Digital Sanskrit Buddhist Canon

अधिकरणवस्तु

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    July, 2017
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

The अधिकरणवस्तु

 

<अधिकरणशमथवस्तुनि> उद्दानम्

 

कलहो विवादोऽधिकरणम्
किंमूलं कुशलेन च।

स्याद् विवादो अनधिकरणम्
विवादं कतिभिः शमेत॥

विवादं <सं>मुखं शमयेच् चलाकाग्रहणेन
च।

अनववादं संमुखं
स्मृत्या अमूढविनयेण च॥

तथैव तत्स्वभावैषीयं
तृणप्रस्तारकेण च।

समग्रेण च संघेन
कृत्याधिकरणं तथा॥

व्युपशमितव्यम्
इति प्रोक्तं महर्षिणा॥

 

The
Buddha at Kapilavastu King Shuddhodana listens to Buddha's sermons

 

बुद्धो भ<गवान् कपिल>वस्तुनि विहरति
न्याग्रोधारामे
; यदा भगवता शाक्यस् सत्येषु प्रतिष्ठापितास् तदा ते त्रिर् भगवन्तं <दर्शनाय> उपसंक्रमन्ति; तेषां भगवान् अभीक्ष्णं
धर्मं देशयति
; आचरितम् राज्ञः शुद्धोदनस्य शाक्यगणपरिवृतस्य त्रिर् भगवन्तं <दर्शनीय> उपसंक्रमितुम्; यावद् अपरेन समयेन
भगवान् अनेकशतायाः पर्षदः पुरस्तान् निषण्णो धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्
; अनेकशता च पर्षद्
भगवतः सकाशान् मधुरमधुरं धर्मं शृणोति आनिञ्ज्यमानैर् इन्द्रियैः
; राजा शुद्धोदनो
महत्या राजऋद्ध्या महता राजानुभावेन शक्यगणपरिवृतो भगवत्सकाशम् उपसंक्रान्तो धर्मश्रवणाय
; स धर्मं श्रुत्वा
प्रक्रान्तः।

 

Buddha's
doctrine is addressed also to women. The queen mahaprajapati asks to king
Shuddhodana to permit to Shakya women to listen to the doctrine

 

ततो महानामा शाक्यो
धर्मं श्रुत्वा भगवतोऽन्तिके प्रसादजातः स्वगृहं गतः कथयति
: अहो बुद्ध अहो
धर्म अहो संघ सफलोऽस्माकं बुद्धोत्पादः इति
; महानाम्नोऽग्रमहिषी
कथयति
: आर्यपुत्र, किम् एतत्? स कथयति: अद्य भगवता अनेकशतायाः पर्षदः पुरस्ताद् ईदृशी धर्मो देशितो यं श्रुत्वानेकैः
प्राणिशतसहस्रैः महान् विशेषोऽधिगतः इति
; सा कथयति: आर्यपुत्र, यत् कथयसि सफलोऽस्माकम्
बुद्धोत्पाद इति सत्यम् एतत्
; सफल एव युष्माकं बुद्धोत्पादो नास्माकम्; किं कारणम् ? यस्मात् पुरुषाणाम्
अर्थाय भगवान् बुद्धो लोक उत्पन्नो न स्त्रीणाम्
; स कथयति: भद्रे, मैवं कथय; सर्वसत्त्वहितानुकम्पी
भगवान्
; गच्छत यूयम् अपि, भगवतोऽन्तिकाद् धर्मं शृणुत; सा कथयति: देवः शाक्यगणपरिवृतस्
त्रिर् भगवन्तं दर्शनायोपसंक्रामति
; वयं जिह्रेम संमुखं
देवस्य पुरस्ताद्
* धर्मं श्रोतुम्; तद् यदि देव एकं वारं गच्छेद् पूर्वाह्नारम्भे
वयम् अप्य् अपराह्ने भगवतोऽन्तिकाद् धर्मं शृनुयामः
; महानामा शाक्यः
संलक्ष्यति
: गच्छामि, देवं प्रबोधयामि इति; पुनः संलक्ष्यति: दुःखं स्वदाराणाम्
अर्थाय देवो विज्ञाप्यते
; महाप्रजावती देवस्य बहुमता; तस्याः श्रोतव्यं
<यत्> कर्तव्यं मन्यते; तस्या एतम् अर्थं निवेदयामि इति; स येन महाप्रजावती
गौतमी तेनोपसंक्रान्तः
; उपसंक्रम्य महाप्रजावत्या गौतम्या एतं अर्थं निवेदयितवान्; सा कथयति: एवं भवतु, देवं प्रबोधयामि
इति
; ततो महानाम्ना गृहपतिना गृहं गत्वा शाक्यायनीनाम् आरोचितम्; ततः ताः शाक्ययिन्याः
अन्याश् च येन महाप्रजावती गौतमी तेनोपसंक्रान्ताः
; उपसंक्रम्य महाप्रजावतीं
गौतमीम् इदम् अवोचन्
: यत् खलु गौतमि जानीयाः, श्रुतम् अस्माभिर्
भगवान् अनेकशतायाः पर्षदः पुरस्तान् मधुरमधुरं धर्मं देशयति क्षौद्रम् मद्व् इवानेडकम्
, अनेकशता च पर्षद्
भगवतः सकाशान् मधुरमधुरं धर्मं शृणोति आनिञ्ज्यमानैर् इन्द्रियैः इति
; तद् इच्छामो वयम्
अपि भगवतोऽन्तिकाद् धर्मं श्रोतुम्
; अस्माकम् अर्थं
देवं विज्ञापय यथा देवः पूर्वाह्ने भगवत्सकाशम् उपसंक्रामति वयम् अप्य् अपराह्ने
; सा कथयति: भगिन्यः, शोभनं युष्माभिश्
चित्तम् उत्पादितम्
, तिष्ठत मुहूर्तम् यावद् राजानं शुद्धोदनम् अवलोकयामि इति; अथ महाप्रजावती
गौतमी येन राजा शुद्धोदनस् तेनोपसंक्रान्ता
; उपसंक्रम्य राजानं
शुद्धोदनम् इदम् अवोचत्
: यत् खलु देव जानीयाः, श्रुतं मया भगवान्
अनेकशतायाः पर्षदः पुरस्तान् निषण्णो मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्
; अनेकशता च पर्षद्
भगवतोऽन्तिकाद् धर्मं शृणोति आनिञ्ज्यमानैर् इन्द्रियैर् इति
; शाक्यानिकाभिर्
अप्य् एवं श्रुतम्
, आकांक्षन्ति धर्मं श्रोतुम्; तद् अर्हसि देव
पूर्वाह्णे भगवत्सकाशम् उपसंक्रमितुम्
; अहम् अपि शाक्यानिका
आदाय भगवत्सकाशम् अपराह्णे उपसंक्रमिष्यामि
; यत् कारणम् ? ताः पूर्वाह्णे
गृहव्यापारव्यापृताः न लभन्ते
<ऽवकाशं> उपसंक्रामितुम्
इति
; आचरितं राज्ञः शुद्धोदनस्य यदा महाप्रजावती गौतमी आज्ञां ददाति उद्दण्डशरीरोऽवतिष्ठते, तावच् च राजा <> निषीदति यावन्
महाप्रजावत्या आज्ञादानम् अनुष्ठितं भवति इति
; स प्रणतशिरा कथयति: गौतमि, एवं भवतु इति।

 

Instances
of female vanity and the story of the maid-servant Rohika

 

ततो महाप्रजावती
गौतमी पञ्चभिः शाक्यानीशतैः परिवृता न्यग्रोधारामं गता भगतवः सकाशाद् धर्मं श्रोतुम्
; यावन् महानांनः
शाक्यस्य पत्नी सर्वालंकारविभूषितया सार्धं गता
; रूपयौवनवती सर्वालंकारविभूषिता
च अवीतरागमनांस्य् आक्षेप्तुम् आरब्धा
; सा आयुष्मता आनन्देन
दृष्टा उक्ता च
: भगिनि, त्वं तावत् प्रकृत्यैवाभिरूपा दर्शनीया प्रासादिका; किमङ्ग पुनः सर्वालंकारविभूषित; न शोभनं त्वया
कृतं यद् अलंकारं प्रावृत्यागता
; नैते महात्मानः * सर्व एव वीतरागः
इति
; सा एवम् उक्ता लज्जापरिगतहृदया अवाङ्मुखी एकान्तेऽपक्रम्य तम् अलंकारम्
अपनिय चिन्तापरा व्यवस्थिता
; तस्या रोहका नाम प्रेष्यदारिका; तया सार्धम् आगता
धर्मश्रवणार्थिनी
; स तयाहूय उक्ता: गच्छ रोहिके इदम् अलंकारं स्थापयित्वा आगच्छ
इति
; सा त्वरितगतिप्रचारतया गृहे स्थापयित्वा आगता; ततो महाप्रजावती
गौतमी पञ्चशतपरिवारा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा
; भगवांश् च धर्मं
देशयितुम् आरब्धः
; यावद् अन्यतरा शाक्यकुमारिका तस्मिन् धर्मे देश्यमाने कर्णावसक्तं मुक्ताहारं
मुहुर्
<मुहुः> प्रेक्षते, पाणिना च परामृशति; ततो भगवान् अनित्यताप्रतिसंयुक्तं धर्मं
देशयितुम् आरब्धः
; तथापि सा नावतिष्ठते, प्रेक्षते एव मुक्ताहारम्; अद्राक्षीन् महानाम्नोऽग्रमहिसी
तां शाक्यकुमारिकां कर्णावसक्तं मुक्ताहारं मुहुर् मुहुः प्रेक्षामाणाम्
; दृष्ट्वा च पुनर्
अस्या एतद् अभवत्
: किम् इयं तपस्विनी एवम् अनित्येषु संस्कारेषु देश्यमानेषु मुक्ताहारेऽत्यर्थम्
अध्यवसिता मुहुर् मुहुः प्रेक्षते यदि मदीयं मुक्ताहारं पश्येत् सर्वमदा अस्या विगच्छेयुः
इति विदित्वा प्रेष्यदारिकं रोहिकाम् आमन्त्रयते
: गच्छ मदीयं मुक्ताहारं
सिघ्रम् आनय इति
; तस्या धर्मश्रवणवर्जितमनसाया एतद् अभवत्: हा कष्टम् ममेदृशे
धर्मे देश्यमाने स्वामिन्या आज्ञा दत्ता
; धर्मान्तरायो जातः, सर्वथा कष्टो दासभावः
इति विदित्वा दुःखदौर्मनस्याहता
; गाथां च भाषते:

 

धिग् दासभाव बहुदुःकपरस्वधीनं

धिग् जीवितं मम
पुराकृतकर्मलब्धम्।

द्रष्टुं हि या
जिनमुखं न लभेऽद्य पादं

श्रोतुं च धर्मम्
अमलम् सुगतस्य तस्य॥

 

इति; अथ भगवत एतद् अभवत्: इयं रोहिका दारिका
पूर्वबुद्धेषु कृताधिकारिका किंत्व् अल्पायुष्का
; उद्धर्तव्या इयं
संसारचारकात् इति विदित्वा ऋद्ध्या गाथां भूर्जपत्रे आलिख्य दत्तवान्

 

उत्पन्नस्य विनाशं
हि ज्ञात्वा काल्याणि जन्मनि।

यत्नम् आस्थाय कल्याणं
श्रोतव्यं मम भाषितम्॥

 

इति; अथ रोहिका दारिका
हृष्टा तुष्टा प्रीतिसौमनस्यजाता गाथां भाषते
; बुद्धालम्बनेनैव
चेतसा संप्रस्थिता
;

 

न प्रनश्यन्ति कर्माण्य्
अपि कल्पशतैर् अपि।

सामग्रीं प्राप्य
कालं च फलन्ति खलु देहिनाम्॥

 

इति; अल्पायुष्कायाः
कर्मणः सामग्री प्राप्ता
; गवा तरुणवत्सया जीविताद् व्यपरोपिता; सा भगवतोऽन्तिके
चित्तम् अभिप्रसाद्य कालगता।

 

The
story of muktikA,the daughter of the King of SiMhala and the portrait of the
Buddha

 

सिंहलद्वीपे सिंहलराज्ञोऽग्रमहिष्या
कुक्षाव् उपपन्ना
; यम् एव दिवसं प्रतिसंधिर् गृहीतस् तम् एव दिवसं मुक्तावर्षं पतितम्; राज्ञा नैमित्तिकान्
आहूह्य पृष्टाः
; ते ऊचुः: देव, अस्य सत्त्वस्यानुभावो योऽयं देव्याः कुक्षाव् उपपन्नः इति; यावद् असाव् उपस्थीयते
शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर्
नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवण
*मधुरकटुककषायविवर्जितैर्
आहारैर् हारार्धहारविभूषितगात्री अप्सरा इव नन्दनवनविचारिणी मञ्चान् मञ्चं पीठात् पीठम्
<>वतरन्ती अधरां भूमिम्, न चास्या किंचिद्
अमनोज्ञां शब्दश्रवणम् यावद् एव गर्भस्य परिपाकाय
; सा अष्टानां वा
नवनां वा मासानाम् अत्ययात् प्रसूता
; दारका जाता अभिरूप
दर्शनीया प्रासादिका
; यम् अपि दिवसं जाता तम् अपि दिवसं मुक्तावर्षं पतितम्; राजा संलक्षयति; यदि दारकाया अनुभावान्
मुक्तावर्षं निपतितम् अस्या एव मुक्ता भवन्तु इति
; तेन तस्या एव प्रतिपादिताः; ततः त्रीणि सप्तकान्य्
एकविंशतिदिवसान् विस्तरेण जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते
: किं भवतु दारिकाया
नाम इति
; अमात्या कथयन्ति: यस्माद् अस्याः पुण्यानुभावेन मुक्तावर्षं
पतितं तस्माद् भवतु दारिकाया मुक्ता इति नाम इति
; तस्या मुक्ता इति
नामधेयं व्यवस्थापितम्
; मुक्ता दारिका अष्टाभ्यो धात्रीभ्यो दत्ता, द्वाभ्याम् अंसधात्रीभ्याम्, द्वाभ्यं क्षीरधात्रीभ्याम्, द्वाभ्यां मलधात्रीभ्याम्, द्वाभ्यं क्रीडनिकाधात्रीभ्यम्; सा अष्टाभिर् धात्रीभिर्
उन्नीयते वर्ध्यते क्षिरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर्
उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्
; यदा महती संवृत्ता
तदा स्वकुलवंशानुरूपेणाचारविहारेण सान्तर्जनस्य राज्ञः अत्यर्थं बहुमता संवृत्ता
; यावद् अपरेण समयेन
श्रावस्तेया वणिजः सामुद्रं यानपात्रं प्रतिपाद्य महासमुद्रम् अवतीर्णा धनहारकाः
; ते संसिद्धयानपात्रा
वायुवशात् सिंहलद्वीपम् अनुप्राप्ताः
; ततो भण्डं प्रतिशाम्य
राजकुलस्य नातिदूरे आवसिताः
; ते रात्र्याः प्रत्युषसमये उदानान् पारायणान्
सत्यदृशः स्थविरगाथाः स्थविरीगाथाः शैलगाथा मुनिगाथा अर्थवर्गीयाणि विस्तरेण स्वाध्यायितुम्
आरब्धाः
; मुक्तिकया भवनावस्थया वातायनेन श्रुतम्; ततस् तया राज्ञे
निवेदितम्
: देव, मध्यदेशाभ्यागता वणिजः शोभनम् गायन्ते इति; राज्ञा अमात्यानाम्
अज्ञा दत्ता
: भवन्त आहूयतां गायनकाः इति; ते आहूयत; मुक्तिका कथयति: गायन्तु भवन्तः, शृणुमः कीदृशं
मध्यदेशे गान्धर्वम् इति
; ते कथयन्ति: देवि, न वयं गान्धर्विकाः, वणिजो वयं श्रावस्तेया
वायुवशाद् इहागताः
, अस्माभि रात्र्याः प्रत्युषसमये बुद्ध वचनं पठितम् इति; मुक्तिकया बुद्ध
इति अश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपान्य् आहृष्टानि
; सा कुतूहलजाता
पृच्छति
: भवन्तः कोऽयं बुद्धो नाम इति; ते विस्तारेण बुद्धमाहात्म्यं
वर्णयितुम् आरब्धाः
: देवि, शाक्यानं कुमार उत्पन्नः अनुहिमत् पार्श्वे नद्या भगीरथ्यास् तीरे कपिलस्य
ऋषेर् आश्रमपदस्य नातिदूरे
; स ब्राह्मणैर् नैमित्तिकैर् विपञ्चनकैर् व्याकृतः, स चेद् गृही आगारम्
अध्यावत्स्यति राजा भविष्यति चक्रवर्ती चातुरन्तं विजेता धर्मिको धर्मराजा सप्तरत्नसमन्वागतः
; तस्य इमान्य् एवंरूपानि
सप्तरत्नानि भविष्यन्ति तद्यथा चक्ररत्नं ह
*स्तिरत्नं अश्वरत्नं
मणिरत्नं स्त्रीरत्नं
<गृहपतिरत्नं> परिणायकरत्नम् एव सप्तमम्; पूर्णं चास्य भविष्यति
सहस्रं पुत्राणाम् शूराणाम् विराणाम् वराङ्गरूपिणाम् परसैन्यप्रमर्दकानाम्
; स इमाम् एव समुद्रपर्यन्तां
महापृथिवीम् अखिलाम् अकण्तकाम् अनुत्पाताम् अदण्डेनाशस्त्रेण धर्मेण सेमेनाभिनिर्जित्याध्यावत्स्यति
; सचेत् केशश्मश्रू
अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति
तथागतो भविष्यत्य् अर्हन् सम्यक्षंबुद्धो विघुष्टशब्दो लोके
; स एव बुद्धो नाम
इति
; मुक्तिका कथयति: यदा युष्माकं गमनदेशकालस् तदा मम निवेदयिष्यथ; ते कथयन्ति: एवं देवि भवतु, निवेदयिष्यामः; यावत् तेषां गमनदेशकालः
प्रत्युपस्थितः
; तैर् मुक्तिकाया निवेदितम्; तया भगवतो लेखो
लिखितः
:

 

असुरदेवमनुष्यनमःकृत

जननरोगभयाद् अभिनिःसृत।

विपुलकीर्तियशःप्रसृत
प्रभो

अमृतभागम् र्षे
अतुलं दद॥

 

इति; अथ ते वणिजस् तं
लेखम् आदायानुपूर्वेण श्रावस्तीम् अनुप्राप्ताः
; मार्गश्रमं प्रतिविनोद्य
येन भगवांस् तेनोपसंक्रान्ताः
; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते
निषण्णाः
; श्रावस्तेयाः वणिजः भगवतः अयं लेखोऽनुप्रेषितः; भगवता मुक्तिकाया
विनयकालं ज्ञात्वा स्वयम् एव गृहीत्वा वाचितः
; वाचयित्वा कथयति: यदा युष्माकं पुनर्
गमनं भवति तदा ममावेदयिष्यथ
; एवं भदन्त इति ते वणिजो भगवतः पादौ शिरसा
वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्ताः
; ततः पण्यं विक्रीय
प्रतिपण्यम् आदाय भगवत्साकाशम् उपसंक्रान्ताः
; कथयन्ति: भगवन् वयं संप्रस्थिताः
आज्ञां प्रयच्छ इति किम् अस्माभिर् मुक्तिका वक्तव्या इति
; भगवान् आह: सुपरिकर्मकृतं
पटम् आनयत चित्रकरांश् च इति
; तैः पट उपनामितः चित्रकरश् चाहूताः; भगवान् आह: तथागतप्रतिमां
पटे लेखयत
; चित्रकरा आरब्धा बुद्धप्रतिमां लिखितुम्; न शक्नुवन्ति भगवतश्
चित्रकरा अनेकपुण्यशतनिर्जातं तथागतप्रतिबिम्बकम् अभिनिर्वर्तितुम्
; भगवान् आह उपनामयत
पटम्
, प्रभाम् उत्सृजामि इति; तैः पट उपनामितः, भगवता प्रभा उत्सृष्टा; चित्रकरैर् नानारङ्गैः
पूरिता
; ततो भगवता प्रतिमाया अधस्तात् त्रीणि शरणगमनानि पञ्च शिक्षापदानि द्वादशाङ्गः
प्रतीत्यसमुत्पादः अनुलोमप्रतिलोमः आर्याष्टाङ्गश् च मार्गो लिखितः
, उपरिष्टाद् द्वे
गाथे

 

आरभध्वं निष्क्रामत
युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः
सैन्यं नडागारम् इव कुञ्जरः॥

यो ह्य् अस्मिन्
धर्मविनयेऽप्रमत्तश् चरिष्यति।

प्रहाय जातिसंसारं
दुःखस्यान्तं करिष्यति॥

 

इति; सिंहलराजस्य च
लेखो लिखितः
: मया मुक्तिकायाः पटे अभिलिखितं प्राभृतम् अनुप्रेषितम्; त्वया विस्तीर्णावकाशे
पृथिवीप्रदेशे सिंहलद्वीपनिवासिनं जानकायं संनिपत्य महता सत्कारे
*णायं पट उद्घाटयितव्यः; ते च वणिजः संदिष्टः: यदि मुक्तिका पृच्छति
किम् इदम् इति वक्तव्या अयं तस्य भगवतो रूपकाय इति
; यदि पृच्छति: इदम् अधस्तात्
किम् इदम् इति वक्तव्या
: इमानि त्रीणि शरणगमनानि पञ्च शिक्षापदानि अनुलोमप्रतिलोमः प्रतित्यसमुत्पादो
जगतः प्रवृत्तिर्
<निवृत्तिश् च>; अयम् अस्याधिगम आर्याष्टाङ्गो मार्गः इति; यदि कथयति: इदम् उपरिष्टात्
किम् इदम् इति वक्तव्या
: उत्साहय, शरणगमनशिक्षापदानि गृहीत्वा इमम् अनुलोमप्रतिलोमं द्वादशाङ्गप्रतीत्यसमुत्पादं
व्यवलोक्य वीर्यम् आरभते
; स अमृताधिगमं मार्गम् अवाप्य सर्वदुःखाद् विमुच्यते इति; एवम् भदन्त इति
ते वणिजो भगवतः प्रतिश्रुत्य भगवतोऽन्तिकात् प्रक्रान्ताः
; ततः कृतकुतुहलमङ्गलस्वस्त्ययनाः
सिंहलद्वीपगमनीयं पण्यम् आदाय अनुपूर्वेण सिंहलद्वीपम् अनुप्राप्ताः
; मर्गश्रमं प्रतिविनोद्य
राज्ञः सकाशम् उपसंक्रान्ताः
; पादयोर् निपत्य लेखं समर्पितवन्तः; राज्ञा लेखो वाचितः; वाचयित्वा तन्
नगरम् अपगतपाषाणशर्करकठल्लकं व्यवस्थापितं चन्दनवारिपरिषिक्तं उच्छ्रितध्वजपताकम् आमुक्तपट्टदामकलापम्
सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णम्
; सिंहलद्वीपनिवासी
जनकायः संनिपतितः
; ततो महता सत्कारेण नगरमध्ये चतूरत्नमयं सिंहासनं प्रज्ञप्य पट उद्घाटितः; महाजनकायेन नमो
बुद्धाय नमो बुद्धाय इत्य् उच्चैर् नादो मुक्तः
; ततो मुक्तिका राजकुमारी
तीव्रप्रसादावर्जितहृदया आहृष्टरोमकूपा अश्रुपर्याकुलेक्षणा पादयोर् निपत्य तान् वणिजः
पृच्छति
: भवन्तः किम् इदम् ? ते आख्यातुम् आरब्धाः: इदं तस्य भगवतो
रूपकायः
: इदम् अधस्तात् किम्? त्रीणि शरणगमनानि
पञ्च शिक्षापदानि इदम्
, अनुलोमप्रतिलोमः प्रतीत्यसमुत्पादो जगतः प्रवृत्तिश् च निवृत्तिश् च; अयम् अमृताधिगम
आर्याष्टाङ्गो मार्गः
; इदम् उपरिष्टात् किम् ? अभ्युत्साहय, शरणगमनशिक्षापदानि
गृहीत्वा इमम् अनुलोमप्रतिलोमं द्वादशाङ्गप्रतीत्यसमुत्पादं व्यवलोक्य वीर्यम् आरभते
, स अमृताधिगमं मार्गम्
अवाप्य सर्वदुःखाद् विमुच्यते इति
; ततो मुक्तिता द्वादशाङ्गं
प्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमम् चिन्तयितुम् आरब्धा यावत् त्रिपरिवर्तं न करोति
; तावत् तया विंशतिशिखरसमुद्गतं
सत्कायदृष्टिशैलम् ज्ञानव्रजेण भित्त्वा स्रोत आपत्तिफलं साक्षात्कृतम्
; सा दृष्टसत्या
गाथा भाषते

 

दूरस्थितेन बुद्धेन
प्रज्ञाचक्षुर् विशोधितः।

नमस् तस्मै सुवैद्याय
चिकित्सा यस्येदृशी॥

दूरस्थितेन बुद्धेन
दृष्टिशल्यः समुद्धृतः।

नमस् तस्मै सुवैद्याय
दृष्टिशल्यापहारिणे॥

 

इति; गाथा भाषित्वा
तान् वणिजान् इदम् अवोचत्
: भवन्तो यदा यूयं गच्छत तदा रोचयिष्यथ इति; ततस् ते पण्यम्
विसर्जयित्वा प्रतिपण्यम् आदाय मुक्तिकाया सकाशम् उपसंक्रान्ताः
*: देवि, वयं संप्रस्थिताः, आज्ञापय किम् अस्माभिः
करणीयम् इति
; सा कथयति: मम वचनेन भगवतः पादौ शिरसा वन्दितव्यौ अल्पाबाधतां च प्रष्टव्यऽल्पातङ्कतां
च लघूत्थानतां च यात्राम् च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च
; एवं च वक्तव्यो: यद् भदन्त कल्याणमित्रेण
करणीयम् भगवता तत् कृतम्
; मया भगवन्तं कल्याणमित्रम् आगम्योद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठितो देवमनुष्ये<षु>, पर्यन्तीकृतः संसारः, उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, अनादिकालोपचितम्
सत्कायदृष्टिशैलम् ज्ञानव्रजेण भित्त्वा स्रोत‍आपत्तिफलं सात्क्षाकृतम्
; अभिक्रान्ताहं
भदन्त अभिक्रान्ता
; एषाहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसङ्घं च; उपासिकां च संधारय
अद्याग्रेण यावज्जीवं प्राणोपेताम् शरणा गताम् अभिप्रसन्नाम् इति
; इदं च मुक्ताप्रस्थत्रयं
नयत एकं बुद्धाय एकं धर्माय एकं संघाय इति
; ततस् ते वणिजः
पण्यादानम् संदेशं चादाय संप्रस्थिताः
; अनुपूर्वेण श्रावस्तीम्
अनुप्राप्ताः
; मार्गश्रमं प्रतिविनोद्य भगवत्सकाशम् उपसंक्रान्ताः; पादयोर् निपत्य
यथासंदिष्टं समाख्याय भगवन्तम् इदम् अवोचन्
: इदं भदन्त मुक्ताप्रस्थत्रयम्
मुक्तिकया प्रेषितम्
, एकं बुद्धाय एकं धर्माय एकं संघाय इति; आयुष्मान् आनन्दो
भगवन्तं पृच्छति
: कुत्र भदन्त प्राभृतम् आगतम्; भगवान् आह: दृष्टा त्वया आनन्द
महानाम्नः शाक्यस्य प्रेष्यदारिका रोहिका नामममान्तिकात् धर्मं श्रुत्वा प्रक्रान्ता
; अन्तर्मार्गे च
गवा तरुणवत्सया जिविताद् व्यपरोपिता
? दृष्टा, भदन्त; सा ममान्तिके चित्तम्
अभिप्रसाद्य कालगता
; सिंहलद्वीपे सिंहलराजस्य दुहिता संवृत्ता मुक्तिका नाम; दृष्टसत्यया तया
एतत् प्राभृतम् अनुप्रेषितम्
; अतो यो बुद्धस्य भागस् तेन गन्धकुट्याम्
प्रलेपं ददत
; यो धर्मस्य स धर्मधराणाम् पुदगलानां; यः संघस्य तं समग्रः
संघो भजयतु।

 

भिक्षवः संशयजाताः
सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः
: किं भदन्त मुक्तिकया
कर्म कृतं येन दासी संवृत्ता
, किं कर्म कृतं येन आढ्ये राजकुले प्रत्याजाता, सत्यदर्शनं च कृतम्? इति; भगवान् आह: मुक्तिकयैव भिक्षवः
कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि
अवश्यभाविनीति मुक्तिकया कर्माणि कृतान्य् उपचितानि कोऽन्यः प्रत्यनुभविष्यति
? न भिक्षवः कर्माणि
कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ
<न तेजोधाताव्> न वायुधाताव् अपि
तूपात्तेषु स्कन्धधात्वायतनेषु कर्मणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च।

 

न प्रनश्यन्ति कर्माण्य्
अपि कल्पशतैर् अपि।

सामग्रीं प्राप्य
कालं च फलन्ति खलु देहिनाम्॥

 

The
story of the wife of the guild-leader
( concerning
a previous life of Muktika
)

 

भूतपूर्वं भिक्षवोऽस्मिन्न्
एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि विद्याचरणसंपन्नः
सु
*गतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्यानां बुद्धो भगवान्; सकलं बुद्धकार्यं
कृत्वा इन्धनक्षयाद् इवाग्निर् वाराणस्यां निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः
; तस्य कृकिणा राज्ञा
सर्वगन्धकाष्ठैश् चितां चित्वा महता सत्कारेण ध्यापितः
; सा चिता क्षीरेण
निर्वापिता
; तान्य् अस्थीनि सौवर्णे कुम्भे प्रक्षिप्य चतुर्महापथे चतूरत्नमयः स्तूपः
प्रतिष्ठापितः योजनसामन्तकेनार्धयोजनम् उच्चत्वेन
<महा>महश् च प्रतिस्थापितम्।

 

वाराणस्याम् अन्यतरः
श्रेष्ठी महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी
; तेन सदृशत् कुलात्
कलत्रम् आनीतम्
; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममानस्य
परिचारयतः न पुत्रो न दुहिता
; स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं
मे गृहम्
, न मे पुत्रो न दुहिता; ममात्ययात् सर्वस्वापतेयम्
अपुत्रक इति कृत्वा राजविधेयं भविष्यति इति
; स श्रमणब्राह्मणसुहृत्संभन्धिबान्धवनैमित्तिकैर्
उच्यते
: देवताराधं कुरुष्वा, पुत्रस् ते भविष्यति
इति
; सोऽपुत्रः पुत्राभिन्दन्दी शिववरुणकुबेरशक्रब्रह्मादीन् <अन्यान् च> देवताविशेषान्
आयाचते
, तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका
देवता सहजा सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते
; अस्ति चैष लोके
प्रवादः यद् आयाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति
; तच् च नैवम्; यद्य् एवम् अभविष्यद्
एकैकस्य पुत्रस
<>स्रम् अभविष्यत् तद्यथा राज्ञः चक्रवर्तिनः; अपि त्रयानां स्थानानाम्
संमुखीभावात् पुत्रा जायन्ते दुहितरश् च
; कतमेषां त्रयाणाम्
? मातापितरौ रक्तौ भवतः संनिपतितौ, माता च कल्या भवति
ऋतुमती गन्धर्वश् च प्रत्युपस्थितो भवति
; एषां त्रयाणाम्
स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च
; तेन पुत्रसंवर्तनीयम्
कर्म न कृतम्
; तेनास्य न पुत्रो न दुहिता; यावद् असौ ग्लान्ये
निपतितः
; स उपस्थीयते मूलगण्डपत्रपुष्पफलभैष्यज्यैः; न चासौ व्याधिर्
उपशमं गच्छति
; ततोऽस्य पत्नी संलक्षयति: अनेकधर्नसमुदितं
मे गृहम्
, न मे पुत्रो न दुहिता, अयं च मे स्वामी
कालं करिष्यति
; तद् इदानीं यदि पारलौकिकं पथ्यदनम् न गृह्णाति सर्वं मे तद् धनजातम्
अपुत्रक इति कृत्वा राजविधेयं भविष्यति इति
; तस्या शतसहस्रं
मुक्ताहारं कर्णावसक्तम्
; तया काश्यपस्य सम्यक्संबुद्धस्य गन्धमाल्यविलेपनैः पूजां कृत्वा तस्मिन्
स्तूपे समारोपितम्
, तीव्रेण च प्रसादेन पादयोर् निपत्य प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन
चित्तोत्पादेन देयधर्मपरित्यागेन च आढ्ये महाकुले जायेयम् एवंविधानां च गुणानां लाभी
स्याम् एवंविधं च शास्तारम् आरागयेयं मा विरागयेयम् इति।

 

किं मन्यध्वे भिक्षवः
? यासौ श्रेष्ठीभार्या एषैवासौ * मुक्तिका तेन कालेन
तेन समयेन
; यद् अनया काश्यपस्य सम्यक्संबुद्धस्य स्तूपे कारान् कृत्वा प्रणिधानं
कृतं तस्य कर्मणो विपाकेन आढ्ये कुले जाता जन्मनि चास्या मुक्तावर्षं पतितम् मम च शासने
प्रसादम् उत्पाद्य विंशतिशिकरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानव्रजेन भित्त्वा स्रोत
आपत्तिफलं साक्षात्कृतम्
; भूयोऽप्य् अनेकधनसमुदितस्य श्रेष्ठिनो भार्या बभूव; तत्रानया ऐश्वर्यमदमत्तया
सर्व एव गोचरप्राप्तो लोको दासीवादेन समु
<दा>चरितः; तस्य कर्मणो विपाकेन
दासी संवृत्ता।

 

इति हि भिक्षवः
एकान्तकृष्णानाम् कर्मणाम् एकान्तकृष्णो विपाकः एकान्तशुक्लानाम् एकान्तशुक्लो विपाकः
व्यतिमिश्राणां व्यतिमिश्रः
; तस्मात् तर्हि भिक्षवः एकान्ततर्कृष्णाणि
कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः इत्य्
एवं वो भिक्षवः शिक्षिव्यम्।

 

The
four classes of disputes

 

उक्तं भगवता: योऽसौ धर्मभागः
स धर्मभाणकानां पुदगलानाम् इति
; तत्र सूत्रान्तिकाः कथयन्ति: वयं भगवतः सकलं
सूत्रम् धारयामः
, वयं धर्मधराः, अस्माकम् एष लाभः प्रापद्यते इति; विनयधरा कथयन्ति: वयं भगवतः अभ्यन्तरकोशरक्षाः, वयं सकलं विनयम्
धारयामः
, वयं धर्मधराः, अस्माकम् एष लाभः प्रापद्यत इति; मातृकाधराः कथयन्ति: वयं सूत्र<स्य> विनयस्य च स्वलक्षनं
सामान्यलक्षणं च धारयामः
, वयं धर्मधराः, अस्माकम् एष लाभः प्रापद्यते इति; तत्र सूत्रधरविनयधरमातृकाधरानाम्
उत्पन्नः कलहो भण्डनं विग्रहो विवादः
; तत्र भगवान् भिक्षून्
आमन्त्रयते स्म
: मा भिक्षवः कलहो भण्डनं मा विग्रहो विवादः; चत्वारीमानि भिषवोऽधिकरणानि; कतमानि चत्वारि
? विवादाधिकरणम्, अनववादाधिकरणम्, आपत्त्याधिकरणं
कृत्याधिकरणम्
;

 

विवादाधिकरनं कतमम्
? यः संघस्य नानावादो विवादः प्रत्यनीकवादः असामग्री असंमोदना अनेकोतीभावः
तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः इदम् उच्यते विवादाधिकरणम्।

 

अनववादाधिकरणं कतमम्
? यः संघस्य अनववादः अनववादनं अनववादप्रस्थापनं तद् उपादाय यः कलहो भण्डनं
विग्रहो विवादः इदम् उच्यते अनववादाधिकरणम्।

 

आपत्त्यधिकरणं कतमम्
? पञ्चापत्तयः आपत्तिस्कन्ध इत्य् उच्यते; कतमाः पञ्च ? पाराजिकाः संघावशेषिकाः
पायत्तिकाः प्रतिदेशनीयाः दुष्कृताः
, तद् उपादाय यः
कलहो भण्डनं विग्रहो विवादः इदम् उच्यते आपत्त्याधिकरनम्।

 

कृत्याधिकरणं कतमम्
? या संघस्य क्रियाज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म तद्
उपादाय यः कलहो भण्डनं विग्रहो विवादः इदम् उच्यते कृत्याधिकरणम्।

 

The विवादाधिकरणम्

 

किंमूलं भिक्षवो
विवादाधिकरनं किं विवादाधिकरणस्य मूलम्
? षड् विवादमूलानि
चतुर्दश भेदकराणि वस्तूनि।

 

*षड् विवादमूलानि
कतमानि
? यथापीहैकः क्रोधनो भवति उपनाहि; योऽसौ क्रोधनो
भवत्य् उपनाही शास्तारं न सत्करोति न गुरुकरोति न मानयति न पूजयति
; शास्तारम् असत्कुर्वन्न्
अगुरुकुर्वन्न् अमानयन्न् अपूजयन् धर्मं न पश्यति
; धर्मम् अपश्यन्
श्रामण्यनिरपेक्षो भवति
; श्रामण्यनिरपेक्षः संघे तद्रूपं रणम् उत्पादयति कलहभण्डनविग्रहविवादम्; यः स्यात् कलहभण्डनविग्रहविवादो
बहुजनानर्थाय बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय दुःखाय देवमनुष्यानाम्
; एवंरूपं <>चेद् यूयं भिक्षवो
विवादमूलम् अध्यात्मं बहिर्धा वाप्रहीनं समनुपशयथ तत्र वः सहितैः समग्रैः संमोदमानैर्
अविवादमानैः तीव्रछन्दो वीर्यं व्यायाम उत्साह उत्सूढिर् अप्रतिवाणिस्मृत्या संप्रजन्ये
योगः करणीय यावद् एतस्यैव विवादमूलस्योत्पन्नस्य प्रहाणाय
; एवं च तद् विवादमूलं
प्रहास्यति
; एवंरूपं सचेद् यूयं भिक्षवो विवादमूलम् अध्यात्मं बहिर्धा वा प्रहीनं
समनुपश्यथ तत्र वः सहितैः समग्रैः संमोदमानैर् अविवादमानैस् तीव्रछन्दो वीर्यं व्यायाम
उत्साह उत्सूढिर् अप्रतिवाणिस्मृत्या संप्रजन्ये योगः करणीय यावद् एतस्यैव विवादमूलस्य
प्रहीणस्यायत्याम् अनवास्रवाय
; एवं वस्तद् विवादमूलं सम्यक्सुसमवहितम्
आयत्यां नोत्पत्स्यते
; *यथा क्रोधन उपनाही म्रक्षः प्रदासी ईर्ष्यको मत्सरी शठो मायावी अह्रीयमानोऽनपत्रापी
पापेच्छो मिथ्यादृष्टिकः
; पुनर् अपरम् इहैकः स्वयं दृष्टिपरामर्शी भवत्य् असमञ्जसग्राही दुष्प्रतिनिःसर्गमन्त्री; यः स्वयं दृष्टिपरामर्शी
भवति दुष्प्रज्ञनिःसर्गमन्त्री स शास्तारं न सत्करोति न गुरुकरोति न मानयति न पूजयति
; शास्तारम् असत्कुर्वन्न्
अगुरुकुर्वन्न् अमानयन्न् अपूजयन् धर्मं न पश्यति
; धर्मम् अपश्यन्
श्रामण्यनिरपेक्षो भवति
; श्रामण्यनिरपेक्षः स संघे तद्रूपं रणम् उत्पादयति कलहभण्डनविग्रगविवादम्; यः स्यात् कलहभण्डनविग्रहविवादो
बहुजनानर्थाय बहुजनाहिताय बहुजनदुःखाय अनर्थायाहिताय
<दुःखाय> देवमनुष्यानाम्; एवंरूपं सचेद्
यूयं भिक्षवो विवादमूलम् अध्यात्मं वा बहिर्धा वा अप्रहीणं समनुपश्यथ तत्र वः सहितैः
समग्रैः संमोदमानैर् अविवादमानैस् तीव्रच्छन्दो वीर्यं व्यायाम उत्साह उत्सूढिर् अप्रतिवानिस्मृत्या
संप्रजन्ये योगः करणीयो यावद् एतस्यैव विवादमूलस्य उत्पन्नस्य प्रहाणाय
; एवं वस् तद् विवादमूलम्
प्रहास्यति
; एवंरूपं <>चेद् यूयम् भिक्षवो विवादमूलम् अध्यात्मं वा बहिर्धा वा प्रहीणम् समनुपश्यथ
तत्र वः सहितैः समग्रैः संमोदमानैर् अविवादमानैस् तीव्रच्छन्दो वीर्यं व्यायाम उत्साह
उत्सूढिर् अप्रतिवाणिस्मृत्या संप्रजन्ये योगः करणीयो यावद् एतस्यैव विवादमूवाणिस्मृत्या
संप्रजन्ये योगः करणीयो यावद् एतस्यैव विवा
*दमूलस्य प्रहीणस्यायत्याम्
अनवास्रवाय
; एवं वस् तद्विवादमूलं सम्यक् सुसमाहितम् आयत्यं नोत्पत्स्यते; इमान्य् उच्यन्ते
षड्विवादमूलानि।

 

चतुर्दश भेदकरणानि
वस्तूनि कतमानि
? यद् उत धर्मम् इति वा अधर्मम् इति वा, विनय इति वा अविनय
इति वा
, आपत्तिर् इति वा अनापत्तिर् इति वा, गुर्व् इति वा
लघ्व् इति वा
, सावशेष इति वा निरवशेष इति वा, देशनाकरणीय इति
वा संवरकरणीय इति वा दुर्भाषितगमिनीति वा सुभाषितगमिनीति वा
; इमान्य् उच्यन्ते
चतुर्दश भेदकराणि वस्तूनि
; इदंमूलं भिक्षवो विवादाधिकरणम् इदं विवादाधिकरणस्य मूलम्।

 

The anavavAdAdhikaraNam

 

किंमूलं भिक्षवो
अनववादाधिकरनं किम् अनववादाधिकरणस्य मूलम्
? यः संघस्य अनववादः
अनववादनम् अनववादप्रस्थापनं तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः इदंमूलकं भिक्षवः
अनववादाधिकरणम् इदम् अनववादाधिकरणस्य मूलम्।

 

The
Apattyadhikaranam

 

किंमूलम् भिक्षवः
आपत्त्यधिकरणम्
, किम् आपत्त्याधिकरनस्य मूलम्? पञ्चापत्तिजातय
आपत्तिनिकाया आपत्तिस्कन्ध इति उच्यते
; कतमे पञ्च ? पाराजिकाः संघावशेषाः
पायत्तिकाः प्रतिदेशनीया दुष्कृताश् च
; अपि त्व् अस्त्यापत्तिः
कायिकी न वाचिकी न चैतसिकी
; अस्ति वाचिकी न कायिकी न चैतसिकी; अस्ति कायि<की> चैतसिकी न वाचिकी; अस्ति वाचिकी चैत्यसिकी
न कायिकी
; अस्ति कायिकी वाचिकी चैतसिकी च।

 

कतमा आपत्तिः कायिकी
न वाचिकी न चैतसिकी
? यथापितद् भिक्षुर् अनिष्क्रान्तेषु गृहस्थेष्व् अनुपसंपन्नेषु निष्क्रान्ता
गृहस्ता अनुपसंपन्ना इति शय्यं कल्पयति सुप्तम् चैनं मातृग्रामो विशेते सुप्तो वा महाशयनम्
आरोप्यते इयम् आपत्तिः कायिकी न वाचिकी न चैतसिकी।

 

कतमा आपत्तिर् वाचिकी
न कायिकी न चैतसिकी
? यथापिताद् भिक्षुर् मातृग्रामस्य पञ्चभिर् पदैर् धर्मं देशयन् असंचिन्त्य
षष्टम् पदम् अतिक्रामति
, षड्भिर् पदैर् वा देशयन् सप्तमं पदम् अतिक्रामति, इयम् आपत्तिर्
वाचिकी न कायिकी न चैतसिकी।

 

कतमा आपत्तिः कायिकी
चैतसिकी न वाचिकी
? यथापितद् भिक्षुः संचिन्त्य तिर्यग्योनिगतं प्राणिनं जीविताद् व्यपरोपयन्
नैवम् आह
: एवं हि प्राणि जीविताद् व्यपरोपयितव्यः; यथा मया व्यपरोपितः
एवं पुनर् व्यपरोपयितव्यः
; <व्यपरोपितः> सुव्यपरोपितो भवितीति; अदत्तम् आददत्
कामेषु मिथ्या चरन् मद्यपानं पिबन् नैवम् आह
: एवं मद्यपानं पातव्यम्; यथा मया पीतम्
एवं च पुनर् मद्यपानं
<पातव्यम्>; पीतं सुपीतम् भवतीति; इदम् आपत्तिः कायिकी
चैतसिकी न वाचिकी।

 

कतमा आपत्तिर् वाचिकी
चैतसिकी न कायिकी
? यथापितद् भिक्षुर् मातृग्रामस्य पञ्चभिः पदैर् धर्मं देशयन् संचिन्त्य
षष्तम् पदम् अतिक्रामति षड्भिर् वा पदैर् देशयन् सप्तमं पदम् अतिक्रामति
, इयम् आपत्तिर्
वाचिकी चै
*तसिकी न कायिकी।

 

कतमा आपत्तिः कायिकी
वाचिकी चैतसिकी च
? यथापितद् भिक्षुः संचिन्त्य तिर्यग्योनिगतं प्राणिनं जीविताद् व्यपरोपयन्न्
एवम् आह
: एवं प्राणी जीविताद् व्यपरोपयितव्यः; यथा मया व्यपरोपितः
एवं च पुनर् व्यपरोपितः सुव्यपरोपितो भविष्यतीति
; अदत्तम् आददत्
कामेषु मिथ्या चरन् मद्यपानम् पिबन्न् एवम् आह
: एवं हि मद्यपानं
पातव्यम्
; यथा मया पीतम् एवं च पुनः पीतं सुपीतं भवतीति; इयम् आपत्तिः कायिकी
वाचिकी चैतसिकी च
; इदंमूलकं भिक्षवः आपत्त्यधिकरणम्, इदम् आपत्त्यधिकरणस्य
मूलम्।

 

The क्रित्यधिरनम्

 

किं<मूलं> भिक्षवः कृत्याधिकरणम्, किं कृत्याधिकरणस्य
मूलम्
? या संघस्य क्रियाज्ञप्तिः ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म इदंमूलकं
भिक्षवः कृत्याधिकरणम् इदम् कृत्याधिकरणस्य मूलम्।

 

The
three kinds of
विवदधिकरनम्

 

विवादाधिकरणम् भिक्षवः
कुशलम् वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं वक्तव्यम्
; कतरत् कुशलम् ? यत् संघस्यार्थिनः
अर्थाभिप्रायस्य कुशलार्थिनः कुशलाभिप्रायस्य
<नानावादो विवादो
विप्रत्यनीकवादः
> तद् उपादाय यः कहलो भण्डनं विग्रहो विवादः इदं कुशलम्; कतमद् अकुशलम्
? यः संघस्यानर्थिनः अनर्थिभिप्रायस्याकुशलार्थिनः <a>कुशलाभिप्रायस्य
नानावादो विवादो विप्रत्यनीकवादः तद् उपादाय कलहो भण्डनं विग्रहो विवादः इदम् अकुशलम्
; कतमद् अव्याकृतम्
? यत् संघस्य नैवार्थिनो <नैवानर्थिनो> नैवार्थाभिप्रायस्य
<नैवानर्थाभिप्रायस्य> न कुशलार्थिनो> नैवार्थाभिप्रायस्य
<नैवानर्थाभिप्रायस्य> न कुशलार्थिनो
<नाकुशलार्थिनः न कुशलाभिप्रायस्य नाकुशलाभिप्रायस्य> नानावादो विवादो
विप्रत्यनीकवादः तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः इदम् अव्याकृतम्।

 

The
three kinds of
अनववदधिकरनम्

 

अनववादाधिकरणं कुशलं
वक्तव्यम्
<a>कुशलम् वक्तव्यम् अव्याकृतम् वक्तव्यम्; कतरत् कुशलम्? यत् संघस्य अर्थिनः
अर्थाभिप्रायस्य कुशलार्थिनः कुशलार्थाभिप्रायस्य अनववाद अनववादनम् अनववादप्रस्थापनं
तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः इदं कुशलम्
; कतरद् अकुशलम्
? यत् संघस्य अनर्थिनः अनर्थाभिप्रायस्य अकुशालार्थिनः अकुशलाभिप्रायस्य
अनववादः अनववादनं अनववादप्रस्थापनं तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः इदम्
<अकुशलम्; कतराद्> अव्याकृतम् ? <यत् संभस्य नैवार्थिनो नैवानर्थिनो नैवार्थाभिप्रायस्य नैवानर्थाभिप्रायस्य
न कुशलार्थिनो नाकुशलार्थिनः न कुशलाभिप्रायस्य नाकुशलाभिप्रायस्य अनवाद अनववादनम्
अनववादप्रस्थापनं तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः इदम् अव्याकृतम्
>

 

The
Two kinds of
आपत्त्यधिकरणम्

 

आपत्त्यधिकरणम्
अकुशलम् वक्तव्यम् अव्याकृतं च वक्तव्यम्
; कतरद् अकुशलम्
? यो बुद्धप्रज्ञप्तायां शिक्षायां संघप्रज्ञप्तायां च क्रियायाम् संचिन्त्य
व्यतिक्रमः इदम् अकुशलम्
; कतरद् अव्याकृतम् ? यो बुद्धप्रज्ञप्तायां शिक्षायां संघप्रज्ञप्तायां
च क्रियायाम् असंचिन्त्य व्यतिक्रमः इदम् अव्याकृतं।

 

The
three kinds of
कृत्याधिकरणम्

 

कृत्याधिकरणं कुशलम्
वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं च वक्तव्यम्
; कतरत् कुशलम् ? यत् संघस्यार्थिनः
अर्थाभिप्रायस्य कुशलार्थिनः कुशलाभिप्रायस्य ज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं
कर्म तद् उपादाय यः कलहो भण्डनम् विग्रहो विवादः इदं कुशलम्
; कतरद् अकुशलम्
? यत् संघस्यानर्थिनः अनर्थाभिप्रायस्य अकुशलार्थिनः अकुशलाभिप्रायस्य
ज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म तद् उपादाय यः कलहो भण्डनं विग्रहो
विवादः इदम् अकुशलम्
; कतरद् अव्याकृतम् ? यत् संघस्य नैवार्थिनो <नैवानर्थिनो> नैवार्थाभिप्रायस्य
<नैवानर्थाभिप्रायस्य> न कुशलार्थिनो
<नाकुशलार्थिनो> न कुशलाभिप्राय<स्य नाकुशलाभिप्रायस्य> ज्ञप्तिर् ज्ञप्तिद्वितीयं
ज्ञप्तिचतुर्थं कर्म तद् उपादाय कलहो भण्डनम् विग्रहो विवादः इदम् अव्याकृतम्।

 

Not
all kinds of
विवाद, etc., are a source of अधिकरण

 

यो विवादस् तद्
अधिकरणं यच् चा धिकररम् स विवादः
? आह: स्याद् विवादो
नाधिकरणम्
, स्याद् अधिकरणं न विवादः, स्याद् विवादश्
चाधिकरणं च
, स्यान् नैव विवादो नाधिकरणम्; 1) विवादस् तावन्
नाधिकरणम्
, यत् संघस्य नानावादो विवादः विप्रत्यनीकवादः; 2) अधिकरणं न विवादः, त्रीन्य् अधिकरणानि
अनववादाधिकरणम् आपत्त्यधिकरणं कृत्याधिकरनं च
; 3) विवादश् चाधिकरणं
<ca>, यः संघस्य नानावादो विवादो विप्रत्यनीकवादः असामग्री असंमोदमान अनेकोतीभावः
तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः
; 4) स्यान् नैव विवादो
नाधिकरणम्
, एतान् आकारान् स्थापयित्वा।

 

योऽनववादस् तद्
अधिकरणं यद् वा अधिकरणं सोऽनववादः
? आह: स्याद् अनववादो
नाधिकरणम्
; स्याद् अधिकरणम् नानववादः; स्याद् अनववादश्
चाधिकरणं च
; स्याद् नैवा<>वावादो नाधिकरनम्; 1) अनववादस् तावन्
नाधिकरणम्
; यः संघस्य अनववादः अनववादनं अनववादप्रस्थापनम्; 2) अधिकरणम् ना<>ववादः, त्रीण्य् अधिकरणानि
विवादाधिकरणम् आपत्त्यधिकरणम् कृत्याधिकरणं च
; 3) अनववादश् चाधिकरणं
, यः संघस्या<>ववादः अनववादनं अनववादप्रस्थापनं तद् उपादाय यः कलहो भण्डनं विग्रहो विवादः; 4) नैवानववादो नाधिकरणम्, एतान् आकारान्
स्थापयित्वा।

 

या आपत्तिस् तद्
अधिकरणं यद् वा अधिकरणं सा आपत्तिः
? आह: स्याद् आपत्तिः
नाधिकरणम्
; स्याद् अधिकरणं नापत्तिः; स्याद् आपत्तिश्
चाधिकरणं
<>; स्यान् नैवापत्तिर् नाधिकरणम्; 1) आपत्तिस् तावन्
नाधिकरणम् पञ्चापत्तिजातयः आपत्तिनिकाया आपत्तिस्कन्ध इत्य् उच्यते
, पाराजिकाः संघावशेषाः
पायन्तिका प्रतिदेशनिका दुष्कृताश् च
; 2) अधिकरणं नापत्तिः, त्रीण्य् अधिकरणानि
विवादाधिकरणम् अनववादाधिकरणं कृत्याधिकरणं च
; 3) आपत्तिश् चाधिकरणं
, पञ्चापत्तिजातयः आपत्तिनिकाया आपत्तिस्कन्ध इत्य् उच्यते, पाराजिका संघावशेषा
पायन्तिका प्रदिदेशनिका दुष्कृताश् च
; तद् उपा*दाय कलहो भण्डनं
विग्रहो विवादः
; 4) नैवापत्तिर् नाधिकरणम्, एतान् आकारान्
स्थापयित्वा।

 

यत् कृत्यम् तद्
अधिकरणम् यद् वा अधिकरणं तत् कृत्यम्
? आह: स्यात् कृत्यम्
नाधिकारणम्
, स्याद् अधिकरणं <> कृत्यम्, स्यात् कृत्यं
चाधिकरणं च
, स्यान् नैव कृत्यं नाधिकरणम्; 1) कृत्यं तावन् नाधिकरणम्, यः संघस्य ज्ञप्तिर्
ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म
; 2) अधिकरणं न कृत्यम्, त्रीण्य् अधिकरणानि
विवादाधिकरणं अनववादाधिकरणम् आपत्त्यधिकरणम् च
; 3) कृत्यं चाधिकरणं
, या संघस्य क्रियाज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म तद्
उपादाय यः कलहो भण्डनं विग्रहो
<विवादः>; 4) नैव कृत्यं नाधिकरणम्, एतान् आकारान्
स्थापयित्वा।

 

The
settlement of disputes
शारिपुत्र and मौद्गल्यायन settle a dispute

 

विवादाधिकरणं भिक्षवः
कतिभिर् अधिकरणशमथैर् धर्ममैर् दमयितव्यं शमयितव्यं व्युपशमयितव्यम्
? आह: द्वाभ्यां, संमुखविनयेन यद्भूयसिकीयशलाकाग्रहणेन
; कथं संमुखविनय अधिकरणशमथो भवति कथं चैषाम् अधिकरणानाम् दमश् च भवति शमश्
च व्युपशमश् च
, यद् उत संमुखविनयेनाधिकरणशमथेन ?

 

बुद्धो भगवान् श्रावस्त्यां
वर्षा उपगतो जेतवने अनाथपिण्डदस्यारामे
; तेन खलु समयेन
संबहुला भिक्षवो जनपदे वर्षा उपगताः
; तेषाम् अन्तर्वर्षो
उत्पन्नः कलहो भण्डनं विग्रहो विवादः
; तैस् तद् अधिकरणम्
आयुष्मन्तयोः शारिपुत्रमौद्गल्यायनयोर् उपनिक्षिप्तम्
; ताभ्यं तद् अधिकरणम्
व्युपशमितं धर्मेण विनयेन शास्तुः शासनेन
; अथ सम्बहुला भिक्षवो
जनपदे वर्षोषितास् त्रयाणां मासानाम् अत्ययात् कृतचीवरा निष्ठितचीवरा समादाय पात्रचीवरं
येन श्रावस्तीं तेन चारिकां प्रक्रान्ताः
; अनुपूर्वेण चारिकां
चरन्तः श्रावस्तीम् अनुप्राप्ताः
; अथ संबहुला भिक्षवः पात्रचीवरं प्रतिशमय्य
पादौ प्रक्षालय येन भगवांस् तेनोपसंक्रान्ताः
; उपसंक्रम्य भगवतः
पादौ शिरसा वन्दित्वैकान्ते निषण्णाः
; धर्मता खलु, बुद्धा भगवन्तः
आगन्तुकान् भिक्षून् अनया प्रतिसंमोदनया प्रतिसंमोदते
, कुतो यूयं भिक्षव
एतर्ह्य् आगच्छत कुत्र वा वर्षोषिताः
; प्रतिसंमोदते बत
भगवांस् संबहुलान् भिक्षुन्
, कुतो यूयं भिक्षवः एतर्ह्य् आगच्छत, कुत्र वा वर्षोषिताः
? जनपदाद् वयं भदन्त एतर्ह्य् आगच्छामो जनपदे च स्मो वर्षा उषिताः; कच्चिद् यूयं भिक्षवः
सुखस्पर्शं जनपदे वर्षा उषिता न चास्थ क्लान्ता पिण्डकेन
? न हि वयम् भदन्त
जनपदे सुखस्पर्शं वर्षा उषिता न च स्म क्लान्ता पिण्डकेन
, अपि त्व् अस्माकम्
अन्तर्वर्षेण उत्पन्नः कलहो भण्डनं विग्रहो विवादः
; तैर् अस्माभिस्
तद् अधिकरणम् आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्याम् उपनिक्षिप्तम्
; ताभ्यं तद् अधिकरणम्
व्युपशमितं धर्मेण विनयेन शास्तुः शासनेन च।

 

The स्थलस्थ monks

 

भगवान् संलक्षयति: शक्ष्यन्ति बत
मे स्थलस्थाः श्रावकाः उत्पन्नोत्पन्नान्य् अधिकरणानि व्युपशमयितुं धर्मेण विनयेन शास्तुः
शासनेन
; तस्मात् तर्हि भिक्षवः* स्थलस्थैर् भिक्षुभिर्
उत्पन्नोत्पन्नान्य् अधिकरणानि व्युपशमयितव्यानि धर्मेण विनयेन शास्तुः शासनेन इति
; भिक्षवो न जानते
के स्थलस्थाः कति वा इति
; भगवान् आह: ये शक्नुवन्ति संघम् अन्तरेण उत्पन्नोत्पन्नान्य् अधिकरणानि व्युपशमयितुम्; ते च त्रयः, अस्ति स्थलस्थो
न कायेन संवृतो न वाचा
; अस्ति कायेन संवृतो न वाचा; अस्ति कायेन संवृतो
वाचा
<>; कतमो न कायेन संवृतो न वाचा ? यथापितत् स्थलस्थो
भिक्षूणां कलहजातानाम् भण्डनजातानां विगृहीतानां विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानाम्
आत्मना उपसंक्रम्यैवम् आह
: साध्व् आयुष्मन्तः इदम् अधिकरणम् सूद्गृहीतं न दुष्गृहीतम् ; सुसंप्रयुक्तं
न दुष्प्रयुक्तं सुपरामृष्टं न दुष्परामृष्टम् इदम् च इदम् च वदत इदं च इदम् च मा वक्ष्यथ
; अभिमर्दन्ताम्
आयुष्मन्तः परान्
; मा परो अभिमर्दताम्; वयम् आयुष्मताम्
पक्षो बलं सहायका इति
; अयं स्थलस्थः न कायेन संवृतो न वाचा; कतमः स्थलस्थः
कायेन संवृतो न वाचा
? यथापितत् स्थलस्थः भिक्षूनां कलहजातानां भण्डनजातानां विगृहीतानां विवादम्
आपन्नानाम् पक्षापरपक्षव्यवस्थितानाम् एकस्मिन् पक्षे नात्मना उपसंक्रामति अपि तु दूतम्
अनुप्रेष्यति
: साध्व् आयुष्मन्त एतद् अधिकरणम् सूद्गृहीतं न दुर्गृहीतम् सुसंप्रयुक्तम्
न दुष्प्रयुक्तम् सुपरामृष्तम् न दुष्परामृष्टम्
; इदम् चेदम् च वदत
इदम् चेदम् च मा वक्ष्यथ
, अभिमर्दन्ताम् आयुष्मन्तः परान्, मा च परो अभिमर्दताम्, वयम् आयुष्मन्ताम्
आयुष्मन्तः परान्
, मा च परो अभिमर्दताम्, वयम् आयुष्मताम्
पक्षो बल सहायका इति
; <द्वितीयेऽपि पक्षे नात्मनोपसंक्रामति, अपि तु दूतम् अनुपेर्षयति
साध्व् आयुष्मन्तः एतद् अधिकरणम् सूद्गृहीतं न दुर्गृहीतं सुसंप्रयुक्तं न दुष्प्रयुक्तं
सुपरामृष्तं न दुष्परामृष्टम्
; इदं चेदं च वदत इदम् चेदं च मा वक्ष्यथ, अभिमर्दन्ताम्
आयुष्मन्तः परान्
, मा च परो अभिमर्दताम्, वयम् आयुष्मताम्
पक्षो बलं सहायका इति
;> अयं स्थलस्थः कायेन संवृतो न वाचा; कतमः स्थलस्थः
कायेन संवृतो वाचा च
; यथापितत् स्थलस्थो भिक्षूणाम् कलहजातानां भण्डनजातानां विगृहीतानां विवादम्
आपन्नानां पक्षापरपक्षव्यवस्थितानाम् एकस्मिन् पक्षे नात्मना उपसंक्रामति नापि दूतम्
अनुप्रेषनाम् एकस्मिन् पक्षे नात्मना उपसंक्रामति नापि दूतम् अनुप्रेषयति
, द्वितीयम् अपि
नात्मनोपसंक्रामति नापि दूतम् अनुप्रेषयति।

 

तत्र योऽयम् स्थलस्थो
न कायेन संवृतो न वाचा च एवंरूपः स्थलस्थः असंमतो न संमन्तव्यः संमतश् चावका
*शयितव्यः; तत् कस्य हेतोः
? एवंरूपं हि स्थलस्थम् आगम्य संघेऽनुत्पन्नानि चाधिकरणान्य् उत्पद्यन्ते
उत्पन्नानि च न क्षिप्रम् व्युपशमं गच्छन्ति धर्मेण विनयेन शास्तुः शासनेन
; तत्र योऽयम् स्थलस्थः
कायेन संवृतो न वाचा च एवंरूपः स्थलस्थः असंमतो न संमन्तव्यः संमतश् चावकाशायितव्यः
; तत् कस्य हेतोः
? एवंरूपम् अपि स्थलस्थम् आगम्य संघेऽनुत्पन्नान्य् अधिकरणान्य् उत्पद्यन्ते
उत्पन्नानि च क्षिप्रं
<> व्युपशमं गच्छन्ति धर्मेण विनयेन शास्तुः शासनेन; तत्र योऽयम् स्थलस्थः
कायेन संवृतो वाचा च एवंरूपः स्थलस्थः असंमतः संमन्तव्यः संमतश् नावकाशयितव्यः
; तत् कस्य हेतोः
? एवंरूपं स्थलस्थम् आगम्य संघेऽनुत्पन्नान्य् अधिकरणानि नोत्पद्यन्ते
उत्पन्नानि च क्षिप्रम् एव उपसमं गच्छन्ति धर्मेण विनयेन शास्तुः शासनेन
; एवंरूपो भिक्षवः
स्थलस्थः अधिकरनव्युपशमयिता नान्ये
; एवंरूपैः स्थलस्थैर्
उत्पन्नोत्पन्नान्य् अधिकरणानि व्युपशमयितव्यानि
, एवंरूपैः स्थलस्थैर्
अधिकरणानि व्युपशमयितानि।

 

Two
presences: pudgala and dharma

 

शुद्धकं संमुखम्; किम् अत्र संमुखम्? द्वे संमुखे, पुद्गलसंमुखं धर्मसंमुखं
; पुद्गलसंमुखं कतमत्? ये तद् अधिकरणम्
व्युपशमयन्ति
; यथा च तद् अधिकरणम् व्युपशाम्यति सर्व् ते समवहिता भवन्ति संमुखीभूताः, इदम् उच्यते पुद्गलसंमुखम्; धर्मसंमुखं कतमत्? येन धर्मेन येन
विनयेन
<येन> शास्तुः शासनेन तद् अधिकरणं व्युपशाम्यति तेन धर्मेण तेन विनयेन तेन
शास्तुः शासनेन तद् अधिकरणं व्युपशमयन्ति
; इदम् उच्यते धर्मसंमुखम्।

 

सचेत् स्थलस्था
भिक्षवः तद् अधिकरणं न शक्नुवन्ति व्युपशमवितुम् तैस् तद् अधिकरणं संघे उपनिक्षेप्तव्यम्
, संघेन तद् अधिकरणं
व्युपशमयितव्यम् धर्मेण विनयेन शास्तुः शासनेन
; संघेन तद् अधिकरणं
व्युपशान्तं धर्मेण विनयेन शास्तुः शासनेन सुव्युपशान्तम्।

 

Three
presences:
सङ्घ, pudgala and dharma

 

शुद्धकं संमुखम्; किम् अत्र संमुखम्
? त्रीणि संमुखानि: संघसंमुखम्, पुद्गलसंमुखम्, धर्मसंमुखं च; संघसंमुखं कतमत्
? यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्रातास् ते सर्वे समवहिताः संमुखीभूताः; छन्दार्हेभ्यश्
छन्द आनीतो भवति
; समवहिताश् च भिक्षवः संमुखीभूता न प्रतिवहन्ति न प्रतिक्रोशन्ति; येषां प्रतिवहतां
प्रतिक्रोशतां प्रतिक्रोशो आरोहति
<कर्माणि च कुर्वन्ति> इदम् उच्यते संघेसं
मुखम्
; पुद्गलसंमुखं कतमत्? ये तद् अधिकरणं
व्युपशमयन्ति येषां च तद् अधिकरणं व्युपशाम्यति ते सर्वे समवहिता भवन्ति संमुखीभूता
; इदम् उच्यते पुद्गलसंमुखम्; धर्मसंमुखं कतमत्
? येन धर्मेण येन विनयेन <येन> शास्तुः शासने<> तद् अधिकरणं व्युपशाम्यति
तेन धर्मेन तेन विनयेन
<तेन> शास्तुः शासनेन तद् अधिकरणं व्युपशमयन्ति, इदम् उच्यते धर्मसंमुखम्*; सचेत् संघः न शक्नोति
तदधिकरणं व्युपशमयितुं ततः
<पश्चात्> संघेन व्युढका
भिक्षवः संमन्तव्याः दश वा पञ्च वा
; एवं च पुनः संमन्तव्याः: शयनासनप्रज्ञप्तिं
कृत्वा गण्डीम् आकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते
पूर्वं तावद् उत्साहयितव्याः
: उत्सहध्वे यूयं बुद्धरक्षितधर्मदत्तसंघसेना
व्यूढकाः सन्तो बहिः सीमां गत्वा संघस्याधिकरणं व्युपशमयितुम् इति
; सचेद् उत्सहन्ते
तैर् वक्तव्यम् उत्सहयाम इति
; ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा
कर्म कर्तव्यं
: शृणोतु भदन्ताः संघ इमे बुद्धरक्षितधर्म<दत्त>संघसेना व्यूढकाः
उत्सहन्ते बहिः सींआं गत्वास् संघस्याधिकरणानि व्युपशमयितुम्
; सचेत् संघस्य प्राप्तकालं
क्षमेत अनुजानीयात् संघो यत् सङ्घो बुद्धरक्षितधर्मदत्तसंघसेनान् व्यूढकान् संमन्येत
: बुद्धरक्षितधर्मदत्तसंघसेना
व्यूढका उत्सहन्ते संघस्य बहिः सीमां गत्वा अधिकरणानि व्युपशमयितुम्
; एषा ज्ञप्तिः, ततः कर्म कर्तव्यम्; शृणोतु भदन्ताः
संघ इमे बुद्धरक्षितधर्मदत्तसंघसेना व्यूढका उत्सहन्ते बहिः सीमां गत्वा संघस्याधिकरणानि
व्युप्शमयितुम्
; तत् संघो <बुद्धरक्षितधर्मदत्तसंघसेनान् व्यूढकान् संमन्येत; बुद्धरक्षितधर्मदत्तसंघसेना> व्यूढका बहिः सीमां
गत्वा संघस्याधिकरणानि व्युपशमयिष्यन्ति
; येषाम् आयुष्मतां
क्षमते बुद्धरक्षितधर्मदत्तसंघसेनान् व्यूढकान् संमन्तुं
: बुद्धरक्षितधर्मदत्तसंघसेना
व्यूधकाः बहिः सीमां गत्वा संघस्याधिकरणानि व्युपशमयिष्यन्ति
, ते तूष्णीम्, न क्षमते, भाषन्ताम्; संमता संघेन बुद्धरक्षि
तधर्मदत्तसंघसेना व्यूढकाः
; ते च बहिः सीमां गत्वा संघस्याधिकरणानि व्युपशम्यिष्यन्ति; क्षान्तम् अनुज्ञातं
संघेन यस्मात् तूष्णीम्
; एवम् एतद् धारयामि व्यूढकैस् तद् अधिरणं व्युपशमयितव्यम् धर्मेण विनयेन
शास्तुः शासनेन
; व्यूढकैस् तद् अधिकरणं व्युपशान्तं <सु>व्युपशमितं वक्तव्यम्
धर्मेण विनयेन शास्तुः शासनेन।

 

Two
presences:
pudgala and dharma

 

शुद्धकं संमुखं; किम् अत्र संमुखम्
? द्वे संमुखे, पुद्गलसंमुखं धर्मसंमुखं च; पुद्गलसंमुखं कतमत्
? ये तद् अधिकरणं व्युपशमयन्ति येषां च तद् अधिकरणं व्युपशाम्यति ते सर्वे
समवहिता भवन्ति संमुखीभूताः
; इदम् उच्यते पुद्गलसंमुखं; धर्मसंमुखं कतमत्
? येन धर्मेण येन विनयेन <येन> शास्तुः शासनेन
तद् अधिकरणं व्युपशमयति तेन धर्मेण तेन विनयेन
<तेन> शास्तुः शासनेन
तद् अधिकरणं व्युपशमयन्ति
; इदम् उच्यते धर्मसंमुखम्; सचेद् व्यूढका
भिक्षवः न शक्नुवन्ति तद् अधिकरणं व्युपशमयितुम्
, तैर् व्यूढकव्यूढका
भिक्षवः संमन्तव्या अष्टौ वा नव वा
; व्यूढव्यूढकैस्
तद् अधिकरणं व्युपशमयितव्यं धर्मेण विनयेन शास्तुः शासनेन
; व्यूढकव्यूढकैस्
तद् अधिकरणम् व्युपशमितं सुव्युपशमितं वक्तव्यम्
; सचेद् व्यूढकव्यूढका
भिक्षवः तद् अधिकरणं न शक्नुवन्ति व्युपशमयितुं तैस् तद् अधिकरणं संघे उपनिक्षेप्तव्यम्
; ततः संघेनाधिकरणसंचारको
भिक्षुः संमन्तव्यः पञ्चभिर् धर्मैः समन्वागतः
; अधिकरणसंचारको
भिक्षुर् असंमतो न संमन्तव्यः संमतश् चावकाशयितव्यः
; कतमैः पञ्चभिः
? छन्दाद् गच्छति द्वेषान् मोहाद् भयद् गच्छति संचारिता<सं>चारितं चाधिकरणं
न जानाति
; एभिः पञ्चभिर् धर्मैः समन्वागतः अधिकरणसंचारको भिक्षुर् असंमतो न संमन्तव्यः
संमतश् चावकाशयितव्यः
; पञ्चभिस् तु धर्मैः समन्वागतः अधिकरणस्ंचारको भिक्षुर् असंमतश् च संमन्तव्यः
संमतश् च नावकाशयितव्यः
; कतमैः पञ्चभिः ? च छन्दाद् गच्छति न द्वेषान् न मोहान् न
भयाद् गच्छति
; संचारितासंचारितं चाधिकरणं जानाति; एभिः पञ्चभिर्
धर्मैः समन्वागतः अधिकरणसंचारको भिक्षुर् असंमतश् च संमन्तव्यः संमतश् च नावकाशयितव्यः
; एवं च पुनः संमन्तव्यः: शयनासनप्रज्ञप्तिं
कृत्वा गण्डीम् आकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते
<पूर्वं तावद् उत्साहयितव्याः: उत्सहध्वे आयुष्मन्तः
संघस्याधिकरणं संचारयितुम्
; सचेद् उत्सहन्ते तैर् वक्तव्यम् उत्सहयाम इति; ततः पश्चाद्> एकेन भिक्षुणा
ज्ञप्तिं कृत्वा कर्म कर्तव्यम्
: शृणोतु भदन्ताः संघ अयम् एवंनामा अधिकरणसंचारको
भिक्षुर् उत्सहते संघस्याधिकरणं संचारयितुम्
; सचेत् संघस्य प्राप्तकालं
क्षमेत अनुजानीयात् संघो यत् संघ एवंनामानम् अधिकरणसंचारकं भिक्षुं संमन्येत
, एवंनामा अधिकरणसंचारको
भिक्षुः संघस्याधिकरणं संचारयिष्यति
; एषा ज्ञप्तिः; कर्म कर्तव्यम्; शृणोतु भदन्ताः
संघः
, अयम् एवंनाम अधिकरणसंचारको भिक्षुर् उत्सहते संघस्याधिकरणं संचारयितुम्; तत् संघ एवंनामानम्
अधिकरणसंचारकम् भिक्षुं संमन्येत एवंनामा अधिकरणसंचारको भिक्षुः संघस्याधिकरणं संचारयिष्यति
; येषाम् आयुष्मताम्
क्षमते एवंनामानम् अधिकरणसंचारकं भिक्षुम् संमन्तुम्
, एवम्नामा अधिकरणसंचारको
भिक्षुः संघस्याधिकरणं संचारयिष्यति
; ते तूष्णीम्; न क्षमते, भाषन्ताम्; संमतः संघेन एवंनामा
अधिकरणसंचारको भिक्षुः
; सोऽयम्* संघस्याधिकरणं संचारयिष्यति; क्षान्तम्, अनुज्ञातम् संघेन
यस्मात् तूष्णीम्
; एतद् धारयामि अधिकरणसंचारकस्याहं भिक्षोर् आसमुदाचरिकान् धर्मान् प्रज्ञापयामि; अधिकरणसंचारकेण
भिक्षुणा इदम् अधिकरणम् सथविरे सप्रातिमोक्षे संघे उपनिक्षेप्तव्यं यथावृत्तं चारोचयितव्यम्
; शृणोतु भदन्ताः
संघः
, इदम् अधिकरणम् अमुष्मिन्न् आवासे इयच्चिरकालसमुत्पन्नम् अस्मिन् वस्तुनि; तद् अधिकरणम् स्थलस्थैर्
भिक्षुभिर् न शक्यं व्युपशमयितुम्
; तैः संघे उपनिक्षिप्तम्; संघेणापि न शक्तम्; तेन व्यूढका भिक्षवः
संमताः
; व्यूढकैर् अपि भिक्षुभिर् न शक्तम्; तैर् अपि व्यूढकव्यूढका
भिक्षवः संमताः
; व्यूढकव्यूढकैर् अपि संघे उपनिक्षिप्तम्; संघेनाप्य् अहम्
एवंनामा अधिकरणसंचारको भिक्षुः संमतः
, सोऽहम् एवंनामा
अधिकरणसंचारको भिक्षुर् इदम् अधिकरणं सस्थविरे सप्रातिमोक्षे संघे उपनिक्षिपामि इत्य्
उपशमयतु भदन्ताः संघ इदम् अधिकरणम्
; यावत् षण्मासपर्यन्तम्
उपादाय
<>स्थविरेण सप्रातिमोक्षेण संघेन तद् अधिकरणं व्युपशमयितव्यम् धर्मेण विनयेन
शास्तुः शासनेन
; सस्थविरेण सप्रातिमोक्षेन संघेन तद् अधिकरणं व्युपशमितं वक्तव्यम् धर्मेण
विनयेन शास्तुः शासनेन।

 

Three
presences:
संघ, पुद्गल, द्धर्म

 

शुद्धकं संमुखम्; किम् अत्र संमुखम्
? त्रीणि संमुखानि संघसंमुखम् पुद्गलसंमुखं धर्मसंमुखं च; संघसंमुखं कतमत्
? यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्ताः ते सर्वे समवहिताः संमुखीभूताः; छन्दार्हेभ्यश्
छन्द आनीतो भवति
; समवहिताश् च भिक्षवः संमुखीभूताः न प्रतिवहन्ति न प्रतिक्रोशन्ति; येषां प्रतिवहतां
प्रतिक्रोशतां प्रतिक्रोशो रोहति कर्माणि च कुर्वन्ति इदम् उच्यते संघसंमुखम्
; पुद्गलसंमुखम्
कतमत्
? ये तद् अधिकरणं व्युपशमयन्ति येषां च तद् अधिकरणम् व्युपशाम्यति ते सर्वे
समवहिताः
<भवन्ति> संमुखीभूता इदम् उच्यते पुद्गलसंमुखम्; धर्मसंमुखं कतमत्
? येन धर्मेण येन विनयेन <येन> शास्तुः शासनेन
तद् अधिकरणं व्युपशाम्यति तेन धर्मेण तेन विनयेन तेन शास्तुः शाशनेन तद् अधिकरणं व्युपशमयन्ति
इदम् उच्यते धर्मसंमुखम्
; सचेत् <>स्थविरः सप्रातिमोक्ष संघस् तद् अधिकरणम् न शक्नोति व्युपशमयितुम् तेन
तद् अधिकरणम् अधिकरणसंचारकस्यैव भिक्षोर् उपनिक्षेप्तव्यम्
; अधिकरणसंचारकेण
भिक्षुणा सूत्रविनयमातृकाधराणां भिक्षूनाम् उपनिक्षेप्तव्यम्
; यथावृत्तं चारोचयितव्यम्; शृण्वन्तु भवन्तः
सूत्रविनयमातृकाधरा भिक्षवः इदम् अधिकरणम् अमुष्मिन् आवासे इयच्चिरकालसमुत्पन्नम् अस्मिन्
वस्तुनि
; तद् अधिकरणं स्थलस्थैर् भिक्षुभिर् न शक्तम् व्युपशमयितुम्; तैः संघे उपनिक्षिप्तम्; संघेनापि न शक्तम्; तेनापि व्यूढका
भिक्षवः संमताः
; व्यूढकैर् अपि भिक्षुभिर् न शक्तम्; तैर् अपि व्यूढकव्यूढका
भिक्षवः संमताः
; व्यूढकव्यूढहैर् अपि भिक्षुब्किर् न शक्तम्; तैर् अपि संघे
उपनिक्षिप्तम्
; संघेनाप्य् अहम् एवंनामा अधिकरणसंचारको भिक्षुः संमतः, तेन मया एवंनाम्ना
अधिकरणसंचारकेण भिक्षुणा इदम् अधिकरणम्
<>स्थविरे सप्रातिमोक्षे
संघे उपनिक्षिप्तम्
; सस्थविरेणापि <>प्रातिमोक्षेण संघेन
ममैवंनाम्नोऽधिकरणसंचारकस्य भिक्षोर् उपनिक्षिप्तम्
, सोऽहम् एवंनामा
अधिकरणसंचारको भिक्षुर् इदम् अधिकरणं सूत्रविनयमातृकाधराणां भिक्षूणाम् उपनिक्षिपामि
व्युपशमयन्तु भवन्तः सूत्रविनयमातृकाधरा भिक्षवः इदम् अधिकरणम् यावत् संवत्सरम् उपादाय
; सूत्रविनयमातृकाधरैर्
भिक्षुभिः तद् अधिकरणं व्युपशमयितव्यम् धर्मेण विनयेन शास्तुः शासनेन
; सूत्रविनयमातृकाधरैर्
भिक्षुभिः तद् अधिकरणं व्युपशमितं सुव्युपशमितं वक्तव्यम्।

 

Two
presences: pudgala, dharma

 

शुद्धकं संमुखम्; किम् अत्र संमुखम्
? द्वे संमुखे पुद्गलसंमुखं धर्मसंमुखं च; पुद्गलसंमुखम्
कतमत्
? ये तद् अधिकरणं व्युपशमयन्ति येषां च तद् अधिकरणं व्युपशाम्यति ते सर्वे
समवहिता भवन्ति संमुखीभूताः
; इदम् उच्यते पुद्गलसंमुखम्; धर्मसंमुखं कतमत्
? येन धर्मेण येन विनयेन येन शास्तुः शासनेन तद् अधिकरणं व्युपशाम्यति
तेन धर्मेण तेन विनयेन तेन शास्तुः शासनेन तद् अधिकरणं व्युपशमयन्ति
, इदम् उच्यते धर्मसंमुखम्; सचेत् सूत्रविनयमातृकाधरा
भिक्षवो न शक्नुवन्ति तद् अधिकरणम् व्युपशमयितुं तैर् अधिकरणसंचारकस्यैव भिक्षोर् उपनिक्षेप्तव्यम्
; अधिकरणसंचारकेण
भिक्षुणा यस्मिन् आवासे भिक्षुः स्थविरस्थविरान्यतमः प्रमुखः प्रमुखान्यतमः ज्ञातो
ज्ञातान्यतमः तस्योपनिक्षेप्तव्यम्
; यथावृतं चारोचयितव्यम्, शृणु त्वं स्थविर
इदम् अधिकरणम् अमुष्मिन् आवासे इयच्चिरकालसमुत्पन्नम् अस्मिन् एव वस्तुनि
; तदधिकरणं स्थलस्थैर्
भिक्षुभिर् न शक्तं व्युपशमयितुम्
; तैः संघे उपनिक्षिप्तम्; संघेनापि न शक्तम्; तेनापि व्यूढका
भिक्षवः संमताः
; व्यूढकैर् अपि भिक्षुभिर् न शक्तम्; तैर् अपि व्यूढकव्यूढका
भिक्षवः संमताः
; व्यूढकव्यूढकैर् अपि भिक्षुभिर् न शक्तम्; संघे उपनिक्षिप्तम्; संघेनापि अहम्
एवंनामा अधिकरणसंचारको भिक्षुः संमतः
; संघेमया एवंनाम्ना
अधिकरणसंचारकेण भिक्षुणा इदम् अधिकरणम् सस्थविरे सप्रातिमोक्षे उपनिक्षिप्तम्
; सस्थविरेण सप्रातिमोक्षेण
संघेन न शक्तं व्युपशमयितुम्
; तेनापि ममैवंनाम्न अधिकरणसंचारकेण भिक्षुणा
तद् अधिकरणं सूत्रविनयमातृकाधराणां भिक्षूनाम् उपनिक्षिप्तम्
; सूत्रविनयमातृकाधरैर्
अपि न शक्तम्
; तैर् अपि ममैवंनाम्नो अधिकरणसंचारकस्य भिक्षोर् उपनिक्षिप्तम्; सोऽहम् एवंनामा
अधिकरणसंचारको भिक्षुर् इदम् अधिकरणं स्थविरस्योपनिक्षिपामि
, व्युपशमयितु स्थविर
इदम् अधिकरणं यावत् पर्यन्तम् उपादाय
; स्थविरस्याहं भिक्षोर्
आसमुदाचारिकान् धर्मान् प्रज्ञापयामि
; स्थविरेण भिक्षुणा
अर्थिप्रत्यर्थिकानां भिक्षूणाम् अन्तिकान् न दन्तकाष्थोपसंहारः स्वीकर्तव्यो न गोमयोपसंहारो
नो पात्रकोपसंहारः न स्वाध्यायनिका न परिपृच्छानिका दातव्या नान्यत्र पुरतः पृष्ठतः
; इदं स्युर् वचनीया
आयुष्मन्त मा कलहो मा भण्डनम् मा विग्रहो मा विवादः
; तत् कस्य हेतोः? नास्त्य् आयुष्मन्तः
द्वयोर् विवदमानयोर् जयः
, अपि त्व् एकस्य जयः, एकस्य पराजयः; नास्ति द्वयोर्
युध्यमानयोर् जयः
, अपि त्व् एकस्य जयः, एकस्य पराजयः इति
स्थविरेण भिक्षुणा तद् अधिकरणम् व्युपशमयितव्यं धर्मेण विनयेन शास्तुः शासनेन
; स्थविरेण भिक्षुणा
तद् भिक्षवः संमुखविनय अधिकरणशमथो भवति
; एवं च पुनर् एकेषाम्
अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च
, यद् उत संमुखविनयेनाधिकरणशमथेन।

 

The
settlement of legal questions by the vote of the majority

 

कथं च भिक्षवो यद्भूयैषियशलाकाग्रहाणम्
अधिकरणशमथो भवति
? कथं चैकेषाम् अधिकरणानां दमश् च भवति शमश् च <व्युपशमश् च> पूर्ववत् स्थलस्थान्
उपादाय यावत् स्थविरः
; सचेत् स्थविरो भिक्षुस् तद् अधिकरणं न शक्नोति व्युपशमयितुं तेन तद्
अधिकरणं तस्यैवाधिकरणसंचारकस्य भिक्षोर् उपनिक्षेप्तव्यम्
; तेनापि तद् अधिकरणं
संघे उपनिक्षेप्तव्यं
; संघेन तद् अधिकरणं यद्भूयैषीयशलाकाग्रहणेनाधिकरणशमथेन व्युपशमयितव्यम्; पञ्चभिः कारणैर्
यद्भूयैशीकशलाकाग्रहणम् अधिकरणशमथः खरश् च भवति व्यादश् च प्रगाढश् च भेदाशङ्की चापरावृत्तप्रयोगी
; कथं च खरो भवति? अर्थिप्रत्यर्थिकैर् भिक्षुभिः खरं प्रगृहीतो
भवति
, एवं खरो भवति; कथं व्याडो भवति; कथं प्रगाढो भवति? अर्थिप्रत्यर्थिकैर्
भिक्षुभिर् प्रगाढं गृहीतो भवति
; एवं प्रगाढो भवति; कथं भेदाशङ्की
भवति
? चतुर्दशानां भेदकराणां वस्तूनाम् अन्यतरान्यतरत् भेदकरं वस्तु साधु च
सुष्ठु च सूद्गृहीतं भवति
, एवं भेदाशंकी भवति; कथम् अपरावृत्तप्रयोगी भवति? स्थलस्थान् उपादाय
यावत् स्थविरः
, एवम् अपरावृत्तप्रयोगी भवति; एभिः पञ्चभिर्
धर्मैः समन्वागतः यद्भूयैषीकशलाकाग्रहणशमथः खरश् च भवति व्याडश् च प्रगाढश् च भेदाशङ्की
चापरावृत्तप्रयोगी च
; ततः शलाकाचारको भिक्षुः संमन्तव्यः; पञ्चभिर् धर्मैः
समन्वागतः शलाकाचारको भिक्षुर् असंमतो न संमन्तव्यः संमतश् चावकाशयितव्यः
; कतमैः पञ्चभिः? छन्दाद् गच्छति
द्वेषान् मोहाद् भयाद् गच्छति चारिताचारितं च शलाकां न जानाति
; एभिः पञ्चभिर्
धर्मैः समन्वागतः शलाकाचारको भिक्षुर् असंमतो न संमन्तव्यः संमतश् चावकाशयितव्यः
; पञ्चभिस् तु धर्मैः
समन्वागतः शलाकाचारको भिक्षुर् असंमतः संमन्तव्यः संमतश् च नावकाशयितव्यः
; कतमैः पञ्चभिर्? न छन्दाद् गच्छति
न द्वेषान् मोहाद् भयाद् गच्छति चारिताचारितं च शलाकां जानाति
; एभिः पञ्चभिर्
धर्मैः समन्वागतः शलाकाचारको भिक्षुर् असंमतः संमन्तव्यः संमतश् च नावकाशयितव्यः।

 

The
four methods of votation

 

चत्वारि शलाकाचारणानि; कतमानि चत्वारि? छन्नं विवृतं सकर्णतुन्तुनकम्
सर्वसांघिकं च
; छन्नं शलाकाचारणं कतमत् ? यथापितत् शलाकाचारकस्य
भिक्षोर् एवं भवति
, अस्मिन् एवावासे प्रथूता स्थविरा भिक्षवो अधर्मवादिनः अल्पास् तु नवका
भिक्षवो धर्मवादिनः
; अहं चेद् विवृते शलाकां चारयेयं स्थानम् एतद् विद्यते यन् नवका भिक्षवः
स्थविराणां भिक्षूनाम् अनुविधीयमानाः प्रभूताम् अधर्मशलाकां गृह्णीयुः
; यन्न्व् अहम् छन्ने
शलाकां चारयेयम् इति स छन्ने शलाकां चारयति
; इदम् उच्यते छन्रम्
शलाकाचारणं
* विवृतं शलाकाचारणं कतमत्?> यथापितत् शलाकाचारकस्य
भिक्षोर् एवं भवति
, अस्मिन् आवासे प्रभूताः स्थविरा भिक्षवो धर्मवादिनः अल्पास् तु नवका
भिक्षवः अधर्मवादिनः
; अहं चेच् छन्ने शलाकां चारयेयं स्थानम् एतद् विद्यते यन् नवका भिक्षवः
अधर्मशलाकां गृह्णीयुः
; यन्न्व् अहम् विवृते शलाकां चारयेयम्; विवृते शलाकां
चारयतः स्थानम् एतद् विद्यते यन् नवका भिक्षवः स्थविराणां भिक्षूणाम् अनुविधीयमानाः
प्रभूताम् धर्मशलाकां गृह्णीयुः इति
; स विवृते शलाकां
चारयति
, इदम् उच्यते विवृतं शलाकाचारणम्; सकर्णतुन्तुकं
शलाकाचारणं कतमत्
? यथापितच् छलाकाचारको भिक्षुः कर्णमूले गत्वा तुन्तुनायते, आयुष्मन्न् उपाध्यायेन
ते धर्मशलाका गृहीता
, त्वम् अपि धर्मशतकेन संलप्तकेन संस्तुतकेन सप्रेमकेन ते धर्मशलाका गृहीता, त्वम् अपि धर्मशलाकां
गृहाण इति
; इदम् उच्यते <> कर्णयथापितच् छलाकाचारकस्य
भिक्षोर् एवम् भवति
, अस्मिन्न् आवासे प्रभूता भिक्षवो ग्लानाः, अहं चेद् <असंनिषण्णे> असंनिपतिते सर्वसंघे
शलाकां चारयेयं स्थानम् एतद् विद्यते प्रभूता भिक्षवः अधर्मशालाकां गृह्णीयुः न त्व्
अहं सर्वसंघे संनिषण्णे संनिपतिते शलाकां चारयेयम् इति स सर्वसंघे संनिषण्णे संनिपतिते
शलाकां चारयति
, इदम् उच्यते सर्वसांघिकं शलाकाचारणम्।

 

The
ten distributions of voting tickets that are legally valid

 

दश अधार्मिकाणि
शलाकाग्रहणानि
, दश धार्मिकानि; दश अधारमिकानि शलाकाग्रहणानि कतमानि? अधर्मेण शलाकां
गृह्णान्ति
, व्यग्राः शलाकां गृह्णान्ति, अल्पमात्रावरमात्रकेण
शलाकां गृह्णन्ति
; भेदाशङ्किनः शलाकां गृह्णन्ति; <>परावृत्तप्रयोगेन
शलाकां गृह्णन्ति
; न गतिंगतिसारथितया शलाकां गृह्णन्ति; अप्य् एव शलाकाग्रहणे
संघो भेत्स्यति इति शलाकां गृह्णन्ति
; अप्य् एव शलाकाग्रहणे
प्रभूततरा भिक्षवः अधर्मवादिनः भविष्यन्तीति शलाकां गृह्णन्ति
; जानन् शलाकाग्रहणेन
संघो भेत्स्यतीति शलाकां गृह्णन्ति
; अप्य् एव जानन्
शलाकाग्रहणेन प्रभूततरा भिक्षवस् अधर्मवादिनो भविष्यन्तीति शलाकां गृह्णन्ति।

 

*कथम् अधर्मेण शलाकां
गृह्णन्ति
? न विनयानुलोमेन शलाकां गृह्णन्ति, एवम् अधर्मेण शलाकां
गृह्णन्ति
; कथं व्यग्राः शलाकां गृह्णन्ति? न संघसामग्र्यां
शलाकां गृह्णन्ति
, एवम् व्यग्राः शलाकां गृह्णन्ति; कथम् अल्पमात्रावरमात्रकेण*शलाकां गृह्णन्ति? संवरकरणीयं देशनाकरणीयम्
इति विदित्वा शलाकां गृह्णन्ति
, एवम् अल्पमात्रावरमात्रकेण शलाकां गृह्णन्ति; कथं भेदाशङ्किनः
शलाकां गृह्णन्ति
? चतुर्दशानां भेदकराणां वस्तूनाम् अन्यतमान्यतमद् भेदकरं वस्तु साधु च
सुष्ठु च सूद्गृहीतं भवति
, एवं भेदाशंकिनः शलाकां गृह्णन्ति; कथं <>परावृत्तप्रयोगेन
शलाकां गृह्णन्ति
? न स्थलस्थान् उपादाय यावन् न स्थविरः; एवम् <>परावृत्तप्रयोगेन
शलाकां गृह्णन्ति
; कथं न गतिंगतिसारथितया शलाकां गृह्णन्ति? ये ते भिक्षवो
भवन्ति सूत्रधरा विनयधरा मातृकाधरास् तस्मिन् धर्मविनये गतय उच्यन्ते
; सारथयस् तान् अवलोक्य
शलाकाम् गृह्णन्ति
; एवं न गतिंगतिसारथितया शलाकां गृह्णन्ति; कथम् अप्य् एव
शलाकाग्रहणेन संघो भेत्स्यतीति शलाकां गृह्नन्ति
? अप्य् एव शलाकाग्रहणेन
संघो
<भेदं गमिष्यतीत्य् एवंचित्ताः शलाकां गृह्णन्ति; एवम् अप्य् एव
शलाकाग्रहनेण संघो
> भेत्स्यतीति शलाकां गृह्नन्ति; कथम् अप्य् एव
शलाकाग्रहणेन प्रभूततरा भिक्सवः अधर्मवादिनो भविष्यन्तीति शलाकां गृह्णन्ति
? अप्य् एव शलाकाग्रहणेन
प्रभूततरा भिक्षवः अधर्मं समादाय वर्तिष्यन्ते इति शलाकां गृह्णन्ति
; एवम् अप्य् एव
शलाकाग्रहणेन प्रभूततरा भिक्षवः अधर्मवादिनो भविष्यन्तीति शलाकां गृह्णन्ति
; कथं जानन् शलाकाग्रहणेन
संघो भेत्स्यति इति शलाकां गृह्णन्ति
; जानन् शलाकाग्रहणेन
संघो भेदं गमिष्यति इत्य् एवंचित्ता शलाकां गृह्णन्ति
; एवं जानन् शलाकाग्रहणेन
संघो भेत्स्यति इति शलाकां गृह्णन्ति
; कथं जानन् शलाकाग्रहणेन
प्रभूततरा भिक्षवस् अधर्मवादिन भविष्यन्ति इत् शलाकां गृह्णन्ति
; जानन् शलाकाग्रहणेन
प्रभूततारा भिक्षवः अधर्मं समादाय वर्तिष्यन्त इत्य् एवंचित्ताः शलाकां गृह्णन्ति
; एवं जानन् शलाकाग्रहणेन
प्रभूततरा भिक्षवो अधर्मवादिनो भविष्यन्ति इति शलाकां गृह्णन्ति
; इमानि दश <>धार्मिकाणि शलाकाग्रहणानि।

 

The
ten distributions of voting tickets that are legally vaild

 

दश धार्मिकानि शलाकाग्रहणानि
कतमानि
? धर्मशलाकां गृह्णन्ति, समग्राः शलाकां
गृणन्ति
, नाल्पमात्रावरमात्रकेण शलाकां गृह्णन्ति, न भेदाशङ्किनः
शलाकां गृह्णन्ति
, न परावृत्तप्रयोगेण शलाकां गृह्णन्ति, गतिं गतिसारथितया
शलाकां गृह्णन्ति
, नाप्य् एव <शलाकाग्रहणेन संघो भेत्स्यतीति शलाकां गृह्णन्ति; नाप्य् एव> शलाकाग्रहणेन प्रभूततरा
भिक्षवः अधर्मवादिनो भविष्यन्तीति शलाकां गृह्णन्ति
; <> जानं शलाकाग्रहणेन
संघो भेत्स्यतीति शलाकां गृह्णन्ति
*; नाप्य् एव जानं
छलाकाग्रहणेन प्रभूततरा भिक्षवः अधर्मवादिनो भविष्यन्तीति शलाकां गृह्णन्ति।

 

कथं धर्मेण शलाकां
गृह्णन्ति
? विनयानुलोमेन शलाकां गृह्णन्ति, एवं धर्मेण शलाकां
गृह्णन्ति
; कथं समग्राः शलाकां गृह्णन्ति? संघसामग्र्या शलाकां
गृह्णन्ति
; कथं नाल्पावरमात्रकेण शलाकां गृह्णन्ति ? न संवरकरणीयं न
देशनाकरणीयम् इति कृत्वा शलाकां गृह्णन्ति
; एवं नाल्पामात्रावरमात्रकेण
शलाकां गृह्णन्ति
; कथं न भेदाशङ्किनः शलाकां गृह्णन्ति? चतुर्दशानां भेदकराणां
वस्तूनाम् अन्यतमान्यतमद् भेदकरं वस्तु साधु च सुष्ठु च सूद्गृहीतं भवति
; एवं न भेदाशङ्किनः
शलाकां गृणन्ति
; कथं न परावृत्तप्रयोगेन शलाकां गृह्णन्ति? स्थलस्थान् उपादाय
यावत् स्थविरः
; एवं न परावृत्तप्रयोगेन शलाकां गृह्णन्ति; कथं गतिंगतिसारथितया
शलाकां गृह्णन्ति
? ये ते भिक्षवो भवन्ति सूत्रधरा विनयधराः मातृकाधरस् तस्मिन् धर्मविनये
गतय उच्यन्ते
; सारथयस् तान् अवलोक्य शलाकां गृह्णन्ति; एवं गतिंगतिसारथितयैव
शलाकां पृह्णन्ति
; कथम् नापि शलाकाग्रहणेन संघो <भेत्स्यतीति शलाकां
गृह्णन्ति
; नाप्य् एव शलाकाग्रहणेन संघो> भेदं गमिष्यतीत्य्
एवंचित्ताः शलाकां गृह्णन्ति
; एवम् नाप्य् एव शलाकाग्रहणेन संघो भेत्स्यतीति
शलाकां गृह्णन्ति
; कथं नाप्य् एव शलाकाग्रहणेन प्रभूततरा भिक्षवः अधर्मवादिनो भविष्यन्तीति
शलाकां गृह्णन्ति
; नाप्य् एव शलाकाग्रहणेन प्रभूततरा भिक्षावः अधर्मं समादाय वर्तिष्यन्ते
इति शलाकां गृह्णन्ति
; एवं नाप्य् एव शलाकाग्रहणेन प्रभूततरा भिक्षवः अधर्मवादिनो भविष्यन्तीति
शलाकां गृह्णन्ति
; कथं <> जानंश् शलाकाग्रहणेन संघो भेत्स्यतीति शलाकां गृह्णन्ति; न जानन् शलाकाग्रहणेन
संघो भेदं गमिष्यतीति एवंचित्ता शलाकां गृह्णन्ति
; एवं न जानन् <शलाकाग्रहणेन संघो
भेत्स्यतीति शलकां गृह्णन्ति
; कथं न जानन्> शलाकाग्रहणेन प्रभूततरा
भिक्षवः शलाकाग्रहणेन अधर्मवादिनो भविष्यन्तीति शलाकां गृह्णन्ति
; न जानन् शलाकाग्रहणेन
प्रभूततरा भिक्षवः अधर्मं समादाय वर्तिष्यन्ते इत्य् एवंचित्ता शलाकां गृह्णन्ति
; एवं <> जानन् शलाकाग्रहणेन
प्रभूततरा भिक्षवस् अधर्मवादिनो भविष्यन्तीति शलाकां गृह्णन्ति
; इमानि दश धार्मिकाणि
शलाकाग्रहणानि
; शलाचारकस्य भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयामि।

 

Methods
of votation

 

शलाकाचारकेण भिक्षुणा
द्विविधा
*शलाका उपस्थापयितव्या, धर्मशलाका अधर्मशलाकाश्
; धर्मशलाका अजिह्मा अवक्रा अकुटिल <सुवर्णा> सुखसंस्पर्शाश्
; अधर्मशलाका जिह्मा वक्रा कुटिला दुर्वर्णा दुःखसंस्पर्शाश् च; ततः शलाकाचारकेण
भिक्षुना दक्षिणेन पाणिना धर्मशलाका गृहीत्वा वामेन चाधर्मशलाका संघस्थविरस्य पुरस्तात्
स्थित्वा धर्मशलाकानां वर्णो भाषितव्यः
, अधर्मशलाकानां
चावर्णः
, स्थविर इमा धर्मशलाका अजिह्मा अवक्रा अकुटिला सुवर्णा सुखसंस्पर्शाश्
च गृहाण
, इमास् त्व् अधर्मशलाका जिह्मा वक्रा कुटिला दुर्वर्णा दुःखसंस्पर्शाश्
च गृहाण
; <यदि> येनाधर्मशलाका तेन हस्तं <प्र>सारयति, प्रथमायां वाचि
न दातव्या
, द्वितीयायां न दातव्या, तृतीयायां दातव्या; संघस्थविरेण विनयातिसारिनी
दुष्कृता आपत्तिः देशयितव्या
; एवं यावत् संघनवकस्य पुरतः स्थित्वा धर्मशलाकानां
वर्णो भषितव्यः अधर्मशलाकानां चावर्णः
, इमा धर्मशलाका
अजिह्मा अवक्रा
<अकुटिला> सुवर्णा सुखसंस्पर्शा च गृहाण, इमास् त्व् अधर्मशलाका
जिह्मा वक्रा कुटिला दुर्वर्णा दुःसंस्पर्शा गृहाण
; यदि येन अधर्मशलाकास्
<तेन> हस्तं प्रसारयति प्रथमायां वाचि न दातव्या, द्वितीयायां न
दातव्या
, <तृतीयायां दातव्या>; एवं संघनवकेन विनयातिसारिणी दुष्कृता आपत्तिर्
देशयितव्या
; यदि धर्मशलाका न्यूना भवति, अज्ञातकौण्डिन्यस्य
शलाका ग्रहीतव्या
; यद्य् एकशलाका अधिका भवति एवं <तद् अधिकरणं> व्युपशान्तं यदुत
धर्मेण
; एवं तस्मिन् अधिकरणे व्युपशान्ते सचेत् कश्चित् खोटयति आपद्यते दुष्कृताम्; एवं यद्य् एकाप्य्
अधर्मशलाका अधिका भवति एवम् अपि तद् अधिकरणम् व्युपशान्तं यदुत अधर्मेण
; एवं तस्मिन्न्
अधिकरणे व्युपशान्ते कश्चित् खोटयति आपद्यते दुष्कृताम्
; एवं यद्भूयैषिकशलाकाग्रहणाधिकरणशमथो
भवति
; <एवम्> इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत यद्भूयैषिकशलाकाग्रहणेन
अधिकरणशमथेन।

 

The
legal questions arising from
विवाद and अनववाद can be
settled in two and three ways respectively. The
स्मृतिविनय

 

विवादाधिकरनं भिक्षवो
द्वाभ्याम् अधिकरणशमथाभ्यां दमयितव्यं शमयितव्यं व्युपशमयितव्यं
, संमुखविनयेन यद्भूयैषिकशलाकाग्रहणेन
; अनववादाधिकरणं भिक्षवस् त्रिभिर् अधिकरणशमथैर् धर्मैर् दमयितव्यं शमयितव्यं
व्युपशमयितव्यम्
; कथमैस् त्रिभिः ? संमुखविनयेन स्मृतिविनयेन अमूढविनयेन; कथं च भिक्षवः
संमुखविनयेनाधिकरणशमथो भवति
? कथं च पुनर् इहैकेशाम् अधिकरणानां दमश्
च भवति शमश् च व्युपशमश् च यदुत संमुखविनयेनाधिकरणशमथेन
? पूर्ववत् स्थलस्थम्
उपादाय यावत् स्थविरः
; एवं हि भिक्षवः संमुखविनय* अधिकरणशमथो भवति; एवम् पुनर् इहैकेषाम्
अधिकरणशमथानां दमश् च भवति
<शमश् च> व्युपशमश् च यदुत
संमुखविनयेनाधिकरण
<शमथेन>; कथं च भिक्षवः स्मृतिविनय अधिकरणशमथो भवति? कथं च पुनस् इहैकेषाम्
अधिकरणशमथानां दमश् च भवति शमश् च व्युपशमश् च यद् उत स्मृतिविनयेनाधिकरण
<शमथेन>? यथापितद् आयुष्मान्
द्रव्यो मल्लपुत्रः मित्रया भिक्षुण्या अभूतेनाभ्याख्यातः
; तम् एनं भिक्षवस्
तेन वस्तुना चोदयन्ति
; स तेन वस्तुना <चोद्यमानो> जिह्रेति; एतत् प्रकरणं भिक्षवो
भगवत आरोचयन्ति
; भगवान् आह: ददत भिक्षवो द्रव्यस्य मल्लपुत्रस्य स्मृतिविनयम् इति पुनर् अन्योऽप्य्
एवंजातीय एवं च पुनर् दातव्यः
; शयनासन<प्र>ज्ञप्तिं कृत्वा
गण्डीम् आकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते द्रव्येण
मल्लपुत्रेण एकांशम् उत्तरासङ्गं कृत्वा उत्कुटुकेन स्थित्वा अञ्जलिं प्रगृह्य इदं
स्याद् वेदनीयम्
: शृणोतु भदन्ताः संघः, अहं द्रव्यो मल्लपुत्रो
मित्रया भिक्षुण्या अभूतेनाभ्याख्यातः
; तं मां भिक्षवस्
तेन वस्तुना चोदयन्ति
; सोऽहं तेन वस्तुना चोद्यमानः संघात् स्मृतिविनयं याचे; ददातु भदन्ताः
संघः मम द्रव्यस्य मलपुत्रस्य स्मृतिविनयम् अनुकम्पाम् उपादाय
; एवं द्विर् अप्य्
एवं त्रिर् अपि
; ततः पश्चाद् एकेन भिक्षुना ज्ञप्तिं कृत्वा कर्म कर्तव्यम्; शृणोतु भदन्ताः
संघः
, अयं द्रव्यो मल्लपुत्रो मित्रया भिक्षुण्या अभूतेनाभ्याख्यातः; तम् एनं भिक्षवस्
तेन वस्तुना चोदयन्ति
; सोऽयं तेन वस्तुना चोद्यमानः संघान् स्मृतिविनयं याचते; सचेत् संघस्य प्राप्तकालं
क्षमेतानुजानीयात् संघो यत् संघः द्रव्यस्य मल्लपुत्रस्य स्मृतिविनयं दद्यात् इत्य्
एषा ज्ञप्तिः
; कर्म दर्तव्यम्; शृणोतु भदन्ताः संघः, अयं द्रव्यो मल्लपुत्रो
मित्रया भिक्षुण्या अभूतेनाभ्याख्यातः
; तम् एनं भिक्षवस्
तेन वस्तुना चोदयन्ति
; सोऽयं तेन वस्तुना चोद्यमानः संघात् स्मृतिविनयं याचते; तत् संघो द्रव्यस्य
मल्लपुत्रस्य स्मृतिविनयं ददाति
; येषाम् आयुष्मतां क्षमते द्रव्यस्य मल्लपुत्रस्य
स्मृतिविनयं दातुम् ते तूष्णीम्
; न क्षमते, भाषन्ताम्; <इयम् प्रथमा कर्मवाचना; एवं द्वितीया तृतीया
कर्मवाचना कर्तव्या
>; दत्तः संघेन द्रव्यस्य मल्लपुत्रस्य स्मृतिविनयः; क्षान्तम् अनुज्ञातं
संघे
<> यस्मात् तूष्णीम्; एवम् एतद् धारयामि।

 

Three
forms of
स्मृतिविनय not legally valid

 

त्रीण्य् अधार्मिकाणि
स्मृतिविनयदानानि
, त्रीणि धार्मिकाणि; त्रीण्य् अधार्मिकाणि स्मृतिविनयादानानि
<कतमानि?> यथापितद् भिक्षुः पाराजिकाम् आपत्तिम् आपन्नः, तम् एनं भिक्षवस्
तेन वस्तुना चोदयन्ति
, स तेन वस्तुना चोद्यमानः संघात् स्मृतिविनयं याचते, तस्य संघः स्मृतिविनयं
दद्यात्
; अधार्मिकं स्मृतिविनयदानम्; तत् कस्य केतोः? नाशनार्हः स; यथापितद् भिक्षुः
संघावशेषां पायन्तिकां प्रतिदेशनिकां दुष्कृताम् आपत्तिम् अपन्नः तम्
*एनं भिक्षवस् तेन
वस्तुना चोदयन्ति
; स तेन वस्तुणा चोद्यमानः संघात् स्मृतिविनयं याचते; तस्य संघः स्मृतिविनयं
ददाति
, अधार्मिकं स्मृतिविनयदानम्; तत् कस्य हेतोः
? देशनार्हः स; यथापितत् सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन
बह्व् अश्रामणकम् अनानुलोमिकम् आचरितम् भाषितं पराक्रान्तम्
, लाला वाहिता, अक्षिणी विश्पारिते, मुखं विभण्डितम्, असुप्तेन सुप्त
इति मतम्
, परैर् अप्रव्याहृतेन प्रव्याहृत इति मतम्; तेन चापरेण समयेन
अवचित्तं प्रतिलब्धम्
; तम् एनं भिक्षवस् तेन वस्तुना चोदयन्ति, <स तेन वस्तुना चोद्यमातम्
एनं भिक्षवस् तेन वस्तुना चोदयमानः संघात् स्मृतिविनयं याचते
>; संघः स्मृतिविनयं
ददाति
; अधार्मिकम् स्मृतिविनयदानम्; तत् कस्य हेतोः? अमूढविनयार्हः
; यथापितद् वस्तुको भिक्षुः संघमध्ये आपत्तिम् अवजानाति, अवज्ञाय प्रतिजानाति, प्रतिज्ञाय पुनर्
अप्य् अवजानाति
, <तस्य भिक्षवः स्मृतिविनयं ददति, अधार्मिकं स्मृतिविनयदानम्; तत् कस्य हेतोर्?> तत्स्वभावैषीयार्हः
; इतीमानि त्रीण्य् अधार्मिकानि स्मृतिविनयदानानि।

 

Three
forms of
स्मृतिविनय legally valid

 

<त्रीणि धार्मिकाणि
स्मृतिविनयदानानि कतमानि
?> यथापितद् द्रव्यो मल्लपुत्रो मित्रया भिक्षुण्या अभूतेनाभ्याख्यातः; तम् एनं भिक्षवस्
तेन वस्तुना चोदयन्ति
; स तेन वस्तुना चोदयमानः संघात् स्मृतिविनयं याचते; तस्य संघः स्मृतिविनयं
ददाति
; धार्मिकं स्मृतिविनयदानम्; यथापितद् भिक्षुर्
अन्याम् एवापत्तिम् आपन्नो भवति
; तम् एनं भिक्षवोऽन्ये<> वस्तुना चोदयन्ति; स तेन वस्तुना
चोद्यमानः संघात् स्मृतिविनयं याचते
; तस्य संघः स्मृतिविनयं
ददाति
; धार्मिकं स्मृतिविनयदानम्; यथापितद् भिक्षुर्
आपत्तिम् आपन्नो भवति
; सा तेन भिक्षोः पुरस्ताद् देशिता भवति प्रतिकृता वा; तम् एनम् भिक्षवस्
तेन वस्तुना चोदयन्ति
, स तेन वस्तुना चोद्यमानः संघात् स्मृतिविनयं याचते, तस्य संघः स्मृतिविनयं
ददाति
, धार्मिकं स्मृतिविनयदानम्; इतीमानि त्रीणि
धार्मिकानि स्मृतिविनयदानानि
; एवं हि भिक्षवः स्मृतिविनय अधिकरणशमथो भवति; एवम् इहैकेषाम्
अधिकरणानां दमश् च भवति
<शमश् च> व्युपशमश् च यदुत स्मृतिविनयेनाधिकरणशमथेन।

 

The अमूढविनय

 

कथं च भिक्षवः अमूढविनय
अधिकरणशमथो भवति
? कथं च पुनर् इहैकेषाम् अधिकरणानाम् दमश् च भवति शमश् च व्युपशमश् च यदुतामूढविनयेनाधिकरणशमथेन
? यथापितत् सेकतेन भिक्षुणा नग्नेनोन्मत्त<केन क्षिप्त>चित्तेन वेदनाभिनुन्नेन
बह्व् अश्रामणकम् अनानुलोमिकम् आचरितं भाषितम् पराक्रान्तम्
, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विधण्डितम्, असुप्तेन सुप्त
इति
<मतम्,> परैर् अप्रव्याहृतेन प्रव्याहृत इति <मतम्;> तेन चापरेण समयेन
स्वचित्तं प्रतिलभम्
; तम् एनं भिक्षवस् तेन वस्तुना <चोदयन्ति; स तेन वस्तुना> चोद्यमानः संघाद्
अमूढविनयं याचते
; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह*: <दद>त यूयं भिक्षवः
सेकतस्य भिक्षोर् अमूधविनयम् इति
; यो वा पुनर् अन्योऽप्य् एवंजातीयः एवं पुनर्
दातव्यः
; शयनासन<प्र>ज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्ठवाचिकया समनुयुज्य सर्वसंघे संनिषण्णे
संनिपतिते सेकतेन भिक्षुणा एकांशम् उत्तरासङ्गं कृत्वा यथावृद्धिकया सामीचीं कृत्वा
उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्
: शृणोतु भदन्ताः
संघो मया सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन बह्व् अश्रामणकम्
<अनानुलोमिकम्> आचरितम् भाषितं पराक्रान्तम्, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विभण्डितम्, असुप्तेन सुप्त
इति मतम्
, परैर् अप्रव्याहृतेन प्रव्याहृत इति मतम्; तेन च मयापरेण
समयेन स्वचित्तं प्रतिलब्धम्
; तं मां भिक्षवस् तेन वस्तुना चोदयन्ति; सोऽहं तेन वस्तुना
चोद्यमानः संघाद् अमूढविनयम् अनुकम्पाम् उपादाय
; एवं द्विर् अप्य्
एवं त्रिर् अपि
; ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्; शृणोतु भदन्ताः
संघः
, अनेन सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन
बह्व् अश्रा मणकम् अनानुलोमिकम् आचरितम् भाषितं पराक्रान्तम्
, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विभण्डितम्, असुप्तेन सुप्त
इति मतम्
, परैर् अप्रव्याहृतेन प्रव्याहृत इति मतम्; अनेन चापरेण समयेन
स्वचित्तं प्रतिलब्धम्
; तम् एनं भिक्षवस् तेन वस्तुना चोदयन्ति; सोऽयम् तेन वस्तुना
चोद्यमानः संघाद् अमूढविनयं याचते
; सचेत् संघस्य प्राप्तकालं
क्षमेतानुजानीयात् संघो यत् संघः सेकतस्य भिक्षोर् अमूढविनयम् दद्याद् इत्य् एषा ज्ञप्तिः
; कर्म कर्तव्यम्; शृणोतु भदन्ताः
संघः
, अनेन सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन
बह्व् अश्रामणकम् अनानुलोमिकम् आचरितम्
, भाषितं पराक्रान्तम्, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं च विभण्डितम्, असुप्तेन सुप्त
इति मतम्
, परैर् अप्रव्याहृतेन प्रव्याहृत इति मतम्; अनेन चापरेण समयेन
स्वचित्तं प्रतिलब्धम्
; तम् एनं भिक्षवस् तेन वस्तुना चोदयन्ति; सोऽयं तेन वस्तुना
चोद्यमानः संघाद् अमूढविनयं याचते
; तत् संघः सेकतस्य
भिक्षोर् अमूढविनयं ददाति
; येषाम् आयुष्मतां क्षमते सेकतस्य भिक्षोर् अमूढविनयं दातुम्, ते तूष्णीम्, न क्षमते, भाषन्ताम्; <इयं प्रथमा कर्मवाचना; एवं द्वितीय तृतीया
कर्मवाचना कर्तव्या
;> दत्तः संघेन सेकतस्य द्वितीय तृतीया कर्मवाचना कर्तव्या;> दत्तः संघेन सेकतस्य
भिक्षोर् अमूढविनयः
; क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम्; एवम् एतद् धारयामि।

 

Two
forms of
अमूढविनय respectively not legally valid and legally valid

 

एकम् अधार्मिकं
अमूढविनयदानम्
, एकं धार्मिकम्; एकम् अधार्मिकं कतमत् ? यथापितद् भिक्षुर्
अनुन्मत्तः सन्न् उन्मत्तोऽस्मीति प्रतिजानीते अक्षिप्तचित्तः क्षिप्तचित्त इति
, तस्य संघः अमूढविनयं
ददाति
, अधार्मिकम् * अमूढविनयदानम्; इदम् एकम् अधार्मिकम्; धार्मिकं कतमत्
? यथापितत् सेकतेन भिक्षुणा नग्नेनोन्मत्तकेन क्षिप्तचित्तेन वेदनाभिनुन्नेन
बह्व् अश्रामणकम् अनानुलोमिकम् आचरितम् भाशितं पराक्रान्तम्
, लाला वाहिता, अक्षिणी संपरिवर्तिते, मुखं विभण्डितम्, असुप्ते<> सुप्त इति मतम्, परैर् अप्रव्याहृतेन
<प्रव्याहृत> इति मतम्; तेन चापरेण समयेन स्वचित्तं प्रतिलब्धम्; तम् एनं भिक्षवस्
तेन वस्तुना चोदयन्ति
; सोऽयं तेन वस्तुना चोद्यमानः संघद् अमूढविनयं याचते; तस्य संघ अमूढविनयं
ददाति
; धार्मिकम् अमूधविनयदानम्; इदं एकम् धार्मिकम्; एवं हि भिक्षवः
अमूढविनयः अधिकरणशमथो भवति
; एवं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च; अनववादाधिकरणं
भिक्षवः एभिस् त्रिभिर् अधिकरणशमथैर् धर्मैर् दमयितव्यं शमयितव्यं व्युपशमयितव्यम्
, यदुत संमुखविनयेन
स्मृतिविनयेन अमूढविनयेन च।

 

The
legal questions arising from
आपत्ति can be settled in four ways.
The

प्रतिज्ञाकारक

 

आपत्त्यधिकरणं भिक्षवो
चतुर्भिर् अधिकरणशमथैर् धर्मैर् दमयितव्यम् शमयितव्यं व्युपशमयितव्यम्
; कतमैश् चतुर्भिर्
? प्रतिज्ञाकारकेन संमुखविनयेन तत्स्वभावैषीयेण तृणाप्रस्तारकेण च; कथं च भिक्षवः
प्रतिज्ञाकारकः अधिकरणशमथो भवति
? कथं च पुनर् इहैकेषाम् अधिकरणानां दमश्
च भवति शमश् च व्युपशमश् च यदुत प्रतिज्ञाकारकेण अधिकरणशमथेन
? यथापितद् भिक्षुर्
आपत्तिम् आपन्नो भवति
, स तेन <वस्तुना> चोदितो वा <अचोदित वा> स्मारितो वा अस्मारितो वा भिक्षोः पुरतो स्थित्वा एवम् आह: समन्वाहरायुष्मन्न्
अहम् एवं नामा एवंरूपां चापत्तिम् आपन्नः
; ताम् अहम् आयुष्मतः
पुरस्ताद् देशयामि आविष्करोमि
; देशयित्वा मे आविष्कृत्य स्पर्शो भवति नादेशयित्वा
नानाविष्कृत्य
; तेन वक्तव्यं पश्यसि आपत्तिम् इति; तेनापि वक्तव्यं
पश्यामि इति
; पूर्वकेण वक्तव्यम् आयत्याम् संवरम् आपत्स्यसे इति; पश्चिमकेन वक्तव्यम्
आपत्स्य इति
; इति इयं प्र<ति>ज्ञा।

 

Ten
and ten ways of applying
प्रतिज्ञाकारक रेस्पेच्तिवेल्य् नोत् लेगल्ल्य् वलिद् अन्द् लेगल्ल्य्
वलिद्

 

दसाधार्मिकाणि प्रतिज्ञादानानि, दश धार्मिकाणि; दशाधार्मिकाणि
कतमानि
? यथापितद् भिक्षुः पाराजिकाम् आपत्तिम् आपन्नः अनापन्नोऽस्मीति प्रतिजानाति, तस्य संघः प्रतिज्ञां
कारयति
, अधार्मिकं प्रतिज्ञादानम्; <संघावशेषाम् पायन्तिकां
प्रतिदेशनिकां दुष्कृताम् आपत्तिम् आपन्नः अनापन्नो।स्मीति प्रतिजानाति
, तस्य संघः प्रतिज्ञं
कारयति
, अधार्मिकं प्रतिज्ञदानम्>; यथापितद् भिक्षुर्
पारजिकाम् आपत्तिम् अनापन्नो आपन्नोऽस्मीति प्रतिजानाति
, तस्य संघः प्रतिज्ञां
कारयति
, अधार्मिकं प्रतिज्ञादानम्; संघावशेषां पायन्तिकां
प्रतिदेशनिकां दुष्कृताम् आपत्तिम् अनापन्न आपन्नो स्मीति प्रतिजानाति
, तस्य संघः प्रतिज्ञां
कारयति
, अधार्मिकं प्रतिज्ञादानम्; इमानि दशाधार्मिकानि
प्रतिज्ञादानानि
; दश धार्मिकाणि प्रतिज्ञादानानि कतमानि? यथापितद् भिक्षुः
पाराजिकाम् आपत्तिम् आपन्नः आपन्नोऽस्मीति
* प्रतिजानाति, तस्य संघः प्रतिज्ञां
कारयति
, धार्मिकं प्रतिज्ञादानम्; संघावशेषां पायन्तिकां
प्रतिदेशनिकां दुष्कृताम् आपत्तिम् आपन्नः आपन्नोऽस्मीति प्रतिजानाति
, तस्य संघः प्रतिज्ञां
कारयति
, धार्मिकं प्रतिज्ञादानम्; यथापितद् भिक्षुः
पारजिकाम् आपत्तिम् अनापन्नः अनापन्नोऽस्मीति प्रतिजानाति तस्य संघः प्रतिज्ञां कारयति
, धार्मिकं प्रतिज्ञादानम्; संघावशेषां पायन्तिकां
प्रतिदेशनिकां दुस्कृताम् आपत्तिम् अनापन्नः अनापन्नोऽस्मीति प्रतिजानाति तस्य संघः
प्रतिज्ञां कारयति
, धार्मिकं प्रतिज्ञादानम्; इमानि दश धार्मिकाणि
प्रतिज्ञा दानानि
; एवं हि भिक्षवः प्रतिज्ञाकारक अधिकरणशमथो भवति; एवम् इहैकेषाम्
अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत प्रतिज्ञाकारकेण।

 

The
Buddha absolves the monk
कालो मृगारपुत्र from a false accusation

 

बुद्धो भगवान् श्रावस्त्याम्
विहरति जेतवने अनाथपिण्डदस्यारामे
; तेन खलु समयेनायुष्मान्
कालो मृगारपुत्र वैशाल्याम् विहरति मर्कताह्रदतीरे कूटागारशालायाम्
; तम् आगम्य वैशालिका
लिच्छवयोऽत्यर्थं बुद्धधर्मसंघेषु कारान् कुर्वन्ति
; वैशालिका भिक्षवः
संलक्षयन्ति
: आयुष्मान् कालो मृगारपुत्रोऽन्यत्रैव जातः, अन्यत्रैव वृद्धिं
गतः
, श्रावस्त्यां जातः; वैशालिकाश् च लिच्छवयोऽत्यर्थम् अभिप्रसन्नाः; तदास्योत्क्षेपणीयं
कर्म कर्तव्यं येनास्य वैशालका लिच्छवयो
<> प्रसादं प्रवेदयत
इति तस्यावतारप्रेक्षिणः संवृत्ताः
; यावद् अन्यतमेन
गृहपतिना बुद्धप्रमुखो भिक्षुसंघो जेन्ताकस्नात्रेणोपनिमन्त्रितः
; भिक्षवः कन्तारिकायां
चीवराणि स्थापयित्वा स्नातुम् आरब्धाः
; आयुष्मान्स् तु
कालो मृगारपुत्रः संप्रजानन्न् एकान्ते चीवरकाणि स्थापयित्वा स्नातुम् आरब्धः
; अपरेणापि भिक्षुणा
तस्मिन्न् एव प्रदेशे चीवरकाणि स्थापितानि
; ततः आयुष्मान्
कालो मृगारपुत्रः
<स्नात्वा> तान्य् एव मादीयानि चीवराणि <इति> कृत्वा तस्य भिक्षोः
सन्तकानि चीवराणि प्रावृत्य प्रक्रान्तः
; यावद् असौ भिक्षुः
समुत्थितो न पश्यति स्वकानि चीवराणि
; स भिक्षून् प्रष्टुम्
आरब्धः
: आयुष्मन्तः, केन मदीयानि चीवरानि अपहृतानि ? यावत् तस्मिन्
प्रदेशे आयुष्मतः कालस्य मृगारपुत्रस्य सार्धंविहारी स्थितः
; तेन श्रुतम्; स कथयति: आयुष्मता उपाध्यायेनास्मिन्
प्रदेशे चीवरकाणि स्थापितानि
; तेन व्यत्यासेन नीतानि भवेयुः; गच्छामि तावद्
उपाध्यायं पश्यामीति
; स उपाध्यायस्य सकाशं गतः; कथयति: उपाध्याय सन्त*कानि त्वया चीवराण्य्
आनीतानि
? स कथयति, पुत्र मम सन्तकानि, कस्यान्य<स्य> सन्तकानि? उपाध्याय अमुकेन
भिक्षुना तस्मिन्न् एव प्रदेशे चीवरकाणि स्थापितानि
; सोऽवध्यायति; पुत्र यद्य् एवम्
आनय
, तानि चीवराणि पश्यामि इति; स तान्य् आदायागतः; उपाध्याय इमानि
तानि चीवराणि प्रत्यभिजानीहि
? तेन प्रत्यभिज्ञातानि; पुत्र व्यत्यासेन
मयानीताणि प्रत्यभिजानीहि
? तेन प्रत्यभिज्ञातानि; पुत्र व्यत्यासेन
मयानीतानि
, नय तस्य भिक्षोर् इमानि तानि; स तान्य् आदाय
तस्य भिक्षोः सकाशं गतः कथयति
: आयुष्मन् इमानि तानि चीवराण्य् उपाध्यायेन
व्यत्यासेन नीतानि
; स कथयति: पाराजिकाम् एवापत्तिम् अपन्नः स्तेयचित्तेन तेन नीतानि; ततस् तैर् अवतारप्रेक्षिभिर्
भिक्षुभिस् तस्याचोदयित्वा अस्मारयित्वा बलाद् उत्क्षेपनीयं कर्म कृतम्
; आयुष्मान् कालो
मृगारपुत्रः संलक्षयति
: दुःखं ब्राह्मणगृहपतयः प्रसाद्यन्ते, सुखम् अप्रसाद्यन्ते; यदि स्थास्यामि
नियतं वैशालका लिच्छवयो
<> प्रसादं प्रवेदयिष्यन्ते; सर्वथा श्रावस्तीम्
एव गमिष्यामि इति स न व्यवलोक्य वैशलकान् लिच्छवीन् समादाय पात्रचीवरं येन श्रावस्ती
तेन चारिकां प्रक्रान्तः
; अनुपूर्वेण चरन् श्रावस्तीम् अनुप्राप्तः; स भिक्षुभिर् दृष्टः; उक्तः: स्वागतम् स्वागतम्
आयुष्मन् काल प्रीता वयं त्वद्दर्शनेन नो त्व् आगमनेन
; किं कारणम्? यस्मात् त्वाम्
आगम्य वैशालका लिच्छवयः बुद्धेऽभिप्रसन्ना
<धर्मे> संघेऽभिप्रसन्ना
अत्यर्थं बुद्धधर्मसंघेषु कारान् कुर्वन्ति इति
; स कथयति: अस्त्य् एतद् एवम्, अपि तु वैशालिकैर्
भिक्षुभिर् अचोदयित्वा अस्मारयित्वा बलाद् उत्क्षेपणीयं कर्म कृतम् इति
; एतत् प्रकरणं भिक्षवो
भगवत आरोचयन्ति
; भगवान् आह: तिष्ठ भिक्षु अहं त्वां धर्मेण <ओसारयामि; ततो भगवता धर्मेण> ओसारितः; वैशालिकानां भिक्षूणाम्
विप्रतिसारो जातः
, न शोभनम् अस्माभिः कृतम् यत् कालस्य भिक्षोर् अदूषिणोऽनपकारिणो बलाद्
उत्क्षेपणीयं कर्म ऱ्तितम् इति
; ते समादाय पात्रचीवरं येन श्रावस्ती तेन
चारिकाम् प्रक्रान्ताः
; तैर् अन्तर्मार्गैर् भिक्षुर् दृष्ट उक्तश् च, कुतस् त्वम् आयुष्मन्न्
आगच्छसि
? स्रावस्त्याः; दृष्टस् त्वया कालो मृगारपुत्रः ? दृष्टः, किं तस्य ? अस्माभिः तस्यादूषिणोऽनपकारिणः
अचोदयित्वास्मारयित्वा बलाद् उत्क्षेपणीयं कर्म कृतम्
; ओसारितम्; केन? भगवता; तत्र एक एवम् आहुर्
अनोसारितम् दूरोसारितम्
, यस्मात् तस्यास्माभिर् उत्क्षेपणीयं कर्म कृतम् अस्मास्व् असंमुखीभूतेषु
तस्यौसारणं न युक्तम्
* इति; अपरे त्व् एवम् आहुः: धर्मस्वामी भगवान्, धर्मस्वामी सुगतः, यस्यौसारितः स्वोसारितः; ते अनुपूर्वेण
श्रावस्तीम् अनुप्राप्ताः पत्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवंस् तेनोपसंक्रान्ताः
; उपसंक्रम्य भगवतः
पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः
; एकान्तनिषण्णा
वैशालिका भिक्षवो भगवन्तम् इदम् अवोचन्
: अस्माभिर् भदन्त
बालैर् मूढैर् अव्यक्तैर् अकुशलैः कालस्य मृगारपुत्रस्यादूषिणोऽनपकारिणः अचोदयित्वा
अस्मारयित्वा बलाद् उत्क्षेपणीयं कर्म कृतम्
; ते वयं <वि>प्रतिसारजाताः कालं
मृगारपुत्रं क्षमयितुम् इहागताः इति
; भगवान् आह: ओसारितं भिक्षवस्
तद् अधिकरणं तथागतेन यदुत धर्मेण
; श्रुतम् अस्माभिर् भदन्त भिक्षोः सकाशाद्
अन्तर्मार्गेण ओसारितं भगवता यदुत धर्मेण इति
; अपि त्व् <एके> अस्माकम् एवम्
आहुः
: अनोसारितं दूरोसारितम्, यस्माद् वयं तत्र
न संमुखीभूता इति
; अपरे त्व् एवम् आहुः: धर्मस्वामी भगवान्
धर्मस्वामी सुगतः यस्यौसारितं स्वोसारितम् इति।

 

Various
forms of accusations

 

भगवान् संलक्षयति: आकांक्षन्ति बत
मे श्रावकाः उत्पन्नोत्पन्नान्य् अधिकरणानि व्युपशमयितुम् यदुत धर्मेण विनयेन शास्तुः
शासनेन
; इति विदित्वा भिक्षून् आमन्त्रयते स्म: कथं भिक्षवः संमुखविनय
अधिकरणशमथो भवति
? कथं च पुनर् इहैकेषाम् अधिकरणानाम् दमश् च भवति शमश् च व्युपशमश् च यदुत
संमुखविनयेनाधिकरणशमथेन
? इह भिक्षवः 1) पुद्गलः पुद्गलं चोदयति धर्मेण विनयेन संमुखं चतुरक्षम्; 2) द्वौ संबहुलान्
संघं चोदयतः धर्मेण विनयेन संमुखं चतुरक्षं
; 3) द्वौ पुद्गलौ पुद्गलं
चोदयतः धर्मेण विनयेन संमुखं चतुरक्षं
; 4) द्वौ पुद्गलौ चोदयतः
<द्वौ> संबहुलान् संघं धर्मेण विनयेन <संमुखं> चतुरक्षम्; 5) संबहुलाः पुद्गलाः
पुद्गलं चोदयन्ति धर्मेण विनयेन संमुखं चतुरक्षं
; 6) संबहुलाः पुद्गलाः
<द्वौ संबहुलान्> संघं चोदयन्ति धर्मेण विनयेन संमुखं चतुरक्षम्; 7) संघः पुद्गलं चोदयति
धर्मेण विनयेन संमुखं चतुरक्षम्
; 8) <सङ्घो> द्वौ संबहुलान्
संघं चोदयति धर्मेण विनयेन चतुरक्षम्।

 

Sixteen
and sixteen ways of applying
संमुखविनय respectively not legally valid
and legally valid

 

षोडश <>धार्मिकानि संमुखविनयदानानि; षोडश धार्मिकाणि; षोडशाधार्मिकाणि
कतमानि
? 1) अधार्मिकः पुद्गलः धार्मिकः पुद्गलः ; 2) पुद्गलः अधार्मिकः
द्वौ पुद्गलौ धार्मिकौ
; 3) पुद्गलः अधार्मिकः संबहुलाः पुद्गलाः धार्मिकाः; 4) <सङ्घो>ऽधार्मिकः पुद्गलो
धार्मिकः
; 5) द्वौ पुद्गलौ अधार्मिकौ धार्मिकः पुद्गलः; 6) द्वौ पुद्गलौ अधार्मिकौ
द्वौ पुद्गलौ धार्मिकौ
; 7) द्वौ पुद्गलौ अधार्मिकौ संबहुलाः पुद्गला अधार्मिकाः; 8) द्वौ पुद्गलौ* अधार्मिकौ संघः
धार्मिकः
; 9) संबहुलाः पुद्गलाः अधार्मिकः पुद्गलः धार्मिकः; 10) संबहुलाः पुद्गला
अधार्मिकाः द्वौ पुद्गलौ धार्मिकौ
; 11) सम्बहुलाः पुद्गलाः
अधार्मिकाः
, संबहुलाः पुद्गला धार्मिका; 12) संबहुलाः पुद्गलाः
<>धार्मिकाः संघो धार्मिकः; 13) संघो अधार्मिकः
पुद्गलः धार्मिकः
; 14) संघो अधार्मिकः द्वौ पुद्गलौ धार्मिकौ; 15) संघ अधार्मिकः
सम्बहुलाः पुद्गला धार्मिकाः
; 16) संघ अधार्मिकः
संघो धार्मिकः इति इमानि शोडश अधार्मिकानि संमुखविनयदानानि।

 

षोडश धार्मिकानि
संमुखविनयदानानि कतमानि
? 1) पुद्गलः धार्मिकः पुद्गलः अधार्मिकः; 2) <पुद्गलः धार्मिकः> द्वौ पुद्गलौ <>धार्मिकौ; 3) पुद्गलः धार्मिकः, संबहुलाः पुद्गला
अधार्मिकः
; 4) पुद्गलः धार्मिकः संघ अधार्मिकः; 5) द्वौ पुद्गलौ धार्मिकौ, पुद्गलः अधार्मिकः; 6) द्वौ पुद्गलौ धार्मिकौ, द्वौ अधार्मिकौ; 7) द्वौ पुद्गलौ धार्मिकौ, संबहुलाः पुद्गला
अधार्मिकाः
; 8) द्वौ <पुद्गलौ> धार्मिकौ, संघ अधार्मिकः; 9) संबहुलाः पुद्गलाः
धार्मिकाः पुद्गलः अधार्मिकः
; 10) सम्बहुलाः पुद्गला
धार्मिका द्वौ पुद्गलौ अधार्मिकौ
; 11) सम्बहुला पुद्गला
धार्मिकाः सम्बहुलाः पुद्गला अधार्मिकाः
; 12) संबहुला पुद्गला
धार्मिकाः संघ अधार्मिकः
; 13 संघो धार्मिकः पुद्गल अधार्मिकः; 14 <सङ्घो धार्मिकः> द्वौ पुद्गलौ अधार्मिकौ; 15) संघो धार्मिकः
संबहुलाः पुद्गला अधार्मिकाः
; 16) संघो धार्मिकः
संघ अधार्मिकः इति इमानि षोडश धार्मिकानि संमुखविनयदानानि
; एवं हि भिक्षवः
संमुखविनय अधिकरणशमथो भवति
; एवं च पुनर् इहैकेशाम् अधिकरणानां दमश् च भवति शमश् च व्युपशमश् च यदुत
संमुखविनयेनाधिकरणशमथेन।

 

The
settlement of legal question by the
सत्स्वभावैषीय method

 

कथं च भिक्षवस्
तत्स्वभावैषीय अधिकरणशमथो भवति
? कथं च पुनर् इहैकेषाम् अधिकरणानाम् दमश्
च भवति शमश् च व्युपशमश् च यदुत तत्स्वभावैषीयेन अधिकरणशमथेन
? इह हस्तको भिक्षुः
संघमध्ये आपत्तिम् अवजानाति
; अवज्ञाय प्रतिजानाति, प्रतिज्ञाय पुनर्
अप्य् अवजानाति
; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: ददत यूयं भिक्षवो
हस्तकस्य भिक्षोः तत्स्वभावैषीयम् इति यो वा पुनर् अन्योऽप्य् एवंजातीयः एवं च पुनर्
दातव्यः
; शयनासन<प्र>ज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य* सर्वसंघे संनिषण्णे
संनिपतिते
<हस्तकेन भिक्षुणा एकांशम् उत्तरासङ्गं कृत्वा यथावृद्धिकया सामीचीं कृत्वा
उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्
: शृणोतु भदन्ताः
संघो
, मया हस्तकेन भिक्षुणा संघमध्ये आपत्तिर् अवज्ञातः, अवज्ञाय प्रतिज्ञातः, प्रतिज्ञाय पुनर्
अप्य् अवज्ञातः
; सोऽहं संघात् तत्स्वभावैषीयं याचे, ददतु भदन्तः संघो
मे हस्तकस्य भिक्षोस् तत्स्वभावैषीयम् अनुकम्पाम् उपादाय
; एवं द्विर् अप्य्
एवं त्रिर् अपि
; ततः पश्चाद्> एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्; शृणोतु भदन्ताः
संघः
, अयं हस्तको भिक्षुः संघमध्ये आपत्तिम् अवजानाति अवज्ञाय प्रतिजानाति
प्रतिज्ञाय पुनर् अप्य् अवजानाति
; <अयं हस्तको भिक्षुः
संघात् तत्स्वभावैषीयं याचते
; स चेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात्
संघो यत् संघः हस्तकस्य भिक्षोः तत्स्वभाऐषीयं दद्याद् इत्य् एषा ज्ञप्तिः
; कर्म कर्तव्यम्; शृणोतु भदन्ताः
संघः
, सोऽयं हस्तको भिक्षुः संघमध्ये आपत्तिम् अवजानाति, अवज्ञाय प्रतिजानाति, प्रतिज्ञाय पुनर्
अप्य् अवजानाति
>; तत् संघो हस्तकस्य भिक्षोस् तत्स्वभवैषीयं ददाति; येषाम् आयुष्मतां
क्षमते हस्तकस्य भिक्षोस् तत्स्वभावैषीयं दातुम् ते तूष्णीम्
; न क्षमते भाषन्ताम्; इयं प्रथमा कर्मवचाना; <एवं> द्वितीया <तृतीया> कर्मवाचना <कर्तव्या>; दत्तः संघेन हस्तकस्य
भिक्षोस् तत्स्वभावैषीयः
; क्षान्तम् अनुज्ञातम् संघेन यस्मात् तूष्णीम्; एवम् एतद् धारयामि।

 

तत्स्वभाऐषीयदत्तकस्याहं
भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयामि
; तत्स्वभावैषीयदत्तकेन
भिक्षुणा न प्रव्राजयितव्यं नोपसंपादयितव्यम् न निश्रयो देयो न श्रमणोद्देश उपस्थापयितव्यः
, नानेन कर्म कर्तव्यम्, न कर्मकारकः संमन्तव्यः, नानेन भिक्षुण्योऽववदितव्याः; न भिक्षुण्या <>ववादकः संमन्तव्यः; न पूर्वसंमतेन
भिक्षुण्योऽववदितव्याः
; नानेन भिक्षुश् चोदयितव्यः स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या
आचारविपत्त्या आजीवविपत्त्या
; नानेनाववादः स्थापयितव्यः, न पोषधे, न प्रवारणे, न ज्ञप्तिद्वितीये
न ज्ञप्तिचतुर्थे कर्म
<णि>; नापि संघमध्ये विनयो मोक्तव्यः सत्व् अन्येषु विनयधरेषु पुद्गलेषु; तत्स्वभावैषीयदत्तको
भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् असमादाय वर्तते
, सातिसारो भवति।

 

एकम् अधार्मिकं
तत्स्वभावैषीयं दानम्
, एकं धार्मिकम्; एकम् अधार्मिकम् कतमत्? यथापितत् हस्तको
भिक्षुः संघमध्ये आपत्तिं प्रतिज्ञानाति प्रतिज्ञाय अवजानाति अवज्ञाय पुनर् अपि प्रतिजानाति
, तस्य संघः स्वभावैषीयं
ददाति
<>धार्मिकं तत्स्वभावैषीयदानम्; इदम् एकम् अधार्मिकम्; एकं धार्मिकम्
कतमत्
? यथापितत् हस्तको भिक्षुः संघमध्ये आपत्तिम् अवजानाति अवज्ञाय प्रतिजानाति
प्रतिज्ञाय पुनर् अप्य् अवजानाति तस्य संघस् तत्स्वभावैषीयं ददाति
, धार्मिकं तत्स्वभावैषीयदानम्; इदम् एकं धार्मिकम्।

 

एवं हि भिक्षवः
तत्स्वभावैषीय अधिकरणशमथो भवति
; एवं च पुनर् इहैकेकेषाम् अधिकरणानां दमश्
च भवति शमश् च व्युपशमश् च यदुत तत्स्वभावैषीयेनाधिकरणशमथेन।

 

The
settling of legal questions by the
त्र्णाप्रस्तारक method

 

कथं च भिक्षवः तृणप्रस्तारक
अधिकरणशमथो भवति
? कथं च पुनर् इहैकेषाम् अधिकरणानां दमश् च भवति शमश् च <व्युपशमश् च> यदुत तृणप्रस्तारकेणाधिकरणशमथेन
? यथापितद् भिक्षूणं कलहजातानां विहरतां भण्डनजातानां विगृहीतानां विवादम्
आपन्नानां पक्षापरपक्षव्यवस्थितानाम्
; एकस्मिन् पक्षे
यो भि
*क्षुः स्थविरः स्थविरान्यतमः ज्ञातो ज्ञातान्यतमः प्रमुखः प्रमुखान्यतमः
तेन स्वपक्षे उपसंक्रम्य इदं स्याद् वचनीयम्
: तेषाम् अस्माकम्
आयुष्मन्तः अलाभा न लाभाः दुर्लब्धा न सुलब्धाः ये वयम् स्वाख्याते धर्मविनये प्रव्रज्य
कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नाः
; यां चाहम् आयुष्मन्तोऽस्मिन्
वस्तुनि आपत्तिम् आपन्नो यांच यूयम्
, स्थापयित्वा स्थूलावद्यं
वा गृहस्थप्रतिशरणम् वा
, उत्सहेऽहम् आत्मनः करणीयेन युष्माकां च तेषाम् आयुष्मताम् अन्तिके देशयितुम्
आविष्कर्तुम् न प्रतिच्छादयितुम् इति
; सचेत् तस्य भिक्षोः
स्वपक्षाद् एकभिक्षुर् अपि भाषितं न प्रतिवहति न प्रतिक्रोशति
, ततस् तेन भिक्षुणा
द्वितीयं पक्षम् उपसंक्रम्यैकांशम् उत्तरासङ्गम् कृत्वा यथावृद्धिकया सामीचीं कृत्वा
उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्
; तेशाम् अस्माकम्
आयुष्मन्त अलाभा न लाभाः दुर्लब्धा न सुलब्धाः
, ये वयम् स्वाख्याते
धर्मविनये प्रव्रज्य कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नाः
; यां चाहम् अस्मिन्
वस्तुन्य् आपत्तिम् आपन्नो यां च ते आयुष्मन्तः
, स्थापयित्वा स्थूलावद्यं
वा गृहपति प्रतिशरणं वा
, उत्सहेऽहम् आत्मनः करणीयेन तेषाम् आयुष्मतां <> युष्माकम् अन्तिके
देशयितुम् आविष्कर्तुं न प्रतिच्छादयितुम् इति
; द्वितीये पक्षे
<यो> भिक्षुः स्थविरः स्थविरान्यतमः ज्ञातो ज्ञातान्यतमः प्रमुखः प्रमुखान्यतमः
तेनापि स्वपक्ष उपसंक्रम्य इदं स्याद् वचनीयम्
: अस्माकम् आयुष्मन्तः
तेषां च अलाभा न लाभा दुर्लभ्दा न सुलब्धाः
, ये वयं स्वाख्याते
धर्मविनये प्रव्रज्य कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नाः
; यां चाहम् आयुष्मन्तोऽस्मिन्
वस्तुन्य् आपत्तिम् आपन्नो यां च यूवम्
, स्थापयित्वा स्थूलवद्यं
गृहस्थप्रतिशरणम् वा
, उत्साहेऽहम् आत्मनः करणीयेन युष्माकं च तेषाम् <आयुष्मताम्> अन्तिके देशयितुम्
आविष्कर्तुं न प्रतिच्छादयितुम् इति
; सचेत् तस्य भिक्षोर्
<स्वपक्षाद् एकभिक्षुर्> अपि भाषितम् न
प्रतिवहति न प्रतिक्रोशति ततस् तेन भिक्षुणा द्वितीयं पक्षम् उपसंक्रम्यैकांशम् उत्तरासङ्गम्
कृत्वा यथावृद्धिकया सामीचीं कृत्वा उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्
: तेषाम् अस्माकम्
आयुष्मन्त अलाभा न लाभा दुर्लब्धा न सुलब्धाः
, ये वयम् स्वाख्याते
धर्मविनये प्रव्रज्य कलहजाता विहरामो भण्डनजाता विगृहीता विवादम् आपन्नाः
; यां चाहम् अस्मिन्
वस्तुन्य् आपत्तिम् अपन्नो यां च ते आयुष्मन्तः
, स्थापयित्वा स्थूलावद्यम्
वा गृहस्थप्रतिशरणम् वा
, उत्सहेऽहम् आत्मनः करणीयेन तेषां चायुष्मतां युष्माकम् अन्तिके देशयितुम्
आविष्कर्तुम् न प्रतिच्छादयितुम् इति
; यदा एकपक्षो <द्वितीये> रोमं पातयति निःसरनं
प्रवर्तयति सामीचीं प्रवर्तयति द्वितीयो वा द्वितीये
, न चान्योन्यम्
आपत्तिपरिकीर्तनेन प्रवर्तयन्ति
, एवं तदधिकरणं* व्युपशान्तम् यदुत
तृणप्रस्तारकेणाधिकरणशमथेन
; एवं हि भिक्षवः तॄणप्रस्तारक अधिकरणशमथो भवति; एवं च पुनर् इहैकेषाम्
अधिकरणानाम् दमश् च भवति शमश् च व्युपशमश् च यदुत तृणप्रस्तारकेण
<अधिकरण>शमथेन।

 

आपत्त्याधिकरणं
भिक्षवः एभिश् चतुर्भिर् अधिकरणशमथैर् धर्मैर् दमयितव्यं शमयितव्यं व्युपशमयितव्यम्
, यदुत प्रतिज्ञाकरकेन
संमुखविनयेन तत्स्वभाअषीयेन तृणप्रस्तारकेन
; कृत्याधिकरणं तु
भिक्षवः समग्रेण संघेन व्युपशमयितव्यम्।

 

यस्मिन् भिक्षवः
आवासे एको भिक्षुः प्रतिवसति तत्र न कलहो भण्डनं विग्रहो विवादः
; यस्मिन् द्वौ तत्रापि
न कलहो भण्डनं
<विग्रहो> विवादः; <यस्मिन् त्रयः तत्रापि न कलहो भण्डनं विग्रहो विवादः;> यस्मिन् तु चत्वारो
भिक्षवः प्रतिवसन्ति उत्तरे वा तत्र कलहो भण्डनं विग्रहो विवादश् च
; यथापि भिक्षवः

 

एकस् तथा यथा ब्रह्मा
यथा शक्रस् तथा द्वयम्।

यथा त्रयं तथा राजा
कोलाहम् अतः परम्॥

 

तस्मात् तर्हि भिक्षवोऽनुजानामि, य एकाम् अपि चतुष्पदिकाम्
गाथां धारयति तस्य धर्मसन्तको लाभो देयः
, तेनापि परिभोक्तव्यः; नात्र कौकृत्यं
करणीयम्।

 

श्रीः

 





































































































































































































































































































































































































































































































































































अधिकरणवस्तु समाप्तम्।

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project