Digital Sanskrit Buddhist Canon

बौद्ध मनीषा- बौद्धेषु प्रमाणमीमांसा

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    -
  • Input Date:
    2016
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West

 

बौद्ध मनीषा


बौद्धेषु प्रमाणमीमांसा 

 

अस्ति महद् रिक्थं

बौद्धनैयायिकानां भारतीयप्रमाणमीमांसाशस्त्राणां समुद्भावने संविकासे समुपबृंहणे च।

रमाणमीमांसकेषु बौद्धतदितरयोः कतरस्मिन् सम्प्रदाये इदम्प्रथमतया प्रमाणशास्त्रं प्रादुर्भावमभजदिति

प्रचुरप्रमाणानुपलब्धेरद्यापि निर्णेतुं नैव शक्यम्। गौतमीय
-ऊर्वपक्षसूत्रेष्वनाहार्योत्थापितानां

प्रत्यक्षाद्यप्रामाण्य
- त्रैकाल्यखण्डनव्यक्तिपदार्थत्व - समर्थनानात्मत्वाभावाद्भावोत्पत्ति-क्षणभङ्गत्वानीश्वरत्वानवयवित्ववि- ज्ञानमात्रत्वादिबौद्धवादानां

तत्तत्सौगततन्त्रेषु तत्तत्पर्यवसितरूपाणां पर्यालोचनया प्रमाण
-प्रेमयविकाससमीक्षया

च विद्याभूषण
- दासगुप्तादिपरिकल्पितो बौद्धप्रमाणचर्चाया न्यायसूत्रोत्तरभावित्वसिद्धान्तो

न न्रिगलितो भवति। पूर्वपक्षसूत्रेषु कथञ्चित् पुरातनासद्विज्ञानवादस्थितिकल्पनापि

शून्य
- विज्ञानवादप्रवर्तकत्वेनाख्यात- नागार्जुनमैत्रेयासङ्गवसुबन्धुप्रभृतीनां

न्यायसूत्रोत्तरभावित्वमनोरथं न पूरयति। शून्यविज्ञानानात्मतिरिक्त
-पूर्वोक्तसूत्रस्थवादास्तत्रत्यसौगततन्त्रसिद्धान्तप्रदप्राप्ता

आत्मानं निरायासं न्यायसूत्र
- प्रतिपादित- सिद्धान्तेभ्योऽपि

प्राक्तनत्वं द्योतयन्ति
, संभवयन्ति च न्यायसूत्रानपेक्षि- सर्वास्तिवादसम्मतप्रमाणप्रमेयादिखण्डनैः

नागार्जुनादीनां सर्वनास्तित्ववाद
-साफ़ल्यम्, सर्वास्तिवाद-माध्यमिकादिमतापेक्षित्वं

च न्यायसूत्रपूर्वपक्षवादानाम्। या हि विग्रहव्यावर्त्तन्याम् तद्वृत्तौ च पूर्वपक्षत्वेन

समुपलब्धा चतुष्प्रमाणचर्चा
, सा स्वोद्गमप्रस्थानमन्विषन्ती, अद्याप्यसमञ्जमेव

निरवकाशा भ्रमति। न्यायसूत्रकृत् तद्भाष्यकृत्
-तद्वार्तिककृत्-तत्तात्पर्यकृद्भिः

स्वप्रस्थाने योऽङ्गीकारः समुपलभ्यते
, स तद्विरोधेनान्यकल्पने

विशिष्टबाधकप्रमाणोपलब्धिमन्तरा नैव विद्वत्सहः। सुविदितमेव बौद्धनां तर्कानुरोधित्वं

श्रुति
- स्मृत्यनुयायिनां च प्राचीनवैदिक-दार्शनिकानां तद्विरोधित्वमिति।

तदेवम् अनुरोधित्वेन बौद्धेषु तर्काणां पुर्वभावः
, तत्प्रभावाद् गौतमीयादिषु

पश्चाद्भावो नासमञ्जसः प्रतीयते। भवतु वा ऐतिहासिकानां सम्भावनामण्डितो यथा
-तथा-वादः, न तस्येह इदानीं

प्रासङ्गिकत्वम्। सौगतप्रमाणशास्त्रणां परीक्षया काणादगौतमीयैः समं सौगतकृत
-वाद-जल्प-वितण्डाकथानां पौर्वापर्योपजीवकोपजीव्यभावसमीक्षया

तु सप्रकाशं मया प्रकाशनीयः।

 

ब्रह्यजालीयपरप्रवादान्

परीक्षितुम्
, परिरक्षितुं च दुःखनिरोधगामिनीं प्रतिपद् विशुद्धिं भगवता बुद्धेन सर्वसंस्काराणाम्

अनित्यत्वबोधाय
, सर्वदुःखानां च अन्तकरणाय, शीलसमाध्योरपि

जननीव उत्पादयित्री पालयित्री च महाप्रज्ञा प्रज्ञापारमिता पुरस्कृता। प्रज्ञाप्रामाण्योद्बोधनाय

वैशाल्यां कूटागारशालायामुदीरितं न तावाहं पापिम
, परिनिब्बायिस्सामि

याव मे भिक्खू उप्पन्नं परप्वादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सपाटिहारियं धम्मं

देसिसन्ती
' ति ( उदाने ६/) भगवद्वचनं प्रशस्यतरमिव भवति। एतद्गर्भिकृतमिदम् अष्टसाहस्निकावचनमपि

सम्यगवधेयं भवति
- प्रग़्यापारमितैव आयुष्मन सारिपुत्र, सार्वयानिकी' इति। किं बहुना

, ' यत्किञ्चिदुदयधर्मकं तन्निरोधधर्मकम् ' यं किंचि समुदयधम्मं

सब्बं तं निरोधधम्मं
' ति ( उदाने ५/) नाहमेकधर्ममपि अनभिज्ञायापरिग़्याय दुःखस्यान्तक्रियां वदामी (.को.भा./१५ ) त्यादिबुद्धवचनानि

स्फ़ुटमेव व्यप्त्यनुमितिगर्भां कथाम् उदाहरन्ति। नित्यागमप्रतिपादितमर्थं न बहुमन्यमानाः

श्रद्धाप्रज्ञयोश्च
' प्रज्ञाप्रधानं त्वनयो' रित्यादिनागार्जुनादिवचनैः

( रत्नावली -) प्रज्ञाया एव प्राधान्यमित्युद्घोषयन्तो बौद्धदार्शनिका अविद्या-प्रतिपक्षत्वेन

अङ्गीभूतायां मध्यमायां प्रतिपदि प्रथमत्वेन च अनुभवावसानां सम्यग्दृष्टिरूपां विद्यां

पुरस्कुर्वन्ति। एष प्रज्ञापुरस्कार एवोत्सभूमिः बौद्धप्रमाणशास्त्राणाम्। प्रज्ञापराणां

सौगतानां प्रमाणव्यसनित्वं सहजेनैव सम्भावयितुं शक्यं येन लोकोत्तरवादिभिस्तैः दिङ्ग्नागप्रमुखैः

शून्यताद्वयाधिगमरूपस्य धर्मकायभूतस्य बुद्धस्यैव प्रमाणरूपत्वम्
, तस्यैव च ' प्रज्ञापारमिता- ज्ञानमद्वयं स

तथागतह्
' ( प्रज्ञापारमिता- पिण्डार्थः ) इत्यादिवचनैः अद्वयज्ञानरूपत्वं

व्यवस्थाप्य पमाणभूताय जगद्धितैषिणे
( प्र../) इत्यादिभिः सत्यचतुष्टयाविसंवादिने

तस्मै नमस्कारोऽभिहितः धर्मकीर्त्तिना च प्रमाणवार्त्तिकप्रथमपरिच्छेदप्रतिपाद्येन

अविसंवादनात् भगवतः प्रमाणभूतत्वमिति व्याख्यातम्। एतत्सर्वम् अभिप्रोत्योक्तं प्रज्ञाकारमतिना

भगवतः प्रमाणभूतत्वमिति व्याख्यातम्। एतत्सर्वम् अभिप्रोत्योक्तं प्रज्ञाकारमतिना प्रमाणवार्त्तिकालङ्कारभाष्ये

( पृ ११६ ) प्रमाणादेव समस्तसिद्धिरिति प्रतिपादयता -

 

प्रमाणतत्त्वं भगवांस्तथागतो

दिदेश यस्मादुभयेन नित्यम्।

अतः परं नास्ति

ततः प्रमाणं तथागतादेव समस्तसिद्धिः।। इति।।

 

एवं प्रमाणभूतत्वं

बुद्धत्वे प्रयोजकम् अधिगत्य
, सकलमपि बौद्धप्रस्थानं साक्षात् परम्परया

वा प्रमाणमीमांसायामेव पर्यवसितं भवति। एवं सत्यस्मिन् लघुकायनिबन्धे सौगतसम्मतं ज्ञानस्वरूपं

समासेन मीयते
, प्रसङ्गेन तु काणादं गौतमीयं चापि किंचिद् निर्दिश्यते।

 

अर्थाक्रियाविरहिणो

नित्यस्य ज्ञानस्याप्रामाण्यम्
, अनित्यया वस्तुसङ्गताया एव धियः प्रामाण्यमिति

बौद्धप्रमाणचिन्ताया अभिमतम्। अविसंवादित्वे सति अज्ञातार्थप्रकाशकत्व मिति प्रमाणलक्षणं

बह्येतरोभयवादिसम्मतं परमार्थसंवृतिभ्यां द्विधा भिन्नम्। परमार्थतोऽद्वैतबोधस्याज्ञातार्थप्रकाशरूपस्य

अविसंवादनात् संवृतिसतः प्रत्यक्षानुमानाभ्यां साक्षात् परम्परया वा अज्ञातस्वलक्षणकानामविसंवादित्वेन

ज्ञापनाद्
, द्वयोः प्रमाण्यं सिध्यति। अर्थक्रियासमर्थ यद् इत्यादि प्रसिद्धप्रमाणवार्तिकवचनं

(/) सौत्रान्तिकानां बाह्यसद्वस्तुवादं विज्ञानवादिनां विज्ञानपरमार्थाद्वैतवादमनुधावति।

उभयथापि च प्रामाण्याया धियो वस्तुसंगितत्वं च विरूध्यति। अर्थपक्षपान्तिन्या अस्या

बुद्धेः प्रमाण्याय बौद्धैः सर्वप्रथमं ज्ञेयस्वरूपचिन्ता विधीयते
, सन्धीयते च प्रमाणव्यवस्थायस्तदेव

प्रयोजकं तत्त्वमिति। अत एव वस्तुवादिसम्मतः मेयाधीना मानसिद्धि रितिपक्षः सिद्धान्तिन्तो

भवति। विज्ञानवादे तु मेयेन मानव्यवस्था यद्यप्यधिगता
, तथापि मेयं मानाधीनमिति

सिद्धान्तोऽपि पर्यवस्यति। सहोपलम्भनियमाद् वस्तुबोधे मानप्राधान्यमङ्गीकृत्यैव विज्ञानवादिभिः

संकलं बाह्यं मेयजातमपहत्य मानशेषता नीता। मानानुरोधेन विषयव्यवस्थां प्रस्थापयद्भिः

काणादगौतमीयैः दर्शनस्पर्शनाम्यामेकार्थग्रहणा
- दितिन्यायात् स्थिरवति

अन्यतमप्रमेये अनेकेषां प्रमाणानाम् समवायः एकेन च प्रमाणेननेकेषां ग्रहणमिति प्रमाणसंप्लववदः

प्रस्तूयते। एष च संप्लवः प्रमाणम् प्रमेयं चाविशेषेण अनियतं संप्लुतं च करोति। बौद्धैस्त्वत्र

विप्लवपक्ष आसञ्जितस्तद्नुरूपमेव तेषां स्वलक्षण
-सामान्यलक्षणाभ्यां

विषयद्वैविध्यम् प्रत्यक्षानुमानाभ्यां च प्रमाणद्वैविध्यं पर्यवस्यति
, उक्तम् प्रमाणवर्तिके

मानं द्विविधं विषयद्वैविध्यात्
(/) त्र्येकसंख्यानिरासो

व प्रमेयद्वयदर्शनात्
(/६४ ) इत्यादि।

 

अस्ति वस्तुविषये

सामान्य
- विशेषाभ्यां तदुभयमिलितरूपाभ्यां च बौद्धेतरयोर्विप्रतिपत्तिः। काणादगौतमीयेषु

सामान्य
-विशेष-तद्वद्भेदात्त्रिधात्वेन न प्रमाण-प्रमेयद्वित्वे, नापि प्रमेयेष्व-सांकर्य प्रमाणानाम्, उक्तम् उद्योतकरीयवार्त्तिके

न तावत् प्रमाणद्वयं प्रतिपद्यामहे
, न विषयद्वयम्, नाप्यसङ्करमिति।

बौद्धमते तु सामान्य
- विशेषाभ्याम् असंकीर्णरूपाभ्याम् अर्थक्रियातद्द्विरूद्धाभ्यां वस्तुनः

स्वभावद्वैविध्यम्
, तद्वशात् प्रमेयद्वित्वं सम्मतं भवति। वस्तुतस्तु बौद्धमते सामान्यस्यापि

वस्तुत्वम् आपातरम्यमेव। बुद्धावाकारार्पण क्षमत्वात् तस्यैव चार्थक्रियाकारित्वात्

विशेषस्यैव वस्तुत्वं
, न सामान्यस्य उक्त म्मेयं त्वेकं स्वलक्षणं तस्मादर्थक्रियासिद्धे रिति

एवं सत्यपि न सर्वथा निरालम्बनः सामान्य व्यवहारः। विशेषस्यैव अनुगताकारत्वेन सामान्यप्रतीतेः
, तस्यैव च ज्ञेयस्वलक्षणरूपत्वेन

समानतया सामान्यस्वीकाराच्च। विशेष एव यतो विजातीयव्यावृत्त्याश्रयः
, अतः स एवानुगताकारबुद्धया

साधारणरूपतया भासेतात्र न चित्रम्। उक्तमलङ्कारभाष्येऽपि यदा साक्षाज्ज्ञानजननं प्रति

शक्तत्वेन प्रतीयते
, तदाऽसौ स्वरूपेण लक्ष्यमाणत्वात् स्वलक्षणम्, यदा तु पारम्पर्येण

शक्तत्वात्तस्यैव प्रतीति तदा सामान्यरूपेण लक्षणमिति सामान्यलक्षणम्। पारम्पर्येण

शक्तिरेवाशक्तिः पर्युदासवृत्त्या
, न शक्तयभाव एवेति।

यतश्चार्थक्रियारूपत्वेन विशेष एव वस्तुन स्वरूपम् अतस्तदेवाविसंवादनात् परमार्थसदपि।

एवं स्थिते असतः सामान्यलक्षणस्यासत्वं स्वलक्षणाश्रयत्वेनैव यतस्तद् भासते अतः पररूपेण

भासमानं विकल्पेनैव च केवलं व्यवहार्यपं बिभ्रत् तत् संवृत्यैव सत्त्वात् संवृतिसद्

भवति। एवं यतो हि अपरमार्थेन असद्भूनापि लोकव्यवहारः संवाद्यत एव
, अतः स सत्यमिव

सत्यम्। पररूपेण भवदिदं सत्त्वं यथा भावाश्रयं तथा भाव वासनाप्रसूतविकल्पकल्पितत्वाद्

अहावाश्रयम्
, भावाभावाश्रयं चापि सिद्ध्यति। यद्यप्यस्ति त्रिविधस्यापि सामान्यस्याविशेषेन

असत्त्वमेव
, तथापि भावोपादानत्वेन स्वभावहेतोः, अभावोपादानत्वेनानुपलब्धिहेतोः, उभयोपादानत्वेन

कार्यहेतोः सत्त्वमधिगत्य त्रिविधैरपि हेतुभिस्तत्त्वमधिगम्यत एव। द्विचन्द्रादीनां

सत्त्वं तु ज्ञेयत्वादिपररूपेणापि न सिद्ध्यति
, अतो न कथमप्यनर्थभूतानां

तेषां सत्त्वम्। उक्तं प्रमाणवार्तिके
- केशादयो न सामान्यमनर्थाभिनिवेशतः

इति।

 

एवं चैकस्यैव सतः

स्वरूप
-पररूपाभ्यां स्व-सामान्यलक्षणाभ्यां यथा विषयद्वयव्यवस्था, तथैव स्वलक्षणमेवैकं

प्रत्यक्षानुमानाभ्यां द्वाभ्यामपि विषयिक्रियते। अतएव यत् स्वलक्षणरूपं दृश्यं
, यच्च सामान्यस्वरूपं

विकल्प्यं
, ते उभे एकीकृत्यैव लोकव्यवहारः प्रवर्तते। सामान्यलक्षणं वस्तुत्वेन

भासमानं सदपि स्वलक्षणत्वेनावसीयमानं वस्तुविषयं प्रवृत्तिविषयं च भवति। अत एव बाह्यसम्बद्धत्वेन

प्रत्यक्षस्य बाह्यसम्बद्धसम्बद्धेत्वेनानुमानस्य संवादकत्वं प्रमाण्यं च सम्मतं भवति।

एतत् सकलमभिप्रेत्योक्तं धर्मोत्तरेण पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते

यतः
, ततः स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्येति। तत्र दुर्वेकेण चोक्तम्

तस्मान्न द्विविधो विषयः प्रमाणस्याभिधानीयोऽपित्वेक एव प्रवृत्तिविषयोऽस्य ख्यापनीय

इति एवं एकस्यैव च तस्य रतिपत्तिप्रकारभेद एवायं प्रमाणभेदस्य प्रयोजको नान्यः। एवं

च परमार्थभूतं यत्स्वलक्षणाख्यं प्रमेयं तदेवैकं प्रमाणस्य ग्राह्यमिति पर्यवस्यति
, तद्धि अनध्यवसेयमनभिधेयन्तत्त्वम्।

प्रमाणाध्यवसेयं तु केवलं पररूपं सामान्यमेव। एवं च परमार्थसंवृत्तिभ्यामपि प्रमाणप्रमेयद्वयव्यवस्था

सर्वबौद्धैरधिगता भवति। इत्थं सौत्रान्तिकनये यथा परमार्थसंवृत्योः प्रमेयप्रयोजकत्वेनाङ्गीकारस्तथा

प्रमाणद्वित्वप्रयोजकत्वेनापि विनियोगी न कथमप्यसमञ्जसः।

 

यो ह्ययं स्वलक्षणाख्यः

असाधारणः स्वभाव उक्तः ष वस्तुवादिबौद्धमते परमाणुरेव। परमाणुवादश्च अभिधर्मकोशालम्बनपरीक्षाद्यनुरोधेन

वैभाषिकसौत्रान्तिकमतेषु परस्परमनति
- भेदभिन्नेषु द्रव्यपरमाणु- संघातपरमाणुसंचिताकारपरमाणुवादाभिधानैः

भिद्यन्ते। अविशेषेण यद्यपि परमाणवोऽतीन्द्रिया एव भवन्ति
, तथाप्यणु-संघात-संचयादिभिः अष्ट-नव-दशैकादशादीनां सहोत्पादात्

तेषु स्पर्शवत्त्वं सिद्ध्यति। स्पर्शवत्त्वम् अणुत्वव्याप्यमिति स्वयूथ्य
- सिद्धान्तमङ्गीकृत्य, अनङ्गीकृत्यापि

काणाद
-गौतमसम्मतम् अवयविवादं संहतेषु परमणुष्वेव स्थौल्यादेः प्रतीतिः स्वीकृता।

उक्तत्रिविधानित्य
- परमाणुवादिषु अतीतानागताकालसत्ताया अपाकरणात् सौत्रान्तिक एव प्रधानपदं

बिभर्ति
, येन तत्प्रतिपादित-क्षणभङ्गवाद-क्षणसन्ततिवादाभ्यां

वस्तुनः सूक्ष्मतमं स्वलक्षणरूपं प्रज्ञप्तिसच्च सान्तानिकं रूपं प्रकाशतां गच्छति।

सवव्यापि चायं सौत्रान्तिकसम्मतो द्रव्यपरमाणुः अनित्यः
, देशतः कालतः स्वरूपतश्च

विच्छिन्नः
, स्वतन्त्रश्चेति सम्पन्नः क्षणपरमाणुरेषः सन्तानराश्यादिरूपेण ज्ञायते, यत्र दैशिकं कालिकं

कर्मफ़लादिकं सम्बन्धतः प्रकर्षतश्च परिपुष्टं सद् भासते।

 

एतादृशपरमाणुवादस्वीकारादेव

वस्तुवादिनो बौद्धस्तीर्थिकबाह्यार्थवादिभ्यो व्यावृत्ता भवन्ति। अयं च व्यावृत्तिप्रकारः

प्रमेये प्रमाणविषये च समानमेव पर्यवसितो भवति। वैशेषिकनये परमाणुर्नित्यः
, स्थिरो द्व्यणुकादिक्रमेणारब्धस्यावयविनः

समवायिकारणम्
, गुणकर्म-विशेषादीनामाश्रयः। बौद्धाभिमतस्तु परमाणुः अतीन्द्रियोऽपि प्रत्युत्पन्नकालमात्र- सत्त्वात् क्षणभङ्गः, तस्मादनित्यः, गुणकर्मादीनामनाश्रयोऽनवयविरूपः

सिद्ध्यति। एवं च बौद्धसम्मत
- परमाणुस्वीकारेण गौतमकणादाङ्गीकृतं रूपाद्यतिरिक्तं

रूपाद्यधिष्ठानम् एकप्रत्ययहेतु अवयविद्रव्यम्
, अपरापरदेशोत्पन्नहस्तादिक्षणाद्

भिन्नं कर्म
, व्यक्तिव्यतिरेकि सामान्यं चेति वादा निराकृता भवन्ति। अत एव न्यायवैशेषिकाभिमताः

सर्वा अपि द्रव्य
-गुण-कर्मादिप्रतीतयो बौद्धमतेनानादिवासनालक्षणान्तरकारणनिबन्धाः प्रज्ञप्तिमात्राणि, न ता अर्थधीनाः।

एवं यद्यप्ययं नित्यपरमाणुवादः वैशेषिकपरम्परानुप्राप्तस्तथापि तेभ्यः अयात्तीकृत्य

क्षणभंगापत्त्या पूर्वबौद्धैर्जीर्णीकृतः
, परवर्त्तिभिश्च

विज्ञानपदे संस्थाप्याऽसौ जडाणुश्चेतनाभासीकृतः। चेतना
-भासीभूतस्यास्य

परमाणोः स्वरूपं स्वसंविदितं सं बाह्यपदार्थाननभ्युपगच्छां नव्यबौद्धानां कृते ज्ञानस्यानास्रवं

जडनिर्मुक्तं चाद्वैतस्वरूपं प्रकटयति। इत्थं बौद्धानां आभासवपुःपरमाणु
-चिन्तया अनाभासैर्बाह्यजडैर्जडीकृतमिव

प्रमाणद्वारमपाकृत्य प्रमात्वव्याकरणाय बाह्यशून्यं साभासं सविशदमधिगममार्गम् अवातरत।

अयं च वादो यथास्थानं विशदीकरीष्यते।

 

ज्ञानानं निराकारत्व-साकारत्ववशादपि

तदालम्बनस्य वस्तुनः सत्त्वं प्रकटितं भवति
, विज्ञातं च भवति

ज्ञानस्य स्वरूपम्
, तत्प्रमात्वम्, तदवबोधप्रकारश्च। सर्वेऽपि बाह्यार्थवादिनो

बौद्धाबौद्धदार्शनिका वैशेषिक
-वैभाषिक-सौत्रान्तिक-गौतमीया ज्ञाननिराकारवादिनो

भवन्ति। तेषां मते ज्ञानानां निराकारत्ववशादपि वस्तुनः सत्त्वं प्रकटितं भवति
, विदितश्च भवति

ज्ञानस्य स्वरूपावबोधहेतुः। उक्तं च सर्वेऽपि बाह्यार्थ
-वस्तुवादिनो बौद्धाबौद्धदार्शनिका

ज्ञाननिराकारत्ववादिनः सन्ति। तेषां मते योऽयं ज्ञाने आकारः प्रतिभासते
, स ग्राहकज्ञानाद्

व्यतिरिक्तस्य स्थिरस्य क्षणिकस्य वा ग्राह्यभूतस्य अर्थस्यैव। अत एव अबौद्धनैयायिकैः

प्रत्यक्षस्थले निराकारज्ञानात् तद्विप्रकृष्टम् अर्थम् बोधयितुं इन्द्रियार्थयोः सन्निकर्षः
, वैभाषिकसौत्रान्तिकैश्च

विषयेन्द्रियविज्ञानानां त्रिकस्पर्शः मन्यते। सकलसर्वास्तिवादिबौद्धानां त्रिकस्पर्शवादित्वे

समानेऽपि अस्ति अर्थग्रहण
-अर्थसारूप्याभ्यां त्रिकालैककालवादित्वाभ्यां च भेदः। ततोऽर्थाज्जातं

प्रत्यक्ष मिति वासुबान्धवप्रत्यक्ष
-लक्षणात् पूर्वतः

सत एव अर्थस्य ग्रहणं ज्ञाप्यते
, क्षणैककालमात्रस्थितस्य परमाणोः विज्ञानस्य

य सरूपणमिति सौत्रान्तिकपक्षोऽङ्गीक्रियते। इत्थं सन्निक्र्षत्रिकस्पर्शयोः भेदे वस्तुनः

स्थिरत्व
- क्षणिकत्वे एव प्रयोजके। ज्ञाने प्रतिमासमान आकार एव वस्तुनः अर्थक्रिया, एष एव च वस्तुनः

सत्त्वम्
< एतदधिगमेनैव धियः संवादित्वम्, संवादित्वाच्च

प्रमाण्यं स्वीकृतम्।

 

एवं च प्रत्यक्षानुमानयोः

द्वयोरपि साक्षात् परम्परया वा अविशेषतो वस्त्वधिगमेन अविसंवादनात् प्रामाण्यं सिद्ध्यति।

यद्यपि अबौद्धनैयायिकैरपि धियो निराकारतया अर्थेनैव विशेषो मन्यते
, किन्तु अर्थक्रियाकारित्वेन

वस्तुनः सत्त्वमनङ्गीकृत्य
, तैः ज्ञानार्थेन्द्रियाणाम् एककालिकत्वक्षणसत्त्वपक्षः अपहस्तितः। अत

एव तेषां मते पूर्वकालतो वर्तमानयोः इन्द्रियार्थयोः
, अवयविसतोः , संयोगेन त्रिक्षणावस्थायिनोः

ज्ञानगुनस्योत्पादः सिद्धान्तसिद्धो भवति। काणादगौतमीयानां निराकारवादित्वेऽपि क्षणसत्त्व
-विरोधाद् द्रव्यगुणकर्माणि

परापरात्मकरूपेण सामान्यविशेषात्मकानि ज्ञायन्ते। तत्र च अनेकेषां प्रमाणां संप्लवोऽपि

न विरूद्ध्यते। बौद्धमते तु विशेषमात्रं वस्तु
, तद्ग्राहकं च केवलं

प्रत्यक्षम्
, तद्भिन्नं सर्वमपि प्रातितिकं सामान्यमात्रम्, तद्ग्राहकं चानुमानमिति

पृष्ठभावि
-विकल्प इति च पक्षमंगीकृत्य असंकीर्ण प्रमाणं-प्रमेयं च संस्थाप्य

परपरिकल्पितप्रमाणानि द्वयोरेवान्तः विलीयन्ते। बौद्धानां चायं प्रमान्तर्भावप्रकरः

ततोऽर्वाचीनैः प्रयाशः सकलैरपि वेदानुगैः न्यायदर्शनकारैः इच्छया अनिच्छया वा अवश्यसमर्थनीयो

जातः
, अन्यानि च प्रमाणानि तैः अनुमाने अन्तर्भावितानि एवं च बौद्धमतेन उपमानशब्दार्थापत्त्यनुपलब्धि- प्रमाणजातं ज्ञाननिराकारवादित्वे

समानेऽपि बौद्धमते निराकारत्ववशाद् ज्ञानस्य स्वांशे निर्विकल्पत्वम्
, परमार्थमात्रग्राहित्वम्, ज्ञानस्य स्वप्रकाशत्वम्, प्रमाणानां च प्रायशः

स्वतः प्रमाण्यमिति वादाः सप्रसङ्गं समुद्भाविताः।

 

शाङ्करमते तु परमार्थभूतं

ब्रह्यं प्रत्यक्षगोचरम्
, तद्धि निर्विकल्पकं निराकारं स्वप्रकाशं स्वतः प्रमाणमिति बौद्धपक्षमात्मगतमिव

कृत्वा स्वसञ्च्छन्नं सौगतप्रमाणनुगत्वं विच्छिन्नं करोति। किं बहुना
, द्रव्यगुणकर्मणां

न्यायपरिकल्पितलक्षणानि
, अवयवि-सामान्य-समवाय-संयोगादीनां स्वरूपतो निरासः पूर्वतनैः सौत्रान्तिकादिभिः कृत एव ब्रह्यसूत्र-तच्छाङ्कर-भाष्यटीकादिषु अनुकृतः

बहुधा स्वपरिभाषया समर्थितश्च। किमधिकेन
, सत्यद्वयं त्रयं

वा आधृत्य शंकरभगवत्पादैः मिथ्यावादमूलोऽद्वैतवादो यो हि ख्यापितः स सौत्रान्तिकानां

स्व
-समान्यगतवस्तुसत्ताद्वयवादस्य अनुकरणमात्रमेव।

 

न तिरोहितं यद्

बौद्धमते यथा स्वलक्षणमाश्रित्यैव मिथ्याभूतं सामान्यलक्षणं वस्तुत्वेन अध्यवसीयते
, तथैव ब्रह्यवादे

ब्रह्याधिष्ठानकं नानात्वं मिथ्याभूतमपि भासते। स्वलक्षणस्य ज्ञानातिरिक्तत्वेन आनान्त्येन

, ब्रह्यणो ज्ञानरूपत्वेन एकत्वेन च यो हि आपातिको भेदो दृश्यते, सोऽपि विज्ञानवादे

अस्त इव जायते। अयं हि विस्तरभिया त्यज्यते।

 

अस्त्यन्योऽप्यवधेयो

बौद्धप्रमाणमीमांसायाः प्रकर्षः। प्रायशो बाह्यवस्तुसिद्धिहेतोरेव प्रमाणव्यवस्था सर्वेरेव

बौद्धाबौद्धवस्तुवादिभिः विकासमापादिता
, तेनैव च नागार्जुनार्यदेवादिभिः

सर्वास्तिवादसम्मतो निष्कम्पो प्रमाणप्रमेयव्यवहारः निःस्वभावतावज्रशिलायां विकम्पितो

विखण्डितश्च
, तदनुसृत्य च शाङ्कराद्वैतिभिरपि श्रीहर्षचित्सुखप्रभृतिभिः ससांख्योलूक्यादि-वस्तुवादः साटोपं

निःशेषतां नीतः। सत्यस्मिन् मतप्रवाहे अतिचित्रं बौद्धनैयायिकानाम्
, यत्तैः विज्ञानव्यतिरिक्तं

प्रमातृप्रमेयदिबाह्यासत्त्वं निषेधयद्भिरपि दिङ्नाग
-धर्मकीर्त्तिप्रभृतिभिः

विज्ञप्तिमात्रतावशाद् भारतीयप्रमाणशास्त्रं निर्बाधं ण्यायप्रकर्षस्य परां कोटिमापादितम्।

एतदभिनवप्रस्थानमनुरूध्य वैदिकैः अद्वैतवादिभिः स्वस्वप्रस्थानानुरोधिप्रमाणशास्त्रं

न आचरितम्। ये तु अर्वाचीनाः केचन ग्रन्था उपलभ्यन्ते
, ते प्रायः गौतम-भट्ट-प्रभाकरादीनां नयानुकरणमूला

एव।

 

आसीत् आदौ प्रमेयापेक्षयैव

प्रमाणसिद्धिव्यवस्था
, तदनुरोधेनैव च धर्मकीर्त्तिनाऽपि स्वप्रमाणवार्तिके बाहुल्येन सौत्रान्तिकाभिमतो

वस्तुसद्वादः अङ्गीकृत इत्यस्ति सौगताभियुक्तानां पारम्परिकम् अभिमतम्। एतन्मतस्य सारावबोधः

भोटभाषान्तरितानेकव्याख्याग्रन्थालोचनैरेव निर्णेयः। वस्तुतस्तु बाह्यसत्त्वासत्त्वोभयवादसह

एवायं प्रमाणपरो ग्रन्थ इति प्रमाणवार्त्तिकानुरोधेन समुपलब्धमनोरथनन्दिवृत्ति
-अलङ्कारभाष्यालोचनेन

च प्रतीयते।

 

बाह्यार्थवादिभिः

बाह्यार्थमन्तरेण कार्यकारणभावो ज्ञाप्यज्ञापकभावः तदभावे च अनुमानव्यवहारो न स्वीक्रियते
, किन्तु दिङ्नागधर्मकीर्त्तिप्रभृतयः

प्रमाण्यविवेचनाय विज्ञानवादं यथा अविरूद्धमनुकूलं च जानन्ति
, न तथा बाह्यार्थवादम्

। यद्यपि बाह्यार्थसत्प्रमेयमपेक्ष्यैव ज्ञानप्रामाण्यप्रसंगे अर्थक्रियाकारित्वम्
, अर्थप्रापकत्वम्, अर्थाध्यवसायः

, प्रत्यक्षे इन्द्रियादि विज्ञानम्, अनुमाने लिङ्गलिङ्गिनोः

सम्बन्धः
, धूमादग्निबोधश्चेत्यादिकं सम्पद्यत इति आपाततः प्रतीयते, तथापि एतत्सकलोऽपि

व्यवहारः यतः प्रतिभासमूलत्वेनैव लोके प्रयुज्यते
, शास्त्रे चापि

विचार्यते। बाह्यार्थस्वीकारपक्षेऽपि प्रतिभासबलादेव च बाह्यार्थोऽपि अधिगतो भवति
, अतो बाह्येतरवादयोः

समानरूप एव प्रमाणविचारो विज्ञानवादिभिः प्रस्तूयते। नियताकारबोधहेतुत्वे बाह्यार्थ

एव प्रयोजक इति बाह्यार्थिभिः स्वीक्रियते
, किन्तु बाह्यो

वा
, प्रबुद्धवासनाविशेषो वा , समनन्तरप्रत्ययो

वा प्रबोधकत्वेन नियामकः स्यादित्यनेनापि न काचिद् व्यवहारबाधा। विज्ञानवादिनैयायिकैः

या बाह्यार्थह्चिन्ता उररीक्रियते
, सा न बाह्यार्थव्यपेक्षया

अपितु धियो विनिमयापेक्षया तत्त्वावगाहिनी भवति। 

उक्तं प्रमाणवार्तिके तदुपेक्षिततत्त्वार्थेः बाह्यचिन्ता प्रतन्यते
' इति ' कस्यचित् किंचिदेवान्तर्वासनायाः

प्रयोजकम्। ततो धियां विनिमया न बाह्यार्थव्यपेक्षया।। इति च।

 

' उपलम्भ एव वस्तुसत्ता' इति मतमामनद्भिः

विज्ञानवादिभिः न अर्थेन प्रयोजनमङ्गीक्रियते अपितु प्रतिभासेनैव। प्रतिभासो हि बाह्यमन्तरेणैव

भवति इति ख्यातमेव। एवं सति धूमादग्न्यनुमाने धूमप्रतिभासा बुद्धिः अग्निवासनाप्रतिबद्धा

सती एकप्रत्ययसामग्रीबलाद् अग्निभासां धियं जनयति। वस्तुतस्तु आचार्यधर्मकीर्तिमते

वासनैव अर्थक्रियाकारित्वेन परमार्थः। स च प्रतिभासरूपः
, यो हि ज्ञानस्य

परमार्थतो विषयः। बाह्यार्थवादेऽपि बहिस्थः तात्कालिको बह्निर्न अनुमीयते
, एकस्मिन्काले कार्यकारणपरिज्ञानाभावात्

अपितु भाविभूतः। भाविभूतश्चाग्निः प्रतिभासरूप एव। अत एव नहि अप्रतिभासेन अग्निना प्रमाणचर्चायां

किंचित् प्रयोजनं सिद्धयति। एवं वासनैव भाविप्रतिभासा
, एकतया च प्रतीयमाना

प्रवर्तिका भवत्। उक्तं च प्रमाणवार्तिके
-

 

तत्रापि धूमाभासा

धीः प्रबोधपटुवासनाम्। गमेयदग्निनिर्भासां धियमेव न पावकम्।। इति।

 

यत्तु सौत्रान्तिकवादमनुसृत्य

बाह्यार्थपेक्षया स्वसामान्यरूपाभ्यां वस्तुद्वयव्यवस्था
, तदनुरोधेन च प्रमाणद्वैरूप्यमिति

दिङ्नागधर्मकीर्त्तिप्रभृतिभिः कृतम् तत् सहोपलम्भनियमदर्शनात् समञ्जसमेव। बाह्यार्थमनुध्य

द्वैरूप्यसिद्धान्तो यो हि आचार्येर्विहितः स परापेक्षयैव
, न विज्ञानवादापेक्षया।

स्वयूथ्यविद्वदनुरोधेन तु प्रमाणव्यवस्थायां विज्ञानवाद एव शरणमिति
, उभयथाऽपि प्रमाणप्रमेयद्वैरूप्यसिद्धान्तः

समञ्जसः। उक्तं चाचार्येण
-

 

अस्त्येव विदुषां

वादो बाह्यं त्वाश्रित्य वर्ण्यते।

द्वैरूप्यं सहसंवित्तिनियमात्

तच्च सिद्ध्यति।।

 





















































































































































































 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project