेष्वभिसंप्रत्ययः
श्रद्धेन्द्रियमिदं तदित्यवधारणे एश्वर्यम्। वीर्येन्द्रियमवश्यकर्तव्यं तथावधारणम्।
स्मृतीन्द्रियममुषीतस्मरणतयाऽविद्याऽनवकाशः। समाधीन्द्रियं चित्तैकाग्रतायामैश्र्वर्यम्।
प्रज्ञेन्द्रियं हेयोपादेयत्वेनावधारणम्। पञ्चेन्द्रियाण्येवो प्रकर्षपर्यन्तावस्थायाम्।

 

श्रद्धाबलादिव्यपदेशं
लभमानानि श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलमित्यभिधीयन्ते। समाधिसम्बोध्यङ्गं
समाधिरेव बोधिः कारणम्। वीर्यसम्बोध्यङ्गं कौसीद्यस्यानवकाशं। प्रीतिसम्बोध्यङ्गं कु
[]ले आग्रहः। प्रस्रब्धिसम्बोध्यङ्गं
कुशले कर्मणी चित्तस्य कर्मण्यता। धर्मप्रविचयसम्बोध्यङ्गं नैरात्म्यस्वरुपस्य तथतेत्यवधारणम्।
स्मृतिसम्बोध्यङ्गं अविस्मरणशीलता। उपेक्षासम्बोध्यङ्गं समाधौ अनाभोगता।

 

सम्यग्दृष्टिः बुद्धवाक्ये
परमगौरवमविपरीतार्थप्रतिपत्तिः। सम्यक्सङ्कल्पः प्रारब्धरस्य सत्कृत्यस्यापरित्यागः।
सम्यक्वाक्  सत्त्वाविसंवादकं वचनम्। सम्यक्कर्म
दशकुशलानतिक्रमे कृत्यम्। सम्यग़ाजीवः सत्त्वाविहेठनारुपेण जीवनम्। सम्यग्व्यायामः कुशलार्चन्
(र्थ) घटनम्। सम्यक्स्मृतिः
बुद्धवचनानुस्मरणम्। सम्यक्समाधि
[] श्रीहेरुकरुपालम्बनम्।

 

अथात इत्यादि सुगमम्।
पीठेत्यादि यथाक्रमं दशभूमिविशुद्धपीठादियोजनयेत्यर्थः। तत्र पीथोपपीठादयः क्रमशः प्रमुदिता
विमला प्रभाकरी अर्चिष्मती सुदुर्जया अभिमुखी दुरंगमा अचला साधुमती धर्ममेघा। पूं जेत्यादि।
अत्रोपदेशः। पूं जां इत्यादि सर्व सानुस्वारं निरुपयता
(तां) पूंकाराद्यक्षरपरिणतानि
अर्ध
(त्र) शून्यचक्राकाराणि पीठादिस्थानानि शिरःप्रभृति(षु) क्षटिति द्रष्टव्यानि।
तेषु पीठादिषु तत्स्थानं गता नाङ्यतद्देवतारुपेण परिणम्य व्यवथिताद्रष्टव्याः। कर्ण
इति कर्णविवराभ्यन्तरे। एवं मुखनाभिलिङ्गगुदभ्रूमध्ये चक्षुन्र्नासिकास्वपि बोद्धव्यम्।
खेचरीति स्वर्गगतानां सन्ग्रहः। भूचर्या मत्यानाम्। पाताल वासिन्या
(नीति) पातालगतानाम्।
यथा बाह्यो पीठादिसमीपस्था नद्यस्तोयेन धो
(पो)षं कुर्वन्ति तद्वद्देहेऽपि
नाङ्यो नखादीनां घोषं
(पोषं) कुर्वन्तीति समानता। बाह्यो वज्रपीठं महाबोधिसंज्ञ्कं स्थानं नैरञ्जना
च नदी। देहे महासुखचक्रं वज्रपीठमवधूती निरञ्जना। वक्त्रवामदक्षिणनासापुटगुदद्द्वारेषु
क्रमेण काकास्यादयो द्वारपालिन्यः। सव्यावसव्यश्रोत्रसव्यावसव्यनेत्रेषु यमदाद्यादयः।
ललाटकण्ठनाभिकमलकर्णीकासु डाकिन्यादयश्चतस्रः। भट्टारकभट्टारिकास्थानम् उपदेशाद्वोद्धव्यम्।
इति सम्पूर्णकायमण्डलं मुहुर्मुहुर्दृदमखिमोक्तव्यम्।

 

उक्तार्थमेव निगमयति
कायवाक्चित्तभेदेनेति। स्वर्गमत्र्यपा तालमेकमूर्तिर्भवेदिति। स्वर्गादिभिरभिन्नदेहं
तत्स्वभावो भगवान् भवेदुत्पद्यत इत्यर्थः। कथमित्याह कायवाक्चित्तभेदेनेति। बह्याभ्यन्तराभ्यां
चक्रत्रयस्य भाव इति यावत्। कुत इत्याहत्र्यक्षरस्वभावत इति। त्र्यक्षरान्नादपरिणामद्वारेण
स्वस्वभाव उत्पत्तिर्यस्य हकारस्य स तथा
, तस्या सहजानन्दरुपेणेत्यर्थः।
क्षटितेति। चिह्नादिनिरपेक्षत्वेन क्षटिताकारयोगात्मा। भगवत्या सहैव सकृन्निष्पत्तेः
क्षटिताकारमुद्रवत्। आत्मसमकालमेव प्रज्ञावानित्यर्थः। क्षटिता सर्वसर्वेणेति कूटागारवीरवीरेश्वरीभिः
सह सकृन्निष्पत्तेः। क्षटिता मन्त्रमुच्चरेदिति निष्पत्तिसमकालमेवो मन्त्रोच्चारणात्।
मन्त्रत्रयमाह ओं आः हुं इत्यादि। तत इत्याद्युद्देशश्लोकः आशु इति अर्घादिनिरपेक्षः।
अथेत्यादि निर्देशः। ओं ह इत्यादयो मन्त्रदेवतयोरभेदात्तत्तद्वर्णा मन्त्रा भाव्याः।
वज्रसत्त्वादीनां वर्णानुक्रमेण सितपीतरक्तकृष्णरक्तहरिता। सर्वाङ्गेष्वस्रमिति चर्ंआद्यंतरगताः।
परमाणवस्नभ
)स्वभावस्तद्वर्णाः। तदेव भगवत्याम्। ओं वं इत्यादयो मन्त्राः रक्तनीलसितपीतहरितधूम्रधूसरवर्णाः।
अथवा तत्तन्मन्त्रनिष्पन्नान्ने
(न्नेष्व)ष्टस्थानेषु वज्रसत्त्वादयो
भाव्याः। वज्रसत्त्ववैरोचनपध्मनर्त्तेश्वरश्रीहेरुकवज्रसूर्यपमाभ्यः
(परमाश्वाः)। सितपीतरक्तकृष्णरक्तहरितवर्णाः।
त्रिमुखः षट्भुजो वज्री। तदन्ये चतुर्भुजा एकवक्त्राः। वज्रं डमरुकं शिरःसव्येषु घण्टाकपालखट्वाङ्गानि
वामेषु। शुक्लरक्तकृष्णानि प्रधानसव्येतरमुखानि वज्रिणःऽन्येषां चक्रं पध्मं वज्रं
रत्नं खड्गमेव च। डमरुकं च सव्ययोः। घण्टाकपालखट्वाङ्गं पुनर्वामयोः। वाराही रक्तनील
हरितमुखा वामे कपालं खट्वाङ्गं पाशम्। दक्षिणे अङ्कुशब्रह्मामुण्डकर्तिधारिणी। योगिनी
मोहनी सञ्चालनी
(रणी) सन्त्रासनी चण्डिकाः नीलसित पीत हरितधूम्रधूसरवर्णाः। मुक्तकेशा नग्नाः।
त्रिनेत्राः।षड्भुजाः सकपालखट्वाण्गघण्टा
[] च वामे। पुनर्दक्षिणे
डमरुकर्तिधारिण्यः सर्ववा
(सर्वा) आलीदासनस्थाः त्रिनेत्राः। ये चात्र शुभ्राश्र्चन्द्रप्रभामण्डलिनः अन्ये
तु सूर्यप्रभामण्डलिनः। अथाग्रग्रन्थ्या तर्जनीभ्याः
(अथाग्रग्रन्थितर्जनीभ्यां) ग्रन्थीकृत्य एतदुक्तं
भवति। वीणादिषोडशदेवीभिः पूज्यमानम्। मुग्रामन्त्राभ्यां प्रेरितं हृद्वीजरश्मिभिराकृष्टं
ज्ञानचक्रदशदिग्वर्तिवीरेश्र्वरीपरिणामरुपम्। क्षटीत्यात्मनि प्रवेशयेत्। तत ओं योगेत्यादि
मन्त्रमुच्चारयन् कमलावर्तेन हृदयमुद्रान् दद्यात्। हृदयमुद्रोपसंहरे आलिङ्गनभिनयं
कुर्वन् ओं आः हूं इत्यादि पूर्वोक्तमन्त्रत्रयेणाधितिष्ठेदिति।

 

ततो अभिषेकं दापयेत्।
तत्रायमुपदेशः। ज्ञानचक्राकर्षणसमकालमाकृष्टभिर्वज्रयोगिनीभिर्ज्ञानामृतपूर्णकपालडमरुकधारिणीभिः।
हृद्रीजनिर्गतवीणादिदेवीपूजार्चिताभिः।यथाहीत्यादि वारिणेत्यन्तं पठन्तीभिरीषदावर्जितम्
वामकरकपालनिपतत् ज्ञानामृतधाराभिरभिषिच्यमानं समयमण्डलं महासुखमयमात्मानं विभाव्य।
शेषाम्बुनिष्पन्नान् तथागतान् स्वशिरसिदेवतानां च दृष्ट्वा ओं सर्वतथागतेत्यादि मन्त्रमुच्चारयेत्।
ततो भगवतोऽक्षोभ्यम्। भगवत्या वैरोचनम्। डाकिन्यादीनां   रत्नसम्भवं चित्तवाक्कायचक्रगतानाम् अक्षोभ्यामिताभवैरोचनान्
समयचक्रगतान्
(नां) अमोघसिद्धिम्। ततः पूजापुरस्सरं रसाख्यं देव्युपदौकितामृतमास्वाद्य हृदयाद्यष्टपदान्तमन्त्रैः
स्तुति कुर्यात्। ततः पञ्चज्ञानत्रिकायात्मकं प्रतिबिम्बोपमं मण्डलमधिमुञ्चेत्। जापानन्तरमुक्तं
बलिविधानम्। पश्र्चाद्वक्तव्यम्। नखदन्तादयः खण्डकपालिन इति खण्डकपालिनस्वभवा नखदन्तादय
इत्यर्थः।

 

ब्रह्यासूत्रादीनां
मन्त्रादिरुपां विशुद्धिमाह मूलमन्त्रादीत्यादि पुनः पुनः एवं सूचयति। मुद्राधारणं
विनापि मन्त्रोच्चारणा
[त्] देवता दृश्यं फलं स्यादित्यर्थः। मूलमन्त्रो मालामन्त्र। स एवादिः श्रेष्ठः।
वीरमिति वीरस्य। धातुकल्पितमिति नखदन्तादयः इत्यर्थः। षट्भि कवचस्य वीरेणेति षट्भिर्भगवतः
कवचमन्त्रैरित्यर्थः। मुद्रेयमिति षण्मुद्रा इत्यर्थः। वज्रवाराह्या यन्मन्त्रमिति।
देव्या मालामन्त्रेण इत्यर्थः। सर्वबुद्धडाकिन्य इति ओं सर्वबुद्धडाकिनीये वज्रवर्णनीये
हूं हूं फट् स्वाहेत्यनेनेत्यर्थः।षड्योगिनीमन्त्रेणेति कवचगतषड्योगिनीमन्त्रैः। सर्वचक्रस्य
योगिन्य इति डाकिन्यादियममथनीपर्यन्तानां देवनां मन्त्रैरित्यर्थः। मन्त्रयानकरोटकमिति
मन्त्रोऽत्र करुणा। वैरोचनीति यन्मन्त्रमिति ओं वज्रवैरोचनीये हूं हूं फट् स्वाहेत्यनेन।
एवमित्यादिना पर्यटनकाले यत्कर्तव्यं। तदाह विचिन्त्येति। कवचयित्वा आक्षेपमन्त्रः।
ओं सुम्भनिसुम्भेत्यादि चतुर्मुखमन्त्रः। तेन सुरक्षितौ मुहुर्मुहुरुच्चारणात्। ब्रह्याचर्य
सदा भूत्वेति संवाररुपेण सर्वभावानां निरन्तरव्यवलोकनं कृत्वेत्यर्थः। मन्त्रं वै अष्टपदाच्चिर्चतमिति
अष्टपदमन्त्रैरन्यानर्चयेत्। गुरुबुद्धबोधिसत्त्वांश्र्च दृष्ट्वा संवराधिमोक्षेणाष्टपदमन्त्रेणार्चयित्वा
वन्दनादिकं कुर्यात् चर्याकाले तु आत्मानमेव। चक्रसंवरसंवर इति निजरुपाभिन्नत्रैधातुकस्वभाव
इत्यर्थः। सप्तत्रिंशद्धोधिपाक्षिकधर्मयोजनया सर्वज्ञता। दशभूमिविशुद्धपीठादियोजनया
मार्गज्ञता तथा कवचादिविशुद्धियोजनपर्यन्तेन 
सर्वाकारज्ञता प्रोक्ता॥ इत्यतियोगः॥

 

इदार्नी महायोगेन
वज्रधरतामाह। आलिकालिं पुरो ध्यात्वेत्यादि। पुरः प्रथमं चन्द्रं भावयेदित्यर्थः। तस्येति
चन्द्रस्य। अक्षरमिति हूंकारम्। परमं पदमिति वज्रधरस्य बीजम्। भावयेद्देवतारुपमिति
हूं परिणामेन। कायवाक्चित्तं च व
(चित्तव)ज्रिणमिति वज्रधरमित्यर्थः।
पिण्डातीतं भवेत्त्स्येति भगवतः क्रमेण लीयमानस्य नादरुपतां भावयेदित्यर्थः। चित्तमेव
चित्तनादमपि। अचिन्त्यमित्यदिना पूर्वकमेव निर्दिशति। सोपीति तमपि। चित्तं चैव न लक्षितमिति
अचिन्त्यमित्यपि विकल्पो न भवेदित्यर्थः। अस्य निर्देशः। चित्ये
(न्तये)दित्यादि। सोप्यचिन्त्यं
वेति अचिन्त्यमेव भावयेदित्यर्थः। धारणीमिति महामुद्रासिद्धिम्। अनेन सर्वेणेदं प्रतिपादितम्
आलिकालिपक्तिं पञ्चरश्मिकां स्फरन्र्ती चक्रदेवतामुच्चारयन् दक्षिणेन वायुना निःसृत्य
जगत्त्रिचक्रीकृत्यानादिसिद्धवीरयोगिनीसमरसीभूतां वामपुटेन प्रविश्य नाभौ प्रतिबिम्बतत्त्वाकारचन्द्रमण्डलीभूतां
विचिन्त्य तत्र क्षटिति हूंकारं तच्चन्द्रबीजपरिणतं भगवन्तं शुक्लवर्णमालीदासनस्थमाकाशलिखितचित्रसदृशं
द्विभुजमेकवकां वज्रवज्रघण्टाधरोभयभुजाभ्यां वज्रकपालधारिद्विभुजैकमुखरक्तवज्रवाराहीसमापन्नं
दृष्ट्वा मायासुरतध्वनिना समाकृष्ट
(ष्य) त्रैधातुकात्मकं
चक्रमात्मनि क्रमेणान्तर्भावयेत्। क्रमस्तु जगतः श्मशानेषु। श्मशानानि बाह्याचक्रे।
बाह्याचक्रं कायचक्रे। कायचक्रं वाक्चक्रे। वाक्चक्रं चित्तचक्रे। चित्तचक्रं च दिग्गतडाकिन्यादिषु।
एशान्यादिविदिग्गतरुपिण्यादिषु। डाकिन्यादीनां यथास्वं भगवन्मुखेषु। भगवान्भगवती च
द्विभुजतत्प्रज्ञायाः। ते च समस्तरतेन महारागद्रवापन्ने तद्द्रवपरिणतं सिन्दूररक्तमुक्ताफलसदृशं
हंकारं महासुखमयं उकारश्र्च शिरसि शिरोऽर्धचन्द्रे अर्धचन्द्रं बिन्दौ बिन्दुं नादेनादमात्रं
बालाग्रशतसहस्रभागरुपं पश्येत्। अधिमात्रस्तु तमपि नोपलम्भयेदित्यर्थः॥ इति महायोगः॥

 

खेदे सति क्षटिति
मण्डलचक्रमधिमुच्य नाभिचन्द्रे श्र्वेतरक्तं हूंकारं नादं वा दृष्ट्वा त्र्यक्षरमुच्चारयन्
तस्माद् नादाद् यथोपदेशं निर्गमवायुना पञ्चचक्राणि संस्फार्य जगदर्थ कारयित्वा पुनरुच्चारयन्।
मन्त्रेण सहैव मगलासूत्राकर्षणन्यायेन प्रवेशवायुना तस्मिन्नेव नादे प्रवेशयेत्। एवं
पुनः पुनः कुर्यात्॥ इति वज्रजापः॥

 

तथैव तस्मादेव नादात्
हृदयोपहृदयमुच्चारयन्। चक्रसम्बरदेवता वृन्दस्फरणसंहरणेन पूर्ववत् हृदयोपहृदयमन्त्रान्
जपेत्। प्रत्येकं देवता मन्त्रोच्चारणपरिसमाप्तौ प्रत्येकं संअफरणसंहरणम्॥ इति समयजापः॥

 

सर्वधर्मसमताहङ्कारेण
मन्त्रामालां स्वमुखे एव प्रविश्य वज्रमार्गेण पध्मे गत्वा अवधुतीमार्गेणोत्थाय भगवतीमुखन्निसृत्य
स्वमुखद्वारेण प्रवेश्य नादे विलिय पुनस्तस्मादुत्थाय पूर्ववत् तदेव भ्रमन्र्ति भावयन्
मालामन्त्रं जपेत्॥ इति दोलाजापः॥

 

ततो वक्ष्यमाणक्रमेण
बलिं दत्वा प्रविधानं च कृत्वा देवतारुपेण विहरेदिति। श्मशान
(स्नान)कालेऽभिषेकविधिं
विदधीत। भोजनकाले तु मण्डलचक्रात्मकं देहं क्षटिति विचिन्त्य यथाविधानं बलिं दत्वा
त्र्यक्षरेण वा बलिमधिष्ठाय ओं ख ख खाहीत्यादि मन्त्रेणैकवारोच्चारितेन दिप्पालेभ्यो
दत्वा ज्वलनादिविधिना शोधितभक्तदिकं सर्वधर्मसमताहङ्कारपूर्वकं ओं समयशुद्धाः सर्वधर्माः
समयशुद्धोऽहमिति। हूंकारेण शुक्लवज्रमर्यि जिह्यां विधाय ओं अमृतोदकः हूं हूं ठ ठ त्रां
आः खं हूं इत्यनेनधिष्ठाय त्र्यक्षरेण च नाभिस्थहूंकारं ददन् वा प्रीणयेदिति।

 

मध्याह्न्सन्ध्यायां
तु ध्यानगृहं प्रविश्य त्र्यक्षरादिमन्त्रत्रमुच्चारयन् क्षटिति मण्डलचक्रमधिमुच्य
पूर्ववत् सर्व कृत्वा यथासुखं विहरेदिति। अर्धरात्रसन्ध्यायां मध्याह्नसन्ध्यावत् सर्व
कृत्वा सर्ववाग्व्यापारम् आलिकालिमयं बुद्धा
(द्ध्वा)

 

ओं एह्योहि महावीर
शुद्धवाक्यस्य देशक।

शून्यताज्ञानमेवं
च सृष्टिसंहारस्वयं
(सं)भव॥

 

अकारादिक्षकारान्तं
हुं हुं फडित्युच्चार्य प्रभास्वरमामुखीकृत्य निद्रायाश्र्च प्रभास्वरतामधिमुच्चन्
शयीत। सर्वासु सन्ध्यासु प्रते शताक्षरं पठेत्। पुनः प्रभातसन्ध्यायां प्रभास्वरोत्थितं
मण्डलचक्रमधिमुच्य ओं एह्योहि इत्यादि सर्व मन्त्रं पतितो
(पठित्वो)त्थाय पूर्वोक्तं
सर्वमनुतिष्ठे
(नुष्ठे)दिति।

 

खट्वाङ्गदेवतामूर्तिरित्यादि
न क्वचित् स्थितमितिपर्यन्तो ग्रन्थो वैरोचनीति यन्मन्त्रं कपालकृतशेखरमित्यस्मादन्तरं
योजितव्यम्। देवतामूर्तिरिति श्रिहेरुकमूर्तिः यद्धा कङ्कालदण्डः खट्वाङ्गस्वभावो बोद्धव्यः।
प्रज्ञा शून्यता। डमरुकध्वनिः प्रतिश्रुत्कोपमप्रतिपादकः। उपलम्भ स्वभावाद्दिनस्तु
भगवान्। अनुपलम्भस्वभावत्वाद्योगिनी रात्रिः। निर्वाणं निर्गतवीरं षष्ठमं चित्तनिर्मितमिति।
निर्वाणस्मरणं जीवितेन्द्रयनिरोधात्। निर्वणान्निर्गतो गन्धर्वसत्त्वः। स च पञ्चाभिज्ञो
लक्षणालङ्कृतशरीरो ज्ञानस्वभावो व्यवस्थापयते। विज्ञानमात्ररुपत्वात् षष्ठत्वेन मीयते
निश्र्चीयत इति षष्ठमम्। अत एव चित्तनिर्मितमिति वीरं भगवन्तं तद्रूपत्वेन अधिमुच्य
भावयेदित्यर्थः। यद्वा निर्वाणं धर्मधातुः क्लेशोपक्लेशशमनात्। निर्गतसत्त्वार्थकारको
ज्ञानमयं कायः। षष्ठं धर्मधातुमा
()तिपरिच्छिनतीति।
तत्तथा चित्तनिर्मितमिति। विनेयचित्तम पेक्षतया प्रतिभाषणात्। शुद्धं
(द्ध)धर्मस्य निर्माणं
वाराहीरुपदर्शितमिति। शुद्धधर्मः शून्यता। तत्स्वभावा वाराहीत्यर्थः। चित्तविश्राम्य
इत्यादिना दृष्टानुशंसमाह। योगिति योगिनः। निर्वाणं मरणम्। नैव दर्शिंतं न पारमार्थिकम्।
गृहादृहान्तरगमनमिव चित्तविश्राममात्रं मरणमित्याकूतम्। च्युतिकाले मरणकाले। योगीनामिति
योगी। मृत्युर्नामविकल्पोऽयमिति लौकिकोऽयं विकल्पः। खेचरीपदमिति प्रभास्वरपदम्। एतदुक्तं
भवति। मरणसमये श्रीहेरुकवाराहीप्रभृतिवीरवज्रयोगिनीनीभिर्नानाविधिपुष्पधूपध्वजपताकादिव्यग्रकराभिः
प्रभास्वरपदे प्रवेशयेत् इत्यर्थः।

 

















































































































































॥ श्रीचक्रसम्बराभिसमयव्याख्या
समाप्ता कृतिरियं शाश्वतवज्रस्य
()

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project