Digital Sanskrit Buddhist Canon

अनुपलब्धिरहस्य

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    May 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

अनुपलब्धिरहस्य

सिद्धान्ते विप्रकीर्णस्यानुपलम्भस्य
यादृशी।

रूपनिष्ठेह तादृश्याः
सङ्ग्रहः क्रियते स्फुटः॥१॥

 

प्रतिषेधे साध्येऽनुपलब्धिस्
तृतीयं लिङ्गम्। तच् च यद्य् उपलब्धिविरहमात्रम्
, तत् कथं कस्यचित्
प्रतिपत्तिः प्रतिपत्तिहेतुर् वा
, तस्यापि वा कथं प्रतिपत्तिः? तस्माद् अभक्ष्यादिवत्
पर्युदासवृत्त्याऽन्योपलब्धिर् एवानुपलब्धिः।

 

तत्रापि यद्य् अन्यमात्रस्य, तदैकस्य कस्यचिद्
उपलब्धौ सर्वस्य निषेधप्रसङ्गः। इष्यत एव तादात्म्यनिषेधः सर्वस्येति चेत्
, तद्देशनिषेधोऽप्य्
अनिवार्यः। तद् अयं विशेषः
:

 

वेद्ये यत्र हि
यन्मतिर् नियमतः स्याद् वा न वा तस्य

धीर् इष्टा नोऽनुपलब्धिर्
अन्यविरहज्ञानस्थितेर् आश्रयः। २
ab

 

यत्र वेद्यमाने
यस्य मतिः स्याद् इति देशकालस्वभावविप्रकर्षिणां निषेधः
, नियमेन इति उपलम्भकारणान्तरवैकल्यस्य।
एतेन दृश्यविशेषणप्राप्तस्याभावज्ञानस्थितिर् इति दर्शितम्। अतो न सर्वस्य निषेधप्रसङ्गः।

यत्र च वेद्यमाने
यन्मतिर् नियमेन स्यात्
, तस्यैव धीर् इष्टाऽन्यस्य द्वितीयस्याभावनिश्चयप्रबन्धाक्षेपाय क्षमा
इति।

 

()

 

एतेन न विरहमात्रम्, पर्युदासवृत्त्या
त्व् अन्यविशेषबुद्धिर् इत्य् उक्तम्
, अत्र च तस्यैवैकाकिन
इति सामर्थ्यात् अन्यथेतरस्यानिषिद्धोपलधेर् अधावासिद्धेः तद् यथा नेह घट उपलभ्यस्यानुपलब्धेः
, यथा क्वचित् किञ्चिद्
इति। तत्र दृश्यस्य इति स्वभावविशेष उपलम्भप्रत्ययान्तरसाकल्यं चोक्तं द्रष्टव्यम्।
अनुपलब्धेर् इति प्रतियोगिन उपलब्धेर् इत्य् अर्थः।

 

तच् च प्रतियोगीहेत्य्
आधारताप्राप्तं भूतलम्
, अन्यद् वैकेन्द्रियज्ञासंसर्गि, तदन्यो वा, यस्मिन् वेद्यमाने
निषेध्य उपलभ्यम् एव इति सामान्योक्तेः। तत्र
, यधि भूभाग उपलभ्य
एव कुम्भसम्भवः साध्यः
, तदा स एव प्रतियोगी। किम् अन्यापेक्षया? यदा तु नभसि, तदाऽपि तद् एवालोकसञ्ज्ञितम्।
अन्यो वा घटादिर् अनियतस्थितिः।

 

स्पृश्यनिषेधे त्व्
अयम् एव। एतेनैकज्ञानसंसर्गी प्रतियोगी व्याख्यातः
, क्वचित् पुनर्
अन्यथाऽपि
, यथा प्रदीपं कवलयितुर् नेह रसो दृश्यानुपलब्धेर् इति स्पर्श एव प्रतियोगी।

 

तयोर् हि सतोर्
नैकरूपनियता प्रतिपत्तिः
, पानकवत्। दूराद् रूपदर्शनेऽपि तर्हि कथं रसनिषेधो न भवति? देशविप्रकर्षिण
उपलम्भयोग्यताया अभावात्
, प्राप्यकारित्वाद् घ्राणरसनस्पर्शनानाम्। उक्तं च: यस्मिन् वेध्यमाने
यद् अवश्यं वेद्यत एव इति। नापि रसानुभवे रूपनिषेधः
, तदाऽपि तल्लक्षणायोगात्।

 

()

 

एवं शब्दोपलब्ध्याऽपि
न रूपनिषेधः
, समन्धकारे हि सतोऽपि रूपस्य ज्ञानाव्यभिचारिणी न शब्दवित्तिः। आलोके
तु न तावद् दृश्यमानस्यैव निषेधः अदृष्टस्य तु योग्यस्य निषेधेऽपि न दोषः
, तल्लक्षणात्यागात्।
एतेन देवकुलादौ परिदृश्यमाने तद्देशभेर्यादिरवाभावसिद्धिर् नावश्यं शब्दान्तरप्रतीतिसापेक्षेति
दर्शितम्। न तयोः सहप्रतीतिनियम इति चेत्
, भूभागकुम्भयोर्
अपि नैवम्। उभयोस् तु सतोर् एकरूपप्रतीतिनियमविरहः प्रत्यक्षस्य तत्रापि समानः।

 

एकज्ञानम् अन्यग्रहाविनाभूतं
वाऽन्यग्राहिज्ञानान्तराविनाभूतं वेति न विशेषः
, एवम् एकेन्द्रियजम्
अन्यद् वा। सन्तमसेऽववरकेऽपि दीपाभावस् तदाकारविरहिणो ज्ञानान्तराद् अन्ततो विकल्पाद्
अपि
, यदि परसमयस्यानुवर्तनम्। वस्तुतस् तु वस्तुसन्न् एवान्धकार एकज्ञानसंसर्गी
प्रदीपस्य सम्भवतीति किम् अन्येन
?

 

ननु स्वभावविशेषेऽपि
प्रत्ययान्तरसन्निधिर् उपलब्धियोग्यता। स च भिन्नेन्द्रियज्ञाननिमित्तं भवन्न् अपि
भिन्नेन्द्रियज्ञानप्रत्ययनिश्चयेऽनुपयुक्तः। ततश् चान्यस्य प्रत्ययान्तरसन्निधिसंशये
निषेधः क्रियमाणोऽन्ततो विकल्पाद् अपि नियताकारात्। कथं दृश्यस्य कृतः स्यात्
?

 

उच्यते: न खलु प्रत्ययान्तरसन्निधिसिद्धिनिबन्धनं
समानेन्द्रियज्ञानम् एव
, किं तु पञ्चस्कन्धलक्षणस्यात्मभावस्या-

 

()

वस्थाविशेषसंवेदनम्
अपि
, यदा नेन्द्रियस्वभावविशेषाभ्याम् अपरः प्रकाशकोऽपेक्ष्यते, यथा शब्दप्रदीपदौ।

 

तत्र हि किञ्चित्
श्रुतदृष्टपूर्विणस् तदवस्थेन्द्रियप्रणिधिविदुषो यतः कुतश्चित् तत्तदाकारविरहिणो ज्ञानात्
तदभावसिद्धिः केन वार्यते
? कस् तर्हि ज्ञानान्तरपरिग्रहस्योपयोगः, तद्दशासंविदो ज्ञानानुत्पादाद्
एव तदभावसिद्धेः
? कथं वा भिन्नविषयेन्द्रियज्ञानाद् अन्यनिषेध इति?

 

उक्तम् अत्र: नाभावस्य क्वचित्
सामर्थ्यम् इत्यादि। ततो न ज्ञानान्तरम् इन्द्रियसाद्गुण्यनिश्चयाय समाश्रीयते
, किं तु प्रतियोगिविरहविकल्पजननाय।
तत्र यथा समानेन्द्रियसंसर्गिज्ञानम् अन्याभावनिश्चयसमर्थम्
, तथाऽन्यद् अपि
सति सत्त्वेऽव्यभिचरितव्यार्थान्तरज्ञानाकारविरहीति न कश्चिद् विशेषः।

 

कथम् इति चेत्, नात्रेच्छानिच्छयोः
सामर्थ्यम्। यस्य तु यदन्वयव्यतिरेकानुकारः
, तयोर् हेतुफलभावाभ्युपगमः।
यथा भूतलैकाकारनियमात् तज्ज्ञानम् अन्यनिषेधविकल्पेनानुकृतान्वयव्यतिरेकम्
, तथा प्रदीपम् आनने
क्षिपतः स्पर्शाकारमात्रनियमाद् रसाभावज्ञानेन तज्ज्ञानम्। न ह्य् अनयोर् उत्पत्तौ
व्यवधानाव्यवधानविभागः
, तथाऽनुपाधिके पयसि प्रणिहितघ्राणस्यास्पर्शनदर्शनस्यापि विकल्प एव गन्धान्तरम्
अननुभवतोऽपि गन्धाभावज्ञानेन तदाकारशून्यः।

 

()

 

लैङ्गिकं तद् इति
चेत्
,, व्यवधानाभावाद् अभ्यासदशावतः। यत्प्रतिपत्ताव् एव हि यन्निश्चयः, न स लैङ्गिकः, प्रत्यक्षसिद्धो
वा
, यथा नीलं न पीतम् इति। अस्ति च सन्निहिते पयसि घ्राणप्रनिधानमात्राकारविकल्पवतो
नास्ति गन्ध इति निश्चयः। तत्र गन्धज्ञानाभावमात्रस्यासाधनत्वे यदि नियताकारविकल्पानुभवो
न हेतुः
, पीताभावज्ञानस्यापि मा भून् नीलानुभवः।

 

अत्र वा प्रत्यक्षपौरुषम्
आमनतो दुष्परिहरं परत्रापि। तद् एव च प्रत्यक्षम् एकस्य निषेध्यापेक्षयाऽनुपलब्धिर्
उच्यते
, यथा तथोक्तम्। तच् च मूढं प्रतिपत्तारम् अधिकृत्य पूर्वसमयानुसारेण धर्मिविशेषेऽभावं
निश्चाययल् लिङ्गम्। अमूढस्य पुनर् अभ्यासाभाववतोऽनन्तरसंशयविनाकृतः स्थिर एवासौ निश्चय
इति प्रत्यक्षप्रवर्तित उच्यते।

 

ननु न प्रत्यक्षकृतः
कश्चिद् अभावव्यवहारः। नापि प्रत्यक्षम् अर्थाभावनिश्चयेन फलवद् उक्तम्
, किं तु ज्ञानाभावनिश्चयेनैव।
तद्द्वारेणैव त्व् अर्थाभावनिश्चयम् अन्तर्भावयतीति प्रत्यक्षकृतः स उच्यते। स च तत्सामर्थयजन्माऽप्य्
अनन्तरं संशयेन भवता परिभूयमानो मूढं प्रति लैङ्गिकः। न हि ज्ञानस्येव प्रकाशरूपनियमोऽर्थस्येत्य्
अदृष्टस्यापि स्थितेर् अविरोधात्
, दृष्यानुपलब्धिः शरणम्। अमूढस्य तु व्यापकानुपलब्धिः, दृश्यसत्ताया दर्शनविषयत्वेन
व्याप्तेः। एतद्विवेचनासामर्थ्यात् तु प्राच्यो मूढ इत्य् एके।

 

()

 

तद् अयुक्तम्। यथा
हि ज्ञानम् अप्रकाशम् अनवस्थायि
, तथाऽदृश्यम् बहिर् अपीति तद्वद् एव प्रत्यक्षेणानिवार्यविरहव्यवहारम्।

केवलं जात्यैव ज्ञानं
दृश्यम्
, बहिस् तु किञ्चित् कथञ्चित् कदाचित्। तत्राभ्यासविशेषवतः प्रतिपत्तुर्
ज्ञानान्तरसामान्य इव बाह्यविशेषेऽपि प्रत्यक्षमात्राद् एव झग् इति निषेधसिद्धिर् असकृद्
अनुभूयमाना कथम् अपह्नोतुं शक्या
?

तत्त्वोतऽनुमानसम्भवाद्
इति चेत्
, अभिमतयोग्यतानिश्चयोऽपि न प्रत्यक्षकृतः स्याद् इति यत् किञ्चिद् एतत्।

 

न च यथोक्तः संशयो
बहिरधिकारेणैव। तद् अयम् असंसृष्टविकल्पो वा प्रत्यक्षो दर्शनात्मा
, दृश्यात्मनो वा
विकल्पस्य दर्शनेऽदृष्टिर् विकल्पकल्पनाम् इन्द्रियज्ञाने प्रतिहन्ति इत्यादेर् अवाच्यताप्रसङ्गात्।
तस्माज् ज्ञानेऽपि कदाचिद् अन्यज्ञानस्य विमर्शः। अर्थेऽप्य् अनुल्लिखितान्तरासंशयो
निश्चय इति दशाविभागेन प्रत्यक्षस्येतरस्य वा सामर्थ्यस्थितिः
, न तु जातिविभागेन।

 

नन्व् एकोपलम्भानुभवाद्
इत्यादिना ज्ञानान्तरनिषेध एव सामर्थ्यम् उक्तम्। अनुभवश् चैवम् एवेति चेत्
,, यथा हि

 

()

 

इदं नोपलभ इति प्रत्यक्षाद्
अनुभूयते
, तथेदं नास्तीत्य् अपि झग् इत्य् एवाभ्यासवतः। अनभ्यादवतस् तु ज्ञानाभाव
एव निश्चयः। तद्वारेण त्व् अर्थाभाव इति तदपेक्षया शास्त्रे तथाभिधानम्। एवम् एकज्ञाननसंसर्गियत्नादयोऽपि
वाच्याः।

 

अत एव व्यवस्यन्तीक्षणाद्
एव सर्वाकारान् महाधिय इत्य् उक्तम्। मृदुप्रज्ञाधिकारेण च स्थानस्थानेषु यत्नः। तस्मात्
पटुधियः प्रत्यक्षाद् एव मणिरूप्यादिविवेकवत् तन्निषेधव्यवहारोऽपि दुर्निवारः।

 

न चाभावो नाम विग्रहवान्, येनान्यव्यतिरेकिणा
रूपेण साक्षात्कर्तव्यः
, किं तु व्यवहर्तव्यः। स चैकाकारनियमात् पटुना व्यवहर्तुम् अध्यक्षेण
शक्य एव।

 

यः पुनर् अपटुर्
आपाततः प्रवृत्तेऽप्य् अभावनिश्चये संशेते
, स दृश्यस्य अनुपलम्भमात्रम्
अनुसृत्य तद्व्यवहारं प्रवर्तयति।

 

यस् तु ततोऽप्य्
अपटुः स दृश्यस्यानुपलम्भेऽपि सन्दिहानो व्यापकानुपलम्भेन प्रवर्तते। न पुनर् अव्यामुढस्यानेन
पर्वृत्तिः
, प्रत्यक्षापाटव एव ह्य् अनुमानं प्रार्थ्यते। तत्पाटवं च विकल्पजननेनावस्थाप्यते, पटुतरत्वं च, तत्र विमर्शाभावात्।

 

()

 

चार्वाकं तु पृथगभावम्
अनुमन्यमानम् एव प्रति प्रत्यक्षस्य निषेधऽव्यापारो दर्शितः
, अर्थसामर्थ्यापेक्षाद्युक्तेः।
न चानुमानस्येव प्रत्यक्षस्यापि निश्चयवशाद् ग्रहणव्यवस्था
, किं तु प्रतिभासवशात्।
नियताकारतैव च तस्य तदन्याभवभासनम्। तस्माद् दुष्परिहरः प्रत्यक्षस्याभावव्यवहारशक्तिसम्भवः।

 

प्रतिषेधस् तु सर्वत्रानुपलम्भाद्
इति तु न प्रत्यक्षप्रतिक्षेपः
, किं तु लिङ्गान्तरस्य, द्वाव् एव विधिसाधनाव्
इति यथा।

 

तद् अयम् अम्भसि
गन्धनिषेधः प्रत्यक्षकृत एवाव्यवधेर् न लैङ्गिकः।

 

किं चात्र लिङ्गं
गन्धाभावाव्यभिचारि
? ज्ञानकार्यानुपलब्धिर् इति चेत्, यदा स्वग्राहिज्ञानं
कार्यहेतुः
, तदेदं युक्तम् अपि। यदा तु प्रत्यक्षम् एव तत्, तदा प्रत्यक्षयोग्यस्य
तन्निवृत्तिः। यदि न
, दृश्यानुपलब्धिर् घटस्यापि मा भूत्।

 

तद् इदं प्रतियोगिज्ञानरूपतालोचनवञ्चनाफलम्
एव। अयं च वादी यदीन्द्रियसाद्गुण्यम् अनिश्चिन्वन्न् एतद् आह
, तदा सन्न् अपि
गन्धादिर् नोपलभ्यत इत्य् आयातम्।

 

अथ निश्चिन्वन्न्
अलं कार्यानुपलब्ध्येति द्रष्टव्यम्। परोक्षसम्भाविते च कारणादौ कार्याद्यनुपलब्धिं
यत्नेन योजयति। सम्प्रति च

 

()

 

दोषलेशभयात् प्रत्यक्षसम्भावितेऽपि
संशेत इत्य् असम्भद्धम्। तस्मात् स्थितम् एतत्
: यस्मिन् वेद्यमाने
यद् अवश्यं वेद्यत एव
, तस्याभिन्नेन्द्रियग्राह्यस्यान्यस्य वाऽनिन्द्रियग्राह्यस्य वा बुद्धिर्
अनुपलब्धिः। सा च व्यवहारम् एव साधयति
, अन्यथा प्रत्यक्षसिद्धेः।
तदर्थं च विरहज्ञानस्य स्थितेः स्थैर्यस्य आश्रय इत्य् उक्तम्
, न तु विरहनिश्चयस्येति।

 

यथा च नियतसहोपलम्भयोर्
एकज्ञानम् अन्यनिषेधाय
, तथा नियतासहोपलम्भयोर् अपीत्य् आह न वा इति। वेद्ये यत्र हि यन्मतिर्
नियमतो न स्याद् इत्य् अर्थः
, यथा नीलम् इदम् अनीलं न भवतीति।

 

अत्रापि व्यवहार
एव साध्यः। एतेन परस्परपरिहारस्थितिलक्षणो विरोधो व्याख्यातः।

 

ननु यस्मिन् वेद्यमाने
यन्मतिर् नियमेन भवितुं सम्भाव्यत इत्य् अनेनैव गतम् एतत्। अडृश्योऽपि हि तादात्म्येन
निषेध्यमानो दृश्यतया सम्भावित एव निषिध्यते। अन्यथा दृश्यादृश्यतया स्वयम् एव भेदाभ्युपगमाद्
इति किम् अनेन पृथग्वचनेनेति चेत्
, एवं तर्हि न वा
स्याद् इत्य् अयम् अभावः प्रध्वंसलक्षणो व्याख्यायते। प्रवृत्तऽपि यन्मतिर् यत्र वेद्ये
सति नियमेन निवर्तत इत्य् अर्थः।

नियमश् च सत्तबाधनेऽभाव
एव युक्तः
, यथा नेह शीतम् अग्नेर् इति। एतेन सहानवस्थानलक्षणो विरोधो व्याख्यातः।

 

()

 

नन्व् अन्धकारे
नियमेनानुपलम्भ इति नावश्यम् विरुद्धपरिग्रह इति चेत्
, नैकप्रतिपत्त्रपेक्षं
लक्षणम् एतत्
, किं तु सामान्येन। अस्ति च निरालोकस्यापि रूपस्य दर्शनं कैश्चित्। तेनापि
वा सम्भाव्यम् अञ्जनविशेषादिनेति सत्तोच्छेदे तु नियम एवेत्य् अदोषः।

 

नन्व् अत्रापि शीतं
यदि स्यात्
, नाग्नेर् एकरूपनियता प्रतिपत्तिर् इति कथं पूर्वतो विशेषः? नैवम्, स्पर्शनागम्ये
निषेधस्याभिमतत्वात्। तर्हि प्रवृत्ताऽपि शीतस्य बुद्धिर् अग्नौ वेद्ये सति नियमान्
निवृत्ता इति प्रत्येतुम् अशक्यम्। न
, अन्यदैतत्प्रतीतेर्
विवक्षितत्वात्।

 

तर्हि प्राग्गृहीतविरोधस्मरणव्यवहितव्यापारत्वान्
न प्रत्यक्षस्य प्रवृत्तितोऽभावनिश्चयः स्यात्।

 

मा भूत्! केवलं व्यवधानेऽपि
तथाविरुद्धबुद्धिर् एवाभावनिश्चयाङ्गं नान्यमात्रस्येत्य् अनुपलब्धिव्यवस्थानिबन्धनस्य
न क्षतिः।

 

न च व्यवहारमात्रसाधनम्
अत्रापि संमतम् इत्य् आह सापेक्षा तु परा स्मृताव् अत इहाभावोऽपि साध्यः। तत्सिद्धौ
च तन्निश्चयस्थितिलक्षणो व्यवहारोऽपि न पुनस् तन्मात्रम् इत्य् अर्थः। तथा हेतुव्यापकनिह्नवेऽभावोऽपि
साध्य इति वर्तते। यथा नेह धूमोऽग्नेर् अभावात्। नेह शिंशपा वृक्षाभावात्। न ह्य् अत्राग्निवृक्षयोः
प्रतियोगिप्र

 

(१०)

 

त्यक्षमात्रं पूर्वप्रवृत्ततादात्म्यतदुत्पत्तिसम्बन्धबोधस्मरणनिरपेक्षं
धूमाशिंशपयोर् अभावनिश्चयं प्रसवति। ततोऽत्राप्य् अभावसाधनव्यवहारसिद्धिः।

 

ते एतर्हि निषेधहेतवः
स्वभावानुपलब्धिः कारणानुपलब्धिर् व्यापकानुपलब्धिश् चेति। तथा विधिसाधनौ द्वाव् इति
पञ्चहेतवः प्रसक्ताः। न
, अनुपलब्धिसामान्याश्रयाद् एकत्वात्। अपि च अनुपलब्धिः स्वस्यापरस्यापरा।
कारणव्यापकयोः स्वभावानुपलब्धिर् एवापरस्य कार्यस्य व्याप्यस्य वाऽपरा कारणानुपलब्धिर्
व्यापकानुपलब्धिश् चोच्योते।

 

यथा ह्य् अन्यप्रत्यक्षम्
एवान्यस्यानुपलब्धिः
, तथा कस्यचित् स्वभावानुपलब्धिर् एव कार्यव्याप्यापेक्षया कारणव्यापकानुपलब्धिर्
उच्यत इति न व्यपदेशभेदाद् वस्तुभेदः। तस्मात् स्वभावानुपलब्धेर् एव निषेधः सर्वस्येति
त्रयम् एव लिङ्गम्।

 

एतेन कार्यस्य स्वभावानुपलब्धिर्
एव समर्थकारणस्य कार्यानुपलब्धिर् उपलक्षिता द्रष्टव्या। हेतुशब्दस्य वा लिङ्गार्थस्य
व्याख्यानात्
, यथा नेहाप्रतिबद्धसामर्थयानि धूमकारणानि सन्ति धूमाभावाद् इति।

 

(११)

 

कथं तर्हि नात्र
तुषारस्पर्शोऽग्नेर् इति व्यापकविरुद्धोपलब्धिसङ्ग्रहः
? अत्राप्य् अनुपलब्धिः
स्वस्यापरस्यापरा। व्यापकस्य हि शीतस्य विरुद्धदहनोपलब्धिरूपा या स्वभावानुपलब्धिः
, सा व्याप्यस्य
तुषारस्पर्शस्य व्यापकविरुद्धोपलब्धिर् उच्यत इति न दोषः। यद्य् अपि च व्यापकानुपलब्धिर्
अपि सा वक्तुं शक्या
, तथाऽपि विरुद्धप्रतियोगिप्रतीतिरूपताप्रतिपादनार्थं तथाव्यपदेशः। एवं
कारणविरुद्धोपलब्ध्यादयो व्याख्येयाः। सर्वत्राभाव एव साध्योऽध्यक्षेणासिद्धेः
, तद्द्वारकस् तु
व्यवहार इति।

 

ननु विरुद्धोपलब्ध्यादौ
कथम् अनुपलब्धिव्यवहारः
? उक्तम् अत्र प्रतियोग्युपलब्धिर् एवानुपलब्धिः। प्रतियोगी च द्विविध
एव। तत्र यदा विरुद्धः प्रतियोगी
, तदा विरुद्धशब्दप्रयोग उपलब्धिशब्दम् एवम्
प्रयोज्यम् उपपादयति। शेषे तु प्रतियोगिनि गम्यमाने स्वभावशब्दो दृश्यशब्दो वा प्रयुज्यमानः
प्रतिषेध्यापेक्षयाऽनुपलब्धिशब्देन व्यपदेशयति। तद् एकत्रोपलब्धित्वं गम्यम् अन्यत्रानुपलब्धित्वम्।
तत्त्वं त्व् एकम् एवेति न दोषः।

यदा च विरुद्धः
प्रतियोगी द्वितीयस्य च परोक्षस्यैव निषेधः
, तदा तस्यापि नावश्यं
प्रत्यक्षम् एवानुपलब्धिः
, किम् त्व् अनुमानम् अपि।

 

(१२)

 

विरुद्धो हि स्वसत्तया
परसत्ताम् अपनयन् प्रतियोगी मतः। न च परोक्षोऽपि तथाभवन् केन वार्यते
? नियतसहोपलम्भे
तु प्रतियोगिनि प्रत्यक्षयोग्यस्यैव निषेध इति तस्यावश्यं प्रत्यक्षापेक्षा। न ह्य्
अनुमीयमाने प्रदेशे घटो यदि भवेद् उपलभ्येतैवेति सामर्थ्यं प्रत्यक्षायोगाद् अनुमानस्य
चारम्भनियमाभावाद् इति कथं निषेधः
?

 

यद्य् एवम्, विकल्पमात्राद्
अप्रतिषेध इति चेत्
,, तत्रापि विकल्पाकारे वेद्यमाने बहिर् अप्य् अभिमतदेशम् इन्द्रियसामर्थयानपायेऽनुभूयेत
इत्य् उच्यते। न तु विकल्पनीये बाह्ये विकल्प्यमाने द्वितीयम् अपि वेद्येत इति शक्यम्।

 

विकल्पनीयऽपि बाह्ये
विकल्प्यमाने तद्देशम् अपरम् उपलभ्येतैव इति किं न स्यात्
? न हि प्रतियोगिज्ञानम्
अन्यस्य दृश्यतारोपनिबन्धनम्
, अपि त्व् अभावनिश्चयोत्पादनिमित्तम्, सत्त्ववस्तुत्वात्।
तच् च विकल्पस्यापीति को विशेषः
?

 

अथ प्रतिपत्त्रनुरोधः, एकज्ञानसंसर्गिणोऽप्य्
अनुरोधः साधुर् इति। नैवम्
, जले गन्धस्यानले रसस्यापि शेषमात्रोपलब्धौ वाऽभावव्यवहारमात्रदर्शनात्।
तत्र वा ज्ञानाकार्यानुपलम्भवादेऽन्यत्रापि स एवेति किम् एकज्ञानसंसर्गिणा
?

 

कार्यानुपलब्ध्या
समर्थस्यैव निषेध इति चेत्
, गन्धादिस् तर्हि सन्न् अपि नीरादाव् इन्द्रियवैगुण्यान् नोपलम्भ्य इति
महद् एव शास्त्रपरिश्रमफलम्। स हि वैगुण्यस्य कारणानुपलम्भेऽपि योग्यादिभिर् अभिभवं
सम्भावयन् संशेते। भूतले तु तत्कृताभूतदर्शनम् इन्द्रियपाटवेऽपि सम्भावयन् किं न संशेते
? तस्माद् अभ्यासदशायां तादवस्थ्यस्थित्यैव व्यवहारः।

 

(१३)

 

न्यायनाथस्य तु
न व्यवहारम् अनुवृत्त्य पर्यनुयोगो विसर्गो वा
, किं त्व् एतावत्याम्
अपि गतौ नास्मल्लक्षणक्षतिर् इति दर्शयितुं प्रौढिवशात्
, यथा सर्वचित्तासर्वबोधनिश्चयेऽपि
स एव सर्वज्ञ इति। व्यवहारे च यथैकज्ञानसंसर्गिणं पश्यतस् तथाऽन्यम् अपि प्रतियोगिनम्
अभावनिश्चयो दृष्टः साधारणोऽविसंवादी चेति नैकज्ञानसंसर्गिग्रहः। विकल्पशरणावस्थायां
च तदाकारसंवेदनम् एवान्यनिषेधसाधनं युक्तम्
, तथैवाभ्यासेन प्रत्यक्षसामर्थ्यदर्शनात्।

 

तद् एवं विरुद्धस्य
परोक्षस्याप्य् उपलब्धिर् अनुमानात्मिकाऽभावम् इतरस्य साधयति
, यथा नेह शीतं धूमाद्
इत्य् एवं व्यापकविरुद्धकार्योपलब्धिर् द्रष्टव्या
, यथा नेह तुषारं
धूमात्। एतच् च सङ्कलय्य प्रयोगकाले व्याख्यानम्। वस्तुतस् तु न शीतम् अग्नेर् इत्य्
एकः प्रयोगः तदसिद्धिपरिहाराय त्व् अस्ति चाग्निर् अत्र धूमाद् इत्य् अपरः। तथा न तुषारम्
अग्नेः। व्यापकस्य हि विरुद्धो विरुद्ध एव
, अग्निश् च धूमाद्
इति। शेषम् अप्य् एवम् ऊह्यम्।

 

यदि कारणादेः स्वभावानुपलब्धिर्
अन्यस्य कारणाद्यनुपलब्धिः पर्युदासरूपा
, कथं तर्हि निरुपाख्येषु, यथा न वक्ता बन्ध्यासुतश्
चैतन्याभावाद् इति। तत्रापि बुद्धिप्रतिभासस्यैव चैतन्यवियुक्तत्वेन संवेदनं व्यापकानुपलब्धिपर्युदासः।
वक्तृत्वव्यवच्छेदेन च संवेदनं व्याप्याभावः।

 

(१४)

 

स्वभावहेतुपर्यवसिताश्
च सर्वानुपलब्धयो निषेधसाधनाध्यवसायाच् च भेदेन निर्देश इति न दोषः।

 

तथाऽप्य् उक्तेन
क्रमेण साक्षाद् एव स्वभावनुपलब्धिर् निषेध इति कथम् आचार्यपादैः परम्परयाऽभिधानाद्
औपचारिकः कृत इति चेत्
, निषेध्यस्यैव यदि दृश्यानुपलब्धिर् निषेद्ध्रा विवक्षिता तदौपचारिकः।
यदि तु परस्यापि
, तदा मुख्य इति को विरोध इति। केवलम् औपचारिककथने किं प्रयोजनम् इति स्यात्।
तत्रापि दृश्यस्यैव निषेधो यथा शक्यः स्यात्
, नान्यस्य सर्वज्ञवीतरागादेः
प्रधानपुरुषार्थस्येति कार्यतस् तत्रान्तर्भावः।

 

तत्त्वतस् तु तस्य
तदन्यस्य वा यथोक्तस्यानुपलब्धिः साधिकेति अनुपलब्धिरहस्यं समाप्तम्।

 























































































































































































































































































































(१५)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project