Digital Sanskrit Buddhist Canon

सर्वशब्दभावचर्चा

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    May 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

सर्वशब्दभावचर्चा

 

इह सर्वशब्दाभावसाधने
ज्ञानकार्यानुपलब्धिम् एके प्रमाणयन्ति।

 

एकज्ञानसंसर्गिविरहात्
किल नेह स्वभावानुपलब्धेर् अवसरः। तथा हि त्रयम् अवश्यम् अस्याम् अभिधेयं घटादिमत्प्रतिक्षेपेण
,

विशेषणं स्वभावः
फलं चेति। तत्र दृश्यविषयविशेषणवशात् पिशाचादेर् अप्रतिषेधः
, एकज्ञानसंसर्गिवेदनस्वभावत्वेन
रूपज्ञानाद् रसस्य। नाप्य् अभावपक्षदोषानुषङ्गः। व्यवहारफलतया च प्रत्यक्षसिद्धिर्
उपसंहिता। सा च प्रतियोगिज्ञानाश्रये सत्य् उपपद्यते। तद् एव हि प्रतियोग्यन्तराभावनान्तरीयकतया
तदभावविकल्पजननसामर्थ्यात् तत्साधनं भवेत्। ततो मूढं प्रति तदात्मिकाऽनुपलब्धिर् अभावव्यवहारसाधनीति
युक्तम्।

 

न च सर्वशब्दाभावे
साध्ये कश्चिद् एकज्ञानसंसर्गी लभ्यत इति नात्रावकाशस् तस्याः।  स तु शब्दराशिर् अभिमतप्रदेशे विद्यमानस् तदा ज्ञानकार्यम्
अनारभ्यासितुं न समर्थ इति कार्यप्रतिषेधेऽपि निर्विशेषणैव सत्ता प्रतिषिद्धा भवतीति
भावः।

 

अत्र चिन्त्यते: न तावत् ध्वनिर्
इत्य् एव श्रवणम्
, विधिरस्यापि प्रसङ्गात्। तस्माद् इन्द्रियपाटवसहकृतस्यैव शब्दस्य श्रवणज्ञानजनकत्वम्।
तच् च श्रवणपाटवम् एकज्ञानसंसर्गिविरहे दुरवधारम्। अत एव प्रदेशप्रत्यक्षापेक्षया घटनिषेधः।
ततो हीन्द्रियगुणं गणयन् घटापराधम् एवानुपलब्धेर् अवधारयति।

 

()

 

न च मनस्कारवत्
स्वसंवेदनसिद्धिः
, इन्द्रियस्य जडत्वात्। नापीन्द्रियान्तरगम्यत्वम्, अतीन्द्रियत्वात्।
कार्यं पुनर् उपलब्धिर् एवास्य। तत्सिद्धौ च कार्यानुपलब्धेर् एवासिद्धिः। असिद्धौ
सिद्धम् अनैकान्तिकत्वम्। न हि विषये सत्य् अपीन्द्रियदोषात् सम्भाव्यमानोऽनुपलम्भस्
तदभावनियतो नाम।

 

नाभाव एव शब्दस्य
तज्ज्ञानजननयोग्यस् तु नास्तीति ब्रूम इति चेत्
, सेयं कुवैद्यवृत्तिर्
आयाता
, प्रथमं प्रागल्भ्यगर्भम् अभिमतप्रतिकरणम् अभ्युपगम्योपायबुद्ध्योपन्यस्तस्यानुपायस्य
परेण तत्त्वप्रतिपादने कृते पश्चाद् असाध्यत्वघोषणात्। सर्वथाऽभाव एव हि जिज्ञासिते
कार्यानुपलब्धिर् इयं साधनम् उक्ता। न तु ज्ञानजननयोग्यताविरहजिज्ञासायाम्। तद् यदि
प्रमाणभ्रंश एव कथञ्चिज् ज्ञातः
, प्रमेयभ्रंशस् तु किमङ्गाङ्गीक्रियते? वरं च प्रमाणान्तरम्
एव मृग्यताम्। असाध्यतैव तु कस्माद् अवघुष्यते
?

 

न हि शक्यम् अवधिरस्याशृण्वतः
सन्निहितभेर्यादिरवाभावः प्रतिक्षेप्तुम्
, विधिरावधिरयोर्
अविशेषप्रसङ्गात्।

 

सति श्रुतिकृतोऽस्ति
विशेषः प्राक् पश्चाद् इति चेत्
, नैवम्। यदि हि प्रागवस्थातः श्रवणशक्त्या
निर्विशेष एषः
, कथम् अश्रुतिः सति शब्दे? अन्यथा प्राग्
अपि न स्यात्। अथ विसदृशावस्थोऽपि सम्भाव्यते। श्रुताव् अपि न श्राद्धातव्यम्
, अस्य विप्लवस्य
सम्भाव्यमानत्वात्। तत्राश्रवणम् अभूतश्रवणं वेति न विशेषः। अन्ते कुतः शक्तिविपर्यय
इति चेत्
, मध्ये कुतस् तदभाव इति समानम्।

 

()

तस्माद् अपक्ष एवायं
सन्न् अपि शब्दस् तदा न श्रुत इति। केवलं किम् अत्र प्रमाणम् अस्त्व् इति चिन्तायां
कार्यानुपलब्धिर् अनैकान्तिकीत्य् उक्तम् एव
, श्रवणपाटवस्य दुरवधारत्वाद्
इति।

 

ननु कथम् एतद् दुरवधारं
दृष्टश्रवणपाटवस्मरणबलवतः श्रोतुं प्रवृत्तस्य
, क्षणिकत्वेऽपि
हि विसदृशसहकारिप्रत्ययान्तरविरहे विसदृशदशासम्भवाभावात्
? इन्द्रियविकारकारिणो
हि प्रत्यया धातुक्षोभप्रहारादयो निर्णीतशक्तयः स्वसन्ताने सन्तानव्याकुलीभावहेतवः
सूपलक्षा एव। अनुपलक्षितास् तु स्वप्रभवभेदशङ्कां कथम् इव क्षमन्ते
? सूक्ष्मं तु प्रभाववतोऽधिष्ठा
नादिविकारकारणं शङ्कमानस्य श्रवणेऽपि क आश्वासः
? तस्माद् अनुपलक्ष्यकारणारब्धदिङ्मोहलक्षनेन्द्रियभ्रान्तिदर्शनेऽपि
प्रसिद्धकारणानुपलक्षणान् नेन्द्रियाणाम् अतादवस्थ्यव्यवस्था। यथाऽन्यथा तत्प्रत्ययानां
भ्रमत्वप्रसङ्गात्
, तथाऽद्यापि किं न गण्यते? मा भूत् सर्वसंवृतिविलोपः।

 

अभ्यासदशासत्तिसमाश्रयस्
तु समानः। न हि वधिरवरस्याभिरोपारूढश्रवणबलस्याप्य् अश्रवनेऽभावनिश्चयं ब्रूमः
, बलनिश्चयस्यैवाभावात्।
तद्वद् अन्यस्याप्य् अकलितबलस्य। अत्यन्ताभ्यासे हि सकलरजनीसुप्तप्रबुद्धानाम् अदर्शनेऽपि
तदवस्थासंवेदिनाम् अविपरीतव्यवहारवृत्तिदर्शनात् कः प्रस्तावो जाग्रतः स्वात्मन्य्
अन्यथात्वशङ्कायाः
?

 

तस्माद् अतादवस्थ्यस्य
तद्व्यवस्थाया वा निषेधः
, प्रसिद्धकारणाभावात् तदुपलक्षणाभावाद् वा।

 

यदि दर्शनश्रवणादाव्
अभ्यासदशापेक्षयाऽध्यक्षत्वनिबन्धनं तादवस्थ्यम् इच्छता
, संवृतिव्यवस्थितेनेन्द्रियतादवस्थ्-

 

()

यं सामग्रीप्रतिबद्धबुद्धितादवस्थ्यं
वा साधारणशक्त्यपेक्षया स्वसंवेदनम् एव वा शरणम् आस्थीयते। तद् एवाश्रवणदशायाम् अपीति
कथम् अनेकान्तः शब्दाभावे
?

 

ननु ज्ञानात्मन्य्
एव स्वसंवेदनम् इति चेत्
, न।

एकाधिमोक्षविषयेष्व्
एककार्योपयोगिषु।

एकधीः सर्वविषया
स्थिता निर्भागवर्तिषु॥१॥

 

पञ्चस्कन्धेष्व्
अप्य् अहम् इत्य् एकोऽधिमोक्षः। भाषणादाव् एकस्मिन्न् अर्थे परस्परोपादेये चोपयोगः।
घटादिसञ्ज्ञके तु रूपरसादौ प्रसिद्धोऽयम् न्यायः
, अन्यथा व्यवहारायोगात्।

 

ननु न शरीप्रत्यक्षं
बुद्धिम् अन्वेति। एवम् एतत् प्रातिस्विकरूपापेक्षया रूपरसादिवद् एव। सामान्येन तु
गृहीत्वैकधीविषयत्वम् उच्यते
, यावन् न निर्बन्धो विवेचने। विवेचने तु
पृथक्प्रमाणम् उक्तम्। तेन प्रत्यक्षश् चैत्रो न च बुद्धिर् अध्यक्षेति द्वितयम् अविरुद्धम्।
अत एव तदवस्थोऽहम् इति विकल्पोऽपि संवेदनानुसारी सर्वविषय एव।

 

भ्रान्तिर् इयम्
इति चेत्
,, बाधकाभावाद् भ्रान्त्यसिद्धेः। तस्मात् पूर्वप्रतीतश्रोत्रशक्तेस् तदवस्थानिश्चयसम्भवाद्
अश्रुतिः शब्दस्यैवापराधाद् इति ज्ञानाभावेनापि तदभावसिद्धिर् ऐकान्तिकीति न प्रकृतव्याघातः।
इयत्य् एव तर्हि स्वभावानुपलब्धेर् लक्षणसामग्रीति कार्यानुपलब्धिसञ्ज्ञाकरणे कोऽर्थः
, प्रत्ययान्तरसाकल्यं
स्वभावविशेषं चापन्नस्यैव शब्दस्यानुपलब्धा निषेधात्
?

 

()

 

तथाऽप्य् अन्यसञ्ज्ञायां
घटनिषेधेऽपि को निषेद्धा
? केवलं घटवत् शब्दस्यापि दृश्यानुपलब्ध्याऽपि निषेधः साध्यो जात इत्य्
उच्यते।

 

तत्रैकज्ञानसंसर्गिसम्भवाद्
युक्तस् तया निषेध इति चेत्
, तत्रैव तावद्  एकज्ञानसंसर्गिणः किम् अपेक्षया? रूपदर्शने हि रसस्य
विप्रकृष्टदेशतयाऽनुपलब्धिलक्षणप्राप्तत्वाद् एवाप्रतिषेधः
, प्राप्यकारित्वाद्
घ्राणरसनस्पर्शनानाम्।

 

नैवम्, इन्द्रियातिरिक्तस्यालोकस्य
तत्रापेक्ष्यत्वात्। स हि बहिःसुल भकारणिधीनोपजनापजनधर्मको न स्वात्मतादवस्थ्यसाध्य
इति तदर्थम् एकज्ञानसंसर्गोऽपेक्ष्यमाण इन्द्रियसाद्गुण्यज्ञानेऽपि सहायीभविष्यति।

 

एवम् यत्रालोकनिरपेक्षैव
ग्रहणशक्तिः
, तत्र न किञ्चिद् एकज्ञानसंसर्ग्यपेक्षयेति सिद्धम्। तच् च नाम क्वचित्
साधनेऽपेक्ष्यते
, यदन्तरेण विरोधासिद्धिसन्देहेष्व् अन्यतमदोषासत्तिः। न च द्विविधोपलब्धियोग्यतापन्नस्य
क्वचिद् अनुपलब्ध्या निषेधे साऽस्ति
, येन संसर्गी नियतम्
अपेक्ष्येत। यत्राप्य् अयम् अपेक्ष्यते
, तत्राप्य्

आलोकापेक्षप्रतिपत्तिनो
वस्तुनः प्रतिषेधे विशेषणासिद्धिपरिहारार्थम् एव। न चैतावता सर्वत्र तदपेक्षा। न हि
विनाषं प्रत्य् अनपेक्षा व्याप्तिसाधनी सर्वत्र क्षणभङ्गसाधनेऽपि स्वभावहेताव् अपेक्ष्यते।

 

यदि चायम् अपेक्ष्य
एव किमङ्ग दृश्यविशेषणेन
,  केनचिद् एकज्ञानसंसर्गिनो दृश्यत्वाव्यभिचारात्? न हि पिशाचस्य
केनचिद् एक ज्ञानसंसर्गः।

 

एक एवार्थ उभयथापीति
नैकप्रयोगेऽन्यप्रयोजनचर्चेति चेत्
,, सामान्यविशेषभावेन
भेदस्याव्यक्तत्वात्। संसर्गो हि न विशे-

()

 

षणं व्यभिचरति।
विशेषणमात्रं तु तं व्यभिचपत्य् एव। अत एव विशेषणसिद्धये संसर्ग उपनीयते। न तु विशेषणं
संसर्गाकृष्टये प्रभवति
, शब्देऽपि प्रसङ्गात्। तथा च पक्षक्षय इति कः श्रमस्यार्थः? तस्माद् एकज्ञानसंसर्गो
नाम प्रकृतोदाहरणापेक्षयैवोद्घुष्यते
, न स्वभावानुपलब्धौ
सर्वत्रापेक्ष्यत्वेन।

प्रस्तुते हि कलसप्रतिषेधे
सा दिग् अस्तु सविशेषणसिद्ध्यै। नोपलब्धम् उपलभ्यम् इतीयल्लक्षणं खलु निजानुपलब्धेः।
तथा च लक्षणे प्रयोगे चोपलब्धिलक्षणप्राप्तानुपलब्धिमात्रोपन्यासः। शास्त्रे विपर्ययबाधोपदर्शने
च प्रत्ययान्तरसन्निधौ स्वभावविशेषवतः सत्त्वेऽनुपलब्धेर् असम्भवः ख्याप्यते। अन्यथा
प्रयोजकम् अंशं संसर्गम् एव सर्वत्र दर्शयेत्
, विशेषणवत्।

 

तादात्म्यं तु दृश्यत्वम्
अभ्युपगम्यैव निषिध्यत इति विशेषणस्यानुक्तिमात्रम्
, न पुनर् अप्रयोजकत्वं
व्याप्तेर् इव विदुषि
, अन्वयोक्तिविशेषे वा व्यतिरेकस्य। तस्मान्  न्यायनाथस्यापि नावशयम् एकज्ञानसंसर्गिव्यपेक्षाभिप्रायः
स्वभावानुपलब्धौ।

अपि चैवं कार्यानुपलब्धाव्
एव सर्वसङ्ग्रहम् आचक्षीत
, स्वभावानुपलब्धेर् अपि तदेकदेशत्वात्। सर्वप्रमाणसङ्ग्रहव्यवस्थां च
कार्यानुमाने कुर्यात्
, स्वसंवेदनाद् अन्यत्र।

 

तस्माद् इन्द्रियज्ञानविषये
न कार्यानुमानव्यवस्था यथा तथा तदगृहीत इत्य् एव कुतः कार्यानुपलब्धिव्यवस्थाऽपि  शास्त्रकारस्य
? यथा हि प्रत्यक्षव्यवस्थाविलोपभयम्
एकत्र
, तथाऽन्यत्र स्वभावानुपलम्भस्य। यथा वाऽप्रत्यक्षे कार्यं लिङ्गम्, तथाऽप्रत्यक्षयोग्य
एव तदनुपलब्धिर् इति समानम्।

यथा वाऽयम् एव भगवान्
ज्ञाने ज्ञानान्तराभावम् अपि दृश्यानुपलब्ध्या व्यवहारयति। यदाह दृश्यात्मनो वा विकल्पस्य
दर्श-

 

()

 

नेऽदृष्टिर् विकल्पकल्पनाम्
इन्द्रियज्ञाने प्रतिहन्ति इति
, तदा क एकज्ञानसंसर्गी? किं चैवमभ्युपगमे
कार्यानुपलब्धेर् अप्य् असिद्धिर् इति प्रकृतमतहानिर् एव। न हि ज्ञानकार्यस्याभावः
कार्यानुपलब्धेर् एव बोद्धव्योऽनवस्थाप्रसङ्गात्।

 

 स्वसंवेदनं चैकाकारनियतम् अन्याभावनिश्चयम् आक्षिपत्य्
एव। केवलं विमतं प्रति यदि स्याज् ज्ञानान्तरम्
, अनुभूयेतेति दृश्यानुपलब्धिर्
एव शरणम्
, व्यवहारे बाह्यवत्।

 

विशेषणानुच्चारणं
तु स्यात्। न त्व् अन्या गतिः। संसर्गापेक्षायां च साऽपि नास्तीति सन्दिग्धासिद्धो
हेतुः। तस्माद् अनुपलब्धेर् एकज्ञानसंसर्गापेक्षानियमम् अनुलङ्घ्य वर्तितुम् अशक्यम्।

 

बहिरपेक्षया नियम
एवेति चेत्
,, तत्रापि निबन्धनाभावात्। यद् धि सामर्थ्यम् अन्तस् तदतिक्रमे, तस्य बहिर् अपि
लाभसम्भवे किं न सदृशी स्थितिः
? विचित्रो हि विषयस्वभावः। तत्र स्वात्मा
तावत्  प्रत्यक्षीभावे योग्यतामात्रम् अपेक्षते
, शब्दगन्धरसस्पर्शतमिस्रालोकास्
तु मनस्कारातिरिक्तम् इन्द्रियम्
, घटादिसन्निवेशिनस् तु रूपविशेषाः प्रकाशम्
अपि प्रायशः। तथैषां विधाव् उपलब्धिर् इव स्वभावस्यानुपलब्धिर् अपि निषेधे किं न भिन्नाम्
एव सामग्रीम् अपेक्षेत
?

तत्राद्ये यथा नेन्द्रियतादवस्थ्येनोपयोगः, तथा मध्यमीयेष्व्
अपि नैकज्ञानसंसर्गिणा। अन्यातिरिक्तापेक्षिणस् तदपेक्षा युज्यन्ते

 

()

 

ऽपि। ततो यथा यदि
बुद्धिः स्याद्
, उपलभ्येतैव किम् इन्द्रियतादवस्थ्यापेक्षयेति सामर्थ्यम्, तथा यदि स्याद्
रसादिः
, तदवस्थेन्द्रियेण मयोपलभ्येतैव किम् एकज्ञानसंसर्गिणेति शक्यम् एव। तस्माद्
बहिर् अपि नियमसम्भावनाऽतिदूरैव। अभ्युपगमे वा ज्ञानेऽप्य् अपेक्षेत।

 

तत्रापि संवेदनैकप्रत्यक्षापेक्षैकज्ञानसंसर्गोऽस्तीति
चेत्
, ननु न संवेदनं नामैकं प्रत्यक्षम् अस्ति, धर्ममात्रस्य तस्य
प्रतिस्वं भेदात्। सामान्यम् आश्रित्यैकज्ञानसञ्ज्ञय तु परितुष्टौ भिन्नेन्द्रियग्राह्ययोर्
अपि स्वसंप्वेदनेन्द्रियज्ञानविषययोर् अपि वा प्रसङ्गः।

 

ययोः सतोर् अन्योन्यप्रत्यक्षाव्यभिचारः, तत्रेयं व्यवस्थेति
चेत्
, रूपयोर् अपि नायं नियमः, प्रदेशपिशाचयोर्
अदर्शनात्। विशिष्टयोर् अस्त्य् एव। न च सामान्यापराधो विशेषम् आस्कन्दतीति चेत्
, एवम् अपि शब्दाकाशयोः
शब्दमनस्कारयोर् वा प्रसङ्गः। न ह्य् आकाशप्रत्यक्षं मनस्कारसंवेदनप्रत्यक्षं वा सत्त्वे
शब्दस्य प्रत्यक्षं व्यभिचरति। व्यभिचारे पुनः कार्यानुपलब्धेर् अनेकान्तप्रसङ्गः।
तस्माद् अव्यापकम् एकज्ञानापेक्षणम्। अन्यस्यापि च सुलभम् इत्य् अलं विमत्या।

 

अपि चायं चित्तयोर्
एकज्ञानसंसर्गोऽपूर्व एव
, मुख्यस्याभावात्, गौणस्य चैकायतनसङ्ग्रहाभावात्।

 

उपलक्षणम् एकायतनसङ्ग्रह
इति चेत्
, एकज्ञानसंसर्ग एव किं नोपलक्षणम् आख्यायते? प्रकृतघटोदाहरणापेक्षया
तु द्वयम् अप्य् एतद् उक्तम् इत्य् अनभिनिवेशः। यथा ह्य् एकायतनसङ्ग्रहेण

अन्योन्यप्रत्यक्षाव्यभिचार
उपलक्ष्यते
, तथैकज्ञानसंसर्गेणापि प्रतियोगिमात्रापेक्षैवेति युज्यते।

 

()

कश् च कस्य प्रतियोगी? ययोर् एकाकानियतं
प्रत्यक्षम् इतराभावनिश्चयम् उपपादयितुं शक्नोतीति। कयोश् चैवमनुपलब्धिः
? ययोर् एकप्रत्यक्षम्
अपरप्रत्यक्षाव्यभिचारि। तयोर् हि सतोर् नैकरूपनियता प्रतिपत्तिः
, असम्भवात्। ततस्
ताव् अविशिष्टकालदेशदशासन्तानापेक्षयऽन्योन्यस्य प्रतियोगिनौ व्यवस्थाप्येते। सदृशः
संवितिलाभलक्षणोऽयोगस् तयोर् इति कृत्वा। अत एव तयोर् एकाकारनियतं वेदनम् अन्यस्य प्रतिषेधविकल्पम्
उपपादयितुं शक्नोतीति तादृशाम् अभावः प्रत्यक्षसिद्धोऽभिधीयते। तम् एव निश्चयं मूढं
प्रति प्रतियोग्युपलम्भस्वभावानुपलब्धिर् उपलब्धियोग्यता युगयोगिनः सन्तन्वन्ती व्याहारव्यवहाराव्
अपि साधयतीति तावतैवेतरमतप्रतिक्षेपेण स्वभावफलयोर् अपि परिनिष्ठासिद्धौ किम् एकेन्द्रियग्राह्यतापेक्षोपग्रहेण
?

 

अयं हि प्रतियोग
एकेनानेकेन वेन्द्रियेण ग्राह्ययोर् अर्थयोर् ज्ञानयोर् ज्ञानार्थयोर् वा साधारणोऽभावसाधने
च निरपवाद इति कस् तदनुरोधः
? यथा हि भूतलकलसयोर् ज्ञानयोर् वैकरूपवेदनम्
अन्यप्रत्यक्षाव्यभिचारितया तदभावनिश्चयोत्पादने पर्याप्तम्
,  तथा पानकपानकर्मणि द्वयम् उपलब्धवतस् तादवस्थ्यसंवेदिनः
प्रदीपकवलने स्पर्शमात्रोपलब्धी रसाभावनिश्चयजनने।

 

()

 

स्वविकल्पाकारमात्रसंवेदनं
वा सन्निहितस्पर्शाभावावसाय साधने शक्नोत्य् एव। न हि तद्विकल्पवेदनं तदा सतः स्पर्शस्य
प्रत्यक्षं व्यभिचरति।

 

न चान्योन्यप्रत्यक्षाव्यभिचाराद्
अन्यद् अन्यत्रापि द्वितीयाभावनिश्चयोत्पादनसामर्थ्यं नाम। नाप्य् अभावनिश्चयोत्पादनसामर्थ्याद्
अर्थान्तरम् अभावप्रत्यक्षीकरणं नाम। न ह्य् असौ विग्रहवान्
, यतः साक्षात्कर्तव्यः।

 

यदा च पर्युदासेन
प्रतियोग्य् एवाभावः
, तदा त्व् अस्य मुख्यैव प्रत्यक्षसिद्धिर् इति युक्तं सर्वत्र व्यवहारफलत्वम्।
न चायं प्रतियोगः स्वभावादिविप्रकर्षिणां केनचिद् अस्ति
, येन कस्यचित् प्रत्यक्षं
तदभावविभावनाय प्रभवेत्। न चैवं निवृत्तिमात्रम् अनुपलब्धिर् उक्ता भवति।

 

भट्टस् तु पर्युदासपक्षेऽपि
यथोक्तं प्रतियोगिनम् अनपेक्ष्यान्यमात्रस्योपलब्धिम् अनुपलब्धिं प्रमाणयतीति तन्मते
युक्तः पिशाचादिप्रतिक्षेपः। रूपदर्शिनस् तु रसस् तद्देशविप्रकृष्ट एव। न तेन प्रतियोगं
यथोक्तम् आवहति। रसनाग्रसङ्गी तु नाभावम् अनुपलब्धौ व्यभिचरतिति न दोषः कश्च्ल्त्।
अत एव कार्यानुपलब्ध्यादीनाम् साक्षाद् अक्षमः स्वभावानुपलब्धाव् अन्तर्भावः परम्पर्येणोच्यते
, तादृशस्य प्रतियोगस्याभावत्।

 

तस्माद् उपलम्भयोग्यताप्राप्तस्यानुपलम्भ
इत्य् एव दृश्यानुप लब्धेर् लक्षणम्। स च यथोक्तप्रतियोग्युपलम्भरूपतया सिद्धस्याभावस्य
व्यवहारिकस्यैवावतिष्ठत इति न न्यायशास्त्रयोर् उपरो-

 

(१०)

 

धः। एकेन्द्रियग्राह्योपन्यासस्
तु घटाद्युदाहरणापेक्ष एव मन्तव्य इति स्थितम्।

 

तत्र, यदा तावत् तिमिरालोकसञ्ज्ञिते
आकाशप्रदेशे ऱ्श्यमाने देवकुलादौ वा भेर्यादिरवाभावं प्रतिपद्यते
, तदा तद् एव तदेकाकारोपरक्तज्ञानविषयीभवज्ज्ञानं
व तादृशं नियतप्राप्तिकप्रत्यक्षोदयस्य निषेध्यस्य तज्ज्ञानस्य वा पर्युदासोऽनुपलब्धिः।

अव्यापृतचक्षुस्
तु रसादिस् तज्ज्ञानं वाऽन्ततो मनस्काराकारो ज्ञेयपर्युदासः। तत्संवेदनं च पर्युदासः।

 

न हि तद् अपि शब्दप्रत्यक्षोदयविनाकृतम्
उपपद्यते पटुश्रवणस्य। निर्विकल्पकस्य तु न निषेधेऽ धिकारः। केवलं यावद्देशसम्बद्धस्य
ध्वनेर् अध्यक्षं न व्यभिचरति रसादिप्रत्यक्षं

विकल्पाकारसंवेदनं
वा तावद्देशशब्दापेक्ष एव पर्युदासो वक्तव्यः
, अन्यं प्रति प्रतियोगस्यान्योन्यप्रत्यक्षाव्यभिचारलक्षणस्य
वक्तुम् अशक्यत्वात्। ततश् च पूर्ववत् प्रत्यक्षसिद्धिर् अभावस्य।

व्यवहारश् च फलं
दृश्यानुपलब्धेर् एव शब्देऽपीति सिद्धम्।

एकधीविरहेऽप्य्
अस्या व्यापारानुपरोधतः।

अनाकृष्टेर् अनिष्टस्य
प्रतियोगिसमाश्रयात्॥२॥

इति।

आलोकादिसमग्रताधिगतये
जन्माधिकव्यञ्जकापेक्षे सूचित एकधीपरिचयोऽशब्दप्रदीपादिषु। किञ्चित् तु श्रुतदृष्टपूर्विमनसस्
तादृग्दशासंविदोऽन्येषु स्वानुपलब्धिर् एव हि रवाद्याकारशून्यान्यधीः।

(११)

 

नाक्षस्य सिद्धं
यदि तादवस्थ्यं शक्तिर्

न कार्यानुपलम्भनस्य।

अक्षस्य सिद्धं
यदि तादवस्थ्यं फलं

न कार्यानुपलम्भनस्य॥३॥

अवश्यापेक्षणीयत्वे
स्वभावानुपलब्धिषु।

संसर्गस्य कथं सिद्धिर्
ज्ञानकार्यादृशोऽपि वः॥४॥

बाह्य एवैष नियमो
यदि तत्रापि किं कृतः।

प्रदेशमात्रयोग्यत्वाच्
चित्रा हि विषयस्थितिः॥५॥

अनालोकस्य धीर्
यद्वद् बाधा नानुक्तभेदिका।

संसर्गिणम् अनादृत्य
तथा बाधात् तु कुत्रचित्॥६॥

तस्यास् तु रूपं
प्रतियोगिवस्तुविज्ञानम् एवेति न भट्टभित्तिः।

तथा हि सोऽपि प्रतियोगिभावो
मिथः

समक्षाव्यभिचार
एव॥७॥

तत एवैकविज्ञानम्
अन्याभावविकल्पकृत्।

नाभावबोधोऽध्यक्षेण
तत्कृतान् निश्चयात् परः॥८॥

यथोक्तप्रतियोगित्वे
सत्य् एव क्षमम् अक्षजम्।

तदभावावसायायेतीदृशी
वस्तुनः स्थितिः॥९॥

 

ननु प्रतियोग्य्
एवैकज्ञानसंसर्गी
, साक्षाद् एकज्ञानसंसर्ग स्याभिमतत्वात्, मुख्यतया साकारस्वीकारात्।
ततः सामर्थ्याद् एकशब्दोऽव्यभिचारमात्रोपलक्षणतयाऽवतिष्ठते।

 

(१२)

 

प्रत्यक्षैकजात्यपेक्षया
चैकवृत्तिर् एव। न चैवं सञ्ज्ञंआत्रम्
, तथारुढदर्शनात्, यथा एको व्रीहिः
सम्पन्नः सुभिक्षं करोति इति। तेन यत्राप्य् एकज्ञानसंसर्गिणि दृश्यमान इति उच्यते
, तत्राप्य् अन्योन्यप्रत्यक्षाव्यभिचारिणीत्य्
अयम् एवार्थः। एकायतनभाव एव

तूपलक्षणतया प्रकृतापेक्षतया
व्याख्येयः
, यथा प्रदेशस् तज्ज्ञानं चानुपलब्धिर् इति। ततश् च स्वभावानुपलब्धौ प्रतियोगिसमाश्रय
इत्य् एकज्ञानसंसर्गसमाश्रय एवोक्तो भवतीति कथम् अव्यापकम् एकज्ञानसंसर्गित्वं नाम
? सत्यम् एवम्।

प्रतियुगवसितैकधीस्थितिर्
यदि भवते प्रतिभाति का क्षतिः।

ननु सकलकलापसंहृतं
स्वयम् अदृशोऽस्तु निषेधनं ध्वनेः॥१०॥

 

अन्योन्यप्रत्यक्षाव्यभिचारस्य
केनापि ध्वनाव् अपि सम्भवात्
, इतरस्य तु प्रतियोगिनोऽयोगात्। प्रतियोगपर्यवसितम्
एकज्ञानसंसर्गं मन्यमानस्य स्वानुपलब्धितः प्रकृतनिषेधे काऽपरापेक्षा
? तस्मान् न योग्यदेशाशेषशब्दाभावसाधने
ज्ञानकार्यानुपलम्भः शरणीकरणीयः
, स्वभावानुपलब्ध्यैव सिद्धेर् इति। तिमिरालोकयोस्
तु परस्परदेशपरिहारेण स्थितयोर् अभिन्नेन्द्रियकृत एवैकज्ञानसंसर्गः सुलभ इति तदभावसाधनाधिकारे
दूरतैव स्वभावानुपलम्भाद् अन्यसाधनचिन्तेति सर्वशब्दाभावचर्चा समाप्ता।























































































































































































































































































































(१३)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project