Digital Sanskrit Buddhist Canon

शयनासनवस्तु

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    July, 2017
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

The शयनासनवस्तु

*उद्दानाम्

 

* शाक्या पंचनकाधाश्

च साङ्घिकं पौद्गलिकं च वस्तुभङ्गेन।

कारयेत् प्रतिसंस्तरणं

भूमिर् अरण्यं च त्रिचीवरम्।

उच्छेद्यम् अरण्यं

भिक्षुस्थविरो लाभ्षट्कैर् भवति पश्चिमम्॥

 

Old

monks are entitled to veneration

 

बुद्धो भगवान् श्रावस्त्यां

विहरति जेतवने अनाथपिण्डदस्यारामे
; तेन खलु समयेन

संबहुलानां भिक्षूणाम् उपस्थानशालायां संनिषण्णानां संनिपतितानाम् अयम् एवंरूपोऽभूद्

अन्तराकथासमुदाहारः
: कोऽस्माभिर् आयुष्मन्तः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूज्यितव्यः

? कस्य चास्माभिर् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म कर्तव्यम्

? कोऽस्माकम् अर्हति अग्रासनम् अग्रोदकम् अग्रपिण्डपातं परिभोक्तुम् इति

? तत्रैके एवम् आहुः शाक्यः प्रव्रजित इति ; अन्ये त्व् एवम्

आहुः यो ब्राह्मणः प्रव्रजित इति
; अपरे यः क्षत्रियः प्रव्रजितः; अपरे यो वैश्यः

प्रव्रजितः
; अपरे यः शूद्रः प्रव्रजितः*; अपरे उच्चात् कुलात्

प्रव्रजितोऽन्यूनात्
; आढ्यात् कुलात् प्रव्रजितोऽदीनात्; अप्रे योऽभिरूपो

दर्शनीयः प्रासादिकः कल्याणवाक्यो वाक्करेणेनोपेतो ज्ञातो महापुण्यः सूत्रधरो विनयधरो

मातृकाधरो बहुश्रुतो धार्मकथिकः स्थविरो राजन्यः आरण्यकः त्रैचीवरिको नामतिकः पांसुकुलिकः

पिण्डपाटिकः एकासनिकः खलुपश्चाद्भक्तिको वृक्षमूलिकः श्माशानिकोऽभ्यवकाशिकः नैषदिको

यथासंस्तरिको यो लाभी अनित्यसंज्ञायाः पूर्ववद् यावत् योऽर्हन्न् अष्टविमोक्षध्यायीति
; अपरे एवम् आहुः

सर्वेषाम् अस्माकम् आयुष्मन्तो न समेति यदुत ना
*नाप्रज्ञप्त्या; एते वयं येन भगवांस्

तेनोपसंक्रमामः
; उपसंक्रम्य भगवन्तम् एतम् अर्थं परिपृच्चामः; यथास्माकं स भगवान्

व्याकरिष्यति तथैनं धारयिष्याम इति।

 

अथ संबहुला भिक्षवो

येन भगवांस् तेनोपसंक्रान्ताः
; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा

एकान्ते निषण्णाः
; एकान्तनिषण्णाः संबहुला भिक्षावो भगवन्तम् इदम् अवोचन्: इहास्मा कं भदन्त

संबहुलानां भिक्षूणाम् उपस्थानशालायां संनिषण्णानां संनिपतितानाम् अयम् एवंरूपोऽभूद्

अन्तराकथासमुदाहारः
; पूर्ववद् यावत् यथास्माकं भगवान् व्याकरिष्यति तथैनं धारयिष्याम इति; ते वयं भदन्त भगवन्तम्

एतम् एवार्थं परिपृच्छामः
: कोऽस्माभिः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः ? पूर्ववद् यावद्

अग्रपिण्डपातम् परिभोक्तुम् इति
; भगवान् आह: वृद्धतरको युष्माभिर्

भिक्षावः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः
; अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म

कर्तयम्
; स च युष्माकम् अर्हत्य् अग्रासनम् अग्रोदकम् अग्रपिण्डपातम् परिभोक्तुम्

इति।

 

उक्तं भगवता: वृद्धतरको भिक्षुर्

युष्माभिः सत्कर्तव्यः
; पूर्ववद् यावद् अग्रासनं परिभोक्तुम् इति।

 

Old

house-holders, etc., are not entitled to veneration

 

भिक्षवः आगारिकान्

वृद्धान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति
; श्रुत्वा ब्राह्मणगृहपतयोऽवध्यायन्ति

क्षिपन्ति विवाचयन्ति
: आर्या वयं कामभोगिनः कामपंकनिमग्नाः; कथं युयम् अस्माकं

सत्कुर्वथ
? एतत् प्रकरणं भिक्षावो भगवत आरोचयन्ति; भगवान् आह: प्रव्रजितान् भिक्षावो

मया सन्धायोक्तं नो त्व् आगारिकान् इति।

 

भिक्षावः अन्यतीर्थिकान्

वृद्धान् दृष्ट्वा सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति
; भगवान् आह: इह धार्मिकान्

मया सन्धायोक्तं नो तु बाह्यकान् इति।

 

ते श्रामणेरकान्

वृद्धप्रव्रजितान् दृष्ट्वा सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति
; भगवान् आह: उपसंपन्नान् भिक्षावो

मया सन्धायोक्तं नो तु श्रामणेरकान् इति।

 

ते नवोपसंपन्नान्

वृद्धान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति
; भगवान् आह: अन्योन्यं वर्षाग्रं

पृष्ट्वा वन्दितव्यम्
; ते पृष्टाः सन्तो जन्मवर्षाणि कथयन्ति; भगवान् आह: उपसंपद्वर्षाग्रं

प्रष्टव्यम् इति
; भिक्षवो न जानते <कति वर्षाग्राणीति>; *भगवान् आह: सामयिकम् आरोचयितव्यम्; भिक्षवो न जानते

कति सामयिकानीति
; भगवान् आह; पंचेमे भिक्षवः समयाः, हैमन्तिकं ग्रैष्मिकं

वार्षिकं मृतवार्षिकं दीर्घवार्षिकम् इति
; तत्र हैमन्तिकं

चत्वारो मासाः
; ग्रैष्मिकम् चत्वारो मासाः; <वार्षिकम् एको मासः>; मृतवार्षिकम् एकं

रात्रिन्दिवसम्
; दीर्घवार्षिकं राट्र्यूनास् त्रयो मासाः; इत्य् एवं सामयिकम्

आरोचयित्वा यः पूर्वोपसंपन्नः स वन्दितव्यः।

 

अपरे भिक्षवश् चत्वारो

वन्द्याः
; कतमे चत्वारो वन्द्याः ? सदेवकस्य तावल्

लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकाया
<प्रजा>याः सदेवमानुषायास्

तथागतार्हत्सम्यक्संबुद्धोवन्द्यः
; सर्वेषां गृहिणः

प्रव्रजिता वन्द्याः
; सर्वेषाम् उपसंपन्नानां पूर्वोपसंपन्ना व*न्द्याः स्थापयित्वा

भिक्षुणीम्
; तस्या वर्षाशतोपसंपन्नाया अपि तदहः उपसंपन्नो भिक्षुर् वन्द्यः; सर्वस्यानुपसंपन्नकस्योपसंपन्नको

वन्द्यः।

 

दशावन्द्याः; कतमे <दश?> पारिवासिको मूलपारिवासिकः

पर्युषितपरिवासः मानाप्यचारिकश् चरितमानाप्योऽदर्शनायोत्क्षिप्तकः अप्रतिकर्मायोत्क्षिप्तकः

अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकः सर्वो गृही
<सर्वश्> चानुपसंपन्नः।

 

यदा भगवता यथावृद्धिकाया

प्रज्ञप्तास् तदा भिक्षावोऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजायन्ति
; तेऽन्योन्यं सत्कुर्वन्तो

<गुरुकुर्वन्तो> मानयन्तः पूजयन्तो वर्धन्ते कुशलैर् धर्मैर्

उत्पलं वा
*यथोदके।

 

भिक्षवः संशयजाताः

सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः
: पश्य भदन्त यदा

भगवता यथावृद्धिकया प्रज्ञप्तास् तदा भिक्षवोऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति

मानयन्ति पूजयन्ति
; तेऽन्योन्यं सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तो वर्धन्ते

कुशलैर् धर्मैर् उत्पलं वा यथोदके इति
; भगववान् आह: किम् अत्र भिक्षावः

आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मस्योपायासैः

सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयविशिप्राप्तेन यथावृद्धिकायां प्रज्ञप्तायां

यथावृद्धिकाम् आगम्य भिक्षवोऽन्योन्यं सत्कुर्वन्ति गुरुकुर्वन्ति पूर्ववद् यावद् उत्पलं

वा यथोदके इति
; यत् तु मया सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्

विनिपतितशरीरेण यथावृद्धिकायां प्रज्ञप्तायां यथावृद्धिकाम् आगम्य सकलो जम्बूद्वीपनिवासी

जनकायो यद्भूयसा प्रणीते त्रयस्त्रिंशे देवनिकाये उपपन्नस् तच् छ्रूयताम्।

 

The

story of the francoline, the hare, the monkey and the elephant

 

भूतपूर्वं भिक्षवः

काशीषु जनपदे अन्यतमस्मिन् वनगहने चत्वारः प्राणिनः प्रतिवसन्ति कपिञ्जलः शशो मर्कटो

गजश् च
; ते च परस्परं सख्येनावस्थिताः सहिताः समग्राः संमोदमाना अविवदमाना अशंकिनो

यथेष्टविहारतया कालम् अतिनामयन्ति
; यावद् अपरेण समयेन

तेषां बुद्धिर् उत्पन्ना
: *अस्ति वयं भवन्तः परस्परं सख्येनावस्थिताः सहिताः समग्राः संमोदमाना अविवदमानाः; किन्तु न जानीमः

कोऽस्माभिः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः इति
; यन्नु वयं यथावृद्धिकां

प्रज्ञपयेम इति
; ते परस्परम् संजल्पं कर्तुम् आरब्धा इति; कोऽस्माकं वृद्ध

इति
; ततः कपिंजलेन वटवृक्षो दर्शितः: भवन्तः एष वटवृक्षः

केन कियत्प्रमाणो दृष्ट इति
; हस्ती कथयति; मया यूथेन सहानेन

पथा गच्छता अयं दृष्टो मत्प्रमाण एव उच्चत्वेनेति
; मर्कटः कथयति: मया यूथेन सहानेन

पथा गच्छता अयं दृष्टो मम तुल्य एवोच्चत्वेनेति
; ते कथयन्ति: त्वम् अस्य वृद्ध

इति
; शशः कथयति: मयाप्य् अस्य द्विपत्रकस्य पत्रेष्व् एवावश्यायबिन्दवो जिह्वया निर्लीढा

इति
; ते कथयन्ति: त्वम् अप्य् अनयोर् वृद्ध इति; कपिञ्जलः कथयति: पश्यत यूयम् एनं

वटवृक्षं महत्प्रमाणाकारम्
; ते कथयन्ति: पश्यामः; एतस्मान् मया फलानि भक्षयित्वास्मिन् प्रदेशे उच्चारः कृतस् तस्माद्

अयं जात इति
; *ते कथयन्ति: यद्य् एवं त्वम् अस्माकं सर्वेशां वृद्ध इति; ततो हस्ती सर्वेशां

सत्कर्तुम् आरब्धः
; मर्कटः शशं कपिंजलं च; शशः कपिंजलम् एव; ते एवं यथावृद्धिकया

सत्कुर्वन्तस् तस्मिन् वनगहने इतश् चामुतश् च परिभ्रमन्ति
; यदा विषमनिम्नाः

प्रदेशा गन्तव्या भवन्ति तदा हस्तिनं मर्कटोऽभिरोहति मर्कटं शशः शशम् अपि कपिंजलः।

 

तेषाम् एवं प्रवृद्धस्नेहानां

सगौरवाणां च बुद्धिर् उत्पन्ना
: अस्ति वयं भवन्तः प्रवृद्धस्नेहाः सगौरवाश्

; अन्यद् अपि *तावत् किंचित् कुशलं समादाय वर्तेम इति; किं कुर्मः; कपिंजलः कथयति: प्राणातिपातात्

प्रतिविरमामः
; कीदृशोऽस्माकं प्राणातिपातः ? कपिंजलः कथयति: सन्ति तृणपुष्पफलानि

सप्राणकानि सन्ति निष्प्राणकानि
; तद् अस्माभिर् अद्याग्रेण सप्राणकानिपरित्यज्य

निष्प्रणकानि परिभोक्तव्यानि
; ते सप्राणकानि परित्यज्य निष्प्राणकानि

परिभोक्तुम् आरब्धाः।

 

तेषाम् एतद् अभवत्: अस्ति वयं प्राणातिपातात्

प्रतिविरता नो त्व् अदत्तादानात् प्रतिविरमामः
; कीदृशोऽस्माकम्

अदत्तादानम्
? कपिंजलः कथयति: सन्ति सपरिग्रहाणि तृणपत्रपुष्पफलानि सन्ति

निष्परिग्रहाणि
; तद् अस्माभिर् अद्याग्रेण सपरिग्रहाणि परित्यज्य निष्परिग्रहाणि परिभोक्तव्यानि; ते सपरिग्रहाणि

परित्यज्य निष्परिग्रहाणि
<परि>भोक्तुम् आरब्धाः;

 

तेषाम् एतद् अभवत्: अस्ति वयम् अदत्तादानात्

प्रतिविरताः
; नो तु काममिथ्याचारात्; यन् नु वयं काममिथ्याचारात्

प्रतिविरमामः
; कीदृशोऽस्माकं काममिथ्याचारः ? कपिंजलः कथयति: वयम् गम्या अपि

गच्छामः
; अगम्या अपि गच्छामः; तद् अस्माभिर्

अद्याग्रेण गम्यैव गन्तव्या नागम्या
; ते गम्यां गच्छन्ति

नागम्याम्।

 

तेषाम् एतद् अभवत्: अस्ति वयं काममिथ्याचारात्

प्रतिविरताः
; नो तु मृषावादात्; यन्नु वयं मृषावादात् प्रतिविरमामः; किदृशोऽस्माकं

मृषावादः
? कपिंजलः कथयति: वयं यद्वा तद्वा विप्रलपामः; तद् अस्माभिर्

अद्याग्रेण न यद्वा तद्वा विप्रलपितव्यम्
; *विचार्य विचार्य

काले वाग् उदीरयितव्या
; ते न यद्वा तद्वा <वि>प्रलपन्ति किंतु

विचार्य विचार्य कालेन वाचम् उदीरयन्ति।

 

तेषाम् एतद् अभवत्: अस्ति वयं मृषावादात्

प्रतिविरताः
; नो तु सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरताः; यन् नु वयं सुरामैरेयमद्यप्रमादस्थानात्

प्रतिविरमामः
; किदृशम् अस्माकं सुरामैरेयमद्यप्रमादस्थानम् ? कपिंजलः कथयति: सन्ति मादनीयानि

फलानि सन्त्य् अमादनीयानि
; तद् अस्माभिर् अद्याग्रेण मादनीयानि फलानि परित्यज्यामादनीयानि फलानि

परिभोक्तव्यानि
; ते मादनीयानि फलानि परित्यज्यामादनीयानि फलानि परिभोक्तुम् आरब्धाः।

 

यदा ते पञ्चसु व्रतपदेषु

प्रतिष्ठापितास् तदा कपिंजलः कथयति
: अस्ति वयं भवन्तः

पंचसु व्रतपदेषु प्रतिष्ठिताः
; यन् नु वयम् अन्यान् अपि पंचासु व्रतपदेषु

प्रतिष्ठापयामः
; ते कथयन्ति; एवं कुर्मः; को युष्माकं प्रतिष्ठापयति? मर्कटः कथयति: अहं सर्वान् शाखामृगान्

प्रतिष्ठापयामि
; ततः शशः कथयति: अहं सर्वान् शशन् लोमशान् मृगांश् च प्रतिष्ठापयामि; हस्ती कथयति: अहं सर्वान् हस्तिनः

सिंहान् व्याघ्रद्वीपिनश् च प्रतिष्ठापयामि
; कपिंजलः कथयति: यद्य् एवम् एतत्

संक्षेपाद् युष्माकम् अविनया अपदा द्विपदाश् चतुष्पदाः पक्षिणश् च तान् अहं सर्वान्

पंचसु व्रतपदेषु प्रतिष्ठापयामीति।

 

ततस् ते काशीविषये

*यावत्तिर्यग्योनिगताः प्राणिनस् ते सर्वे पंचसु व्रतपदेषु प्रतिष्ठापिताः; ते अन्योन्यम्

अव्याबाधमानास् तस्मिन् वनषण्डे संप्रजानद्विहारिणो यथेष्टं विहरन्ति
; तेषाम् अनुभावाद्

देवः कालवर्षी संवृत्तः
; सदा पुष्पफला वृक्षाः, शस्यवति वसुमती;ते मनुष्यैर् दृष्टा

अन्योन्यम् अव्याबाधमाना विहरन्तः
, सदा पुष्पफला वृक्षाः, शस्यवती वसुमती; राजा कथयति: अहं धर्मेण राज्यं

कारयामि ममैषोऽनुभाव इति
; अन्तःपुरं कुमारामात्या भटबलाग्रं नैगमजानपदाश् च <कथयन्ति: अस्माकम् एषोऽनुभावः>; राजा संलक्षयति: सर्व एते कथयन्ति

ममानुभावो ममानुभाव इति
; तन् न ज्ञायते कस्यानुभाव इति; स कुतूहलजातो नैमित्तिकान्

आहूय पृष्टवान्
; तैर् अपि न ज्ञातम्; यावद् वाराणस्यां

नातिदूरे उद्यानम्
; तत्र पञ्चाभिज्ञ रिषिः प्रतिवसति सकलस्य वाराणसीनिवासिनो जनकायस्य पूज्यो

मान्योऽभिवाद्यश् च
; ततो राजा तस्य ऋषेः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: महर्षे मम विजिते

यावत्तिर्यग्निगताः प्राणिनस् ते सर्वे अन्योन्यम् अव्याबाधमानाः संप्रजानद्विहारिणो

यथेष्टं विहरन्ति
, देवः कालवर्षी, सदा पुष्पफला वृक्षाः, शस्यवती च वसुमती; तस्मान् ममैतद्

अभवत्
: अहं धर्मेण राज्यं कारयामि; ममैषोऽनुभाव इति; अन्तःपुरं कुमारामात्या

भटबलाग्रं नैगमजानपदाश् च संलक्षयन्ति
; अस्माकम् एषोऽनुभाव

इति
; तन् न ज्ञायते कस्यायम् अनुभाव इति; कौतुकश् च मे महान्; त्वम् अर्हसि संशयं

छेत्तुम्
: कस्यायम् अनुभाव इति; स कथयति: महाराज न तवैषोऽनुभावो

नान्तःपुरस्य न कुमाराणां नामात्यानां न भटबलाग्रस्य न
* नैगमजानपदानाम्; अपि तु तव विजिते

चत्वारः प्राणिनः प्रतिवसन्ति
; तेषाम् अयम् अनुभाव इति; राजा कथयति: गच्छामि तान् पश्यामीति; ऋशिः कथयति: महाराज किं तव

तैर् दृष्टैर् अपि तु यत् ते समादाय वर्तन्ते तत् समादाय वर्तस्वेति
; किं ते समादाय

वर्तन्ते
? पञ्च व्रतपदानि; महर्षे किदृशानि पञ्च व्रतपदानि? महाराज ते प्राणिनं

जीवितान् न व्यवरोपयन्ति
; परस्वं नापहरन्ति; अगम्यागमनम् न कुर्वन्ति; मृषावादं न भाषन्ते; मद्यपानं च नाध्याचरन्ति; राजा कथयति; महर्षे यद्य् एवम्

अहम् अप्य् एतानि पञ्च व्रतपदानि समादाय वर्तेम
; अथ स राजा पञ्च

व्रतपदानि समादाय वर्तितुम् आरब्धः
; राजा पञ्च व्रतपदानि

समादाय वर्तत इति देव्योऽपि पञ्च व्रतपदानि समादाय वर्तितुम् आरब्धाः
; कुमारा अमात्या

भटबलाग्रं नैगमजानपदा अपि पञ्च व्रतपदानि समादाय वर्तितुम् आरब्धानि
; प्रतिसीमैः कोट्टराजभिः

श्रुतम्
: राजा ब्रह्मदत्तः पञ्च व्रतपदानि समादाय वर्तते सार्धम् अन्तःपुरेण कुमारैर्

अमात्यैर् भटबलाग्रैर् नैगमजानपदैर् इति
; श्रुत्वा च पुनस्

तेऽपि पञ्चव्र
*तपदानि समादाय वर्तितुम् आरब्धाः सार्धम् अन्तःपुरेण कुमारैर् अमात्यैर्

भटबलाग्रैर् नैगमजानपदैर् इति
; भूयसा सर्व एव जनकायः पञ्च व्रतपदानि समादाय

वर्तितुम् आरब्धः।

 

तेन खलु समयेन जम्बूद्वीपे

यः कालं करोति स कायस्य भेदात् प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपद्यते
; ततः शक्रो देवेन्द्रः

आपूर्यमाणं देवपर्षदं दृष्ट्वा च पुनर् गाथां भाषते
;

 

*सगौरवाः सप्रतीशा

विहरन्ति तपोवने।

कपिंजलब्रह्मचर्यं

पृथग्लोकप्रकाशितम्॥ इति।

 

भगवान् आह: किं मन्यध्वे भिक्षवो

योऽसौ कपिंजलः अहम् एव सः तेन कालेन तेन समयेन
; शशः शारिपुत्रो

भिक्षुर् मर्कटो मौद्गल्यायनो भिक्षुर् गज आनन्दः
; तदापि मया यथावृद्धिकायं

प्रज्ञप्तायां यथावृद्धिकाम् आगम्य सकलो जम्बूद्वीपनिवासि जनकायो भूयसा त्रयस्त्रिंशे

देवनिकाये उपपन्नः
; एतर्ह्य् अपि मया यथावृद्धिकायां प्रज्ञप्तायं यथावृद्धिकाम् आगम्य भिक्षवोऽन्योन्यं

सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तो वर्धन्ते कुशलैर् धर्मैर् उत्पलं वा

यथोदके।

 

The

Buddha eulogises the order by age

 

तस्मात् तर्हि भिक्षवः

सगौरवा विहरता सप्रतीशाः सभयवशवर्तिनः सब्रह्मचारिषु स्थविरेषु मध्येषु नवकेषु
; तत् कस्य हेतोः? स तावद् भिक्षवो

भिक्षुर् अगौरवो विहरन्न् अप्रतीशः अभयवशवर्ती स्थविरेषु मध्येषु नवकेषु आसमुदाचारिकान्

धर्मान् परिपूरयिष्यति नेदं स्थानं विद्यते
; आसमुदाचारिकान्

धर्मान् अपरिपूर्य शैक्षान् धर्मान् परिपूरयिष्यति नेदं स्थानं विद्यते
; शैक्षान् धर्मान्

अपरिपूर्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धं

परिपूरयिष्यति नेदंस् थानं विद्यते
; विमुक्तिज्ञानदर्शनस्कन्धम्

अपरिपूर्यानुपादाय परिनिर्वास्यति नेदं स्थानं विद्यते
; स तावद् भिक्षवो

भिक्षुः सगौरवो विहरन् सप्रतीशः सभयवशवर्ती ब्रह्मचारिषु स्थविरेषु मध्येषु मध्येषु

नवकेषु नवकेषु आसमुदाचारिकान् धर्मान् परिपूर्य शैक्षान् धर्मान् परिपूरयिष्यति स्थानम्

एतद् विद्यते
; शैक्षान् धर्मान् परिपूर्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं

विमुक्तिज्ञानदर्शनस्कन्धं परिपूरयिष्यति स्थानम् एतद् विद्यते
; विमुक्तिज्ञानदर्शनस्कन्धं

परिपूर्यानुपादाय परिनिर्वास्यति स्थानम् एतद् विद्यते
; तस्मात् तर्हि

भिक्षव एवं शिक्षितव्यम्
; यत् सगौरवा विहरिष्यामः सप्रतीशाः सभयवशवर्तिनः <सब्रह्मचारिषु> स्थविरेषु मध्येषु

नवकेषु
; इत्य् एवं वो भिक्षवः शिक्षितव्यम्।

 

The

institution of vihAras

 

यदा भगवता पञ्चका

विनीतास् ते अरण्ये प्रतिवसन्ति
; ते अरण्ये प्रतिवसन्ति आगम्या भवन्ति सिंहानां

व्याघ्राणां द्वीपिनां त
<>क्षूणाम्।

 

भगवान् संलक्षयति: कुत्र पूऱ्वकानां

सम्यक्संबुद्धानां श्रावका आवासं कल्पितवन्तः
? पश्यति विहारे; देवताभिर् अप्य्

एवं भगवता आरोचितम्।

 

तेन खलु समयेन वाराणस्यां

कल्याणभद्रो नामो गृहपतिः प्रतिवसति
; तस्य कुशलमूलप्रतिबोधिसन्ततेर्

एतद् अभवत्
: अहो बताहं भगवतः श्रावकाणां विहारं कारयेयम् इति; स काल्यम् एवोत्थाय

येन भगवांस् तेनोपसंक्रान्तः
; उपसंक्रम्य भगवतः पादौ *शिरसा वन्दित्वैकान्ते

निषण्णः
; एकान्तनिषण्णं कल्याणभद्रिकं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति

समादापयति समुत्तेजयति संप्रहर्षयति
; अनेकपर्यायेण धर्म्यया

कथया संदर्श्य
* समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ कल्याणभद्रिको

गृहपतिर् उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम्

इदम् अवोचत्
: यदि भगवान् अनुजानियाद् अहं भगवतः श्रावकाणां विहारं करयेयम् इति; भगवान् आह; तस्माद् गृहपते

अनुजानामि कारय इति
; स न जानीते कीदृशः कारयितव्य इति; भगवान् आह: यदि त्रिलयनं कारयसि

मध्ये गन्धकुटिः कारयितव्या द्वयोः पार्श्वयोर् द्वे लयने
; एवं त्रिशाले नव

लयनानि
; चतुःशाले मध्ये द्वारकोष्ठकाभिमुखं गन्धकुतिः; द्वारकोष्ठकपार्श्वयोर्

द्वे लयने
; स न जानीते कति पुराः कर्तव्या इति; भगवान् आह: भिक्षुणां पञ्चपुरा

विहाराः कर्तव्याः सप्तपुरा गन्धकुतिः
; सप्तपूरा बालाग्रपोतिकाः; भिक्षूणीनां तु

त्रिपुरा विहाराः कर्तव्याः
; पंचपुरा गन्धकुटिः; पंचपुरा बालाग्रपोतिका

इति।

 

The

story of
अनाथपिण्डद: his birth and wonders

 

तेन खलु समयेन श्रावस्त्यां

दत्तो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो

वैश्रवणधनधनप्रतिस्पर्धी
; तेन सदृशात् कुलात् कलत्रम् आनीतम्; स तया सार्धं क्रीडति

रमते परिचारयति
; तस्य क्रीडतो रम*माणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा

संवृत्ता
; सा चाष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्य त्रीणि सप्तकान्य्

एकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते
; किं भवतु दारकस्य

नामेति
; ज्ञातय ऊचुः: अयं दारको दत्तस्य गृहपतेः पुत्रस् तस्माद् भवतु दारकस्य सुदत्त इति

नामेति
;  तस्य सुद्दत इति नामधेयं व्यवस्थापितम्; सुदत्तो दारकोऽष्टाभ्यो

धात्रीभ्यो दत्तः
; द्वाभ्याम् अंसधात्रीभ्याम्; द्वाभ्यां क्षीरधात्रीभ्याम्; द्वाभ्यां मलधात्रीभ्यां; द्वाभ्यां क्रीडनकाभ्यां

धात्रीभ्याम्
; सोऽष्टाभिर् धात्रीभिर् उन्नीवते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा

सर्पिर्मण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पंकजम्
; सोऽपरेण समयेन

सर्वालंकारविभूषितो धात्र्यंसगतो निषण्णो बहिर्निर्गतः
; याचनकेनालंकारंप्रार्थितः: कुमाराहम् अलंकारेणार्थी; प्रयच्छ मे अलंकारम्

इति
; तेन प्रमुदितमनसा असाव् अलंकारो दत्तः; स गृहं प्रविष्टः; पित्रा चास्य धात्रीपृष्टा; कुत्र कुमारस्यालंकार

इति
; सा कथयति; दत्तः कुमारेण याचनकायेति; सोऽन्येनालंकारेण

विभूषितः
; सोऽपि दत्तः; भूयोऽप्य् अलंकृतः; सोऽपि तेन दत्तः; स गृहपतिः पत्नीम्

आमन्त्रयते
: भद्रे शोभनोऽस्माकं पुत्रो जातः; नित्यं दानाभिरत

इति
; सा कथयति आर्यपुत्र यद्य् एवं नैनं भूयोऽप्य् अलंकरिष्यामि; स कथयति: भद्रे अस्त्य्

अस्माकं सुवर्णम् अप्रमेयं रत्नानि च
; किन्तु अलंकारघटका

न सन्ति
; सर्वथा नायं ब*हिर् निष्कासयितव्य इति; सोऽभ्यन्तर एव

लाड्यते
; यावद् अपरेन समयेन दत्तो गृहपतिर् भृत्यजनपरिवृतो *नदीम् अजीरवतीं

स्नातुं संप्रस्थितः
; सुदत्तो दारकः कथयति: तात अहम् अपि गच्छामीति; स तं विप्रलम्भयितुम्

आरब्धः
: पुत्र इहैव शोभनं सलिलम्; नदी ग्राहाकुला; इयं ते धात्री

स्नापयिष्यतीति
; स रोदितुं प्रवृत्तः; मातास्य कथयति: आर्यपुत्र किमर्थम्

अयं दारको रौतीति
; तेन यथावृत्तं समाख्यातम्; सा कथयति: आर्यपुत्र त्वया

सार्धं गच्छतु
; कोऽत्र विरोधः; सुतरां गुप्तो भविष्यतीति; स तम् आदाय नदीं

गतः
; स्नापयित्वा कुले स्थापितः कथयति: तात किमर्थं मम

रक्षा क्रियते
? पुत्र तव दोषोऽस्ति; कथम् ? दत्तम् अलंकारं

याचनकेभ्योऽनुप्रयच्छसि
; किं तातो द्रव्येणार्थी ? पुत्र कोऽनार्थी

? तात यद्य् एवम् अवतारय माम्; स तेनावतारितः; ततस् तेनोभौ पाणी

नद्याम् आप्लाव्य सुवर्णयावदाप्तं धनेन धनकार्यं कृतावशिष्टम् अत्रैव प्लावय
; पुत्र किं त्वं

जलगतान् निधीन् पश्यसि
? तात न केवलं जलगतान् स्थलगतान् अपि सस्वामिकान् अस्वामिकान् अपि येऽपि

दूरे येऽप्य् अन्तिके
; दत्तो गृहपतिर् विस्मयोत्फुल्ललोचनः संलक्षयति: शक्यम् एवंविधेन

दानपतिना दानं दातुम् इति विदित्वा कथयति
: पुत्र यद्य् एवं

देहि दानं यथेष्टम् इति
; धर्मता ह्य् एषा: न तावत् पुत्रो यश्वस्वी भवति यावद् अस्य

पिता जीवतीति।

 

यावद् अपरेण समयेन

दत्तो गृहपतिः कालगतः
; सुदत्तो गृहस्वामी सम्वृत्तः; सततम् अनाथेभ्यः

पिण्डकम् अनुप्रयच्छतीति समन्ताच् छब्दो विसृतः
: दत्तस्य गृहपतेः

पुत्रः सुद्दतो गृहस्वामी संवृत्तः
; सोऽनाथेभ्यः पिण्डकम्

अनुप्रयच्छतीति
; तस्यानाथपिण्डदो गृहपतिर् इति संज्ञा संवृत्ता; ततस् तेन सदृशात्

कुलात् कलत्रम् आनितम्
; स तया सार्धम् क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य

परिचारयतः पुत्रो जातः
; एवं यावत् सप्त पुत्रा जाताः; तेन षण्णां निवेशः

कृतः
; सप्तमः सुजातो नाम्ना; तस्य सदृशं कुलं

समन्वेषगे
; न आरागयति; स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः; तस्य मधुस्कन्धो

नाम मानवो वयस्यः
; तेनासौ दृष्टस् तथा चिन्तापरः; स कथयति: कस्मात् त्वं गृहपते

करे कपोलं दत्त्वा चिन्तापरस् तिष्ठसीति
; स कथयति: मया षण्णां पुत्राणं

निवेशः कृतः
; सप्तमस्य सुजातस्य सदृशकुलं चिन्तयामि कतरत् तत् कुलं यतोऽस्य निवेशं

करिष्यामीति
; स कथयति: अल्पोत्सुकस् तिष्ठ अहम् अस्य सदृशं कुलं गवेषयामि; कतरस्मिन् देशे

? स कथयति: मगधविषयं तावद् गच्छमि; एवं कुरु; स राजगृहं गतः; राजगृहे अन्यतमो

गृहपतिर् आढ्यो महाधनो महाभोगोऽनाथपिण्डदस्य प्रतिरूपः
; स तस्य गृहं प्रविष्टो

द्वारशालायां स्थित्वा कथयति
: स्वस्ति स्वस्तीति; तस्य गृहजनाः कथयन्ति: ब्राह्मण किं प्रार्थयसि

? कन्याभिक्षाम्; कस्यार्थाय ? श्रावस्त्याम्

अनाथपिण्डदो गृहपतिस् तस्य पुत्रः सुजातो नाम्ना
; ते कथयन्ति सदृशोऽस्माकं

कुलेन
; अपि तु प्रभूतम् अस्माकं कुलशुल्कम्; *कियत्प्रभूतम् ? शतम् अश्वानां

शतं निष्काणां शतम् अश्वतरीरथानां शतं काम्बोजिकानां कन्यानाम् इति
; मधुस्कन्धेन* मानवेनानाथपिण्डदस्य

गृहपतेर् अनेनार्थेन लेखो दत्तः
; तेनापि वाचयित्वा प्रतीच्छ सर्वं मया देयम्

इति
; तेन दिवसमुहूर्तयोगेन प्रतीष्टम्।

 

ततस् तैः शुचिना

प्रणीतेन प्रभूतेनाहारेण संतर्पितो मानवकः शालां गत्वा वासम् उपगतो विषूचितः
; अपरिचिता ब्राह्मणाः; स तैर् अशुचिभयाद्

बहिर् निष्कासयित्वा च्छोरितः
; दैवाद् आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ

तं प्रदेशम् आगतौ
; स ताभ्यां दृष्टः; ततस् ताभ्यां वंशविदलिकया निर्लिख्या पाण्डुमृत्तिकया

उद्वर्त्य स्नापितः
; तस्यैव धर्मं देशयित्वा प्रक्रान्तौ; तस्य प्रवाहिका

नावतिष्ठते
; स तयोर् अन्तिके चित्तम् अभिप्रसाद्य कालगतः; चातुर्महाराजिकेषु

देवेषुपपन्नः
; स वैश्रवणस्य महाराजस्य सकाशं गत्वा भवनं प्रार्थयते; स कथयति: गच्छ तद् एव ते

शिविकाद्वारं भवनम् इति
; स तत्र गत्वा नैवासिकः संवृत्तः।

 

विदेहराजेन राज्ञो

बिंबिसारस्य हैमवतानां नागानां शतम् अनुप्रेषितम्
; तेन राज्ञा प्रसेनजितः

कोसलस्य सन्दिष्टम्
: मम विदेहराजेन हैमवतानां नागानां शतम् अनुप्रेषितम्; यद्य् अर्थी भवसि

प्रेषय इति।

 

अनाथपिण्डदो गृहपतिर्

येन राजा प्रेसेनजित् कोसलस् तेनोपसंक्रान्तः
; उपसंक्रम्य राजानं

प्रसेनजितं कोसलम् इदम् अवोचत्
: देव मम राजगृहे किंचित् प्रयोजनम्; तत्र गत्वा आगमिष्यामीति; राजा कथयति: शोभनं गच्च ममापि

तस्मात् हस्तिशतम् आनेयं
*तद् अनेष्यसीति; स कथयति: देव यदि मम तत्र

प्रयोजनं
<> भवति ग्रहीष्यामीति; इहागम्य देवस्य

चित्तग्राहं करिष्यामीति
; राजा कथयति: शोभनम् एवं भवत्व् इति।

 

Aनाथपिण्डद meets

the Buddha

 

ततोऽनाथपिण्डदो

गृहपतिः प्रभूतं कुलशुल्कम् आदाय राजगृहं गतः
; स यस्य गृहपतेर्

गृहे वासम् उपगतः स गृहपतिः सरात्रम् एवोत्थायान्तर्जनम् आमंत्रयते
; उत्तिष्ठार्या

उत्तिष्ठ
; भद्रमुखाः काष्ठानि पाटयत समितिं प्रज्वालयत; भक्तं पचत; सूपिकं पचत; खाद्यकान्य् उल्लाडयत; प्रतिजागृत मण्डलवातम्

इति
; अथानाथपिण्डस्य गृहपतेर् एतद् अभवत्: किं पुनर् अस्य

गृहपतेर् आवाहो वा विवाहो वा भविष्यति
, राष्ट्रं वानेन

भक्तेनोपनिमन्त्रितम्
? श्रेणी वा, पूगो वा पर्षदो वा ? राजा वानेन मागधः

श्रेण्यो बिम्बिसारः भक्तेनोपनिमन्त्रितः
; इति विदित्वा तं

गृहपतिम् रास्त्रं वा त्वया भक्तेनोपनिमन्त्रितं श्रेणी वा पूगो वा पर्षदो वा राजा

वा ते मागधः श्रेण्यो बिम्बिसारो भक्तेनोपन विवाहो वा नापि मया राष्ट्रं भक्तेनोपनिमन्त्रितम्
, न श्रेणी न पूगो

न पर्षदो नापि राजा मागधः श्रेण्यो बिम्बिसारो भक्तेनोपत्रित
; इति अनाथपिण्डदस्य

गृहपतेर् बुद्ध इत्य् अश्रुतपूऱ्वं घोषं श्रुत्वा सर्वरोमकूपान्य्
*आहृष्टानि; स आहृष्टरोमकूपस्

तं गृहपतिम् इदम् अवोचत्
: क एष गृहपते बुद्धो नाम ? अस्ति गृहपते श्रमणो

गौतमः शाक्य
*पुत्रः शाक्यकुलात् केशश्मश्रू अवतार्य काषायाणि वस्त्राण्य् आच्चाद्य

सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः
; सोऽनुत्तरां सम्यक्संबोधिम्

अभिसंबुद्धः
; स एष गृहपते बुद्धो नाम; क एष गृहपते सङ्घो

नाम
? सन्ति गृहपते क्षात्रियकुलाद् अपि कुलपुत्राः केशश्मश्रू अवतार्य काषायाण्य्

वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्दया अनागाराद् अनागारिकां तम् एव भगवन्तंप्रव्रजितम्

अनुप्रव्रजिताः
; ब्राह्मणकुलाद् अपि वैश्यकुलाद् अपि शूद्रकुलाद् अपि कुलपुत्राः केशश्मश्रू

अवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यग् एव श्रद्धया अनागाराद् अनागारिकां तम्

एव भगवन्तं प्रव्रजितम् अनुप्रव्रजिताः
; स एष गृहपते सङ्घो

नाम
; <श्वह> स मया बुद्धप्रमुखो भिक्षुसङ्घोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; कुत्र गृहपते स

भगवान् एतर्हि विहरति
? अस्मिन्न् एव राजगृहे शीतवने श्मशाने; लभ्यं गृहपते सोऽस्माभिर्

भगवान् द्रष्टुम्
? तेन हि गृहपते आगमय तावत् त्वम्; स्थानम् एतद् विद्यते

यद् इहागतं श्वो द्रक्ष्यसि
; अनाथपिण्डदो गृहपतिस् तां रात्रिं बुद्धालम्बनया

स्मृत्या मिद्धम् अवक्रान्तः
; सोऽप्रभाते प्रभातसंज्ञी येन शिवकद्वारं

तेनोपसङ्क्रान्तः
; तेन खलु समयेन शिवकद्वारं रात्र्या द्वौ यामौ विवृतं तिष्ठति, पूर्वकं पश्चिमकं

, माहैव आगन्तुकानां गमिकानां च दूतानां विघ्नो भविष्यतीति; यावत् पश्यति शिवकद्वारं

विवृतम् आलोकेन च स्फुटम्
; तस्यैतद् अभवत्: नूनम् प्रभाता रजनि; तथाहि शिवकद्वारं

विवृतं तिष्ठति
; इति विदित्वा तेनैव आलोकेन नगरान् निष्क्रान्तः; समनन्तरनिष्क्रान्तस्य

चास्य य आलोकः
*सोऽन्तर्हितः; अन्धकारं प्रादुर्भूतम्; तस्या<भू>द् भयम्; अभूच् छम्भितत्वम्; अभूद् रोमहर्षह्; माहैव कश्चिद्

विहेतयेन् मनुष्यो वामनुष्यो वा धूर्तको वा असंप्राप्तम् वा स्यात् प्रभूतं कुलशुल्कम्

इति
; विदित्वा प्रतिनिवर्तितुकामो मधुस्कन्धस्य देवपुत्रस्य स्थण्डिलं प्रदक्षिणीकरोति, नमस्करोति च; अथ मधुस्कन्धस्य

देवपुत्रस्य एतद् अभवत्
: अद्यैवानाथपिण्डदेन गृहपतिना सत्यदर्शनं कर्तव्यम्; अद्यैवायं बुद्धं

भगवन्तम् अपास्य अन्यदेवतानमस्कारं करिष्यति
; इति विदित्वा यावच्च

शिवकद्वारं यावच्च शीतवनं श्मशानम् अत्रान्तराद् उदारेणावभासेनावभास्य अनाथपिण्डदं

गृहपतिम् इदम् अवोचत्
: अभिक्रम गृहपते, मा प्रतिक्रम; अभिक्रमतस् ते

श्रेयो भविष्यति
, न प्रतिक्रमतः; तत् कस्य हेतोः ?

 

शतम् अश्वा शतं

निष्काः शतम् अश्वतरीरथाः।

नानावित्तस्य संपूर्णाः

शतं च वडवारथाः।

पदाविहारस्यैकस्य

कलां नार्हन्ति षोडशीम्॥

 

अभिक्राम गृहपते, मा प्रतिक्राम; अभिक्रमतस् ते

श्रेयो भवति
; न प्रतिक्रमतः; तत् कस्य हेतोः ?

 

शतं हैमवता नागाः

सुवर्णमणिकल्पिताः।

ईषादन्ता महाकाया

व्युढवन्तो मतङ्गजाः।

पदाविहारस्यैकस्य

कलां नार्हन्ति षोडशीम्॥

 

अभिक्राम गृहपते, मा प्रतिक्राम; अभिक्रमतस् ते

श्रेयो भवति
; न प्रतिक्रमतः; तत् कस्य हेतोः ?

 

शतं काम्बोजिका

कन्याः आमुक्तमणिकुण्डलाः।

सुवर्णकेयूरधराः

निष्कग्रीवाः स्वलङ्कृताः।

पदाविहारस्यैकस्य

कलां नार्हन्ति षोडशीम्॥

 

अभिक्राम गृहपते, मा प्रतिक्राम; अभिक्रामतस् ते

श्रेयो भवति
, न प्रतिक्रामतः; *अथानाथपिण्डदो गृहपतिस् तं देवपुत्रम् इदम्

अवोचत्
: कस् त्वं भद्रमुख? अहम् अस्मि गृहप्ते मधुस्कन्धो नाम माणवः, तवैव पुराणो गृहसखा; सोऽहं शारिपुत्रमौद्गल्यायनयोर्

भिक्ष्वोर् अन्तिके चित्तम् अभिप्रसाद्य कालगतश् चातुर्महाराजिकेषु देवेषूपन्नः
, अस्मिन्न् एव शिविकाद्वारे

नैवासिकः
; तस्माद् अहम् एवं वदामि: अभिक्राम गृहपते

मा प्रतिक्राम
; अभिक्रामतस् ते श्रेयो भवति, न प्रतिक्रामत

इति
; *अथानाथपिण्डदस्य गृहपतेर् एतद् अभवत्: नावरो बुद्धो भविष्यति, नावरं धर्माख्यानं, यत्रेदानीं देवता

अपि औत्सुक्यम् आपद्यन्ते तस्य भगवतो दर्शनाय
; इति विदित्वायेन

शीतवनं श्मशानं तेनोपसङ्क्रान्तः
; तेन खलु समयेन बहिर् विहारस्याभ्यवकाशे

भगवान् चङ्क्रमेण चङ्क्रम्यते
, यद्भूयसा अनाथपिण्डदं गृहपतिम् आगमयमानः; अद्राक्षीत् अनाथपिण्डदो

गृहपतिर् भगवन्तम् दूराद् एव
; दृष्ट्वा च पुनर् येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तम्

गृहपतिः प्रतिसंमोदनया प्रति
*सम्मोदते: कच्चिद् भगवान्

सुखं शायित इति
; अथ भगवांस् तस्यां वेलायां गाथा भाषते;

 

सर्वथा वै सुखं

शेते ब्राह्मणः परिनिर्वृतः।

लिप्यते यो न कामैर्

हि विप्रमुक्तो निरुपधिः॥

चित्वेह सर्वम्

आशक्तिन् विनीय हृदयज्वरम्।

उपशान्तः सुखं शेते

शान्तिप्राप्तेन चेतसा॥

 

अथ भगवान् अनाथपिण्डदं

गृहपतिम् आदाय विहारं प्रविश्य प्रज्ञप्त एवासने निषण्णः
; अनाथपिण्डदो गृहपतिर्

भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः
; एकान्ते निषण्णं

अनाथपिण्डदं गृहपतिं भगवान् धर्मयया कथया सन्दर्शयति समादापयति समुत्तेज्यति
, संप्रहर्षयति; यासौ बुद्धानां

भगवतां पूर्वकालकरणीया धर्म्या कथा
, तद् यथा दानकथा

शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशम्सव्यवदानपक्ष्यान्

धर्मान् विस्तरेण संप्रकाशयति
; यदा चैनं भगवान् अद्राक्षीत् हृष्टचित्तम्

कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुम्
, तदा यासौ बुद्धानां

भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश्चत्वार्य् आऱ्यसत्यानि

विस्तरेण संप्रकाशयति
; अथानाथपिण्डदो गृहपतिस् तस्मिन्न् एवासने निषण्णश् चत्वार्य् आर्यसत्यान्य्

अभिसमेति
; तद्यथा दुःखं समुदयो निरोधो मार्गः; तद्यथा शुद्धं

वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति
, एवम् एवानाथपिण्डदो

गृहपतिस् तस्मिन्न् एव आसने निषण्णश् चत्वार्य् आर्यसत्यान्य् अभिसमेति
; तद्यथा दुःखं समुदयो

निरोधो मार्ग इति
; अथानाथपिण्डदो गृहपतिर् दृष्टधर्मा प्राप्तधर्मा विदितधर्मा *पर्यवगाढधर्मा तीर्णकाङ्क्षो

तीर्णविचिक्सः अपरप्रत्ययोऽनन्यनेयः शास्तुश् शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनाद्

एकांसम् उत्तरासङ्गं कृत्वा
, येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम्

इदम् अवोचत्
: अभिक्रान्तोऽहं भदन्ताभिक्रान्तः; एषोऽहं भगवन्तं

शरणं गच्छामि
; धर्मं च भिक्षुसङ्घं च; उपासकम् मां च

धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम् अभिप्रसन्नम्
; अथ भगवान् अनाथपिण्डदं

गृहपतिम् इदम् अवोचत्
: किन्नामा त्वं गृहपते? अहम् अस्मि भदन्त

सुदत्तो नाम्ना
; अपि त्व् अनाथेभ्यः पिण्डकम् अनुप्रयच्छामि; ततो माम् अनाथपिण्डदो

गृहपतिर् अनाथपिण्डदो गृहपतिर् इति जनः सङ्जानीते
; कुतोभूमकस् त्वं

गृहपते
? अस्ति भदन्त प्राचीनेषु जनपदेषु श्रावस्ती नाम कोसलानां निगमः; तत्राहं प्रतिवसामि।

 

Aनाथपिण्डद invites

the Buddha to Shravasti

 

आगच्छतु भगवान्

श्रावस्तीम्
; अहं भगवन्तम् उपस्थास्यामि यावज्जीवं चीवरपिण्डपातग्लानप्रत्ययभैषैयपरिष्कारैः

सार्धं भिक्षुसङ्घेन
; सन्ति गृहपते विहाराः श्रावस्त्याम् ? नो भदन्त; यत्र गृहपते विहाराः

सन्ति तत्र भिक्षाव आगन्तव्यं गन्तव्यं वस्तव्यं मन्यन्ते
; आगच्छतु भगवान्; अहं तथा करिष्यामि

यथा श्रावस्त्यां विहारा भविष्यन्ति
; भिषवश् च आगन्तव्यं

गन्तव्यं वस्तव्यं मंस्यन्त इति
; अधिवासयति भगवान् अनाथपिण्डदस्य गृहपतेस्

तूष्णींभावेन
; अनाथपिण्डदो गृहपतिर् भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ

शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः
; ततोऽस्य यद् राजगृहे

कृत्यं वा करणीयं वा तत् सर्वं कृत्वा परिप्राप्य
*पुनर् येन भगवांस्

तेनोपसङ्क्रान्तः
; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णोऽनाथपिण्डदो

गृहपतिर् भगवन्तम् इदम् अवोचत्
: अनुप्रयच्छ मे भगवन् भिक्षुं सहायकम् येन

सहायकेन श्रावस्त्यां भगवतोऽर्थाय विहारं कारयामीति
; भगवान् श्रावस्तीनिवासी

च जनकायो विधेयः
? पश्यति शारिपुत्रस्य भिक्षोः; तत्र भगवान् आयुष्मन्तम्

शारिपुत्रम् आमन्त्रयते
: समन्वाहर शारिपुत्र अनाथपिण्डदं गृहपतिम् सपरिवारं श्रावस्तीनिवासिनं

च जनकायम् इति
; अधिवासयत्य् आयुष्मांश् छारिपुत्रो भगवतस् तूष्णींभावेन; अथायुष्मांश् छारिपुत्रो

भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रकान्तः।

 

Shariputra

leaves for Shravasti

 

अस्थायुष्मांश्

छारिपुत्रस् तस्या एव रात्रेर् अत्ययात् पूर्वाह्णे निवास्य
, पात्रचीवरम् आदाय

राजगृहं पिण्डाय प्राविक्षत्
; राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः

पश्चाद्भक्तपिण्डपातप्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिशमय्य
, समादाय पात्रचीवरं, येन श्रावस्ती

तेन चारीकां प्रक्रान्तः
; अथानाथपिण्डदो गृहपतिः प्रभूतं शम्बलम् आदाय एकैकरात्रिनिवासेन श्रावस्तीम्

अनुप्राप्तः
; स प्रविशन्न् एव श्रावस्तीम् आरामेणा*रामम् उद्यानेनोद्यानम्

उपवनेनोपवनं चङ्क्रमं अनुचङ्क्रम्यमाणो सुविचरन्न् एवम् आह
: कतरः स पृथिवीप्रदेशो

भविष्यति श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकीर्णोऽल्पविलापो रात्राव् अल्पशब्दोऽल्पनिर्घोषः

अल्पदंशमशकवातातपसरीसृपसंस्पर्शः
, यत्राहं भगवतोऽर्थाय विहारं मापयिष्यामीति; अद्राक्षिद् अनाथपिण्डदो

गृहपतिः
, जेतस्य कुमरस्यारामं श्रावस्त्या नातिदूरे नात्यासन्ने दिवा अल्पाकीर्णम्

अल्पविलापं रात्राव् अल्पशब्दं अल्पनिर्घोषां अल्प
>दंशमशकवातातपसरीसृपस्पर्शम्; दृष्ट्वा च पुनर्

अस्यैतद् अभवत्
: अत्राहं भगवतोऽर्थाय विहारं मापयिष्यामीति स प्रविशन्न् एव स्वं निवेशनं

येन जेतः कुमारस् तेनोपसङ्क्रान्तः
; उपसङ्क्रम्य जेतं

कुमारम् इदम् अवोचत्
; अनुप्रयच्छ मे कुमार आरामम्; अहं तत्र भगवतोऽर्थाय

विहारं कारयामि इति
; स कथयति: न मे गृहपते सा आरामः; किन्तु उद्यानं

तन् ममेति
; द्विर् अपि त्रिर् अप्य् अनाथपिण्डदो गृहपतिर् जेतं कुमारम् इदम् अवोचत्: अनुप्रयच्छ मे

कुमार आरामम्
; अहं तत्र भगवतोऽर्थाय विहारं मापयामीति; अपरित्यक्तो <गृहपते> मे आरामः कोटिसंस्तरेणापि; पुनर् अप्य् अनाथपिण्डदो

गृहपतिर् जेतं कुमरम् इदम् अवोचत्
: कृतार्घोअसि कुमार

आरामस्य
; प्रतीच्छ हिरण्यसुवर्णम्; ममारामः; कः कृतार्घः ? त्वं कृतार्घः; तौ कृतार्घो न

कृतार्घ इति विवादम् आपन्नौ
, येन व्यावहारिकपुरुषास् तेन संप्रस्थिताः; अत्रान्तरे चतुर्णां

लोकपालानाम् एतद् अभवत्
: अयम् अनाथपिण्डदो गृहपतिर् उद्युक्तो भगवतोऽर्थाय विहारं मापय्हितुम्; साहाय्यम् अस्यानुष्ठेयम्

इति
; ततो व्यावहारिकपुरुषम् आत्मानम् अभिनिर्माय अर्थाधिकरणे निषण्णाः; अनाथपिण्डदो गृहपतिर्

जेतश् च कुमारो व्यावहारिकसकाशम् उपसङ्क्रान्तौ
; अथानाथपिण्डको

गृहपतिर् व्यावहारिकपुरुषाणाम् एतम् अर्थं विस्तरेण निवेदयति
; ते कथयन्ति: कृताघोऽसि कुमार

आरामस्य
: प्रतीच्छ सुवर्णम्: गृहपतेर् आराम इति; स तूष्णीम् अवस्थितः; अनाथपिण्डदो गृहपतिः

शकटैर् भारैः मूटैः पिटकैर् उष्ट्रैर् गोभिर् गर्दभैः प्रभूतं सुवर्णम् अभिनिर्हृत्य
, सर्वं जेतवनं संस्तर्तुम्

आरब्धः
; न परिसमाप्यते; तिष्ठते एवानास्तीर्णः कश्चित् पृथ्वीप्रदेशः; ततः अनाथपिण्डदो

गृहपतिर् एतम् अर्थं चिन्तयन् मुहूर्तं तूष्णीम् अस्थात्
: कतरत् तन् निधानं

भविष्यति
? नातिस्तोकं, नातिप्रभूतं येन अयम् अनास्तीर्णः पृथिवीप्रदेशः आस्तरिष्यति; न च पुनर् गोपयितव्यो

भविस्यतीति
; जेतः कुमारः संलक्षयति: नूनम् अनाथपिण्डदस्य

गृहपतेर् विप्रतिसारः
,कस्माद् आरामकारणाद् इयन्तं महान्तं धनस्कन्धं परित्यजामि; इति विदित्वा अनाथपिण्डदं

गृहपतिम् इदम् अवोचत्
: स चेत् त ह गृहपते विप्रतिसारः प्रतीच्छ सुवर्णम्; ममैवारामः; न मे कुमार विप्रतिसारः; अपि त्व् अहम्

एतम् एवार्थम् अनुचिन्तयन् मुहूर्तं तूष्णीम् अवस्थितः
; कतरत् तन् निधानं

भविष्यति
? नातिस्तोकं नातिप्रभूतं, येनायम् अनास्तीर्णः

पृथिवीप्रदेशः आस्तरिष्यति
; न च पुनर् गोपयितव्यो भविष्यतीति; अथ जेतस्य कुमारस्य

एतद् अभवत्
: न बता*वरो बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीम् अयं

गृहपतिर् आरामकारणाद् इयन्तं महान्तं धनस्कन्धं परित्यजति
; इति विदित्वा अनाथपिण्डदं

गृहपतिम् इदम् अवोचत्
: अनुप्रयच्छ मे गृहपते अनास्तीर्णं पृथिवीप्रदेशम्; अत्राहं भगवतोऽर्थाय

द्वारकोष्ठकं मापयामि
; अनाथपिण्डदो गृहपतिर् जेतस्य किमारस्य नास्तीर्णं पृथिवीप्रदेशम् अनुप्रयच्छति: यत्र जेतः कुमारो

भगवतोऽर्थाय द्वारकोष्ठकं मापयति।

 

Obstruction

by Tirthyas

 

अनानाठपिण्डदो गृहपतिर्

भगवतोऽर्थाय विहारं मापयितुम् आरब्ध इति तीव्रद्वेषपर्याकुलीकृतमनसस् तीर्थ्यस् ते

संभूय येनानाथपिण्डदो गृहपतिस् तेनोपसङ्क्रान्ताः
; उपसङ्क्रम्य कथयन्ति: मा त्वं गृहपते

श्रमणस्य गौतमस्य अर्थायात्र विहारं कारय
; किं कारणम् ? अस्माभिर् नगराणि

भाजितानि
; श्रमणस्य गौतमस्य राजगृहम्; अस्माकं श्रावस्ती; स कथयति: भाजितानि युष्माभिर्

नगराणि
, न तु मदीयं स्वापतेयम्; यस्याभिप्रेतं

तस्य धर्मस्कन्धं कारयामीति
; ते राज्ञः सकाशं गताः; तत्राप्य् अनाथपिण्डदेन

पराजिताः
; ध्वाङ्क्सास् तीर्थ्या अविकृतवदनाः कथयन्ति: गृहपते न ते कामकारम्

अनुप्रयच्छामः
; श्रमणस्य गौतमस्याग्रश्रावकः आगतः; स यद्य् अस्मान्

वादेन पराजयते
, कारय विहारम् इति; स कथयति: शोभनम्; आर्यशारिपुत्रं

तावद् अवलोकयामीति
; अथानाथपिण्डदो गृहपतिर् येनायुष्मान् शारिपुत्रः तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मतः

शारिपुत्रस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः
; एकान्तनिषण्णोऽनाथपिण्डदो

गृहपतिर् आयुष्मन्तं शारिपुत्रम् इदम् अवोचत्
: तीर्थ्या भदन्त

शारिपुत्र एवम् आहुः
: गृहपते न ते कामकारम् अनुप्रयच्छामः; श्रमणस्य गौतमस्य

अग्रश्रावक आगतः
; स यद्य् अस्मान् वादेन पराजयते, कारय विहारम् इति; कथम् अत्र प्रतिपत्तव्यम्

इति
; आयुष्मान् शारिसन्तीति; पश्यति, सन्ति; कस्यान्तिके प्रतिबद्धानि

ममैव
; पुनः संलक्षयति: किम् एतावन्त एव मम प्रतिबद्धा विनेया आहोस्विद्

अन्येऽपि वादेन विनेयाः सन्तीति
; पश्यति, सन्ति; कियच्चिरेण सन्निपतिष्यन्ति; पश्यति, सप्ताहस्यात्ययाद्

इति
; समन्वाहृत्य कथयति: गृहपते एवं भवतु; किं तु सप्तमे

दिवसे
; ततोऽनाथपिण्डदो गृहपतिः प्रीतिप्रामोद्यजातो येन तीर्थ्यास् तेन उपसङ्क्रान्तः; उपसङ्क्रम्य तीर्थ्यान्

इदम् अवोचत्
: भदन्त आर्यशारिपुत्रः कथयति: शोभनम्, एवं भवतु; किं तु सप्तमे

दिवसे इति
; ते संलक्षायन्ति; द्वाभ्याम् अत्र कारणाभ्याम् भवितव्यम्; अथवासौ निष्पलायितुकामः; अथवा पक्षं समन्वेष्टुकामः; किम् अत्र प्राप्तकालम्; वयम् अपि पक्षां

समन्वेषामह इति
; ते पक्षां समन्वेष्तुम् आरब्धाः; तैः पक्षम् समन्वेषमानै

रक्ताक्षो नाम परिव्राजको दृष्टः
; स तैर् उक्तः: त्वम् अस्माकं

सब्रह्मचारि
; श्रमणस्य गौतमस्याग्रश्रावकोऽस्माभिर् वादे*नाहूतः; स पक्षं समन्वेषते; त्वम् अस्माकं

साहाय्यं कल्पय
; कियता कालेन ? इतः सप्तमे दिवसे; शोभनम्, एवं भवतु; यदा युष्माकं सन्निपातो

भवति तदा ममारोचयितव्यम्
; तीर्थ्याः शङ्कितोद्विग्नमनसो दिवसानुदिवसं पक्षं समन्वेषयन्ते; दिवसांश् च गणयन्ति।

 

Tirthyas

and Sariputra contest

 

यावत् सप्तमे दिवसे

अनाथपिण्डदेन गृहपतिना विस्तीर्णावकाशे पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता
; आयुष्मतश् च शारिपुत्रस्यार्थाय

सिंहासनं प्रज्ञप्तम्
; नानादेशनिवासिनस् तीर्थ्याः सन्निपतिताः; श्रावस्तीनिवासि

जनकायः अनेकानि च तत्सामङ्तनिवासीनि प्राणिशतसहस्राणि
, कानिचित् कुतूहलजातानि, कानिचित् पूर्वकैः

कुशलमूलैः संचोद्यमानानि
; तत आयुष्मान् शारिपुत्रोऽनाथपिण्डदेन गृहपतिना सपरिवारेण संपुरस्कृतो

वादिमण्डलं प्रविश्य विनेयजनम् अभिसमीक्ष्य स्मितपूर्वं समशान्तेनेर्यापथेन सिंहासनम्

अभिरुह्य निषण्णः
; सर्वैव सा पर्षद् अवहितचेतस्का आयुष्मन्तम् शारिपुत्रं अभिसमीक्षमाणा

निषण्णा।

 

Defeat

of the Tirthyas

 

तत आयुष्मान् शारिपुत्रस्

तीर्थ्यान् आमन्त्रयामास
: भवन्तः किं तावत् करिष्यथ ? आहोस्विद् विकरिष्यथ

? ते कथयन्ति: वयं कुर्मः; त्वां विकुरु; आयुष्मान् शारिपुत्रः संलक्षयति: यद्य् अहं करिष्यामि; सदेवकोऽपि लोको

न शक्ष्यति विकर्तुम्
; प्राग् एव रक्ताक्षः परिव्राजकः; इति विदित्वा रक्ताक्षं

परिव्राजकम् इदम् अवोचत्
: त्वं कुरु, अहं विकरिष्यामीति; स इन्द्रजाले कृतावी; तेन सुपुष्पितः

सहकारपादपो निर्मितः
; आयुष्मता शारिपुत्रेण तुमुलो वातवर्ष उत्सृष्टः; येनासौ समूल उत्पाट्य

इतश् चामुतश् च विकीर्णो योगिजनानाम् अप्य् अविषयीभूतः
; ततस् तेन पद्मिनी

निर्मिता
; आयुष्मता शारिपुत्रेण कलभहस्ती निर्मितः; तेन सा समन्तान्

मर्दिता
; तेन सप्तशीर्षो नागो निर्मितः; आयुष्मता शारिपुत्रेण

गरुडो निर्मितः
, येनासाव् अपहृतः; तेन वेताडो निर्मितः; आयुष्मता शारिपुत्रेण

मन्त्रैः कीलितः
; कुप्रयुक्तो वेताड आत्मवधाय चेतयते; स तस्यैवोपरि प्रधावितः; ततोऽसौ भीतस् त्रस्तः

संविग्न आहृष्टरोमकूपः आयुष्मतः शारिपुत्रस्य पादयोर् निपतितः
: आर्य शारिपुत्र

त्रायस्व शरणागतोऽस्मीति
; तत आयुष्मता शारिपुत्रेण मन्त्रा उत्कीलिताः; स वेताडो व्युपशान्तः; तस्यायुष्मता शारिपुत्रेण

धर्मो देशितः
; स प्रसादजातः कथयति: लभेयाहम् आर्यशारिपुत्र

स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्
; चरेयम् अहम् आर्यशारिपुत्रस्यान्तिके

ब्रह्मचर्यम् इति
; आयुष्मता शारिपुत्रेण स प्रव्राजितः उपसंपादितः; अववादो दत्तः, तेनोद्यच्छमानेन

घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्
; अर्हन् संवृत्तः; त्रैधातुकवीतरागः

समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्या
*विदारिताण्डकोशो

विद्याभिज्ञप्रतिसंवित्प्राप्तो भवलाभलोभपराङ्मुखः
, सेन्द्रोपेन्द्राणां

देवानां पूज्यो मान्योऽभिवाद्यश् च संवृत्तः
; ततः सा पर्षत्

विस्मयोत्फुल्ललोचना संवृत्ता
; आयुष्मति शारिपुत्रेऽभिप्रसन्ना कथयति: महान् आर्यशारिपुत्रेण

वादिरृषभो निगृहीतः
; इति विदित्वा आयुष्मतः शारिपुत्रस्य मुखेऽवलोकिकाः संवृत्ताः; तत आयुष्मता शारिपुत्रेण

तस्याः पर्षदः आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी

धर्मदेशना कृता यां श्रुत्वा अनेकैः सत्वसहस्रैः महान् विशेष आगतः
; कैश्चिच् छ्रावकबोधौ

चित्तान्य् उत्पादितानि
; कैश्चित् प्रत्येकायां बोधौ; कैश्चिद् अनुत्तरायां

सम्यक्संबोधौ
; कैश्चिच् छरणगमनशिक्षापदानि गृहीतानि; कश्चित् स्रोत‍आपत्तिफलं

साक्षात्कृतम्
; कैश्चिच् सकृदागामिफलम्; कैश्चिद् अनागामिफलम्; कैश्चित् प्रव्रैय

सर्वक्लेशसंप्रहाणाद् अर्हत्वं साक्षात्कृतम्
; यद्भूयसा सा पर्षत्

बुद्धनिम्ना
, धर्मप्रवणा, सङ्घप्राग्भारा, व्यवस्थापिता; तीर्थ्याः संलक्षयन्ति: न शक्यम् अस्माभिर्

अयं वादे निग्रहीतुम्
; उपायसंविधानं कर्तव्यम्; अत्रैव भृतिकया

कर्म कुर्मः
; ततश् छिद्रं लब्ध्वा बैष्केणैनं प्रघातयाम इति; ते सर्वे संभूय

अनाथपिण्डदस्य गृहपतेः सकाशं गत्वा कथयन्ति
: गृहपते त्वयास्माकं

सर्वाणि वृत्तिपदानि समुच्छिन्नानि
; तद् अनुकम्पां

कुरु
; त्वदीयविहारे भृतिकया कर्म कुर्मः; चिरं वयम् अत्र

अवस्थिताः
; मा देशपरित्यागं कुर्म इति; अनाथपिण्डदः कथयति: आर्यशारिपुत्रं

तावद् अवलोकयामि
; स येनायुष्मान् शारिपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्यायुष्मन्तं

शारिपुत्रम् इदम् अवोचत्
: <आर्य>, तीर्थ्याः कथयन्ति, अस्माकं त्वया सर्वाणि वृत्तिपदानि समुच्छिन्नानि; तद् अनुकम्पां

कुरु
; त्वदीये विहारे भृतिकया कर्म कुर्मः; चिरं वयम् अत्रावस्थिताः; मादेशपरित्यागं

कुर्म इति
; आयुष्मांश् छारिपुत्रः समन्वाहर्तुं प्रवृत्तः: किं तेषां सन्ति

कानिचित् कुशलमूलानि आहोस्विन् न सन्ति इति पश्यति
, सन्ति; कस्यान्तिके प्रतिबद्धानि; ममैवेति; समन्वाहृत्य कथयति: गृहपते एवं भवतु, कोऽत्र विरोध इति; ते तस्मिन् विहारे

भृतिकया कर्म कर्तुम् आरब्धाः
; आयुष्मता शारिपुत्रेण लतावारिकः पुरुषो

रौद्रो निर्मितः
; स तत् कर्म कारयितुम् आरब्धः; आयुष्मान् शारिपुत्रः

तेषां विनयकालं ज्ञात्वा तत्समीपे वृक्षमूलस्याधस्ताच् चङ्क्रम्यमाणस् तिष्ठति
; स तैर् दृष्टः; ते संलक्षयन्ति, अयम् अस्य कालः

प्रघातयितुं प्रविविक्ते तिष्ठतीति
; ते तस्य सकाशम्

उपसङ्क्रम्य परिवार्य अवस्थिताः
; आयुष्मान् शारिपुत्रः संलक्ष्यति: कीदृशेन चित्तेन

एते मत्सकाशम् उपसङ्क्रान्ता इति
; यावत् पश्यति वधकचित्तेन; तेनासौ लतावारिको

निर्मित उत्सृष्टः
; तेन तेऽभिद्रुता गच्छत कर्म कुरुतेति; ते कथयन्ति: आर्य शारिपुत्र

परित्रायस्व
; स कथयति: आयुश्मन् गच्छ; विश्राम्यन्तु तावद् इति; ते संलक्षयन्ति: ईदृशोऽस्त्य् अयं

महात्मा
; वयम् अस्य वधकचित्ताः; एषोऽस्माकं मैत्रचित्तः

इति विदित्वा अभिप्रसन्नाः
; तत आयुष्मता शारिपुत्रेण तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा

तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा विंशतिशिखरसमुद्गतं

सत्कायदृष्टिशैलं ज्ञाववज्रेण भित्त्वा स्रोत‍आपत्तिफलं साक्षात्कृतम्।

 

Conversion

of the Tirthyas

 

ते दृष्टसत्याः

कथयन्ति
: लभेम<हि> वयं शारिपुत्र स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेम वयं भदन्तशारिपुत्रस्यान्तिके

ब्रह्मचर्यम् इति ते आयुष्मता शारिपुत्रेण प्रव्राजिता उपसंपादिताः
; अववादो दत्तः; तैर् युज्यमानैर्, घटमानैर्, व्यायच्छमानैर्

इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया

पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इत्य् अर्हन्तः संवृत्ताः
; त्रैधातुकवीतरागाः

समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता

भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश् च

संवृत्ताः।

 

Construction

of Viharas

 

तत्र आयुष्मता शारिपुत्रेण

विहारसूत्रम् एकान्ते गृहीतम्
; अनाथपिण्डदेनापि गृहपतिना एकान्ते गृहीतम्; आयुष्मान् शारिपुत्रः

स्मितं प्राविष्कर्तुम् आरब्धः
; अनाथपिण्डदो गृहपतिः कथयति: नाहेत्वप्रत्ययम्

आर्य शारिपुत्र तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति
; कः आर्य शारिपुत्र

हेतुः
? कः प्रत्ययः स्मितस्य प्राविष्करणाय ? एवम् एतद् गृहपते, एवम् एतत्; नाहेत्वप्रत्ययं

तथागता वा तथागतश्रावका वा स्मितं प्राविष्कुर्वन्ति
; त्वया चेह सूत्रं

गृहीतम्
; तुषिते देवनिकाये सौवर्णम् भवनम् अभिनिर्वृत्तम्; ततोऽनाथपिण्डदो

गृहपतिर् विस्मयोत्फुल्ललोचनः कथयति
: आर्यशारिपुत्र

यद्य् एवं
, तेन हि पुनः सूत्रं प्रसारय भूयस्या मात्रया; चित्तम् अभिप्रसादयामीति; आयुष्मता शारिपुत्रेण

तत् सूत्रम् गृहीतम्
; अनाथपिण्डदेन गृहपतिना भूयस्या मात्रया तीव्रेण प्रसादवेगेन चित्तम्

अभिर्पसादितम्
; येन प्रसादजातेन समनन्तरम् एव तत् सौवर्णं भवनं चतूरत्नमयं संवृत्तम्; आयुष्मता चास्य

शारिपुत्रेण निवेदितम्
; ततोऽनाथपिण्डदेन गृहपतिना उत्तरोत्तरप्रवृद्धपुण्यसन्ततिना षोडशमहल्लिका

विहारा मापिताः
; षष्टिश् च कुटिकावस्तूनि; षोडशमहल्लिकान्

विहारान् मापयित्वा षष्टिं च कुटिकावस्तूनि सर्वोपकरणैः पूरयित्वा येनायुष्मान् शारिपुत्रस्

तेनोपसङ्क्रान्तः
; उपसङ्क्रम्यायुष्मन्तं शारिपुत्रम् इदम् अवोचत्: कियत्प्रमाणैर्

आर्यशारिपुत्र प्रयाणकैर् भगवान् अध्वानं गच्छति
? तद् यथा गृहपते

राजा चक्रवर्ती
; कियत्प्रमाणै राजा चक्रवर्ती ? दशक्रोशकैर् गृहपते

राजा चक्रवर्ती प्रयाणकैर् अध्वानं गच्छति
; ततोऽनाथपिण्डदेन

गृहपतिना यावच् च श्रावस्ती यावच् च राजगृहम् अत्रान्तराद् वासकान् परिसङ्ख्याय परिक्रमणका

मापिताः
; दानशला कारिता; कालारोचकः पुरुशः स्थापितः; छत्रध्वजपताकाशोभिताश्

चन्दनवारिपरिषिक्ताः सुरभिधूपघटिकोपनिबद्धास् तोरणाः कारिताः
; कालिकानि यामिकानि

च भैषज्यान्य् उपस्थापितानि।

 

Messenger

to Buddha

 

ततः संभृतसंभारोऽन्यतमं

पुरुषम् आमन्त्रयते
: एहि त्वं भोः पुरुष; येन भगवांस् तेनोपसङ्क्राम; उपसङ्क्रम्यास्माकं

वचनेन भगवतः पादौ वन्दित्वा अल्पाबाधतां अ पृच्छ अल्पातङ्कतां च
, लघूत्थानतां च

यात्रां च
, बलं च, सुखं च अनवद्य*तां च, स्पर्शविहारतां

; एवं च वद, आगच्छतु भगवान् श्रवस्तीम्; अहं भगवन्तम् उपस्थास्यामि

यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभ्हैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन
<इति>; एवम् आर्य इति

स पुरुषोऽनाथपिण्डदस्य गृहपतेः प्रतिश्रुत्य येन राजगृहं तेन संप्रस्थितः
; अनुपूर्वेण राजगृहम्

अनुप्राप्तः
; ततो मार्गश्रमं प्रतिविनोद्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः

पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्
; एकान्तस्थितः स

पुरुषो भगवन्तम् इदम् अवोचत्
: अनाथपिण्डदो भदन्त गृहपतिर् भगवतः पादौ

शिरसा वन्दते
; पूर्ववद् यावत् स्पर्शविहारतां च; सुखी भवतु भोः

पुरुष अनाथपिण्डदो गृहपतिस् त्वं च
; अनाथपिण्डदो भदन्त

गृहपतिर् एवम् आह
: आगच्छतु भगवान् श्रावस्तिम्; अहं भगवन्तम् उपस्थास्यामि

यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्वपरिष्कारैः सार्धं भिक्षुसङ्घेनेति
; अधिवासयति भगवांस्

तस्य पुरुषस्य तूष्णींभावेन
; अथ स पुरुषो भगवतस् तूष्णींभावेनाधिवासनां

विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः।

 

Buddha

arrives at shrAvastI

 

ततो भगवान् दान्तो

दान्तपरिवारः
, शान्तो शान्तपरिवारः, मुक्तो मुक्तपरिवारः, आश्वस्त आश्वस्तपरिवारः, विनीतो विनीतपरिवारः, अर्हन्न् अर्हत्परिवारः, वीतरागो वीतरागपरिवारः, प्रासादिकः प्रासादिकपरिवारः, ऋषभ इव गोगणपरिवृतः, गज इव कलभपरिवृतः, सिंह इव दंष्ट्रिगणपरिवृतः, हंस इव हंसगणपरिवृतः, सुपर्णीव पक्षिगणपरिवृतो, विप्र इव शिष्यगणपरिवृतः, सु*वैद्य इवातुरगणपरिवृतः

शूर इव योधगणपरिवृतः देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव

परिजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतः चक्रवर्तीव पुत्रसहस्रपरिवृतः चन्द्र इव

नक्षात्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतः धृतराष्ट्र इव गन्धर्वगणपरिवृतः विरूढक

इव कुम्भाण्डगणपरिवृतः विरूपक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः

शक्र इव तृदशगणपरिवृतो ब्रह्मेव ब्रह्मकायपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो

विमद इव गजपतिः सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः

समलंकृतोऽशीत्यनुव्यञ्जनैर् विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्वसहस्रातिरेकप्रभो

जङ्गम इव रत्नपर्वत समन्ततोभद्रको दशभिर् बलैश् चतुर्भिर् वैशरद्यैस् त्रिभिर् आवेणिकैः

स्मृत्युपस्थानैर् महाकरुणया च समन्वागतो भिक्षुसंघेन अनाथपिण्डदेन च गृहपतिना च सपरिवारेण

श्रावस्तीनिवासिना च जनकायेन अनेकैश् च देवताशतसहस्रैर् अनुगम्यमानः श्रावस्तीं नगरीं

<अनु>प्राप्तः; यदा <> भगवता श्रावस्तीं नगरीं प्रविशता साभिसंस्कारं नगरेन्द्रकीले दक्षिणपादो

न्यस्तः तदा षड्विकारं पृथिवीकम्पो जातः
; इयं महापृथिवी

चलति संचलति संप्रचलति
; व्यथते प्रव्यथते संप्रव्यथते; पूर्वो दिग्भाग

उन्नमति पश्चिमोऽवनमति
; पश्चिम उन्नमति पूर्वोऽवनमति; दक्षिण उन्नमति

उत्तरोऽवनमति
; उत्तर उन्नमति दक्षिणोऽवनमती; अन्त उन्नमति मध्योऽवनमति; मध्य उन्नमति अन्तोऽवनमति; सर्वश् चायं लोक

उदारेणावभासेन स्फुटः संवृत्तः सार्धं लोकान्तरिकाभिर् अन्तरीक्षे च देवदुन्दुभयस्

ताडिता गगनतलस्था देवता भगवत उपरिष्टाद् दिव्यान्य् उत्पलानि क्षेप्तुम् आरब्धाः पद्मानि

कुमुदानि पुण्डरिकान्य् अगरुचूर्णानि कुङ्कुमचूर्णानि तमालपत्राणि दिव्यानि मान्दरकाणि

पुष्पाणि क्षिपन्ति चैलविक्षेपांश् चाकार्षुः।

 

Effects

felt following Buddha's arrival

 

भगवतः पुरप्रवेशे

इमान्य् एवंविधान्य् अश्चर्यान्य् अभुवन् अपराणि च
; संक्षिप्तानि विशालीभवन्ति

नीचान्य् उच्चानि भवन्ति उच्चानि च समानि भवन्ति हस्तिनः क्रोशन्ति अश्वा ह्रेषन्ते

ऋषभा नर्दन्ते गृहगतानि विविधानि वादित्रबाण्डानि स्वयं नदन्ति
; अन्धाश् चक्षूंषि

प्रतिलभन्ते बधिराः श्रोत्रं मूकाः प्रव्याहरणसमर्था भवन्ति
; परिशिष्टेन्द्रियविकला

इन्द्रियाणि प्रतिलभन्ते
; मद्यमदाक्षिप्ता विमदीभवन्ति; विषपायिता निर्विषीभवन्ति; अन्योन्यवैरिणो

मैत्रीं प्रतिलभन्ते
; गुर्विण्यः स्वस्तिना प्रसूयन्ते; बन्धनबद्ध मुच्यन्ते; अधना <धना>नि प्रतिलभन्ते; इमानि चान्यनि

<> भगवतः पुरप्रवेषे अद्भुतशतसहस्रानि प्रादुर्भवन्ति।

 

The

Jetavana

 

ततो भगवान् एवंविधेन

महता सत्कारेण श्रावस्तीं प्रविष्टः
; प्रविश्य पुरस्ताद्

भिक्षुसंघ
*स्य प्रज्ञप्त एवासने निषन्नः; अथानाथपिण्डदो

गृहपतिः सुहृत्सम्बन्धिबान्धवजनपरिवृतः सौवर्णं भृंगारम् आदाय वारिधारां पातयितुम्

आरब्धः
; सा न प्रपतति; अथानाथपिण्डदो गृहपतिर् दुर्मनः संलक्षयति: मा मया कानिचित्

सापक्षालानि कर्माणि कृतान्य् अपि त्व् एतस्मिन् प्रदेशे स्थितेन त्वया पूर्वकानां

सम्यक्संबुद्धानाम् अयं प्रदेशो निर्यातितः
; अन्यस्मिन् प्रदेशे

स्थित्वा पातय
; तेन <अन्यस्मिन् प्रदेशे स्थित्वा> पातिता; भगवान् पञ्चाङ्गोपेतेन

स्वरेण स्वयम् एव जेतवनम् उद्घोषयति
; उद्घोष्यमाणे जेतवने

जेतः कुमारः संलक्षयति
: अहो बत भगवान् ममापि तत्प्रथमतरं नामोद्ग्रहणं कुर्यात् इति; भगवता जेतस्य कुमारस्य

चेतसा आज्ञाय तत्प्रथमत उद्ग्रहणं कृतम्
: इदं भिक्षवो जेतवनम्

अनाथपिण्डदस्यारामः इति
; श्रुत्वा जेतः कुमारोऽतीवाभिप्रसन्नः मम भगवता तत्प्रथमतो नामोद्ग्रहणं

कृतम् इति
; तेन प्रीतिप्रामोद्यजातेन सर्वेणैव तेन द्रव्यजातेन भगवतोऽर्थाय चतूरत्नमयं

द्वारकोष्ठकं कारितम्
; तथा संगीतकारैर् अपि स्थविरैः सूत्र उपनिबद्धम् भगवान् श्रावस्त्यां

विहरति जेतवनेऽनाथपिण्डदस्यारामे इति।

 

Previous

births of Anathapindada at the time of the seven Buddhas

 

भिक्षवः संशयजाताः

सर्वसंसयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः
: कुत्र भदन्तानाथपिण्डदेन

गृहपतिनायं पृथिवीप्रदेशः पूर्वकाणं सम्यक्संबुद्धानां निर्यातितपूर्वः
? इति; भगवान् आह: भूतपूर्वं भिक्षव

एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उपपादि विद्याचरणसंपन्नः सुगतो लोकविद्

अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्यानां बुद्धो भगवान्
; <> द्वाषष्टिभिक्षुसहस्रपरिवृतः

इमं प्रदेशम् अनुप्राप्तः
; तेन खलु समयेनास्यां श्रावस्त्यां तिष्यो नाम गृहपतिर् अभूत्; तेनान्यं प्रदेशः

षट्क्रोशहिरण्यसुवर्णेनास्तीर्य राजकुमारस्यान्तिकात् क्रीत्वा विपश्यिनः सम्यक्संबुद्धस्य

निर्यातितः
; तस्यैवान्तिके प्रव्रैय सर्वक्लेशप्रहाणाद् अर्हत्वं सात्क्षात्कृतम्; तिष्यस्य गृहपतेर्

भागिनेयः तत्संपर्काद् विपश्यिनि तथागतेऽत्यर्थम् अभिप्रसन्नः
; तेन विपश्यिनः

सम्यक्संबुद्धस्य केशनखस्तूपः कारितः
; स संलक्षयति: कोऽसाव् उपायः

स्याद् येनाहम् एतं रात्रौ दिवा चानावृतं पश्येयम् इति तस्यान्तेवसिना समुद्रतीरस्थेनावभासात्मकं

मणिरत्नं प्रावृतम् अनुप्रेषितम्
; तेनासौ तस्मिन् चैत्ये समारोपितम्; पश्यति; ततः प्रसादजातेन

प्रणिधानं कृतं
: यथायं पृथिवीप्रदेशो मम मातुलेन कुमारस्यान्तिकात् क्रीत्वा हिरण्यसुवर्णेनास्तीर्य

विपश्यिनः सम्यक्संबुद्धस्य निर्यातितः
; एवम् अहम् इमम्

पृथिवीप्रदेशं हिरण्यसुवर्णेनास्तीर्य सप्तानां सम्यक्संबुद्धानां निर्यातयेयम्
; यश् च तेषाम् अपश्चिमक

तस्याहम् अन्तिके प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम् इति।

 

किं मन्यध्वे भिक्षवः

? योऽसौ तस्य गृहपतेर्* भागिनेय एष एवासाव्

अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन।

 

ततोऽर्वाग् एकत्रिंशतिमे

कल्पे शिखी नाम सास्ता लोक उत्पन्नः पूर्ववद् यावद् बुद्धो भगवान्
; <> षष्टिभिक्षुसहस्रपरिवार

इमं प्रदेशम् अनुप्राप्तः
; तेन खलु समयेन पुष्यो नाम गृहपतिर् अभूत्; तेनायं ऱ्ह्तिवीप्रदेशो

अर्धतृतीयान् कोशान् मणिभिर् आस्तीर्य कुमारस्यान्तिकान् निष्क्रीय शिखिनः सम्यक्संबुद्धस्य

सश्रावकसंघस्य निर्यातितः
; स्यात् खलु युष्माकं भिक्षावोऽन्यतमः स तेन कालेन तेन समयेन पुष्यो नाम

गृहपतिर् अभूत् इति
? न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव्

अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन।

 

ततोऽर्वक् तस्मिन्न्

एवैकत्रिंशतिमे कल्पे विश्वभुङ् नाम शास्ता लोक उत्पन्नः पूर्ववद् यावद् बुद्धो भगवान्
; स षष्टिभिक्षुसहस्रपरिवारः

इमं प्रदेशम् अनुप्राप्तः
; तेन खलु समयेन माघुर् नाम गृहपतिर् अभूत्; तेनायं प्रदेशो

द्वौ क्रोशौ मुक्तिकाभिर् आस्तीर्य कुमारस्यान्तिकान् निष्क्रीय विश्वभुजः सम्यक्संबुद्धस्य

सश्रावकसंघस्य निर्यातितः
; स्यात् खलु युष्माकम् भिक्षवोऽन्य तमः स तेन कालेन तेन समयेन माघुर्

नाम गृहपतिर् अभूद् इति
? खल्व् एवं द्रष्टव्यम् अपि त्व् एष एवासाव् अनाथपिण्डदो गृहपतिस् तेन

कालेन तेन समयेन।

 

ततोऽर्वाग् अस्मिन्

भद्रके कल्पे क्रकुत्सुन्दो नाम शास्ता लोक उत्पन्नः पूर्ववाद् यावद् बुद्धो भगवान्
; स चत्वारिंशद्भिक्षुसहस्रपरिवार

इमं प्रदेशम् अनुप्राप्तः
; तेन खलु समयेन भवदत्तो नाम गृहपतिर् अभूत्; तेनाप्य् अयं प्रदेशो

गोभिः पूरयित्वा कुमारस्यान्तिकान् निष्क्रिय क्रकुत्सुन्दस्य सम्यक्संबुद्धस्य सश्रावकसंघस्य

निर्यातितः
; स्यात् खलु युष्माकं भिक्षवोऽन्यतमः स तेन कालेन तेन समयेन भवदत्तो नाम

गृहपतिर् अभूत् इति
? न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव्

अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन।

 

ततोऽर्वाग् अस्मिन्न्

एव भद्रके कल्पे त्रिंषद्वर्षसहस्रायुषि प्रजायां कनकमुनिर् नाम शास्ता लोक उदपादि

पूर्ववद् यावद् बुद्धो भगवान्
; स त्रिंशद्भिक्षुसहस्रपरिवारः इमं प्रदेशम्

अनुप्राप्तः
; तेन खलु समयेन बृहस्पतिर् नाम गृहपतिर् अभूत्; तेनाप्य् अयं प्रदेशः

पट्टैर् आस्तीर्य कुमारस्यान्तिकान् निष्क्रीय कनकमुनेः सम्यक्संबुद्धस्य सश्रावकसंघस्य

निर्यातितः
; स्यात् खलु <युष्माकं> भिक्षावोऽन्यतमः स तेन कालेन तेन समयेन बृहस्पतिर् नाम गृहपतिर् अभूत्

इति
? न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव्

अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन।

 

ततोऽर्वाग् अस्मिन्न्

एव भद्रके कल्पे विंशतिवर्शसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि

पूर्ववद् यावद् बुद्धो भगवान्
; स विंशतिसहस्रपरिवारः इमं प्रदेशम् अनुप्राप्तः; तेन खलु समयेन

आषाढो नाम गृहपतिर् अभूत्
; तेनाप्य् अयं पृथिवीप्रदेशो अर्धोक्रोशम् सौवर्णैर् यवैर् आस्ती* र्य कुमारस्यान्तिकान्

निष्क्रीय काश्यपस्य सम्यक्संबुद्धस्य सश्रावकसंघस्य निर्यातितः
; स्यात् खलु युष्माकं

भिक्षावो अन्य
<तमः> स तेन कालेन तेन समयेन आषाढो नाम गृहपतिर् अभूद् इति ? न खल्व् एवं द्रष्टव्यम्, अप्य् त्व् एष

एवासाव् अनाथपिण्डदो गृहपतिस् तेन कालेन तेन समयेन।

 

एतर्ह्य् अप्य्

अहं भिक्षवः शास्ता लोक उत्पन्नस् तथागतोऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो

लोकविद् अनुत्तरः पुरुषदम्यशारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्
; अहम् अप्य् अर्धत्रयोदशशतपरिवार

इमं प्रदेशम् अनुप्राप्तः
; एतर्ह्य् अप्य् अनाथपिण्डदेन गृहपतिना षोडशलाङ्गलावक्ताकोटै संस्तरेण

संस्तीर्य जेतस्य कुमारस्यान्तिकान् निष्क्रीय मम सश्रावकसंघस्य निर्यातितः।

 

भविष्यति भिक्षवोऽनागतेऽप्य्

अशीतिवऋससहस्रायुषि प्रजायां मैत्रेयो नाम शास्ता षण्णवत्यर्हत्कोटीसहस्रपरिवार इमं

प्रदेशम् आगमिष्यति
; तेन खलु समयेन सुधनो नाम गृहपतिर् उद्भविष्यति; सोऽपीमं प्रदेशं

त्रीणि योजनानि हिरण्यसुवर्णेनास्तीर्य कुमारस्यान्तिकान् निष्क्रीय मैत्रेयस्य सश्रावकसंघस्य

निर्यातयिष्यति
; तस्यैव शासने प्रव्रैय सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्करिष्यति; स्यात् खलु युष्माकं

भिक्षावोऽन्यतमः स तेन कालेन तेन समयेन सुधनो नाम गृहपतिर् अभूद् इति
? न खल्व् एवं द्रष्टव्यम्, अपि त्व् एष एवासाव्

अनाथपिण्डदो गृहपतिः सुधनो नाम गृहपतिर् उद्भविष्यति।

 

AnAthapiNDada

has the power to see absconded treasures, no matter whether close or far away

 

अथानाथपिण्डदो गृहपतिर्

निधीन् पश्यति स्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि येऽपि दूरे

येऽप्य् अन्तिके
; सामन्तकेन शब्दो निसृत अनाथपिण्डदो गृहपतिर् निधीन् पश्यति सस्वामिकान्

<अपि> अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि येऽपि दूरे येऽप्य् अन्तिके

इति
; तेन खलु समयेन संबहुलानां नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानां

कुतूहलशालायां संनिषण्णानां संनिपतितानाम् अयम् एवंरूपोऽभूद् अन्तराकथासमुदाहारः
: कतमेन भवन्तो लक्षणेन

समन्वागतोऽनाथपिण्डदो गृहपतिर् निधीन् पश्यति सश्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान्

अपि जलगतान् अपि येऽपि दूरे येऽप्य् अन्तिके
? तेन खलु समयेन

उपगुर् नाम माणव तस्याम् एव पर्षदि संनिषण्णोऽभूत् संनिपतितः
; स कथयति: अल्पोत्सुका यूयां

भवन्तो भवन्तु
; अहं विचार्य भवताम् कथयिष्यामि येन लक्षणेन समन्वागतोऽनाथपिण्डदो गृहपतिर्

निधीन् पश्यति सस्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि येऽपि

दूरे येऽप्य् अन्तिके इति
; सोऽनाथपिण्डदस्य गृहपतेश् चारविहाराण्वेषतत्परः पृष्ठतः पृष्ठतः समनुबद्धो

यावद् अपरेण समयेनानाथपिण्डदो गृहपतिर् नद्याम् अजिरवत्याम् स्नात्वा उत्तीर्णः
; तस्य तेन पृष्ठेन

तलप्रहारो दत्तः
; अनाथपिण्डदो गृहपतिः पश्यन्न एव तूष्णीम् अवस्थितः; स कथयति*: विज्ञातोऽसि गृहपते

क्षान्तिसौरत्यसमन्वागतः त्वम् येन निधिन् पश्यसि सस्वामिकान् अप्य् अस्वामिकान् अपि

स्थलगतान् अपि जलगतान् अपि येऽपि दूरे येऽप्य् अन्तिके
; तेन तीर्थ्यानाम्

आरोचितम्
; तीर्थ्यैर् अपि विकत्थमानैः समन्ताद् आरोचितम्; सामन्तेन शब्दो

विसृतः
: अथानाथपिण्डदो गृहपतिः क्षान्तिसौरत्यसमन्वागतो येन निधीन् पश्यति सस्वामिकान्

अप्य् अस्वामिकान् अपि स्थलगताम् अपि जलगतान् अपि येऽपि दूरे येऽप्य् अन्तिके इति
; एतत् प्रकरणम्

भिक्षावो भगवत आरोचयन्ति
; भगवान् आह: तीर्थ्यकोटिशतसहस्रेणापि भिक्षवो न सुकरम् आज्ञातुं येन लक्षणेन समन्वागतोऽनाथपिण्डदो

गृहपतिर् निधीन् पश्यति अपि तु रत्नचित्रान्तकोशोऽनाथपिण्डदो गृहपतिर् हिरण्येश्वरश्

च येन निधीन् पश्यति सस्वामिकान् अप्य् अस्वामिकान् अपि स्थलगतान् अपि जलगतान् अपि

येऽपि दूरे येऽप्य् अन्तिके।

 

*भिक्षावः संशयजाताः

सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः
: किं भदान्त अनाथपिण्डदेन

गृहपतिना कर्म कृतं यस्य कर्मणो विपाकेन रत्नचित्रान्तकोशो हिरन्येश्वरश् च संवृत्तः

? भगवान् आह: अनाथपिण्डदेनैव भिक्षवो गृहपतिना कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि

परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि
; अनाथपिण्डदेन गृहपतिना

कर्माणि कृतान्य् उपचितानि कोऽन्यः प्रत्यनुभविष्यति
; न भिक्षवः कर्माणि

कृतान्य् उपचितानि बाह्ये पृथिवीधातौ
<विपच्यन्ते> नाब्धातौ न तेजोधातौ

न वायुधाताव् अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य्

अशुभानि च
;

 

न प्रनश्यन्ति कर्माण्य्

अपि कल्पशतैर् अपि।

सामग्रीं प्राप्य

कालं च फलन्ति खलु देहिनाम्॥

 

The

story of the Pratyekabuddha (concerning a previous life of Anathapindada)

 

भूतपूर्वं भिक्षवो

अन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालप्रतिग्रहो

वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी
; स संप्राप्ते वसन्तकालसमये

संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवजीवकनिघोषिते वनषण्दे सान्तर्जनेन

उद्यानभूमिं निर्गतः
; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः

प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य
; यावद् अन्यतरो

प्रत्येकबुद्धो जनपदचारिकां चरंस् तं कर्वटकम् अनुप्राप्तः
; स तस्मिन् उद्यानेऽन्यतरस्मिन्

प्रदेशे स्थितः
; उद्यानपालेन पुरुषेण तस्य गृहपतेर् निवेदितम्: अथामुष्मिन् प्रदेशे

शान्तात्मा प्रव्रजितोऽवतिष्ठते इति
; तस्य श्रुत्वा

सौमनस्यम् उत्पन्नम्
; भाग्य् अहं यस्य मे उद्याने तादृशः प्रव्रजितोऽवस्थितः इति प्रसादजातस्

तद्दर्शनाय संप्रस्थितः
; स महाट्मा निरुपधिशेषम् निर्वाणधातुं प्रविष्य परिनिर्वृतः; ततस् तेन गृहपतिना

सुहृत्संबन्धिबान्धवान्तर्जनसहीयेन महता सत्कारेण ध्यापितः
; सा चिता क्षीरेण

निर्वापिता
; तान्य् अस्थीनि स्फटिकमये कुम्भे रत्नैर् व्यामिश्र्य प्रक्षिप्तानि; तान्य् अन्तःस्थान्य्

अवभासन्ते शब्दं च कुर्वन्ति
; ततस् तेन पादयोर् निपत्य प्रणिधानं कृतम्: यथा तस्यास्थीनि

रत्नमिश्राण्य् अत्यर्थं भासन्ते शब्दं च कुर्वन्ति एवम् एवाहम् अनेन कुशलमूलेन रत्नचित्रान्तकोशः

स्यां हिरण्येश्वरश् च इति।

 

किं मन्यध्वे भिक्षवः

? योऽसौ गृहपतिः तेन कालेन तेन समयेन एष एवासाव् अनाथपिण्डदो गृहपतिः; यद् अनेन प्रत्येकबुद्धे

कारां कृत्वा प्रणिधानं कृतं यच् च तिष्यस्य गृहपतेस् भागिनेयेन सता विपश्यिनः सम्यक्संबुद्धस्य

केशनखस्तूपे अवभासात्मके मणिर् आरोपितः तस्य कर्मणो विपाकेन रत्नचित्रान्तकोशो हिरण्येश्वरश्

च संवृत्तः
; इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः एकान्तशुक्लानाम्

एकान्तशुक्लो व्यतिमिश्राणाम् व्यतिमिश्रः
; तस्मात् तर्हि

भिक्षवः एवं शिक्षितव्यम् यत् कृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व्

एव कर्मस्व् आभोगः करणीयः इत्य् एवं वो भिक्षवः शिक्षिताव्यम्।

अन्तरोद्दानम्

 

तिष्यश् पुष्यश्

च माघुश् च भवदत्तो बृहस्पतिः।

आषाढश् च सुदत्तश्

च सुधनो भवति पश्चिमम्॥

हिरण्यं च सुवर्णं

च मणिमुक्ता तृतीयकम्।

गोभिः पटैर् यवैः

कोटिर् हिरण्येन समुच्छ्रिता॥

 

Disciplinary

prescriptions

 

यदानाथपिण्डदेन

गृहपतिना कोटीसंस्तरेण संस्तीर्य जेतस्य कुमारस्य सकाशान् निष्क्रीय बुद्धप्रमुखाय

भिक्षुसंघाय निर्यातितं तदा नानादेशनिवासिनः श्राद्धाश् चैत्याभिवन्दका श्रावस्तीं

गच्छन्ति
; तेषां केचिद् अभिप्रसन्नाः कथयन्ति: आर्य वयम् अप्य्

आर्यसंभाय जेतवने किंचिद् वस्तु कारयेम इति
; भिक्षवः कथयन्ति: मूल्येन भूमिं

क्रीत्वा कारयत
; आर्य कियता मूल्येन दीयते इति; इयता हिरण्येन; आर्य कुतोऽस्माकम्

एतावद् भवति
; तथापि तु यद्य् एतस्मिन् प्रदेशे लभामहे करयाम इति।

 

एतत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति
; भगवान् आह: गृहपतिर् अवलोकयितव्यः; यद्य् अनुजानीते

कारयितव्यम् इति
; भिक्षुभिर् अनाथपिण्डदो गृहपतिर् अवलोकितः; स कथयति: मामागम्य श्राद्धा

ब्राह्मणगृहपतयः संघस्यार्थाय पुण्यक्रियावस्तु कुर्वन्ति अनुजानामि
, पुद्गलस्य कुर्वन्ति

नानुजानामि इति।

 

एतत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति
; भगवान् आह: तस्माद् अनुजानामि संघस्यार्थाय कारयितव्यम्; पुद्गलस्यार्थाय

दानपतिर् अवलोकयितव्यः
; यद्य् अनुजानीते कारयितव्यम्; नानुजानीते, न कारयितव्यम्

इति।

 

आगन्तुका भिक्षवः

चैत्यवन्दका श्रावस्तीम् आगताः
; ते यथा संस्तुतिकया भिक्षूणां सकाशेऽवतीर्णाः; अन्येषां संस्तुतिका

न सन्ति ते विहन्यन्ते
; अस्याम् उत्पत्तौ भगवान् आह: आगन्तुकानाम् अर्थाय

अनुद्दिष्टं वस्तु स्थापयितव्यम् इति
; अन्यतमस्मिन् कर्वटके

विहारः
; तत्र भिक्षवो* वर्षा उपगताः; यावत् तस्मिन्

कर्वटकेऽन्तर्वर्षे भयम् उत्पन्नम्
; तन्निवासिनो भिक्षवः

संत्रस्ता अप्रवारिताः सन्तःश्रावस्तीम् आगताः
; ते भिक्षुभिः प्रतिश्रामिताः

मार्गश्रमे प्रतिविनोदिते कथयन्ति
: आयुष्मन्तः शयनासनम्

उद्दिशथ इति
; तेऽन्तर्वर्षम् इति कृत्वा नोद्दिशन्ति; आगन्तुक भिक्षव

अवध्यायन्ति क्षिपन्ति विवाचयन्ति
: कथम् इदानीं यूयम्

आयुष्मन्तः स्थितस्य एव शास्तुः शासनम् अन्तर्धापयथ
; यद्य् अस्ति वो

कौकृत्यं यथावृद्धिकया प्रयच्छत शयनासनम् इति
; तथापि ते नोद्दिशन्ति; एतत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: तस्माद् अनुजानामि

भङ्गिकभग्नकानां भिक्षूणाम् अर्थाय द्वितीया वर्षोपनायिका कर्त्रव्या इति
; भिक्षावो न जानते: कथं कर्तव्या इति; भगवान् आह: त्रैमाव्या इति; उक्तं भगवता: भङ्गिभग्नकानां

भिक्षूणाम् अर्थाय द्वितीया वर्षोपनायिका कर्तव्या इति।

 

यावद् अपरेऽपि भङ्गिभग्नका

भिक्षवः श्रावस्तीम् आगताः
; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: भङ्गिभग्नकान्

मया भिक्षवो भिक्षून् आगम्य द्वितीया वर्षोपनायिका प्रज्ञप्ता
, न तृतीया; भङ्गिभग्नकास्

तु भिक्षवः यथासंस्तुतिकया विश्रामयितव्याः
; भिक्षवः तान् कर्मादानं

कारयन्ति
; भगवान् आह: न ते कर्मादानं कारयितव्याः इति; भिक्षवस् तेषाम्

लाभम् अनुप्रयच्छन्ति
; भगवान् आह: न तेषाम् लाभो देयः; भिक्षव आमिषलाभम्

अपि नानुप्रयच्छन्ति
; भगवान् आह: आमिषलाभस् तेषां नो तु वस्त्रलाभ इति।

 

श्राद्धैः प्रभूता

विहाराः कारिताः
; श्रावस्त्याम् अल्पा भिक्षव वर्षा उपगताः; ते शून्यकास् तिष्ठन्ति; दानपतीनां परिभोगान्वयं

पुण्यं न भवति
; वातपुत्रैश् चावास्यन्ते; भगवान् आह: सर्वे उद्देष्टव्याः

प्रत्येकम् एकैकस्य द्वौ त्रयश् चत्वारो वा यथाप्रमाणतः सर्वे परिभोक्तव्याः
, क्वचित् पूर्वाह्ने

स्थातव्यम्
, क्वचिन् मध्याह्ने, क्वचिद् अपराह्ने, क्वचिद् रात्रौ

वस्तव्यम् इति
; भिक्षवस् ते पुनः कर्म न कुर्वन्ति प्रलुभ्यन्ते; भगवान् आह: दानपतिर् उत्साहयितव्यः; स वै संपद्यत इत्य्

एवं कुशलम्
, नो चेत् संपद्यते सांघिकेन प्रतिसंस्तर्तव्याः; न चेत् शक्यते

यावतां शक्यते तावतां संस्कारः कर्तव्यः
, अन्ये व्युपेक्षितव्याः

इति।

 

यदा भगवतः वैस्तारिकं

संवृत्तं तदा बहवो भिक्षवः श्रावस्तीम् आगताः
; ते लयने निर्विहन्यन्ते; भगवान् आह: द्वयोस् त्रयाणाम्

चोद्देष्टव्यम् अन्ततः सर्वेषां सामान्येन निषदनप्रामाणिकम् उद्देष्टव्यम् उदकस्थालकस्थानपानीयभैषज्यदन्तकाष्ठपात्रस्थानं

वर्जयित्वा
; सामीची च परस्परम् उपचारस् तु सामान्य एव नोद्देष्टव्य इति।

 

उक्तं भगवता: एकान्य् अरण्यानि

वृक्षमूलानि शून्यागाराणि पर्वतकन्दरगिरिगुहपलालपुञ्जाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि

शयनासनानि ध्यायत
, भिक्षवः, मा प्रमाद्यत, मा पश्चाद् वि*प्रतिसारिणो भूत

इति
; आरण्यकत्वस्य च बहुधा वर्णो भाषितः।

 

तदा केचिद् भिक्षव

आरण्यकत्वं समादाय अरण्येऽध्यवस्थिताः
; ते तत्र चोरैः

मुष्यन्ते
; मुषिताः सन्तः ब्राह्मणगृहपतिकुलेभ्यश् चीवरार्थं पर्येष्टिम् आपद्यमानाः

रिंचन्त्य् उद्देशं पाठम् स्वाध्यायं योगं मनसिकारम्
; एतत् प्रकरणम्

भिक्षवो भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: आरण्यकानां भिक्षूणाम्

अर्थाय वस्तु स्थापयितव्यम् इति
; उक्तं भगवता: आरण्यकानां भिक्षूणाम्

अर्थाय वस्तु स्थापयितव्यम् इति
; भिक्षव अप्रकाशे स्थापयन्ति; आरण्यको भिक्षुः

पात्रचीवरम् स्थापयित्वा द्वारं बद्ध्वा ताडकम् आदाय प्रक्रान्तः
; अन्येषाम् आरण्यकानाम्

भिक्षूणाम् वस्तु स्थापयितव्यम् इति
; उपनन्दस्यान्यतमेन

गृहपतिना विहारः कारितः
; स तत्र न प्रतिवसति; यो भिक्षुर् आगन्तुक

आगच्छति तस्मै वस्तु ददाति लाभं त्व् आत्मना गृह्णाति
; यावद् अयतमस् त्रैचीवरिको

भिक्षुर् आगतः
; तेनासौ विहारो दृष्टः शून्यः; स पृच्छति, कस्यायं विहारः

? इति; भिक्षवः कथयन्ति: उपनन्दस्य भिक्षोः; स तेन गत्वा याचितः; स कथयति: अयं विहारः, प्रतिवस; योऽत्र लाभः स

मम इति
; तत्रावस्थितः; तेनासौ विहरो न कदाचित् संमृष्टः, न सुकुमारी गोमयकाऋसी

च दत्ता
; यावद् असौ तस्माद् विहाराद् अपक्रान्तः; अन्यो भिक्ष्र्

आगतः
; सोऽप्य् उपननन्दस्य सकाशाद् याचित्वा तस्मिन् विहारेऽवस्थितः; पश्यति तं विहारं

संकारपरिपूर्णम्
; तेनासौ संमृष्टः संकारं छोरयित्वा संमार्जनीं गृहीत्वैव संकारकुटसमीपेऽवस्थितः, यावद् अन्यतमेन

भिक्षुणा दृष्टः
; स कथयति: आयुष्मन् किं त्वं संमार्जनीव्यग्रहस्त एवावतिष्ठसे, नेयं संमार्जनी

स्थाप्यत
? इति; स कथयति: कोऽप्य् अत्र हस्तरक्षास्थितः, तेन न कदाचित्

संमार्जनीपदम् अपि दत्तम् इति
; स कथयति: अमुकोऽत्र त्रैचीवरिको

भिक्षुर् अवस्थितः इति
; यावत् तेनासौ पिण्डपातम् अटता दृष्ट उपालब्धश् च; स कथयति: उपनन्दो लाभं गृह्णाति

अहं तस्य विहाऱ्अं शोधयामि
? इति; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ

भगवान् आह
: यो लाभं गृह्णाति तेन विहारः संमार्ष्टव्यः इति;

 

उक्तं भगवता: अभ्यतीतकालगतानां

दानपतीनाम् नाम्ना दक्षिणा आदेष्टव्या इति
; संघस्थविरोऽभ्यतीतकालगतानां

दानपतीनाम् अर्थाय गाथां भाषते
; अन्यतमश् च गृहपतिर् विहारम् आगतः; तेनासौ श्रुतः; दक्षिणाम् आदिशत्; स तस्य सकाशम्

उपसंक्रान्तः कथयति
: आर्य यद्य् अहं विहारं कारयामि ममापि नाम्ना दक्षिणाम् उद्दिशसि इति; स कथयति: कारय सुष्ट्व्

आदिशामि इति
; यावत् तेन गृहपतिना विहारः कारितः; तत्रानेन न किंचिद्

दत्तं
; स शून्य एवावस्थितः; यावत् तेन गृहपतिना

दृष्टः
; स विहारम् आगम्य कथयति: आर्य मदीयो विहारः

शून्य अवस्थितः
, न तत्र कश्चिद् भिक्षुः प्रतिवसति इति; संघस्थविरः कथयति: भद्रमुख उत्स्वेद्यः; स गृहपतिः कथयति: आर्य ऊषरे जंगले

कारितः
, कथं उत्स्वेद्यो भवति ? गृहप*ते नाहम् एतत् संधाय

कथयामि अपि तु तत्र लाभो नास्ति इति
; स् कथयति: आर्य इदानीं यो

मदीये विहारे प्रतिवसति तम् अहं पटेनाच्छादयामि
; इति लाभो लभ्यते

इति उपनन्देन अनुपूर्वेण स्वभाग इव उद्गृहीतः
; सोऽन्यत्रैव प्रतिवसति; स शून्यस् तिष्ठति, यावद् अन्यतमः

पिण्डपातिको चैत्याभिक्वन्दकः श्रावस्तीम् आगतः
; तेनासौ विहारः

शून्यो दृष्टः
; स भिक्षून् प्र्ऱ्इच्छति: कस्यायं विहारः? इति; तैः समाख्यातम्: सांघिकोऽयं विहारः

किं तूपनन्दस्य भिक्षोर् उद्दिष्ट इति
; स उपनन्दस्य सकाशम्

उपसंक्रान्तः
: तवोद्दिष्टोऽयं विहारोऽत्र तिष्ठामि इति; स कथयति: एवं कुसुष्व इति; स तत्रावस्थितः; स पिण्डपातिको

दक्षोऽनलसः
; तेनासौ प्रतिदिनम् उपलिप्तसंमृष्टम् क्रियते; पञ्चानुशंसा संमर्जने; आत्मनश् चित्तं

प्रसीदति
; परस्य चित्तं प्रसीदति देवता आत्तमनसो भवन्ति; प्रसादिकसंवर्तनीयं

कुशलमूलम् उपचिनोति
; कायस्य भेदात् सुगतो स्वर्गलोके देवेषुपपद्यत इति; ये तं विहारम्

उपलिप्तसंमृष्टं पश्यन्ति ते तस्य गृहपतेर् गत्वा आरोचयन्ति
; स श्रुत्वा प्रामोद्यम्

उत्पादयति
; यावद् अपरेण समयेन स्वयम् एवागतः पश्यति तथैव तं विहारम् उपलिप्तसंमृष्टम्; सोऽभिप्रसन्नः; तेनासौ पिण्डपातिकः

पतेनाच्छादितः
; उपनन्देन श्रुतम्; स त्वरितत्वरितं गतः कथयति: पिण्डपातिक ममायं

विहार उद्दिष्टः
, प्रयच्छ मे पटकम् इति; पिण्डपातिक संलक्षयति: लाभात्मकोऽयं यदि

न दास्यामि तथाप्य् अयं बलात्
* ग्रहीष्यति मां च विहारान् निष्कासयिष्यति

इति
; तेन तस्य समर्पितः इति; एतत् प्रकरणं भिक्षवो

भगतव आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: यस्य प्रसन्नः

प्रसन्नाधिकारं करोति तस्यैव स
; उपनन्दस्य तु वार्षिको लाभः इति।

 

गुणप्रियो लोकः

प्रपीड्य प्रापीड्यात्मानं च पुत्रदारं च
; गुणवद्भ्यो दानम्

अनुप्रयच्छन्ति श्राद्धा ब्राह्मणगृहपतयः
; आरण्यकान् भिक्षून्

उपनिमन्त्र्य भोजयन्ति
; आरण्यकानां भिक्षूणाम् अन्तर्गृहे भोक्तुं गतानाम् अदत्तादायिकैर् विहारा

मुष्यन्ते
; भगवान् आह: द्वारं बद्ध्वा कुञ्चिकाम् आदाय प्रक्रमितव्यम् इति; चोरा अदत्तादायिका

प्रतिकुञ्चिकया मुषन्ति
; भगवान् आह: आरक्षकं भिक्षुं स्थापयित्वा गन्तव्यम्; तस्य पिण्डकेनाविघातः

कर्तव्यः इति
; अदत्तादायिका अन्यं भिक्षुं गृहीत्वा गच्छन्ति; स कथयति; मुञ्च द्वारम्

इति
; भगवान् आह: संज्ञा कर्तव्या सज्वरो निर्ज्वर इति; यदि कथयति सज्वर

इति न मोक्तव्यम्
; अथ कथयति निर्ज्वर इति मोक्तव्यम्; अपि त्व् आरण्यकेन

भिक्षुणा अर्धशाखा उपस्थापयितव्या इति
; उक्तं भगवता: आरण्यकेन भिक्षुणा

अर्धशाखा उपस्थापयितव्या इति
; भिक्षवो न जानीते केदृशी अर्धशाखा इति; भगवान् आह: कुक्कुरो भिक्षवो

अर्धशाखा तस्य पात्रशेषं दातव्यम्
; आरण्यकैर् भिक्षुभिर्

कुक्कुरा उपस्थापिता
; ते स्तूपाङ्गणं विहारं च नखरिकाभिर् उपलिखन्ति उच्चारप्रस्रावेण नाशयन्ति; भगवान् आह: कुक्कुरपोषकस्याहं

भक्षवो भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञापयामि
*, कुक्कुरपोषकेन

भिक्षुणा काल्यम् एवोत्थाय स्तूपाङ्गणं विहारश् च प्रत्यवेक्षितव्यः
, यन् नखरिकाभिर्

उपलिखितं तत् समं कर्तव्यम्
; उच्चारप्रस्रावश् छोरयितव्यः, कुक्कुरपोषको भिक्षुर्

यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् असमादाय वर्तते
, सातिसारो वर्तते।

 

Upananda's

misdemeanours

 

आयुष्मान् उपनन्दोऽन्यतमस्मिन्

विहारे संघस्थविरः
, यावत् तत्रान्यतमः संघस्थविरः आगतः; उपनन्दः संलक्षयति: मया नामेह विहारे

संघस्थविरेण भूत्वा द्वितीयस्थविरेण भवितव्यम्
; गच्छाम्य् अन्यं

विहारम् इति
; सोऽन्यं विहारं गतः; ततो विहाराद् असौ

गतः
; तस्मिन् यो द्वितीयस्थविरस्य लाभ स संघस्थविरस्य; स संलक्षयति: इहापि <मे> स एव लाभ इति; तत्रापि मे स एव

लाभः
, किं विना प्रयोजनेन संघस्थविरत्वं करोमि इति; स पुनस् त्वरितत्वरितम्

एव विहारं संप्रस्थितः
; अर्धोद्दिष्टशयनासने विहारं प्रविष्टः; स कथयति: यथावृद्धिकया विहारम्

उद्दिश इति
; भिक्षवोऽतिक्रान्त इति कृत्वा नोद्दिशन्ति; उपनन्दः कथयति: आयुष्मन्त किं

तिष्ठत एव शास्तुः शासनं अन्तर्धापयत
, यथावृद्धिकया उद्दिशत

विहारम् इति
; एत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; भगवान् आह: यः संघिकेन वा

स्तौपिकेन
<वा> करणीयेन गतो भवति शयनासनं यथावृद्धिकया उद्देष्टव्यम्, अन्यत्र यथागत्या

इति।

 

उपनन्द अतिलोभेन

द्वयोर् विहारयोर् वर्षा उपगतः उभयवैहारिकं लाभं लप्स्यत इति स वृतासु वर्षासु लाभं

प्रार्थयते नैतस्मिन् लभ्यते नाप्य् अपरस्मिन्
; शयनासनोद्देशकान्

भिक्षून् परिभाषते
; एतत् प्रकरणम् भिक्षवो भगवत आरोचयन्ति; भगवान् आह: वर्षोषितोऽसौ देयोऽस्य

लाभः इति
; भिक्षव उभयविहाराभ्याम् अपि प्रयच्छन्ति; भगवान् आह: न तत्रोभयविहाराभ्यां

दातव्यम्
; एकस्मात् प्रयच्छन्ति; अन्ये भिक्षवोऽवध्यायन्ति

क्षिपन्ति विवाचयन्ति
: उभयविहारयोर् वर्षोषितः किमर्थम् एकस्माद् दीयते इति; <तत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति
; भगवान् आह>: उभयविहाराभ्याम् अप्य् अर्धार्धं देवम्, न च पुनर् भिक्षुणा

द्वयोर् विहारयोर् उपगन्तव्यम्
; उपगच्छन्ति, सातिसारो भवति।

 

अन्यतमेन गृहपतिना

द्वौ विहारौ कारितौ
, एक आरण्यकानां, द्वितीयो ग्रामान्तिकानाम्; आचरिकम् तस्य गृहपतेर्

वर्षोषितस्य भिक्षुसंघस्य एकैकं भिक्षुं पतेनाच्छादयितुम्
; स पटकान् आदाय

आरण्यकानां विहारं संप्रस्थितः
; उपनन्देन श्रुतम्: आरण्यके विहार

लाभो दीयते इति
; तेन नन्दस्य संदिष्टम्: यद्य् अत्र लाभो

दीयते तद् ग्रहीष्यसि इत्य् उक्त्वा स त्वरमाणः आरण्यकं विहारं संप्रस्थितः
; तेन गृहपतिना दृष्टः; स संलक्षयति: यादृशोऽस्य पदोद्धारः; गतोऽयम् आरण्यकं

विहारम्
, किम् अत्र प्राप्तकालम्, इहैव तावत् ग्रामान्तिकविहारे

ददामि
, पश्चात् तत्र दास्यामि इति; स प्रतिनिवर्त्य

पटकांश् चारयितुम् आरब्धः
; नन्देन हस्तः प्रसारितः; गृहपतिना पटको

दत्तः
; भूयः प्रसारयति; गृहपतिः कथयति: आर्य दत्तस् ते

पटाकः
, किं भूयः प्रसारयसि इति; स कथ*यति: गृहपते कथयति: <आर्य> स्वहस्तेन भगवत

दानं प्रशस्तम्
, स्वहस्तेनैव दास्यामि इति; स लज्जितस् तूष्णीम्

अवस्थितः
; उपनन्दः संलक्षयति: चिरयत्य् असौ गृहपतिः, ग्रामान्तिकं गमिष्यामि

इति विदित्वा ग्रामान्तिकविहारं गतः नन्दं पृच्छति
: आर्य गृहीतो मदीयः

पटकः
? तेन यथावृत्तं समाख्यातम्; गृहपतिर् अप्य्

अन्येन पथा आरण्यकं विहारम् गत्वा पटकांश् चारयित्वा प्रक्रान्तः
; <उपनन्दः> पुनर् आरण्यकं

विहारं प्रधावितः
, यावत् पटकाश् चारिताः; स उभयविहारयोर्

अप्य् अतिलोभे
लाभात् परिभ्रष्टः; स शोचति क्लाम्यति परिदेवते।

 

भिक्षवः संशयजाताः

सर्वसंशच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः
: पश्य भदन्त उपनन्द

अतिलोभेन पटकात् परिभ्रष्टः
; भगवान् आह: न भिक्षव एतर्हि

यथातीतेऽप्य् अध्वन्य् अनेन अतिलोभात् भक्तच्छेदः कृतः
; तच् छ्रूयताम्।

 

The

story of the dog which was too greedy (being a previous birth of Upandanda)

 

भूतपूर्वं भिक्षवो

नद्या उभयकूले द्वौ विहारौ
, एकः संघलाभिकानाम्, द्वितीयो पिण्डपातिकानाम्; यावद् अन्यतमः

कुक्कुरः गण्डीशब्दप्रतिसंवेदी
; स गण्डीशब्दं श्रुत्वा संघलाभिकानां विहारं

गच्छति
; तस्य ते भिक्षवः पात्रशेषं प्रयच्छन्ति; स तं परिभुज्य

पिण्डपातिकानां विहारं गच्छति
, तत्रापि पात्रशेषम् भुक्त्वा यथेष्टं गच्छति; यावद् अपरेण समयेन

पिण्डपातिकानाम् औपपादुकानां लाभः संपन्नः
; तैस् सानुकालं

गण्डी दत्ता
; स गण्डीकुक्कुरः गण्डीशब्दं श्रुत्वा नदीम् उत्तर्तुम् आरब्धः; मध्यं गतस्यास्य

संघलाभिकानां विहारे गण्डी दत्ता
; स भग्नोत्साहो प्रतिनिवर्तितुम् आरब्धः; स्रोतसा दूरम्

ऊढ उभयपरिभ्रष्टः।

 

किं मन्यध्वे भिक्षवः? योऽसौ गण्डिकुक्कुरः

तेन कालेन तेन समयेन एष एवासाव् उपनन्दः
; तदाप्य् अयम् अतिलोभेन

उभयपरिभ्रष्टः
; एतर्ह्य् अप्य् अतिलोभेन उभयपरिभ्रष्टः; तस्मात् तर्हि

भिक्षवो न भिक्षुणा अतिलोभः कर्तव्यः
; करोति सातिसारो

भवति।

 

उद्दानम्

 

कलहो ग्लानपर्याप्ती

रात्रिकालश् च काशिषु।

वृक्षस्थण्डिलशाद्वलं

भाजकानां च संवृतिः॥

 

Precautions

to take against quarrelsome monks

 

आयुष्मान् उपालिर्

बुद्धं भगवन्तं पृच्छति
: यथापितद् भिक्षवः शृण्वन्ति भिक्षवः आगच्छन्ति कलहकारक <बण्डनकारका विग्रहकारका> विवादकारका आधिकरणिका

एत्ऽस्मांश् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा इति
; तैः तेषाम् कथं

प्रतिपत्तव्यम्
? नैवासिकैर् (उपालि) भिक्षुभिः कलहकारिकान् भिक्षून् आगच्छतः श्रुत्वा त्रयः शयनासनोद्देशकाः

कर्तव्याः
, षट् शयनासनग्राहकाः; त्रयः शयनासनोद्देशकाः

कतमे
? हैमन्तिको ग्रैष्मिको वार्षकश् च; षट् शयनासनग्राहकाः

कतमे
? सर्वो विहार उद्देष्टव्यः सर्वो विहारसामन्तकः <सर्वः परिगणः> सर्वः परिगणसामन्तकः

सर्व आराम सर्व आरामसामन्तकः
; यदि कथयति विहारम् उद्दिशत इति वक्तव्यम्

उद्दिष्टोऽयम्
, विहारसामन्तकम् उद्दिशत एषोऽप्य् उद्दिष्टः, परिगणम् उद्दिशत

एषो
*ऽप्य् उद्दिष्टः परिगणसामन्तकम् उद्दिशत एषोऽप्य् उद्दिष्टः, आरामम् उद्दिशत

एषोऽप्य् उद्दिष्टः
, आरामसामन्तकम् उद्दिशत एषोऽप्य् उद्दिष्टः; ते अलयना अप्रतिष्ठिताः

कं
<चिद्> दोषं जनयिष्यन्ति; ततः पश्चाद् गतवेगैः गतप्रत्यर्थिकैः गतप्रत्यमित्रैः

यथा वृद्धिकया शयनासनम् उद्देष्टव्यम्
; उक्तं भगवता: यथावृद्धिकया शयनासनम्

उद्देष्टव्यम् इति।

 

The

care of the sick monks and Upananda's mischief again

 

यावद् एको भिक्षुर्

ग्लानः
; तस्य वृद्धतरक भिक्षुर् आगतः; यथावृद्धिकया तत्सन्तकं

लयनम् उद्दिष्टम्
; स सर्वनवकः; तस्यान्यलयनं न प्रापद्यते; स तेन भिक्षुनाभिहितः: आयुष्मन् ममैतल्

लयनम् उद्दिष्टम्
, निर्गच्छ इत्; स कथयति: ग्लानोऽहम्, यावत् स्वतीभवामि; निष्ठुर् असौ भिक्षुः; स तेन पुष्करिण्यां

निष्कास्य स्थापितः
; यावद् ब्राह्मणगृहपतयो विहारम् आगताः; द्रष्टुकामैस्

तैर् असौ भिक्षुर् दृष्टः
; ते कथयन्ति: आर्य, किम् अयं भिक्षुः कालगतः ? भद्रमुखा, नायं कालगतः; अथ कस्माद् अत्र

स्थापितः
? अस्य वृद्धतरको भिक्षुर् आगतः, एतत्सन्तकं लयनं

तस्योद्दिष्टम्
; तेनायं निष्कास्येह स्थापितः; आर्या वयम् आगारिकाः

सन्तोऽनुरक्षणया ग्लानगृहान्
निष्कासयामः, यूयं प्रव्रजिताः, कारुणिकश् च युष्माकं

शास्ता
, तत् कथं ग्लानं निष्कासयथ ? तेऽवध्यायन्ति

क्षिपन्ति विवाचयन्ति
; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति; अस्याम् उत्पत्तौ

भगवान् आह
: तस्मात् तर्हि भिक्षवो ग्लानस्य भिक्षोर् वस्तुपरिहारो दातव्यः इति; उक्तं भगवता: ग्लानस्य भिक्षोर्

वस्तुपरिहारो देयः इति।

 

आयुष्मान् उपनन्द

हुम् इति कृत्वा तूष्णीम् अवस्थितः
; यावद् षड्भिर्

सप्तभिर् वा दिवसैः शयनासनम् उद्देक्ष्यति इति पादे व्रणपट्तकं बद्ध्वावस्थितः
; शयनासनोद्देशकैर्

भिक्षुभिर् ग्लान इति कृत्वा तत्सन्तकं लयनं उद्दिष्टम्
; स उद्दिष्टेषु

शयनासनेषु व्रणपट्टकंमुक्तावस्थितः
; ततस् स ग्लानावलोककैर्

भिक्षुभिऋ पृष्टः किं श्तविरस्य पादः स्वस्थीभूतः इति
; स कथयति: ननूक्तं भगवता

सर्वसंस्कारा अनित्या इति
; तत् किं मम व्याधिर् नित्यो भविष्यति ? ते कथयन्ति: शीघ्रं स्थविर

स्वस्थीभूतः
, ह कल्पग्लानः: इति; स कथयति: किम् इच्छथ माम्

जिर्णलयने प्रक्षेप्तुम् इति
; अल्पार्था भिक्षवोऽवध्यायन्ति क्षिपन्ति

विवाचयन्ति
: कथम् इदानीम् भिक्षव अग्लाना एव वस्तुपरिहारं स्वीकुर्वन्ति ? एतत् प्रकरणम्

भिक्षवो भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: तस्मात् तर्हि

भिक्षवो कल्पग्लानस्य वस्तुपरिहारोऽदेयः
, नापि तेन स्वीकर्तव्यः, करोति, सातिसारो भवति।

 

The

various blessings of the men who master the Vinaya: the six pentads

 

पञ्चिकानां पिण्डोद्दानम्

 

पुरःकृतश् च स्वं

शीलम् असंसक्तम् अथापिच।

आलोकजाता उत्पत्तिर्

आन्तरायिकम् एव च॥

आपत्तिः पश्चिमं

कृत्वा पिण्डोद्दानसमुद्धृतम्।

 

अन्तरोद्दानम्

 

पुरःकृत्यम् अपरं

च चाभ्यन्तरं च परेषाम्।

बहुजनहिताय कृत्वा

प्रथमा भवति पञ्चिका॥

 

भगवता सूत्रं* मातृका च देवमनुष्येषु

प्रतिष्ठापिते
, सूत्रं नागेषु; विनयस् तु <गम्भीरो> गम्भीरावभासो दुर्दृशो

दुरवबोधो बहुसंधिर् लोकाक्षरप्रतिसंयुक्तः
; भिक्षवो मिनयं

गम्भीरत्वात् बहुसंधिकत्वात् लोकाक्षरप्रतिसंयुक्तत्वाच् च नोत्सहन्ते पठितुम्
; धर्मता चैषा येनाङ्गेन

शासनं परिहीयते तस्य बुद्धा भगवन्तोऽत्यर्थं वर्णम् भाषान्ते
; तत्र भगवान् भिक्षून्

आमन्त्रयते स्म
: पञ्च मे भिक्षवो आनुशंसा विनयधरपुद्गले; कतमे पञ्च ? पुरस्कृतो भवति

चतसृणां पर्षदाम्
; अपराप्रतिबद्धास्य भवत्य् अववादानुशासनी; अतीतानागतप्रत्युत्पन्नानां

सम्यक्संबुद्धानाम् अभ्यन्तरकोशधरो भवति
; परेषां श्रमणब्राह्मणानाम्

मूर्धानं आसाद्य तिष्ठति
; बहुजनहिताय बहुजनसुखाय च प्रतिपन्नो भवति सद्धर्मस्थितये।

 

अन्तरोद्दानम्

 

स्वशीलम् अभिगमनं

कौकृत्यं विशारदश् च।

सह धर्मेण कृत्वा

द्वितीया भवति पञ्चिका॥

 

अपरे पञ्चानुशंसा

विनयधरे पुद्गले
; <कतमे पञ्च> स्वोऽस्य शीलस्कन्धः सुगुप्तो भवति सुगोपितः; अभिगमनीयो भवति

चतसृणां पर्षदाम्
; कौकृत्यप्रसृतानां पुद्गलानां प्रतिशरणभूतो भवति; विशारदः संघमध्ये

विहरति
; प्रत्यर्थिनः स्वसद्धर्म गृहणाति।

 

अन्तरोद्दानम्

 

असंसक्तम् अर्थनिश्चयः

शिक्षापदान्य् अथापि।

चास्त्व् आलोकद्वयं

चैव तृतीया भवति पञ्चिका॥

 

अपरे पञ्चानुशंसा

विनयधरे पुद्गले
; कतमे पञ्च ? असंसक्तम् अर्थम् उद्धरति; सुविनिश्चितो भवति

अर्थविनिश्चये
; शिक्षापदान्य् अस्य सुगृहीतानि भवन्ति; आलोकजातेन चेतसा

बहुलं विहरति
; पश्चिमाया जनताया आलोकं करोति।

 

उद्दानम्

 

आलोकाभासप्रभासश्

च अल्पोत्सुकेऽशून्यकेन च।

 

अपरे पञ्चानुशंसा

विनयधरे पुद्गले
; कथमे पञ्च ? आलोकजाता मे दिक् ख्याति अवभासजाता प्रभासजाता, अल्पोत्सुकोऽहं

तस्यां दिशि विहरामि
, अशून्या च मे दिक् ख्याति यस्यां दिशि विनयधरः पुद्गलः प्रतिवसति।

 

<उद्दानम्

 

उत्पत्तिर् अथ प्रज्ञप्तिर्

अनुप्रज्ञप्तिर् एव च।

प्रतिक्षेपोऽभ्यनुज्ञा

च सैव पञ्चमा पञ्चिका॥
>

 

अपरे पञ्चानुशंसा

विनयधरे पुद्गले
; कतमे पञ्च ? उत्पत्तिं जानाति, प्रज्ञप्तिम् <जानाति>, अनुप्रज्ञप्तिं

जानाति
, प्रतिक्षेपं जानाति, अभ्यनुज्ञां जानाति।

 

उद्दानम्

 

.................................................................................................................................

 

अपरे पञ्चानुशंसा

विनयधरे पुद्गले
; कतमे पञ्च ? अन्तरायिकं जानाति, अनन्तरायिकं जानाति, अववदति, अनुशास्ति, प्रतिबलो भवति

सार्धंविहार्यन्तेवासिकानां निश्रयं ग्राहयितुम्।

 

उद्दानम्

 

.................................................................................................................................

 

अपरे पञ्चानुशंसा

विनयधरे पुद्गले
; कतमे पञ्च ? आपत्तिं जानाति, अनापत्तिं जानाति, गुर्वीं जानाति, लघ्वीं जानाति, प्रातिमोक्षसूत्रोद्देशोऽस्य

विस्तरेणोद्दिष्टो भवति।

 

upAlin

is the foremost amidst them who master and know the Vinaya. The teaching of the

Vinaya

 

भगवता विनयस्य वर्णो

भाषित इति स्थविरस्थविरा भिक्षवः सोत्साहा विनयं पठितुम् आरब्धाः
; तेन खलु समयेनायुष्मान्

उपाली अग्रोऽभूद् विनयनिदानसमुत्पत्तिकुशलानाम्
; स्थविरस्थविरा

भिक्षवो विनयं पर्यवाप्नुवन्ति इति सत्कृत्योद्देष्टुम् आरब्धः
; स उत्पाण्डुको

जातः कृशालको दुर्बलको म्लानो प्राप्तकायः
; जानका पृच्छका

*बुद्धा भगवतः, जानन्तः पृच्छन्ति, अजानन्तो न पृच्छन्ति, काले पृच्छन्ति, कालाक्रान्तं न

पृच्छन्ति
, अर्थोपसंहितं पृच्छन्ति, अनर्थोपसंहितं

न पृच्छन्ति
; सेतुसमुद्घातो बुद्धानाम् भगवताम् अनर्थोपसंहितायां पृच्च्चायाम्; तत्र कालज्ञा बुद्धा

भगवन्त अर्थोपसंहितायां पृच्छायाम्
; पृच्छति बुद्धो

भगवान् आयुष्मन्तम् आनन्दम्
: कस्माद् आनन्द उपाली भिक्षुर् उत्पाण्डूत्पाण्डुकः

कृशालको दुर्बलको म्लानो प्राप्तकाय इति
; स कथयति: भगवता विनयस्य

वर्णो भाषितः यत् ऱ्त्वा स्थविरस्थविरा भिक्षवाः सोत्साहा विनयं पठितुम् आरब्धाः
; आयुष्मान् उपाली

स्थविरस्थविरा भिक्षवः सगौरवा विनयम् पर्यवाप्नुवन्ति इति सत्कृत्योद्देष्टुम् आरब्धः
; तेनासाव् उत्पाण्डूत्पाण्डुकः

कृशालको
<दुर्बलको> म्लानो प्राप्तकाय इति; अस्याम् उत्पत्तौ

भगवान् आह
: उद्देशदावकस्वाहम् < भिक्षवो> भिक्षोर् आसमुदाचारिकान्

धर्मान् प्रज्ञापयामि
; उद्देशदायकेना भिक्षुणा चतुर्भिर् आर्यपथैर् उद्देशो दातव्यः; चङ्क्रम्यमाणेन

तिष्ठता निषन्नेन निपन्नेन च
; उद्देशग्राहकेन भिक्षुणा तृभिर् आर्यपथैर्

उद्देशो ग्रहीतव्यः
; उद्देशग्राहको भिक्षुर् उद्देशदायकस्य भिक्षोः सचेत् चङ्क्रम्यमाणस्यागच्छति

नवकश् च भवति तेन सामीचीं कृत्वा धातुसाम्यं पृष्ट्वा कायम् अवनाम्य ऋजुकचित्तेन सगौरवेण

पदपरिहाणिकया उद्देशो ग्रहीतव्यः
; अथ वृद्धतरको भवति, तेन धातुसाम्यं

पृष्ट्वा कायम् अवनाम्य ऋजुकचित्तेन सगौरवेण पदपरिहाणिकया उद्देशो ग्रहीतव्यः
; स चेत् तिष्ठत

आगच्छति नवकश् च भवति तेन सामीचीं कृत्वा धातुसाम्यं पृष्ट्वा उत्कुटुकेन कृत्वा नीचतरके

वा आसने निषद्य ऋजुकचित्तेन सगौरवेणोद्देशो ग्रहीतव्यः
; अथ वृद्धो भवति

तेन धातुसाम्यं पृष्ट्वा उत्कुटुकेन स्थित्वा नीचतरके वा आसने निषद्य ऋजुकचित्तेन सगौरवेण

उद्देशो ग्रहीतव्यः
; यथा तिष्ठत एवं निषण्णस्य निपन्नस्य च योजयितव्यम्; उद्देशदायकेन भिक्षुणा

स्वभ्यस्तं सुपरिचितं निःसंधिग्धं च कृत्वा उद्देशो दातव्यः
; उद्देशग्राहकेनापि

सुपरिपृष्टम् सूद्गृहीतं निःसंदिग्धं च कृत्वा उद्देशो ग्रहीतव्यः
; उद्देशदायको भिक्षुर्

उद्देशग्राहकश् च यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते
, सातिसारो भवति।

 

The

mischief of the Six Monks

 

षड्वर्गिका भिक्षवो

जनपदचारिकां चरन्तो रात्रौ विहारं संप्राप्ता यथसंस्तुतिकया भिक्षुभिः प्रतिशामिताः
; ते कथयन्ति: आयुष्मन्तः किं

तिष्ठथ शयनासनोद्देशकं शब्दयत
; ते कथयन्ति: किमर्थम् ? शयनासनम् उद्देष्टुम्; ते कथयन्ति: शयनासनं सुखं स्वप्ताः

प्रभातायाम् रजन्याम् उद्दिश्ययिष्यथ इति
; ते पर्यवस्थिता

कथयन्ति
: यूयं तिष्ठत एव शास्तुः शासनम् अन्तर्धापयत; यद्य् अस्ति कौकृत्यम्

उद्दिशत यथा वृद्धिकया शयनासनम्
; वाग्बलिनस् ते; शयनासनोद्देशकेन

संत्रस्तेनोद्दिष्टम्
; षड्वर्गिका वृद्धान्ते शयनासनं गृहीत्वा शयिताः; यावन् नवका उद्दिश्यन्ते

तावत् प्रभाता रजनी
; षड्वर्गिका लघ्व् लघ्व् एवोत्थाय कथयन्ति: आयुष्मन्तो गृह्णीत

शयना
*सनम्, गच्छाम इति; ते भिक्षुभिर् उच्यन्ते: आयुष्मन्तो युष्माभिर्

एकरात्रस्यार्थाय कृत्स्नां रात्रिं भिक्षुसंघो विहेठितः अहो बत यूयम् इहैव तिष्ठत
; ते कथयन्ति: नन्दोपनन्द श्रावस्तीम्

गच्छामः सवातला एत इति कृत्वा प्रक्रान्ताः
; एतत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: तस्मात् तर्हि

भिक्षवो न रात्रौ शयनासनम् उद्देष्टव्यम्
; यदि रात्राव् आगच्छन्ति

यथासंस्तुतिकया प्रतिश्रामयितव्या।

 

Disciplinary

prescriptions

 

जनपदाद् भिक्षुश्

चैत्यवन्दकः श्रावस्तीम् आगतः
; स तत्रागोचरकुशलः काल्यम् एवोत्थाय भगवत्सकाशम्

उपसंक्रान्तः भगवतः पादाभिवन्दनं कृत्वा स्थविरस्थविराणाम् च भिक्षूणां श्रावस्तीं

पिण्डाय प्राविक्षत्
; तस्य पिण्डाय चरतः प्राप्तवेला; तत्रैव कुड्यमूलम्

निश्रित्य भक्तकृत्यं कर्तुम् आरब्धः
; अनाथपिण्डदश् च

तेन पथा चैत्याभिवन्दकः संप्रस्थितः
; स तेन दृष्ट उक्तश्

: आर्य समन्तप्रासादिके शासने प्रव्रज्य किम् आराटिकां करोषि इति; स कथयति: आयुष्मन् कात्राराटिका, न पश्यसि वेलाम्

आसन्नाम् इति
; स कथयति: मदीयं गृहं कस्मान् न गतः इति;किं नाम त्वम्; अनाथपिण्डदः; अस्ति मया श्रुतं

तेषु तेषु सूत्रेष्व् अनाथपिण्डदो गृहपतिर् अनाथपिण्डदो गृहपतिर् इति
, नाथम् त्वा जाने

नापि गृहम्
; अनाथपिण्डदो गृहपतिः संलक्षयति: अप्रकृतिज्ञोऽयम्

भिक्षुर् दूरागतः
, ध्रुवं न मां वेत्ति <नापि मम गृहम्>; किम् अत्र प्राप्तकालं

भगवन्तम् आलोकयामि यावच् च श्रावस्ती यावच् च जेतवनम् अत्रान्तरात् परिक्रमणकां कारयामि

इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः
; उपसंक्रम्य भगवतः

पादौ शिरसा वन्दित्वा एकान्ते निषण्णः
; एकान्तनिषण्णोऽनाथपिण्डदो

गृहपतिर् भगवन्तम् इदम् अवोचत्
: आगन्तुका भदन्त भिक्षव अगोचरकुशला पिण्डपातम्

अटन्तः कालातिक्रमतया कुड्यमूलं निश्रित्य भक्तकृत्यं कुर्वन्ति
; अश्राद्धा अनेनाङ्गेनार्यकान्

ध्वंसयिष्यन्ति
; तद् यदि भगवान् अनुजानीयाद् अहं यावच् च श्रावस्ती यावच् च जेतवनम् अत्रान्तरात्

परिक्रमणकाम् कारयेयम् इति
; यस्य यत्र वेला भविष्यति स तत्र पिण्डपातं परिभोक्ष्यते इति; भगवान् आह: तस्माद् गृहपतेऽनुजानामि

कारय इति
; तेन यावच् च श्रावस्ती यावच् च जेतवनम् अत्रान्तरात् परिक्रमणका कारिका; यस्य भिक्षोर्

यत्र वेला भवति स तत्र भक्तकृत्यं करोति।

 

अपरेषां भिक्षूणाम्

पानीयविघातो भवति
; अनाथपिण्डदेन गृहपतिना तत्र कूपः कारितः त्रिकटुकस्य त्रिफलायाश् च शकटभार

उत्क्षिप्तः
; तत् पानीयं स्वादु संपन्नं सर्वलोकप्रख्यातम्; जनकायः श्रुत्वा

आगतः
; भिक्षवो वारयन्ति; श्रावस्तीनिवासिनः कथयन्ति: आर्या वयं युष्माकं

सर्वोपकरणैः प्रत्युपस्थिताः
, यूयं सर्वलोकसाधारणं पानीयं वारयथ इति; एतत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति
; भगवान् आह: न निवारयितव्या इति; मातृग्रामो भिक्षूणां

पानीयं याचते
; भिक्षवो नानुप्र*वच्छन्ति; भगवान् आह: दातव्यम्; उक्तं भगवता: मातृग्रामं समन्तपाशं

मारबन्धनम् इति
; भिक्षवः पानीयम् अनुप्रयच्छन्तो मातृग्रामे संरज्यन्ते; यावद् अन्यतरा

स्त्री रूपयौवनसंपन्ना तरुणकस्य भिक्षोर् अन्तिकेऽत्यर्थम् अवेक्षावति तत् पानीयं याचते
; योऽपि तस्याम्

अवेक्षावान् प्रतिबन्धचित्तः
; निवार्यमाणोऽप्य् अच्छिन्नधारया ददाति; एवं सापि निरीक्षते, पिबति, बत पानीयं विषमम्

गतम्
, कालगता; अल्पार्था भिक्षवोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत् प्रकरणं भिक्षवो

भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: या स्त्रीर् भिक्षोर्

अन्तिके अवेक्षावती भवति प्रतिबद्धचित्ता भवति तस्या स्वयं न दातव्यम्
, न च मातृग्रामस्य

अच्छिन्नया धारया पानीयं दातव्यम्
; अन्तरान्तरा वारिधारा

च्छेत्तव्या वक्तव्या वा अन्जलिं पूरयित्वा पिब इति
, अन्यथा सातिसारः;

 

*तेन खलु समयेन येऽग्रपिण्डपातं

जेतवने प्रतिपादयन्ति ते तत्रैव दातुम् आरब्धाः
; षड्वर्गिकैः श्रुतम्; ते परिक्रमणिकां

गत्वावस्थिताः
; येन आनीयते अग्रपिण्डपातस् तं पृच्छन्ति; यदि पायसो भवति

पात्रम् उपनामयन्ति
; अथ पानीयपेया भवति, कथयन्ति: महर्धिकः संघः, संघः स महानुभावः, संघायानुप्रयच्छत, एवं खण्डखाद्यकादि

योजयितव्यम्
; अल्पार्था भिक्षवोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति; एतत् प्रकरणम्

भिक्षवो भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: न भिक्षुणा परकीये

लाभे संनिपतितव्यम्
; संनिपतति, सातिसारो भवति; उक्तं भगवता; न भिक्षुणा परकीये

लाभे संनिपतितव्यम् इति।

 

भिक्षवः केनचित्

करणीयेन विहारान्तरं गच्छन्ति
; तेषां तत्र गतानां वेला आसन्ना भवति; कौकृत्यान् न परिभुञ्जते; एतत् प्रकरणम्

भिक्षवो भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: संचिन्त्य न गन्तव्यम्

अन्यथा गतानां यदि वेला भवति भोक्तव्यम्
, नात्र कौकृत्यं

करणीयम् इति।

 

सकृच्छ्रः कालो

वर्तते
; भिक्षवो विहारान्तरं गताः; ते तत्र भिक्षुन्

भुञ्जानान् दृष्ट्वा पुनर् आकांक्षन्ते भोक्तुम्
; <कौकृत्यान्> न परिभुञ्जन्ते; एतत् प्रकरंअ भिक्षवो

भगवत आरोचयन्ति
; अस्याम् उत्पत्तौ भगवान् आह: यन् न गृहीतं पूर्वविहारे

तच् चेद् अपरिमितं चार्यते ग्रहीतव्यम्
; अथ भिक्षुप्रमाण्यम्

कृतं भवति न ग्रहीतव्यम्
; गृह्णाति, सातिसारो भवति।

 

Nefarious

doings of the monks Ashvaka and punarvasuka

 

अथ भगवान् काशिषु

जनपदेषु चारिकान् चरन् किटागिरिम् अनुप्राप्तः
; तेन खलु समयेन

किटागिराव् अश्वकपुनर्वसुकौ भिक्षू प्रतिवसतः
; ताभ्यां श्रुतं: भगवान् काशिषु

जनपदे
<षु> चारिकां चरित्वा इहागमिष्यति सार्धं भिक्षुसंघेन इति; श्रुत्वा च पुनः

संलक्षयतः
: भिक्षवोऽस्मान् शास्तुः संनिधौ चोदयिष्यन्ति <स्मारयिष्यन्ति> अलज्ज्तेन वा वैतरिकेण

वा
; यन् नु वयम् भगवतोऽर्थाय महल्लकं विहारं स्थापयित्वा भिक्षून् आरभ्य

त्रीन् शयनासनोद्देशकान् कारयेम
, षट् शयनासनग्राहकान्; त्रयः शयनासनोद्देशकाः

कतमे
? हैमन्तिको ग्रैष्मिको *वर्षिकश् च; षट् शयनासनग्रहकाः

कतमे
? सर्वो विहार उद्देष्टव्यः, सर्वो विहारसामन्तकः, सर्व परिगणः, सर्वः परिगणसामन्तकः, सर्व आरामः सर्वः

आरामसामन्तकः
; यदि कथयन्ति विहारम् उद्दिशतेति वक्तव्या उद्दिष्टोऽयम्; परिगणम् उद्दिशत

एषोद्दिष्टः
; विहारसामन्तकम् उद्दिशत एषोऽप्य् उद्दिष्ट; आरामम् उद्दिशत

एषोऽप्य् उद्दिष्टः
; आरामसामन्तकम् उद्दिशत एषोऽप्य् उद्दिष्टः; ते अलयना अप्रतिष्ठिता

नास्मान् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा
; ताभ्याम् त्रयः

शयनासनोद्देशका कारिताः
, षट् शयनासनग्राहकाः; यावद् भगवान् किटागिरिम्

उनुप्राप्तः
; ताभ्यां भगवतः पूर्वकल्पित एव विहारः; भिक्षवः कथयन्ति: आयुष्मन्तौ शयनासनम्

उद्दिशतां विहारं च
; कथयतः: पूर्वोद्दिष्टको विहारः; परिगणम् उद्दिशत; सोऽप्य् उद्दिष्टः; विहारसामन्तटको

विहारः
; परिगणम् उद्दिशत; सोऽप्य् उद्दिष्टः; विहारसामन्तकम्

उद्दिशत
; सोऽप्य् उद्दिष्तः; परिगणसामन्तकम् उद्दिशत; सोऽप्य् उद्दिष्टकः; आरामम् उद्दिशत; सोऽप्य् उद्दिष्टकः; आरामसामन्तकम्

उद्दिशत
; सोऽप्य् उद्दिष्टकः; यतस् तौ सर्वावस्थौ

नोद्दिशतः ततोऽन्ते आरामस्योच्चशब्दो महाशब्दो जातः
; जानका पृच्छका

बुद्धा भगवन्तो जानन्तः पृच्छन्ति
, अजानन्तो न पृच्छन्ति; काले पृच्छन्ति, कालातिक्रान्तं

न पृच्छन्ति
, अर्थोपसंहितं पृच्छन्ति, अनर्थोपसंहितं

न पृच्छन्ति
, सेतुसमुद्घातो बुद्धानां भगवताम् अनर्थोपसंहितायां पृच्छायाम्; तत्र कालज्ञा बुद्धा

भगवन्तः अर्थोपसंहितायां पृच्छायाम्
; पृच्छति बुद्धो

भगवान् आयुष्मन्तम् आनन्दम्
: किम् एष आनन्द अन्ते आरामस्य उच्चशब्दो

महाशब्दो जातः महाजनकायस्य च निर्घोषः
? स कथयति: अश्वक पुनर्वसुकाभ्याम्

<भिक्षुभ्यां> भिक्षून् आरभ्य त्रयः शयनासनोद्देशकाः कृताः, षट् शयनासनग्राहकाः; भिक्षवः शयनासनं

न लभन्ते
; तेनायम् अन्ते आरामस्य उच्चशब्दो महाशयनासनं न लभन्ते; तेनायम् अन्ते

आरामस्य उच्चशब्दो महाशब्दो महाजनकायस्य च निर्घोषः
; भगवान् आह: कलहकारकान् आनन्द

मया भिक्षून् संधाय त्रयः शयनासनोद्देशकाः षट् शयनासनग्राहकाः कृताः
, नोऽत्र प्रकृतिस्थकानाम्; तस्मान् न भिक्षुभिः

प्रकृतिस्थकान् भिक्षून् आरभ्य त्रयः शयनासनोद्देशकाः कर्तव्याः षट् शयनासनग्राहकाः
; कुर्वन्ति, सातिसारा भवन्ति।

 

The

mischief of the Six Monks again

 

भगवान् कोशलेषु

जनपदे
<षु> चारिकान् चरण् अन्यतरस्मिन् अग्रामकेऽरण्यायतने रात्रिवासम् उपगतः सार्धं

भिक्षुसंघेन
; षड्वर्गिकैर् भगवतोऽर्थाय एकं शोभनवृक्षं स्थापयित्वा अन्ये शोभनवृक्षा

आत्मना गृहीता
: स्थविरस्थविराणाम् भिक्षुणाम् कोटरवृक्षा प्राप्ताः; राज्ञा प्रसेनजिता

कोशलेन श्रुतम्
; स चतुरङ्गेन बलकायेन प्रत्युद्गतः; स भगवतः पदाभिवन्दनं

कृत्वा स्थविरस्थविरान् पर्येषते
; यावत् पश्यति षड्वर्गिकान् शोभनेषु वृक्षेस्व्

अवस्थापितान्
; स्थविरस्थविरान् कोटरवृक्षेषु; स हुम् इति कृत्वा

येन भगवंस् तेनोपसंक्रान्तः
; उपसंक्रम्य भगवतः पादौ शिरसा वन्दिवैकान्ते

निषण्णः
; एकान्तनिषण्णो राजा प्रसेनजित् कोशलो* भगवन्तम् इदम्

अवोचत्
: अहम् अस्मि भदन्त राजा क्षत्रियो मूर्धाभिषिक्तः प्रभुः सर्वविषयोद्भवानां

रनानां
; सर्वं प्रणितवस्तु तन् मम; <यद्> अवशिष्तम् यथार्हं

तद् देवीनां कुमाराणाम् अमात्यानाम् बटबलाग्रस्य
; भगवान् अप्य् उत्तरो

धर्मराजा
, आर्यकौण्डिन्यशारिपुत्रमौद्गल्यायनकाश्यपपरेवतप्रभृतयो महाश्रावका कोटवृक्षेष्व्

अवस्थिताः
, षड्वर्गिकास् तु शोभनवृक्षेषु; अहो बत भगवान्

वृक्षान् अपि यथावृद्धिकया प्रज्ञपयेद् अनुकम्पाम् आदाय इति
; अधिवासयति भगवान्

राज्ञः प्रसेनजितः कोशलस्य तूष्णींभावेन
; अथ राजा प्रसेनजित्

कोशलो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात्

प्रक्रान्तः
; अस्याम् उत्पत्तौ भगवान् आह: तस्मात् तर्हि

भिक्षवो वृक्षा अपि यथावृद्धिकया उद्देष्टव्या स्थण्डिलान्य् अपि शाद्वलान्य् अपि इति
; उक्तं भगवता: वृक्षा अपि यथावृद्धिकया

उद्देष्टव्या स्थण्डिलानि शद्वलान्य् अपि इति।

 

भिक्षवः स्वयम्

एवोद्दिशन्ति
; भगवान् आह: विहारोद्देशको भिक्षुः संमन्तव्यः; भिक्षवोअविशेषेन

संमन्यन्ते
; भगवान् आह: पञ्चभिर् धर्मैः समन्वागतो विहारोद्देशको भिक्षुर् असंमतो न संमन्तव्यः, संमतश् चावकाशयितव्यः; कतमैः पञ्चभिः? छन्दाद् गच्छति

द्वेषान् मोहाद् भयाद् गच्छति उद्दिष्टानुद्दिष्तविहारं न जानाति
; एभिः पञ्चभिर्

धर्मैः समन्वागतः विहारोद्देशकोऽसंमतो न संमन्तव्यः
, संमतश् चावकाशयितव्यः; पञ्चभिस् तु धर्मैः

समन्वागतो विहारोद्देशकः असंमतः संमन्तव्यः
, संमतश् च नावकाशयितव्यः; कतमैः पञ्चभिः? न छन्दाद् गच्छति

न द्वेषान् न भयान् न मोहाद् गच्छति उद्दिष्टानुद्दिष्टम् च जानाति
; एभिः पञ्चभिर्

धर्मैः समन्वागतो विहारोद्देशकः असंमतश् च संमन्तव्यः
, संमतश् च नावकाशयितव्यः।

 

एवं च पुनः संमन्तव्यः: शयनासनप्रज्ञप्तिं

कृत्वा गण्डीम् आकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते

पूर्ववद् उद्देष्टुम् इति
; <>चेद् उत्सहते <तेन वक्तव्यम् उत्सहे इति; ततः पश्चाद्> एकेन भिक्षुना

ज्ञप्तिं कृत्वा कर्म कर्तव्यम्
; शृणोतु भदन्ताः संघः, अयं एवंनामा विहारोद्देशको

भिक्षुर् उत्सहते संघस्य विहारान् उद्देष्टुम्
; सचेत् संघस्य प्राप्तकालं

क्षमेत
, अनुजानीयात् संघो यत् संघ एवंनामानं विहारोद्देशकम् संमन्येत इत्य् एषा

ज्ञाप्तिः
; कर्म कर्तव्यम्; शृणोतु भदन्ताः संघः, अयम् एवंनामा विहारोद्देशको

भिक्षुः उत्सहते संघस्य विहारान् उद्देष्टुम् तत् संघ एवंनामानं विहारोद्देशकं भिक्षुं

संमन्यते
; येषाम् आयुष्मताम् क्षमते एवेंनामानं विहारोद्देशकं भिक्षुं संमन्तुम्

ते त्षूष्णीम्
; न क्षमते, भाषन्ताम्; संमतः संघेन एवंनामा विहारोद्देशको भिक्षुः; क्षान्तम् अनुज्ञातं

संघेन यस्मात् तूष्णीम्
; एवम् एतद् धारयामि; यथा विहारोद्देशकः एवं भक्तोद्देशकः यवागूचारकः

खाद्यकभाजकः यतेवं भक्तोद्देशकः यवागूचारकः खाद्यकभाजकः यत्किंचिच्चारकः भाण्डगोपकः

चीवरगोपकः
<चीवरभाजकः> वर्षाशाटिगोपकः वर्षाशाटीभाजकः * प्रेषकः; पञ्चभिर् धर्मैः

समन्वागतः प्रासादवारिको भिक्षुर् असंमतो न संमन्तव्यः
, <संमतश् चावकाशयितव्यः>; कतमैः पञ्चभिः? छन्दाद् गच्छति

द्वेषान् मोहाद् भयाद् गच्छति
, प्रासादिकाप्रासादिकं च न जानाति; पञ्चभिस् तु धर्मैः

समन्वागतः प्रासादवारिको भिक्षुर् असंमत संमन्तव्यः
, संमतश् चानवकाशयितव्यः; कतमैः पञ्चभिः

? न छन्दाद् गच्छति, न द्वेषान् न मोहान् न भयाद् गच्छति प्रासादिकाप्रासादिकं

च जानाति।

 

उद्दानम्

 

विहारभक्तोद्देशको

यवागूखाद्यकेन च।

यत्किंचिद् भण्डगोपकश्

चीवरद्वयम् एव च॥

वर्षाशाटी च गोपश्

च भाजकः प्रेषकस् तथा।

प्रासादवारिकश्

चैव पुद्गला द्वादश स्मृताः॥

शयनासनवस्तु समाप्तम्। 





uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project