Digital Sanskrit Buddhist Canon

स्वभाववादः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    -
  • Input Date:
    2016
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West

स्वभाववादः

अनेकदुःखमयः संसारः
सर्वथा हेतुनिरपेक्ष एव। वस्तुतोऽयं संसारः स्वभावादेव भवति। स्वभावो हि हेतुनिरपेक्षतैव।

 

नित्यसत्त्वा भवन्त्येके
नित्यसत्त्वाश्च केचन।

 

विचित्राः केचिदित्यत्र
तत्स्वभावो नियामकः।।

 

बहिरूष्णो जलं शीतं
समस्पर्शस्तथाऽनिलः।

 

केनेदं रचितं तस्मात्
स्वभावात् तद् व्यवस्थितिः।।

 

वस्तूनां कादाचित्कत्वं
तु उत्तरकालसिद्धिमात्रेणैव प्रतीयते
, एतत्सर्वम् अहेतुवादेऽपि
सिद्धत्येव। वस्तुतस्तु कादाचित्कभावो निर्हेतुकः
, भावत्वात्, व्योमवत्। वस्तूनां
यदवधि नियतत्वं दृश्यते तदपि स्वभावादेव भवति। यतो हि नियतदेशवृत्तित्त्वं नियतकालवृत्तित्वं
स्वभावादेव सिध्यति। स्वत एव भावा जायन्ते नश्यन्ति च। कादाचित्कः
( पदार्थः ) हेतुसामग्रीनिरपेक्षः
पदार्थत्वात् नैयायिकसम्मतप्रागभावपदार्थवत्। वस्तूनां हेतुसापेक्षत्वे स्वीक्रियमाणे
अनवस्था स्यात्। अपि च
, कार्याणां हेतुपरम्परास्वीकारे प्रतिवादिनां सम्मत ईश्वरोऽपि कथं न स्यात्।
किञ्च
, घटादिः अहेतुकः पदार्थत्वात्, परसम्मतेश्वरादिवत्।

 

कल्पितस्तु कार्यकारणभावः
नियतपौर्वापर्यावभासः योगीच्छातोऽपि वस्तूनामुत्पादात्
, स्वप्नादावपि घटादेरूत्पादात्।
न हि स्वप्निको घटो भ्रान्तः स्वप्ने प्रबोधपर्यन्तं तस्य वस्तुत्वात्। न हि सर्वं
वस्तु सर्वदा सदेवेति वस्तुस्वभावः। तन्तुभ्य एव पट इति पौवापर्यावभासस्तु कृत्तिकारोहिण्युत्पादादौ
पौर्वापर्यावभासे सत्यपि तयोः कार्यकारणभावनिरासात् निरस्तः।

 

न हि सतः सदेव उत्पद्यत
इत्यप्यस्ति कार्यकारणभावसिद्धये आलम्बः। विजातीयाद् गोमयाद् वृश्चिकोत्पत्तिदर्शनात्
, प्रागभावस्य नैयायिकैः
कारणत्वस्वीकाराच्च। कदाचिद् वर्तमानेभ्यस्तन्तुभ्यः पटः
, कदाचित् नष्टेभ्यः
क्षीरेभ्यो दधिदर्शनात्।

 

नियतदेशवृत्तित्वं
नियतकालवृत्तित्वमपि स्वभावे एव हेतुः
, न तु कार्यकारणभावस्वीकारे, यतो हि स्वभावादेव
तन्तुदेशवृत्तित्वं पटादीनाम्
, न तु वेमादिदेशवृत्तित्वम्। कादाचित्कत्वमपि
स्वभावादेवेति पर्यवस्यति। यतो हि कार्यस्याहेतुकत्वेऽपि तत्तत्कारणत्वाभिमतनियतोत्तरकालवृत्तित्वम्
, न तु कालान्तरवृत्तित्वमिति
नियमोऽपि स्वभावादेव सिध्यति।

 

न हि प्रयोजनमुद्दिश्य
जगत्प्रवृत्तिरिति नियमो वज्रलेपायते
, येन चेतनस्य कस्यचित्
कर्तृत्वं सिध्येत। भवेदेतदेवं यदि प्रवृत्तिः प्रयोजनवत्तया व्याप्ता भवेत्
, न तु एषा तथाऽस्ति।
अननुसंहितप्रयोजनानामपि यादृच्छिकीषु क्रियासु प्रवृत्तिदर्शनात्। अपि च
, वृथाचेष्टाकर्तृणाम्
अभावे न कुर्वीत वृथा चेष्टाम् इति धर्मसूत्रकृतां प्रतिषेधवचनमपि निर्विषयं स्यात्।

 

दृश्यते हि आश्वास- प्रश्वासलक्षणा
क्रिया प्रयोजनम् अननुसन्धायैव भवति
, अन्यथा कस्यचिदपि
भूतस्य मरणमेव न भवेत्। दुःखोद्रेके रोदनवत् सुखोद्रेके हासगानादेः प्रयोजनोद्देश्यरहितस्य
सर्वानुभवसिद्धत्वात्।

 

प्रवृत्तिः सप्रयोजनैव
भवति। अतः अप्रयोजनवतो ब्रह्यणः कथं जगदुत्पत्तिरिति। तत्राहुः भगवत्पादाः
- " यथा चोछ्वासप्रश्वासादयोऽनभिसन्धाय
बाह्यं किञ्चित् प्रयोजनं स्वभावादेव सम्भवन्ति
, एवमीश्वरस्यापि
अनपेक्ष्य किञ्चित् प्रयोजनानन्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति
" " न च स्वभावः पर्यनुयोक्तुं
शक्यते।
" अत्र मया उच्यते- यदि ईश्वरोऽपि स्वभावाधीन एव शाङ्करेऽपि
मते सृष्टिं विधास्यति
, तर्हि अहेतुकात् स्वभावादेव सृष्टिरिति मन्यताम्, किमन्तर्गडुना
ईश्वरेण।

 

ईश्वरवादस्य डिण्डिमघोषं
कुर्वताऽपि प्रशस्तपादेन आप्तकामेनेश्वरेण कथं सृष्टिर्भविष्यति इति शङ्कायाः प्रत्युत्तरार्थं
स्वभाववादे एव शरणं प्राप्तम्
- अथवा शक्तिस्वभाव्यात् ( ईश्वरस्य प्रवृत्तिः
) यथा कालस्य वसन्तादीनां पर्यायेणाभिव्यक्तौ स्थावरजङ्गमविकारोत्पत्तौ
स्वभावतः
, तथा ईश्वरस्यापि आविर्भाव-अनुग्रह- संहार- शक्तीनां पर्यायेणाभिव्यक्तौ
प्राणिनाम् उत्पत्ति
-स्थिति-प्रलयहेतुकत्वम्।

 

यदि ईश्वरस्य ईश्वरत्वं
स्वभावमूलकमेव
, तदा किमिति ईश्वरकल्पनया।

 

किञ्च ईश्वारो न
कारणम्
, उपलब्धिलक्षणप्राप्तत्वे सति अनुपलभ्यमानत्वात्, शशविषाणवत्। शशविषाणं
हि अनुपलभ्यमानसत्ताकम्
, अतो न भावानां कारणम्। न चायमसिद्धो हेतुः- पद्मकेसरादीनां
कण्टकतैक्ष्ण्यादीनां कारणस्य अनुपलभ्यमानत्वात्।

 

यथा च बाह्यानां
पदार्थानां कारणानुलम्भाद् अहेतुकत्वम्
, तथा आध्यात्मिकानामपि
दुःखादीनाम् अहेतुकत्वमेव। अत्रापि अनुमानप्रयोगः
-

 

यत् कादाचित्कं
तद् अहेतुकम्
, यथा कण्टकतैक्ष्ण्यादि, कादाचित्कानि च
दुःखादीनि
, अतस्तान्यपि अहेतुकान्येव।

 

अत एवोक्तं शान्तरक्षितेन
-

 

जन्मन्यपेक्षा भावानां
न च स्वस्य परस्य वा।

 

सर्वहेतुनिराशंसं
भावाः सर्वे भवन्ति हि।।

 

राजीवकेसरादीनां
वैचित्र्यं कः करोति हि।

 

मयूरचन्द्रकादिर्वा
विचित्रः केन निर्मितः।

 

यथैव कण्टकादीनां
तैक्ष्ण्यादिकमहेतुकम्।

 

कादाचित्कतया तद्वद्
दुःखादीनामहेतुता।।

 

हेतुभूति निषेधो
न स्वानुपाख्यविधिर्न च।

 







































































































स्वभाववर्णना नैवावधेर्नियतत्त्वतः।। 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project