Digital Sanskrit Buddhist Canon

5 अथ मार्गसत्यस्कन्धः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 atha mārgasatyaskandhaḥ

अथ मार्गसत्यस्कन्धः
१५५ मार्गसत्यस्कन्धे समाध्यधिकारे
समाधिहेतुवर्गः

शास्त्रमाह-इदानीं मार्गसत्यं विचार्यते। मार्गसत्यम्-आर्योऽष्टाङ्गिको मार्गः सम्यक् दृष्टिर्यावत् सम्यक् समाधिः। आर्योऽष्टाङ्गिको मार्गः संक्षिप्य द्विविधः (१) समाधिः परिकरश्च (२) ज्ञानमिति।

इदानीं समाधिर्विचारयितव्यः। (पृ) किंलक्षणा समाधिः। (उ) चित्तस्यैकत्रावस्थानं समाधिलक्षणम्। (पृ) कथं चित्तमेकत्रावतिष्ठते। (उ) बहुलीकृतभावनया तत्रावतिष्ठते। यदि बहुवारं न भावयति तदा क्षिप्रमेव विक्षिप्यते। (पृ) कथं भावयितव्यम्। (उ) यथासुखं भावयितव्यम्। (पृ) कथं सुखयति। (उ) कायचित्तयोर्दौष्ठल्यं दुःखम्। प्रश्रब्धिधर्मेण कायचित्तयोर्दौष्ठल्येऽपनीते सुखं भवति। (पृ) कथं प्रश्रब्धिर्भवति। (उ) प्रीतिप्रत्ययं कायचित्ते दान्ते भवतः। (पृ) कथं प्रीतिर्भवति। (उ) त्रिरत्नस्मरणधर्मश्रवणादिना चित्तप्रामोद्यात् भवति। (पृ) कथं चित्तप्रामोद्यं भवति। (उ) परिशुद्धशीलधारणात् चित्तस्यौकौकृत्ये भवति।

(पृ) उक्तः समाधिहेतुः। इदानीं कस्य समाधिर्हेतुः। (उ) अयं यथाभूतज्ञानस्य हेतुः। यथाभूतज्ञानं शून्यताज्ञानम्। यथोक्तं योगावचरः समाहितचित्तो विशुद्धचित्तो विनीवरणचित्तश्चित्तरथोऽचलचित्तो यथाभूतं प्रजानाति दुःखमार्यसत्यं दुःखसमुदयं दुखनिरोधं दुःखनिरोधगामिमार्गमार्यसत्यम् इति। अतो यथाभूतज्ञानलिप्सुना समाधि भावनायां वीर्यमारब्धव्यम्। विक्षिप्तचित्तस्य लौकिकसूत्रशिल्पादिहितमेव न भवति। किं पुनर्लोकोत्तरं हितम्। अतो ज्ञायते लौकिकं लोकोत्तरञ्च हितं समाहितचित्तेनैव लभ्यते। सर्वञ्च सत् कुशलं सम्यक् ज्ञानाधीनम्। सर्वमसदकुशलं मिथ्याज्ञानाधीनम्। यथोक्तं सूत्रे अविद्या भिक्षवः पूर्वङ्गमाऽकुशलानां धर्माणां समापत्तये। अन्वगेवाह्रीक्यमनपत्राप्यम्। विद्या भिक्षवः पूर्वङ्गमा कुशलानां धर्माणां समापत्तये अन्वगेव ह्रीः अपत्राप्यम्। इति। समाधिस्तु सम्यग्ज्ञानस्य हेतुः। अतो ज्ञायते सर्वं सत्कुशलं समाधिमुपादाय भवतीति। तस्मात् भावनायां योगः कर्तव्यः॥

समाधिहेतुवर्गः पञ्चपञ्चादुत्तरशततमः।

१५६ समाधिलक्षणवर्गः

(पृ) उक्तं भवता चित्तस्यैकत्रावस्थानं समाधिलक्षणमिति तत्र समाधिश्चित्तञ्चैकं उत भिन्नम्। (उ) न ते भिन्ने। केचिदाहु-समाधिश्चित्तञ्च भिन्ने। समाधिलब्धचित्तमेकत्रावतिष्ठत इति। सदपीदं वचनमयुक्तार्थकम्। यदि चित्तं समाधिलब्धमालम्बनेऽवतिष्ठत इति। समाधिरियमपि आलम्बनेऽवतिष्ठमाना समाध्यन्तरमुपादायावतिष्ठेत। एवमनवस्था भवति। तत्तु न सम्भवति। यदीयं समाधिः प्रकृतितोऽवस्थानमिति। चित्तमपि न समाधिमुपादायावतिष्ठेत। अतः समाधेरन्यत् चित्तमिति यद्वचनं तदप्रकृष्टार्थकम्। वेदनासंज्ञादयश्चेतसिकधर्मा अप्यालम्बनेऽवतिष्ठन्ते। तेऽपि कं धर्ममुपादायावतिष्ठन्त इतीदं वक्तव्यम्। यदि वेदनासंज्ञादीनां प्रत्येकं समाधिरस्ति। तुल्यः पूर्वदोषः स्यात्। सूत्रे च चित्तस्यैकाग्रता समाधिलक्षणमिति केवलमुक्तम्। न तु चित्तं समाधिलब्धमवतिष्ठत इति। अतो ज्ञायते न युक्तमिति। चित्तस्यैकाग्रतेत्युक्ते नान्यधर्मः प्रकाशितो भवति। यथा पूर्वमुक्तम्-यत्र चित्तं सुखि भवति तस्मिन्नालम्बनेऽवतिष्ठत इति। चित्तस्य कोटिः समाधिर्न पृथग्भवतीति द्रष्टव्यम्। यथा चित्तं दीर्घकालावस्थानं समाधिरित्युच्यते।

(पृ) समाधिरियं किं सास्रवा उतानास्रवा। (उ) समाधिर्द्विविधा सास्रवा अनास्रवा चेति। लौकिका ध्यानसमाधयः सास्रवाः। धर्मावस्थामुपसम्पन्नस्य समाधयोऽनास्रवा इत्युच्यन्ते। कस्मात्। कालोऽयं यथाभूतज्ञानदर्शनमित्युच्यते। तस्य कालस्य द्विविधं नाम समाधिरिति प्रज्ञा चेति। चित्तसमाधानात् समाधिः। यथाभूतप्रज्ञानात् प्रज्ञा। चित्तसमाधानं त्रिविधं कुशलमकुशलमव्याकृतमिति। तत्र कुशलेन चित्तसमाधानमेव समाधिः। नत्वकुशलेन अव्याकृतेन वा। सा समाधिर्द्विविधा एका विमुक्तिहेतुः अपरा अविमुक्तिहेतुः। विमुक्तिहेतुर्नाम नियतमूलकम्। केचिदाभिधर्मिका आहुः- अनास्रवसमाधिरेव नियतमूलमिति। स वादो न युक्तः। सास्रवाऽनास्रवा यदि विमुक्तिं करोति। सा सर्वाऽपि नियतमूलमित्युच्येत।

समाधिरियं यथालम्बनावस्थानं त्रिधा विभज्यते। परीत्ता विपुला अप्रमाणा चेति। चित्तं किञ्चित्कालमवस्थाय यदि परीत्तमालम्बनं पश्यति[तदा] परीत्तेत्युच्यते। अन्ये द्वे अपि तथा। समयवशात्रिविधं लक्षणं भवति। प्रग्रहलक्षणं व्युत्थानलक्षणं त्यागलक्षणमिति। चित्तेऽबलीने व्युत्थानलक्षणमुपयोक्तव्यम्। चित्त उद्धत प्रग्रहलक्षणं प्रयोक्तव्यम्। दान्ते च चित्ते त्यागलक्षणं प्रयोक्तव्यम्। यथा सुवर्णकारः सुवर्णं द्रवयति तापयति सेचयति काले च स्थपयति। यदि सदा तापयति। तदा द्रवीभवति। सदा सेचने घनीभवति। सदा स्थपनेस्फूर्यते। एवं योगावचरस्य चित्तमपि। कम्पितस्याप्रग्रहे सदा विक्षेपः। अवलीनस्याव्युत्थाने कौसीद्यम्। दान्तस्यात्यागे पुनरदमनम्। यथा च दान्तोऽश्वः प्रवेगे प्रगृह्यते। दन्धः [कशया]ताड्यते। दान्तः परित्यज्यते। एवं योगावचरस्य दान्तं चित्तमपि।

समाधेरस्यास्त्रिविध उपायः समाध्यवतारोपायः समाध्यवस्थानोपायः समाधिव्युत्थानोपाय इति। यथाधर्मं समाधावतरति। अयं समाध्यवतारोपायः। समाधिस्थितो न चलति। अयं समाध्यवस्थानोपायः। यथाधर्मं समाधेर्व्युत्तिष्ठते। अयं समाधिव्युत्थानोपायः। (पृ) कथमिमान् त्रिविधानुपायान् प्रतिलभते। (उ) योगावचरः स्वचित्तलक्षणं गृह्णन् एवं प्रगृह्णन् एवं व्युत्तिष्ठन् एवं परित्यजन् समाधाववतरति। तथा निर्गच्छति च। (पृ) साक्षादेव समाधिग्रहे क उपयोग उपायस्य। (उ) त्रिविधोपायान् प्रवर्तमानस्य आदीनवो भवति। यथेप्सितञ्च न विन्दते। अवतरितुमिच्छन् व्युतिष्ठेत व्युत्थातुमिच्छन् पुनरवतरेत्। इतीदृशा दोषाः सन्ति। लाभं हानिं मन्येत। हानिञ्च लाभम्। यथा किञ्चिद्विशुद्धरूपं किञ्चित्प्रकाशरूपञ्च दृष्ट्वा वदेत-महाहितं लब्धमिति। अनित्यं दुःखं शून्यमित्याद्यनुस्मरतः चित्तं न सुखि भवति। प्रत्युत हानिकरमिति वदेत्।

(पृ) योगावचरस्य कस्मात् कदाचित्समाधिलाभोऽस्ति कदाचिन्नास्ति। (उ) समाधिलाभस्य चत्वारः प्रत्ययाः-(१) इहाध्वनि युनक्ति, (२) पूर्वकायप्रत्ययः (३) समाधिलक्षणं सुगृह्णाति, (४) श्रुत्वा समाधिधर्माननुवर्तयति इति। समाधिभावनाश्चतुर्विधाः-(१) सदाप्रयोगी नैकाग्रं चरति। (२) एकाग्रं चरति न सदाप्रयुक्तो भवति। (३) सदाप्रयुक्तश्च भवति एकाग्रञ्च चरति। (४) न सदा प्रयुक्तो नैकाग्रं चरति। किञ्च सन्ति चतुर्विधाः बहुकुशलः अल्पप्रज्ञः, अल्पकुशलो बहुप्रज्ञः, बहुकुशलो बहुप्रज्ञः, अल्पकुशलोऽल्पप्रज्ञ इति। एषुतृतीयो योगावचरोऽवश्यं लभते। चतुर्थो नावश्यं लभते। प्रथमद्वितीयौ यदि दान्तौ समौ तदा लभेते॥

समाधिलक्षणवर्गः षट्‍पञ्चाशदुत्तरशततमः।

१५७ त्रिसमाधिवर्गः

(पृ) उक्तं सूत्रे-त्रयः समाधयः एकाङ्गभावनसमाधिः, उभयाङ्गभावनसमाधिः अर्यः सम्यक्‌समाधिरिति। किमिदम्। (उ) एकाङ्गभावन इति यत् समाधिं भावयति न प्रज्ञाम्। प्रज्ञां वा भावयति न समाधिम्। उभयाङ्गभावन इति समाधिं भावयति प्रज्ञाञ्च भावयति। अयं लौकिकसमाधिरूष्मादिधर्मगतः। आर्यः सम्यक्‌समाधिरिति यद्धर्मावस्थामुपसम्पन्नो निरोधसत्यं साक्षात्करोति। स आर्यः सम्यगित्युच्यते। केनेदं ज्ञायते। यथा स्थविरो भिक्षुराह-योगावचरः समाधिना चित्तं भावयन् प्रज्ञामुपादाय क्लेशान् प्रतिषेधयति। प्रज्ञया चित्तं भावयन् समाधिमुपादाय क्लेशान् प्रतिषेधयति। समाधिना प्रज्ञया च चित्तं भावयन् स्वभावमुपादाय विमुच्यते। स्वभावो नाम यः प्रहाणस्वभावः वियोगस्वभावो निरोधस्वभावः। समाधिप्रज्ञयोर्युगपत्प्रपूरणादार्यः सम्यगित्युच्यते। यथा समाधिप्रज्ञाभ्यां विमुक्तिलब्धः सर्वशो विमुक्त‍इत्युच्यते।

(पृ) केचिदाहुः-एकाङ्गभावन इति यदि समाधिमुपादाय रश्मिं पश्यति न रूपाणि। यदि(वा)रूपाणि पश्यति न रश्मिम्। उभयाङ्गभावन इति यत् रूपञ्च पश्यति रश्मिञ्च पश्यति। आर्यः सम्यक्‌समाधिरिति यत् शैक्षाशैक्षाभ्यां प्रतिलब्धः समाधिः इति। कथमिदम्। (उ) रश्मिमात्रं पश्यति न रूपमिति नास्ति किञ्चन सूत्रम् सूत्रे केवलमुक्तम्-अहं प्रकृतितो रश्मिमपश्यं रूपमप्यपश्यम्। इदानीं रश्मिर्विनष्टः, रूपमपि न पश्यामीति। भवता च वक्तव्यं केन कारणेन रश्मिं पश्यति न रूपम् इत्यादि। इति नावोचः।

(पृ) सूत्र‍उक्तं-त्रयः समाधयः शून्यतोऽनिमित्तोऽप्रणिहित इति। एषां त्रयाणां समाधीनां को भेदः। (उ) यदि योगावचरो न पश्यति सत्त्वं नापि धर्मम्। अयमुच्यते शून्यतः [समाधि]रिति। ईदृशे शून्ये[यदि]ग्राह्यनिमित्तं नास्ति। अयं शून्य एवानिमित्तः। शून्ये च नास्ति प्रणिहितं किञ्चन। अयं शून्यः[समाधि]रेवाप्रणिहित इत्युच्यते। अतस्त्रयोऽप्येकार्थकाः। (पृ) तथा चेत् कस्मात् त्रय इत्युच्यन्ते। (उ) शून्यं भावयेदिति शून्यतासमर्थ आह। शून्यं भावयन् हितं लभते यदुत निमित्तं न पश्यतीति। निमित्तादर्शनादनिमित्तः। अनिमित्तत्वादप्रणिहीतः। अप्रणिहितत्वान्न कायं वेदयते। कायावेदनात्सर्वदुःखान्मुच्यते। इत्यादि हितानि शून्यताभावनया लभते। अत उच्यते त्रय इति।

केचिदाभिधर्मिका आहुः यः समाधिः शून्यानात्माकारेण भवति अयं शून्य इत्युच्यते। य आकारोऽनित्यतो दुःखतो हेतुतः समुदयतो जनकतः प्रत्ययतो मार्गतो यथावदाचरतो निर्याणतो भवति। अयमप्रणिहितः। य आकारो निरोधत उपशमतः प्रणीततो वियोगतो भवति। अयमनिमित्त इति। कथमिदम्। (उ) यदाह भवान्-अनित्यतो दुःखत आकारः अप्रणिहित इति। तदयुक्तम्। कस्मात्। भगवान् सदा वदति यदनित्यं तदेव दुःखम्। यत् दुखं तदेवानात्मकम् इति। नैरात्म्यं प्रजानन् न पुनः प्रणिदधाति। अतो ज्ञायते शून्यत्वाच्च न प्रणिदधातीति। हेतुतः समुदयतो जनकतः प्रत्ययत आकार इति मतम्। तत् तथैव स्यात्। कस्मात्। उक्तं हि सूत्रे-यत्किञ्चित्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति पश्यन् निर्विद्यते इति। मार्गे च न भवेदप्रणिहित आकारः। कस्मात्। प्रणिधानं हि तृष्णाङ्गम्। यथासूत्रमुक्तम् हीनं मध्यमं प्रणिधानं न मार्ग आसक्तिजनकम्। अतो न भवेदप्रणिहित आकारः। किञ्चोक्तं सूत्रे-पञ्चानां स्कन्धानां निरोधान्निरोध इत्युच्यते इति ज्ञातव्यम्। शून्य एव निरोध इत्युच्यते। न तत्रास्ति प्रणिधानम्। कायतृष्णा हि प्रणिधानं भवति। अतो ज्ञायते इमे त्रय एकार्थका इति न स्याद्भेद इति।

(पृ) किञ्चोक्तं सूत्रे-त्रयः समाधयः शून्यशून्यः, अप्रणिताप्रणिहितः, अनिमित्तानिमित्त इति। कथमिदम्। (उ) शून्येन पञ्चस्कन्धान् शून्यान् दृष्ट्वा एकेन शून्येन पुनरिमं शून्यं शून्यीकरोति। अयं शून्यशून्य इत्युच्यते। अप्रणिहितेन पञ्चस्कन्धान् निर्विद्य अप्रणिहितेन पुनरिममप्रणिहितं निर्वेदयति। अयमप्रणिहिताप्रणिहितः। अनिमित्तेन पञ्चस्कन्धान् प्रशान्तान् दृष्ट्वा अनिमित्तेन पुनरनिमित्तं न गृह्णाति। अयमनिमित्तानिमित्तः।

(पृ) आभिधर्मिका आहुः-त्रय इमे समाधयः सास्रवा इति। कथमिदम्। (उ) इमे न सास्रवाः। कस्मात्। समयस्यास्या नास्रवानुशयत्वात्। समाधिरयं शून्यादिप्रधानः। कथं सास्रवो भवेत्। (पृ) यदि शून्यादयः समाधयो वस्तुतः प्रज्ञात्मकाः। कथं समाधिरित्युच्यते। (उ) समाधीनां भेदात्। समाधिश्च यथाभूतज्ञानदर्शनाधायकत्वात् समाधिरित्युच्यते। फले हेतूपचारात्।

(पृ) केचिदाभिधर्मिका आहुः- शून्यशून्यादयः समाधयोऽशैक्षजनमात्रलभ्या नान्यैरिति। कथमिदम्। (उ) शैक्षजना अपि लभेयुः। कस्मात्। योगावचरेण हि सास्रवाणामनास्रवाणां सर्वेषां धर्माणां निरोधोऽधिगन्तव्यः। अतः शैक्षजनैरपि अनास्रवधर्माणां निरोधोऽधिगन्तव्यः स्यात्॥

त्रिसमाधिवर्गः सप्तपञ्चाशदुत्तरशततमः।

१५८ चतुस्समाधिभावनावर्गः

अस्ति समाधिभावना दृष्टधर्मसुख [विहार]आयं संवर्तते। अस्ति समाधिभावना ज्ञानदर्शन[प्रतिलाभ]आय संवर्तते। अस्ति समाधिभावना स्मृतिसम्प्रजन्याय संवर्तते। अस्ति समाधिभावना आस्रवाणां क्षयाय संवर्तते। यः समाधिः दृष्टधर्मसुखप्रापको यदुत द्वितीयध्यानादयः। [सा प्रथमा भवना।]केनेदं ज्ञायते। भगवानाह-द्वितीयध्यानं समाधिजं प्रीतिसुखं नाम्ने संवर्तते अन्यधर्माय संवर्तते यथा पिण्डपाताय श्रावस्त्यां प्रवेश इति।

(पृ) प्रथमं ध्यानमपि सप्रीतिसुखम्। कस्मान्नोच्यते स दृष्टधर्मसुखविहार इति। (उ) प्रथमध्यानस्य चित्तविक्षेपकवितर्कविचारव्यामिश्रितत्वात् न तदुच्यते दृष्टधर्मसुखमिति (पृ) द्वितीयध्यानस्यापि सन्ति प्रीत्यादयश्चित्तविक्षेपका धर्माः। कस्मादुच्यते सुखमिति। (उ) सर्ववितर्कविचारपूर्वकं चित्तपरिग्रहात् प्रीत्यादयः सुखमित्युच्यन्ते, दुःखाकारतः परं सर्वं दुःखमित्युच्यते। प्रथमध्याने दुःखमौदारिकम्। द्वितीयध्यानादिषु दुःखं सूक्ष्मम्। सूक्ष्मदुःखत्वात् सुखमित्याख्यां लभते।

(पृ) द्वितीयध्यानादयः सांपरायिकसुखविहारा अपि भवन्ति। कस्मात् दृष्टधर्मसुखविहारमात्रमुच्यते। (उ) यथाऽजातशत्रोः सान्दृष्टिकं श्रामण्यफलमुक्तम्। प्रत्यासत्योच्यते [तथा]। पञ्चकामसुखानां भेदायोच्यते दृष्टधर्मसुख[विहार इ]ति। यदि पञ्चकामसुखासक्तः कश्चित्, अतो न ध्यानभाग्भवति। तदर्थमाह-पञ्चकामसुखानां वियोगे परमं दृष्टधर्मसुखं प्रतिलभध्व इति। बुद्धा न सांपरायिककायवेदनं प्रशंसन्ति। अतो नाभिदधति साम्परायिकं सुखम्। लौकिका वदन्ति सुखं गृहस्थस्य न प्रव्रजितस्येति। अतो भगवानाह-इदं प्रव्रजितस्य दृष्टधर्मे सुखमिति।

इमाश्चतस्रः समाधिभावनाः सर्वा दृष्टधर्मसुख[विहारा]य संवर्तन्ते। प्रथमाया नामोपचारात् केवलमुच्यते दृष्टधर्मसुख[विहाराये]ति।

(पृ) यदीमाश्चस्रः समाधिभावना नानाहितानि साधयन्ति। कस्मात्केवलमुच्यन्ते चत्वारीमानि हितानि। (उ) हितं द्विविधं लौकिकं लोकोत्तरमिति। द्वितीया समाधिभावना लौकिकहिताय भवति यदुत ज्ञानदर्शनम्। ज्ञानं नामाष्टविमोक्षायतनदशकृत्स्नायतनादिहितम्। दर्शनं पञ्चाभिज्ञादिहितम्। कस्मात्। चक्षुषा दृश्यमानत्वात् हितमिदं दर्शनमित्युच्यते। इदं रश्मिग्रहमुपादाय सिद्धत्वात् ज्ञानदर्शनमिति भवति। यत् रश्मिलक्षणमित्युच्यते द्वितीयमिदं लोकोत्तरं हितम्।

पञ्चस्कन्धान् सम्प्रजानातीति सम्प्रजन्यम्। अतः सूत्र उक्तम्-सस्मृतिसम्प्रजन्यो योगावचरो या वेदना वितर्काः संज्ञा उत्पद्यन्ते सर्वा[स्ताः] प्रतिजानाति इति। वेदनानां प्रज्ञानं नाम स्पर्शप्रत्यया वेदना, नास्ति तु वेदक इति। वितर्कानां प्रज्ञानं नाम अहमिति वितर्कः; कथं [स] न भवेत्। यः स्त्रीपुरुषादिप्रज्ञप्तिसंज्ञाविकल्पः, तत्संज्ञाप्रतिभेदना वितर्का न भवति। यथोक्तं सूत्रे-वितर्कः किं निदानः। [वितर्कः] [प्रपञ्च] संज्ञा [संख्या] निदान इति। अतो ज्ञायते प्रज्ञप्तिसंज्ञाप्रतिभेदनात् स्मृतिसम्प्रजन्यं नाम। स्मृतिसम्प्रजन्येनास्रवक्षयो लभ्यते। यथोक्तं सूत्रे-योगावचरः पञ्चानां स्कन्धानामुदयव्ययानुदर्शी स्कन्धानां निरोधं साक्षात्करोति इति। अतो ज्ञायते। सर्वाणि लौकिकानि लोकोत्तराणि हितानि चतुर्षु सङ्‍गृहीतानीति।

(पृ) केचिदाभिधर्मिका आहुः-चतुर्थध्यानेऽर्हत्फलं प्रतिलभमानस्य आनन्तर्यमार्ग आस्रवक्षय इत्युच्यते इति। कथमिदम्। (उ) न हि तत्रास्ति विशिष्टहेतुः चतुर्थध्यानमात्रस्यानन्तर्यमार्ग आस्रवक्षयो नान्यस्येति। अत[स्त]न्न युज्यते।

समाधिभावना च त्रिविधहिताय संवर्तते-(१) दृष्टधर्मसुख[विहारा]य, (२) ज्ञानदर्शन [प्रतिलाभा]य, (३) आस्रवक्षयाय च। द्विविधाय वा संवर्तते। उक्तवदेकान्तक्षयार्थत्वात् सुविशुद्ध्यर्थत्वात्, संसारक्षयार्थत्वात्, नानास्वभावविवेकार्थत्वात् मार्गमुपदिशति चक्षुष्मान्। तत्र पूर्वे त्रयः प्रहाणस्याभिधानम्, अन्तिमो ज्ञानस्य। नात्र भगवान् दृष्टधर्मसुख[विहार]माह।

चतुस्समाधिभावनावर्गोऽष्टपञ्चाशदुत्तरशततमः।

१५९ चतुरप्रमाणसमाधिवर्गः

मैत्री करुणा मुदिता उपेक्षा। [तत्र] मैत्री नाम व्यापादविरुद्धं कुशलचित्तम्। यथा सुविज्ञः सुविज्ञाय सदा हितं प्रार्थयते। तथा योगावचरोऽपि सर्वसत्वानां कृते सदा सुखं प्रार्थयते। अतोऽयं सर्वसत्त्वानां सुविज्ञो भवति। (पृ) किं नाम सुविज्ञस्य लक्षणम्। (उ) नित्यं लक्ष्यत ऐहिकामुष्मिकहितसुखप्रकर्षप्रार्थनां कुर्वन् नैव विरुद्धासुखप्रार्थनाम्। तथा योगावचरोऽपि सत्त्वानां सुखमेव प्रार्थयते नासुखम्।

करुणा विहिंसाविरुद्धं मैत्रचित्तम्। कस्मात्। सत्त्वानां सुखप्रार्थनत्वात्। (पृ) द्वेषविहिंसयोः को भेदः। (उ) चित्ते द्वेषस्मृतिमुत्पाद्य सत्वान् ताडयितुं विहिसितुं वा इच्छति। द्वेषोद्धितं कायवाक्कर्म विहिंसेत्युच्यते। द्वेषो विहिंसाया हेतुः। द्वेषाकांक्षी अवश्यं प्रदाशमाचरति।

मुदिता ईर्ष्याविरुद्धं मैत्रचित्तम्। ईर्ष्या नाम परस्योत्कर्षं दृष्ट्वा अक्षममाणस्योत्पन्नोऽसूयाव्यापादः। योगावचरस्य सर्वसत्त्वानां लाभप्रकर्षं दृष्ट्वा महती प्रीतिर्भवति यथात्मनो हितलाभे।

(पृ) किमिमानि त्रीणि मैत्री[रूपाणि]आ (उ) मैत्रचित्तस्यैव त्रयः प्रकाराः। कस्मात्। अव्यापादो मैत्री। न कश्चिदद्विषन् दुःखिनं सत्त्वं दृष्ट्वा दयते। यदा सर्वेषु सत्त्वेषु परमं मैत्रचित्तं कश्चिद्दुःखोपद्रवसम्भ्रान्तं पुत्रं दृष्ट्वेव समाचरतितस्मिन् समये प्रवृत्तं मैत्रचित्तं करुणेत्युच्यते। अथ वा कश्चित् परस्य दुःखे करुणामुत्पादयन्नपि न परस्योत्कर्षे प्रमुदितचित्तो भवति। केनेदं ज्ञायते। कश्चित्सपत्नस्य दुःखं दृष्टवैव करुणायते। किं पुनर्लब्धविजयं पुत्रं दृष्ट्वा[न] प्रमोद्यत इति। योगावचरः सर्वसत्त्वान् समृद्धिलाभिनो दृष्ट्वा स्वाभेदतः प्रमुदितचित्तो भवति। इयं मुदितेत्युच्यते। अतो ज्ञायते मैत्रीचित्तविशेषः करुणा मुदिता चेति।

(पृ) कस्योपेक्षया उपेक्षा। (उ) शत्रुं मित्रञ्च पश्यतो मैत्रचित्तं न सममस्ति। मित्रेऽधिकम्। उदासीने न तुल्यम्। शत्रौ तु अल्पम्। तथा करुणा मुदिताऽपि। अतो योगावचरो मित्रे मैत्रमुपेक्ष्य शत्रौ शात्रवमुपेक्ष्य चित्तसाम्यं चिकीर्षति। पश्चात् सर्वसत्त्वेषु समचित्तो भवति। तथा करुणा मुदिताऽपि। अतः सूत्र उक्तम्-रागप्रतिघप्रहाणायोपेक्षां भावय इति। (पृ) तथा चेत् न पृथगस्त्युपेक्षाचित्तम्। चित्तसाम्यमात्रमुपेक्षां भवति। (उ) पूर्वमेवोक्तं मया मैत्रचित्तविशेषाः करुणामुदितादय इति। मैत्रचित्तञ्चोत्तमाधममध्यधर्मैस्त्रिविधम्। त्रयाणामेषां समभाव उपेक्षा। यथा वदन्ति उत्तममैत्रचित्तेन त्रीणि ध्यानानि भावयतीति।

(पृ) केनोपायेन तन्मैत्रचित्तं प्रतिलभते। (उ) उत्तरत्न वक्ष्यन्ते प्रतिघस्यादीनवाः। तानादीनवान् प्रज्ञाय मैत्रचित्तं भावयति। मैत्रचित्तस्य हितगुणञ्च पश्यति। यथोक्तं सुत्रे मैत्रचेतोविहारी सुखं स्वपिति। सुखंप्रतिपद्यते। न पापकं स्वप्नं पश्यति। देवता रक्षन्ति। मनुष्याणां प्रियो भवति। [अमनुष्याणां प्रियो भवति।] नास्मै अग्निर्वा विषं वा शस्त्रं वा क्रमते। [उत्तरमप्रतिविध्यन् ब्रह्मलोकोपगो भवति] इति। इमान्यानिशंसानि श्रुत्वा भावयति। योगावचरोऽनुस्मरति-अहं व्यापादमुत्पाद्य अहमेव विपाकमनुभवामि नान्य इति। अतो व्यापादमकृत्वा मैत्रचित्तं भावयति। किञ्च योगावचरो मनसि करोति अहमल्पकेन पापकेन अन्यस्य कृतेन बहूनि पापकानि तच्छतगुणानि तदभिन्नान्यनुभवामि। अतः पापकानि परिवर्जयेदिति। उक्तञ्च सूत्रे-पञ्च द्वेषप्रहाणकारणानि सदाऽनुस्मर्तव्यानीति। व्यापादश्च योगावचरस्य नालं भवति। अष्ट कुशलानिंशसानि पूर्वमनुस्मरेत्। पापकानि वर्जयतो व्यापादः शाम्यति। पुरुषस्य पूर्वाध्वनि माता वा स्यात्, गर्भिणी प्रसवित्री च मदर्थः दुःखं व्यवस्यमाना स्यात्। अथ वा स्यात् मम पिता भ्राता भार्या पुत्रो वा। कथं द्वेष्टव्यम्। इति। अनुस्मरेच्चागामिन्यध्वनि मम पिता माता भ्राता वा भवेत् इति। अर्हन् प्रत्येकबुद्धो बुद्धो वा भवेदिति [अनुस्मरणं] कुर्यात्। कथं द्वेष्टव्यम्। दुर्जनान् दृष्ट्वा पापकमाचरन् उभयोरध्वनोर्दुःखं वेदयते। अतो न द्वेष्टव्यम्। पूर्वञ्च निभृतं पश्येत् जनस्य स्वभावः कुशलोऽकुशल इति। यदि दुर्जनो मम [अकुशल] मादधाति, कस्मादहं द्विषामि। यथाऽग्निना दग्धो ना[ग्निं]द्विषेत्। क्लेशोपहतः पिशाचपीडित इव न स्वातन्त्र्यभाग्भवति। इति पूर्वं पश्यन् किमर्थं द्विषति। येन प्रत्ययेन क्षान्तिं भावयति। तं धर्ममनुस्मरेत्। तदा व्यापादः शाम्यति, मैत्रचित्तञ्च वर्धते। क्षान्तिगुणो योगावचरोऽनुविचिन्तयति-अहं यदि परं द्विषामि। तदा पृथग्जनस्य ग्रामीणस्य तस्य [मम] च नास्ति भेदः। अतः क्षन्तव्यमिति। यथाह भगवान् गाथाम्-

सुविनीतो यथा हस्ती सहते शरमस्त्रकम्
तथा चाहमपीहैव तितिक्षे सर्वपापकम्॥ इति।

अपि चाह गाथाम्-
अश्लीलमपवादञ्च विगर्हां प्रतिघं तथा।
न क्षमेताधमः सत्त्वः शिलवृष्टिं यथा खगः॥
अश्लीलमपवादञ्च विगर्हीं प्रतिघं तथा।
क्षमेत हि माहसत्त्वः पुष्पवृष्टिं यथा गजः॥ इति।

अतः क्षन्तव्यम्। तदकुशलं गुणः परिणमते। अकुशलेभ्यो गुणसंसिद्धेः। योगावचर इमे सत्त्वा मूढा अविज्ञा बालसमाना न विद्वेष्या इति प्रजानाति। इत्यनेनोपायेन मैत्रचित्तं भावयति।

(पृ) कथं करुणां भावयति। (उ) योगावचरोऽल्पसुखिनो दुःखबहुलान् दृष्ट्वा करुणायते। कथमहं दुःखिनि सत्त्वे पुनर्दुःखमाध्याम् इति। अत्यन्तसुखासक्तान् दृष्ट्वा च चिन्तयति-कथमहं परप्रणिहितं हापयेयमिति। अतः करुणायते। दुःखिनं सत्त्वं दृष्ट्वा दृष्टधर्मे दुःखित्वात् दुःखी भवति। सुखिनं सत्त्वं दृष्ट्वा अनित्य[सुख]त्वात् दुःखी भवति। अतः सर्वे सत्त्वा दुःखभागिन आदावन्ते वा न विमुक्तिलाभिन इत्यनेन प्रत्ययेन करुणायते।

(पृ) कथं मुदितां भावयति। (उ) योगावचरः परहितेर्ष्यालुता पृथग्जनलक्षणमिति दृष्ट्वा मुदितां भावयति। चिन्तयति चैवम्-सत्त्वानां सुखमुत्पादयेयमिति। [यदि] परः स्वयं लभते। तदा स मां सत्करोति। अतो मुदितामुत्पादयेत्। तदेर्ष्यादृष्टिर्वृथा नास्ति किमपि हितम्। न परमुपहन्ति। प्रत्युतात्मानमेव हिंसति। यथोक्तञ्च सूत्रे-ईर्ष्या संयोजना इति। तत्संयोजनपरिजिहीर्षया मुदितामुत्पादयति।

(पृ) कथमुपेक्षां चरति। (उ) विषमचित्ते दोषं दृष्ट्वा चित्तसाम्यचिकीर्षया उपेक्षां चरति। योगावचरो रागप्रतिघचित्ते दोषदर्शनादुपेक्षाचर्यां भावयति।

(पृ) इदमप्रमाणचित्तं कस्यां भूमौ वर्तते। (उ) त्रिषु धातुषु वर्तते। (पृ) आभिधर्मिकाः केचिदाहुः-तृतीयध्यानादूर्ध्वं नास्ति सौमनस्येन्द्रियम् इति। कथमिदम्। (उ) नाहं वदामि मुदितचित्तं सौमनस्येन्द्रियस्वभावमिति। किन्तु परहितेऽकलुषमुदितचित्तता मुदितेत्युच्यते। चत्वारीमान्यप्रमाणानि प्रज्ञास्वभावानि।

(पृ) कथमारूप्यधातौ चत्वार्यप्रमाणानि भवन्ति। रूपलक्षणेन हि सत्त्वो विकल्प्यते। तत्र रूपणे रूपलक्षणं कथं भवेत्। (उ) अरूपसत्त्वा अपि विकल्पनीयाः। यथोक्तंसूत्रे-सरूपारूप्यादिषु कुर्यादिति। किञ्चोक्तंसूत्रे-शुभविपाकप्रतिलाभपरमां मैत्रचेतोविमुक्तिं भावयति। आकाशानन्त्यायतनप्रतिलाभपरमां करुणा[चेतोविमुक्तिं] भावयति। विज्ञानानन्त्यायतनप्रतिलाभपरमां मुदिता[चेतोविमुक्तिं]भावयति। आकिञ्चन्यायतनप्रतिलाभपरमामुपेक्षा[चेतोविमुक्तिं]भावयति। इति। अतो ज्ञायते आरूप्येऽपि सन्त्यप्रमाणानीति। (पृ) एकैकस्यां भूमावेकमप्रमाणमस्ति। किं नैवसंज्ञानासंज्ञायतने किमपि नास्ति। (उ) सर्वेष्वप्यायतनेषु सर्वाणि सन्ति। अत्यधिमैत्रीभावनया परं शुभायतनमुत्पद्यते। कर्मणां सरूपविपाकजनकत्वात्। यः सत्त्वानां सुखाकांक्षी स सुखविपाकं लभते। तथा करुणाऽपि। कायाधीनतया भूयसा दुःखानां समुदयः। आकाशे च रूपं नास्तीत्यतो विज्ञानानन्त्यायतनचित्तस्यालम्बने परमसुखविहारित्वात्। आकिञ्चन्यायतनपरमा उपेक्षेति। योगावचरः संज्ञापरिक्लान्तत्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति। नैवसंज्ञानासंज्ञायतनेऽपि अप्रमाणमस्ति। अतिसूक्ष्मात्वान्नोपलभ्यत इति नोच्यते। सर्वेष्वप्यायतनेषु सर्वमस्ति इति बाहुल्यवशात् उच्यते। शुभे मैत्र्यांः परमाधिक्यात् इत्येवमादि। ध्यानसमाधिषु चत्वार्यप्रमाणचित्तानि विपाकवेदनाप्रधानानि सत्त्वालम्बनत्वात्।

(पृ) आभिधर्मिका आहुः-चत्वार्यप्रमाणानि कामधातुकसत्त्वमात्रालम्बना नीति। तत्कथम्। (उ) कस्मान्नान्यसत्त्वालम्बनानि तानि। वक्तव्योऽत्र हेतुः। भगवानप्रमाणसूत्र आह-इह भिक्षुर्मैत्रसहगतेन चेतसा एकां दिशं[स्फुरित्वा विहरति। तथा] द्वितीयां तथा तृतीयां चतुर्थी इत्युर्ध्वमधस्तिर्यक्[सर्वदा सर्वत्रतायै] सर्वावन्तं लोकं [मैत्रसहगतेन चेतसा] स्फुरित्वा विहरति इति। रूपारूप्यकधातुकसत्त्वा अनित्या भङ्गुरा दुर्गति गामिन इत्यस्ति हेतुः।

(पृ) आभिधर्मिका आहुः-कामधातुगतो योगावचर एवाप्रमाणान्युपसम्पद्य विहरतीति। कथमिदम्। (उ) सर्वायतनजाताः सर्व उपसम्पद्य विहरन्ति। (पृ) यदि तन्न जाता अपि उपसम्पद्य विहरन्ति। तदा न पुण्यं क्षीयेत। तत्र नित्यमुत्पद्येरन्। (उ) यथा तत्र ध्यानादीन् कुशलधर्मानुसम्पद्य विहरन्तोऽपि[ततो]निवर्तन्ते। तथा मैत्रादीनपि (पृ) यद्ययं न्यायः। कस्मान्न क्षिप्रं निवर्तन्ते। (उ) अस्तीदृशं कर्म सत्यपि निवृत्तिहेतौ न निवर्तन्ते। यथा काम[धातुक]देवादयः सत्यपि कुशलकर्मणि दुर्गतावुपपद्यन्ते। तथेदमपि॥

(पृ) मैत्रसमाधिविहारिणं कस्मान्न विषंशस्त्रमग्निर्वा क्रमते। (उ) कुशलपुण्यघनगभीरमकुशलानि नाधितिष्ठन्ति देवैः सुरक्षितत्वात्। (पृ) सूत्रमाह-मैत्रसहगतं स्मृतिसम्बोध्यङ्गं भावयति इति। सास्रवानास्रवयोः कथं सहभावना। (उ) मैत्री [स्मृति] सम्बोध्यङ्गेनानुगता भवति। यथोक्तं सूत्रे-यदि कश्चिदेकाग्रचित्तेन धर्मं शृणोति। तदा पञ्चनीवरणानि प्रहाय सप्तसम्बोध्यङ्गानि भावयति। धर्माश्रवणेऽपि सम्बोध्यङ्गानि भावयति। इति। किञ्चोक्तं सूत्रे-भावयथ भिक्षवो मैत्रचित्तम्, प्रतिजानामि अनागामिफलं प्राप्स्यथेति। मैत्रचित्तं यद्यपि न संयोजनं हापयति। [तथापि]पूर्वमेव मैत्रचित्तेन पुण्यगुणज्ञानहितसञ्चयादार्यमार्गप्रज्ञां लब्ध्वा संयोजनानि प्रजहाति। अत उच्यते मैत्री भावनया अनागामिफलं लभत इति। मैत्री भावनया सम्बोध्यङ्गमप्येवम्।

(पृ) अर्हन् प्रहीणसत्त्वसंज्ञः। कथमप्रमाणानि भावयति। (उ) अर्हन् मैत्रचित्तमुपसम्पद्य विहरन्नपि नमैत्रकर्मसिद्धिं सञ्चिनोति। उपपत्तिवेदनाऽभावात्। (पृ) बुद्धानां भगवतां महाकरुणा कथम्। (उ) बुद्धानां भगवतां नैव मीमांसाज्ञानमस्ति। धर्माणामत्यन्तशून्यतां प्रजानन्तोऽपि पृथग्जनेषु गभीरं महाकरुणामाचरन्ति।

(पृ) करुणाया महाकरुणायाश्च को भेदः। (उ) कृपाचित्तमात्रं करुणा। क्रियां साधयतीति महाकरुणा। कस्मात्। बोधिसत्त्वः सत्त्वानां दुःखं दृष्ट्वा तत्क्षयाय वीर्यमारभते। अप्रमाणकल्पेषु भावनासाध्यत्वान्महाकरुणेत्युच्यते। आज्ञेन्द्रियेण सत्त्वानां दुःखं दृष्ट्वा [तत्] अपनेष्यामीति नियमेन चित्तोद्धापनं महाकरुणा। उपकारबहुलेति महाकरुणा। अप्रतिहतेति महाकरुणा। कुतः। करुणाचित्तं हि परस्य पापकं स्मृत्वा प्रतिघातमुत्पादयेत्। महाकरुणा तु नानाविधपरमपापकेष्वपि अप्रतिहतगतिर्भवति। करुणाचित्तं कदाचित् घनं, कदाचित् तनीयः, न समं भवति। सर्वत्र समेति महाकरुणा। आत्मनो हितं त्यक्त्वा परस्य हितमात्रमाकांक्षत इति महाकरुणा। करुणा तु नैवमित्ययं भेदः। बुद्धे मैत्र्यादि महदित्युच्यते। करुणा तु [कदाचित्] दुःखाकांक्षिणीति केवलेत्युच्यते॥

चतुरप्रमाणसमाधिवर्ग एकोनषष्टुत्तरशततमः।

१६० पञ्चाङ्गार्यसमाधिवर्गः

उक्तं हि सूत्रे-पञ्चाङ्ग[भूता] आर्यसमाधयः यदुत प्रीतिः सुखं चित्तविशुद्धिः प्रकाशलक्षणं भावनालक्षणमिति। प्रीतिः प्रथमद्वितीयध्यानयोः। प्रीतिलक्षणं सममिति एकाङ्गमुच्यते। तृतीयध्याने प्रीतिविरहात् सुखं पृथगेकमङ्गमुच्यते। चतुर्थध्याने चित्तविशुद्धिस्तृतीयमङ्गमुच्यते। इमानि त्रीण्यङ्गान्याश्रित्योत्पद्यते प्रकाशभावनालक्षणम्। प्रकाशलक्षणं भावनालक्षणस्य हेतुं कृत्वा पञ्चस्कन्धान् परिभेदयति। पञ्चस्कन्धानां शून्यताभावनं भावनालक्षणमित्युच्यते। निर्वाणगामित्वादार्यम्।

(पृ) सूत्र उक्तम्-पञ्च आर्यसमाधिज्ञानानि। कतमानि इमानि। (उ) भगवान् स्वयमाह-योगी चिन्तयति ममायं समाधिरार्यो निरामिष इति प्रथमज्ञानमुत्पद्यते। समाधिरयमकापुरुषसेवित इति द्वितीयज्ञानमुत्पद्यते। समाधिरयं शान्तः प्रणीतः प्रीतिप्रश्रब्धिलब्ध इति तृतीयज्ञानमुत्पद्यते। अयं समाधिः प्रत्युत्पन्नसुख आयत्याञ्च सुखविपाक इति चतुर्थज्ञानमुत्पद्यते। स खलु पुनरहमिमं समाधिं स्मृत एव समापद्ये स्मृत एव व्युत्तिष्ठामीति पञ्चमं ज्ञानमुत्पद्यते। इति। अनेन समाधावपि ज्ञानमस्तीति भगवान् प्रकाशयति। चित्तधारणा परं नास्ति। समाधिं भावयतो यदि क्लेशा भवन्ति। [तदा तान्] तत्रोत्पन्नं ज्ञानमपनयति। समाधिं कृत्वा आर्यं निरामिषं छन्दयामीतीदं प्रथमज्ञानमुच्यते। आर्यो निरामिषो यदुताकापुरुषसेवित इत्ययं पण्डितप्रगीतः। अकापुरुषा यदार्यजनाः। ज्ञानलाभित्वात्कापुरुषा न भवन्ति। [यत्] ज्ञानं प्रज्ञप्तिं भिनत्ति। इदं द्वितीयज्ञानमित्युच्यते। रागादिक्लेशानामल्पीयसां निरोधात् शान्तम्। शान्तत्वात् प्रणीतम्। क्लेशादीनां विसंयोगाल्लब्धं विसंयोगलब्धमित्युच्यते। अयं वीतरागमार्गः-इदं तृतीयज्ञानं भवति। क्लेशप्रहाणसाक्षात्कारात् क्षेमं शान्तं लभते। तापविनिर्मुक्तं सुखं प्रत्युत्पन्नसुखमायतीसुखम्, प्रत्युत्पन्नं सुखं क्लेशविनिर्मुक्तं सुखम्। आयत्यां सुखं यन्निर्वाणसुखम्। इदं चतुर्थज्ञानं भवति। योगी नित्यमनिमित्तचित्तो विहरति। अतो नित्यं स्मृतो व्युत्तिष्ठति स्मृतः समाधिमुसम्पद्यते। इदं पञ्चमं ज्ञानं भवति। तस्माद्यदि पञ्चमज्ञानमिदं नोत्पन्नं, उत्पादयितव्यम्। यद्युत्पन्नं समाधिफलं लब्धमेव॥

पञ्चाङ्गार्यसमाधिवर्गः षष्ट्युत्तरशततमः।

१६१ षट्‍समाधिवर्गः

(पृ) उक्तं सूत्रे-समाधयः षट् अष्ट्येकलक्षणभावना एकलक्षणत्वाय संवर्तते। अस्त्येकलक्षणभावना नानालक्षणत्वाय संवर्तते। अस्त्येकलक्षणभावना एकलक्षणनानालक्षणत्वाय संवर्तते। एवं नानालक्षणभावनाऽपि। कतमानीमानि। (उ) एकलक्षणमितीदं ध्यानसमाधिः स्यात्। ध्यानसमाधेरेकालम्बन एकाग्रताविहरणात्। नानालक्षणमितीदं ज्ञानदर्शनं भवेत्। धर्माणां नानास्वभावस्य [परि] ज्ञानात्। पञ्चस्कन्धादिधर्माणामुपायत्वात्। (पृ) कथमेकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति। (उ) यत् कश्चित् समाधिमुपादाय पुनः समाधिमुत्पादयति। एकलक्षणा नानालक्षत्वाय संवर्तत इति यदि कश्चित् समाधिमुपादाय ज्ञानदर्शनमुत्पादयति। एकलक्षणा भावना एकलक्षणनानालक्षणत्वाय संवर्तत इति यदि कश्चित् समाधिमुपादाय ध्यानसमाधिं पञ्चस्कन्धोपाय ञ्चोत्पादयति। एवं नानालक्षणभावनाऽपि।

(पृ) केचिदार्मिधर्मिका आहुः-एकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति यदि कश्चित् चतुर्थध्यानमुपादाय अर्हत्फलं साक्षात्करोति तत्। एकलक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थध्यानमुपादाय पञ्चाभिज्ञाः साक्षात्करोति तत्। एकलक्षणा भावना एकलक्षणनानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थं ध्यानमुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति तत्। नानालक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् पञ्चाङ्गभूतसमाधीनुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति। तथा अन्यौ द्वावपि। कथमिदम्। (उ) [अत्र] हेतुर्वक्तव्यः। कस्मात् चतुर्थध्यानमर्हत्फलञ्चैकलक्षणम्। पञ्चाङ्ग[भूत] समाधिः पञ्चाभिज्ञाश्च नानालक्षणा इति। पञ्चाङ्गानि नाश्रीयन्ते। पञ्चाङ्गसमाधिश्चतुर्णां ध्यानानां प्रकाशलक्षणो भावनालक्षणः। कथं तान्याश्रित्य अर्हत्फलं लभते। कस्मात्। अवश्यं ध्यानमेकमाश्रित्य अर्हत्फलं लभते। किञ्च प्रकाशलक्षणमाश्रित्यापि अर्हत्फलं लभेत। तस्मान्नास्ति [हेतुः]।

केचिदाहुः-षड्‍विधाः समाधिसमापत्तयः आनुलोमिकसमापत्तिः, प्रातिलोमिकसमापत्तिः आनुलोमिकप्रातिलोमिकसमापत्तिः आनुलोमिकव्युत्क्रान्तिः प्रातिलोमिकव्युत्क्रान्तिः आनुलोमिकप्रातिलोमिकव्युत्क्रान्तिरिति। कथमिदम्। (उ) केचिदाभिधर्मिका आहुः योगी निरोधसमापत्तावतारमिच्छतीत्यतो ध्यानेषु समापत्ति (= प्रवेश) व्युत्थाने क्रमिके। तस्मान्न स्यात् यदि वानुलोम्येन यदि वा प्रातिलोम्येन यदि वाऽनुलोम्यप्रातिलोम्येन व्युत्क्रमादिः। पञ्चसमापत्तिव्युत्थानैः किं हितं लभते। योगी निरोधसमापत्तिं प्रापयितुरवश्यं क्रमशोऽवतरेत् क्रमशश्च व्युत्तिष्ठेत्। यद्युत्तमभूमिभाक् कस्मात्पुनरधो भूमिमवतरति। अधोभूमिः कण्टकभूता। यथा न कश्चित्पुनर्बालक्रीडायामभिरमते। यथा च विदग्धो जनो न पुनरभिरमते मूढे। तथेदमपि स्यात्।

यदुक्तं व्युत्क्रामतीति। इदमयुक्तम्। सूत्रे केवलमुक्तं क्रमिका ध्यानसमाधीनां समापत्तय इति। यदि योगी व्युत्क्रामति आतृतीयम्। कस्मान्न व्युत्क्रामति आचतुर्थपञ्चमम्। बलानुभावसदृशमिदमिति यदि मतम्। यथा कश्चित् श्रेणिमारुह्य एकं सोपानं व्युत्क्रमेत् न द्वौ। दृष्टान्तोऽयमपि नैकान्तिकः। महाबलिष्ठः कश्चित् चत्वारि सोपानान्यपि व्युत्क्रमेत्। शतं पक्रमान् प्रक्रममाणोऽपि कश्चिदस्ति। अतो न युज्यते। सूत्रे यद्यप्युक्तं भगवता निर्वाणं समापद्यमानोऽनुलोमप्रतिलोमं व्युत्क्रम्य ध्यानसमाधीन् समापद्यत इति। सूत्रमिदं सम्यगर्थविरुद्धम्। न श्रेद्धेयम्। सत्यपि वचनेऽस्मिन् नायमर्थो युक्तः। कस्मात्। यदि योगिनो निरोधसमापत्तावतारं वदति तदाऽऽनुलोम्येन समापत्तिः स्यात् नैकक्षणे पञ्चधा। योगी यदि साक्षान्निरोधसमापत्त्यवतारमिच्छति तदा नैकक्षणे स्यात्। यदि ध्यानसमाधिषु स्वचित्तं बुभुक्षति, वशित्वापरिहाणित्वात् अनुलोमप्रतिलोमं व्युत्तिष्ठति समापद्यते व्युत्क्रामति च। यथा कश्चिदश्वमारूढो यदि प्रतिबलरुद्धः, तदा नावश्यं प्रतिनिवर्तते। यदि दमनं निषेवितुमिच्छति। तदा रहसि [करोति]।

यदुक्तम्-अधोभूमिः कण्टक[भूता]। न[तत्र] समापद्येतेति। अधोभूमेर जयात् पुनः समापद्यते। योगिगोचरमार्गत्वात्। यदुक्तं यथा न कश्चित् बालक्रीडायामभिरमत इति। [तत्र] निदानं कदाचिद्बालक्रीडात्मकं भवति। यथा कश्चिद्‍वृद्धो नटः सर्वदा नृत्यति न तृप्तो भवति। शिक्षणार्थत्वात्। एवमार्यः अनुलोमप्रतिलोमं ध्यानेषु व्युत्तिष्ठति समापद्यते व्युत्क्रामति च देवमनुष्याणां प्रदर्शनकामित्वात् महर्षीणां समाधिषु वशिताबलाच्च। भगवान् परिनिर्वाणगमनकाले परमप्रणीतध्यानसमाधिभिर्वासितशरीरत्वात् स्वतन्त्रं समापद्यत व्युदतिष्ठत् अनुलोमं प्रतिलोमं व्युदक्रामीत्। अनुपधिशेषनिर्वाणगतं भगवन्तं पश्यन् सर्वेभ्योऽकुशलसंस्कारेभ्यो निर्विद्येत। अतो भगवानस्मिन् धर्मेऽद्भुतं प्रेमाविश्चकार।

इदं सूत्रं सम्यगर्थविरुद्धमिति यत् भवानवोचत्। तदिदमयुक्तम्। यत् भवतोक्तं कस्मान्न व्युत्क्रामति यावच्चतुर्थमिति। [तत्] बोधिसत्त्वपिटक उक्तं व्युक्त्रान्तिलक्षणम्-प्रथमध्यानात् व्युत्क्रम्य निरोधसमापत्तिं समापद्यते। निरोधसमापत्तेर्व्युत्क्रम्य यावद्विक्षिप्तचित्तमवतरति इति। चित्तबल महिम्ना एवं शन्कोति॥

षट्‍समाधिवर्ग एकषष्टयुत्तरशततमः।

१६२ सप्तसमाधिवर्गः

शास्त्रमाह-सप्त निश्रयाः प्रथमं ध्यानं निश्रित्यास्रवक्षयं लभते। यवदाकिञ्चन्यायतनं निश्रित्यास्रवक्षयं लभत इति। निश्रयो नाम यत् सप्तध्यानान्युपादायार्यज्ञानं प्रतिलभते। यथोक्तम्-समाहितस्य यथाभूतज्ञानमुत्पद्यत इति। प्रतिलब्धध्यानसमाधिमात्रं कञ्चन सम्पन्नं वदति। अतो भगवानाह-नायं सम्पन्न इति। समाधिमिमं निश्रित्य आस्रवाणां क्षयाख्यं विशिष्टं धर्मं प्रार्थयीत। अत उच्यते निश्रय इति।

(पृ) कथमिमान् ध्यानसमाधीन् निश्रित्यास्रवाणां क्षयं लभते। (उ) भगवानाह-योगी येनाकारेण येनालम्बनेन प्रथमं ध्यानं समापद्यते स योगी तदाकारं तदालम्बनं न पुनः स्मरति। किन्तु पश्यति प्रथमध्याने यद्रूपाणि यदि वा वेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतः शल्यतोऽघतोऽनित्यतो दुःखतः शून्यतोऽनात्मतः। एवं पश्यतश्चित्तमास्रवेभ्यो विमोक्षाय निर्विद्यते। यावदाकिञ्चन्यायतनमप्येवम्। परन्तु त्रीण्याकाशानन्त्यायतना[दी]नि आरूप्यदर्शनीयानि। योगी कामधातुमोहितः प्रथमं ध्यानं निर्वाणमिति पश्यति। तत्तु पश्चाल्लभते। अतो भगवानाह-मा मन्यध्वं निर्वाणसुखलक्षणमिति। किन्तु पश्यत प्रथमध्याने पञ्चस्कन्धानामष्टादीनवान् इति। तथा निश्रयान्तरेष्वपि।

(पृ) कामधातुः कस्मान्न निश्रय इत्युच्यते। (उ) उक्तं हि सुसीमसूत्रे- अतिक्रम्य सप्त निश्रयान् अस्ति आर्यमार्गप्रतिलम्भनम् इति। अतो ज्ञायते कामधातुरप्यस्तीति।

(पृ) केचिदाहुः-प्रथमध्यानसामन्तकमप्राप्तभूमिं निश्रित्य [अपि] अर्हत्फलं लभत इति। कथमिदम्। (उ) मैवम्। यद्यप्राप्ता भूमिर्निश्रयो भवति। तदाऽस्ति दोषः। यद्यप्राप्तां भूमिं लब्धुं शक्नोति। कस्मान्न प्रथमं ध्यानं समापद्यते। अतो न युक्तमिदम्। (पृ) नैवसंज्ञानासंज्ञायतनं कस्मान्न निश्रय इत्युच्यते। (उ) न तत्रास्ति संज्ञानम्। समाधौ भूयसा प्रज्ञाऽल्पीयसी। अतो नोच्यते [स] निश्रयो भवतीति। सप्तसंज्ञासमाधयस्तु सप्त निश्रया भवन्ति। कस्मादाह भगवान् सप्तनिश्रयाः सप्त संज्ञासमाधय इति। (उ) तीर्थिका अतत्त्वज्ञत्वात् संज्ञामात्रमाश्रयन्ते। सर्वे निश्र्याः संज्ञाकलुषिता न विमोक्षाय भवन्ति इत्यतः संज्ञासमाधिरित्याख्या। आर्यास्तु संज्ञां भङ्‍क्त्वा समाधिमिमं निश्रित्य आस्रवाणां क्षयमुपाददते। अतो निश्रय इत्याख्या। यथोक्तं योगी धर्मानिमान् पश्यति रोगतो गण्डत इति। नैवसंज्ञानासंज्ञायतनमपि संज्ञया असंज्ञानान्न संज्ञासमाधिरित्युच्यते।

सप्तसमाधिवर्गो द्विषष्टयुत्तरशततमः।

१६३ अष्टविमोक्षवर्गः

शास्त्रमाह-सूत्र उक्तं-अष्टौ विमोक्षाः-अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति इति प्रथमो विमोक्षः। योगावचरोऽनेन विमोक्षेण रूपाण्यभिभावयति। केनेदं ज्ञायते। द्वितीयविमोक्षे ह्युक्तम्-अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि इति। अध्यात्मरूपपरिभेदनादाह-आध्यात्ममरूपसंज्ञीति। अतो ज्ञायते योगावचरः प्रथमविमोक्षे क्रमेण कायरूपमभिभवतीति। द्वितीयविमोक्षं प्राप्य तत्र रूपमभिभूतमेव। बाह्यरूपमात्रमस्ति। तृतीयविमोक्षे बाह्यरूपमप्यभिभूतम्। अतो न पश्यति अध्यात्मं बहिर्धा रूपञ्च। इदं रूपशून्यमित्याख्यायते। यथोक्तं पारायणसूत्रे-

रूपलक्षणविध्वंसी सर्वान् कामान् जहाति च।
अन्तर्बहिश्च नो पश्यन् अहं पृच्छामि वस्त्विदम्॥ इति।

[अत ऊर्ध्वं] चतुर्षु विमोक्षेषु चित्तं विज्ञानशून्यमित्याह। यथोक्तं षड्‍धातुसूत्रे-यो भिक्षवः पञ्चसु धातुषु अत्यन्तनिर्विण्णः, [तस्य] अन्यत् ज्ञानमात्रमस्ति इति। ज्ञातव्यं चतुर्षु विमोक्षेषु विज्ञानान्यनुभवतीति। अष्टमविमोक्षे सर्वेषां क्षयः। कस्मात् रूपनिरोधे चित्तनिरोधे संस्कृतानामात्यन्तिकनिरोधः। इदमेवार्हत्फलमित्युच्यते। एवं क्रमेण क्षयभाक् भवति। इमेऽष्टविमोक्षाः।

कश्चिदाह-प्रथमौ द्वौ विमोक्षावविशुद्धौ। तृतीयस्तु विशुद्ध इति। नेदं युज्यते। कस्मात् अयं विमोक्ष इति नास्ति [यत्किञ्चित्। यस्य] अविशुद्धभावनया विमोक्षं लभते। विशुद्धभावनयापि नास्ति विमोक्षः। केवलं शून्यभावनया विमोक्षं लभते। तीर्थिका विशुद्धाविशुद्धभावनां भजन्तेन विमोक्षभागिन इत्याख्यायन्ते।

(पृ) तीर्थिका अपि रूपलक्षणं विनाश(य)न्ति। कथमिदम्। (उ) तीर्थिका विमोक्षाधिमुक्त्या रूपलक्षणं विनाशयन्ति न तु शून्यभावनया। कस्मात्। यथाभावनाधिमुक्तिप्रयोगं मृतपरित्यक्तं कायं श्माशानिककृमयो भक्षयन्ति इत्यादि पश्यन्ति। (पृ) तीर्ति(र्थि)का रूपविनिर्मुक्तमारूप्यसमाधिं विन्दन्ते। [तेषां] आरूप्यविमोक्षो भवेत्। (उ) तीर्थिकानां सत्यपि आरूप्यसमाधौ [तत्र] आसङ्गान्न[स] विमोक्ष इत्युच्यते। आर्याः पुनरारूप्यसमाधिमुपादाय चतुरः स्कन्धान् रोगत इत्याद्यष्टभिराकारैः पश्यन्ति। अतो विमोक्ष इत्युच्यते।

(पृ) भवानवोचत्-निरोधसमापत्तिरर्हत्फलमिति। इदमयुक्तम्। कस्मात्। शैक्षा अपि अष्टविमोक्षभाज उच्यन्ते। निरोधसमापत्तिरास्रवक्षयात्मिकेति भवतोक्तम्। तथा च शैक्षा आस्रवक्षयभाजः स्युः। (उ) सूत्रे सामान्यलक्षणेन निरोध उक्तः। न तु विविच्य अयं चित्तनिरोधः अयं क्लेशक्षय इति। यथोक्तं सूत्रे-निरोधो द्विविधः [क्षय]निरोधः अनुपूर्वनिरोध इति। द्विविधं निर्वाणं दृष्टधर्मनिर्वाणम् आत्यन्तिकनिर्वाणमिति। किञ्चाह क्षेमो द्विविधः-[अवर]क्षेमः परमक्षेम इति। क्षेमलाभोऽपि द्विविधः [अवर]क्षेमलाभः परमक्षेमलाभ इति। अतः शैक्षजनानां प्रतिलब्धो न पारमाथिकनिरोधः। किञ्चोक्तं सूत्रे निरोधसमापत्तिमुपसम्पन्नो भिक्षुः कृतकरणीय इति। यदि निरोधसमापत्तिर्नार्हत्फलम्, तदा कृतकरणीय इति नाभिदध्यात्।

(पृ) किं शैक्षा वस्तुतो नाष्टविमोक्षान् लभन्ते। (उ) सूत्र उक्तं शैक्षो नवानुपूर्वसमाधीन् लभत इति। न तूक्तं क्षयनिरोधं प्रतिलभत इति। योगावचरो यदि क्षयनिरोधं प्रतिलब्ध्वा न ध्यानसमाधीन् समापद्यते। अयं प्रज्ञाविमुक्त इत्युच्यते। यदि ध्यानसमाधीन् समापद्यते न क्षयनिरोधं लभते। [तदा] कायसाक्षीत्युच्यते। यद्युभयं लभते। तदा उभयतो विमुक्त इत्युच्यते। कस्मात्। क्लेशा एको भागः। ध्यानसमाध्यावरणधर्मा अपरो भागः। उभाभ्यां भागाभ्यां विमुक्त उभयतो[भाग] विमुक्त इत्युच्यते। (पृ) अनुपूर्व[विहारे]षु निरोधो विमोक्षेषु निरोधश्च किं नाना। (उ) व्यञ्जनमेकम्। अर्थस्तु नाना। अनुपूर्वेषु निरोधश्चित्तचैत्तानां निरोधः। विमोक्षेषु निरोधः क्लेशानां निरोधः। यथोक्तं सूत्रे-संस्काराणामनुपूर्वनिरोधः। तथाहि-प्रथमध्यानं समापन्नस्य वाक् निरुध्यते। द्वितीयध्यानं समापन्नस्य वितर्कविचारा निरुद्धा भवन्ति। तृतीयध्यानं समापन्नस्य प्रीतिर्निरुध्यते। चतुर्थध्यानं समापन्नस्य सुखं निरुध्यते। आकाशानन्त्यायतनं समापन्नस्य रुपसंज्ञा निरुद्धा भवति। विज्ञानानन्त्यायतनं समापन्नस्य आकाशानन्त्यायतनसंज्ञा निरुद्धा भवति। आकिञ्चन्यायतनं समापन्नस्य विज्ञानानन्त्यायतनसंज्ञा निरुद्धा भवति। नैवसंज्ञानासंज्ञायतनं समापन्नस्य आकिञ्च न्यायतनसंज्ञा निरुद्धा भवति। निरोधसमापत्तिं समापन्नस्य संज्ञा च वेदना च निरुद्धा भवति। इति। एषु निरोधेषु निरोधो विशिष्टो यदुत योगावचरो रागद्वेषमोहेभ्यो निर्विण्णो विमुच्यते।

(पृ) कथं ज्ञायते अनुपूर्वेषु चित्तचैत्तानां निरोधः विमोक्षेषु क्लेशानां निरोध इति। (उ) निरोधस्तुल्यार्थोऽपि मेदवान् स्यात्। अनुपूर्वेषूच्यते संज्ञावेदयितनिरोध इति। विमोक्षेषु अविद्यावेदनास्पर्शनिरोध इति। कस्मात्। प्रज्ञप्तितो हि वेदनोत्पद्यते। प्रज्ञप्तिभेदे वेदना निरुध्यते। सूत्रेष्वस्तीदृशो विभागः। यद्याह-कण्ठतो योगावचरः क्षयनिरोधलाभीति। तदा [स] कृतकरणीय इति। ज्ञातव्यं निर्वाणं सक्षात्कुर्वतः सर्वे क्लेशा निरुध्यन्त इति। न त्वाह चित्तचैत्ता निरुध्यन्त इति। (पृ) यद्यष्टविमोक्षाः क्लेशनिरोधधर्मकाः। तदा सर्वेऽर्हन्तः सर्वदा लभेरन्। (उ) सर्वे लभन्ते। न तु समापद्यन्ते। ये ध्यानसमाधीन् साक्षात्कुर्वन्ति ते समापद्यन्ते। (पृ) योगावचरस्य यदि न सन्ति ध्यानसमाधयः। कथं स कायचित्तशून्यतां लभते क्लेशांश्च क्षपयति। (उ) अयं समाधियुक्तोऽपि न साक्षात्करोति। अस्ति पुनस्तटिदुपमसमाधिः। [इमं] समाधिमुपादाय क्लेशान् क्षपयति। यथोक्तं सूत्रे-मम भिक्षवश्चीवरमुपादित्सोः क्लेशो भवति। चीवरमुपादाय पुनः क्लेशो न भवति। इत्यादि। कस्मात्। तटिदुपमसमाधिचित्तं वज्रोपमं तत्त्वज्ञानं क्लेशान् भिनत्ति। अर्थोऽयं भगवता तृतीयबल उक्तः यदुत ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानविभागयथाभूतज्ञानम्। तत्र ध्यानं नाम चत्वारि ध्यानानि। केचिदाहुः-चत्वारि ध्यानानि चत्वारोऽरूपसमाधयः सर्वे ध्यानमित्युच्यन्ते। विमोक्षः अष्टविमोक्षाः। समाधिरेकक्षणतटिदुपमसमाधिः। समापत्तिः ध्यानविमोक्षसमाधिषु वशिताबललाभः यथाह-शारिपुत्रः-सप्तबोध्यङ्गेषु समापत्तिं व्युत्थानञ्च वशीकरोमि इति। अतो ज्ञायते प्रज्ञाविमुक्तस्यार्हतः सन्ति ध्यानसमाधयः। किन्तु न[तत्र] समापद्यते। अभ्यासप्रकर्षात् समापत्तिं वशीकरोति।

(पृ) कस्मादर्हन् न ध्यानसमाधीनां प्रकृष्टमभ्यस्ता भवति। (उ) पुरुषोऽयं प्रतिलब्धमार्गः कृतकृत्यो भवति। उपेक्षाभिनवात् न सम्यगभ्यस्यति। यद्युपेक्षाचित्तं नास्ति तदासमापत्तिं समापद्यते इति नास्ति दूषणम्। यथोक्तं सूत्रे-योगावचरश्चतुर ऋद्धिपादान् सम्यगभ्यसन् हिमवन्तं पर्वतराजं तथा धमति यथा रेणुपर्यवसन्नं भवति। किं पुनर्मरणमविद्याम् इति। अतो ज्ञायते अष्टविमोक्षेषूच्यते आस्रवक्षयनिरोधः न निरोधसमापत्तिं समापद्यत इति। उक्तञ्च सूत्रे-अस्ति विद्यास्वभावः अस्ति शून्यस्वभावः, अस्त्याकाशानन्त्यायनस्वभावः, अस्ति विज्ञानानन्त्यायत(न)स्वभावः अस्त्याकिञ्चन्यायतनस्वभावः अस्ति नैवसंज्ञासंज्ञायतनस्वभावः अस्ति निरोधस्वभावः। अविद्यामुपादायास्ति विद्यास्वभावः। अशून्यमुपादयास्ति शून्यस्वभावः। रूपमुपादायास्त्याकाशानन्त्यायतनस्वभावः। अकाशानन्त्यायतनस्वभावमुपादायास्ति विज्ञानानन्त्यायतनस्वभावः। विज्ञानानन्त्यायतनस्वभावमुपादायास्त्याकिञ्चन्यायतनस्वभावः। आकिञ्चन्यायतनस्वभावमुपादायास्ति नैवसंज्ञानासंज्ञायतनस्वभावः। पञ्चस्कन्धानुपादायास्ति निरोधस्वभाव इति। पञ्चस्कन्धान् प्रज्ञप्तिलक्षणान् यो न परिभेदयति तस्याऽविद्या भवति। यस्तान् परिभेदयति। तस्य भवति विद्यास्वभावः। यथा भगवान् एकं भिक्षुमनुशास्ति-शून्येषु सर्वसंस्कारेषु संस्कारान् शून्यान् भावयित्वा दमय स्वचित्तम् इति। यथा कश्चित्प्रदीपमादाय शून्यागारं प्रविश्य पश्यति सर्वं शून्यमिति। [तथा] योगावचरो रूपमुपादायाधिगच्छति रूपमिदं निरुद्धमिति। अयं शून्यस्वभाव इत्युच्यते। तीर्थिका आकाशानन्त्यायनमुपादाय प्रतिलभन्ते रूपाद्वियुज्यन्ते। यावन्नैवसंज्ञानासंज्ञायतनमुपादाय आकिञ्चन्यायतनात् वियुज्यन्ते।

स्कन्धानुपादायास्ति निरोधस्वभाव इति। योगावचर[श्चिन्तयति]-यत्किञ्चनमनस्कारः यत्किञ्चनकृतकरणम् सर्वेषां निरोधः श्रेयानिति। अयं स्कन्धानुपादायास्ति निरोधस्वभाव इति।

(पृ) इमे स्वभावाः कं समाधिं निश्रित्य प्रतिलभ्यन्ते। (उ) सूत्र उक्तम्-विद्यास्वभावो यावत् नैवसंज्ञानासंज्ञायतनस्वभावः सर्वं खयं समाधिसमापत्तिविहरणात्प्रतिलभते यदुत संस्कृतमार्गविहरणात्प्रतिलभत इति। कस्मात्। आद्यो रूपज्ञानालम्बनो विद्यास्वभावः। द्वितीयस्वभावोऽपि रूपोपादानो रुपमुपादाय तथा विवेचयति यथा शून्यं भवति। एवं यावन्नैवसंज्ञानासंज्ञायतनस्वभावः, सर्वे संस्कृतधर्माः शून्या इति निरोधसमापत्त्या निरोधं प्रतिलभते। अत्र सर्वेषां संस्कृतधर्माणां क्षयनिरोधात्। अतो ज्ञायते अत्रोक्तो निरोधः क्षयनिरोधो निर्वाणमिति।

(पृ) इमे विमोक्षाः कस्यां भूमौ भवन्ति। (उ) योगावचरो रूपपरिभेदेच्छया कामधातुप्रतिलब्धं समाधिं वा रूपधातुप्रतिलब्धं वा समाधिं निश्रयमाणो रूपं शून्यं प्रतिलभते। सर्वभूमिगतं चित्तञ्च शून्यं प्रतिलभते। (पृ) एषु विमोक्षेषु कति सास्रवाः कति अनास्रवाः। (उ) शून्यस्वभावत्वात् सर्वेऽनास्रवाः॥

अष्टविमोक्षवर्गस्त्रिषष्ट्युत्तरशततमः।

१६४ अष्टाभिभ्वायतनवर्गः

अध्यात्मं रूपसंज्ञी [एको] बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि। तान्यभिभूय जानाति पश्यति। एवं संज्ञी च भवति। इदं प्रथममभिभ्वायतनम्। अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति अधिमात्राणि[सुवर्णदुर्वर्णानीति विस्तरो यावत्] इदं द्वितीय[मभिभ्वायतन]म्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि [सुवर्णदुर्वर्णानीति यावत्] इदं तृतीय[मभिभ्वायतन]म्। अध्यात्ममरूपसंज्ञी बहिर्धी रूपाणि पश्यति अधिमात्राणि [सुवर्णदुर्वर्णानीति यावत्] इदं [चतुर्थमभिभ्वायतन]म्। अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिर्भासानि तद्यथा उमकापुष्पं[सम्पन्नं] वाराणसेयं वा वस्त्रं[नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासम्। तानि खलु रूपाण्यभिभूय जानाति पश्यति। एवंसंज्ञी च भवतीदं] पञ्चम[मभिभ्वायतन]म्। षष्ठं पीतानि पश्यति। सप्तमं-रक्तानि पश्यति। अष्टमं-अवदातानि पश्यति। योगावचर एवमप्रमाणानि रूपाणि पश्यति। कस्मात्। न केवलं सन्तीमानि नीलादीनि चत्वारि रूपाणि। संक्षिप्यकथनादष्टाभिभ्वायतनानि भवन्ति। योगावचरो यदा शून्यतया रूपाणि परिभेदयति। तदा अभिभ्वायतनमित्युच्यते।

(पृ) क इदं प्रतिलभते। (उ) इमे भगवतः श्रावका नान्ये। (पृ) इमान्यष्टाभिभ्वायतनानि कस्या भूमौ भवन्ति। (उ) कामधातौ भवन्ति। (पृ) किं सास्रवाणि उतानास्रवाणि। (उ) पूर्वं सास्रवाणि सन्ति शून्यतया रूपाणां परिभेदेऽनास्रवाणि भवन्ति। (पृ) कस्मादयं धर्मः केवलमभिभ्वायतनमित्युच्यते। (उ) इदं योगावचराणामभ्यासक्तमायतम्। अतो भगवान् श्रावकाणां कृत आह-अभिभ्वायतनमिति। तदालम्बनाभिभवप्रदर्शनार्थम्॥

अष्टाभिभ्वायतनवर्ग श्चतुष्पष्टयुत्तरशततमः।

१६५ नवानुपूर्व[विहारेषु]प्रथमध्यानवर्गः

नवानुपूर्वविहाराः-चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः निरोधसमापत्तिश्च। प्रथमं ध्यानम्-यथोक्तं सूत्रे योगावचरो विविच्यैव कामै र्विविच्याकुशलै धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरतीति। (पृ) प्रथमध्यानलक्षणमात्रं वक्तव्यम्। कस्मात्पुनरुच्यते विविच्यैव कामैरिति। (उ) केचिदपवदन्ति नास्ति कामविविक्तो लोक इति। लौकिकानां [सदा] पञ्चकामेषु स्थितत्वात्। न हि कश्चिच्चक्षुषा रूपं न पश्यति। श्रोत्रेण शब्दं न शृणोति, घ्राणेन गन्धं न जिघ्रति, रसनया रसं न रसयति, कायेन न स्पर्शाननुभवतीति। अत उच्यते विविच्यैव कामैरिति। कामो नाम कामचित्तं न रूपादिः। यथोक्तम्-रूपादयः पदार्था न कामा इति। कथं तज्जानीमः। व्यवसायी खलु रूपादिषु स्थित्वैव कामं प्रजहाति। यथोक्तं सूत्रे-रूपादयस्तद्भागा न कामा भवन्ति इति। अतो रागचित्तं काम इत्युच्यते। यस्य रागचित्तं भवति स कामान् पर्येषते। कामपर्येषणाप्रत्ययं रागप्रतिधवधविहिंसा अकुशला धर्मा अनुवर्तन्ते। यथोक्तं महानिदानसूत्रे-तृष्णां प्रतीत्य पर्येषणा इत्यादि। अतो ज्ञायते कामरागैर्विविक्तत्वात् विविच्यैव कामैरिति। केचिदाहुः- रूपादिभिः पञ्चकाम[गुणै] र्विविक्तं कामैर्विविक्तमिति। विविच्याकुशलै र्धर्मैरिति पञ्चनीवरणैर्विविक्तम्।

प्रथमं ध्यानं विक्षिप्तचित्तासन्नत्वात्सवितर्कम्। योगावचरस्यापरिनिष्पन्नसमाधिबलस्य चित्तविक्षेपस्योदयात्सवितर्कम्। यथोक्तं सूत्रे-सवितर्क सविचारं विहारं विहरामीति। [अतो] ज्ञातव्यं भगवानवोचत्-विक्षिप्तचित्तं वितर्क इति। वितर्कोऽयं क्रमशश्चित्तसमाधानप्रवृत्तौ विचारो भवति। यदा समाधिपरिनिष्पत्त्या चित्तं न भूयसा विक्षिपति तदा विचारः। विचारोऽयं योगावचमनुतर्तयन् ध्यानान्तरालं प्राप्नोति। वितर्कविचारविविक्तस्य प्रीतिलाभे विवेकजा प्रीतिरिच्यते। प्रीतिरियं प्रथमलब्धा कायं सुखयतीति सुखं भवति। वितर्कविचारविवेक[जा] प्रीतिरेकालम्बनस्थिता ध्यानमित्युच्यते। ध्यानस्यास्य वितर्कविचारव्याकुलत्वात् कायान्तरविपाकं प्रतिलभते। अस्योत्तममध्यमाधमविभागात्सन्ति ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणः।

(पृ) यदि वितर्कविचारविवेक [जा] प्रीतिः प्रथमं ध्यानम्। तदा न स्यात् पञ्चाङ्गं प्रथमं ध्यानम्। यदि वितर्कविचारविवेकः, द्वितीयध्यानस्य को भेदः। उक्तञ्च सूत्रे-प्रथमं ध्यानं सवितर्कं सविचारम्। अन्यत् प्रश्रब्धिसुखम् अन्या च प्रीतिरिति। यदि प्रीतिरेव सुखम्, तदा सप्तसम्बोध्यङ्गेषु प्रस्रब्धिबोध्यङ्गं न पृथगुक्तं स्यात्। (उ) प्रथमं ध्यानं न स्यात्पञ्चाङ्गमिति भवद्वचनमयुक्तम्। न ह्युच्यते पञ्चाङ्गानि प्रथमध्यानस्वभावा इति। प्रथमध्यानस्यासन्नभूमाविमौ वितर्कविचारौ स्त इत्यङ्गमित्युच्येते।

(पृ) यद्यासन्नभूमिको धर्मगणोऽङ्गमिति। प्रथमं ध्यानमपि पञ्चकाम[गुणा]नां प्रत्यासन्नमिति [ते] अङ्गानि वक्तव्यानि स्युः। (उ) पञ्चकाम[गुणा]न प्रत्यासन्ना भवन्ति। योगावचरचित्तं हि [त]द्विविक्तमेव। प्रथमध्यानानन्तरञ्च न कामचित्तमुदेति। पञ्चकामगुणाश्च न प्रथमध्यानस्याङ्गानि वर्तन्ते। अङ्गं नाम कारणम्। भाग एव कारणम्। यथार्यमार्गाङ्गानि सञ्चितानि कारणानित्यादि। तथा वितर्कविचारावपि प्रथमध्यानस्य कारणम्। यत् योगावचर आलम्बने समाहितः, [ततो] व्यावर्तने पुनस्समाधिनिमित्तमुपादाय तत्रालम्बने चित्तं समाधाय मौलिकं निमित्तं मनसि करोति। इमौ वितर्कविचारौ। अतो ज्ञायते वितर्कविचारौ प्रथमध्यानस्य कारणमिति। द्वितीयध्याने चित्तसमाधानं स्थितमेव। अतो न तौ कारणम्। ध्यानद्वयसमनन्तरञ्च न वितर्कविचारौ भवतः।

यदाह भवान् प्रथमं ध्यानं वितर्कविचारसहगतमिति। तदयुक्तम्। प्रथमध्यान उत्पन्नेऽथ वितर्कविचारौ भवतः। तयोः प्रत्यासन्नत्वात् तत्सहगतमित्युच्यते। यथा शिष्येण सह गच्छतीति किञ्चिद्विप्रर्षेऽपि सहेत्युच्यते। अम्या भूमेर्जननहेतुकतया वितर्कविचारौ स्तः। यथा भूतपीडितः पुरुषो [भूत] अनुद्ग्रमेऽपि पीडित इत्युच्यते। पुरुषस्यास्य भूतदूषितस्य पुनरुद्भवप्रत्ययोऽस्तीति [कृत्वा] पीडित इत्युच्यते। सुखवेदनैव प्रीतिः। किन्तु विभज्योच्यते। प्रश्रब्धितोऽपि सुखं पृथगुच्यते। यथोक्तं सूत्रे-प्रश्रब्धकायः सुखं वेदयत इति।

(पृ) तथा चेत् कथं प्रथमं ध्यानं पञ्चाङ्गमित्युच्यते। (उ) कालतः पञ्चोच्यन्ते। यथा सप्तबोध्यङ्गानि कालाभिसन्धिं लब्ध्वा चतुर्दश भवन्ति। तत्रोच्यते अस्ति कायप्रश्रब्धिः अस्ति चित्तप्रश्रब्धिरिति। न तु वस्तुतोऽस्ति कायप्रश्रब्धिः। चित्तमेव सुखितमिति [तत्] कायोऽपि वेदयते। एवं प्रीतिरपि प्रथमतः कायगता प्रीतिसुखमित्युच्यते। प्रीतिः प्रथमलब्धलक्षणा सुखं भवति। पश्चात्परं प्रीतिरित्यायते। कालभेदात्। न ह्यस्ति पृथक् प्रश्रब्धिधर्मः। प्रीतौ जातमात्रायां कायचित्ते अदुष्ठुले सुकुमारे दान्ते च भवत इत्यतः प्रश्रब्धिरित्युच्यते। यथा रोगिणश्चतुर्महाभूतानां निरोधः, अरोगिणश्चतुर्महाभूतानामुदयः तदा अयं पुरुषः सुखीति नाम। एवं प्रश्रब्धिरपि। प्रशमनेऽपि प्रश्रब्धिरित्युक्तम्। यथोक्तं सूत्रे-संस्काराणामनुपूर्वनिरोधः-तथाहि-प्रथमं ध्यानं समापन्नस्य वाक् निरुद्धा भवति। यावन्निरोधसमापत्तिं समापन्नस्य संज्ञा वेदना च निरुद्धा भवति। इति। अतो नास्ति पृथक् प्रश्रब्धिधर्मः।

यदि मतं प्रथमं ध्यानं वितर्कविचारसम्प्रयुक्तमिति तदपि न युक्तम्। कस्मात्। उक्तं हि सूत्रे-यदि योगावचरः प्रथमं ध्यानं समापद्यते। तदा वाक् निरुद्धा भवति इति वितर्कविचारौ च वाचो हेतुः। कथं वाचो हेतुरस्ति, वाक् च निरुद्धा भवति। यदि मतं वितर्कविचारौ यद्यपि वर्तेते। व्यवहारमात्रं निरुद्धं भवतीति। तदा कस्यचित् कामधातुकचित्तगतस्य अव्यवहारकालेऽपि [वितर्कविचार]रोधो भवेत्।

(पृ) प्रथमध्याने वितर्कविचारौ न स्तः। आर्यस्तृष्णींभावः स्यात्। भवांस्तु द्वितीयध्यानमार्यतूष्णींभावमाह। न प्रथमध्यानम्। अतो ज्ञायते प्रथमध्याने वितर्कविचारौ स्याताम् इति। (उ) वितर्कविचारप्रत्यासन्नत्वान्नाह आर्यतूष्णींभाव इति। न तु वितर्कविचारसम्प्रयुक्तत्वात्। उक्तञ्च सूत्रे-प्रथमध्यानस्य शब्दः कण्टक इति। अतो नाह तूष्णीभाव इति। (पृ) प्रथमध्यानस्य कस्मात् शब्दः कण्टको भवति। (उ) प्रथमध्याने समाधिगतं चित्तं कुसुमे सलिलवत् पेशलम्। द्वितीयध्यानादौ समाधिगतं चित्तं सर्जरस्रसतरुवत् सुदृढन्। स्पर्शादयोऽपि प्रथमध्यानस्य कण्टकाः। स्पर्शस्य प्रथमध्यानस्योत्थापकत्वात्। न तथा द्वितीयध्यानादेः। कस्मात्। प्रथमध्याने पञ्चविज्ञानानामव्युपशभात्। द्वितीयध्यानादौ च तेषां व्युपशमात्॥

नवानुपूर्व [विहारे]षु प्रथमध्यानवर्गः पञ्चषष्ट्युत्तरशततमः।

१६६ द्वितीयध्यानवर्गः

[पुनश्च योगावचरः] वितर्कविचाराणां व्युपशमात् अध्यात्मं सम्प्रसादनं चेतस एकोतिभावमवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसम्पद्य विहरति। (पृ) यदि वितर्कविचाराणां व्युपशमात् द्वितीयध्यानम्, तर्हि प्रथमध्यानं सवितर्कं सविचारमेष्टव्यम्। यथा द्वितीयध्याने प्रीतिरस्तीति व्युपशान्तप्रीति तृतीयध्यानमित्युच्यते। (उ) यथा प्रथमध्याने दुःखेन्द्रियेऽसत्यपि द्वितीयध्याने दुःखेन्द्रियव्युपशम उच्यते। तथेदमपि। (पृ) प्रथमध्याने दुःखेन्द्रियेऽसत्यपि [पञ्च] विज्ञानानि सन्ति। विज्ञानानि च दुःखेन्द्रियस्याश्रयाः। अत उच्यते प्रथमध्याने दुःखेन्द्रियस्याव्युपशमः। (उ) प्रथमध्याने सन्त्यपि विज्ञानानि न दुःखेन्द्रियस्याश्रया भवन्ति। (पृ)पञ्चविज्ञानस्वभावो दुःखेन्द्रियस्याश्रय[ता]। स्वाभाव्यात्प्रथमं ध्यानं सदुःखमुच्यते। (उ) तथा चे द्दौर्मनस्येन्द्रियं मनोविज्ञानस्वभावजमिति सर्वत्र भवेत्। (पृ) अधुना कस्मादुच्यते प्रथमध्याने दुःखेन्द्रियव्युपशमः। (उ) प्रथमध्यानसमाधिचित्तप्रत्यासन्नम्। असमाहितचित्तः कामधातुकप्रतीसंयुक्तानि विज्ञानान्युत्पादयति। तत्र दुःखेन्द्रियं भवति। अतो नोच्यते प्रथमध्याने दुःखे[न्द्रिय]व्युपशमः। (पृ) तथा चेत् प्रथमध्यानमपि दौर्मनस्येन्द्रियप्रत्यासन्नम्। तत् दौर्मनस्येन्द्रियमपि वक्तव्यं यदि द्वितीयतृतीयध्यानयोर्निरुद्धम्। (उ) कामाश्रयं दौर्मनस्येन्द्रियं कामश्रयप्रीतिजननम्। सुविशुद्धप्रीतिलाभिनोऽविशुद्धप्रीतिर्निरुध्यते। अतः प्रथमध्याने नास्ति दौर्मनस्येन्द्रियम्। असमाधिं निश्रित्य दुःखेन्द्रियमुत्पद्यते। प्रथमध्यानस्य विक्षिप्तचित्तप्रत्यासन्नत्वात् न[तस्य] व्युपशम उच्यते। यथा तृतीयध्याने दुःखं नास्ति। उच्यते च दुःखस्य सुखस्य च प्रहाणात् चतुर्थध्यानमुपसम्पद्य विहरतीति। तथेदमपि।

योगावचरः प्रथमध्यानेऽपरिपूर्णसमाधिः सदा वितर्कविचाराभ्यां विक्षिप्यत इत्यत उच्यते द्वितीध्याने वितर्कविचाराणां व्युपशम इति। अध्यात्मं सम्प्रसादनमिति। द्वितीयध्याने निभृतश्चित्तसमाधानाद्विक्षेपः सदा नावकाशं लभते। अध्यात्ममविक्षिप्तचित्तत्वादध्यात्मं सम्प्रसादनमित्याख्या। इदं द्वितीयध्यानस्य रूपम्। चेतस एकोतिभावमवितर्कमविचारमिति। चेतस एकोतिभावश्चेतस एकस्मिन् मार्गे विहरणं ध्यानमित्युच्यते। इदमेवाध्यात्मं सम्प्रसादनम्। एतत्समाधिलाभात् वितर्कविचारौ न भवतः। न यथा प्रथमध्याने चैत्ता वितर्कविचारस्थाः। उत उच्यते अवितर्कमविचारमिति।

समाधिजं प्रीतिसुखमिति। प्रथमध्याने विवेकात्प्रीतिं लभते। अत्र तु समाधिपरिनिष्पत्त्या प्रीतिं लभते। अत आह समाधिजमिति। (पृ) प्रथमध्यानगतप्रीतेः द्वितीयध्यानगतप्रीतेश्च को भेदः। (उ) प्रथमध्याने दौर्मनस्यव्युपशमात् प्रीतिः। द्वीतीयध्याने दुःखव्युपशमात् प्रीतिः। प्रथमध्याने प्रीतिरविशुद्धप्रीतिविरोधितया लभ्यते। यद्युभे अपि प्रीति तृष्णाप्रत्यये। तथापि प्रथमध्याने साऽतिपेशला।

(पृ) एतादृशोऽर्थः किं सास्रवः किमनास्रवः। (उ) सर्वं सास्रवम्। आत्मसंज्ञायां सत्यामस्ति प्रीतिः। यस्यानास्रवं चित्तम्। तस्य नास्त्यात्म[संज्ञा]। आत्मनोऽसत्त्वान्नास्ति प्रीतिः।

(पृ) असत्यास्रवे नास्ति प्रीतिरितीदमप्ययुक्तम्। भगवान् सप्तसम्बोध्यङ्गेषु प्रीतिसम्बोध्यङ्गमाह। प्रीतिसम्बोध्यङ्गन्तु अनास्रवम्। अतो ज्ञायतेऽस्त्यनास्रवा प्रीतिरिति। उक्तञ्च सूत्रे-प्रीतिमनस्कस्य कायः प्रश्रभ्यति। प्रश्रब्धकायः सुखं वेदयते इति। यदि नास्त्यनास्रवा प्रीतिः। नास्त्यनास्रवा प्रश्रब्धिः नास्तनास्रवं सुखमित्यपि भवेत्। परमकुशलधर्मचारिणः परिषद्गणान् पश्यतो भगवतः प्रीतिर्भवति। अतो ज्ञायतेऽस्त्यनास्रवा प्रीतिरिति। (उ) सप्तभिः सम्बोध्यङ्गैरनास्रवां प्रीतिमधिगच्छतीति तव[मत] मिदमयुक्तम्। सम्बोध्यङ्गं द्विविधं सास्रवमनास्रवञ्चेति। यथोक्तं सूत्रे-यस्मिन् समये योगावचरो धर्मं शृणोति। अस्य पञ्च नीवरणानि तस्मिन् समये न भवन्ति, सप्तबोध्यङ्गानि च तस्मिन् समये भावनापरिपूरिं गच्छन्ति। सम्बोधिश्च असंम्बोधिज्ञानस्याख्या। यदि सम्बोधाय भवन्ति। अविशुद्धादिधर्माणामाचरणं सम्बोध्यङ्गमुच्येत। भवानाह-नास्त्यनास्रवा प्रीतिरित्यपि स्यादिति। पूर्वं प्रीतौ समुत्पन्नायां पश्चादनास्रवं यद्यथाभूतदर्शनं प्रतिलभते। न च सर्वाः प्रश्रब्धयः प्रीतिं प्रतीत्य भवन्ति। यथा द्वितीयध्याने प्रीतिर्नास्ति, अस्ति च प्रश्रब्धिः। न वयं ब्रूमो ज्ञानविनिर्मुक्तोऽस्ति पृथग्वेदनाधर्म इति। इदमनास्रवं प्रथमतश्चित्तगतं सुखमित्युच्यते। अतोऽस्त्यनास्रवं सुखम्। न तु प्रीतिं प्रतीत्य भवति। किञ्चोक्तं सूत्रे-कायचित्तयोर्दौष्ठल्यापनयनं प्रश्रब्धिः। अनास्रव[ज्ञान]प्रतिलम्भकाले कायचित्तयोर्दान्तत्वात् अस्त्यनास्रवा प्रश्रब्धिः। भगवान् सदोपेक्षाचित्ते विहरतीत्यत आह-अस्ति भगवतः प्रीतिरिति। इदं वस्तु प्रकाशयितव्यम्।

यस्य नास्त्यात्मा। न तस्यास्ति प्रीतिः। यद्यर्हतोऽस्ति प्रीतिः। दौर्मनस्यमपि भवेत्। वस्तुतस्तु नास्ति दौर्मनस्यम्। अतो ज्ञायते नास्ति प्रीतिरिति। (पृ) यथा द्वितीयध्यायेऽस्ति प्रीतिः नास्ति तु दौर्मनस्यम्। तथा अर्हतोऽपि प्रीतिरस्ति न दौर्मनस्यम्। को दोषः। (उ) सर्वेषु ध्यानसमाधिषु अस्ति दौर्मनस्यं यथा इन्द्रियार्थेषूच्यते। दौर्मनस्यं प्रीतिश्च यावद्भवाग्रं[भवति]। सुखदुःखे च यावच्चत्वारि ध्यानानि कायमनुगच्छतः। किञ्च तृतीयध्यानगतः प्रीतेर्विरागादुपेक्षको विहरतीत्युच्यते। अतो नास्त्यनास्रवा प्रीतिरिति। यद्यस्ति, कथं विरागादिति वचनं भवेत्। अनास्रवे चित्ते च प्रीति र्न भवेत्। प्रीतयः सर्वाः प्रज्ञप्तिसंज्ञाविकल्पं निश्रित्य भवन्ति।

(पृ) तथा चेत् प्रथमद्वितीयध्यानयोर्नास्त्यनास्रवा वेदना। उक्तं हि सूत्रे-प्रथमद्वितीयध्यानयोः केवलं प्रीतिरस्ति न चैतसिकं सुखमिति। इदानीं प्रीतिरपि नास्ति। किमस्ति पुनः। (उ) इयं प्रीतिः प्रीतेर्विरागादित्यादि नानास्रवं ध्यानमाह। किञ्चित्पुनः सूत्रमाह-अनास्रवं ध्यानम्, यद्योगावचरो यदाकारं यदालम्बनं प्रथमध्यानमुपसम्पद्य विहरति। न तदाकारं तदालम्बनं स्मरति। किन्तु पश्यति प्रथमध्यानगतानि रूपवेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतो यावदनात्मतः।

(पृ) रोगतो गण्डतः शल्यतोऽघत इत्येतानि चत्वारि लोकचरितानि नानास्रवाणि। अत इदं सूत्रं प्रमाणीकृत्य नानास्रवं साधयितुं शक्नोषि। (उ) इमे चत्वार आकारा दुःखस्य नामान्तराणि। अतोऽनास्रवाणि। (पृ)शैक्षस्यापि किं नास्त्यनास्रवा प्रीतिः। (उ) मार्गचित्तगतस्य नास्ति प्रीतिः। व्यवहारगतस्य त्वस्ति। अशैक्षस्य सर्वदा नास्ति। (पृ) उक्तं हि सूत्रे-प्रीतिसुखचित्तेन चत्वारि सत्यानि प्रतिलभत इति। कथमाह-नास्त्यनास्रवा प्रीतिरिति। (उ) अनात्मचित्तमेव सुखम्। योगावचरः प्रतिलब्धानात्मचित्तो विपर्ययं विनाशयति। परमार्थज्ञानात्तु चित्तं प्रमोद्यते। न पृथगस्ति प्रीतिः। किञ्च तत्सूत्रं प्रकाशयति न प्रीत्या परमार्थज्ञानं प्रतिलभत इति। अत एवमुच्यते॥

द्वितीयध्यानवर्गः षट्‍षष्ट्युत्तरशततमः।

१८० अन्तिमसंज्ञात्रितयवर्गः

प्रहाणसंज्ञेति। यथा चतुर्षु सम्यक्‌प्रधानेषूक्तम्-उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय [छन्दं जनयति व्यायमति] वीर्यमारभते। [चित्तं प्रगृह्णाति प्रदधाति] इति। इमे च पापका अकुशला धर्मा नरकादिदुःखक्लेशानां प्रत्ययाः। पापकीर्तिशब्दानां चित्तपरितापादिदुःखानाञ्च मूलम्। तस्मात्प्रजह्यात्।

(पृ) कथं प्रजहाति। (उ) धर्माणामकरणं प्रतिब्धस्तस्मिन् समये प्रजहाति। अयोनिशो मनस्कारः कामरागादीनां क्लेशानां प्रत्ययः। तन्मनस्कारप्रहाणात् ते धर्माः प्रहीयन्ते। (पृ) इमां प्रहाणसंज्ञां भावयन् किं हितं विदन्ते। (उ) तां संज्ञां भावयन् सदा न पापकान् धर्माननुवर्तते। कर्तव्य[मेव] करोति। अष्टावक्षणांश्च वर्जयति। पुरुषस्यात्महितं यदुतक्लेशानां प्रहाणम्। क्लेशप्रहाणाभिरति धर्मची वरसंवृतलिङ्गस्य प्रव्रजितस्य हितम् तया नोचेत् स्वकायमेव मन्येत। यदि योगी प्रहाणसंज्ञाभावनायामभिरतः, तदा बुद्धे धर्मपूजां करोति।

विरागसंज्ञा निरोधसंज्ञा इति। रागे चात्यन्तानुत्पन्ने विरागो भवति। तद्विरागानुस्मरणमेव विरागसंज्ञा। (पृ) प्रहाणसंज्ञैव विरागसंज्ञेति मतम्। कस्मात्पुनरुच्यते। (उ) प्रहाणाल्लभ्यते विरागम्। प्रहाणं नाम कामरागस्यापनयनम्। यथोक्तं सूत्रे-कामरागस्य प्रहाणात् पञ्चस्कन्धाः प्रहीयन्ते इति। प्रहाणसंज्ञा च विरागसंज्ञा। कस्मात्। तस्मिन् समये नास्ति कामः, तस्य धर्मस्य प्रहाणं भवति। अतो विरागसंज्ञालाभिनो दुःखक्लेशाः निरुध्यन्ते। यथोक्तं सूत्रे-वीतरागो विमुच्यते इति। विमुक्तिलाभ एव प्रहाणम्। अनुपधिशेष[निर्वाणं] प्रविष्ठस्य निरोधो भवति। उक्तञ्च सूत्रे-त्रयः स्वभावाः प्रहाणस्वभावो विरागस्वभावो निरोधस्वभाव इति। यदुच्यते प्रहाणस्वभावो विरागस्वभाव इति तदर्हत एव भवति। स हि प्रहीणसर्वक्लेशस्त्रैधातुकविरक्तः सोषधिशेषनिर्वाणे तिष्ठति। यदुच्यते निरोधस्वभाव इति तदायुषोऽन्ते जीवितव्यपगमे प्रहीणसन्तानस्य। निरुपधिशेषनिर्वाणं समापन्नस्यैव भवति।

अस्ति च द्विधा विमुक्तिः प्रज्ञाविमुक्तिश्चेतोविमुक्तिरिति। यदभिहितं प्रहाणमिति तत् अविद्यां प्रजहातीति प्रज्ञा विमुच्यते। यद्विराग इति तत् तृष्णां विवर्जयतीति चेतो विमुच्यते। द्वयोर्विमुक्तयोः फलं निरोधो भवति। यत्‌प्रहाणसंज्ञेत्यभिधानं तदेवाविद्यास्रवप्रहाणस्याभिधानं यन्निरोधसंज्ञेति तदनयोर्द्वयोः फलम्। यथोक्तं सूत्रे-सर्वसंस्काराणां प्रहाणात् प्रहाणम्। सर्वसंस्कारेषु विरागाद्विरागः। सर्वसंस्काराणां निरोधात् निरोध इति। तथा चेमे त्रय एकस्यैव नामान्तरम्। योऽनित्यसंज्ञां यावन्निरोधसंज्ञां भावयति स कृतसर्वकृत्यो निरुद्धसर्वक्लेशः प्रहीणस्कन्धसंयोजनसन्ततिर्निरुपधिशेषनिर्वाणं समापद्यते।

अन्तिमसंज्ञात्रितयवर्गोऽशीत्युत्तरशततमः।

१८१ समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्गः

(पृ) पूर्वमुक्तं भवता-मार्गसत्यं [द्विविधं] यत् समाधिः तत्परिष्कारश्चेति। तत्र समाधिरुक्तः। समाधिपरिष्कार इदानीं वक्तव्यः। यस्मात् सति समाधिपरिष्कारे समाधिः सिध्यति न त्वसति। (उ) समाधिपरिष्कारा य एकादशधर्माः- (१) परिशुद्धशीलता, (२) अभिसम्बोधिप्रतिलाभः, (३) इन्द्रिये गुप्तद्वारता, (४) भोजने मात्रज्ञता, (५) रात्र्या आद्यान्तिमभागे जागरणता, (६) कुशलवितर्कसम्पन्नता, (७) कल्याणाधिमुक्तिसम्पन्नता, (८) प्रधानीयाङ्गसम्पन्नता, (९) विमुक्त्यायतनसम्पन्नता, (१०) अनावरणता, (११) अनासङ्गिता इति।

परिशुद्धशीलतेति। अकुशलकर्मणो विरतिः शीलम्। अकुशलकर्माणि यानि प्राणातिपातादत्तादानकाममिथ्याचाराणि त्रीणि कायिककर्माणि। मृषावाद पिशुनवाचा परुषवाचा सम्प्रलाप इतीमे चत्वारि वाचिककर्माणि। एभ्यः पापकेभ्यो विरतिः शीलम्। वन्दनप्रत्युद्गमनानुव्रजनपूजादिसद्धर्माचरणमपि शीलमित्युच्यते। शीलं समाधिहेतुं करोतीति समादीयते। तथा हि तद्यथा सुवर्णकारः पूर्वं स्थूलमलमपनयति। एवं प्रथमतः शीलसमादानेन स्थूलान् शीलदोषानपनयति। पश्चात्समाध्यादिना अन्यान् सूक्ष्मदोषानपनयति। यस्मादसति शीलसमादाने ध्यानसमाधिर्न भवति। शीलसमादान प्रत्ययात्तु ध्यानसमाधिः सुलभो भवति। यथोक्तं सूत्रे-शीले मार्गस्य मूलं सोपानञ्चेति। किञ्चाह-शील प्रथमरथ[विनीत]म् इति। प्रथमं रथ[विनीत] मनभिरुह्य द्वितीयं रथ[विनीतं]कथमभिरोहति। अपि चाह-शीलं समा भूमिः। इमां समां भूमिं व्यवस्थाप्य चत्वारि सत्यानि पश्यति इति। आह च-द्वे बले। [कतमे द्वे।] प्रतिसंख्याबलं भावनाबलञ्चेति। प्रतिसंख्याबलं शीलसमादानमेव। भावनाबलं मार्गः। पूर्व शीलभेदापत्तिं शीलसमादानहितञ्च प्रतिसंख्यया विचार्य शीलं समादत्ते। पश्चात् प्रतिलब्धमार्गः पापकात्प्रकृत्या विरमति। किञ्चाह-शीलं बोधिवृक्षस्य मूलमिति। असति मूले नास्ति वृक्षः। अतः परिशुद्धशीलाऽऽवश्यकी।

धर्म[ता] च तथैव स्यात्। असति शीलसमादाने न भवति ध्यानसमाधिः। तद्यथा व्याधिचिकित्साया औषधमपेक्ष्यते। तथा क्लेशव्याधिचिकित्साया असति शीले न सम्पद्यत औषधम्। आह च-परिशुद्धशीलस्य चित्तं नानुतप्यति। यावद्विरक्तचित्तो विमुच्यत इति। इमे सर्वे गुणाः शीलसमादानाधीनाः। अतः समाधिपरिष्कार इत्युच्यते।

अस्ति च कर्मावरणं, क्लेशावरणं, अनयोर्द्वयोः फलं विपाकावरणम्। परिशुद्धशीलस्येमानि त्रीण्यावरणानि न भवन्ति। अनावृतचित्तस्य समाधिः सिध्यति। परिशुद्धशीलो न विक्षिपतीत्यतो नियमेन निर्वाणमधिगच्छति गङ्गास्त्रोतसि दारुस्कन्धवत्। परिशुद्धशीलसमादानात् व्यवस्थां करोति। शीलसमादानं कायिकं वाचिकमकुशलं कर्म प्रतिषेधयति। ध्यानसमापत्तिर्मानसमकुशलं कर्म प्रतिषेधयति। एवं क्लेशानां प्रतिषेधे प्रतिलब्धतत्त्वज्ञानस्यात्यन्तिकप्रहाणं भवति।

मार्गवर्गेऽसकृद्दर्शितं शीलं स्तम्भभूतमिति। ध्यानसमाधिचित्तनगरस्य शीलं परिघा भवति। संसारौघतरणस्य शीलं सेतुः। सज्जनपरिषदि प्रवेशस्य शीलं मुद्रा। अष्टाङ्गिकार्यक्षेत्रस्य शीलं पारभूतम्। यथा पाररहिते क्षेत्रे जलं न तिष्ठति। एवं परिशुद्धशीलेऽसति समाधिजलं न तिष्ठति। (पृ) कः परिशुद्धशीलः। (उ) यो गोगी पापक्रियानभिरताध्याशयः परलोकपरिवादादिभ्यो बिभ्यति। [स] परिशुद्धशील इत्युच्यते। किञ्च योगी चित्तविशुद्धये परिशुद्धशीलो भवति। यथोक्तं सप्तमैथुनरागसूत्रे-कायेऽनापत्तिकेऽपि चित्तमपरिशुद्धमित्यतः शीलमप्यपरिशुद्धमिति। शीलभेदप्रत्ययाः सर्वे क्लेशाः। तेषां प्रग्रहे परिशुद्धशीलो भवति। श्रावकाणां शीलं निर्वाणार्थमेव। तथागतमार्गार्थी महाकरुणाचित्तेन सर्वसत्त्वानां कृते न शीललक्षणं समादत्ते। शीलमिदं [तथा] करोति यथा बोधिस्वभावो भवति। ईदृशं शीलं परिशुद्धमित्युच्यते।

अभिसम्बोधिरिति। उक्तं हि सूत्रे-द्वौ खल्वायुष्मन् प्रत्ययौ सम्यक्‌दृष्टेरुत्पादाय परतो घोषो योनिशो मनस्कार इति। परतो घोष एवाभिसम्बोधिः। (पृ) तथा चेत् अभिसम्बोधिमात्रमुच्यते। (उ) उक्तं हि सूत्रे-[अन्यतरो]ऽर्हन् भगवन्तं पृच्छति स्म एकान्ते निषण्णस्य मम एवमभवत्-अभिसम्बोधिसम्पदा तु मार्गप्रतिलाभस्य विकलः प्रत्यय इति। भगवानवोचत्। मैवं वोचः याऽभिसंबोधिः सा तु मार्गस्य प्रतिलाभस्य सकलः प्रत्ययः। कस्मात्। जातिजराव्याधिमरणाः सत्त्वा आत्मनोऽभिसम्बोधिं लभमाना हि जातिजराव्याधिमरणेभ्यो विमुच्यन्ते इति। सत्त्वाः सम्बोधिमुपादाय शीलादीन् पञ्चधर्मात् विपुलयन्ति। तद्यथा सालवृक्षो हिमवन्तमुपादाय पञ्च वस्तूनि वर्धयति। भगवान् स्वयमेव सम्बोध्यभिरतः। यथा प्रथममार्गलब्धस्यैवमभवत्-यदि कश्चिदगुरः, तदा सोऽपरित्रासोऽसत्कारचित्तः सदा अकुशलधर्मविपर्यस्तोऽनुपशमचर्यश्च भवति। केनाचार्यवान् स्याम्। कमुपनिश्रित्य तिष्ठामि। एवं चिन्तयन् सर्वान् मत्तोऽविशिष्ठानद्राक्षम्। तदैव स्मृतिरुदपादि प्रतिलब्धो मया धर्मः यमुपादायाभिसम्बुद्धः तमेव धर्ममुपनिश्रयिष्य इति। ब्रह्मादयो देव अपि प्राशंसन् नास्ति कश्चित् बुद्धाद्विशिष्टः, सर्वे बुद्धाः सद्धर्मगुरुका इति। अभिसम्बोधिश्च प्रदीपसदृशा। यथा कश्चित् सचक्षुष्कोऽपि प्रदीपं विना न पश्यति। तथा योगिनः पुण्यगुणतीक्ष्णेन्द्रियताप्रत्यये सत्यपि अभिसम्बोधिं विना न भवति कश्चनोपकारः। (पृ) का नामाभिसम्बोधिः। (उ) येन पुरुषः सद्धर्मान् वर्धयति साभिसम्बोधिः। सर्वे च सज्जनाः सद्धर्मे प्रतितिष्ठन्ति [इति सा] सर्वा देवमनुष्यलोकेष्वभिसम्बोधिः।

(३) इन्द्रियेषु गुप्तद्वारतेति या सम्यक् स्मृतिः। योगी स्वात्मानमनारक्ष्य न पश्यति। एकाग्रचित्तः सम्यक् स्मृतिं पुरस्कृत्यैव पश्येत्। संप्रजन्यमिति च [तस्य] नाम। अनेन सम्प्रजन्येन पुरोतमालम्बनं पर्यादाति। तत्पर्यादानान्न निमित्तमुद्‍गृह्णाति। निमित्तानुद्‍ग्रहणात् न प्रज्ञप्तिमनुसरति। इन्द्रियाणामगोपने निमित्तोद्‍ग्रहणात् क्लेशाः पञ्चेन्द्रियाणि स्त्रोतोवत् प्रवर्तयन्ति। तदैव शीलादीन् सद्धर्मान् विनाशयति। य इन्द्रियेषु गुप्तद्वारो भवति तस्य शीलादयः सुदृढा भवन्ति।

(४) भोजने च मात्रज्ञतेति। न रूपबलाय [न] मैथुनाय[न] कामानामास्वादाय भोजनम्। [यावदेवास्य] कायस्य यापनाय। (पृ) योगी कस्मात्काययापनं करोति। (उ) सद्धर्मस्य भावनायै। यः सद्धर्मादुपरमते तस्य मार्गो न भवति। असति मार्गे दुःखाद्विसंयोगो न भवति। यदि कश्चित् कुशलस्य भावनायै न भुनक्ति। तदा [स] वधकं चोरमेव पुष्णाति। दानपतेः पुण्यञ्च विनाशयति। जनानां सत्कारञ्च मोधयति। एवं न भुञ्ज्यात् जनानां भोजनम्। (पृ) भोजने च का मात्रा। (उ) यथा कायं यापयति। सा मात्रा। (पृ) किं भोजनं भुञ्ज्यात्। (उ) यत् भोजनं शीतोष्णादि व्याधिं कामक्रोधाद्याधिञ्च न वर्धयति। तत् भुञ्ज्यात्। तदपि भोजनं यथाकालं भुञ्ज्यात्। भोजनमिदमस्मिन् काले शीतोष्णकामक्रोधाधिव्याधिं वर्धयतीति प्रजानन् न भुञ्ज्यात्।

(पृ) तीर्थिका वदन्ति-यः परिशुद्धमाहारं भुङ्क्ते स परिशुद्धं पुण्यं विन्दते। यत् यथेष्ठमभिमतरूपरसगन्धस्पर्शवत् अप्‌प्रोक्षितमभिनिमन्त्रितं भुञ्ज्यते तत् परिशुद्धमित्युच्यते। कथमिदम्। (उ) भोजने नास्ति प्रतिनियता परिशुद्धिः। कस्मात्। यदि परिभोगेनाहारोऽपरिशुद्धो भवति। सर्व आहारा नापरिभोज्याः। यथा स्तन्यं वत्सपरिभुक्तम्। मधु मक्षिकापरिभुक्तम्। आपः क्रिमिपरिभुक्ताः। कुसुमं भ्रमपरिभुक्तम्। फलं पक्षिपरिभुक्तम् इत्यादि। किञ्चायं कायोऽशुचिसम्भूतः। कायस्वभावोऽशुचिः अशुचिपरिपूर्णः। आहारः पूर्वमेवाशुचिः पश्चादपि कायं प्रविष्टो नैकधाऽशुचिर्भवति। दोषविपर्ययेण परं शुचिरिति मिथ्या वदन्ति। (पृ) यद्यत्यन्तमशुचिः [कायः]। तदा चण्डालादिभिः को विशेषः। (उ) प्राणातिपाताद्विरतिरदत्तादानाद्विरतिर्मिथ्या जीवाद्विरतिरित्यादिना अनुरूपमाहारं लब्ध्वा आहारे च प्रतिकूलसंज्ञां दृष्ट्वा प्रज्ञाजलप्रोक्षितमथ तावद्भुङ्‍क्ते। न केवलं जलप्रोक्षितं पुनः शुचिर्भवति।

(५) रात्र्य आद्यान्तिमभागे जागरणतेति। योगी प्रजानाति व्यवसायाधीना कार्यसिद्धिरिति। अतो न निद्राति। पश्यति न मिद्धं वृथा, नानेन किञ्चिल्लभ्यत इति। यदि भवान् मिद्धं सुखं मन्यते। तत् सुखमत्यल्पं दृष्टञ्च अपार्यप्रवचनम्। किञ्च योगी क्लेशैः सममेकत्र नाभिरमते। यथा कश्चिच्चोरैः सह वासे नाभिरमते। कथं कश्चित् लोके चोराणां रणभूमौ निद्रास्यति। अतो न निद्राति।

(पृ) मिद्धं गाढमागतं कथं निरुणद्धि। (उ) अयं भगवच्छासनास्वादनेऽधिचित्तं प्रीतिञ्च लब्ध्वा निरुणद्धि। संसारे च जराव्याधिमरणदोषाननुस्मरतश्चित्तं बिभ्यति। अतो न निद्राति। किञ्च योगी पश्यति-मनुष्यकायो लब्धः समग्राणीन्द्रियाणि, प्राप्तं बुद्धशासनमनर्घम्, साध्वसाधुविवेकोऽतिदुष्करः, इदानीं तरणं नान्विष्यामि, कदा विमोक्षिष्य इति। अतो मिद्धं तिरस्कर्तुं वीर्यमारभते।

समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्ग एकाशीत्युत्तरशततमः।

१८२ अकुशलवितर्कवर्गः

कुशलवितर्कसम्पन्नतेति। यदि कश्चिदनिद्रन्नपि अकुशलवितर्कानुत्पादयति यदुत कामवितर्को व्यापादवितर्को विहिंसावितर्को जातिवितर्को जनपदवितर्कोऽमरणवितर्कः परानुग्रहवितर्कः परावमन्यनावितर्क इत्यादयः। वरं मिद्धम्, नैषामकुशलानां वितर्काणामुत्पादः। नैष्क्रम्यादिकुशलवितर्कान् सम्यगनुस्मरेत् यदुत नैष्क्रम्यविर्तर्कोऽव्यापादाविहिंसावितर्कोऽष्टमहापुरुषवितर्कः।

कामवितर्क इति। यत् कामं निश्रित्य पञ्चकामगुणेषूत्पन्नवितर्कः पश्यति हितं सुखमिति। अयं कामवितर्कः। सत्त्वानां विहिंसार्थो[वितर्को] व्यापादवितर्को विहिंसावितर्कः। योगी नानुस्मरेदिमांस्त्रीन् वितर्कान्। कस्मात्। ताननुस्मरन् हि गुरुतरं पापं विन्दते। पूर्वमुक्त एव कामादीनामादीनवः। तेषामादीनवत्वान्नानुस्मरेत्।

(पृ) मोहवितर्कः कस्मान्नोक्तः। (उ) इमे त्रयोऽकुशलवितर्काः क्रमिकाः। अन्ये क्लेशास्तु नैवं भवन्ति। योगी कदाचित्पञ्चकामगुणानुस्मरणात्कामवितर्कमुत्पादयति। कामितालाभाव्द्यापादो भवति। व्यापादसंसिद्धा विहिंसा। अतो नोक्तो मोहादिः। मोहसंसिद्धमेव फलं यदुत व्यापादः। यदि व्यापादादकुशलः कर्मान्तो भवति। ते त्रयो वितर्का अकुशलकर्महेतवो भवन्ति। यथोक्तं सूत्रे-अयं वल्मीको रात्रौ धूमायति। दिवा प्रज्वलति। [यत्खलु भिक्षो दिवा कर्मान्तानारभ्य रात्रा] वनुवितर्कयति [अनुविचारयति] इदं [रात्रौ] धूमायनम्। [यत्खलु भिक्षो रात्रावनुवितर्कयित्वा दिवा] कर्मान्तान् [प्रयोजयति कायेन वाचा मनसा। इदं [दिवा] प्रज्वलनम्।

ज्ञातिवितर्क इति। ज्ञातिवशादुत्पद्यन्तेऽनुस्मरणानि। ज्ञातिः क्षेमखुखं विन्दतु इतीच्छति। तस्य विनाशविहिंसामनुस्मरतः शोक उत्पद्यते। यत् ज्ञातिभिरेककार्याण्यनुस्मरति [अयं] ज्ञातिवितर्कः। योगी नानुस्मरेदिमं वितर्कम्। कस्मात्। पूर्वमेव हि प्रव्रज्याकाले ज्ञातीन् त्यक्तवान्। इदानीं तद्विकर्माश्रयणं नानुरूपं भवति। यदि प्रव्रजितः इमं ज्ञातिवितर्कमनुस्मरति। तदा गृहपरिवारपरित्यागो वृथाऽकिञ्चित्साधनः। ज्ञातिस्नेहादध्यवसानं भवति। अध्यवसानादारक्षा। आरक्षाप्रत्ययं दण्डादानशस्त्रादानादिकर्माऽनुक्रमं प्रवर्तते। अतो नोत्पादयेत् ज्ञातिवितर्कम्। ज्ञातिसमागमे च कुशलधर्मं न वर्धयति। योगिना स्मर्तव्यं सर्वेषु सत्त्वेषु जननमरणप्रवाहप्रवृत्तेषु नास्ति ज्ञातिरज्ञातिः। कस्मात् पर्यासज्यते इति। संसारे ज्ञात्यर्थमेव शोककरुणपरिदेवाश्रूणि महासागरनिर्वर्तनानि भवन्ति। इदानीं पुनरध्यवसाने दुःखमनवस्थमेव। सत्त्वाश्च कार्यनिमित्तं हि मिथः स्निह्यन्ति। नास्ति तु कुत्रचित् स्नेहनैयत्यम्। ज्ञातीनामनुस्मरणमिदं मोहलक्षणम्। लौकिका मूढाः स्वहितविहीनाः परहितं कामयन्ते। ज्ञातिमनुस्मरतः स्वहितमत्यल्पं भवति। इत्येभिः [कारणैः] योगी न ज्ञातिवितर्कमुत्पादयेत्।

जनपदवितर्क इति। योगी [कश्चित्] चिन्तयति-अमुको जनपदः सुखः क्षेमः शिवः, तत्र गत्वा निभृतं सुखं लप्स्य इति। चित्तञ्च चपलं सर्वत्र भ्रमणदर्शनकांक्षीति। योगी नेदृशं वितर्कमुत्पादयेत्। कस्मात्। सर्वेषु हि जनपदेषु अस्ति कश्चिद्दोषः। कश्चिज्जनपदोऽतिशीतः। कश्चिदत्युष्णः। कश्चित् क्षामबहलः। कश्चिच्चोरबहुलः। एवमादयो विविधा दोषाः सन्तीत्यतो न चिन्तयेत्। यश्चपलः स ध्यानसमाधेः परिहीयते। यत्राभिरतः कुशलधर्मं वर्धयति अयं रमणीय इत्युच्यते। क उपयोगो जनपदानां पर्यालोकनेन। सर्वो जनपदो दूरत एव श्राव्यो नावश्यं गत्वा श्लाघनीयः। लौकिका बहुधा दुष्टा इति वचनात्। जनपदेषु भ्रमणी नानादुःखान्यनुभवति। कायोऽयं दुःखहेतुः। दुःखहेतुमिमं कायं धृत्वा यत्र यत्र गच्छति तत्र तत्र दुःखान्यनुभवति। सुखदुःखवेदना कर्मकारणाधीना। सुदूरं गच्छतोऽपि नास्ति कश्चनोपकारः। अतो न जनपदवितर्कमुत्पादयेत्।

अमरणवितर्क इति। योगी चिन्तयत्येवम्-मार्गो मया पश्चाद्भावयितव्यः। आदौ सूत्रविनयाभिधर्मक्षुद्रकपिटकबोधिसत्त्वपिटकान्यध्येतव्यानि। बाह्यग्रन्थाश्च सुविस्तरमभ्यसितव्याः। बहवः शिष्या आर्जयितव्याः। कल्याणमित्रमुपस्थाय चतुरस्तूपान् वन्दित्वा जनान महादानं कर्तुं प्रोत्साह्य च पश्चान्मार्गो भावयितव्य इति। [अय]ममरणवितर्कः। नैवं चिन्तयेत् योगी। कस्मात्। न हि मरणकालो नियतः। न पूर्वमेव ज्ञेयः। वृत्त्यन्तरेषु व्यापृतेन न मार्गो भावितुं शक्यः। पश्चान्मरणकाले समुपस्थिते चित्तं कौकृत्येन पीड्यते। मयाऽयं कायो वृथा पोषितः न किञ्चिल्लब्धम्। पशुभिः समं म्रियत इति। यथोक्तं सूत्रे-पृथग्जनो विंशतिधा स्वचित्तं निगृह्येवं चिन्तयेत्-विभिन्नाकारवेषमात्रं मम वृथा [सर्वं] न किञ्चिल्लब्धम्, यावदामरणमदान्तो भविष्यामीति। पण्डितो न करोत्यकार्यम्। यथोक्तं धर्मपदे-

[येषाञ्च सुसमारब्धा नित्यं कायगता स्मृतिः]
अकृत्यं ते न सेवन्ते नित्यं सातत्यकारिणः।
स्मृतानां सम्प्रजानानामस्तं गच्छन्ति चास्रवाः॥ इति।

अपि चोक्तं सूत्रे-
चतुस्सत्येष्वलाभी [यः] कामान् लब्धुमुपायतः।
यत्नेन वीर्यमातिष्ठेत् भृशं तत्परिपालने॥ इति।

अतो नामरणवितर्कमुत्पादयेत्। अमरणवितर्कश्च मूढस्य प्राणितम्। को ज्ञानी तृणाग्रेऽवश्यायबिन्दुवत् जीवितमध्रुवं ज्ञात्वा क्षणमेकं जीवेयमिति [मन्येत]। उक्तञ्च सूत्रे-भगवानवोचत् कथं पूनर्यूयं भिक्षवो भावयथ मरणस्मृतिम्। [अन्यतरो भिक्षु] र्भगवन्तमवोचत्-[इह ममैवं भवति-अहो वत] अहं सप्त वर्षाणि न जीवेयमिति। एवमपचयोऽभूत यावन्मुहूर्तं न [जीवेय] मिति। अन्य[तरो भिक्षुर्भगवन्तमेतदवोचत्] अहं षड् वर्षाणि न जीवेयमिति। एवमपचयोऽभूत्-यावन्मुहूतमपि [न जीवेय] मिति। एवमुक्ते भगवान् तान् भिक्षूनेतदवोचत्-यूयं भिक्षवः प्रमत्ता [विहरथ, दन्धा] मरणस्मृतिं भावयथ इति। अन्यतरो भिक्षु [र्भगवन्त]मुपेत्यावोचत्[ममैवं भवति अहो बत] अहं [तदन्तरं] न जीवेयं यदन्तरं आश्वसित्वा प्रश्वसामि प्रश्वसित्वा वाऽऽश्वसामि इति। भगवानवोचत्-साधु साधु त्वं [खलु भिक्षो] भावयसि मरणस्मृतिम् इति। अतो नोत्पादयेदमरणसंज्ञाम्।

परानुग्रहवितर्क इति [उद्-] बन्धावनुग्रहप्रापणमिच्छति। यद्येवं चिन्तयति- अमुकं धनमानसुखानां दानमाचरयामि। अमुकस्तु नोपैति इति। योगी नेदृशं वितर्कमुत्पादयेत्। कस्मात्। नानया स्मृत्या परस्य सुखं दुखं वा प्रापयति। किन्तु समाहितं चित्तमेव विक्षिपति। (पृ) परस्यानुग्रहचिकीर्षा किं करुणाचित्तं ननु। (उ) योगी मार्गमर्थयन् चिन्तयेत्पारमार्थिकं हितं यदुत अनित्यतादि। यद्यप्यत्र किञ्चित्पुण्यमस्ति तथापि मार्गप्रतिरोधकस्य हितमल्पं, दोषस्तु बहुलः। समाहितचित्तस्य विक्षेपात्। यो व्यग्रचित्ततया परस्य हितमनुस्मरति। स कामासक्त्या नादीनवं पश्यति। अतो नानुचिन्तयेत्।

परावमन्यनावितर्क इति। यद्योगी चिन्तयति-गोत्रवंशाकृतिरूपधनमाननैपुण्येषु शीलतीक्ष्णेन्द्रियत्वध्यानसमाधिप्रज्ञादिषु च नायं मत्सम इति। नेदृशं योगी वितर्कमुत्पादयेत्। कस्मात्। सर्वेषां वस्तुनामनित्यत्वात्। य उत्तमोऽधम इति। तेषु को विशेषोऽस्ति। एषां कायकेशरोमनखदन्तं सर्वमशुचि, समं भवति न विषमम्। जराव्याधिमरणादिविपदपि समा। सर्वेषां सत्त्वानामध्यात्मं बहिर्धा च दुःखविहिंसाऽपि समा न विषमा। पृथग्जनानां धनसमृद्धिः पापप्रत्यया। धनसमृद्धिश्च न दीर्घकालिकी। [अतः] पुनर्दरिद्रो भवति। अतो न परावमन्यनावितर्कमुत्पादयेत्। अयं मानोऽविद्याङ्गम्। विद्वान् कथमिमं वितर्कमुत्पादयिष्यति॥

अकुशलवितर्कवर्गो द्व्यशीत्युत्तरशततमः।

१८३ कुशलवितर्कवर्गः।

नैष्क्रम्यवितर्क इति प्रविवेकाभिलाषिचित्तता। यत् पञ्चकामगुणेभ्यो रूपारूप्यधातुभ्यश्च प्रविवेकः। अस्मिन् प्रविवेकेऽभिलाषो नैष्क्रम्यवितर्कः। प्रविवेकाभिलाषादस्मा द्दुःखानामसम्भवात्। कामासक्तिवशाद्धि दुःखं भवति। असत्यां कामासक्तौ सुखं भवति।

वितर्केषु द्वौ वितर्कौ सुखं यदुताव्यापदवितर्कोऽविहिंसावितर्कः। कस्मात्। द्वौ हीमौ वितर्कौ क्षेमवितर्कौ। यथोक्तं तथागतवर्गे-तथागतस्य खलु द्वौ वितर्कौ नित्यमुपतिष्ठतो यदुत योगक्षेमवितर्कः प्रविवेकवितर्कश्च इति। योगक्षेमवितर्कः अव्यापादाविहिंसावितर्क एव। प्रविवेकवितर्को नैष्क्रम्यवितर्कः। त्रीनिमान् वितर्कयतः पुण्यं वर्धते। समाहितचित्तत्तापि सिध्यति। चित्तं विशुध्यते च। त्रीनिमान् वितर्कान् वितर्कयन् पर्युत्थानानि प्रतिहन्ति। पर्युत्थानानां समुच्छेदात् प्रहाणं साक्षात्करोति। किञ्च योगी प्रविवेकामिलाषया बहूनां कुशलधर्माणामुपचयादाशु विमुच्यते।

अष्टमहापुरुषवितर्क इति अल्पेच्छस्यायं धर्मो ना[यं धर्मो] महेच्छस्य। सन्तुष्टस्या[यं धर्मो नायं धर्मोऽसन्तुष्टस्य]। प्रविविक्तस्य [अयं धर्मो नायं धर्मः सङ्गणिकारामस्य]। आरब्धवीर्यस्य [अयं धर्मो नायं धर्मः कुसीदस्य]। उपस्थितस्मृतिकस्य [अयं धर्मो नायं धर्मो मुष्टस्मृतिकस्य]। समाहितस्य [अयं धर्मो नायं धर्मोऽसमाहितस्य]। प्रज्ञावतो[ऽयं धर्मो नायं धर्मो दुष्प्रज्ञस्य]। निष्प्रपञ्चारामस्यायं धर्मो नायं धर्मः प्रपञ्चारामस्य इतीमेऽष्टौ।

अल्पेच्छो योगी यो मार्गं भावयितुमपेक्षितमिच्छति। न बहु प्रार्थयते अन्यदनुपयुक्तम्। अयमल्पेच्छः। सन्तुष्ट इति। कश्चित् [केनचित्] कारणेन वा शीलाय वा परस्य चित्तप्रसादनाय वाल्पं गृह्णाति न तु सन्तुष्टचित्तो भवति। योऽल्पं गृहीत्वा सन्तुष्टचित्तो भवति। अयं सन्तुष्टः। कश्चिदल्पं गृहीत्वाऽपि रमणीयं कामयते। अयमल्पेच्छो न सन्तुष्टः। योऽल्पलाभेन तृप्यति स सन्तुष्टः। (पृ) यद्यपेक्षितग्राही अल्पेच्छ इति। सर्वे सत्त्वा अल्पेच्छा भवेयुः। एषां प्रत्येकमपेक्षितत्वात्। (उ) योगी अनासक्तत्तित्ततया गृह्णाति उपयोगार्थमात्रं, न बहु गृह्णाति। न तु यथा लौकिका यशोमण्डनवर्धनाय बहु गृह्णान्ति। (पृ) योगी कस्मादल्पेच्छयः सन्तुष्टो भवति। (उ) [स] हि परिपालनादावादीनवं पश्यति। अनुपयुक्तद्रव्यसङ्‍ग्रहः सम्मूढस्य लक्षणम्। प्रव्रजितो न बहु सञ्चिन्वन्नवदातवसनैः समो भवेत्। तादृशदोषसत्त्वादल्पेच्छः सन्तुष्टो भवति। योगी यदि नाल्पेच्छः सन्तुष्टः, तदा कामचित्तं क्रमशो वर्धेत। धनलाभित्वादप्रार्थनीयं प्रार्थयीत। धनलाभाभिलाषश्च नैव संशाम्यति। [तत्र] अध्यवसायित्वात्। प्रविवेकसुखाय प्रव्रजितो धनकामितया तत्करणीयं विस्मरति। क्लेशानपि न प्रजहाति। कस्मात्। बाह्यपदार्थानेव न प्रजहाति। कः पुनर्वाद आध्यात्मिकान् धर्मान् प्रजहातीति। लाभदृष्टिर्विपत्तिविहिंसाहेतुः। यथा करकवृष्टिः सस्यानि विनाशयति। अतः सततमल्पेच्छसन्तुष्टतां भावयेत्।

दृश्यते च देयस्य पदार्थस्य प्रत्यर्पणं दुष्करम्। यठा ऋणी [ऋण]मप्रत्यर्पयन् पश्चात्तद्दुःखं व्यथामनुभवति इति। लाभसत्कारदृष्टिः बुद्धादिभिः सज्जानैस्त्यक्ता। यथाह भगवान्-नाहं लाभसत्कारमनुप्राप्नोमि मा लाभसत्कारो मामनुप्राप्नोत्विति। अयञ्च योगी सद्धर्मसन्तुष्टत्वाल्लाभसत्कारं प्रजहाति। यथाह भगवान्-देवा न प्रतिलभन्ते नैष्क्रम्यसुखं प्रविवेकसुखमुपशमसुखं यथा मया प्रतिलब्धम्। अतो लाभसत्कारं प्रजहामि इति। यथाह शारिपुत्रः-

अनिमित्तं भावयित्वा चाहं शून्यसमाधिना।
समीक्षे सर्ववस्तूनि खेटपिण्डान् यथा बहिः॥ इति।

किञ्च योगी पश्यति न कामोपभोगेन तृप्तिर्भवति। यथा लवणोदकं पिबन् न तर्षणमपनयति इति प्रज्ञां प्रर्थयानस्तृप्तो भवति।

महेच्छः सदा प्रार्थनामुत्पादयन् बहु प्रार्थयित्वाऽल्पं विन्दते। अतः सदा खिद्यते। पश्यामश्च भिक्षार्थी जनैरवमन्यते न सत्क्रियते यथाऽल्पेच्छः। प्रव्रजितो महत्प्रार्थयत इत्यकार्यमेतत्। जनैर्दत्तस्याग्रहणन्तु युक्तरूपम्। अतोऽल्पेच्छासन्तुष्टिमाचरेत्।

प्रविविक्त इति यत् गृहस्थप्रव्रजितयोः कायिकप्रविवेकसमाचारः क्लेशेषु मानसप्रविवेकसमाचारः अयं प्रविवेकः। (पृ) योगी कस्मात्प्रविविक्तो भवति। (उ) प्रव्रजिता अप्रतिलब्धमार्गा अपि प्रविवेकारामा भवन्ति। अवदातवसनादयः तत्स्थानगतस्त्रीरूपविक्षेपावकृष्टा न तत्र कदाचित्सुखिनो भवन्ति। प्रविवेके तु चित्तं सूपशमं भवति। यथा सलिलमनाविलं प्रकृतितः स्वच्छम्। अतः प्रविवेके चरति। प्रविवेकधर्मोऽयं गङ्गानदीवालुकासमैर्बुद्धैरभिसंस्तुतः। केनेदं ज्ञायते। भगवान् ग्रामोपकण्ठे निषण्णं भिक्षुं दृष्ट्वा अप्रीतमनस्को भवति। शून्यायतने च शयानं भिक्षुं दृष्ट्वा भगवान् प्रीतमनस्को भवति। तत्कस्य हेतोः। ग्रामोपकण्ठे निष्षण्णस्य भिक्षोर्बहुभिः कारणैः समाहितचित्तविक्षेपे लब्धव्यं न लभ्यते साक्षात्कर्तव्यं न साक्षात्क्रियते। शून्यायतने शयानस्य किञ्चित्कौसीद्ये सत्यपि समाध्याशासम्भवे चित्तं परिगृह्यते। परिगृहीतं चित्तं विमुच्यते। निमित्तोद्‍ग्रहमुपादाय च कामादयः क्लेशाः समुद्भवन्ति। शून्यायतने न रूपादीनि निमित्तानि सन्तीति क्लेशाः सुप्रहाणाः। यथाऽग्निरसतीन्धने स्वतः शाम्यति। उक्तञ्चसूत्रे-यो भिक्षुः सङ्गणिकाविहाररतः सम्भाष्यरतः[स] गणादविविक्त इत्यतः सामयिकीमेव विमुक्तिं न प्रतिलभते। कः पुनर्वादः अकोप्यां विमुक्तिं प्रतिलभत इति। प्रविविक्तविहारी पुनरुभयं साक्षात्कुरुते। इति। यथा प्रदीपो वातविविक्तः प्रकाशते। एवं योगी प्रविवेकविहारितया तत्त्वज्ञानं विन्दते।

आरब्धवीर्य इति। योगी यदि सम्यक्‌प्रधानमाचरन् अकुशलधर्मान् प्रजहाति कुशलधर्मांश्च सञ्चिनोति। [तदा] तत्र सम्यक्‌प्रधानामाचरतीति आरब्धवीर्य इत्युच्यते। एवञ्च भगवच्छासने हितं प्रतिलभते। तत्कस्य हेतोः। [स हि] कुशलधर्मसञ्चयेन प्रतिदिनमभिवर्धते। यथोत्पलपद्मादीनि यथासलिलमभिवर्धन्ते। कौसीद्यचारी पुनः काष्ठमुसलवत् प्रथमाभिनिर्वर्तनादारभ्य प्रतिदीनमपचीयते। आरब्धवीर्यस्य अर्थप्रतिलाभितया चित्तं सदा प्रमुद्यते। कौसीद्यचारी तु अकुशलधर्मनिवृत्तचित्तः सततं दुःखोपद्रवमनुबध्नाति। आरब्धवीर्यस्य च क्षणे क्षणे कुशलधर्मो नित्यमभिवर्धते, नापचीयते। वीर्यप्रकृष्टमाचरन्नाप्नोति प्रकृष्टं स्थानं यदुत बुद्धानां गतिम्। यथोक्तं सूत्रे भगवता आनन्दं प्रति प्रकृष्टं वीर्यमभ्यसन् बुद्धगतिं यातीति। आरब्धवीर्यस्य चित्तसमाधीः सुलभः। मन्देन्द्रिय आरब्धवीर्यः संसारादेवाशु मुच्यते। तीष्णेन्द्रियः कुसीदस्तु न विमुच्यते। यदस्ति किञ्चिदैहिकमामुष्मिकं लौकिकं लोकोत्तरं हितं, तत् सर्वं वीर्यमुपादाय भवति। सर्वेषां लोकानां यदस्ति अलाभव्यसनं, तत् सर्वं कौसीद्यमुपादाय भवति। एवं कुसीदस्य दोषमारब्धवीर्यस्य गुणं दृष्ट्वा वीर्यमनुस्मरति।

उपस्थितस्मृतिक इति। कायवेदनाचित्तधर्मेषु सदा स्मृतिं समुपस्थापयति। (पृ) एषां चतुर्णां धर्माणां स्मृत्या कीदृशं हितं विन्दते। (उ) पापका अकुशला धर्मा न चित्तमागच्छन्ति। यथा सुरक्षिते न पापकः पुरुषोऽवतरति। यथा च घटः पूर्णो न पुनरुदकमादत्ते। एवमस्य पुरुषस्य कुशलधर्मसम्पूर्णस्य न पापकानि प्रसज्यन्ते। यो भावितसम्यक्‌स्मृतिकः स विमुक्तिभागीयान् सर्वान् कुशलधर्मान् सङ्‍गृह्णाति। यथा समुद्राम्बुपायिनः सर्वाणि स्त्रोतांसि पीतानि भवन्ति। सर्वेषामुदकानां समुद्रवर्तित्वात्। अस्याः स्मृतेर्भावयिता स्वतन्त्रचर्यास्थाने विहरतीत्युच्यते। क्लेशमारो न किञ्चिदाकोपयति काकोलूकदृष्टान्तवत्। अस्य च चित्तं सुप्रतिष्ठितं दुष्कम्पनं भवति। यथा वृत्तो घटःशिक्यमधिनिविश्यते। स चाचिरमेवार्थं लप्स्यते। यथोक्तं भिक्षुणीसूत्रे-भिक्षुण्य आनन्दमेतदवोचन्-इह भदन्त [आनन्द] वयं चतृषु स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्य [उदारं] पूर्वेणापरं विशेषं सम्प्रजानाम इति। आनन्दोऽवोचत्-एवमेतत् भगिन्य एवमेतत् भगिन्य इति।

समाहित इति। चित्तसमाधिं भावयतः प्रवरोऽर्थो भवति। यथोक्तं सूत्रे- समाहितो यथाभूतं प्रजानाति इति। अनेन मनुष्यकायेनातिमानुषधर्मो भवति यदुत कायेनोदकर्ममग्निञ्चा[वगाह्य] निर्गच्छति। विहायसा गमने च स्वतन्त्र इत्यादि। किञ्चास्य सुखं भवति यत् यावद्देवाः सहांपतिब्रह्मादयोऽपि नाप्नुवन्ति। अयं यत् कर्तव्यं तत् करोतीत्युच्यते। यदकर्तव्यं न तत् करोति। समाहितस्य सद्धर्मः सदा वर्धते समाहितस्य चित्तं नानुतप्यते। अयंप्रव्रज्याफलभाग्भवति तथागतशासनानुयायी च। नान्यपुरुषवत् वृथा सत्कारं स्वीकरोति। अयमेव दानपुण्यं विपाचयति नान्ये। अयञ्च समाहितधर्मो बुद्धैरार्यैश्च निषेवितः। सर्वेषां कुशलधर्माणां समार्जनाय योग्यश्च भवति। यदि समाहितस्य सिद्धिर्भवति तदा आर्यमार्गस्य प्रतिलाभो भवति। यदि न सिद्धिः, तदा शुभदेवेषूपपद्यते यदुत रूपारूप्यधातौ। तत्कस्य हेतोः। न हि दानादिना ईदृशं कार्यं प्रतिलभते यदेकान्ततः पापकानामकरणम्। यथोक्तं सूत्रे-यो दहरो युवा आजन्म मैत्रीं भावयति। स किं पापकं चित्तमुत्पादयेत्। पापकं वा चिन्तयेत्। नो हीदं भगवन्। [तत्कस्य हेतोः] [तत्समाधिप्रभाव एषः। इति। चित्तसमाधिश्च तत्त्वज्ञानस्य प्रत्ययः। तत्त्वप्रज्ञा सर्वान् संस्कारान् क्षपयति। संस्काराणां क्षयात् सर्वे दुःखोपायासाः शाम्यन्ति। योगी सर्वाणि लौकिकानि लोकोत्तराणि स्मरन्नेव कुर्यात् न क्लमथेन कार्यं प्रयोजयन्। अन्ये पुद्गलास्तेन लब्धं प्रमातुं चित्तमेव नोत्पादयन्ति। अत आह-समाहितोऽर्थमाप्नोतीति।

प्रज्ञावानिति। प्रज्ञावतश्चित्ते क्लेशा न सम्भवन्ति। यदि सम्भवन्ति, तदैव निरुध्यन्ते यथा तप्तायःपात्रे पतिता जलकणिका। प्रज्ञावतश्चित्ते संज्ञा नाविर्भवन्ति। यद्याविर्भवन्ति, तदैव निरुध्यन्ते यथा तृणाग्रेऽवश्यायबिन्दुः सूर्य उदितमात्रे शुष्यति। यः प्रज्ञाचक्षुष्कः स बुद्धधर्मं पश्यति। यथा चक्षुष्मतः सूर्य उपयोगाय कल्पते। प्रज्ञावान् बुद्धस्य धर्मदायभागित्युच्यते। यथा जातः पुत्रः पित्रोर्धनभाग्भवति। प्रज्ञावानेव स जीव इत्युच्यते। अन्ये मृता इति। प्रज्ञावान् तत्त्वमार्गिकः, मार्गस्य परिज्ञानात्। प्रज्ञावानेव भगवतः शासना[मृत]रसं वेत्ति। यथा अविपरिणतजिह्वेन्द्रियः पञ्चरसान् विवेचयति। प्रज्ञावान् भगवच्छासने समाहितो न कम्पते तद्यथा शैलो न वायुना कम्प्यते। प्रज्ञावान् श्राद्ध इत्युच्यते। चतुः श्रद्धालाभितया पराननुयायितत्वात्। आर्यप्रज्ञेन्द्रियप्रतिलाभी जिनौरसो भवति। अन्ये बाह्याः पृथग्जनाः। अत उच्यते प्रज्ञावानर्थं विन्दत इति।

निष्प्रपञ्चाराम इति। यदेकानेकत्ववादः स प्रपञ्चः। यथा आनन्दः शारिपुत्रं पृच्छति-षण्णाम् [आयुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्ति अन्यत्किञ्चित्। शारिपुत्रः प्रत्याह[मा ह्येवमायुष्मन्]। षण्णा[मायुष्मन्] स्पर्शायतनाना मशेषविरागनिरोधादस्त्यन्यत्किञ्चिदिति वदन् अप्रपञ्चं प्रपञ्चयसि। नास्ति किञ्चिदिति, अस्ति च नास्ति चान्यदिति, नैवास्ति नो च नैवास्त्यन्यदिति च प्रश्ने प्रतिवचनमपि तथा स्यात्।

(पृ) कस्मादिदमप्रपञ्चम्। (उ) अयं वस्तुत आत्मधर्मप्रश्नः यद्येकः यदि वानेक इति। अतो न प्रत्युवाच। आत्मा च न नियतः। पञ्चस्कन्धेषु केवलं प्रज्ञप्त्याऽभिधीयते। यद्यस्ति किञ्चिदिति। यदि वा नास्ति किञ्चिदिति प्रतिब्रूयात्, तदा शाश्वतोच्छेदपातः स्यात्। यत् प्रतीत्यसमुदेनात्मव्यवहारः स निष्प्रपञ्चः। यदि पश्यति सत्त्वं शून्यं धर्माश्च शून्या इति स निष्प्रपञ्चारामः। अतो निष्प्रपञ्चारामा भगवच्छासनेऽर्थं विन्दन्ते। इयं कुशलवितर्कसम्पदा।

कुशलवितर्कवर्गस्त्र्यशीत्युत्तरशततमः।

१८४ अन्तिमपञ्चसमाधिपरिष्कारवर्गः

(७) कल्याणाधिमुक्तिसम्पदिति। योगी यत् निर्वाणेऽभिरमणः संसारं विद्वेषयति। इयं कल्याणाधिमुक्तिः। एवमधिमुक्तः क्षिप्रं विमुक्तिभाग्भवति। निर्वाणाभिरतस्य चित्तं न कुत्रचिदभिनिविशते। निर्वाणाभिरतस्य नास्ति भयम्। यदि पृथग्जनस्य चित्तं निर्वाणमनुस्मरति। तदैव सन्त्रासो भवति-अहमत्यन्तं नक्ष्यामीति।

(पृ) केन प्रत्ययेन निर्वाणेऽधिमुच्यते। (उ) योगी लोकमनित्यं दुःखं शून्यमनात्मकं दृष्ट्वा निर्वाणे उपशमसंज्ञामुत्पादयति। पुद्गलोऽयं स्वाभाविकक्लेशप्रतनुभूतो निर्वाणभाणकं शृणोति। तदा [तस्य] चित्तं तत्राधिमुच्यते। यदि वा कल्याणमित्रात् यदि वा सूत्राध्ययनात् संसार आदीनवं शृणोति। यथा अनवराग्रसूत्रे पञ्चदेवदूतसूत्रे चोक्तम्। तदा संसारान्निर्विण्णो निर्वाणेऽधिमुच्यते।

(८) प्रधानीयाङ्गसम्पदिति। यथोक्तं सूत्रे-पञ्च प्रधानीयाङ्गानि। कतमानि [पञ्च]। इह [भिक्षवो] भिक्षुः श्राद्धो भवति। अशठो भवति। अल्पाबाधो भवति। आरब्धवीर्यो भवति। प्रज्ञावान् भवतीति। श्रद्धावान् नाम[यः] त्रिषु रत्नेषु चतुर्षु सत्येषु च विगतविचिकित्सो भवति। विगतविचिकित्सत्वात् क्षिप्रं समाधिः सिध्यति। श्रद्धावतः प्रीतिबहुलत्वाच्च क्षिप्रं समाधिः सिध्यति। श्रद्धावान् सुसमाहितो दान्तश्च भवति। अतोऽपि सहसा समाधिं विन्दते। (पृ) यदि समाधिना प्रज्ञोत्पद्यते। अथ विचिकित्सां प्रजहाति। कथमिदानीं समाधेः पूर्वमेवोच्यते विगतविचिकित्स इति। (उ) बहुश्रुतत्वात् किञ्चिद्विचिकित्सां प्रजहाति। न समाधिलाभात्। अधिमुक्तकुलोत्पन्नः श्राद्धेन सहवृत्तिकः सदाधिमुक्तिचित्तं भावयन् अप्रतिलब्धसमाधिरपि विचिकित्सां न करोति। एवमादि।

अशठ इति। ऋजुचित्तस्य नास्ति किञ्चिद्गोपनीयम्। सदपि सुतीर्णं भवति। यथा कश्चिद्भिषजमुपेत्य व्याधिस्वरूपमुक्त्वा सुचिकित्सो भवति। अल्पाबाध इति। स पूर्वरात्रेऽपररात्रे च व्यवस्यति, न विरमति। यद्याबाधाबहुलः, तन्मार्गचर्याया अन्तरायो भवति। आरब्धवीर्य इति। मार्गार्थित्वात् सदा विर्यमारभते। अतोऽग्निं मन्थानो न विरममाणो सहसाग्निं विन्दते। प्रज्ञावानिति। प्रज्ञावत्त्वेन चतुर्णामङ्गानां फलं भवति यदुत मार्गफलम्।

(पृ) स्मृत्युपस्थानधर्मा अपि प्रधानीयाङ्गानि। कस्मात् केवलमेते पञ्च धर्मा उक्ताः। (उ) यद्यपि सकलमङ्गम्। तथापीमे धर्मा मुख्यतमाः योगिभिरप्यपेक्ष्यन्ते। अत इमे केवलमुक्ताः। सर्वेषां पापकानां परिवर्जनं सर्वेषां कुशलानां सञ्चयश्च योगिनोऽङ्गम्। यथा......... सूत्रे वर्णितम्।

(९) विमुक्त्‌यायतनसम्पदिति यत् पञ्चविमुक्त्‌यायतनानि। इहशास्ता [अन्यतरो वा] गुरुस्थानीयः [स ब्रह्मचारी] भिक्षूनां धर्मं देशयति। यथा यथा धर्मं देशयति। तथा तथा [तस्मिन् धर्मे] अर्थप्रतिसंवेदी च धर्मप्रतिसंवेदी च भवति। [तस्यार्थ] प्रतिसंवेदिनो धर्मप्रतिसंवेदिनः प्रीतिर्जायते। प्रीतमनसः कायः प्रश्रभ्यते। प्रश्रब्धकायः सुखं वेदयते। सुखिनश्चित्तं समाधीयते। इदं प्रथमं विमुक्त्‌यायतनम्। यत्र भिक्षो [रप्रमत्तस्यातापिनः] प्रहितात्मनो विहरतो[ऽविमुक्तं] चित्तं विमुच्यते। [अपरिक्षीणा] वा आस्रवाः परिक्षयं गच्छन्ति। [अननुप्राप्तं] वा अनुत्तरं योगक्षेममनुप्राप्नोति। द्वितीयं [विमुक्त्‌यायतनं] विस्तरेण सूत्राध्ययनम्। तृतीयं परेषां धर्मदेशना। चतुर्थं विमुक्ते स्थाने धर्माणामनुवितर्कः अनुविचारः। पञ्चमं समाधिनिमित्तस्य सुग्रहणं यदुत नवनिमित्तादीनि यथापूर्वमुक्तानि।

(पृ) शास्ता [अन्यतरो] वा गुरुस्थानीयः सब्रह्मचारी कस्मात् भिक्षूणां धर्मं देशयति। (उ) धर्मसमापादानेन महान्तमर्थमाप्नोति। इत्यतो देशनां करोति। सब्रह्मचार्ययः शास्तारमुपादाय प्रव्रजितः। इन्द्रियाणां परिपाचनाय धर्मं देशयति। गुरुस्थानीयः सब्रह्मचारी समानकर्मत्वाच्च धर्मदेशनां करोति। भिक्षवोऽवश्यं धर्मं शृण्वन्तीत्यतश्च [धर्म]देशनां करोति। इमे पुद्गला विशुद्धशीलादिगुणसम्पन्नाः तद्यथा सुभाजनं समृद्धिं समादातुं भव्यम् इत्यतो धर्मदेशनां करोति।

इमास्तिस्रः प्रज्ञाः धर्मप्रतिसंवेदो बहुश्रुतमयी प्रज्ञा। अर्थप्रतिसंवेदश्चिन्तामयी प्रज्ञा। अभाभ्यामुभाभ्यां जायते प्रीतिः यावत्समाहितस्य यथाभूतज्ञानं जायते। इयं भावनामयी प्रज्ञा। आसां त्रिसृणां प्रज्ञानां त्रीणि फलानि भवन्ति यदुत निर्वेदो वैराग्यं विमुक्तिः। धर्मं श्रुत्वाऽधीत्य च परेषां धर्मं देशयति। इयं बहुश्रुतमयी प्रज्ञा। धर्माननुवितर्कयति अनुविचारयति। इयं चिन्तामयी प्रज्ञा। समाधिनिमित्तं सुगृह्णाति। इयं भावनामयी प्रज्ञा।

(पृ) या चित्तविमुक्तिः [यश्च] आश्रवक्षयः। अनयोः को भेदः। (उ) समाधिना क्लेशानां व्यावृत्तिश्चित्तविमुक्तिः। क्लेशानामत्यन्तप्रहाणमास्रवक्षयः। (पृ) शीलादयो धर्मा अपि विमुक्त्यायतनम्। यथोक्तं-शीलवतश्चित्तं न विप्रतिसरति। अविप्रतिसारिणः प्रीतिर्जायत इत्यादि। कदाचित् दानदिहेतोरपि विमुक्तिर्भवति। कस्मादिमे पञ्चैव धर्मा उक्ताः। (उ)प्राधान्यात्त एवोक्ताः। (पृ) एषां धर्माणां किं प्राधान्यम्। (उ) विमुक्तेः सन्निकृष्टो हेतुः। शीलादयस्तु विप्रकृष्टाः। (पृ) कथं ज्ञायते सन्निकृष्टो हेतुरिति। (उ) योगी धर्मं श्रुत्वा प्रजानाति स्कन्धायतनधातून्। तद्धर्मकलापमात्रे नास्त्यात्मेति। अतः प्रज्ञप्तिर्भज्यते। तत्प्रज्ञप्तिभङ्ग एव विमुक्तिरित्याख्यायते। अतः सन्निकृष्टो हेतुः। उक्तञ्च सूत्रे-बहुश्रुतस्यानिशंसा यदुत परशासनं नानुवर्तते, चित्तं सुसमाधीयते इत्यादि। अनेनापि ज्ञायते सन्निकृष्टो हेतुरिति। तथागतशासने महान् लाभोऽस्ति, क्लेशान् निरोधयति, निर्वाणञ्च यातीत्यादि। अस्मिन्नुपशमधर्मे श्रोता वा अध्येता वा अनुविचिन्तयिता वा क्षिप्रं विमुच्यते। अतः सन्निकृष्टो हेतुः। दानेन महत्पुण्यं विन्दते। शीलेन गौरवम्। बाहुश्रुत्येन प्रज्ञाम्। प्रज्ञया आस्रवाणां क्षयं विन्दते न पुण्यं गौरवं वा। अतो ज्ञायते सन्निकृष्टो हेतुरिति। शारिपुत्रादयो महाप्राज्ञा इति कीर्त्यन्ते। [तत्] सर्वं बहुश्रुत्यात्।

(पृ) यदि बाहुश्रुत्येन चित्तं सुसमाधीयते। आनन्दः कस्मात् प्रथमेऽन्तिमे च यामे विमुक्तिं नालभत। (उ) आनन्दो न यावन्मस्तकमुपधाने न्यधत्त तावदेव विमुक्तिमलभत। अतोऽसदद्भुतधर्मेऽवर्तत। कस्मान्न क्षिप्रम्। आनन्दस्यतस्मिन् समये वीर्यं किञ्चिद्दुष्टमासीत्। अतिमात्रक्लान्तत्वान्नालभत विमुक्तिम्। आनन्दोऽस्मिन् याम आस्रवाणां क्षयमनुप्राप्नोमीति प्रणिदध्यौ। यथा च बोधिसत्त्वो बोधिमण्डे प्रणिहितवान्। कस्तादृशबलो यथा आनन्दः। सर्वमिदं बाहुश्रुत्यबलम्।

(१०) अनावरणतेति-यानि त्रीण्यावरणानि कर्मावरणं, विपाकावरणं क्लेशावरणमिति। यस्येमान्यावरणानि न सन्ति। न स दुःस्थाने पतति। योऽक्षणेभ्योमुक्तः स मार्गं समादातुं भव्यो भवति। स चतुर्भिश्चक्रैः सम्पन्न इत्युच्यते। [तानि] प्रतिरूपदेशवासः सत्पुरुषोपाश्रयः आत्मसम्यक्प्रणिधिः पूर्वे च कृतपुण्यता इति। [स] चत्वारि स्रोत‍आपत्त्यङ्गानि च साधयति यदुत सत्पुरुषसंवासः सद्धर्मश्रवणं, योनिशोमनस्कारो धर्मानुधर्मप्रतिपत्तिः। रागादीन् त्रीन् धर्मानपि समुत्सृजति। यथोक्तं सूत्रे-त्रीन् धर्मानप्रहाय न जराव्याधिमरणानि सन्तरति। इति।

(११) अनासक्ततेति। “नावरतीरमुपगच्छति। न पारतीरमुपगच्छति। न मध्ये संसीदति। न स्थल उत्सीदिष्यति। न मनुष्यग्राहो भविष्यति। नामनुष्यग्राहो भविष्यति। नावर्तग्राहो भविष्यति। नान्तःपूती भविष्यति”। अवरतीरमिति षण्णामाध्यात्मिकानामायतनामधिवचनम्। पारतीरमीति षण्णां बाह्यानामायतनानामधिवचनम्। मध्ये संसीदति इति नन्दिरागस्याधिवचनम्। स्थल उत्साद इति अस्मिमानस्याधिवचनम्। कतमो मनुष्यग्राहः। [इह] भिक्षुर्गृहिसंसृष्टो विहरति। [कतमो]ऽमनुष्यग्राहः। [इह भिक्षुरेकत्य एकत्यो]ऽन्यतरं देवनिकायं प्रणिधाय ब्रह्मचर्यं चरति। अयमुच्यतेऽमनुष्यग्राह इति। आवर्तग्राह इति पञ्चानां कामगुणानमधिवचनम्। [कतमश्च] अन्तःपूतिभावः। इह भिक्षुरेकत्यो दुश्शीलो भवति। पापधर्मा अशुचिः शङ्कास्मरसमाचारोऽब्रह्मचारी। अयमुच्यतेऽन्तःपूतिभाव इति।

यस्यास्ति आध्यात्मिकायतनेषु आत्मग्रहः। तस्य बाह्यायतनेषु आत्मियग्रहः। आध्यात्मिकबाह्यायतनेभ्यो नन्दिरागो भवति। अतस्तत्रैव निमज्जते। तेभ्यस्तु अहङ्कारो जायते। कस्मात्। यदि कश्चित्कायासक्तः सुखी भवतीत्यतो[ऽपरः] कश्चिदागत्य लघु निन्दति। तदा [तस्य]मानो जायते। एवमात्मीयनन्दिरागाहङ्कारास्तच्चित्तं विक्षेपयन्तोऽन्यानपि निर्वर्तयन्ति।

(पृ) दृष्टान्तेऽस्मिन् किं स्त्रोतो भवति। यद्यार्योऽष्टाङ्गिकमार्गः स्त्रोतः। तदा षडाध्यात्मिकबाह्यायतनानि पारौ न स्युः। नन्दिरागादयो मध्यौघ आवर्तः पूतिभावोऽपि च न स्युः। यदि कामतृष्णा स्त्रोतः। कथमिमाननुवर्त्य निर्वाणमनुप्राप्नोति। (उ) आर्योऽष्टाङ्गिकमार्ग एव स्त्रोतः। दृष्टान्तो नावश्यं सर्वाकारैः समानो भवति। यथायं दारुस्कन्धोऽष्टाक्षणविनिर्मुक्तो महार्णवं गच्छति। एवं भिक्षुरोघोऽक्षणैर्विनिर्मुक्त आर्याष्टाङ्गिकमार्गं स्त्रोतोऽनुवर्त्यं निर्वाण[महार्णव]मवतरति। यथा कुम्भसदृशं स्तनमिति वचनं तदाकारमात्रं गृह्णाति न काठिन्यं मार्दवं वा। यथा च चन्द्रोपमं वदनमिति वचनं शोभा पौष्कल्यं गृह्णाति न तदाकारम्। किञ्च योगी आर्यमार्गनिर्गतोऽध्यात्मबहिर्धायतनेष्वासज्यते। न तु यथायं दारुस्कन्धः स्त्रोतोमध्यगतस्तस्मिन् पारेऽस्मिन् वा आसज्यते पूतीभवति वा। इत्यादि।

शास्त्राचार्य आह-यथा गङ्गास्त्रोतो नियमेन महार्णवं प्राप्नोति। एवमार्याष्टाङ्गिकमार्गस्त्रोतो नियमेन निर्वाणं प्राप्नोति।

एवं संक्षिप्यैकादशमाधिपरिष्कारा उक्ताः, येषु सत्सु नियमेन समाधिर्लभ्यते॥

अन्तिमपञ्चसमाधिपरिष्कारवर्गश्चतुरशीत्युत्तरशततमः

१८५ आनापानवर्गः

आनापानस्य षोडशाकारा यदुत सस्मृत एवाश्वसिति स्मृत एव प्रश्वसिति। दीर्घं वा आश्वसन् दीर्घमाश्वसिमीति प्रजानाति दीर्घं वा प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति॥ ह्रस्वं वा आश्वसन् ह्रस्वमाश्वसिमीति प्रजानाति। ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति प्रजानाति॥ सर्वकायप्रतिसंवेदी आश्वसिष्यामीति शिक्षते॥ सर्वकायप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ प्रश्रम्भयन् कायसंस्कारमाश्वसिष्यामीति शिक्षते। प्रश्रम्भयन् कायसंस्कारं प्रश्वसिष्यमीति शिक्षते॥ प्रीतिप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। प्रीतिप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ सुखप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। सुखप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ चित्तसंस्कारप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। चित्तसंस्कारप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ प्रस्रम्भयन् चित्तसंस्कारमाश्वसिष्यामिति शिक्षते। प्रश्रम्भयन् चित्तसंस्कारं प्रश्वसिष्यामीति शिक्षते॥ चित्तप्रतिसंवेदी आश्वसिष्यामीति शिक्षते। चित्तप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते॥ अभिप्रमोदयन् चित्तमाश्वसिष्यामीति शिक्षते। अभिप्रमोदयन् चित्तं प्रश्वसिष्यामीति शिक्षते॥ समादधन् चित्तमाश्वसिष्यामीति शिक्षते। समादधन् चित्तं प्रश्वसिष्यामीति शिक्षते॥ विमोचयन् चित्तमाश्वसिष्यामीति शिक्षते। विमोचयन् चित्तं प्रश्वसिष्यामीति शिक्षते॥ अनित्यानुदर्शी आश्वसिष्यामीति शिक्षते। अनित्यानुदर्शी प्रश्वसिष्यामीति शिक्षते॥ विरागानुदर्शी आश्वसिष्यामीति शिक्षते। विरागानुदर्शी प्रश्वसिष्यामीति शिक्षते॥ निरोधानुदर्शी आश्वसिष्यामीति शिक्षते। निरोधानुदर्शी प्रश्वसिष्यामीति शिक्षते॥ प्रतिनिस्सर्गानुदर्शी आश्वसिष्यामीति शिक्षते। प्रतिनिस्सर्गानुदर्शी प्रश्वसिष्यामीति शिक्षते।

(पृ) कथमानापानस्य दीर्घं ह्रस्वं वा भवति। (उ) यथा कश्चित्पर्वतमारोहति। यदि वा [वा] भारं वहति। [तदा] क्लान्तः ह्रस्वं श्वसति। तथा योग्यपि औदारिके चित्ते प्रवृत्ते ह्रस्वं [श्वसति]। औदारिकचित्तमिति चपलं रोगविक्षिप्तं चित्तम्। दीर्घं श्वसतीति यदि योगी सूक्ष्मचित्ते स्थितः, [तदा] तस्याश्वासप्रश्वासा दीर्घा भवन्ति। कस्मात्। सूक्ष्मचित्तानुवर्तिन आश्वासप्रश्वासा अपि सूक्ष्मा अनुपतन्ति। यथा तस्यैव क्लान्तस्य विश्रान्तस्य आश्रासप्रश्वासा सूक्ष्मा अनुपतन्ति। तस्मिन् समये दीर्घा अश्वास प्रश्वासा भवन्ति।

सर्वकाय[प्रतिसंवेदी]ति। योगी काये तुच्छाधिमुक्तः सर्वरोमकूपेषु वायुमन्तर्बहिश्चारिणं पश्यति। प्रश्रम्भयन् कायसंस्कारमिति। धातुबललाभिनो व्युपशान्तचित्तस्य योगिन औदारिका आश्वासप्रश्वासा व्युपशान्ता भवन्ति। तदा योगी कायम्मृत्युपस्थानसमन्वितो भवति। प्रीतिप्रतिसंवेदीति। अस्मात्समाधिधर्मादस्य चित्ते महती प्रीतिर्भवति। प्रकृतितो विद्यमानाऽपि नैवं भवति। अस्मिन् समये प्रीतिप्रतिसंवेदीत्याख्यायते। सुखप्रतिसंवेदीति। प्रीतेः सुखं जायते। कस्मात्। प्रीतमनसः कायः प्रश्रभ्यते, प्रश्रब्धकायः सुखं विन्दते। यथोक्तं सूत्रे-प्रीतमनसः कायः प्रश्रम्यते। प्रश्रब्धकायः सुखं वेदयते। इति।

चित्तसंस्कारप्रतिसंवेदीति। योगी प्रीतावादीनवं पश्यति। रागजनकत्वात्। रागोऽयं चित्तसंस्कारः चित्तादुत्पन्नत्वात्। वेदनायां रागो जायत इत्यतो वेदनां चित्तसंस्कारं पश्यति। प्रश्रम्भयन् चित्तसंस्कारमिति। योगी पश्यति वेदनातो रागो जायते। तत् प्रश्रम्भयतश्चित्तमुपशाम्यति। औदारिकवेदनामपि प्रश्रम्भयतीति प्रश्रम्भयन् चित्तसंस्कारमित्युच्यते। चित्तप्रतिसंवेदीति। योगी प्रश्रम्भयन् वेदनास्वादं पश्यति चित्तं शान्तं न लीनं नोद्धतम्। चित्तमिदं कस्मिंश्चित्समये पुनर्लीनं भवति। तस्मिन् समयेऽभिप्रमोदयति। यदि पुनरुद्धतम्। तस्मिन् समये समादधाति। यद्युभयधर्मविनिर्मुक्तम्। तस्मिन् समये समुत्सृजेत्। अत उच्यते विमोचयन् चित्तमिति। एवं योगी समाहितोऽनित्याकारमुत्पादयति। अनित्याकारेण क्लेशान् प्रजहाति। अयं निरोधाकरः। क्लेशानां प्रहाणाच्चित्तं निर्विद्यते। अयं विरागाकारः। विरक्तचित्ततया सर्वेषां प्रतिनिस्सर्गमनुप्राप्नोति। अयं प्रति निस्सर्गाकारः। एवमनुपूर्वं विमुक्तिमनुप्राप्नोतीति षोडशाकारा आनापानस्मृतेर्भवन्ति।

(पृ) कस्मादानापानस्मृतिरार्यविहार इति दिव्यविहार इति ब्रह्मविहार इति शैक्षविहार इति अशैक्षविहार इति चोच्यते। (उ) वायुराकाशे विहरति। आकाशलक्षणं रूपलक्षणं प्रकटयति। रूपलक्षणमिदं शून्यमेव। शून्यतैवार्यविहार इत्यार्यविहारो भवति। शुभदेवेषूत्पत्यर्थत्वात् दिव्यविहारः। उपशमप्रापणार्थत्वात् ब्रह्मविहारः। शैक्षधर्मप्रतिलाभार्थत्वात् शैक्षविहारः। अशैक्षार्थत्वादशैक्षविहारः।

(पृ) यद्यशुभभावनया कायाद्विरक्तो विमुक्तिमनुप्राप्नोति। क उपयोग एभिः षोडशभिराकारैः। (उ) अशुभभावनया अलब्धवैराग्यस्य आत्मदुर्विण्णस्य कायचित्ते व्यामोहिते स्याताम्। यथा दुष्टमौषधं सेवमानस्य व्याधिः पुनर्भवति। एवमशुभभावनया दुर्निवेदो भवति। यथा वल्गुमुत्तितीर्षया भिक्षवोऽशुभभावनया अतीव निर्विण्णा विषपानभृगुपतनादिभिर्विविधैरात्मानं ध्नन्ति स्म। न तथा इमे षोडशाकारा वैराग्यप्रापका अपि न दुर्निवेदजनका भवन्तीत्यतो विशिष्यन्ते। किञ्च अयमाकारः सुलभः स्वकायावलम्बित्वात्। अशुभा[कारस्तु] सुविनाशः। अयमाकारः सूक्ष्मः स्वकायविपरिणामकत्वात्। अशुभाकार औदारिकः। अस्थिकङ्कालविपरिणामदुष्टः। अयमाकारः सर्वेषां क्लेशानां भेदकः। अशुभाकारस्तु मैथुनरागमात्रस्य कस्मात्। सर्वे हि क्लेशा वितर्कं प्रतीत्य जायन्ते। आनापानस्मृतेश्च सर्ववितर्कोपच्छेदार्थत्वात्।

(पृ) अनापानं किं कायानुबन्धि किं चित्तानुबन्धि। (उ) कायानुबन्धि चित्तानुबन्धि च। कस्मात्। गर्भाशयगतस्याभावात् ज्ञायते कायाधीनमिति। चतुर्थध्यानादिकस्याचित्तकस्य चाभावात् ज्ञायते चित्तानुबन्धीति। (पृ) आश्वासप्रश्वासोऽभूत्वोत्पन्नश्चित्ताधीनो न स्यात्। कस्मात्। स न मनसो वशादुत्पद्यते। यथा अन्यद्वस्तु स्मरति चित्ते सदा आश्वासप्रश्वासा भवन्ति। यथा [भुक्त] आहारः स्वयं परिपच्यते। यथा च प्रतिबिम्बं स्वयं प्रवर्तते न पुरुषः करोति।

(उ) आश्वासप्रश्वासोऽभूत्वोत्पद्यते न स्मृतिवशात्। किन्तु प्रत्ययसामग्र्योत्पद्यते। सचित्तस्यास्ति अचित्तकस्य पुनर्नास्ति। अतो ज्ञायते चित्ताधीन इति। यथाचित्तञ्च भिद्यते। औदारिकचित्तस्य ह्रस्वः। सूक्ष्मचित्तस्य दीर्घः। आनापानं भूम्यधीनं चित्ताधीनम्। आनापान(भूमि)गतस्य आनापानभूमिरप्यस्ति। [तस्य] तस्मिन् समये चित्तमप्यस्ति। आनापानभूमिर्नाम कामधातु स्त्रीणि ध्यानानि च। य आनापानभूमिगतः [तस्य] अस्ति तु आनापानभूमि-चित्तम्। अचित्तकस्य तस्मिन् समये [तद्‍भूमि-] चित्तमपि नास्ति। आनापानविहीनभूमिगतस्य तस्मिन् समये [तद्‍भूमि श्चित्त] मपि नास्ति।

(पृ) श्वास उत्पद्यमान किं पूर्वमाश्वसति। किं वा पूर्वं प्रश्वसति। (उ) उपपत्तिकाले पूर्वमाश्वसति। मरणकालेऽन्ते प्रश्वसति। एवं चतुर्थध्याने निर्गमनप्रवेशावपि। (पृ) आनापानस्मृतिरियं कथं परिपूर्णा भवति। (उ) योगी यदि षोडशाकारान् प्रतिलभते। तस्मिन् समये परिपूर्णा भवति। केचिच्छास्ताचार्या वदन्ति-षडिभः प्रत्ययैः परिपूर्णेति। [षट् प्रत्यया] यदुत गणना अनुबन्धना शमथो विपश्यना विवर्तनं परिशुद्धिः। गणना आनापानगणना एकत आरभ्य यावद्दश। त्रिप्रकारा गणना समा वा अतिरिक्ता वा न्यूना वा। समा नाम दशसु सत्सु दशेति गणयति। अतिरिक्ता नाम एकादशसु दशेति गणयति। न्यूना नाम नवसु दशेति गणयति। अनुबन्धनं नाम योगिनश्चित्तमानापानमनुबध्नाति। विपश्यना नाम योगी आश्वासप्रश्वासान् कायानुबद्धान् मणिषु सूत्रवत्पश्यति। शमथो नाम चित्तस्यानापाने प्रतिष्ठापनम्। विवर्तनं नाम चित्तं प्रतीत्य कायस्य प्रवृत्तिः, चित्तं प्रतीत्य च वेदनायाः। प्रत्युत्पन्नचित्तधर्मोऽप्येवम्। परिशुद्धिर्नाम योगिनि सर्वक्लेशैः सर्वाक्षणैश्च विमुक्ते चित्तं परिशुध्यति।

नेमेऽवश्यनियताः। कस्मात्। आकारेषु गणानुबन्धनरूपयो द्वयोधर्मयोर्नावश्यमुपयोगो भवति। यतो योगी केवलमानापाने चित्तं प्रतिष्ठापयन् सर्वान् वितर्कानुपच्छेदयति। यः षोडशविधमाचरितुं समर्थः स परिपूर्ण इत्युच्यते। इदं परिपूर्णलक्षणञ्चानियतम्। मृद्विन्द्रियाचरितं तीक्ष्णेन्द्रियस्यापरिपूर्णम्।

(पृ) आनापानसूत्रेऽस्मिन् कस्मादुक्तम्-आहाराय भवतीति। (उ) आनापानस्तिमितस्य कायः सुखी भवति। यथा मधुरान्नभुजः कायः प्रह्लाद्यते। अतः आहाराय भवतीत्युच्यते। (पृ) एषु षोडशाकारेषु किमानापानं संस्मरति। (उ) अस्य पुरुषेण पञ्चस्कन्धान् निराकर्तुमुपाय इत्याख्या। पञ्चस्कन्धेषु निराकृतेषु प्रज्ञप्तिर्निराकृतेति कः पुनरुपयोग आनापानस्मृत्या। इदमेव कायानुस्मृतिरित्युच्यते। चतुर्धा कायमनुस्मरतीति कायानुस्मृतिः।

(पृ) स्मृतिरतीतालम्बना। आश्वासप्रश्वासाः प्रत्युत्पन्नाः। कस्मात् तत् स्मृतिर्भवति। (उ) इदं प्रज्ञप्तिभेदकं ज्ञानमनुस्मृतिनाम्नोच्यते। चैतसिकधर्माणामन्योन्यं नाम भवति। यथा दशसंज्ञादयः स्मृतिपूर्वं क्रियमाणत्वात् अनुस्मृतिरित्युच्यते। दीर्घह्रस्वादीनां नार्यविहार इत्यभिधानम्। कथं विहारविर्हीनं स्मृत्युपस्थानमित्याख्यायते। उक्तञ्च सूत्रे योगी आनापानं शिक्षमाणः दीर्घ[माश्वसन्] वा [शिक्षते] ह्रस्वं वा सर्वकायप्रतिसंवेदी वा प्रश्रम्भयन् कायसंस्कारं वा [शिक्षते]। तस्मिन् समये कायस्मृत्युपस्थानं भवति।

अयमाद्य उपायमार्गः। विशुद्धये भवतीत्यतोऽन्ते प्रहाणमार्र्ग इत्युच्यते। अत्र अनित्याद्याकारोऽस्ति। अस्मिन्सूत्रे परं नोक्तम्। अन्यस्मिन् सूत्रेतूक्तम्-योगी आनापाने [स्थितः] काये समुदयधर्मानुदर्शी व्ययधर्मानुदर्शी, समुदयव्ययधर्मानुदर्शी विहरतीति। आह-कायमनित्यं पश्यतीत्यादि। चतुर्थे परमनित्याद्याकारः परिपूर्णत्वादुक्तः॥

आनापानवर्गः पञ्चाशीत्युत्तरशततमः।

१८६ समाध्यपक्षाल वर्गः

समाधिरयं तत्प्रतिबन्धिभिरपक्षालैर्विनिर्मुक्तः सन् महद्धितं साधयति। समाध्यपक्षालमिति यदुत औदारिकी प्रीतिः। यथोक्तं सूत्रे-ममौदारिकं प्रीतिप्रामोद्यं चित्तस्य दूषणमभूत् इति। योगी नोत्पादयेदिदमौदारिकं प्रीतिप्रमोद्यम्। रागादिदोषाणां समाहित चित्तविक्षेपकत्वात्।

(पृ) धर्मादुत्पद्यमानं प्रीतिप्रामोद्यं कथं नोत्पादयेत्। (उ) योगिनः शून्य तामनुस्मरतो न प्रीतिप्रमोद्यं जायते। अस्ति सत्त्व इति संज्ञया हि प्रीतिप्रामोद्यं जायते। पञ्चसु स्कन्धेषु नास्ति सत्त्वः, कथं प्रीतिप्रामोद्यं भविष्यति। योगी एवमनुस्मरेत्-हेतुप्रत्ययै विविधा धर्मा जायते यदुतातपालोकादयो धर्माः। तत्र किं प्रीतिप्रामोद्यम्। ये प्रीतिप्रामोद्यकरा धर्माः ते सर्वे परिमार्गिता व्यग्रविक्षेपका इति पश्यतो योगिन औदारिकं प्रीतिप्रामोद्यं निरुध्यते। योगी पुनर्महान्तमर्थं प्रार्थयते। नातपालोकादिभिर्धर्मैरयं भवति। अतो न प्रीतिप्रामोद्यं जायते। योगी निरोधलक्षणं लाभं पश्यतीत्यतो नातपालोकादिभिः [तस्य] प्रीतिप्रामोद्यं भवति। अयं योगी उपशमं भावयन् क्लेशानां क्षयमिच्छति। अतो न प्रीतिप्रामोद्यमुत्पादयति। ईदृशैः प्रत्ययैरौदारिकं प्रीतिप्रामोद्यमुपशमयति।

भीरुताच समाधेरपक्षालः। अहङ्कारमालम्बनं दृष्ट्वा भीरुतां जनयति। लोके यानि भैरवस्थानानि तानि सर्वाणि योगी पश्यति। तानि सर्वाणि अनित्यं विक्षेपकमिति परीक्ष्य [तानि] नानुविदधीत। कस्मात्। ध्याननिषण्णधर्मेऽस्त्ययं भैरवदर्शनस्य प्रत्ययः। नानेन भीरुतां जनयेत्। सर्वमिदमभूतं शून्यं मायावत्। बालानां वञ्चनमतत्त्वम्। एवं चिन्तयतो भीरुता वियुज्यते। धर्मान् शून्यानुपाश्रयतो नास्ति भीरुता। विहारबलादिदं वैलक्षण्यमनुभवामीत्यनुस्मरन् न बिभ्यात्। किञ्च काये शीलश्रुतादिगुणसम्पदस्ति। न हिंसाप्रयोगप्रत्यय इत्यनुस्मरतो न भवति भीरुता। योग्ययं मार्गे परमाभिरत इत्यतः कायजीवितेऽनपेक्षो भवति। कस्मात् बिभ्यात्। किञ्चास्य चित्तं सदा सम्यक्‌स्मृतौ तिष्ठति। अतो भीरुता नावकाशं लभते। शूरलक्षणानुस्मरणाच्च न बिभेति। भीरुता चेयमबलीनतालक्षणम्। एवमादिना भीरुतामपसारयति।

अदमः समाधेरपक्षालः। [अदमो] यत् योगी शीतवातादिभिर्व्याधिमान्। यदि वातिक्लान्तिजरामरणप्रत्ययैरदान्तकायो भवति। रागतृष्णेर्ष्यादिभिः क्लेशैरदान्तचित्तस्य ध्यानसमाधयो नश्यन्ति। अतो योगी स्वकायचित्ते संरक्षन् दमयेत्।

वैलक्षण्यञ्च समाधेरपक्षालः। [वेलक्षण्यं] यत् मलिनत्वलक्षणम्। किञ्चिदमलिनतालक्षणमपि ध्यानसमाधीनां विक्षेपकम्। यथा दानादिलक्षणम्।

वैषम्यञ्च समाधेरपक्षालः। [वैषम्यं] यत् वीर्यं दुष्ठुलं यदि वाऽतिलीनम्। दुष्ठुलस्य कायचित्तेऽतिक्लान्ते। अतिलीन[वीर्यो] न समाधिनिमित्तं गृह्णाति। उभावपि समाधेश्च्युतौ भवतः। यथा वर्तकापोतो गाढं गृहीतोऽतिल्कान्तो भवति। शिथिलं गृहीतो हस्तादुत्पतेत्। यथा वा दान्ता वीणायास्तन्त्र्योऽत्यायता वाऽतिशिथिला वा उभयथा न स्वरं साधयन्ति। आरब्धवीर्यं प्रवेगवत् तदा दुषणावसानं भवेत्। यथा भगवाननुरुद्धमाह-अत्यारब्धवीर्यस्य कौसीद्यं भवेत् इति। कस्मात्। अत्यारब्धवीर्यो हि वस्त्वप्रसाध्य कौसीद्ये पतेत्। अतिलीनवीर्योऽपि न वस्तु साधयति। अतो वैषम्यं समाधेरपक्षालो भवति।

अमनस्कारः समाधेरपक्षालः। अमनस्कारो नाम सद्धर्मामनस्कारः। मनस्कारप्रीतिधर्मे सत्यपि नास्ति वेदयितम् (?)। समाधिनिमित्तमनस्कृत्य बाह्यरूपस्य मनस्कारश्चामनस्कारः। योगी चित्तैकाग्र्येणारब्धवीर्यो वेदनीयधर्मं मनसि कुर्यात्। यथा तैलपात्रमाहरेत्।

वैपरीत्यञ्च समाधेरपक्षालः। [वैपरीत्यं] यत् रागबहुलः करुणाचरितमुपादत्ते। द्वेषबहलोऽशुभं भावयति। इमौ द्वावपि प्रतीत्यसमुत्पादं भावयतः। अतिलीने चित्ते शमथं भावयति। अत्युद्धते चित्ते वीर्यमारभते। अनयो द्वयोश्चित्तयोरुपेक्षामाचरति। इदं वैपरीत्यम्।

अभिजल्पः समाधेरपक्षालः। [अभिजल्पो] यत् वितर्कविचारबाहुल्यम्। वितर्कविचाराणामभिजल्पहेतुत्वात्। चित्तञ्च नालम्बने सुदृढप्रतिबद्धविहरणं, नाभिरमते।

लक्षणग्रहणञ्च समाधेरपक्षालः। लक्षणं त्रिविधम्-यत् शमथलक्षणमारम्भलक्षणमुपेक्षालक्षणमिति। पुनस्त्रिविधं समाधौ समापत्तिलक्षणं स्थितिलक्षणं व्युत्थानलक्षणम् इति। ईदृशलक्षणानां प्रविभागाकुशलो योगी ध्यानाच्यवते।

मानञ्चसमाधेरपक्षालः। यदाह-अहमेव समाधिमुपसम्पद्य विहरामि न तु स इतीदं मानं भवति। यदाह-स एवोपसम्पद्य विहरति नाहमितीदं मानकल्पं भवति। यद्यप्रतिलब्धसमाधिराह-प्रतिलब्धवानिति। इदमधिमानम्। अप्रणीतसमाधौ प्रणीतसंज्ञामुत्पादयति इदं मिथ्यामानम्।

रागादिधर्मा अपि समाध्यपक्षालाः। यथोक्तं सूत्रे-यो भिक्षुरेकधर्मेण समन्वितः स न पश्यति चक्षुरनित्यमिति। [कतमोऽसावेकधर्मः] रागः इति। (पृ) सर्वेऽवीतरागाः सत्त्वा किं न पश्यन्ति चक्षुरनित्यमिति। (उ) वचनमिदं किञ्चित् न्यूनम्। प्रत्युत्पन्ने समुत्पन्नरागो न पश्यति चक्षुरनित्यमिति इति वक्तव्यम्। [राग] समन्वितेऽपि कश्चिद्भेदः। केषाञ्चिद्रागादयो घनतराः सदा चित्तमाविशन्ति। तदा [तेषां ते] समाधिं प्रतिबध्नन्ति। तनुभूतास्तु न सदाविशन्ति। तदा नापक्षाला भवन्ति।

सूत्रे चोक्ता स्रयोदश कृष्णधर्माः समाधिप्रतिकूलाः त्रयोदश शुक्लधर्माः समाध्यनुकूलाः। यद्भगवानाह-त्रीण धर्मानप्रहाय न जराव्याधिमरणं तरति। [कतमे त्रयः] रागद्वेषमोहाः। त्रीन् धर्मानप्रहाय न समुच्छेदयति रागद्वेषमोहान्। [कतमे त्रयः।] सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा। अथ सन्ति त्रयो धर्माः अयोनिशोमनस्कारो दुश्चरितमतिलीनचित्तता। अथ सन्ति त्रयो धर्मा मुषितस्मृतिता, असम्प्रजन्यं विक्षिप्तचित्तता इति। अथ सन्ति त्रयो धर्मा औद्धत्यमिन्द्रियेष्वगुप्तद्वारता शीलविपन्नता। अथ सन्ति त्रयो धर्माः अस्राद्ध्यं दौश्शील्यं कौसीद्यमिति। अथ सन्ति त्रयो धर्माः सज्जनेऽरतिः सद्धर्मश्रवणे द्वेषः परदोषप्रकटने प्रीतिः। अत सन्ति त्रयो धर्मः अगौरवता संकथ्यदूषणं दुष्प्रज्ञसेवनम्। त्रीन् धर्मानप्रहाय न प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् [कतमे त्रयः।] अह्रीक्यमनपत्राप्यं प्रमादः। अह्रीक्यमनपत्राप्यं प्रमादं प्रहाय प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम्। [एवं] यावत्सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां प्रजहन् प्रजहाति रागद्वेषमोहान् जराव्याधिमरणानि च तरति।

अत्र जराव्याधिमरणानां तरणमेव यन्निरुपधिशेषनिर्वाणम्। रागद्वेषमोहानां समुच्छेद एवार्हत्फलं सोपधिशेषनिर्वाणम्। सक्तायदृष्टिशीलव्रतपरामर्शविचिकित्सानां समुच्छेद एव यच्छ्रामण्यफलम्। अयोनिशोमनस्कारदुश्चरितातिलीनचित्तानां समुच्छेद एव यदूष्मगतादिनिर्वेधभागीयकुशलमूलम्। मुषितस्मृत्यसं प्रजन्यविक्षिप्तचित्तानां समुच्छेद एव यत् चतुर्णां स्मृत्युपस्थानानां भावना। औद्धत्येन्द्रियेष्वगुप्तद्वारताशीलविपन्नतानां समुच्छेद एव यत् प्रव्रजितशीलसमादानम्। सज्जनारतिसद्धर्मश्रवणद्वेषपरदोषप्रकटनप्रीतिनां, अश्राद्धयदौश्शील्यकौसीद्यानां, असत्कारसंकथ्यदूषणदुष्प्रज्ञसेवनानां, अह्रीक्यानपत्राप्यप्रमादानाञ्च समुच्छेद एव यत् गृहिणः परिशुद्धिः।

कस्मात्। यत् कश्चित् रहोगतः पापकं कृत्वा न लज्जते तदाह्रीक्यम्। यत् स पापकचित्तप्रवृत्तेरूर्ध्वं सङ्घमध्येऽपि पापकं कृत्वा नापत्रपते। तदनपत्राप्यम्। सद्धर्ममूलात्कुशलधर्मद्वयाद्भष्टस्य सदाऽकुशलधर्मानुवर्तनं प्रमादः। एभिस्त्रिभिर्धर्मैः समन्वितो गुरुस्थानीयेनचार्येणानुशिष्ठं न समादत्ते। सा अगौरवता। आचार्यशासनस्य विपर्ययाचरणं संकथ्यदूषणम्। एवं सति आचार्यं परिवर्ज्य चिरं दुर्जनोपसदनं दुष्प्रज्ञसेवनम्। एभ्योऽनूत्पन्नमह्रीक्यमगौरवता। अनपत्रपाद्भवति संकथ्यदूषणम्। प्रमादाद्भवति दुर्जनोपसदनम्। अतोऽश्राद्धो भूत्वा दौःशील्यं समादाय कुसीदो भवति। दुर्जनं सेवमानः [आर्य]शासनमश्रद्दधान आह-नास्ति दुष्कृतस्य विपाक इति। दुष्कृतमाचरन् विपाकं विन्दत इति शृण्वन्मात्रो वा कुक्कटश्वादिधर्मं समादायात्यन्तिकपापमेव काङ्‍क्षते। तद्धर्मं समादाय न किञ्चिद्धितमविन्दतेति कौसीद्यमुत्पादयति। कौसीद्यात् सज्जनेऽप्रीतो भवति यत् तत्त्वतो नास्ति सम्यक् चर्याविहारीति। सद्धर्मश्रवणं द्विषन् आह सम्यक् चरितधर्मा मिथ्याधर्माः नास्ति ततः कश्चनोपकार इति। चित्तकषायात् परदोषप्रकटने प्रीत आह-परस्य धर्मचर्यातो मत्सदृशं नास्ति किञ्चिलब्धमिति। एवं क्लेशानामनिगृहीतवतश्चित्तमुद्धतं भवति। औद्धत्यादिन्द्रियाणामसमादधानस्य शीलं विपद्यते। शीलविपत्त्या स्मृतिर्मुषिता भवति। असम्प्रजन्ये विहरतश्चित्तं विक्षिप्यते। अयोनिशोमनस्कारश्च जायते। जातायोनिशोमनस्कारत्वात् दुर्मार्गे चरति। दुर्मार्गे चरन् नार्थं प्रतिलभते। अतश्चित्तं मुग्धमतिलीनं भवति। चित्तस्य मोहात् न त्रीणि संयोजनानि समुच्छेदयति। असमुच्छिन्नत्रिसंयोजनत्वान्न रागादिक्लेशान् प्रजहति। ततो व्याध्यादयः सर्वा विपत्तयश्च भवन्ति। एषां विरुद्धाः शुक्लधर्माः।

शोकः समाधेरपक्षालः। तस्मिन् वर्षे मासे अयने समाधिममुकं नालभ इति चिन्तयतो योगिनः शोको जायते।

प्रीत्यास्वादनेऽभिनिवेशोऽपि समाध्यपक्षालः। अनभिरतिश्च समाधेरपक्षालः। प्रतिरूपदेशकल्याणमित्रादिप्रत्ययान् लब्ध्वाऽपि न चित्तमभिरमते।

कामादीनि नीवरणानि समाधेरपक्षाला भवन्ति। संक्षिप्य यावच्चीवरपिण्डपातादयो धर्माः कुशलमूलापकर्षः अकुशलमूलप्रकर्षश्च सर्वाणि समाधेरपक्षालानि भवन्ति। इति बुद्‍ध्वा यत्नेन तान्यपनेतुं पर्येषेत॥

समाध्यपक्षालवर्गः षडशीत्युत्तरशततमः।

१६७ तृतीयध्यानवर्गः

प्रीत्याश्च विरागादुपेक्षको विहरति स्मृतः सम्प्रजानन् सुखञ्च कायेन प्रतिसंवेदयते यदार्या आचक्षन्ते उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानमुपसम्पद्य विहरति।

(पृ) कस्मात् प्रीत्याश्च विरागादिति। (उ) योगावचरः प्रीतौ परिभ्रमेदिति विरागः। प्रीतिश्चेयं संज्ञाविकल्पजा, चञ्चला प्रवृत्तिलक्षणा। प्रथमत आरभ्य दुःखानुयायिनी। हेतुनानेन विरागः। योगावचरः शान्तं तृतीयध्यानं लभमानो द्वितीयध्यानं प्रजहाति। प्रीतिजं सुखञ्च मन्दम्। प्रीतिविरागजं सुखं गभीरम्। यथा कश्चित् पुत्रभार्यादिभिः सदा न प्रीतो भवति। प्रीतेः संज्ञाविकल्पजत्वात्। सुखं न संज्ञाविकल्पजमिति सदा भवति। तथा योगावचरोऽपि प्रीतिं प्रथमत आगतां तु सुखं मन्यते। पश्चात्तु[ततो] निर्विद्यते।

(पृ) यदि कश्चिद्धर्मपीडितः, स तु शीतं सुखं मन्यते। योगावचरः केन दुःखेन पीडितः तृतीयं ध्यानं सुखं मन्यते। (उ) द्वितीयध्याने प्रीतिश्चञ्चलसंज्ञोदिता कण्टकाहतिवत्, योगावचरोऽनया प्रीत्या पीडित इति अप्रीतिसमाधौ सुखसंज्ञां करोति। (पृ) धर्मदुःखास्तित्ववशात् शीतं सुखं भवति। यदि धर्मविविक्तो भवति। न तदा शीतं सुखं भवति। योगावचरः प्रीतिविविक्तः कस्मात्पुनस्तृतीयध्याने सुखसंज्ञां करोति। (उ) सुखजननं द्वितीयध्यानं कदाचित् दुःखवर्तनात्सम्भवति। यथा धर्मदुःखिनः शीतं सुखं भवति। कदाचित् दुःखविवेकात् सम्भवति। यथा विप्रियविवेकः। यथा भगवान् कौशाम्बिभिक्षुविविक्त आह-अहं सुखीति। तथेदमपि चलसंज्ञाविविक्तः तृतीयध्याने सुखसंज्ञा करोति। यथा पञ्चकामगुणविवेकात्प्रथमं ध्यानं सुखं भवति।

उपेक्षक इति। प्रीतेर्विरागादिति शान्तं भवति। योगावचरः पूर्वं प्रीतिसंसक्तमना बहुधा विक्षिप्तः। इदानीं ततो विरागाच्चित्तं शाम्यति। अत उपेक्षक इत्युच्यते। स्मृतः सम्प्रजानन् इति। प्रीत्यादीनवादेतदुभयं सदोपनीयते। न तेन प्रीतिरागता प्रभिन्ना भवति। किञ्च स्मृत इति प्रीतेरादीनवं स्मरति। सम्प्रजानान् प्रीतावादीनवं पश्यति। सुखञ्च कायेन प्रतिसंवेदयत इति। प्रीतिविरक्तस्योपेक्षकस्योपेक्षैव सुखम्। अनिञ्जनानीषत्वात्। नेदं सुखं संज्ञाविकल्पजम्। अतः सुखञ्च कायेन प्रतिसंवेदयत इति नाम। यत्तदार्या आचक्षन्त उपेक्षक इति। आचक्षणं नाम लौकिकाननुसृत्य सुखमिति कथनम्। यथाचक्षन्ते नैवसंज्ञानासंज्ञायतनमिति। अनासक्तचित्तत्वात् उपेक्षक इति। स्मृतिमान् सुखविहारीति। पुरुषोऽयं प्रज्ञायोपेक्षते यत् प्रीतावादीनवं दृष्ट्वा निर्विद्यत इत्यतः सूपेक्षां लभते। कल्याणस्मरणं यत् प्रीतावादीनवस्मरणम्। तत्रापि वक्तव्यं सम्प्रजानन् इति। स्मृत्या साहचर्यात् नोच्यते। सुखमिति परमसुखम्। अत आर्या आचक्षन्त उपेक्षक इति।

(पृ) तृतीयध्यानेऽस्ति सुखप्रतिसंवेदनम्। कस्मादाह-उपेक्षासुखमिति। (उ) नाहमस्मिन् शास्त्रे वदामि वेदनाव्यतिरिक्तं पृथगस्ति उपेक्षासुखमिति। सुखप्रीतिसंवेदनमेवोपेक्षासुखम्। (पृ) तथा चेत् चतुर्थध्याने सुखप्रतिसंवेदनं वक्तव्यम्। उपेक्षायाः सत्त्वात्। (उ) चतुर्थध्यानेऽपि सुखप्रतिसंवेदनमस्तीति वदामि। किन्तु तृतीयध्यानसुखस्य प्रहाणादेवमुच्यते। (पृ) यदि सुखप्रतिसंवेदनसमन्वितम्। कस्मात्। प्रथमद्वितीयध्यानयोः प्रीतिरित्याख्या। तृतीयध्याने सुखमिति। (उ) संज्ञाविकल्पस्य सत्त्वात् प्रीतिः। तस्याभावात् सुखम्। योगावचरस्य तृतीयध्याने समाहितचित्तवृत्तित्वेन संज्ञाविकल्पस्याभावात् सुखमित्युच्यते। तृतीयध्यानप्रवृत्त्युपशमस्य लाभाच्च सुखमित्युच्यते। यता इञ्जनमीषणचित्तमार्या दुःखमिति वदन्ति। इञ्जनं नाम विकल्पस्याभिधानम्। तदेव सुखम्॥

तृतीयध्यानवर्गः सप्तषष्ट्युत्तरशततमः।

१६८ चतुर्थध्यानवर्गः

सुखस्य च दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति। (पृ) यदि पूर्वमेवदुःखस्य प्रहाणम्। कस्मादत्रोच्यते। यद्यवश्यं वक्तुमिष्टम्, वक्तव्यं पूर्वमेव प्रहाणादिति। यथा पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमादिति। (उ) चतुर्थध्यानमनिञ्जनम्। तदानिञ्जनलक्षणसाधनायोच्यते नास्ति चतुर्थी वेदनेति। कस्मात्। इञ्जनं नाम कम्पनारम्भः। योगावचरस्य सुखसुखाभिद्रुतस्य चित्तमिञ्जते। चित्त इञ्जिते रागद्वेषौ भवतः। सुखस्य दुःखस्य च प्रहाणात् चित्तं नेञ्जते।

(पृ) यदि चतुर्थध्यानं हिततमं वेद्यते। कस्मात्सुखमिति नोच्यते। (उ) वेदनाया अस्तङ्गमाददुःखमसुखमित्युच्यते। यत्रेदं सुखमिति चित्तं स्मरति प्रजानाति। तत् सुखमित्युच्यते। तृतीयध्यानकसुखविविक्तस्य चतुर्थध्यानस्य लाभान्न सुखमिति गण्यते।

उपेक्षास्मृतिपरिशुद्धमिति। अत्रोपेक्षा परिशुद्धा। अनीषणत्वात्। त्रिषु ध्यानेष्वस्ति ईषणं यदिदं सुखमिति। अस्मिंश्च ध्याने स्मृतिरपि परिशुद्धा। कस्मात्। तृतीयध्याने सुखासङ्गित्वात् स्मृतिर्व्याकुला। चतुर्थध्यानं प्राप्य सुखरागस्य प्रहाणात् स्मृतिः परिशुद्धा।

(पृ) कस्माच्चतुर्थध्याने न सम्प्रजन्यमुक्तम्। (उ) यद्युक्तं स्मृतिपरिशुद्धमिति। सम्प्रजन्यमुक्तमेवेति वेदितव्यम्। अनयोर्द्वयोर्धर्मयोर्मिथोऽव्यभिचारात्। किञ्चायं ध्यानसमाधिमार्गः न सम्प्रजन्यमार्गः। सम्प्रजन्यस्य प्रज्ञा[रूप]त्वान्नोच्यते। तृतीयध्यानस्य चरमभागेऽपि नोच्यते सम्प्रजन्यम्। उपेक्षकः स्मृतिमान् सुखविहारीति केवलमुच्यते। नोच्यते उपेक्षकः स्मृतिसम्प्रजन्यवान् सुखविहारीति। स्मृतिरियं ध्यानसमाधिं साधयति। यदि कस्यचित् समाधिरसिद्धा, [तस्य] संज्ञामादाय स्मृतिः साधयति। तेन केवलमुच्यते। उत्तमगुणमुपेक्षां प्राप्तस्य नाधमगुणो मनस्कारोऽपेक्ष्यते। अतः सम्प्रजन्यं नोच्यते।

(पृ) अदुःखासुखा वेदना अविद्याङ्गम्। चतुर्थध्याने भूयसा सम्प्रजन्यविरुद्धम्। अतो नोच्यते सम्प्रजन्यम्। (उ) तथा चेत् अदुःखासुखा वेदना नानास्रवा स्यात्। सुखवेदनायाः कामाङ्गत्वात्। न च [सा-] नास्रवा। (पृ) तृतीयध्याने स्वभूमिदोषविरोधायोच्यते सम्प्रजन्यम्। परभूमिदोषविरोधाय चोच्यते स्मृतिः। चतुर्थध्याने स्वभूमिर्नैवं दुष्टेत्यत्यतो नोच्यते सम्प्रजन्यम्। (उ) चतुर्थध्यानेऽपि अस्ति कामादिदोषः। अतो वक्तव्यं सम्प्रजन्यम्। अत्र कामदोषोऽतिसूक्ष्मः दुरवबोधः अतोऽवश्यं वक्तव्यं स्यात्। अन्यभूमौ वक्तव्यमपि नोच्यते। अतो ज्ञायते यथास्मत्प्रतिवचनं स्यादिति।

(पृ) कस्माच्चतुर्थध्यान आश्वासप्रश्वासनिरोधः। (उ) प्रश्वासः कायं चित्तञ्चाश्रयते। केनेदं ज्ञायते। यदा चित्तं सूक्ष्मं, तदा श्वासोऽपि सूक्ष्मः। चतुर्थध्याने चित्तमचलमित्यत आश्वासप्रश्वासौ निरुद्धौ। यथा कश्चित् परमक्लान्तो भारं वहति। पर्वतं वा आरोहति तदाश्वासः स्थूलो भवति। श्वसनकाले [पुनः] सूक्ष्मः। तथा चतुर्थध्यानेऽप्येवमचलसंज्ञया चित्तमुपशान्तमित्यत आश्वासप्रश्वासौ निरुद्धौ। केचिद्वदन्ति योगिनश्चतुर्थध्यानकचतुर्महाभूतलाभितया कायगतरोमकूपाः संवृताः। अतः श्वासो निरुद्ध इति। तदयुक्तम्। कस्मात्। अन्नपानरसप्रवाहः कायमभिव्याप्नोति। यदि रोमकूपाः संवृताः, न समुदाचरेत्। वस्तुतस्तु न सम्भवति। अतो ज्ञायते चतुर्थध्यानचित्तबलमेव श्वासनिरोधकमिति।

(पृ) चतुर्थध्याने नास्ति सुखा वेदना। तत्र कथमस्ति तृष्णानुशयः। उक्तं हि सूत्रे-सुखवेदनायां तृष्णानुशय इति। (उ) तत्रास्ति सूक्ष्मा सुखा वेदना। औदारिकसुखप्रहाणात्परमुच्यते अदुःखमसुखमिति। यथा समीरणप्रकम्पितप्रदीपः। यदि निगूढगृहे निक्षिप्यते। तदा न कम्पते। तत्रावश्यमस्ति खलु सूक्ष्मो वातः। औदारिकवाताभावात्तु न कम्पते। तथा चतुर्थध्यानेऽप्यस्ति सूक्ष्मं सुखम्। औदारिकसुखदुःखप्रहाणाददुःखमसुखमित्याख्यायते॥

चतुर्थध्यानवर्गोऽष्टषष्ठ्युत्तरशततमः।

१६९ आकाशानन्त्यायतनवर्गः

सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनस्कारा दनन्तम् आकाशम् इत्याकाशानन्त्यायतनमुपसम्पद्य विहरति। रूपसंज्ञा नाम रूपरसगन्धस्पर्शसंज्ञाः। योगावचरः कस्मात्[ताः] समतिक्रामति। यदेषु रूपेषु प्रतिघः अन्तरायः। नानात्वसंज्ञा यत् घण्टाभेर्यादयः। एताः संज्ञा विविधक्लेशानां विविधकर्मणां विविधदुःखानां हेतवः। अतो हेतोः समतिक्रामति। सर्वशो रूपसंज्ञानां समतिक्रान्तस्य प्रतिघसंज्ञा निरुध्यते। प्रतिघसंज्ञानिरोधे नानात्वसंज्ञा न भवति। तत्र संक्षेपान्नोक्तम् अस्य समतिक्रमादस्य निरोध इति।



केचिदाहुः- सर्वशो रूपसंज्ञेति चक्षुर्विज्ञानाश्रिता संज्ञा इति। प्रतिघसंज्ञेति श्रोत्रघ्राणजिह्वाकायविज्ञानाश्रिता संज्ञा। नानात्वसंज्ञेति मनोविज्ञानाश्रिता संज्ञा। इति। इदमयुक्तम्। कस्मात्। प्रतिघसंज्ञा निरुध्यत इति वदतो रूपं सङ्‍ग्रहीतमेव। कस्मात् पृथगुच्यते। रूपसंज्ञां प्रतिघसंज्ञाञ्च विना नास्ति पृथङ्‍मनोविज्ञानाश्रितं रूपम्। अतो न वक्तव्यं पृथङ् नानात्वसंज्ञेति। इति यथापूर्वं वक्तव्यम्।

आकाशानन्त्यायतनमुपसम्पद्य विहरतीति। योगावचरः रूपसंज्ञाभिभवपरिश्रान्तत्वादाकाशानन्त्यायतनं भावयति। अन्तश्चक्षुर्घ्राणग्रीवाद्याकाशसंज्ञां गृह्णाति। बहिः कूपगुहाद्वारान्तर्वृक्षवाटिकाद्याकाशसंज्ञां गृह्णाति। किञ्चायं कायो मरणविपन्नः स्मशानाग्निना दग्धः प्रणश्यति। अतो ज्ञायते कायोऽयं पूर्वं साकाश इति।

(पृ) अयमाकाशसमाधिः किमालम्बनेन भवति। (उ) आदित आकाशालम्बनः स्वीयस्कन्धालम्बनः परकीयस्कन्धालम्बनश्च सिद्धो भवति। कस्मात्। करुणाशीर्षक एवं चिन्तयति-सत्त्वा दयनीया रूपसंज्ञापीडिता इति। (पृ) समाधिरयं कं सत्त्वमवलम्बते। (उ) सर्वसत्त्वानवलम्बते। (पृ) योगावचरोऽयं रूपसंज्ञाविविक्तः। कथं रूपसत्त्वानवलम्बते। (उ) अयं रूपमवलम्बते। रूपे तु चित्तं न सुप्रबुद्धं नाभिरक्तं नाभ्यासक्तम्। यथोक्तं सूत्रे-आर्यः पञ्चकामगुणान् दृष्ट्वा संस्मरन् न तत्राभिनन्दति न प्रबोधयति नाध्यवसाय तिष्ठति। ततो भीतो निवर्तते। यथा तापात् चर्मच्छेदः। निर्वाणमनुस्मरतश्चित्तं तत्र सुप्रबुद्धं भवति इति। एवमयमपि रूपमवलम्बमानो न[तत्रा] भिनन्द्याध्यवसाय तिष्ठति। यथा च योगावचरो रूपसंज्ञाविविक्तोऽपि आकाशान्तेन चतुर्थध्यानमवलम्बते। यथा अरूपसमाधिरनास्रवं रूपमबलम्बते। न तत्र दोषोऽस्ति। अक्लेशायतनत्वात्। तथान्यदपि स्यात्।

(पृ) आकाशं रूपायतनस्वभावम्। कथमिदमालम्ब्य रूपसंज्ञाः समतिक्रामति। (उ) समाधिरयमसंस्कृताकाशावलम्बित्वात् रूपाणि समतिक्रामति। (पृ) समाधिरयं नासंस्कृतमाकाशमवलम्बते। कस्मात्। अस्मिन् समाध्युपाये चक्षुरादिमध्य[गत] माकाशमुक्तम्। अतो ज्ञायते संस्कृतमाकाशमवलम्बत इति। न चोक्तं सूत्रे असंस्कृताकाशस्य लक्षणम्। संस्कृताकाशलक्षणमत्रमुक्तं यत्र रूपं नास्ति तदाकाशमिति। अतो नासंस्कृतमाकाशम्। (उ) न रूपस्वभावामाकाशमुच्यते। कस्मात्। उक्तं हि सूत्रे आकाशमरूपमदृश्यमप्रतिघमिति। (पृ) अस्ति पुनः सूत्रवचनम्-आलोकं प्रतीत्याकाशं जानीम इति। न रूपं विहायास्त्यन्यो धर्म आलोकं प्रतीत्य ज्ञाप्यः। (उ) रूपाभाव आकाश इत्युच्यते। रूपाण्यालोकेन ज्ञाप्यानि। अत आलोकं प्रतीत्य रूपाभावो ज्ञायते। नत्वाकाशमस्ति।

तमस्यपि आकाशं ज्ञायते। अन्धो हस्तेनापि आकाशं जानाति। दण्डेनापि आकाशमिदमिति जानाति। अतो ज्ञायते आकाशं न रूपस्वभावमिति। न रूपमेभिः प्रत्ययैर्ज्ञाप्यते। रूपमिदञ्च सप्रतिघम्। आकाशमप्रतिघम्। आन्यादिः रूपाण्यत्यन्तं क्षपयति। नत्वाकाशम्। यद्याकाशं क्षीयते, किमात्मकं भवेत्। (पृ) रूपस्योत्पादेसत्याकाशमस्तमेति। यथा भित्तावुद्‍भूतायां न पुनराकाशमस्ति। (उ) तत्र रूपमुत्पन्नम्। नानेन रूपेण यत्किञ्चित् क्षीयते। कस्मात्। रूपाभावो ह्याकाशम्। नह्यभावः पुनरभावः कर्तुं शक्यः। अतो न रूपाकाशं क्षपयति। भवानाह-आकाशं रूपमिति। न तत्रास्तिकारणं येनेदं रूपं भवेत्। (पृ) पश्यामः खलु द्वारादावाकाशम्। प्रत्यक्षदृष्टे न कारणापेक्षा। (उ) आकाशं न प्रत्यक्षदृश्यमिति पूर्वमेव दूषितत्वात्-यत् तमस्यपि ज्ञाप्यमित्यादि।

(पृ) यद्याकाशं न रूपम्। को धर्म इदं भवति। (उ) अभावधर्म आकाशम्। यत्र[रूपं] नास्तीति वचनम् तत्राकाशं भवति। (पृ) उक्तञ्च सूत्रे-षड् धातुरयं पुरुषकाय इति। किञ्चाह-आकाशमदृश्यमरूपमप्रतिघमिति। यद्यभावधर्मः, नैव वक्तुं शक्यते। न हि शशशृङ्गदृश्यमरूपमप्रतिघमित्युच्यते। (उ) यो वस्तुसन् धर्मः स सर्वः प्रतिष्ठितो भवति। यथा नाम रूपाश्रितम्, रूपञ्च नामाश्रितम्। आकाशन्त्वनाश्रितमतोऽभावधर्म इति ज्ञायते। यद्भभवानाह-आकाशं धातुरिति। तदपि न युक्तम्। कस्मात्। रूपे रूपं प्रतिहन्यते रूपमसति विरुद्धरूपे विवर्धते। अनेनार्थेनाह भगवान्-षड्‍धातुकोऽयं पुरुषकाय इति। [यत्] भवानाह-न हि शशशृङ्ग मदृश्यमरूपमप्रतिघमित्युच्यत इति। तदप्ययुक्तम्। कस्मात्। सर्वथा आकाशवशाल्लभ्यते। अस्ति कृतकमतीतानागतवस्त्वादि। नेदृशमस्ति शशशृङ्गादौ। (पृ) चित्तमप्येवमरूपममूर्तमप्रतिघम्। नास्तीति वक्तव्यम्। (उ) चित्तन्तु कर्म करोति यदालम्बनमुपादत्ते। आकाशमकर्मकम्। अभावमात्रेण कृतकास्तितालाभादभावधर्म इति ज्ञायते अतोऽयं समाधिरदित आकाशमवलम्बते।

(पृ) समाधिरयं कतमां भूमिमवलम्बते। (उ) सर्वा भूमिः निरोधमार्गञ्चावलम्बते। (पृ) केचिदाहुः-अरूपसमापत्तयो निरोधालम्बना अपि अयं अनुमानज्ञानभागीयं निरोधमात्रमालम्बते। न दृष्टज्ञानभागीयं निरोधम्। इति। तत्कथम्। (उ) सर्वं निरोधमवलम्बते। दृष्टधर्मज्ञानेन प्रत्युत्पन्नस्वभूमि[गत] निरोधमवलम्यते। अनुमानज्ञानेनान्यनिरोधमवलम्बते। एवं मार्गोऽपि। सर्वप्रतिपक्षावलम्बित्वात्।

(पृ) आरूप्यधातुगताः सत्त्वा अन्यभूमिकचित्तमुत्पादयन्ति न वा। (उ) अन्यभूमिकचित्तमनास्रवचित्तञ्चोत्पादयन्ति। (पृ) तथा चेत् कथं न च्युतिर्भवति। (उ) कर्मविपाके वर्तमानत्त्वान्न च्यवते। यथा कामधातौ रूपधातौ चाभिज्ञाबलादन्यस्मिन् रूपे अन्यस्मिन् चित्ते स्थितोऽपि न च्यवते। तथा तत्रापि। (पृ) आकाशानन्त्यायतनसमाधेराकाशायतनस्य कृत्स्नायतनस्य च को भेदः। (उ) आकाशानन्त्यायतनं समापित्सोरुपायमार्गः कृत्स्नमित्याख्यायते। समाधिसमापत्तिः सम्पन्ना आकाशसमाधिसमापत्तिः ?। तत्र समाधेर्हेतुफल[भावो] भूमिः सर्वा सास्रवा [वा]अनास्रवा। यदि समाधिः, समाधिं विना यदि संक्लेशः यदि वा व्ववदानम् सर्वमाकाशानन्त्यायतनमित्याख्यायते ?॥

आकाशानन्त्यायतनवर्ग एकोनसप्तत्युत्तरशततमः।

१७० आरूप्यसमाधित्रितयवर्गः

सर्वश आकाशानन्त्यायतनं समतिक्रम्य [अनन्तं विज्ञानमिति] विज्ञानानन्त्यायतनमुपसम्पद्य विहरति। योगावचरो रूपात्परमनिर्विण्णो रूपप्रतिपक्षधर्ममप्युपेक्षते। यथा नदीं तीर्त्वा उडुपं त्यजति। यथा वा चोरं निष्कास्य निवर्तयितुमिच्छति। तथा योगावचरोऽपि आकाशं प्रतीत्य रूपं परिभेदयन् [आकाश]मपि परिजिहीर्षति।

विज्ञानानन्त्यायतनमिति योगावचरो विज्ञानेनानन्तमाकाशमित्यवलम्बमानः तदा अनन्तं विज्ञान [मपि आलम्बते]। अत आकाशमुपेक्ष्य विज्ञानमवलम्बते। यथा रूपपरिश्रान्त आकाशमालम्बते। तथा आकाशपरिश्रान्त उपशमेच्छया विज्ञानमात्रमालम्बते। पुद्गलोऽयं विज्ञानेनाकाशमालम्बत इत्यतो विज्ञानप्रधान इत्युच्यते। अतो विज्ञानमात्रमालम्बते।

योगावचरो विज्ञानेनालम्बनमनुवर्तयन् कालमनुवर्तत इत्यतोऽनन्तमस्ति। तत्परिश्रमनिर्विण्णो विज्ञानं परिभिद्य तत्परिजिहीर्षया आकिञ्चन्यायतनमुपसम्पद्य विहरति। [तदा] एवं चिन्तयति विज्ञानमस्ति तत्र दुःखम्। मम यद्यस्ति अनन्तं विज्ञानम्, तदा अवश्यमन्ते दुःखेन भाव्यम् इति। अतो विज्ञानालम्बनचित्तं प्रगृह्णाति। चित्तस्य [परम] सूक्ष्मत्वात् आकिञ्चन्यमित्युच्यते।

पुनरेवं चिन्तयति-अकिञ्चन्यमितीयं संज्ञा। संज्ञा च दुःखोपायायासाय भवति रोगतो गण्डतः। यस्य संज्ञा नास्ति स पुनर्मूढो भवति। यदाकिञ्चन्यं पश्यामि तदेव किञ्चिद्भवति। अतः संज्ञाभ्यो न विमोक्षलब्धः। योगावचरः संज्ञां विपदं आसज्ञिकं सम्मोहं पश्यति। इति नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरति। शान्तं प्रणीतञ्च यत् नैवसंज्ञानासंज्ञायतनमित्युच्यते। पृथग्जनाः सदोत्रस्ता असंज्ञां सम्मोहं मन्यन्ते। अतो नात्यन्तं चित्तं निरोद्धुमलं भवन्ति।

केचिदाहुः-असंज्ञिसत्त्वा अपि चित्तं निरोद्धुमलमिति। तदयुक्तम्। कस्मात्। यदि रूपधातौ चित्तं निरोद्धुमलं भवन्ति कस्मादारूप्यधातौ नालम्। (पृ) रूपधातुः रूपवानित्यतश्चित्तं निरोधयन्ति। आरूप्यधातौ प्रागेव रूपं निरुद्धम्, इदानीं पुनश्चित्तं निरुध्यते रूपचित्तयोर्युगपन्निरोधं पश्यत उत्राससम्मोहः स्यात्। (उ) यत् तत्र वर्तमानं न [तत्] निरोधकम्। तदन्तराजायमानन्तु निरोधकं स्यात्। यथा निरोधसमापत्तौ। (पृ) चित्तनिरोधस्य फलमासंज्ञिकम्। अतो रूपचित्तनिरोधेऽत्यन्तदोषाय भवति। (उ) निरोधसमापत्तेरपि सचित्तकता फलम्। तथेदमपि। यदि फलमसमुच्छिन्नम्, [तदा] फलस्थ इति नाम। यथा निर्मितगतं रूपम् निर्मितचित्ते पुनः फलमुत्पादयति। अतो नात्यन्तं निरुध्यते। अतो रूपधातौ न चित्तनिरोधो वक्तव्यः। यद्युच्यते। अरूपधातावपि वक्तव्यः स्यात्।

असंज्ञि समापत्तौ च न चित्तं निरुध्येत। कस्मात्। योगावचरोऽवश्यं चित्तनिर्वेदात् चित्तविरागात् चित्तं निरोधयति। यदि चित्तनिर्विण्ण एवारूपधातौ नोत्पद्येत। किं पुनः रूपधातावुत्पद्येत इति। पृथग्जनाश्चित्ते गभीरमात्मसंज्ञामुत्पादयन्ति। यथोक्तं सूत्रे-दीर्घरात्रं [ह्येतत् भिक्षवः] अश्रुतवतः] पृथग्जनस्य अध्यवसितं ममायितं परामृष्टम् एतन्मम एषोऽहमस्मि एष म आत्मेति। अतो न निश्शेषं निर्विद्यते विरज्यते। किञ्चोक्तं सूत्रे-तीर्थिकाः त्रयाणामुपादानानां समुच्छेदं निरोधमुपदिशन्ति नात्मवादोपादानस्य इति। अतो न चित्तं निरोद्धुमलम्। यथा मर्कटोपमसूत्रम् [अश्रुतवान्] पृथग्जनः कायं विरज्येत न चित्तम्। वरं [भिक्षवः अश्रुतवान्] पृथग्जन इमं चातुर्महाभौतिकं काय[मात्मत] उपगच्छेत् न त्वेव चित्तम्। तत्कस्य हेतोः। दृश्यतेऽयं [भिक्षव श्चातुर्महाभौतिकः] काय [एकमपि वर्षं] तिष्ठन्.....दश वर्षाणि [तिष्ठन्] यावच्छतवर्षाण्यपि तिष्ठन्। यच्च खलु [एतद्भिक्षव] उच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि तत् रात्याश्च दिवसस्य चात्ययेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते। तद्यथा [भिक्षवः] मर्कट [अरण्य उपवने चरन्] शाखां गृह्णाति। तां मुक्त्वा अन्यां गृह्णाति। एकमेव भिक्षवो यदिदमुच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि। तत् रात्याश्च दिवसस्य चात्यायेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते।] तत्र श्रुतवान् [भिक्षवः] आर्यश्रावकः प्रतीत्य समुत्पादमेव साधुकं योनिशो मनसिकरोति। अतोऽनित्यमित्येव प्रजानाति इति। प्रतीत्यसमुत्पादस्याज्ञाता वेदनाविशेषादिज्ञानं विकल्पयति। सर्वे तीर्थिका अविकल्पप्रत्ययज्ञानत्वात् न चित्तं निरोधयितुमलम्। पृथग्जनाश्च रूपविरागिणो[ऽपि] चित्ताविरागित्वान्नालं विमोक्तुम्। ये युगपच्चित्तं निरोद्धुमलम्। ते कस्मान्नालं विमोक्तुम्।

किञ्च पृथग्जनाः [चित्त] निरोधभीरुतया निर्वाणे नालं शान्तशिवसंज्ञामुत्पादयितुम्। यथोक्तं सूत्रे-नैषोऽहमस्मि, नैतन्ममेति पृथग्जनानामुत्रासपदम् शान्तशिवसंज्ञां नोत्पादयति। कथं चित्तं निरोद्धुमलं भवेत्। पृथग्जनानाञ्च धर्मो [यत्] उत्तमां भूमिं प्रतीत्यावरां भूमिं विजहाति। अतो नास्ति चित्तनिरोधप्रत्ययः। किन्तु समाधिबलेन सूक्ष्मसंज्ञामभिमुखीकृत्य चित्तस्य प्रबोधात् वदति नास्ति संज्ञेति। औदारिकसंज्ञामुत्पादयन् तदैव [ततः] च्युतः पतति। [स चासंज्ञीत्युच्यते।] यथा अल्पज्ञोऽज्ञ इति। यथा वा अल्पदशनोऽदशन इति। यथा वा सम्मूर्छाभ्रष्टचेतनाः सुषुप्ताः क्रिमयः शीतिभूतमकराः। यथा वा नैवसंज्ञानसंज्ञायतनमित्युच्यते। तथा तत्रापि वस्तुतः संज्ञायां सत्यामपि संवृतितोऽसंज्ञीत्युच्यते।

आरूप्यसमाधित्रयवर्गः सप्तत्युत्तरशततमः।

१७१ निरोधसमापत्तिवर्गः

सर्वशोनैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधं कायेन स्पृष्ट्वा विहरति। (पृ) ध्यानेषु कस्मान्नोच्यते सर्वशः समतिक्रम्येति। अरूपसमापत्तिषु च नोक्तोऽस्तङ्गमः। (उ) उक्तं खल्वस्माभिः ध्यानसमाधिषु सन्ति वितर्कविचारप्रीतिसुखादयो धर्मा इति अतो नोच्यते सर्वशः समतिक्रम्येति। (पृ) आकाशानन्त्यायतने रूपचित्तमस्तीति प्रतिपादितमेव। अतोऽरूपेष्वपि न वक्तव्यं सर्वशः समतिक्रम्येति (उ) आकाशानन्त्यायतनसमापत्तिं समापन्नो रूपचित्ताद्विमुच्यते, न वितर्कविचारादिभ्यो धर्मेभ्यः। केचिदाहुः-समतिक्रमो व्युपशमोऽस्तङ्गमः सर्वमेकार्थकम्, व्यञ्जनमेव नाना इति। आरूप्यसमापत्तिषु च चित्तं सुस्थिरम्। अवरभूमौ चित्तं विक्षेपकम्प्यम्। अतो नोच्यते सर्वशः समतिक्रम्येति। (पृ) यत् सहैवोक्तं अस्ति कण्टको यदुत रूपसंज्ञा इत्यादि। तत् कस्मादुच्यते चित्तं सुस्थिरमिति। (उ) यद्यपि सहैवोक्त मस्ति कण्टक इति। तथापि चतुर्थध्यानमचलमित्याख्यायते। एवमरूपसमापत्तिषु समापत्तिबलमहिम्ना सुस्थिरमित्याख्या लभ्यते।

(पृ) शैक्षो न निरोधसमापत्तिं लभेत। नैवसंज्ञानासंज्ञायतनस्य सर्वशोऽनतिक्रमात्। (उ) शैक्षो नैवसंज्ञानासंज्ञायतने सर्वसंस्काराणां व्युपशमं पश्यति। किन्तु न पश्यति तेषामनुत्पादम्। अत उक्तदोषो लभ्यते। यत् भवता पूर्वमुक्तं नवानुपूर्विकेषु चित्तचैत्तानां निरोध इति तत् विरुध्यते। (उ) निरोधसमापत्तिर्द्विविधा-क्लेशानां क्षयरूपा क्लेशानामक्षयरूपा इति। क्लेशानां क्षयरूपा विमोक्षेषु वर्तते क्लेशानामक्षयरूपा अनुपूर्वं [विहारे]षु वर्तते। (१) क्लेशानां निरोधान्निरोधसमापत्तिः, (२) चित्तचैत्तानां निरोधान्निरोधसमापत्तिः। क्लेशानां निरोधोऽष्टमविमोक्षः। तेदेवार्हत्फलम्। अर्हत्फलञ्च सर्वसंज्ञानां पुनरनुत्पादको व्युपशम एव। अत्र संज्ञानां व्युपशमेऽपि अन्यसंयोजनानां सत्त्वात् पुनरनुत्पादिका न भवति।

(पृ) यदि योगवचरो नवानुपूर्वविहारैश्चित्तं निरोधयति। स्रोत‍आपन्नादयः कथं चित्तनिरोधधर्मं साक्षात्कुर्वन्ति। (उ) अनुपूर्वविहारेषु निरोधो महानिरोधः। यदि कश्चित् ध्यानसमापत्तीः साधु भावयति, मार्गचित्तबलदार्ढ्यादिमं निरोधं लभते। यदि नास्ति तद्बलम्, तदा निरोधसमापत्तिर्नेदृशं महाबलं विन्दते। अतोऽनुपूर्वविहारा उक्ताः। अन्यत्राप्यस्ति निरोधचित्तम्। यथा चतुर्थध्याने चित्तचैत्तान् निरुन्ध्य आसंज्ञिके प्रविशति। प्रथमध्यानादौ कस्मान्न निरोधः। अन्यत्रापि च निरोधचित्तार्थो भवेत्। यथोक्तं सूत्रे स्रोत‍आपन्नादयो निरोधं साक्षात्कुर्वन्ति। निरुद्धचित्तमेव निरोध इत्युच्यते न पुनरन्योऽस्ति धर्मो निरोध इति। अतो ज्ञायते इमा नवभूमीर्विहायाप्यस्ति चित्तनिरोध इति।

(पृ) यदि निरोधसमापत्तौ सर्वचित्तचैत्तान् निरोधयति। कस्मात्संज्ञावेदयितनिरोधमात्रमुच्यते। (उ) सर्वाणि चित्तानि वेदितानीत्युच्यन्ते। वेदितञ्चेदं द्विविधं-संज्ञावेदितं प्रज्ञावेदितमिति। संज्ञावेदितं संस्कृतालम्बनं चित्तम्। संज्ञाकाराणां प्रज्ञप्तिगतत्वात् प्रज्ञप्तिश्च द्विविधा-हेतुसंघातप्रज्ञप्तिः धर्मप्रज्ञप्तिश्चेति। अतः सर्वसंस्कृतालम्बनं चित्तं संज्ञा भवति। प्रज्ञावेदितं असंस्कृतालम्बनं चित्तम्। अतः संज्ञावेदितनिरोध इत्युक्तौ सर्वनिरोध उक्तो भवति।

(पृ) सर्वेषु चित्तचैत्तेषु प्राधान्यात् संज्ञावेदितं केवलमुच्यते। कस्मात्। क्लेशानामस्ति भागद्वयम्-तृष्णाभागो दृष्टिभाग इति। वेदितादुत्पद्यते तृष्णाभागः। संज्ञातो दृष्टिभागः। कामधातौ रूपधातौ च वेदितं प्रधानम्। अरूप्यधातौ तु संज्ञा प्रधाना। अतो द्विविधमेवोक्तम्। विज्ञानस्थितिषु च संज्ञावेदितमात्रमुक्तम्। विज्ञानस्थितीनां चित्तादुत्थितत्वादेव संस्कार इत्याख्या। संज्ञावेदितनिरोध इत्युक्तौ च सर्वचित्तचैत्तानां निरोध उक्तो भवति। चित्तचैत्तानां ततोऽव्यभिचारात्। (उ) मैवम्। भवानाह-प्राधान्यात् [संज्ञावेदितं] केवलमुच्यत इति। [तदा] चित्तमात्रं वक्तव्यम्। कस्मात्। उक्तं हि तत्र तत्र (?) सूत्रे-चित्तं खल्वधिपत्तिः द्विविधानां क्लेशानामाश्रयः। चित्तस्यैव विकल्पात् संज्ञावेदितमित्युच्यते। इति। अतो वक्तव्यं चित्तमेव। चित्ते चोक्ते सुगमम्। अतो भवदुक्तिर्न [संभवति]।

(पृ) समापत्तिरियं कस्मादुच्यते कायेन स्पृष्ट्वा विहरतीति। (उ) अष्टविमोक्षाः सर्वे कायेन स्पृष्ट्वा विहरन्तीति वक्तव्याः। अयं निरोधधर्मः अनभिलापवेद्यत्वात् कायेन साक्षात्करोतीत्याह। तद्यथा अपां स्प्रष्टा तच्छैत्यं प्रजानाति। न तु श्रोता प्रजानाति। तथेदमपि। अचित्तधर्मत्वात् इयं कायेन साक्षात्करोतीति स्यात्।

(पृ) यद्भवानाह-निरोधसमापत्तिरचित्तधर्म इति। न तत् युज्यते। कस्मात्। समापत्तिमिमां समापन्नः सत्त्व [एव] भवति। लोके च नास्ति कोऽपि सत्त्वोऽचित्तक इत्यतोऽयुक्तम्। उक्तञ्च सूत्रे-आयुरूस्म विज्ञानमिमे त्रयो धर्माः सदाऽव्यभिचारिण इति। अतो नास्ति निरुद्धचित्तः [सत्त्वः]। सर्वे च सत्त्वाश्चतुर्भिराहारैर्जीवन्ति। निरोधसमापत्तिमुपसम्पन्नस्य न सन्त्याहाराः। कस्मात्। नह्ययं कबलीकारमाहारं भुनक्ति। स्पर्शादयोऽपि निरुद्धाः। अतो नास्त्याहारः। चित्तञ्च चित्तादुत्पद्यते। चित्तेऽस्मिन् निरुद्धे नान्यच्चित्तमुत्पद्यते। समनन्तरप्रत्ययाभावात् कथमूर्ध्वभावि चित्तमुत्पद्येत। किञ्चानुपधिशेषनिर्वाणप्रविष्टमात्रं चित्तं समुच्छिन्नसन्तति सत् निरुध्यते। नान्यत्र[गतं] निरुध्यते। यथोक्तं सूत्रे-रूपेण कामान् समतिक्रामति। अरूपेण रूपं समतिक्रामति। निरोधेन सर्वचेतनामनस्कारान् समतिक्रामति इति। चित्तमेव चेतना मनस्कारो भवतीत्यवश्यं निरोधेन तं समतिक्रामति। सोपधिशेषनिर्वाणलाभिनः क्लिष्टं चित्तं निरुध्यते। निरूपधिशेषनिर्वाणलाभिनोऽक्लिष्टं चित्तं निरुध्यते। इत्ययमेव तथागतशासने सम्यगर्थः। निरोधसमापत्तिं समापन्नश्च न मृत इत्युच्यते। चित्तनिरोधो हि मरणम्। यदि निरुद्धं चित्तं पुनर्जायते। मृतश्च पुनर्जायेत। निर्वाणं प्रविष्टोऽपि पुनर्जायेत। तदा तु नैव विमोक्षः। वस्तुतस्तु न तथा। अतश्चित्तं न निरुध्यते।

अत्रोच्यते। यद्भवानाह-नास्त्यचित्तकः सत्त्व इति अचित्त[ता] साम्येऽपि मरणेऽस्ति भेदः। यथा सूत्रे परिपृच्छति-योऽयं [भन्ते] मृतः [कालकृतः] यश्चायं संज्ञावेदयितनिरोधं समापन्नः। अनयोः किं नानाकरणम्। प्रत्याह-योऽयं [गृहपते] मृतः [कालकृतः]। तस्य आयुरूष्म विज्ञानमितीमानि त्रीण्येकान्तनिरुद्धानि। यश्चायं [गृहपते] संज्ञावेदयितनिरोधं समापन्नः। तस्य चित्तमात्रं निरुद्धम्, आयुरूष्म तु कायाद् विभक्तं वर्तते इति। अतोऽचित्तकः सत्त्वो भवेदिति। पुरुषस्यास्य चित्तं स ततस्थितिलाभि भवति। [स्थिति] लाभबलात् सचित्त इत्याख्या। न तु स तरुपाषाणसमः। यद्भवानवोचत्-त्रीणि वस्तून्यव्यभिचारीणीति। तत् कामरूपधातुकसत्त्वार्थतयोक्तम्। अरूपधातावस्त्यायुः, अस्ति विज्ञानम्, नत्वस्ति ऊष्म। निरोधसमापत्तिं समापन्नस्य चास्त्यायुः अस्त्यूष्म, नत्वस्ति विज्ञानम्। अस्मिन् सूत्रेऽप्युक्तम् विज्ञानं कायाद्विभक्तमिति। अतस्त्रीण्यविभक्तानीति यत् वचनं, तत् यत्र सन्ति तत्रोक्तम्।

यदवोचद्भवान्-आहारं विना कथं जीवेदिति। कायोऽयं पूर्वतनीनमनः सञ्चेतनाहारात् प्रत्युत्पन्ने वर्तते। शीतादिस्पर्शात् कायं सन्धत्ते। यदुक्तं भवता चित्तं प्रतीत्य चित्तमुत्पद्यत। [तत्र] चित्तं चित्तान्तरस्य कारकहेतुः। कारकहेतौ निरुद्धे चित्तान्तरमुत्पादयति। (पृ) कथं निरुद्धं चित्तं चित्तान्तरमुत्पादयति। यथा चक्षू निरुद्धं सत् न तद्विज्ञानं जनयति। (उ) यथा निरुद्धं कर्म विपाकमुत्पादयति। तथेदमपि। यन्मनः यच्च मनोविज्ञानम् इमे द्वे मिथः प्रतिसम्बन्धिनी। न तथा चक्षुश्चक्षुर्विज्ञानम्। अतोऽहेतुः। यदवोचः सन्तानसमुच्छेद एव चित्तं निरुध्यत इति। तदयुक्तम्। त्रिविधो हि निरोधः-रूपनिरोधः चित्तनिरोधः कदाचिद्रूपचित्तोभयनिरोधः, कदाचिद्रूपस्य निरोधो न तु चित्तस्य यथा निरोधसमापत्तिसमापन्ने। कदाचिद्रूपचित्तोभयनिरोधः यथा सन्तानसमुच्छेदे।

यदवोचः निरोधसमापत्तिं समापन्नो न मृत इत्युच्यत इति। पुरुषस्यास्य नायुरूष्म निरुद्धम्। मृतस्य त्रीण्यपि निरुद्धानीति। अयं भेदः। पुरुषस्यास्य च आयुरूष्म प्रतीत्य चित्तं पुनरुत्पद्यते। न तथा मृतस्य। यदुक्तं भवता-यदि निरुद्धं चित्तं पुनर्जायते, तदा न विमोक्ष इति। तदयुक्तम्। कस्मात्। निर्वाणं प्रविष्टस्य पूर्वकर्मवेद्यानि आयुरूष्मविज्ञानानि निरुद्धानि। न पुनरुत्पद्यन्ते। अस्य तु आयुरूष्मणोरनिरोधे पूर्वकालीनं चित्तमुत्पद्यते। यथा निरोधसमापत्तिवर्ग उक्तम्-निरोधसमापत्तिं समापन्नः षडायतनानि कायजीवितञ्च प्रतीत्य पुनर्व्युत्तिष्ठत इति। अतश्चित्तं पुनरुत्पद्यते। निर्वाणं प्रविष्टस्य चित्तं परं न पुनरुत्पद्यते। अतो ज्ञायते समापत्तिरियमचित्तकेति।

(पृ) कस्मादेतत्समापत्तेर्व्युत्थितस्य दत्तं दृष्टधर्मे विपाकं प्रापयति। (उ) एतत्समापत्तेर्व्युत्थितस्य चित्तं परमशान्तम्। यथोक्तं सूत्रे- निरोधसमापत्तेर्व्युत्थितस्य चित्तं निर्वाणभागीयम् इति। अस्य च ध्यानसमापत्तिबलं सुदृढम्। तदाश्रित्य प्रज्ञाऽपि महती। प्रज्ञामहिम्ना दायको विशिष्टं विपाकं विन्दते। यथा शतसहस्रश्रावकाणां सत्कारको नैकबुद्धस्य [सत्कार] समानो भवति। अत्र प्रज्ञयैव विशेषो न संयोजनसमुच्छेदे। तथेदमपि। इमां समापत्तिं समापन्नस्य बहुलसद्धर्मवासितचित्तत्वात् महाफलमुत्पद्यते। यथा सुकृष्टे क्षेत्रे सस्यमवश्यं बहुलं भवति। लोकान्निर्विण्णस्य दानं महाविपाकं प्रापयति। निरोधसमापत्तेर्व्युत्थितो लोकात्परमनिर्विण्ण इत्यतस्तत्सत्कारो विशिष्टः। विशुद्धचित्तस्य दानं महाविपाकप्रापकम्। नाविशुद्धचित्तस्य पुरुषोऽयं प्रज्ञप्त्यापि न क्लिष्टचित्तः। अत[स्त]त्सत्कारो महाविपाकप्रापकः। किञ्चायं सदा परमार्थसत्ये तिष्ठति। अन्ये संवृतिसत्ये वर्तन्ते। पुरुषोऽयं सदा सरणधर्मे वर्तते। कस्मात्। संस्कृतालम्बनं चित्तं सरणं भवति। उक्तञ्च सूत्रे-

तृणदोषाणि क्षेत्राणि रागदोषा इयं प्रजा।
तस्माद्धि वीतरागेषु दत्तमस्ति महाफलम्॥ इति।

रागप्रत्यया प्रज्ञप्तिसंज्ञा। अस्याः समापत्तेर्व्युत्थितो निर्वाणालम्बन इत्यतः प्रज्ञप्तिसंज्ञया विविक्तः। अपि चोक्तं सूत्रे-यस्य दानपतेः सत्कारं भुङ्‍क्त्‌वा अप्रमाणसमाधिमुपसम्पद्य विहरति। अयं दानपत्तिः तत्प्रत्ययमप्रमाणपुण्यं लभते इति। निरोधसमापत्तेर्व्युत्थितस्य [यत्] निर्वाणालम्बनं चित्तम्। इदमुच्यतेऽप्रमाणम्। अतो दृष्ट एव विपाकं लभते। किञ्च अष्टभिर्गुणै रलङ्‍कृतमिदं पुण्यक्षेत्रम्-सम्यक् दृष्टिः, निर्वाणालम्बनं चित्तं अन्यानि चाङ्गानि तैः समन्वागतं भवति। अत [स्तत्र दत्तं] दृष्टविपाकं जनयति।

(पृ) केचिदाहुः-निरोधसमापत्तिश्चित्तविप्रयुक्तसंस्कारो लौकिकधर्मश्चेति। तत्कथम्। (उ) यथोक्तवत् एतत्समापत्तेर्व्युत्थितस्य परमशान्त्यादयो गुणा भवन्ति। नेमे गुणा लौकिकाः स्युः। (पृ) निरोधसमापत्तिर्धर्माणां प्रतिरोधार्था। तेन धर्मेण हि चित्तं नोत्पादयति। अतश्चित्तविप्रयुक्तसंस्कारः स्यात्। यथा तप्तेऽयस्मि कार्ष्ण्यं न भवति। तापापगमे पुनर्भवति। तथेदमपि स्यात्। (उ) तथा चेत् निर्वाणमपि चित्तविप्रयुक्तसंस्कारः स्यात्। कस्मात्। निर्वाणं प्रतीत्य हि नान्ये स्कन्धाः समुत्पद्यन्ते। यदि निर्वाणं न चित्तविप्रयुक्तसंस्कार इति। इयं समापत्तिरपि न चित्तविप्रयुक्तसंस्कारः स्यात्। योगावचराणामीदृशो धर्मः स्यात् निरोधसमापत्तिं समापन्ने प्रणिहितानुगमनाच्चित्तं न प्रवर्तते। अतो न वक्तव्यो विप्रयुक्तसंस्कार इति।

(पृ) इमां समापत्तिमेवानुपूर्वं समापद्यत इति किमनुपूर्वमेव व्युत्तिष्ठेत। (उ) अनुपूर्वमेव व्युत्तिष्ठते। क्रमेण चौदारिकं चित्तं समापद्यते। (पृ) सूत्र उक्तम्‌‍निरोधसमापत्तेर्व्युत्थितं चित्तं प्रथमं त्रयः स्पर्शाः स्पृशन्ति-अनिञ्ज्यः [स्पर्शः] अनिमित्तः [स्पर्शः] अप्रणिहितः [स्पर्श] इति। कस्मादेवम्। (उ) असंस्कृतालम्बने चित्ते विद्यमानः स्पर्शः अनिञ्ज्यः अनिमित्तः अप्रणिहित इति नाम। शून्यत एवानिञ्ज्यः। संस्कृतालम्बनस्य चित्तस्य लघुत्वादस्तीञ्जनं यद्रूपवेदनादीनां ग्रहणम्। शून्ये[सति] अनिमित्तम्। अनिमित्ते [सति] रागादि किमपि नास्ति। अचित्तकोऽयं प्रथमं निर्वाणमालम्ब्य ततः संस्कृतमालम्बते। अत उच्यते व्युत्थाने त्रयः स्पर्शाः स्पृशन्तीति।

(पृ) केचिदाहुः-निरोधसमापत्तिं समापन्नस्य चित्तं सास्रवम्। समापत्तिव्युत्थितस्य चित्तं सास्रवं कदाचिदनास्रवं कदाचिदिति। कथमिदम्। (उ) न सास्रवम्। योगावचर एतत्समापत्तिसमीप्सया प्रथमत एव सर्वान् संस्कारान् परिभेदयति। परिभेदात्समापद्यते। व्युत्थितस्य निर्वाणालम्बनं चित्तमेवाभिमुखी भवति। अतो ज्ञायते सर्वथा अनास्रवमिति।

सूत्र उक्तम्-[संज्ञावेदयित] निरोधसमापत्तिं समापद्यमानस्य भिक्षोर्नैवं भवति [अहं [संज्ञावेदयित] निरोधं समापद्ये इति। व्युत्थितस्य अपि नैवं भवति [अहं व्युत्तिष्ठामीति। तथा चेन् कथं समापद्यते। (उ) नित्यं भावितत्वात् समापत्तिबलं सुदृढं भवति। तथा चिन्तनासत्त्वेऽपि समापद्यते। योगावचरोऽयं संस्कृता-[लम्बन] समुच्छेदात् तथाभूतं निरोधं समापद्यते। यदि चित्तमगृह्य संस्कृतमालम्बते। तदा न समापन्नो नाम। अतः सूत्रमाह [अथ खल्वस्य] पूर्वमेव तथाचित्तं भावितं भावति [यत् तत् तथात्वाय] उपनयति इति।

(पृ) यदि नास्ति शून्यादन्यदुपलभ्यम्। तदा असंस्कृतालम्बनं चित्तं भावयित्वा कमुपकारं लभते। (उ) दीर्घकालं भावितत्वात् समापत्तिदार्ढ्ये ज्ञानदर्शनं सुनिश्चितं भवति। यथा संस्कृतालम्बनं चित्तं पश्यतोऽपि नास्ति क्षणिकादन्यत्। दीर्घकाल भावितं चित्तमात्रन्तु सुदृढं भवति। तथेदमपि स्यात्॥

निरोधसमापत्तिवर्ग एकसप्तत्युत्तरशततमः।

१७२ दशकृत्स्नायतनवर्गः

पूर्वालम्बनमकम्पयित्वा चित्तबलवशिता कृत्स्नायतनमित्युच्यते। योगावचरः परीत्तनिमित्तं गृहीतवान् अधिमुक्तिबलेन तत् विपुलयति। कस्मात्। समाहितचित्तबलात् तत्त्वेऽवतरतः सर्वं शून्यं भवति। अधिमुक्ताववतरतः पूर्वगृहीतं निमित्तमनुवर्तते। (पृ) कोऽयमधिमुक्तिस्वभावः। (उ) नीलादीनि रूपाण्यप्रमाणानि। तन्मूलानि संक्षिप्य चत्वारि, पृथिव्यादीनि चत्वारि महाभूतानि, चत्वारि च रूपाणां मूलानि एतदष्टकपरिच्छिन्नमिदमाकाशम्। विज्ञानमनन्तमाकाशं प्रजानातीति अनन्तमपि। यस्मात् सान्तधर्मो नानन्तं गृह्णाति। इमानि दश भवन्ति।

(पृ) पृथिव्यामस्ति तु द्रव्यतोऽबादि। योगी कथं पृथिवीमात्रं भावयति। (उ) दीर्घकालं तत् भावयन् सदा पृथिवीनिमित्तं गृह्णाति। ततः पृथिवीमात्रं पश्यति नान्यद्वस्तु। (पृ) योगिना दृष्टं पृथिवीनिमित्तं द्रव्यतः पृथिवी न वा। (उ) अधिमुक्तिबलात् दर्शने पृथिवी भवति न द्रव्यतो भवति पृथिवी। (पृ) निर्माणबलात् भूयमानं निर्मितमपि किं न द्रव्यम्। (उ) निर्मितं समाधिबलात्सिद्धमित्यतः कृतकं वस्तु यदुत प्रभा अप्तेजादि च।

(पृ) केचिदाभिधर्मिका आहुः-अष्टकृत्स्नायतनानि चतुर्थध्यानमात्रे वर्तन्त इति। तत् कथम्। (उ) यदि वर्तन्त कामधातौ त्रिषु ध्यानेषु च को दोषः। अन्तिमे द्वे कृत्स्नायतने प्रत्येकं स्वभूमौ भवेताम्। तानि च दश सास्रवाणि। आलम्बनाकम्पित्वात्। (पृ) आकाशं किं रूपप्रतिघलक्षणम्। (उ) योगी अधिमुक्त्‌या च चक्षुःश्रोत्राद्याकाशलक्षणं शून्यं गृह्णाति। न साक्षाद्रव्यसद्रूपं परिभेदयति। अतोऽपि आधिमुक्तिकमित्याख्या [तस्य]।

(पृ) उक्तञ्च सूत्रे-सर्वपृथिवीसमाधिं समापन्नस्यैवं भवति-अहमेव पृथिवी, पृथिव्येवाहमिति। कस्मादेवं भवति। (उ) [स्व]चित्तं सर्वव्यापि पश्यति। अतश्चिन्तयति सर्वमहमिति। (पृ) केचिदाहुः-अयं समाधिः कामधात्वाप्तपृथिव्यादिमात्रमालम्बत इति। कथमिदम्। (उ) यदि कामधात्वाप्तपृथिव्यादि सर्वमालम्बते को दोषः। प्रज्ञप्त्याचायं समाधिरन्यान् धर्मानवलम्बते। तत्र कः पुनर्दोषोऽस्ति। किञ्चायं समाधिरधिमुक्तितोऽभूतमालम्बनं भावयति। नास्ति तु किञ्चिदभूतं पृथिव्यादि। (पृ) भगवतः श्रावका अपि भूम्यादि भावयन्ति। कथमिदम्। (उ) यदि शैक्षजना भावयन्ति। सर्वं तत् परिभेदार्थम्। (पृ) वस्तुतो नास्ति खलु सर्वं पृथिवी इत्यादीनि। कथमयं समाधिर्विपर्यस्तो न भवति। (उ) भावनायामस्यामस्ति मोहभागः। तत्रात्मदृष्टेः समुद्भवात्। अशुभादिभावना यद्यपि न परमार्थसत्यम्। तथापि वैराग्यानुकूला भवति। न तथा भावनेयम्। अतोऽस्ति मोहभागः।

(पृ) कस्मान्न भावयति अनन्तं वेदनादि। विज्ञानमात्रन्तु भावयति। (उ) ग्राह्यं पृथिव्यादि। विज्ञानं ग्राहकम्। अतो विज्ञानं भावयति न वेदनादि। वेदनादि च चित्तस्य प्रभेद इति प्रतिपादितमेव पूर्वम्। किञ्च योगी न पश्यति वेदनादि सर्वत्र व्यापि। सर्वत्र सुःखदुःखवेदनयोरभावात्। भगवतः श्रावका येऽस्मिन् समाधौ विहरन्ति। तेषामविनाशार्थालम्बनत्वात्। यतस्तदालम्बनं योगिनोऽभिनिवेशायतनं भवति। यदि तद्विनश्यति तदा पृथग्जनसमः स्यात्॥

दशकृत्स्नायतनवर्गो द्विसप्तत्युत्तरशततमः।

१७३ दशसंज्ञासु अनित्यसंज्ञावर्गः

अनित्यसंज्ञा, दुःखसंज्ञा, अनात्मसंज्ञा, आहारे प्रतिकूलसंज्ञा, सर्वलोकेऽनभिरतिसंज्ञा, अशुभसंज्ञा, मरणसंज्ञा, प्रहाणसंज्ञा, विरागसंज्ञा, निरोधसंज्ञा [चेतिदश संज्ञाः]। अनित्यसंज्ञा यदनित्ये अनित्यमिति समाहितः प्रजानाति। (पृ) कस्मात्सर्वमनित्यम्। (उ) सर्वे हि धर्माः प्रतीत्यसमुत्पन्नाः। हेतुप्रत्ययविनाशात्सर्वेऽनित्यतां यान्ति।

(पृ) न युक्तमिदम्। केचिद्धर्माः प्रतीत्यसमुत्पन्ना अपि नानित्याः। यथा तीर्थिकानां सूत्रमाह-त्रिणाचिकेतस्य कर्ता शाश्वते पदे जायते इति। ब्रह्मकायिकाश्च शाश्वताः। (उ) भवतां शासनेऽप्युक्तम् शक्रो देवानामिन्द्रः क्रतुशतं कृत्वा पुनः पततीति। उक्तञ्च गाथायाम्-शक्रादयः शतसहस्राधिकानां क्रतूनामनुष्ठातारोऽनित्याः क्षीयन्त इत्रि। क्रतूनां शतसहस्रमपि न वर्तते। अतो ज्ञायते त्रिणाचिकेतोऽनित्य इति। शक्रो देवानामिन्द्रो देवेन्द्रादिकायभागश्च क्षीयते। अतःप्रतीत्यसमुत्पन्ना धर्मा अनित्याः। किञ्च भवतां वेदः पूज्योऽभिमतः। वेदे पुनरुक्तम्-विद्यया अमृतमश्नुत इति। यथाह-आदित्यवर्णो महापुरुषो लोकस्वभावमतीतः। तत्पुरुषानुगतमनस्कोऽमृतमश्नुते। न पुनरन्यो मार्गोऽस्तीति। “अणोः पुरुषस्याणुरात्मा, महतो महानात्मा सदा काये शेते। य इममात्मानं न वेद। तस्य वेदादावधीयानस्यापि न कश्चनोपकार इति।



ब्रह्मकायिकाश्च सर्वेऽनित्याः। कस्मात्। भवतां शासने ह्युक्तम्-ब्रह्मा सहांपतिरपि गुणानां[प्रकर्षाय] सदा क्रतुं यजमानो व्रतं धत्ते इति। यदि कायो नित्य इति प्रजानाति। कस्मात् पुण्यं करोति। श्रूयते च भवतां ग्रन्थे वचनम्-अस्ति ब्रह्मणः [सहां] पतेर्मैथुनरागः। सति च तस्मिन् द्वेषादयः सर्वे क्लेशा अवश्यं भवन्ति। सत्सु क्लेशेषु अवश्यमस्ति पापकर्म। एवं पापी कथं नित्यं विमोक्षं प्रतिलभेत। न च सर्व ऋषयो देवान् यजन्ते। नापि सर्वे ब्रह्मयानं चरन्ति। यदीदं नित्यं, तदा सर्वथा तदाचरेयुः। सर्वे च पदार्था अनित्याः। कस्मात्। यानि पृथिव्यप्तेजोवायवो भूतानि। तानि कल्पावसाने क्षीयमाणानि न किञ्चिदवशिष्यन्ते। कालश्च चक्रवत्प्रवर्तते। अतो ज्ञायतेऽनित्यानीति। शीलसमाधिप्रज्ञाद्यप्रमाणगुणसम्पन्ना महान्तो दीपङ्करबुद्धादयः प्रत्येकबुद्धा महासम्मतादयः कल्पाद्या राजानः सर्वेऽप्यनित्याः। कः पदार्थो नित्यो भवेत्। अपि च भगवानाह-यत्किञ्चित्समुदयधर्म, सर्वं तत् व्ययधर्म इति। यथोक्तं गोमयपिण्डिसूत्रे-अथ खलु भगवान् परीत्तं गोमयपिण्डं पाणिना गृहीत्वा तं भिक्षुमेतदवोचत्-नास्ति किञ्चिदीदृशं रूपं [यत् रूपं] नित्यं ध्रुवं [शाश्वतं] अविपरिणामधर्म [शाश्वतसंज्ञम्] इति। अस्मिन्नेव सूत्रे पुनर्विस्तरश उक्तम्-शक्रब्रह्मचक्रवर्तिराजानां [ये] फलविपाकाः [ते सर्वे]ऽपि अतीता निरुद्धा विपरिणता इति। अतो ज्ञायते सर्वमनित्यमिति।

त्रैधातुकस्य सर्वस्यायुः परिमितम्। अवीचिनरकस्य परमायुरेकः कल्पः। सङ्घातनरकस्य कल्पार्धम्। अन्येषां किञ्चिदूनं वा अधिकं वा। नागादीनामायुरधिकतरमेकः कल्पः। प्रेतानामधिकतरमायुः सप्तवर्षसहस्राणि। [पूर्व] विदेहानामायुः पञ्चाशदुत्तरवर्षशतद्वयम्। [अवर] गोदानीयानामायुः पञ्चवर्षसहस्राणि। उत्तरकुरूणां नियतामायुर्वर्षसहस्रम्। जम्बूद्वीपिनामायुरप्रमाणकल्पा वा दशवर्षाणि वायुः। चातुर्महाराजिकानां देवानामायुः पञ्चवर्षसहस्राणि। यावद्भवाग्राणामायुरष्टवर्षसहस्राणि। अतो ज्ञायते त्रैधातुकं सर्वमनित्यमिति।

त्रिभिः श्रद्धाभिश्च श्रद्धीयतेऽनित्यमिति। दृष्टे नास्ति कश्चिद्धर्मो नित्यः। आप्तवचनेऽपि न कश्चिद्धर्मो नित्यः। अनुमितिज्ञानेऽपि नास्ति कश्चिन्नित्यः। दृष्टपूर्वकत्वादनुमानस्य। यद्यस्ति किञ्चिन्नित्यं स्थानम्। को विद्वान् सर्वधर्मनिरोध[पूर्वं] विमुक्तिमभिलषेत्। को वा नेष्यात्। सुखवेदिनां सदा संवासं प्रियं वा वस्तुतस्तु विद्वान् सर्वथा विमुक्तिमेव प्रार्थयते। अतो ज्ञायते समुदयधर्म न नित्यं भवतीति। अथ पुनर्वक्तव्यं समुदयधर्म सर्वं क्षणिकं मुहूर्तमपि न तिष्ठति। कः पुनर्वादो नित्यं भवतीति।

(पृ) अनित्यसंज्ञाश्रद्धा किं करोति। (उ) क्लेशान् विनाशयति। यथोक्तं सूत्रे-अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति। सर्वं रूपरागं [पर्यादाति। सर्वं] भवरागं [पर्यादाति]। सर्वमस्मिमानं [पर्यादाति सर्वा]मविद्यां पर्यादाति इति। (पृ)

(पृ) मैवम्। अनित्यसंज्ञेयं कामरागमपि वर्धयति। यथा कश्चित् सुभिक्षकालो न दीर्घ इति बुध्यन् मैथुनराग आसज्यते। कुसुमं नातिचिरं नवं भवतीति जानन् सुखायाशु तदुपभुङ्‍क्ते। परस्य [दयिताजनस्य] सुरूपं न नित्यं भवतीति जानन् मैथुनरागं द्रुततरं वर्धयति। एवमनित्यज्ञानवशात्कामराग उत्पद्यते। अतो नानित्यसंज्ञा कामरागं विनाशयति। केचिदनित्यमिति जानन्तो वधादिकमपि कुर्वन्ति। यावत्तिर्यञ्चः अनित्यमिति जानन्तोऽपि न क्लेशान् भिन्दन्ति। अतोऽनित्यसंज्ञां भावयतो न कश्चिदुपकारो भवति। (उ) अनित्यत्वाद्वियोगदुःखमुत्प्रेक्षमाणः सुभिक्षकालसुखजीवितधनमानानि त्यजन्ति। विदुषो नानेन प्रीतिचित्तमुत्पद्यते। प्रीतिचित्ताभावे न कामचित्तमुत्पद्यते। वेदनां प्रतीत्य हि तृष्णा भवति। वेदनानिरोधे तृष्णा निरुध्यते। अतो ज्ञायते अनित्यसंज्ञा कामरागं समुच्छेदयत्येव। यश्च धर्मोऽनित्यः, सोऽनात्मा इत्यनित्यमनात्म च भावयतो योगिनो नात्मबुद्धिर्भवति। आत्मबुद्ध्यभावे आत्मीयबुद्धिर्न भवति। आत्मीयबुद्ध्यभावात् कुत्र कामरागः स्यात्। अनित्यसंज्ञां भावयन् स्वपरकायं क्षणिकं मरण[धर्म] च पश्यति। कथं रागमुत्पादयेत्। योगी प्रार्थितं सर्वमनित्यं विप्रलोपनमिति अनुयाति। तदा तुच्छं भवति। तुच्छत्वात् न कामरागमुत्पादयति। यथा कश्चिद्वालकः शून्ये हस्तः तुच्छ इति ज्ञात्वैव न [तत्र]सङ्गं जनयति। किञ्च सत्त्वा नाध्रुववस्तुषु प्रीयन्ते। यथा कश्चित् भङ्‍गुरत्वात् भाजने न प्रमुद्यते। यथापि च काचिन्नारी अमुकस्य पुरुषस्यायुर्न सप्तदिनान्येष्यतीति श्रुत्वा [वदति] सत्स्वपि सुभिक्षकालार्जवबहुमानधनप्रभावबलेषु को वा प्रीयेत इति। जनोऽयं सम्यगनित्यसंज्ञा-[भावन]या न कामरागमुत्पादयति। विद्वान् हि पुनरावृत्तिपतनादिदुःखमनुस्मरन् यावद्दिव्यकामेष्वपि नासज्यते। केवलमुक्तिमेव प्रार्थयते। अनित्यसंज्ञा कामरागं वर्धयतीति यद्भवानवोचत् तदयुक्तम्।

यदि कश्चिदप्रहीणास्मिमानो भवति। तदा स बाह्यं वस्त्वनित्यं पश्यन् शोच्यते। प्रियबलोविपरिहाण्या च कामप्रार्थतां करोति। पृथग्जनोऽयं प्रहीणकामसुखो[ऽपि] न वियोगदुःखं प्रजानाति। तद्यथा कश्चिद्बालको मात्रा ताडितः पुनर्मातरमेवायाति। विद्वांस्तु दुःखहेतौ स्थित एव न दुःखं निरोध्यमिति ज्ञात्वा त्यजति दुःखहेतुं यदुत पञ्चस्कन्धान्। अयं योगी आभ्यन्तरस्कन्धान् परिभेत्तुं अनात्मसंज्ञां प्रतिलभते। बाह्यवस्तुविनाशेऽपि न शोकेन पीड्यते। अनात्मप्रतिलाभी किं पुनः प्रार्थयीत अनित्यसज्ञ्यपि न किञ्चित्प्रार्थयते।

अनित्यसंज्ञा चेयं यदि दुःखेऽनात्मसंज्ञां नोत्पादयति। तदा सा क्लेशविनाशनसम्पन्ना न भवति। अत उक्तं सूत्रे-एकाग्रेण चित्तेन पञ्चस्कन्धाननित्यान् भावयेत्। य आध्यात्मिकान् स्कन्धान् अपरिभिद्य बहिर्धा वस्तु अनित्यं पश्यति। तस्य सात्मसंज्ञत्वात् शोक उत्पद्यते। तदेयमसम्यग्भावना भवति। इति। अनित्यमिति पश्यतामपि न निर्वेदविराग उत्पद्यते। यथा औरभ्रिकव्याधादीनाम्। एषां सत्यपि अनित्यज्ञाने न साधुभावना भवति। कश्चित्सम्यग्भावयन्नपि नानवरतं भावनां व्यवस्यति। तस्य कामचित्तमन्ते विपर्यस्यति। अत उच्यते-एकग्रचित्तेतेति। किञ्च कश्चित् अनित्य[संज्ञा] मल्पकालं भावयति। क्लेशास्तु बहवः। न [तान्] परिभेत्तुमलं भवति। यथा अल्पमौषधं बह्वी र्व्याधीर्न विनाशयति। तथेदमपि। अत उच्यते-एकाग्रचित्तेन अनित्यमिति सम्यम्भावना क्लेशान् विनाशयति। इति।

धर्मा अनित्या इति ज्ञानमेव तत्त्वज्ञानम्। सति तत्त्वज्ञाने न भवन्ति कामादयः क्लेशाः। कस्मात्। अविद्याप्रत्ययत्वात् कामादीनाम्। इति अनित्य[संज्ञा] न कामरागसंवर्धनीति वेदितव्यम्। किञ्चानित्यसंज्ञा सर्वान् क्लेशानुपशमयति। योगी यदि प्रजानाति वस्त्विदमनित्यमिति। न तदा [तत्र]सकामो भवति। पुरुषोऽयमवश्यं मरिष्यतीति प्रजानन् कस्मै द्विष्यात्। कः सचेतनो म्रियमाणं द्विष्यात्। यदि धर्मा अनित्याः, कथं तत उद्धतसंज्ञामुत्पादयेत्। धर्मा अनित्या इति ज्ञानान्न मोह उत्यद्यते। मोहानुदयान्नविचिकित्सादयो भवन्ति। अतो ज्ञायते अनित्य[संज्ञा] क्लेशानां विरोधिनीति॥

अनित्यसंज्ञावर्गस्त्रिसप्तत्त्युत्तरशततमः।

१७४ दुःखसंज्ञावर्गः

यो धर्मो बाधात्मकः तद् दुःखमित्युच्यते। तत्रिविधम्-दुःखदुःखं विपरिणामदुःखं संस्कारदुःखमिति। प्रत्युत्पन्ने वस्तुतो दुःखं यदसिशस्त्रादि तद् दुःखदुःखम्। प्रियाणां पुनर्भार्यादीनां वियोगकाले यद्भवति दुःखम्, इदं विपरिणामदुःखम्। शून्यानात्मज्ञानलाभिनो यच्चित्तं भवति संस्कृतधर्माः सर्वे विहेठना इति। तत्संस्कारदुःखम्। तद्‍दुःखानुयायि चित्तं दुःखसंज्ञा।

(पृ) दुःखसंज्ञां भावयता किं हितं लभ्यते। (उ) दुःखसंज्ञायां फलान्निर्वेदो भवति। कस्मात्। न हि दुःखसंज्ञां भावयिता कामप्रीतिं सेवते। तत्प्रीत्यभावान्न तृष्णा भवति। योगी यदि धर्मा दुःखमिति प्रजानाति। तदा न संस्काराननुभवति। धर्मा अनित्या अनात्मका अपि न दुःखजनकाः तदा नैव त्याज्याः। दुःखत्वात्तु त्याज्याः। दुःखत्यागाद्विमुच्यते। सर्वे सत्त्वा अतितरां भीता भवन्ति यदिदं दुःखमिति। यदि तरुणो वृद्धो वा पामरः पण्डितो वा आढ्यो दरिद्रो वा जानाति इदं दुःखलक्षणमिति। [तदा] सर्वे ते निर्विण्णा भवन्ति। सर्वे योगचारिणः पुरुषा निर्वाणे शान्तोपशमसंज्ञोत्पादका भवन्ति। सर्वेषां संसारे दुःखसंज्ञोत्पादनात्। केनेदं ज्ञायते। ये सत्त्वाः कामधात्वाप्तदुःखोपद्रुता भवन्ति। ते प्रथमध्याने शान्तसंज्ञामुत्पादयन्ति। एवं भवाग्रदुःखोपद्रुता निर्वाणे शान्तसंज्ञामुत्पादयन्ति।

संसारेऽस्त्यवद्यं यदुत दुःखम्। यथोक्तं सूत्रे-यत् रूपणमनित्यं दुःखं विपरिणामधर्म, अयं रूपस्यादीनव इति। अविद्ययाभिनिविष्टमिदं दुःखम्। केनेदं ज्ञायते। सत्त्वानां परमार्थतो दुःखे सुखसंज्ञोत्पादात्। परमदुःखसंज्ञोत्पादनात्तु निर्विद्यन्ते। अतो भगवानाह-ये दुःखं बुध्यन्ति तेषामहं दुःखमार्यसत्यं व्याकरोमि इति। तत्र भगवान् लोकसत्यमुपादाय इममर्थं प्रकाशयति। सर्वदेवमनुष्याणां यत्र सुखसंज्ञा भवति। तत्र मम श्रावका दुःखसंज्ञामुत्पादयन्ति। उत्पन्नदुःखसंज्ञा निर्विद्यन्त इति। परममोहपदं यद् दुःखे सुखसंज्ञोत्पादनम्। अनया संज्ञया च सर्वसत्त्वानां संसारे यातायातानां मानसं क्लिश्यति। दुःखसंज्ञाप्रतिलाभिनस्तु मुच्यन्ते।

चतुर्भिराहारैश्चोर्ध्वदेहं समापद्यते। तत्र दुःखसंज्ञया आहारान् प्रजहाति। यथा पुत्रमांसखादनम्, यथा वा निश्चर्मगोभक्षणम्, यथा अङ्गारकर्षुभक्षणम्। यथा शक्तिशतधारावलेपनम्। तथाभूतेऽष्वाहारेषु सर्वं दुःखार्थकम्। तथा दुःखसंज्ञया आहारान् प्रजहाति। दुःखसंज्ञां भावयतो मनो न चतसृषु विज्ञानस्थितिषु सुखं विहरति सर्वत्र दुःखदर्शित्वात्। यथा मुग्धाः शलभाः सुखसंज्ञया प्रदीपे पतन्ति। विद्वान् अग्निर्दहतीति ज्ञात्वा [तं] परीहरति। प्राकृता अपि तथा अविद्यामोहादूर्ध्वदेहाग्नौ पतन्ति। विद्वांस्तु दुःखसंज्ञया विमुच्यते। सर्वञ्च त्रैधातुकं दुःखं दुःखसमुदयः। दुःखा वेदना दुःखम्। दुःखजनकं दुःखसमुदयः। [इदानी]मदुःखमपि अवश्यं चिराद्‍दुःखं जनयति। अतो लोके सर्वं दुःखमिति भावयेत्। निर्विण्णचित्ता धर्मान् वेदयन्तो विमुच्यन्ते॥

दुःखसंज्ञावर्गश्चतुस्सप्तत्युत्तरशततमः।

१७५ अनात्मसंज्ञावर्गः

योगी सर्वे धर्म भङ्गविपरिणामलक्षणा इति पश्यति। यस्मिन् रूपे आत्त्मतयाभिनिविशते इदं रूपं विपरिणामधर्म। तद्विपरिणामधर्मज्ञानादात्मचित्तं परिहरति। तथा वेदनादीनपि। यथा कश्चित् गिरिनिर्झरानुवाहितो यत्किञ्चिदवलम्ब्य तद्विहाय मुच्यते। तथा योग्यम्पि तदात्मतया कल्पयति। तद्विपरिणामधर्म दृष्ट्वा अनात्मकं प्रजानाति। अतोऽनात्मकेऽनात्मसंज्ञां भावयति।

(पृ) अनात्मसंज्ञां भावयन् किं हितं लभते। (उ) अनात्मसंज्ञाभावयिता दुःखसंज्ञां परिपूरयति। पृथग्जना आत्मसंज्ञया परमार्थतो दुःखे न दुःखं पश्यन्ति। अनात्मसंज्ञया तु अत्यल्पेऽपि दुःखे तदुपघातं बुध्यते। अनात्मसंज्ञया चोपेक्षाचित्तं समुदाचरति। कस्मात्। आत्मसंज्ञया हि आत्मा नश्येदिति बिभ्यन्ति। यदि परमार्थं जानाति तदा हायपति दुःखमनात्मकं विनाश्यमिति। तदा समुदाचरत्युपेक्षा। अनात्मसंज्ञया च नित्यसुखं भवति। कस्मात्। सर्वमनित्यम्। तत्र यदि आत्मात्मीयचित्तमुत्पादयति। तदा आत्मा न भवेत्, आत्मीयमपि न भवेत्, सदा दुःखमेवास्ति इति वदेत्। नास्त्यात्मात्मीयमिति चिन्तयतो धर्मेषु विनष्ठेषु न दुःखमुत्पद्यते।

अनात्मसंज्ञया च योगिनश्चित्तं विशुध्यति। कस्मात्। सर्वे हि क्लेशा आत्मदृष्टिसम्भूताः। इदं वस्तु आत्मनो हितमित्यतः कामराग उत्पद्यते। इदं वस्तु आत्मनोऽहितमित्यतो द्वेषप्रतिथ उत्पद्यते। अनेनात्मैवाभिमानजनकः। अहमायुषोऽन्ते करिष्यामि न करिष्यामिति दृष्टिविचिकित्सा भवति। एवमात्मनैव सर्वे क्लेशाः समुद्भवन्ति। अनात्मसंज्ञया तु सर्वे क्लेशाः समुच्छिद्यन्ते। क्लेशानां समुच्छेदात् चित्तं विशुध्यति। चित्तविशुद्ध्या च काञ्चनं लोष्टं चन्दनमसिधारां प्रशंसां निन्दाञ्च समं मन्यते। प्रियविप्रियैर्विविक्तं चित्तं सुनिवृत्तं शान्तं भवति। अतो ज्ञायतेऽनात्मसंज्ञकस्य चित्तं विशुध्यतीति। अनात्मसंज्ञां विहाय नास्त्यन्यो मार्गो विमुक्तिप्रापकः। कस्मात्। यद्यात्मवादी प्रजानाति नास्त्यात्मा नास्तात्मीयमिति। एवं व्यवसितं चित्तमुत्पादयन्नेव विमुच्यते।

(पृ) मैवम्। कदाचिदनात्संज्ञया पुनःकामचित्तमुत्पद्यते। यथा स्त्रीरूपे रागः। तत्सर्वमनात्मस्नेहात्। नैरात्म्यमनुसरन्नेव पुण्यपापं सञ्चिनोति। कस्मात्। स्वकायस्योपकारेऽपकारे वा न पुण्यपापम्। (उ) सात्मकचित्तः कामरागमुत्पादयति। स्वकाये पुरुषसंज्ञां परकाये च स्त्रीसंज्ञामुत्पाद्य [तत्र] अभिनिविशते। तदभिनिवेशोत्पादश्च प्रज्ञप्त्या भवति। तल्लक्षणैव प्रज्ञप्तिः। अतो न नैरात्म्यं कामचित्तजनकम्। अनात्मचित्तश्च न कर्माणि सञ्चिनोति। यथा अर्हतोऽनात्मसंज्ञया न कर्माणि सञ्चीयन्ते। अनात्मसंज्ञेयं सर्वेषां क्लेशानां कर्मणाञ्च समुच्छेदिनी। अत[स्तां] भावयेत्॥

अनात्मसंज्ञावर्गः पञ्चसप्तत्युत्तरशततमः।

१७६ आहारे प्रतिकूलसंज्ञावर्गः

सर्वं दुःखजननमाहारकामाद्भवति। आहाराच्च मैथुनरागः सहोत्पद्यते। कामधातौ यानि सन्ति दुःखानि सर्वाणि तानि अन्नपान मैथुनरागं प्रतीत्य भवन्ति। आहारकामसमुच्छेदाय प्रतिकूलसंज्ञां भावयेत्।

यथा कल्पादौ सत्त्वाः स्वर्गादागत्य लोकेऽस्मिन् उपपादुका अभूवन्। [ते] प्रभास्वरकायाः खेचराः स्वतन्त्रा भूत्वा पृथिवीरसमादावश्नुवन्। तदशनबहुलाः प्रणष्टप्रमातिशया अभूवन्। एवं क्रमेण जराव्याधिमरणशालिनः यावद्वत्सरशतं भूयसा दुःखैः पीडिताः। आहाराभिनिवेशवशात् सर्वे ते तादृशेम्यः फलेम्यः प्रणष्टाः। अत आहारं योनिशो भावयेत्। अन्नपानाभिनिवेशान्मैथुनराग उत्पद्यते। ततोऽन्ये क्लेशा भवन्ति। तेभ्योऽकुशलं कर्म कुर्वन्ति अकुशलकर्मतः त्रीन् दोषान् वर्धयित्वा देवमनुष्याणामपकुर्वन्ति। तस्मात् सर्वाः क्लेशविपत्तय आहारकामात् भवन्ति जराव्याधिमरणलक्षणानि अन्नपानाधीनानि।

आहारोऽयं स्थाने परममभिनिवेशयति। कामरागो गुरुरपि न पुरुषं क्लेशयति। यथा आहारकर्ता। यदि वा बालो वृद्धो गृहस्थः प्रव्रजितो वा अनाहारपीडितो भवति। आहारमिमं भुङ्‍क्त्‌वा अनासक्तमना भवेत्। अविरागी अतितरां खिद्यते। यथा असिधारावलेपनी, यथा वा विष[सिक्तौ]षधसेवकः। यथा वा विषसर्पपोषकः। अतो भगवानाह-भावितचित्त इदमाहारयेत्। नाहारकामाय तद्‍दुःखपीडितः स्यात् इति। केचित्तीर्थिका [अपि] निरशनव्रतमाचरन्ति। अतो भगवानाह-नास्याहारस्योपच्छेदात् विमुच्यते। किन्तु योनिशो मनसि कृत्वा आहारयेदिति। ये समुच्छिन्नाहाराः तेषां क्लेशा न क्षीयन्ते। अहितं तीव्रमरणमेव भवति। अतो भगवानाह- आहारेऽस्मिन् प्रतिकूलसंज्ञां जनयेत्, नास्ति ततोऽवद्यमिति।

(पृ) कथमाहारे प्रतिकूलसंज्ञा कुर्यात्। (उ) अयं कायस्वभावोऽकुशलः। अत्युत्तरमसमाहारफलं सर्वमशुचि। अतस्ततो निर्विन्द्यात्। सुरभिगन्धमधुरपानभोजनानि शुचिकाल एव कायस्य हितकराणि। दन्तेन चर्वितं लालया सिक्तं लिङ्गं वान्तवदामाशयपतितं कायस्य हितकरम्। अतो ज्ञायतेऽशुचीति। इदमन्नपानमज्ञानात्सुखम्। यदि कश्चिन्मधुरमाहारं लभमानोऽपि पुनर्वान्तं न भुनक्ति। इति ज्ञातव्यमज्ञानबलात्तन्मधुरं मन्यत इति।

आहारप्रत्ययं कृषिकर्म सेवार्जनं संरक्षणमित्येवञ्जातीयदुःखान्यनुभवति। तत्प्रत्ययमप्रमाणानि पापानि कुर्वन्ति। यदशुचि सर्वं तदाहाराधीनम्। असत्याहारे केन भवन्ति त्वगस्थिरक्तमांसोच्चारादीन्यशुचीनि वस्तूनि। या दुर्गतयोर्वर्चःकुटीक्रिम्यादयः ते सर्वे गन्धरसाभिनिवेशादत्रोत्पद्यन्ते। यथोक्तं कर्मवर्गे-यस्तर्षितो म्रियते स जलक्रिमिभावेनोत्पद्यते। निबिडस्थाने मृतः पक्षिषूत्पद्यते। मैथुनरागेण मृतो योनावुत्पद्यते। इत्येवमादि। य एतदाहारविविक्त स महासुखं प्रतिलभते। यथा रूपधातौ निर्वाणे चोत्पद्यते। आहारानुवर्तनतः कृष्णादिदुःखं भवति। एवमाहारोऽशुचिर्दुःख इति दृष्ट्वा प्रतिकूलसंज्ञां भावयेत्॥

आहारे प्रतिकूलसंज्ञावर्गः षट्सप्तत्युत्तरशततमः।

१७७ सर्वलोकेऽनभिरतिसंज्ञावर्गः

योगी पश्यति लोकेषु सर्वं दुःखम्, चित्ते च नास्ति किञ्चित्सुखमिति। अयञ्च योगी भावयति प्रीतिविविक्तं समाधिं तद्यथा अनात्मसंज्ञां दुःखसंज्ञामाहारे प्रतिकूलसंज्ञां मरणसंज्ञाम्। इत्यादि। तदा तस्य चित्तं न सर्वलोकेऽभिरमते। अपि चायं पश्यति-यत्प्रियं तत्कामरागवर्धनम्, यद्विप्रियं तत् द्वेषप्रतिघवर्धनमिति। अत उभयत्र नाभिरमते। धनिकस्य पालनादिदुःखमस्तीति दृश्यते। दरिद्रस्याकिञ्चन्यदुःखं दृश्यते। सुस्थानिको दुःस्थाने पतिष्यमाणो दृश्यते। दुःस्थानिको दृष्टे दुःखान्यनुभवन् दृश्यते। प्रत्युत्पन्नो धनिकोऽवश्यं पतिष्यामि, इदञ्च कामादीनां विहृतिस्थानमिति प्रजानानो दृश्यते। प्रत्युत्पन्नो दरिद्रो न प्रत्ययोपलभ्यनिर्गम इति प्रजानानः। अतो न सवलोकेऽभिरमते। अल्पतराश्च सत्त्वाः सुस्थान उत्पन्नाः, बहुतरा दुर्गतौ पतन्ति। यथोक्तं सूत्रे-अल्पतराः सुस्थान उत्पद्यन्ते बहुतरा दुस्थान उत्पद्यन्ते। तदादीनवं दृष्ट्वा निर्वाणमेव प्रार्थयन्ते। इति। पुरुषोऽयं पश्यति कामादयो दोषाः क्लेशास्सदा सन्तानमनुवर्तन्त इति। यथा क्रोधासेवी पुरुषोऽवकाशे लब्धे पुनर्बध्यते। अस्मिन् वधके कथमभिरमेत। क्लेशादुत्पन्नमकुशलं कर्म सदाऽनुवर्तमानं दृश्यते। नैवाकुशलकर्मफलान्मुच्यते। यथोक्तं सूत्रे-

स चेत्तु पापकं कर्म करिष्यति करोषि वा।
न ते दुःखात्प्रमोकोऽस्ति, उत्पात्यापि पलायतः॥ इति।

अतो नाभिरमते। जात्यादीन्यष्ट दुःखानि सदा सुकृतिनमनुवर्तन्ते। किं पुनः पापिनम्। एवं कथं लोके अभिरमेत। तद्यथा आशीविषकरण्डः पञ्चोक्षिप्तासिका वधकाः शून्ये ग्रामे चोरः। तादृशान्यवरतीराणि दुःखानि सदा सत्त्वाननुवर्तन्ते। कथं तत्राभिरमेत। तद्यथा लवणतिक्ततृष्णानदीवाहितः पञ्चकामगुणविषशल्य [विद्धः] अविद्यान्धकाराङ्गारकर्षौ [पतितस्तादृशानि] दुःखानि सत्त्वाननुवर्तन्ते। कथं [तत्र] अभिरमेत। योगी उपशमसुखमल्पं विपत्तिक्लेशदुःखानि बहूनीति प्रजानाति। कस्मात्, [यस्मात्] प्रतिदीनं लोकैस्तूयमाना वनषण्डप्रसूतस्फीतफलसमृद्धिशालिनो[ऽपि] भूपा न दीर्घकालसुखलाभिनो दृश्यन्ते। सुखसम्प्रहर्षिणोऽल्पाः। दुःखवेदिनस्तु बहवः। अतो न सर्वलोकेऽभिरमते।

(पृ) संज्ञामिमां भावयन् कानि हितानि विन्दते। (उ) नानाविधलोकलक्षणेषु न चित्तमभिनिविशते। तां संज्ञां भावयता क्षिप्रं मोक्षो लभ्यते। संसारे च दीर्घकालं [न]तिष्ठति। अयं योगी हितं ज्ञानं विन्दते। सदा सर्वत्रादीनवभावित्वात्। अस्य च चित्ते न क्लेशा उद्भवन्ति। उद्भवे वाशु निरुध्यन्ते। यथा तप्तायःकपाले पतितं जलबिन्दु। योगी लोके नाभिरमत इत्यतः परमोपशमेऽभिरमते। यो लोकान्निर्विण्णः स उपशमे परमेऽभिरमते। तस्मात् सर्वलोकेऽनभिरतिसंज्ञां भावयेत्॥

सर्वलोकेऽनभिरतिसंज्ञावर्गः सप्तसप्तत्युत्तरशततमः।

१७८ अशुभसंज्ञावर्गः

(पृ) अशुभसंज्ञां कथं भावयेत्। (उ) योगी पश्यति कायस्य बीजमशुभं यदुत मातापितोरशुचिमार्गजशुक्रशोणितसङ्घातः। कायोऽयमशुचिभिः संसिद्धो यदुत जीर्णाहारप्रस्वेदप्रस्निग्धः। उपपत्तिस्थानञ्चाशुचि यदुत मातुः कुक्षौ परिपूर्णमशुचि भवति। विण्मूत्राद्यशुचिपदार्थाः सम्भूय कायं कुर्वन्ति। नवसु द्वारेषु सदाशुचीनि स्रवन्ति। कायोऽयं यत्र निक्षिप्यते तदेव स्थानममङ्गलमशुचि। अन्नं पानं वस्त्रं पुरुषकायगतं परीहितं सर्वंमशुचि भवति। परेषां दूषणञ्च भवति। कायस्यास्य पदार्थः सर्वोऽशुचिः। यथा स्नानजलं यदि वा स्नानपात्रादि। कायोत्थं केशनखशिङ्खाणश्लेष्मादि सर्वमशुचि। दृश्यते च मृतकायोऽशुचितः। कायोऽयं म्रियमाणः किमन्यो भवति। आदित आरभ्यायमशुचिरिति वेदितव्यम्। जायमानस्तु आत्मबुद्धिविपर्ययात् शुचिरित्युच्यते। मृतस्पृष्टी अशुचिर्भवति। केशनखादि सदा मृतवस्तु। अप्रमाणा मृतक्रिमयश्च सदा कायं स्पृशन्ति। अतो ज्ञातव्यं कायोऽयमादित आरभ्याशुचिरिति। अशुचिलूक्षामक्षिकामशकादयः सर्वा अशुचिक्रिमयः सर्वदागत्य कायं स्पृशन्तीत्यश्चाशुचिः। कायोऽयं वर्चःकुटीवत् सदाऽशुचिपूर्णः। तत्प्रतीत्य वर्चःकुट्यां सहस्रधा क्रिमयो भवन्ति। तथाऽयं कायोऽपि।

कायोऽयं श्मशानसमः। कस्मात्। मृतकायस्य हि स्थानं श्मशानमित्युच्यते। अयं कायोऽपि बह्वयो मृतक्रिमयोऽत्र तिष्ठन्ति। अयं कायोऽशुचिं करोति। यानि शुचिस्थानानि सुरभिकुसुमवस्त्रमालादीनि [तानि] सर्वाण्येतत्कायवशादशुचीनि भवन्ति। ब्राह्मणा मृतगृहे प्रसूतिकागृहे च नाहारमुपभुञ्जन्ति। अशुचित्वात्। अस्मिन् काये तु शतसहस्रधा क्रिमयः सदा जायन्ते म्रियन्ते च। तदा नोपभोज्यान्नपानो भवेत्। अतो ज्ञायतेऽशुचिरिति। लोके च नरकमशुचि। कायोऽयं क्रिमिशतसहस्राणां नरकम्। अतोऽशुचिः। कायोऽयं सदा स्नानमपेक्षते। यदि शुचिः। किमर्थं स्नानमपेक्षते। सुरभिकुसुमगन्धमालालङ्‍कृतोऽयं कायः इति वेदितव्यं कायोऽयं स्वभावतोऽशुचिरिति। प्रज्ञप्त्या शुचिभिः बाह्यैरलङ्क्रियते। अयं मनुष्यकायः परममशुचिः। यथाऽन्येषां सत्त्वानां चर्मरोमनखदन्तमज्जास्थिमांसानि कदाचिदुपयुज्यन्ते। मनुष्यकाये तु नैकमस्ति ग्राह्यम्। परमाशुचित्वात्। यथोत्पलपद्भपुण्डरीकपुष्पादीनि अशुचिसभूतत्वादशुचीनि भवन्ति। न तथा कायोऽयमन्यपदार्थैरशुचीक्रियते। प्रकृतित एवाशुचिः। कायोऽयं यदि शुचिः। तदा न वस्त्रेणाच्छादयेत्। यथा पुरुषो वस्त्राच्छादितमलराशिः परान् वञ्चयति। तथा स्त्री आच्छादनाभरणाच्छादितकाया पुरुषं मोहयति। तथा पुरुषोऽपि। [अतो] ज्ञातव्यमशुचिरिति। समन्ततोऽयं कायः सदा अशुचि निस्सारयति यदुत नवरन्ध्राणि अशुचिद्वाराणि रोमकूपेषु च नैकमस्ति शुचि।

(पृ) अशुभसंज्ञाभावना कस्य हितस्य लाभाय भवति। (उ) स्त्रीपुरुषयोः शुभसंज्ञया कामराग उत्पद्यते। तस्मात्कामरागात्पापकानां द्वारमप्राव्रियते। अशुभसंज्ञाभावनायान्तु कामरागाणां निग्रहो भवति। कस्मात्। अयं हि कायो दुर्गन्धमलैरशुचिश्चर्मावृतत्वात्परं न ज्ञायते। वसनाच्छादिताशुचिराश्याभासवत् शुचिप्रियवस्तु परिवर्जयेत्। योगी चायं विनीलकलोहितकादिसंज्ञया सर्वकायं पर्यादाति। कायपर्यादानात् न कामरागो भवति। प्रत्यक्षं दृश्यते च विनीलकलोहितकादिरूपम्। (पृ) यद्वस्तुतोऽविनीलकम्, तत् कस्माद्विनीलकं पश्यति। (उ) अधिमुक्तिवलाद्योगी तत् विनीलकं गृह्णाति। सर्वाणि रूपाणि च विनीलकलोहितकानि पश्यति।

(पृ) भावनेयं कस्मान्न विपर्यस्ता भवति। (उ) कायोऽयं विनीलकलोहितभागीयः। यथोक्तं सूत्रे-अस्ति वृक्षे विशुद्धता इति। विनीलकलोहितकलक्षणं सदा भावयन् अन्यानि रूपाण्यभिभवति। यथा [इन्द्र] नीलमणिप्रभा स्फटिकरूपं तिरस्करोति। एवं विनीलकलोहितकादिलक्षणं दीर्घकालं भावयतोऽशुभ[संज्ञा] सम्पूर्णा भवति। अशुभसंज्ञायां न मैथु राग उत्पद्यते। अनुत्पन्ने मैथुनरागे सांवृतसर्वापत्तिविमुखो निर्वाणमेयानुयाति। अशुभसंज्ञां भावयत इदृशं हितं लभ्यते।

अशुभभावनावर्गोऽष्टसप्तत्युत्तरशततमः।

१७९ मरणसंज्ञावर्गः

योगीमरणसंज्ञया जीवितेऽध्रुवचित्तो भवति। इत्यतः[तां] भावयेत्। अयं सदा कुशलधर्मेषु परममभिरतोऽकुशलधर्मान् प्रजहाति। कस्मात्। सत्त्वा भूयसा मरणविस्मरणादकुशलं कर्म कुर्वन्ति। यदा तु मरणमनुस्मरन्ति तदा प्रजहति। सततमरणानुस्मरणाच्च मातापितृभ्रातृस्वसृज्ञातिसालोहितपरिजनादिषु रागतृष्णाऽल्पीयसी भवति। मरणसंज्ञां भावयतः स्वस्य हितं भवति यदुत चित्तैकाग्र्येण कुशलधर्माणामुपचयः। लौकिकाः सत्त्वा भूयसा परिहिताभिरता स्वहितं त्यजन्त्येव। किञ्चायं क्षिप्रमेव मुच्यते। कस्मात्। आजवञ्जवमनुघावतां हि लोकानां सदा मरणं भवति। अयन्तु मरणनिर्वेदा द्विमुक्तिमेव प्रार्थयते।

(पृ) कथं मरणसंज्ञां भावयेत्। (उ) सर्वमनित्यमिति पूर्वं सामान्यत उक्तम्। इदानीन्तु कायोऽनित्य इति मात्रं भावयेत्। स्कन्धानां सन्तानसमुच्छेदो मरण संज्ञेत्युच्यते। कायोऽयं बाह्यवस्त्वपेक्षयाप्यनित्यतरः। तद्यथा मृण्मये घटेऽध्रुवलक्षणम्। तदप्यतिक्रान्तोऽयं काय इति योगी भावयति। कस्मात्। मृण्मयोऽयं घटो यदि [सम्यक्] प्रयोगपालितः कदाचित् चिरं तिष्ठेत्। अयं कायस्तु चिरतमं तिष्ठमानो न वत्सरशतमतिक्रामति। अध्रुवत्वान्मरणसंज्ञामनुस्मरेत्। किञ्चायं कायः परिपन्थिधर्मैः सम्बहुलः यदुताशिशस्त्रगदावधकचोरप्रपातपानभोजनापरिपाचनातिशीतातिघर्मवातव्याधयः। संक्षेपतः सर्वे सत्त्वा असत्त्वाश्च कायस्य परिपन्थिनो धर्मा द्रष्टव्याः। अतो भावयेन्मरणसंज्ञाम्।

किञ्च योगी पश्यति कायः क्षणिकनित्यो विपरिणामलक्षणो नैकं क्षणमप्यारक्ष्य इति। अतो मरणसंज्ञां भावयति। योगी दृष्टधर्मे च पश्यति बाल्ययौवनवार्धक्यानि सव्याधीनि निर्व्याधीनि वा न मरणपरिहारीणीति। एवं कायेनापि भवितव्यमित्यनुस्मृत्य मरणसंज्ञां भावयति। किञ्च योगी पश्यति अनियतविपाकं कर्म। न सर्वकर्माणि क्षीयन्ते आयुर्वर्षशतैरपि। कर्मणोऽनियतत्वान्मरणमप्यनियतं इति। अतो मरणसंज्ञामनुस्मरेत्। अनादौ च संसारेऽस्ति कर्माप्रमाणम। अस्ति किञ्चित्कर्म अन्यकर्मणो वरणकम्। ममापि भवेदकालिकमरणकर्म। इति कथमस्मिन्नायुषि[योगी] श्रद्दधीत। किञ्च योगी पश्यति मरणमतिप्रभविष्णु, न सान्त्ववचनेनोल्लापनीयं धनेनानुनेयं विग्रहेण वा मोचनीयम्। यथा महति शैले चतुर्भ्यो दिग्भ्य आगते नास्ति पलायनस्थानम्।

(पृ) यदि कश्चिद्यमं सन्तपर्यति। तदा मरणान्मुच्यते। (उ) अयं बालो मूढ[एवं] वदति। यमः प्राणिनामुत्पादने वधे चास्वतन्त्रबलः। केवलं परामृशति किं कुशलचारी किं वाकुशलचारीति। विपाकवेदनायां क्षीयमाणायां हिंस्रककायप्रत्ययं म्रियते। अतो योगी कायोऽनिश्रयोऽशरणो मरणवर्त्मगत इति पश्यन् मरणसंज्ञामनुस्मरति। किञ्च योगी सदा पश्यति कायोऽयं जराव्याधिपरिपीडितोऽध्रुवस्वभावः प्रतिक्षणमुत्पन्नविनाशी विज्ञानसन्तानविनष्ट इत्यतो मरणसंज्ञां भावयति। किञ्चायं योगी पश्यति मरणं नियतं जीवितमनियतम्। अनियतान्नियतं विशिष्यत इत्यतो मरणसंज्ञां भावयति।

(पृ) कस्मात् जराव्याध्यादिसंज्ञा अनुक्त्‌वा मरणसंज्ञामात्रमुच्यते। (उ) जराव्याध्यभिभूतः पुरुषो न परिक्षीयते। व्याधिर्बलं हरति जरा यौवनं हरति। ज्ञातिसालोहितो धनमन्यच्च[हरति]। कायस्तु तथापि तिष्ठति। मरणं पुनः सर्वमपहरति। जराव्याध्यादि च मरणस्य प्रत्ययः। अतो न पृथगुच्यते। उक्तञ्च सूत्रे-मरणं नाम महातामस्त्रम् अरश्मिकमरक्षणम् असहायकमनुपस्थापकं परमभयस्थानं इति। अतो मरणसंज्ञामनुस्मरेत्। किञ्च सत्त्वा मरणप्रत्ययं परलोकाद्विभ्यति। त्रैधातुके सर्वस्यास्ति मरणं न तथा जरा व्याधिश्च।

(पृ) यदि सत्त्वान् विहाय नास्ति मरणसंज्ञा। सत्त्वा एव प्रज्ञप्तिसन्तः। योगी कस्मादिमां संज्ञां भावयति। (उ) विनश्वरसत्त्वलक्षण[ज्ञान] विहीनो मरणाद्विभेति। यो मरणसंज्ञां भावयति। न स बिभेति। अतो भावयेत्। अनित्यसंज्ञादयो मार्गस्य प्रत्यासन्नाः। अशुभाहारे प्रतिकूलमरणसंज्ञादयो मार्गविप्रकृष्टाः। मार्गप्रतिलाभी ईदृशसंज्ञया चित्तं प्रगृह्णाति।

मरणसंज्ञावर्ग एकोनाशीत्त्युत्तरशततमः।

१८७ शमथविपश्यनावर्गः

(पृ) भगवान् तत्र तत्र सूत्रे भिक्षूनामन्त्र्याह-[इह भिक्षुः] अरण्यगतो वायतनगतो वा वृक्षमूलगतो वा शून्यागारगतो वा मनसि कुर्यात् द्वौ धर्मौ यदुत शमथो विपश्यनाच इति। यदि सर्वे ध्यानसमध्यादिधर्मा मनसि कर्तव्याः। कस्मात् शमथविपश्यनामात्रमाह। (उ) शमथो नाम समाधिः। विपश्यना प्रज्ञा। सर्वे च कुशलधर्मा भावनाजाता इति द्वाविमौ परिगृहीतौ। विक्षिप्तचित्तगताः श्रुतचिन्तामयादिप्रज्ञा अप्यत्र सङ्गृहीताः। आभ्यां द्वाभ्यामेव मार्गधर्मं करोति। कस्मात्। शमथो हि संयोजना व्यावर्तयति। विपश्यना समुच्छेदयति।

शमथस्तृणग्रहोपमः विपश्यना असिना तल्लवनोपमा। शमथो भूमिमार्जनोपमः। विपश्यना गोमयविकीर्णनोपमा। शमथो रजोमार्जनोपमः। विपश्यना जलेन क्षालनोपमा। शमथो जले निमज्जनोपमः। विपश्यना अग्नावुत्तापनोपमा। शमथो गण्डोपमः। विपश्यना शस्त्रचिकित्सोपमा। शमथः सिरोद्गमोपमः। विपश्यना रक्तपाटनोपमा। शमथश्चित्तदमनोपमः। विपश्यना अतिलीनचित्तव्युत्थानोपमा। शमथः सुवर्णस्य चुलुकीकरणोपमः। विपश्यना अधिधमनोपमा। शमथः सूत्रपातोपमः। विपश्यना भूमिसमीकरणोपमा। शमथः सन्दशिन्या सन्दंशोपमः। विपश्यना शस्त्रेण कृन्तनोपमा। शमथः कवचोपमः। विपश्यना भटानां शस्त्रादानोपमा। शमथः समीक्रियोपमाः। विपश्यना शङ्कुवेधोपमा। शमथो मेदःसेवनोपमः। विपश्यना औषधप्रदानोपमा। शमथः सुवर्णकुट्टनोपमः। विपश्यना भाजनकरणोपमा।

लौकिकाः सत्त्वाः सर्वे सुखं दुःखं वा इति द्वयोरन्तयोः पतिताः। शमथः सुखं त्यजति। विपश्यना दुखं परिहरति। किञ्च सप्तसु विशुद्धिषु शीलविशुद्धिश्चित्तविशुद्धिश्च शमथः। अन्याः पञ्च विपश्यना। अष्टमहापुरुषवितर्केषु षड्वितर्काः शमथः। द्वौ विपश्यना। चतुर्षु स्मृत्युपस्थानेषु त्रीणि शमथः। चतुर्थं विपश्यना। चत्वारि ऋद्धिपादानि शमथः। चत्वारि सम्यक्‌प्रधानानि विपश्यना। पञ्चसु इन्द्रियेषु चत्वारीन्द्रियाणि शमथः। प्रज्ञेन्द्रियं विपश्यना। एवं बलमपि। सप्तसु बोध्यङ्गेषु त्रीणि बोध्यङ्गानि शमथः। त्रीणि बोध्यङ्गानि विपश्यना। स्मृतिस्तु उभयगा। अष्टसु मार्गाङ्गेषु त्रीण्यङ्गानि शीलम्। द्वे अङ्गे शमथः। त्रीण्यङ्गानि विपश्यना। शीलमपि शमथानुबन्धि। शमथो रागं समुच्छेदयति। विपश्यना अविद्यामपनयति। यथोक्तं सूत्रे-शमथो भावितश्चित्तं भावयति। चित्तं भावितं रागं प्रजहाति। विपश्यना भाविता प्रज्ञां भावयति। प्रज्ञा भाविता अविद्यां प्रजहाति इति। कामवियुक्तत्वात् चित्तं विमुच्यते। अविद्यावियुक्तत्वात् प्रज्ञा विमुच्यते। तदुभयविमुक्ति लाभिनो न पुनः किञ्चिदवशिष्यते। अतो द्वयमात्रमुक्तम्।

(पृ) यदि शमथो विपश्यना चित्तं भावयति प्रज्ञां भावयति। चित्तप्रज्ञाभावित्वात् रागमविद्याञ्च प्रजहाति। कस्मान्नियम उच्यते। शमथश्चित्तं भावयन् रागं प्रजहाति। विपश्यना प्रज्ञां भावयन्ती अविद्यां प्रजहातीति। (उ) विक्षिप्तचित्तकस्य चित्तसन्तानानि रूपादिषु समुदाचरन्ति। सन्तन्यमानमिदं चित्तं शमथं लभते। तच्छमनादुच्यते शमथश्चित्तं भावयतीति। शमिताच्चित्ताज्जायते प्रज्ञा। अत उच्यते विपश्यना प्रज्ञां भावयतीति। उत्पन्नविपश्यनस्योर्ध्वं यत्किञ्चिद्भावितं सर्वं भाविता प्रज्ञेत्युच्यते। आद्या प्रज्ञा विपश्यना पश्चाप्रज्ञेत्युच्यते।

यथोक्तं सूत्रे-शमथो भावितो रागं प्रजहातीति। इदं विध्नीभूतप्रहाणं भवति। केन तत् ज्ञायते। रूपादिषु बाह्यकामेषु रागो जायते। शमथौषधं लब्धवतो न पुनर्जायते। यथोक्तं सूत्रे-योगी निरामिषां प्रीतिं लभमानः सामिषां प्रीतिं जहाति इति। यदुक्तमविद्याप्रहाणमिति, तदात्यन्तिकप्रहाणम्। केन तत् ज्ञायते। अविद्याप्रहाणाद्धि रागादयः क्लेशाः प्रहीयन्ते निरुध्यन्ते नावशिष्यन्ते। सूत्रेऽप्युक्तम्-रागविरागात् चेतोविमुक्तिः। इदं विघ्नीभूतप्रहाणं भवति। अविद्याविरागात् प्रज्ञाविमुक्तिः। इदमात्यन्तिकप्रहाणम्। इति। अस्ति च द्विधा विमुक्तिः सामयिकविमुक्तिः अकोप्यविमुक्तिरिति। सामयिकविमुक्तिर्विघ्नीभूतप्रहाणम्। अकोप्यविमुक्तिरात्यन्तिकप्रहाणम्।

(पृ) सामयिकी विमुक्तिः पञ्चविधानामर्हतामनास्रवा विमुक्तिः। अकोप्या विमुक्तिश्चाकोप्यधर्मणोऽर्हतोऽनास्रवा विमुक्तिः। कस्माद्विध्नीभूतप्रहाणमात्रमुच्यते। (उ) नेयमनास्रवा विमुक्तिः। कस्मात्। समयविमुक्तो हि यत् अधिकबलेन कञ्चित्कालं संयोजनानि विघ्नयति नात्यन्तं प्रजहाति। पश्चात्पुनः [संयोजनानि]प्रादुर्भवन्ति। अतो नानास्रवा[सा] भवति। विमुक्तिरियं सामयिकतृष्णाविमुक्तिः। क्षीणास्रवस्यार्हतो नास्ति किञ्चिदिष्यमाणम्। (पृ) तथा चेद् नार्यस्येष्यमाणं शीलम्। (उ) शैक्षाणामक्षीणास्रवत्वात् आत्ममतिः कदाचित्प्रादुर्भवति। अतः शीले जायत इष्टम्। नार्हतोऽत्यन्तप्रहीणात्ममतेः।

(पृ) गोधिकोऽर्हन् षड्‍वारं सामयिकविमुक्तेः परिहिणः। सप्तमपरिहाणभयादसिनात्मानं जघान। यदि स आस्रवान् विनाशितवान्, नात्मानं हन्यात्। अतो ज्ञायते समयविमुक्तो नानास्रव इत्युच्यते। (उ) अयं स्पृष्टात् संयोजनप्रहाणात्समाधेः परिहीणः। अस्मात्समाधेः षट्‍कृत्व परिहीणः। सप्तमवारं स्पृष्ट्वा समाधिमिमं आत्मानं हन्तुमैच्छत्। तस्मिन् समये संकल्पितोऽर्हन्मार्गमस्पृशत्। अतो मारः शैक्षो विवृत्तकायस्कन्धं मृत इति आचतुर्दिगन्तं तद्विज्ञापनाय येन भगवान् तेनोपसंक्रम्य भगवन्तमेतदवोचत्।

श्रावकस्ते [महावीर मरणं मरणाभिभूः।]
अकांक्षते चेतयते [तन्निषेध द्युतेन्द्रिय]।

अथ खलु भगवान् [मार इति विदित्वा त] मवोचत्।
[एवं हि धीराः कुर्वन्ति नाकांक्षन्ते [च] जीवितम्।]
समूलां तृष्णामृद्‍गृह्य गोधिकः परिनिर्वृतः॥ इति।

(पृ) यः क्षीणरागः स विघ्नीभूतप्रहाणकः। सूत्र उक्तं-रागाच्चेतोविमुक्तिः। द्वेषमोहाभ्यां प्रज्ञाविमुक्तिरिति। किञ्चाह-नन्दिरागप्रहाणाच्चेतो विमुक्तिरिति। आह-कामास्रवाच्चित्तं विमुच्यत इति। एवं विघ्नीभूतविमुक्तिः स्यात् न पारमार्थिकविमुक्तिः। (उ) अत्राप्युक्तम्-अविद्या प्रहीयत इति। अतो ज्ञायत इयमात्यन्तिकविमुक्तिरिति। यदि मतं रागप्रहाणं कदाचिद्विध्नीभूतप्रहाणं, कदाचिदात्यन्तिकप्रहाणमिति। अनुत्पन्नतत्त्वज्ञानस्येदं विध्नीभूतप्रहाणम्। तत्त्वज्ञानानुसारिण अत्यन्तिकप्रहाणम्। नास्ति तु कश्चित् [केवलं] शमथं स्पृष्ट्वा रागमात्यन्तिकं प्रजहातीति। तथा चेत् तीर्थिका अपि रागमात्यन्तिकं प्रजह्युः। वस्तुतस्तु न तथा। अतो ज्ञायत इदं विघ्नीभूतप्रहाणमात्रमिति।

(पृ) सूत्र उक्तम्-शमथेन चित्तं भावयति। विपश्यनामुपादाय विमुक्तिं स्पृशति। विपश्यनया चित्तं भावयति। शमथमुपादाय विमुक्तिं स्पृशतीति। तत् कथम्। (उ) योगीयदि समाधिं प्रतीत्य क्षयमालम्ब्य प्रज्ञामुत्पादयति। तदोच्यते शमथेन चित्तं भावयति। विपश्यनामुपादाय विमुक्तिं स्पृशतीति। यदि विक्षिप्तचित्तेन स्कन्धधात्वायतनादीनि विकल्पयति। तत्प्रतीत्य क्षयमालम्ब्य शमथं स्पृशति। तदोच्यते विपश्यनया चित्तं भावयति। शमथमुपादाय विमुक्तिं स्पृशतीति। यदि स्मृत्युपस्थानादीनि निर्वेधभागीयानि स्पृष्ट्वा चित्तं परिगृह्णाति। तदा शभथं विपश्यनां युगनद्धं भावयतीति। सर्वे च योगिनो द्वाविमौ धर्मौ निश्रित्य चित्तं निरुध्य विमुक्तिं स्पृशन्ति॥

शमथविपश्यनावर्गः सप्ताशीत्युत्तरशततमः।

१८८ समाधिभावनावर्गः

(पृ) भवानवोचत्-समाधिं भावयेदिति। समाधिचित्तमिदं प्रतिणक्षमुत्पन्नविनाशि। तत् कथं भावयितव्यं भवति। (उ) प्रत्यक्षं पश्यामः खलु कायिकं कर्म प्रतिक्षणविनाश्यपि भावनावशाद्विभिन्नकौशलं भवति। भावनावशात् चिरं पुनः पुनः प्रवर्त्यमानं सत् सुकरं भवति। तथा वाचिकं कर्मापि। अनुविहितावृत्ति आवृत्त्या च प्रगुणीकृतं दृढीभूतञ्च सुस्मरणं भवति यथाध्ययनादि। मानसं कर्म च क्षणिकमपि भावयितव्यमिति ज्ञातव्यम्। यथाग्निर्जन्यं विकारयति। आपः शिला भेदयन्ति। वायुः पदार्थान् विधमति। एवं क्षणिकधर्माणां सर्वेषां संहतानां बलमस्ति। क्लेशा यथावासनमनुवर्धन्ते। यथा कश्चित् पुनः पुनर्मैथुनचित्तं भावयन् बहून् कामानभिनिर्वर्तयति। तथा द्वेषमोहावपि। यथोक्तं सूत्रे- यो यद्वस्तुचित्तं मनसि करोति स तत्र प्रतिपन्नः। तद्यथा सदा कामवितर्कचित्तमनुसरन् कामाय प्रतिपद्यते। एवमन्यौ द्वौ वितर्कावपि। इति। अतो ज्ञायते चित्तमिदं क्षणिकमपि भावयितव्यं भवतीति।

भावना नामोपचयः। दृश्यन्ते दृष्टे सर्वे धर्माः सोपचयाः। यथोक्तंसूत्रे-योगी खलु अयोनिशो मनसिकारात् कामादीनास्रवाननुत्पन्नानुत्पादयति। उत्पन्नान् विवर्धयति। यदवरान्मध्यमुत्पादयति। मध्यादुत्तममुत्पादयति। तद्यथा बीजादङ्कुरमङ्कुरात्काण्डं काण्डान्नाळं नाळात् पत्रं पत्रात्पुष्पं पुष्पात्फलमिति प्रत्यक्षतो हेतुतोऽनुपूर्वं विवर्धते। समाधिसम्प्रजन्यादिधर्मा अप्येवमेव स्युः। प्रत्यक्षतो दृष्टं खलु वासिततिलस्य गन्धः संङ्ग्क्रात्या वर्धत इति। अयं गन्धस्तिलञ्च प्रतिक्षणमविद्यमानं, तथापि तद्वासनाबलमस्ति। अतो ज्ञायते क्षणिका धर्मा अपि भावयितव्या इति।

(पृ) तिलं वर्तमानधर्मः। वासितो गन्ध आगन्तुकः। अविद्यमानं चित्तं क्षणिकज्ञानेनागत्य भाव्यते। कथं दृष्टान्तो भवेत्। (उ) नास्ति कश्चिद्विद्यमानधर्मः सर्वे च धर्माः क्षणिका इति पूर्वमेव साधितम्। अतो नास्ति दूषणम। यदि धर्मा अक्षणिकाः, न भावयितव्याः। स्वरूपत एव सदास्थितस्य भावनया क उपकारः। यदि धर्मः प्रतिक्षणविनाशि, [तदा] अवरान्मध्यं मध्यादुत्तममिति धर्मस्य भावना भवेत्। (पृ) कुसुमानि तिलं प्राप्य वासयन्ति। ज्ञानन्तु न चित्तमाप्नोति। अतो नास्ति भावना। (उ) पूर्वकर्मदृष्टान्ते प्रतिपादितमिदम्। यदुत्तरभाविकर्म न पूर्वभाविकर्म प्राप्नोति। पुर्ववचनं नोत्तरभाविवचनमपेक्षते। तथापि कायिकवाचिककर्मणोरस्ति च भावनालक्षणम्। अतोऽप्राप्तं न भाव्यत इति तव वचनं न दूषणाय भवति। प्रत्यक्षतो दृश्यते च हेतुफलयोरयौगपद्येऽपि भवत्येव हेतोः फलं भवतीति। एवं चित्तधर्मस्य क्षणिकत्वेऽपि भावनाऽस्त्येव। यथा च बीजं सलिलसिक्तमङ्कुरादीनप्राप्यापि अङ्कुरादीनङ्कुरयति। एवं प्रज्ञा पूर्वचितं भावयति तदुर्ध्वचित्तमुपचितं भवति।

(पृ) यदि क्षणिकात्तिलात् तिलान्तरं जायते। किमिदं तिलं वासितं जायते, अवासितं वा। यद्यवासितं जायते, नैव भवेद्वासनावत्। यदि वासितं जायते। पुनः क उपयोगश्चिरवासन [क्रिय]या। (उ) वासनाहेतुत्वात्। यथा बिजात्सलिलसिक्तादङ्कुरोऽङ्कुरयते। एवं पूर्वकुसुमयोगं प्रतीत्य तिलान्तरं जायते। इदं तु वासितं जायते। भवानवोचत् -क उपयोगश्चिरकालवासनयेति। यथा भवतां सूत्र उक्तं-अग्निसंयोगादणुषु कृष्णवर्णे निरुद्धे रक्तवर्णं जायत इति। यद्यादावग्निसंयुक्तधर्मस्य कृष्णवर्णं निरुध्यत इति। न स्यात्पुनः कृष्णवर्णस्योत्पत्तिः। यद्यादावग्निसंयुक्तधर्मस्य रक्तवर्णमुत्पद्यत इति पुनः पश्चादग्निसंयुक्तधर्मः किमर्थम्। यद्यादावग्निसंयोगकाले कृष्णवर्णमुत्पद्यते। रक्तवर्णं नैवोत्पद्येत। यदि द्वितीयक्षणे रक्तवर्णं जायते। पुनरश्चिरकालाग्निसंयोगः किमर्थम्। यदि भवतामभिसन्धिः रक्तवर्णं क्रमशो जायत इति। चित्तमप्येवमिति को दोषः। तथा विपरिणामादिरपि।

सर्वे धर्मा सहेतुसप्रत्यया अपि क्रमशो जायन्ते। यथा गर्भाधानादिक्रमेण शरीरमभिनिर्वर्त्यते। एवं प्रज्ञासमाध्यादयो धर्माः क्षणिका अपि अवरमध्योत्तमधर्मक्रमेण जायन्ते। भावनाधर्मः सूक्ष्मोऽपि चित्तसन्ततिमन्यथयति। यथा पक्षच्छदस्योष्मणि मृदुन्यपि अण्डं क्रमशो विक्रियते। पाणितलमांसमर्दनात् वाशीजटा सूक्ष्मशः क्षीयते। एवं चित्तमपि। समाहितप्रज्ञा सूक्ष्मेत्यतः क्रमशो भाव्यते। धर्मं भावयन् प्राप्तिकाले तावत् जानाति।

यथोक्तं गाथायाम्-
आचार्यात्सर्वमादत्ते, सर्व[तत्] मि(मै?)त्रहेतुकम्।
आत्मचेतनया सर्व, सर्व पाके कालमपेक्षते॥ इति।

कश्चिदजस्रमधीयानोऽपि न प्रत्येति परिपव्ककालिक इव। यथा बहुभिः पुष्पैरेकस्मिन् समये तिलं वासयति न यथा पुष्पाल्पानि क्रमशश्चिरं वासयन्ति। मेदसा परिपुष्टिः जले [नौका] निमज्जनं भित्तिनिर्माणं इत्यादिरपि तथा। प्रत्यक्षं खलु [नः] बीजाङ्कुरादीनामुपचयोऽतिसूक्ष्मः, नैव द्रष्टुं शक्यते। तेषां दैनन्दिन उपचयः क्लेशानां गणना। बालकादीनां शरीरं स्तन्यपानादिना परिपच्यत इतीदमपि तथा स्यात्। अतो ज्ञायते धर्मभावना सूक्ष्मा प्रणीता दुरवबोधा चेति।

(पृ) कदाचिद्धर्मो युगपदुपचीयते। कश्चित्पूर्वं रूपमदृष्ट्वाऽपि तद्दर्शनमात्रेण तत्राभिनिविशते। कश्चिदल्पकालेऽपि बहु प्रतिसंवेदी भवति। कस्मादुच्यते क्रमिकैव भावनेति। (उ) सर्वस्यातीतभावित्वात्। अतो ज्ञायत उपचिता भावना क्रमिकेति। इदं प्रतिपादितमेव। न चित्तोत्पादमात्रेण यत्किञ्चित्साधयति। यथोक्तं सूत्रे-यः कुशलधर्मेषु न भावनायोगमनुयुक्तः कुशलधर्माननुपादाय केवलं प्रणिदधाति आस्रवेभ्यश्चित्तविमोकम्। नैवास्य चिन्तितं प्रणिधानाद्भवति। कुशलधर्मेषु भावनायोगाननुयुक्तत्वात् इति।

योगी यदि कुशलधर्मेषु भावनायोगमनुयुक्तो भवति। अकृतप्रणिधानस्यापि [तस्य] आस्रवेभ्यश्चित्तं विमुच्यते। हेतोर्हि फलं जायते न प्रणिधानात्। तद्यथा पक्षिणामण्डसंस्पर्श आवश्यकः। न प्रणिधानात् जन्तुरण्डान्निर्गच्छति। न च प्रणिधानात्प्रदीपप्रकाशः परिशुद्धो भवति। किन्तु परिशुद्धतैलं परिशुद्धवर्तिकाञ्चोभयमपेक्ष्य [अन्य] वस्तुसंस्पर्शचाञ्चल्यराहित्ये च तत्प्रकाशः परिशुद्धो भवति। किञ्च न प्रणिधानमात्रेण धान्यं लभ्यते। किन्तु अवश्यं सूक्षेत्रसद्बीजर्तुवृत्तिसमीक्रियाकृषिकर्मणां साकल्ये तत्प्रतिलाभो भवति। नापि च प्रणिधानमात्रात् देहो रूपं बलञ्च लभते। अवश्यं वस्त्रौषधाहारपोषणादिप्रत्ययेन तु परिपूर्णो भवति। एवं न प्रणिधानमात्रादास्रवाणां क्षयो भवति। अवश्यं तत्वज्ञानमपेक्ष्य विमुच्यते। को ज्ञानी हेतोः फलं जायत इति प्रजानन् तद्धेतुमुपेक्ष्य अन्यस्मात्फलमाकांक्षेत।

धर्म भावयन् दृष्ट एव फलविपाकं पश्यति। यथोक्तं सूत्रे-तिष्ठन्तु सप्तदिनानि मया शासिताः श्रावका मुहूर्तं तावत्कुशलधर्मं भावयन्तोऽप्रमाणवर्षेषु नित्यं सुखां वेदनां स्पृशन्ति इति। भिक्षुण्यो भदन्तमानन्दमवोचन्-वयं स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्यः पूर्वेणापरं विशेषं सम्प्रजानीम इति। सूत्रे च भगवान् भिक्षूनामन्त्र्याह- अशठस्य मामुपसङ्‍क्रमतो यन्मया प्रातरुपदिष्टो धर्मः तदर्थ सायं विन्दते। यत् सायमुपदिष्टो धर्मः प्रातस्तद्धितं विन्दत इति। यच्चार्हन्मार्गं स्पृशति न तत् परपुद्गलः प्रयच्छति। नानन्यपुद्गलः। केवलं सम्यग्घेतुभावनातस्तद्धितमाप्नोति। अनुत्तरं बुद्धमार्ग एव ननु कुशलधर्मस्योपचितभावनया स्पृशति। यथोक्तं सूत्रे-भगवान् भिक्षूनामन्त्र्याह-द्वौ धर्मौ निश्रित्याहमनुत्तरं मार्गं समापन्नः यत् शुभाभिरतावनिर्वेदो मार्गभावनायामक्लान्तिश्च इति। भगवतः कुशलधर्माणां नास्ति सीमा।

बोधिसत्त्वाः समाधिमस्पृशन्तोऽपि न कुसीदा भवन्ति। कस्मात्। कुशलेऽकृते न किञ्चिलभ्यते। कुशले कृतेऽपि नाकारे परिवृत्तिः। कुशलमकुर्वतो नैव क्षैमं भवति। इदं चिन्तयित्वा वीर्यमारभमाणः कुशलधर्मं भावयेत्। वीर्यमारभमाणस्य लाभो वा भवति हानिर्वा। अकृतवीर्यस्य नैवास्ति प्रत्याशा। अतो भावनामारभेत मा परिखेदो भूदिति। प्राज्ञः पर्यवसानेऽवश्यं मुच्यते। भावनाविनिर्मुक्तस्य न पुनरस्त्युपायः। अतः प्राज्ञेन भावनारब्धव्या, मा परिखेदो जनयितव्यः। योगी सुचरितचर्याया अस्ति फलविपाक इत्यनुस्मृत्य अलभमानोऽपि न विषादं करोति। किञ्च योगी मनसि कुर्यात्-मया भावनायाः फलविपाकोऽनुप्राप्त एव। पूर्वागतैः सत्त्वैः सर्वेषां ध्यानसमाधीनां [फलविपाकस्य] अनुप्राप्तत्वात्। ममेदानीं सम्यग्भावनाऽपि फलविपाकमनुप्राप्स्यतीति। अतो न परिखिद्यात्।

सुचरितशालिनि तथागतः प्रत्यक्षं करोति। अहमिदानीं सम्यगाचरामीत्यतो ज्ञानमवश्यमनुप्राप्स्यते। अहं मार्गसमापत्तिप्रत्ययसम्पन्नः यत् मनुष्यदेहप्राप्तिरविकलेन्द्रियता पुण्यपापविज्ञातृता विमुक्तावपि चाधिमुक्तता अभ्यागतसम्बुद्धिता इत्येतैः प्रत्ययैः समन्वितः कथं न भावनाफलविपाकमनुप्राप्स्ये। वीर्यसमाचरणममोघमेव। अतो न परिखिद्यते। क्लेशानां प्रहाणमतिसूक्ष्मं दूरवबोधं वाशीजटायां क्रमशः क्षयवत्। मम क्लेशानामपि भवेत्प्रहाणम्। सौक्ष्म्यात्परं न सम्बुध्यते। अतो ज्ञायते कुशलं भावयितुं वीर्यमुत्तमं भवतीति। अल्पीयसी प्रज्ञाऽपि क्लेशान् विनाशयति यथा अल्पीयान् प्रकाशोऽन्धकारमपनयति। एवमल्पीयसीं प्रज्ञां लभमानः कृतकृत्यो भवति। अतो न परिखिद्यते। दीर्घकायेऽपि दुस्साधना यत् समाधिसमापत्तिः। यदि समाधिं समापद्यते। तदाऽन्ये गुणा अचिरेण भवन्ति। अतः क्षिप्रमलभमानोऽपि न परिखिद्यते।

योगी समनुचिन्तयेत् समाधिसमापत्तिरतिकृच्छ्रा यथा पुरा बोधिसत्त्वः पुण्येन प्रज्ञया च घनिष्ठः षट्‍वर्षाणि व्यवस्यन् अन्तेऽनुप्राप्तः। अन्येषां भिक्षूणां समाधिसमापत्तिरपि कृच्छ्रा, किं पुनर्मम पृथग्जनस्य मन्देन्द्रियस्य वेगेनानुप्राप्तिरिति। एवमनुचिन्त्य न परिखिद्येत। योगिभिरवश्यं कर्तव्यं यत् समाधिभावना, नास्ति पुनः कर्मान्तरम्। अतोऽननुप्राप्तस्यानुप्राप्तये भावयितव्यम्। भावयिता समाधिमसमापन्नोऽपि कायप्रविवेकलाभी भवति। प्रविविक्तकायस्य समाधिः सुलभो भवति। समाधिभावनामारभमाणो भगवदनुग्रहस्यानृणो भवति। प्रविवेकचारित्वात् योगावचर इत्याख्यामपि विन्दते। दीर्घकालं कुशलं भावयतः कुशलस्वभावः सिध्यति। यावत्कायप्रवृत्ति कुशलमेव सदाऽनुपतति। अतः सुजनैः सङ्गच्छेत। इदं महतेऽर्थाय भवति। सदा कुशलस्य भावयिता दृष्ट एव कायेन आस्रवाणां क्षयं स्पृशेत्। यदि वा मरणकाले स्पृशेत् यदि वा आयुषोऽन्ते सुस्थान उपपद्य तदन्तरा स्पृशेत्। इति यथाधर्मश्रवणानुशंस उक्तम्।

योगी अध्यात्मं चित्तं वीरलक्षणं पुरस्कृत्यैवं चिन्तयति अहं क्लेशावरणमपर्यादाय न कदाचिद्‍वृथा प्रतिनिवर्त इति। किञ्च योगी मानचित्तमाश्रित्यैवं चिन्तयति-श्रद्धादीनि कुशलेन्द्रियाणि सन्तीति अन्ये समाधिं प्रतिपद्यन्ते। ममापीदानीं सन्ति। किमर्थं न समापद्य इति। यथा पुरा बोधिसत्त्वः अराडादिभ्यो मुनिभ्यो धर्मं श्रुत्वैवमचिन्तयत् इमे श्रद्धादिकुशलेन्द्रियत्वात् धर्ममनुप्राप्नुवन्। समापीदानीं सन्ति कस्मान्नानुप्राप्स्यामीति। योगी प्रजानाति-क्लेशा दुर्बलाः प्रज्ञा बलवती। तत्प्रहाणं किमिति दुष्करमिति। यथोक्तं-भिक्षुः षड्‍भिर्धर्मैः समन्वागतो मुखमारुतेन हिमवन्तं [पर्वतराजमपि] प्रदलयेत्। कः पुनर्वादो अविद्यामिति।

किञ्च योगी चिन्तयति-अहं पूर्वाध्वनि न समाधिं भावितवान्। अत इदानीं नानुप्राप्नोमि। इदानीं न प्रयते पश्चात्पुनर्नानुप्राप्स्यामीति। अतो भावनामारभते। सदा समाधिभावित्वात् चित्तमेकत्र प्रतितिष्ठति। यथा घटस्य प्रवर्तनमनुपरतमवश्यमेकत्र प्रतितिष्ठति। अपि च योगी चिन्तयति-यद्यहं सदा वीर्यमारभे यदि चाननुप्राप्तमनुप्राप्नोमि। तदोर्ध्वंमवश्यं न विप्रतिसरिष्यामीति। अतश्चित्तैकाग्र्येण समाधीन् भावयितुमारभेत॥

समाधिभावनावर्गोऽष्ठाशीत्युत्तरशततमः।

१८९ मार्गसत्यस्कन्धे ज्ञानाधिकारे
ज्ञानलक्षणवर्गः

तत्त्वस्य प्रज्ञा ज्ञानमित्याख्यायते। तत्त्वं यत् शून्यानात्मता। तस्य प्रज्ञा तत्त्वज्ञानं भवति। प्रज्ञाप्तौ प्रज्ञेति संज्ञा न तु ज्ञानम्। कस्मात्। उक्तं हि सूत्रे-यथाऽसिः परिकृन्तति। आर्यश्रावकाः प्रज्ञासिना संयोजनानुबद्धान् अनुशयपर्यवनद्धान् सर्वान् क्लेशान् समुच्छेदयति। नान्यधर्मेणेति वदन्ति। नातत्त्व[ज्ञाने] न क्लेशान् समुच्छेदयति इति। अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]मिति।

(पृ) यत् भवानाह-प्रज्ञैव क्लेशान् समुच्छेदयतीति। तदयुक्तम्। कस्मात्। संज्ञयापि हि क्लेशान् समुच्छेदयति। यथोक्तं सूत्र-अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति। [सर्वं] रूपरागं [सर्व] भवरागं [सर्व]मस्मिमानं [सर्वा]मविद्याञ्च पर्यादाति। इति। (उ) मैवम्। प्रज्ञया यः क्लेशानां समुच्छेदः [स एव] संज्ञयेत्युच्यते। अस्ति भगवतो द्विविधं वचनं-परमार्थवचनं संज्ञावचनमिति। यथोक्तं सूत्रे-मैत्री व्यापादं समुच्छेदयतीति। अयं मैत्रीधर्मः परमार्थतो न संयोजनं समुच्छेदयति। ज्ञानमात्रं समुच्छेदयति। यथोक्तं-ज्ञानासिः सर्वान् क्लेशान् समुच्छेदयति इति। अतो ज्ञायते मैत्री संयोजनं समुच्छेदयतीति संज्ञावचनम्। किञ्चोक्तं प्रज्ञार्थसूत्रे-विमुक्तिं प्रजानातीति प्रज्ञा। किं वस्तु विमुक्तिरिति प्रजानाति। यत् अनित्यं रूपं अनित्यमिति यथाभूतं प्रजानाति। अनित्या वेदना, संज्ञा, संस्कारा, विज्ञानमनित्यमिति यथाभूतं प्रजानाति। इयं प्रज्ञैवेति। किञ्चाह-आर्यश्रावकाः समाहिता यथाभूतं प्रजानन्तीति। अतो ज्ञायते परमार्थ एव प्रज्ञेति। प्रज्ञादृष्टान्ते चोक्तम्-ज्ञानमसिः प्रज्ञा इषुरित्यादि। दृष्टान्तोऽयं सर्वक्लेशप्रहाणमुपदर्शयति। तत्त्वज्ञानमेव क्लेशान् समुच्छेदयतीत्यतः प्रज्ञैव तत्त्व[ज्ञान]मिति ज्ञायते। उक्तञ्च गाथायाम्-

योगी पश्यति वै लोके सर्वे देवाश्च मानुषाः।
तत्त्वज्ञानपरिभ्रष्टा नामरूपेऽभिनिविष्टाः॥ इति।

लौकिका भूयसा तुच्छकं नित्यं सुखं सुभमित्यादि दृष्ट्वा तत्त्वज्ञानाद्भष्टा भवन्ति। यः परमार्थतः शून्यमनात्म इत्यादि पश्यति, स तत्त्वज्ञानी भवति। अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]म् इति।

आह च भगवान् सूत्रे-यस्य धनं विनष्ठं, तस्याल्पीयान् लाभो विनष्टः। यस्य प्रज्ञा विनष्टा, तस्य महीयान् लाभो विनष्ट इति। किञ्चाह-लाभेषु धनमल्पीयान् लाभः। प्रज्ञा तूत्तमो लाभ इति। आहच-प्रद्योतानां चन्द्रसूर्यप्रद्योत अल्पीयान् प्रज्ञाप्रद्योतोऽग्र इति। यदि प्रज्ञा न तत्त्व[ज्ञानं], कस्मादेवं वदेत्। उक्तञ्च सूत्रे-प्रज्ञेन्द्रियमार्यसत्यसङ्गृहीतमिति। आह च-दुःखसमुदयज्ञानादिः तत्त्व[ज्ञान]मिति प्रजानीयात्। परमार्थसत्यालम्बनेयं प्रज्ञा इति। आह च-[बोधिपक्षिक] धर्मेषु प्रज्ञा अग्रा इति। किञ्चाह-अनुत्तरा सम्युक्‌सम्बोधिः प्रज्ञेन्द्रियमित्यभिधीयते इति। अतः सा तत्त्वमिति। भगवतो दश बलानि ज्ञानमयानि। अतो ज्ञायते प्रज्ञा वस्तुतः परमार्थालम्बना भवतीति। (पृ) तथा सति प्रज्ञा अलौकिकी भवेत्। (उ) वस्तुतोऽलौकिकी प्रज्ञा। केनेदं ज्ञायते। लौकिकं चित्तं प्रज्ञप्तिमवलम्बते। लोकोत्तरं चित्तं नैरात्म्यशून्यतामवलम्बते। कस्मात्। प्रज्ञप्तिर्हि लोक एव। प्रज्ञप्तेरतिक्रान्तं लोकोत्तरम्।

(पृ) भवदुक्तं न युज्यते। कस्मात्। उक्तं हि सूत्रे-किं विजानाति विज्ञानम्। यदुत रूपशब्दगन्धरसस्पर्शान् विजानाति। यथा स्कन्धधात्वायतनादीनि विज्ञानेन विजानाति। इदं विज्ञानं लोकोत्तरं भवेत्। इति। अतो लौकिकं चित्तं प्रज्ञप्तिमात्रमालम्बते न तत्त्वमिति भवद्वचनमयुक्तम्। मनोविज्ञानमपि तत्त्वालम्बनम्। वेदनासंज्ञासंस्काराद्यालम्बित्वात्। किञ्चाह भगवान्-द्वे सम्यक् दृष्टी लौकिकी लोकोत्तरेति। पुण्यपापाद्यस्तित्व [सम्यक् दृष्टि]लौकिकी यदार्यश्रावकाणां दुःखसमुदयनिरोधमार्गानालम्ब्य अनास्रवस्मृत्या सम्प्रयुक्ता प्रज्ञा लोकोत्तरा। उक्तञ्च गाथायाम्-

लौकिकोत्तमदृष्टीको यातायातोऽपि संसृतौ।
अध्वनां शतसाहस्रं न यावद्दुर्गतौ गतः॥ इति।

उक्तञ्च सूत्रे-मिथ्याचारिणः सुस्थाने जन्म भवति। अस्त्य पापकर्मणोऽनभिनिर्वृत्तौ कुशलप्रत्ययः पूर्वं विपच्यते। कदाचिन्मरणकाले समुपस्थिते सम्यक् दृष्टिसम्प्रयुक्तं कुशलचित्तमभिमुखीभवति। अतः सुस्थाने जायते। इति। दशसु कुशल[कर्म]पथेष्वपि सम्यग्दृष्टिरुक्ता। कथं भवानाह लोकोत्तरं ज्ञानमिति। आह च भगवान्-त्रिविधा प्रज्ञा श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा। श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा लौकिकी। भावनामयी उभयविधा इति। किञ्च भगवान् [आनापान] स्मृतिं जनयामास। राहुलो भिक्षुरपरिनिष्पन्नां विमुक्तिप्रज्ञामनुप्राप। आह च पञ्चधर्मा अपरिपव्कं विमुक्तिचित्तं विपाचयन्ति इति। एषा सर्वा लौकिकी प्रज्ञैव। किञ्चोक्तं सूत्रे-केचिदभिनिष्क्रमणकुशलाः, न विपश्यनाकुशलाः। केचिद्विपश्यनाकुशलाः न सन्तरणकुशला इति। लौकिक ज्ञानलाभितया अभिनिष्क्रमणकुशल इत्युच्यते। चतुस्सत्यादर्शितया न विपश्यनाकुशलः। चतुस्सत्यानि पश्यन्नपि आस्रवक्षयालाभितया न सन्तरणकुशलः। भगवान् स्वयमाह-धर्मज्ञानमन्वयज्ञान परचित्तज्ञानञ्च लौकिकं ज्ञानमिति। किञ्चाह-पूर्वनिवासज्ञानं च्युत्युपपत्तिज्ञानं सास्रवमिति। अपि चाह-धर्माणां स्थितिज्ञानं निर्वाणज्ञानं भवति। इत्यादिसूत्रेषूक्तत्वात् ज्ञातव्यं अस्ति सास्रवं ज्ञानमिति।

अत्र प्रतिब्रूमः। यद्यस्ति सास्रवा प्रज्ञा। इदानीं वक्तव्यं सास्रवानास्रवयोः प्रविभक्तं लक्षणम्। (पृ) यो धर्मो भवे पातकः स सास्रवः। तदन्योऽनास्रवः। (उ) को धर्मो भवे पातकः। को वा न भवे पातकः। इदं प्रतिवक्तव्यम्। अप्रतिब्रूवाणस्य नास्ति सास्रवानास्रवयोर्लक्षणम्। यद्भवतोक्तम्-अस्ति लौकिकं चित्तमप्रज्ञप्त्यवलम्बनं यद्विषयादीनां विज्ञानमिति। तदयुक्तम्। कस्मात्। आह खलु भगवान्-पृथग्जनाः सततं प्रज्ञप्तिमनुधावन्तीति। अस्यार्थः। सर्वपृथग्जनचित्तं प्रज्ञप्तिं न पर्यादातीत्यतः सदा अस्मितालक्षणमनुधावति। नैव ततो विसंयुज्यते। रूपं पश्यतोऽपि न घटादिलक्षणाद्विसंयुज्यते इति। अतः पृथग्जन चित्तं न तत्त्वार्थमवलम्बते। वेदनासंज्ञादीन् धर्मानवलम्बमानोऽपि अहं ममेति पश्यति। अतो ज्ञायते सर्वं लौकिकं चित्तं प्रज्ञप्तिमवलम्बत इति।

यदुक्तं भवता-लौकिकी प्रज्ञा यदुत द्विधा सम्यग्दृष्टिरित्यादि इति। तत्रेदं प्रतिवक्तव्यम्-अस्ति चित्तद्वैविध्यं मोहचित्तं ज्ञानचित्तमिति। प्रज्ञप्तिधर्मावलम्बनं चित्तं मोहचित्तम्। यत् शून्या नात्मरूपधर्ममात्रावलम्बनं चित्तं ज्ञानचित्तम्। यथोक्तमविद्याविभङ्गसूत्रे-अविद्या कतमा। यत् पूर्वान्तेऽज्ञानमपरान्तेऽज्ञानं पूर्वान्तापरान्ताज्ञानं कर्मण्यज्ञानं कर्मविपाकेऽज्ञानं पूर्वापरकर्मविपाकाज्ञानं इत्यादि तत्र तत्र यथाभूतस्याज्ञानमदर्शनमनभिसमयः तमः संमोहः [अविद्या]न्धकारः इयमुच्यतेऽविद्या इति। यथाभूतस्या ज्ञानमिति यत् शून्यानात्मा ज्ञानम्। इदं पृथग्जनचित्तं सदा प्रज्ञप्तिगतं सत् प्रज्ञप्तिमवलम्बते। अतोऽविद्येत्याख्यायते। शून्यालम्बनं ज्ञानम्। इदानीं यदि सर्वं लौकिकं ज्ञानं प्रज्ञप्तिमवलम्बते। प्रज्ञप्त्यालम्बनं चित्तमविद्या भवति। कथमुच्यते अस्ति लौकिकी प्रज्ञा इति।

(पृ) भवतोक्तवत् प्रज्ञप्त्यालम्बनं प्रज्ञालक्षणमविद्या। इदानीमर्हतोऽविद्या भवेत्। घटाद्यालम्बनचित्तस्य सत्त्वात्। (उ) अर्हतो नास्ति घटाद्यालम्बनं चित्तम्। कस्मात्। प्रथमाभि सम्बोधिकाल एव सर्वप्रज्ञप्तिलक्षणानां विध्वस्तत्वात्। क्रियार्थार्य केवलमभिदधाति। न तत्र मानदृष्टावभिनिविशते। सन्ति त्रयो वादाः-(१) दृष्टिजः, (२) मानजः, (३) क्रियार्थज इति। त्रिभ्यः क्रियार्थो भवति। पृथग्जना यद्वदन्ति घट इति पुद्गल इति। अयं वादो दृष्टिजः। शैक्षा आत्मदृष्टिविहीना अपि सम्यक्‌स्मृतिप्रमोषत् पञ्चसु स्कन्धेषु अस्मिमानलक्षणेन वदन्ति-अयं पुद्गलः अयं घट इति। यथा क्षेमकसूत्र उक्तम्। क्रियार्थज इति यदर्हतः। यथा महाकाश्यपः सङ्घाटिं दृष्ट्वा आह-इयं ममेति [यत्] दिव्यर्द्धौ विचिकित्सां जनयति। भगवान् तद्विवृण्वन्नाह-अयमत्यन्तसमुद्धतमानेन्द्रियः प्रदग्धहेतुप्रत्ययः कथं साभिमानः स्यात्। प्रज्ञप्त्या परं [तथा] वदतीति। अतो ज्ञायते अस्त्यर्हतो घटादिचित्तमिति।

(पृ) यद्यलौकिकी प्रज्ञा। द्वे सम्यग्दृष्टी इत्यादी सूत्रं कथं नेयम्। (उ) इदं सर्वं संज्ञाज्ञानमिति नाम्नोच्यते। भगवान् धर्माणां तत्त्वलक्षणप्रतिसंवेदी विनेयसत्त्वाननुसृत्य विविधं नाम स्थापयति। यथा प्रज्ञामेव वेदनादिनाम्नोपदिशति। यदुत वेदकः सर्वधर्मेभ्यो विमुच्यत इति। अपि चाह अनित्यादिसंज्ञा भाविता सर्वान् क्लेशान् परिभेदयतीति। आह च-चतुर्थमकृष्णमशुक्लं कर्म सर्वकर्माणि शैक्षचेतनाख्यानि क्षपयतीति। किञ्चाह-मनसा सर्वानभिविवेशान् प्रजहातीति। आह च-

श्रद्धया तरति ओघम् अप्रमादेन चार्णवम्।
वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति॥ इति।

अपि चाह-चक्षू रूपदर्शनायेच्छति इति। चक्षुषि वस्तुतोऽसत्यामपीच्छायां चित्तमेव दर्शनायेच्छत् चक्षुर्नाम्नोच्यते।

(पृ) यदि लौकिकं ज्ञानं संज्ञा। कस्मात् ज्ञानं भवति। यदि हेतुप्रत्ययान् विनोपदिष्टं ज्ञानम्। तदा सर्वाः संज्ञा ज्ञानं भवेत्युः। वक्तव्या च द्विविधा संज्ञा लोकं प्रतीत्य सत्यं, परमार्थं प्रतीत्य सत्यमिति। (उ) मैवम्। संज्ञायाः सन्ति नानाविभागाः। काचित् मोहकाष्ठात्मिका संज्ञा यावत् लौकिककुशलाकुशलानि न विजानाति। काचिदवरमोहात्मिका संज्ञा कुशलाकुशलानि विवेचयति। काचिदल्पमोहात्मिका संज्ञा अस्थिसंज्ञाद्यालम्बते। प्रज्ञप्ति मविहाय न स्कन्धलक्षणानि विधमति। इतीयं संज्ञा स्कन्धलक्षणपरिभेदकं ज्ञानमनुकूलयतीत्यतो भगवानुपदिशति ज्ञानमिति। इयञ्च संज्ञा तत्त्वज्ञानस्य हेतुं करोतीत्यतो ज्ञानमि त्युच्यते। अस्ति च लोके कारणे कार्योपचारः। यथा सुवर्णं भुङ्‍क्ते। पुरुषस्य पञ्चवृत्तीर्ददाति। स्त्री शीलं मलिनं करोति। सुपारा जलधारा सुखा। धर्मवसनः पुरुषः सुख इति। सप्तास्रवसूत्रे च वचनप्रहाणवृत्तिप्रहाणादय आस्रवहेतव आस्रवा इत्युच्यन्ते। आहुश्च आहारो जीवितं पशवस्तृणानीति। अपि चाहुः-अन्नवस्रादीनि बाह्यजीवितम्, यत् परस्वापहरणं तदेव परजीवितापहरणम् इति। इदं सर्वं हेतुमेव फलतया वदन्ति। एवं ज्ञानहेतुरेव ज्ञानमित्युच्यते। अतोऽनवद्यम्।

(पृ) स्मृत्युपस्थानेषु उष्मादिषु च गतं चित्तं तत्त्वधर्ममालम्बते। किमिदमनास्रवम्। (उ) यदनास्रवं चित्तं तत् प्रज्ञप्तिं विधमति। अतो यत्र प्रज्ञप्तिविधमनं चित्तं तदनु समागतं चित्तमनास्रवं भवति। (पृ) कुत्र चित्तं प्रज्ञप्तिं युगपत् विधमति। (उ) यत्र पञ्चानां स्कन्धानामुदयव्ययानुदर्शनसम्पन्नो भवति। तदा [तेषा] मनित्यसंज्ञामनुप्राप्नोति। अनित्यसंज्ञा च योगिनोऽनात्मसंज्ञां सम्पादयति। यथोक्तम्-आर्यश्रावकाणामनित्यसंज्ञया चित्तं भावयतामनात्मसंज्ञा प्रतितिष्ठति। अनात्मसंज्ञया चित्तं भावयतां क्षिप्रं रागद्वेषमोहेभ्यो विमुच्यते इत्यादि। कस्मात्। अनात्मसंज्ञया हि चित्तं भावयतां दुःखसंज्ञा प्रतितिष्ठति। आत्मसंज्ञित्वात् दुःखमपि प्रतिबुध्यते। अतो यो धर्मोऽनित्योऽनात्मा, स दुःखोऽपि इति प्रजानन् अकुशलान्निर्विद्यते। अतोऽनात्मसंज्ञा दुःखसंज्ञां सम्पादयति।

(पृ) कस्माद्भवानाह [अन्यथा] विधनक्रमम्। सूत्रे तूक्तम्-यदनित्यं तद्दुःखम्। यद्दुःखं तदानात्म इति। अतोऽनित्यसंज्ञा दुःखसंज्ञा सम्पादयति। दुःखसंज्ञाऽनात्मसंज्ञां सम्पादयति।

(उ) सूत्र उक्तम्-अनित्यसंज्ञाभावितं श्रावकाणां चित्तमनात्मसंज्ञायां प्रतितिष्ठति इति। अतोऽनित्यसंज्ञा अनात्मसंज्ञां सम्पादयति। एवं वदतोऽपि अस्ति मार्गनयः। कस्मात्। आत्मवादी हि परलोकसाधनायाह-आत्मा नित्य इति। अतः पञ्चस्कन्धा अनित्या इति पश्यन् अनात्मान इति प्रजानाति। यथोक्तं सूत्रे-चक्षुरात्मेति यो वदेत्। तत् नोपपद्यते। चक्षुष उत्पादोपि व्ययोऽपि प्रज्ञायते। यस्य खलु पुनरुत्पादोऽपि व्ययोऽपि प्रज्ञायते। आत्मा म उत्पद्यते व्येति चेत्यस्यागतं भवति। इति।

(पृ) सूत्रद्वयमिदं कथं प्रतिसंवेदनीयम्। (उ) दुःखलक्षणं द्विविधम्-अनित्यसंज्ञोत्थितं विपरिणामदुःखलक्षणम्। अनात्मसंज्ञोत्थितं संस्कारदुःखलक्षणम। अतः सूत्रद्वयमप्यविरुद्धम्। (पृ) तथा चेत् स्मृत्युपस्थानोष्मादावस्त्यनित्यसंज्ञा। अयं धर्मोऽनास्रवः स्यात्। (उ)स्मृत्युपस्थानादौ यदीयमनास्रवा, को दोषोऽस्ति। (पृ) पृथग्जनानां चित्ते न स्यादियमनास्रवा। पृथग्जनानां चित्तेऽप्यस्ति अभूतस्मृत्युपस्थानम्। कथमिदनास्रवं भवेत्। (उ) पुद्गलोऽयं न वस्तुतः पृथग्जनः। अयं स्त्रोत‍आपत्तिफलप्रतिपन्नक इत्युच्यते। (पृ) अयं स्त्रोत‍आपत्तिफलप्रतिपन्नकः सत्यदर्शनमार्गे वर्तते। स्मृत्युपस्थानादिधर्माश्च न सत्यदर्शना भवन्ति। (उ) स्त्रोत‍आपत्तिफलप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च भवति। स्मृत्युपस्थानादिगतो विप्रकृष्टः प्रतिपन्नकः सत्यदर्शनगतस्तु सन्निकृष्टः। केनेदं ज्ञायते। उक्तं हि भगवता वाशीजटोपमसूत्रे-जानतः पश्यत आस्रवाणां क्षयं वदामि। किं जानतः किं पश्यत आस्रवाणां क्षयो भवति। इति रूपं, इति रूपस्य समुदयः। इति रूपस्यास्तङ्गमः। इति वेदना संज्ञासंस्कारविज्ञानानि यावदस्तङ्गमः। मार्गमभावयतो नास्रवाणां क्षयो भवति। भावयतस्तु भवति। तद्यथा [कुक्कुट्या] अण्डानि सम्यगधिशयितानि। एवमेव भावनानुयोगमनुयुक्तस्य भिक्षोर्नैवं ज्ञानं भवति एतावत्को बत मेऽद्यास्रवाणां क्षीणम्। एतावत्को हयः एतावत्कः परमिति। अथ खल्वस्य क्षीणे क्षीणान्त एव ज्ञानं भवति। तद्यथा वाशीजटायां [दृश्यन्तेऽङ्गुलिपदानि]। सप्तत्रिंश[व्दोध्य]ङ्ग भावनानुयोगमनुयुक्तस्य भिक्षोरल्पकृच्छ्रेणैव संयोजनानि प्रतिप्रश्रभ्यन्ते। पूतिकानि भवन्ति। तद्यथा सामुद्रिकयानानो[र्बन्धनानि]। अतो ज्ञायते स्मृत्युपस्थानादिगतो मार्गाङ्गभावनानुयोगमनुक्तः स्त्रोत‍आपत्तिफलप्रतिपन्नक इति। यद्येकस्मिन् क्षणे यदि वा पञ्चदशसु क्षणेषु न भावनानुयोगं विन्दते। [तदा] ज्ञातव्यमयं विप्रकृष्टः स्त्रोत‍आपत्तिप्रतिपन्नक इति।

(पृ) इति रूपं, इति रूपस्य समुदयः इति रूपस्यास्तङ्गमः, इति वेदना इति ज्ञानमिति प्रथममुक्तमाद्यफलस्य मार्गः। अनन्तरास्रयो दृष्टान्तास्रयाणां फलानां मार्गाः। अतो नाद्यफलप्रतिपन्नक इत्युच्यते। (उ) यद्यण्डानि न सम्यगधिशयितानि। तदा विनश्यन्ति। सम्यगधिशयतानि संसिध्यन्ति। एवं स्मृत्युपस्थानादारभ्य प्रथमं भावनामारभते। स यदि न साधयति। न स प्रतिपन्नको भवति। साधयन्स्तु शैक्षजनोऽतिमात्रपूतिवेदक इत्युच्यते। अतः स्मृत्युपस्थानादौ पूतिभूतः सन् पृथग्जनो भवति। यः संसिद्धभावनः स आद्यफलप्रतिपन्नको भवति। तद्यथा अण्डान्तर्गत। अण्डाब्दहिर्गतः स्त्रोत‍आपन्नो भवति। अतो ज्ञायते स्मृत्युपस्थानादिगतः विप्रकृष्टः प्रतिपन्नक इत्युच्यते। किञ्चोग्रेण सङ्घे निमन्त्रिते देवता उपसङ्‍क्रम्य आरोचयन्ति-अमुको गृहपते अर्हन् यावदमुक आद्यफलप्रतिपन्नक इति। यदि स सत्यदर्शनमार्गगतः। कथमारोचयेयुः। ज्ञातव्यं स विप्रकृष्टः प्रतिपन्नक इति।

किञ्चोक्तं भगवता सूत्रे-यस्य [खलु भिक्षव इमानि] पञ्चेन्द्रियाणि (श्रद्धादीनि) न सन्ति। तमहं बाह्यः पृथग्जनपक्षे स्थित इति वदामीति। अस्यार्थः-अस्ति बाह्य आभ्यन्तरश्च पृथग्जनः। यस्य निर्वेधभागीयानि कुशलेन्द्रियाणि न सन्ति। स बाह्यः पृथग्जन इति। यस्य सन्ति स आभ्यन्तर इति। अयमाभ्यन्तरः पृथग्जन आर्य इत्युप्युच्यते पृथग्जन इत्यप्युच्यते। बाह्यं पृथग्जनमुपादाय आर्यः। सत्यदर्शनमार्गमुपादाय पृथग्जनः। यथाऽऽनन्दश्छन्नमामन्त्र्याह-पृथग्जनो नानुस्मरति रूपं शून्यमनात्मा, वेदना, संज्ञा संस्कारा विज्ञानं शून्यमनात्मा। सर्वे संस्कारा अनित्याः। सर्वे धर्मा अनात्मानः। तेषां निरोधो निर्वाणमिति। अथ च [तत्र] छन्नस्य [चित्तं] न धर्मनियामे प्रस्कन्दति। नापि पृथग्जनस्यैवं भवति इत्याह।

(पृ) सन्निकृष्टो विप्रकृष्टो वा, उभावपि प्रतिपन्नकौ। कः प्रविभागस्तयोः। (उ) यो निरोधं पश्यति स तत्त्वतः प्रतिपन्नकः। यो दूरभागीयकुशलेन्द्रियगतः पश्यति पञ्चस्कन्धा अनित्याः दुःखा शून्या अनात्मान इति। न तु निरोधं पश्यति। स संज्ञाप्रतिपन्नकः। कस्मात्। यथोक्तं सूत्रे-भिक्षवो भगवन्तं पृच्छन्ति-कथं धर्मं पश्येम इति। भगवानाह-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। तत्सहभुवो वेदनासंज्ञा चेतनादयः सर्वे [धर्मा] अनित्या विपरिणामधर्माणः अश्रद्धेयाः। यो धर्मोऽनित्यः, तद् दुःखम्। दुःखस्यास्य समुदयोऽपि दुःखम्। स्थितिरपि दुःखम्। पुनः पुनर्भवलक्षणमपि दुःखम्। एवं यावन्मनो धर्मा अपि। यदीदं दुःखं निरुध्यते। अन्यानि दुःखानि न सम्भवन्ति। न पुनः सन्तानो भवति। योगिनश्चित्त एवं भवति-इदं प्रणीतमुपशमपदं यत् सर्वेषां मृषाभूतानां कामतृष्णानामपगमः क्षयो विरागो निरोधो निर्वाणम्। यदस्मिन् धर्मे चित्तं प्रस्कन्दति अधिमुच्यते नेञ्जते न परावर्तते न शोचते न परित्रासते। ततो निदानं धर्मं पश्येयम् इति। अतो ज्ञायते योगी अनित्याद्याकारैः पञ्चस्कन्धानवलोकयन् विप्रकृष्टः प्रतिपन्नक इत्युच्यते। तेषां निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नक इति। यथा छन्नः स्थविरान् प्रतिवदति-ममाप्येवं भवति-रूपमनित्यं [विज्ञानमनित्यं रूपमनात्मा, विज्ञानमनात्मा, सर्वे संस्कारा अनित्याः, सर्वे धर्मा अनात्मान इति। अथ च पुनर्मे] सर्वसंस्कारसमर्थे तृष्णाक्षये निरोधे निर्वाणे चित्तं न प्रस्कन्दति, न प्रसीदति, न विमुच्यते [परितर्षणा। उपादानमुत्पद्यते। प्रत्युदावर्तते मानसम्। अथ कस्तर्हि म आत्मेति।] न खल्विमं धर्मं पश्यतो भवति। इति।

किञ्चाह-योगी यदस्मिन् धर्मे मृदुप्रज्ञया क्षान्तिं श्रद्दधते स श्रद्धा[नुसारी] प्रतिपन्नकः। पृथग्जनमतीत्य धर्मनियाममवतार्याद्यफलमलब्ध्वा न देवेषु भवति। यस्तीक्ष्णप्रज्ञया क्षान्तिं श्रद्दधते स धर्मा[नुसारी] प्रतिपन्नकः। [यो] धर्ममिमं पश्यन् त्रीणि संयोजनानि समुच्छेदयति। न स्त्रोत‍आपन्नः यो निरवशेष[क्षया]भिज्ञः सोऽर्हन्। अतो ज्ञायते निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नको भवतीति।

(पृ) योगी कस्मान्नात्यन्तं निरोधं पश्यति। (उ) सूत्र उक्तम्-धर्मा निस्स्वभावाः प्रतीत्यसमुत्पन्नाः। अयं धर्मः परमगम्भीरः। सर्वतृष्णाक्षय उपशमो निरोधो निर्वाणम्। इदं पदमतिदुर्दर्शम्। भगवान् द्वादशनिदानानां निरोधं दृष्ट्वा अनुत्तरमभिसम्बुद्धोऽभूत् इति। धर्ममुद्रायाञ्चोक्तम्-पञ्चस्कन्धाननित्यान् विप्रलोपान् मृषाभूतानसारान् शून्यांश्च पश्यतो योगिनो ज्ञानदर्शनमविशुद्धं भवति इति। सूत्रमिदमन्त आह-योगिन एवं भवति-यन्मया दृश्यते श्रूयते आजिघ्र्यते रस्यते स्पृश्यते मन्यते तत् सर्वं प्रतीत्यसमुत्पन्नं विज्ञानम्। यदस्य विज्ञानस्य हेतुप्रत्यया नित्या वा अनित्या वा इति। तदनित्यज्ञानम्। अनित्येभ्यो हेतुप्रत्ययेभ्य उत्पन्नं विज्ञानं कथं नित्यं भवेत्। अतः सर्वे पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः क्षयलक्षणाः विपरिणामलक्षणा वियोगलक्षणा निरोधलक्षणा इति पश्यति। तदा योगिनो विशुद्धं ज्ञानदर्शनं भवति। आत्यन्तिकनिरोध इत्यनेन विशुद्धं ज्ञानदर्शनमुच्यते। अतो निरोधज्ञानदर्शनमेव आर्यसत्यदर्शनं भवति। आदौ च धर्मस्थितिताज्ञानमन्ते निर्वाणज्ञानं भवति। अतो निरोधसत्यदर्शनमेवार्यमार्गलाभो भवति।

ज्ञानलक्षणवर्ग एकोननवत्युत्तरशततमः।

१९० एकसत्यदर्शनवर्गः

(पृ) यद्भवानाह-निरोधं पश्यन्नेव फलप्रतिपन्नक इति। तदयुक्तम्। कस्मात्। सूत्रे हि भगवतोक्तम्-चतुर्णामर्यसत्यानां यथाभूतमननुबोधात् एवमिदं दीर्घमध्वानं [सन्धावितं] संसरितं मम च युष्माकञ्च इदानीमिमानि चत्वारि सत्यान्यनुबद्धानि। ततो निदानञ्च समुच्छिन्नं संसरितम्। न पुनः कायस्य वेदना भवति। इति। ज्ञातव्यं चतुस्सत्यदर्शनात् फलप्रतिपन्नको भवति इति। न निरोधमात्रदर्शनात्। किञ्चाह भगवान्‌उत्तमधर्मो यदुत चत्वार्यार्यसत्यानि इति। अतो योगी सर्वाणि [सत्यानि] जानीयात् पश्येच्च। आह च-ये हि केचित् धर्मकञ्चुका निन्दितकायाः सम्यक्‌प्रव्रज्यां श्रद्दधन्ते। सर्वे ते चतुर्णामार्यसत्यानां यथाभूतमभिसमयाय। ये हि केचित् स्त्रोत‍आपत्तिं सकृदागामितामनागामिताञ्च लिप्सन्ति। सर्वे ते चतुर्णामार्यसत्यानाभिसम्बुद्धत्वात्। ये हि केचित् अर्हतां प्रत्येकबुद्धतां बुद्धमार्गञ्च लिप्सन्ति। सर्वे ते चतुर्णामार्यसत्यानामभिसम्बुद्धत्वात्। अतो ज्ञायते न निरोधसत्यदर्शनमात्रमार्गमार्ग इति। आह च भगवान्-चत्वार्यार्यसत्यान्यनुपूर्वेणानुप्राप्नोतीति। धर्मचक्रप्रवर्तने चोक्तम्-इदं दुःखमयं दुःखसमुदयः अयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति पश्यतो मम तेषु चक्षुरुदपद्यत ज्ञानमुदपद्यत विद्योदपद्यत बोधिरुदपद्यत इति, एवं त्रिपरिवर्तं चत्वार्यार्यसत्यान्यवोचत्। किञ्चोक्तं सूत्रे-अवदातवसने ह्रदे प्रक्षिप्ते सति रूपं [यथा] वेदयते। एवमयं पुरुष एकत्र निषण्णश्चत्वारि सत्यानि पश्यति इति। किञ्चाह परिशुद्धचित्तः सम्यक् भावयति-दुःखसत्यं यावन्मार्गसत्यम्। एवं पश्यतः कामास्रवात् भवास्रवादविद्यास्रवात् चित्तं विमुच्यते। इति। यत्र यत्र सूत्र उक्तमार्यसत्यम्। तत्र सर्वत्र चत्वारि सत्यान्युक्तानि। न निरोधसत्यमात्रम। भगवानाह चत्वारि ज्ञानानि दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानमिति। तानि चतुर्णामार्यसत्यानामर्थाय भवन्ति इति। योगी धर्मशः परिपश्येत् चत्वारि सत्यानि। यथा भिषक् रोगं ज्ञात्वा रोगनिदानं रोगविनाशं रोगविनाशौषधञ्च जानीयात्। एवं योगी दुःखानां निस्सरणमिच्छन् दुःखं दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च जानीयात्। यदि न जानाति दुःखं केन ज्ञास्यति दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च। अतो ज्ञायते न निरोधदर्शनमात्र[मार्यसत्यम्] इति।

अत्रोच्यते। यत् केषाञ्चिदुक्तं-चतुस्सत्यानां प्रतिलाभ इति। सर्वं [तत्] स्कन्धधात्वायतनादिषूक्तम्-यदिदं रूपं इत्यादि अयं रूपस्य समुदय इत्यादि अयं रूपस्य व्यय इत्यादि प्रजानत आस्रवाः क्षीयन्त इति। किञ्चाह भगवान्-रूपादीनां स्कन्धानां यथाभूतमास्वादमादीनवं निस्सरणप्तप्रज्ञायानुत्तरं मार्गमस्पृशमिति न वदामि। यथाभूतं प्रजानन्स्तु मार्गमस्पृशमिति प्रजानामीति। नगरोपमसूत्रे चोक्तम्-यदा मम न ज्ञानमभूत्-[इति] जरामरणं जरामरणसमुदयो जरामरणनिरोधो जरामरणनिरोधगामिनी प्रतिपत्। यावत् संस्काराः संस्कारसमुदयः संस्कारनिरोधः संस्कारनिरोधगामिनी प्रतिपत् इति। न तदा वदामि-अधिगतो मार्ग इति। इति। एवमादि [वचनानि] दृष्ट्वा यदि [वदामः] अयमेव दर्शनमार्गाधिगम इति। तदा षोडशचित्त[क्षणा] न मार्गाधिगमः स्युः।

(पृ) नाहं वदामि-अयमुच्यते दर्शनमार्गाधिगम इति; किन्तु अयं सम्मर्शन कालीन इति। (उ) चतुर्षु सत्येष्वप्येवमुच्यते। वक्तव्यञ्चेदं सम्मर्शनकालीनमिति। तथा नो चेत् निदानं वक्तव्यं-चतुस्सत्यदर्शनं मार्गाधिगमकालीनं पञ्चस्कन्धादिदर्शनं सम्मर्शनकालीनमिति। (पृ) क्लेशानां प्रहाणज्ञांन मार्गाधिगमो भवति। पञ्चस्कन्धादीनां सम्मर्शनं न क्लेशानां प्रहाणाय भवति। (उ) पूर्वमेवोक्तमस्माभिः-पञ्चस्कन्धादिज्ञानमपि क्लेशानां प्रहाणाय भवतीति। यथोक्तम्-रूपादिज्ञानदर्शनादास्रवाः क्षीयन्त इति। आह च-लोकसमुदयं समनुपश्यतो नास्तितादृष्टिर्निरुध्यते। लोकनिरोधं समनुपश्यतोऽस्तितादृष्टिर्निरुध्यत इति। भगवान् स्वयं निदानान्यवलोकयन् मार्गमधिजगाम। किंशुको [पम] सूत्रे चोक्ता नानामार्गाधिगमप्रत्ययाः। केचित् पञ्चस्कन्धान् पश्यन्तो मार्गमधिगच्छन्ति। केचित् द्वादशायतनानि वा अष्टादशधातून् वा द्वादशनिदानानि वा अन्यानि वा पश्यन्तो मार्गमधिगच्छन्ति इति। अतो ज्ञायते न चतुस्सत्य[दर्शन]मात्रेण मार्गाधिम इति। यदि भवतो मतं सत्यप्यस्मिन् वचने नैतद्दर्शनेन क्लेशान् प्रजहातीति। चतुस्सत्यदर्शनेनापि न क्लेशान् प्रजहतीति वक्तव्यम्। सत्य[दर्शने-]न न मार्गमधिगच्छतीति अवश्यं वक्तव्यमिति। चतुस्सत्यविभङ्ग उक्तम्-जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि दुःखं विप्रियसंयोगो दुःखं प्रियवियोगो दुःखं यदिष्टं न लभ्यते तदपि दुःखं संक्षेपेण पञ्चोपादानस्कन्धा दुःखमिति। किञ्चाह दुःखसमुदयो येयं तृष्णा पौनर्भविकी तत्र तत्राभिनन्दिनी इति। एवमादिदर्शनेन नास्रवाणां क्षयः स्यात्। इदं सर्वं लोकसत्यं न तु परमार्थसत्यम्।

(पृ) यद्यपि जातिमरणादि पश्यतो नास्रवक्षयः स्यात्। तथापि पञ्चोपादानस्कन्धा दुःखमित्युक्तम्। तेषां परिज्ञातुः क्लेशा भिद्यन्ते। (उ) अन्यानि त्रीणि सत्यानि कथं भवन्ति। अतो ज्ञायते [तत्] भवतः स्वसंज्ञानुस्मरणविकल्प इति। पञ्चोपादानस्कन्धा दुःखमिति पश्यतश्चित्तमेव विक्षिप्यते न मार्गोऽधिगम्यते। (पृ) यदि चतुर्भिः सत्यौर्न मार्गमधिगच्छति। केन धर्मेणाधिगच्छेत्। (उ) एकेनसत्येनाधिगच्छति योऽयं निरोधः। यथोक्तं सूत्रे-मृषा नाम अनृतम्। सत्यं तद्विपरीतम्। सर्वे संस्कृतधर्मा अनृतमृषाग्रहा इति। अतो ज्ञायते योगी चित्तत एव संस्कृतधर्मे वर्तते न परमार्थत इति। यथोक्तं सूत्रे-संस्कृतधर्मा अनृता मायोपमा ज्वालोपमा स्वप्नोपमा ऋणोपमा इति। यथोक्तं धर्मपदे-

अभूतबद्धो लोकोऽयं सुनिश्चितवत् प्रभासते।
असत् दृष्टं सदाभासं असद्वै परया धिया॥ इति।

स्त्री पुरुष इति धर्मो यथाभूतं नास्ति। पञ्चस्कन्धानां कलापमात्रे स्त्री पुरुष इति सुदृढं कीर्तयन्तः पृथग्जना विपर्ययमुग्धा वदन्ति। स वस्तुतो नास्ति। इति। योगी तु इमे पञ्चस्कन्धाः शून्या अनात्मान इति भावयति। अतो न पुनस्तं पश्यति। यथोक्तं धर्ममुद्रासूत्रे-योगी भावयति रूपमनित्यं शून्यं वियोगलक्षणमिति। इति। अनित्यमिति यत् रूपं स्वरूपतोऽनित्यम्। शून्यमिति यथा घटे जलेऽसति शून्यो घट इति वदन्ति। एवं पञ्चस्कन्धेषु नास्त्यात्मा इत्यतः शून्या भवन्ति। एवं भावयिताऽपि शून्यः। [तस्य] ज्ञानदर्शनमपि अविशुद्धम् पञ्चस्कन्धानां निरोधादर्शत्वात्। अन्ते तु निरोधं पश्यति यदुत योगिन एवं भवति यन्मया दृष्टं श्रुतमित्यादि। अतो ज्ञायते निरोधं पश्यत एव क्लेशाः क्षीयन्त इति।

(पृ) कस्मान्निरोधं पश्यतः क्लेशाः क्षीयन्ते नान्यसत्यानि। (उ) योगिनस्तस्मिन् समये दुःखसंज्ञा व्यवस्थिता भवति। निरोधलक्षणसाक्षात्कुर्वतस्तु संस्कृतेषु दुःखसंज्ञा न व्यवस्थिता भवति। यथा कस्यचित् प्रथमध्याने प्रीतिसुखमलब्धवतो न पञ्चकामगुणेषु निर्वेदसंज्ञा जायते। यथा च अवितर्काविचारसमाधिमलब्ध्वा न सवितर्कसविचारसमाधौ दोषं मन्यते। तथा योग्यपि निर्वाणमुपशमलक्षणमनधिगम्य न संस्कारदुःखमधिगच्छति। अतो ज्ञातव्यं निरोधसत्यं पश्यत एव दुःखसंज्ञा सम्पन्ना भवति। दुःखसंज्ञासम्पन्नत्वात् तृष्णादीनि संयोजनानि प्रहीयन्ते इति।

(पृ) यदि निरोधसत्यदर्शनात् दुःखसंज्ञा सम्पन्ना भवति। निरोधसत्यं पश्येत् पश्चात् क्लेशाः प्रहीयेरन्। कस्मात्। निरोधसत्यं दृष्टवत् एव दुःखसंज्ञायाः सम्पन्नत्वात्। (उ) न पश्चात्प्रहीयेरन्। यस्मिन् समये निरोधस्य निरोधलक्षणमधिगतम्, तस्मिन्नेव समये दुःखसंज्ञा सम्पद्यते। पश्चात्तु अभिमुखीभवति। यथोक्तं सूत्रे-योगी [यत्] समुदयलक्षणं तत् निरोधलक्षणमिति प्रजानन् सुविशुद्धं धर्मचक्षुरनुप्राप्नोति। इति। स्कन्धेषु च सदास्ति आत्ममतिः। स्कन्धा अनित्या दुःखा इति पश्यन्नपि न निरोधमनुप्राप्नोति। निरोधसत्यं पश्यतस्तु असल्लक्षणत्वादात्ममतिरत्यन्तं निरुध्यते। (पृ) यदि निरोधसत्यं पश्यत आत्ममतिः क्षीयते। कस्मात् भगवान् पुद्गलः सुकुमारमतिरित्यादि दृष्ट्वा चतुस्सत्यान्युदेशयति, न तु निरोधसत्यमात्रम्। (उ) तत्रास्ति मार्गानुलोम्येन चरितम्। किमिति। अनित्यसंज्ञया अनात्मसंज्ञासम्पन्नत्वात् इदं दुःखमिति दर्शनमनुप्राप्नोति। इदं मार्गस्य सन्निकृष्टमित्यतो मिलित्वा वदति।

(पृ) मार्गलाभसमय एव यदि सत्कायदृष्टिः प्रहीयत इति। कस्मात् पुनराह शीलव्रतपरामर्शो विचिकित्सा इति। (उ) योगी मार्गमनुप्राप्य धर्माः शून्या अनात्मान इति दृष्टतः पश्यन् न पुनर्विचिकित्सते। न पृथग्जनानां श्रुतचिन्तादिदर्शनैः समानो भवति। मार्गसत्यं पश्यन् प्रजानाति इदमेकमेव तत्त्वं नान्यदस्तीति। अतस्त्रीण्याह। (पृ) यदि मार्गलाभकाल एव सत्यदर्शनप्रहेयाः क्लेशाः क्षीयन्ते। कस्मात् त्रयाणां संयोजनानामेव क्षयमाह। (उ) सर्वे क्लेशाः सत्कायदृष्टिमूलकाः। यथा भगवान् भीक्षून् पृच्छति-केन वस्तुना किं वस्तूपादाय किं वस्त्वभिनिविश्य ईदृशी दृष्टिर्भवति। अस्मिन् काये म्रियमाण एव ईदृशादयः सर्वा दृष्टयो निरुध्यन्ते। भिक्षव आहुः-भगवन्मूला हि नो भगवन् धर्माः। भगवन्तमेव प्रार्थयामहे व्याकरणायेति। भगवानाह-रूपे खलु सति रूपमुपादाय रूपमभिनिविश्य सक्तायदृष्टिर्भवति। यावद्विज्ञानमप्येवम्। इति।

अतो ज्ञातव्यं सत्कायदृष्टिमुपादाय सर्वे क्लेशाः सम्भवन्तीति। कस्मात्। सत्यां हि सत्कायदृष्टौ वदन्ति-अयमात्मा नित्यो वाऽनित्यो वेति। नित्य इति पश्यतः शाश्वतदृष्टिः। अनित्य इति पश्यत उच्छेददृष्टिः। यद्यात्मा नित्यः। तदा न कर्म, न विपाकः, दुःखविमोक्षः। न मार्गभावनया निर्वाणमनुप्राप्नोति। यदस्या दृष्टेः प्राधान्यम्। स एव दृष्टिपरामर्शः। [तस्या एव] यत्प्रकर्षलाभः। स एव शीलव्रतपरामर्शः। आत्मदृष्टौ तृष्णा। परदृष्टौ द्वेषः। आत्मन उच्चदर्शनमेव मानः। यथाभूताज्ञानात् यत्संयोजनानां प्रादुर्भावः। सैवाविद्या। अतः सत्कायदृष्टिसमुच्छेदात्सत्यदर्शनेन संयोजनप्रहाणं भवति।

(पृ) यदि सत्कायदृष्टिसमुच्छेदादन्यान्यपि प्रहीयन्ते। कस्माद्विशिष्याह शीलव्रतपरामर्शं विचिकित्साञ्च। (उ) तयोः प्राधन्यात्। धर्मलक्षणं साक्षात्कुर्वतो योगिनो न विचिकित्सा भवति। विचिकित्सेयमस्त्यात्मा नास्त्यात्मेति विचिकित्सते। मार्गो विशुद्धिं प्रापयति नवेत्यपि विचिकित्सते। इदानीं दुःखसत्यं पश्यत आत्मदृष्टिः प्रहीयते। अयमेव मार्गो न पुनरन्योऽस्तीत्यपि प्रजानाति। अत उच्यते सत्कायदृष्टिप्रहाणमेव वस्तुतो दुःखदर्शनम्। शीलव्रतसमुच्छेदात् मार्गं प्रयुज्य ज्ञाने ज्ञेयधर्मेषु च न विचिकित्सते। यः सम्यक्‌ज्ञानेन ज्ञेयधर्मान् प्रजानाति। स एव समुदयं प्रहाय निरोधमधिगच्छन् चतुस्सत्यसम्पन्न इत्युच्यते। अत एषां त्रयाणां वचनमेव निर्विचिकित्सालक्षणं प्रदर्शयति। विचिकित्सेयमात्मनि मार्गे च भवति। यथोक्तं सूत्रे-आद्याभिसम्बोधिलक्षणं यदुत धर्मं पश्यति धर्मं प्रतिलभते धर्मं प्रजानाति धर्मं प्रतिसंवेदयते। विचिकित्साजालं वितीर्य परशासनं नानुवर्तते। भगवच्छासने च वैशारद्यबलमनुप्राप्य फले सुप्रतितिष्ठति। इति॥

एकसत्यदर्शनवर्गो नवत्युत्तरशततमः।

१९१ सर्वालम्बनवर्गः

(पृ) कस्मात् ज्ञानं सर्वालम्बनं भवति। (उ) यत् ज्ञानं धात्वायतनादिगोचरं तत् सर्वालम्बनमित्युच्यते। कस्मात्। आयतनेषु धातुषु चोक्तेषु पदार्था आलम्बनानि विषया ज्ञेया इत्यादयः सर्वे धर्मा भवन्ति। [तान्] यत् ज्ञानमालम्बते तत् सर्वालम्बनमित्युच्यते।

(पृ) ज्ञानमिदं न सम्प्रयुक्तसहभ्वादिधर्मान् जानाति। (उ) जानाति यद्यायतनाद्यालम्बनं, तत्सामान्यलक्षणज्ञानं भवति। सामान्यलक्षणज्ञानत्वात् सर्वमालम्बते। कस्मात्। द्वादशायतनानीति वदतो नान्यः पुनर्धर्मोऽस्ति। अतो ज्ञायते ज्ञानमिदमपि स्वात्मानमालम्बत इति। (पृ) उक्तं हि सूत्रे-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। अतो न स्वात्मालम्बनं ज्ञानं स्यात्। ज्ञानानां दृष्टान्तान् प्रतीत्य नास्ति स्वात्मालम्बनम्। तद्यथा-अङ्‍गुल्यग्रं नात्मानं स्पृशति। न चक्षुः स्वात्मानं पश्यति। (उ) यत् भवानाह-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। न तत् नियमेन भवति। आलम्बनं विनापि ज्ञामुत्पद्यते। न हि सर्वं द्वाभ्यां प्रत्ययाभ्यामुत्पद्यते। किञ्चित् षष्ठस्य विज्ञानस्य स्वकलापे सर्वथा असदालम्बनं भवति। दृष्टधर्मा[लम्बन] त्वात्। विज्ञानस्यास्य रूपादिधर्मानालम्बनत्वात्। यद्यालम्बते अन्धोऽपि रूपं पश्येत्। पुरुषस्यास्य तस्मिन् समये चित्तचैत्ता अतीतानागतगताः। अतीतानागताश्च असद्धर्माः, कस्यालम्बनानि स्युः। आत्माध्यवसानमात्रस्य प्रतिषेधादेवमुच्यते। यदि विज्ञानानि भवन्ति। तानि सर्वाणि आभ्यां द्वाभ्यामेव भवन्ति। न चतुर्भिः प्रत्ययैः। किञ्चित् विज्ञानं द्वौ प्रत्ययौ विनोत्पद्यते। यथोक्तं सूत्रे-षडायतनप्रत्ययः स्पर्श इति। न वस्तुतः स्पर्शस्य षडायतनानि प्रत्यया भवन्ति। उत्पद्यमानं न षडायतनेभ्यो भवति। सप्तमायातनस्य प्रतिषेधात्। एवं चतुरः प्रत्ययान् प्रतिषिध्याह भगवान् द्वे आयतने इति।

अतीतानागताकाशकालदिगादीनाञ्च ज्ञानमुत्पद्यते। ते धर्माश्च न वस्तुसन्तः। इदमेवानालम्बनं ज्ञानं भवति। (पृ) अनेनैव हेतुना अतीतानागतादयोः धर्माः सन्तः स्युः। यद्यसन्तः, किं तज्ज्ञानमुत्पादयति। शशशृङ्गकूर्मरोमाहिपदादिषु न जातु ज्ञानमुत्पद्यते। (उ) कारित्रे ज्ञानमुत्पद्यते। एवं पुरुषदर्शनेऽतीते तदतीतकालं स्मरति। पुरुषं भाषमाणं शृण्वन् तद्भाषणकालं स्मरति। एवमतीतादिधर्माणां नास्ति कारित्रमित्यतोऽयुक्तम्। (पृ) इदानीमतीते किं कृत्वा स्मर्यते। (उ) स्मरणस्य नास्ति कोऽपि धर्मः। भवानाह-शशशृङ्गादि कस्मान्न स्मरतीति। यो धर्म उत्पद्य निरुद्धः स स्मरणीयः। यः प्रकृतितोऽसन्। किं स्मर्येत यथा धर्मः पूर्वं सत्त्वाख्य इदानीमतीतोऽपि सत्त्वाख्यः। एवं तस्मिन् धर्मे पूर्वं स्मृत्युत्पादात् तदेव चित्तं पुनः स्मर्यते। न तु चित्तान्तरम्। अनेन पुरुषेण पूर्वं तद्धर्मनिमित्तमुपात्तम्। तस्मिन् धर्मे निरुद्धेऽपि तत्संज्ञानुस्मरणमुत्पाद्य [तं धर्मं] विकल्पयति। यो धर्मस्तस्य चित्ते जायते स धर्मो विनष्टः। पश्चात् [त]न्मनोविज्ञानं तत् वस्तु विजानाति इद[मेव] निमित्तालम्बनं विज्ञानमित्याख्ययते। निमित्तमिदं पाश्चात्यनिमित्तालम्बनविज्ञानस्य प्रत्ययं करोति। शशशृङ्गादिविज्ञानन्तु अनिमित्तहेतुकमित्यतो नोत्पद्यते। शशशृङ्गादि प्रतीत्यापि विज्ञानं भवेत्। यदि न भवति। कथं वक्तुं प्रभवेत्।

(पृ) शशविषाणस्वभावो न विज्ञेयः। कस्मात्। तस्य ह्रस्वत्वदीर्घत्वशुक्लत्वकृष्णत्वादिस्मृतिर्हि न जातु जायते। तथाऽतीतधर्मोऽपि। कस्मात्। नह्यस्माकमतीतधर्म इदानीमभिमुखीभवति। यथा आर्या अनागतं वस्तु ज्ञात्वा वदन्ति-इदं वस्तु तथा स्यात्, इदं वस्तु तथा न स्यादिति। (उ) आर्यज्ञानबलं हि तथा धर्ममसन्तमपि प्राक् प्रजानाति। यथा आर्याः पाषणभित्तिं भित्त्वा अप्रतिहतमुन्मज्जन्ति निमज्जन्ति च। तथेदमपि वस्तु असदपि जानन्ति। स्मृतिबलाच्च जानन्ति। यथा चक्षुर्विज्ञानं न स्त्रीति पुरुष इति वा विकल्पयति। यदि चक्षुर्विज्ञानं न विकल्पयति। मनोविज्ञानमपि न विकल्पयेत्। वस्तुतस्तु मनोविज्ञानं विकल्पयति। तथेदमपि स्यात्। यथा चास्माकमनुभूतनिरुद्धे ज्ञानमुत्पद्यते। तथार्याणामपि असति धर्मे ज्ञानमुत्पद्यते। यथा देवदत्त इति वचने नैकं विज्ञानं चत्वार्यक्षराणि विजानाति। तथापि [तानि] विजानाति। यथा च संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वादयः। ते धर्मा अदृष्टा अपि [स्व] विज्ञानमुत्पादयन्ति। यथा च पुरुषस्य स्वरूपं नैकक्षणेन परिज्ञेयमम्। नापि प्रत्यङ्गविज्ञानेन। असत्यपि प्रत्यङ्गं पुरुषज्ञाने एकक्षणं [त]ज्ज्ञाने पुरुषज्ञानमुत्पद्यते। इदमपि तथा स्यात्।

भवानवादीः-दृष्टान्तं प्रतीत्य नास्ति किञ्चित् स्वात्मालम्बनं ज्ञानमिति। तत्रास्ति वचनं मनः स्वात्मानं विजानातीति। योगी चित्तविपश्यनामनुसरति अतीतेऽनागते तु चित्तं नास्ति इति वचनात्। यथा प्रत्युत्पन्नचित्तेन प्रत्युत्पन्नचित्तमालम्बते। नो चेत् न जातु कश्चित्प्रत्युत्पन्नचित्तसम्प्रयुक्त धर्मं विजानाति। (पृ) सूत्र उक्तम्-

सर्वे धर्मा अनात्मानः प्रज्ञया यदि पश्यति।
अथ निर्विन्दते दुःखे एष मार्गो विशुद्धये॥ इति।

इयं प्रज्ञा आत्मानं सहभूधर्मानन्यानि सर्वधर्मालम्बनानि चापनयति। (उ) ज्ञानमिदं सास्रवालम्बनमेव, नत्वनास्रव[आलम्बन]म्। कस्मात्। तस्यां हि गाथायामुक्तम्-अथ निर्विन्दते दुःख इति। अतो ज्ञायते तत् दुःखसत्यालम्बनमेवेति। आत्मदृष्टिप्रणाशाय च अनात्मभावना। आत्मदृष्टिः पञ्चोपादानस्कन्धालम्बिनी। ज्ञातव्यमनात्म[दृष्टि]रपि पञ्चस्कन्धानालम्बत इति। पञ्चस्कन्धा अनित्यत्वादनात्मानः। यथोक्तं सूत्रे-यदनित्यं तदनात्मा। यदानात्मा तद्दुःखम् इति। भगवानाह यद्भिक्षवो युष्माकं तत्प्रजहत इति। भिक्षव आहुः-आज्ञप्तं भगवन्। भगवानाह-कथं युष्माभिराज्ञप्तम्। रूपं भगवन् [अनात्मा] अनात्मीयम्। वेदना, संज्ञा, संस्कारा, विज्ञान[मनात्मा] अनात्मीयम्। तदस्माभिः-प्रहातव्य] मिति। भगवानाह-साधु साधु खलु भिक्षव इति। [अतो] ज्ञातव्यमुपादानस्कन्धेष्वेव अनात्मबुद्धिर्भवतीति। उक्तञ्च सूत्रे-यत्किञ्चित् [भिक्षवो] रूपमतीतमनागतं प्रत्युत्पन्नमाध्यात्मिकं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा [हीनं वा प्रणीतं वा] यद्दूरेऽन्तिके वा सर्वं जानाति नात्मा नात्मीयमिति। एवं यथाभूतं सम्यक् प्रज्ञया पश्यति इति। आह च-रूपं नात्मा, वेदना, संज्ञा, संस्कारा विज्ञानञ्च नात्मा इति पश्यति। रूपमनित्यं तुच्छं मायावत् बालालापनं वधकं स्तेयकमनात्मा अनात्मीयमिति। किञ्चाह भगवान्-अत्र निषण्णः कश्चिन्मूढोऽविद्याण्डगतोऽविद्यान्धीभूतः परित्यज्य बुद्धशासनमिमां मिथ्यादृष्टिमुत्पादयति-यदि रूपं नात्मा, वेदना, संज्ञा, संस्कारा, विज्ञानञ्चनात्मा। कथमनात्मा कर्म कृत्वा आत्मना अनुभवति इति। अतो ज्ञायत उपादानस्कन्धालम्बनमेव नैरात्म्यमिति। सूत्रे च अनात्मज्ञानं सर्वधर्मनालम्बत इति वचनस्थानं न किञ्चनास्ति। तत्र तत्र सर्वत्रोक्तं पञ्चस्कन्धानालम्बत इति।

(पृ) भगवान् स्वयमाह-सर्वधर्मा अनात्मान इति। अतो ज्ञायते संस्कृतोऽसंस्कृतश्चैतज्ज्ञानस्यालम्बनम्। न तु पञ्चोपादानस्कन्धमात्रमिति। आह च-दश शून्यताः सर्वधर्मालम्बना इति। या शून्यता तदेव नैरात्म्यम्। किञ्चाह-सर्वे संस्कारा अनित्या दुःखा, सर्वे धर्मा अनात्मान इति। यदनात्मज्ञानं तद् दुःखसत्यालम्बनमेव। कस्मान्नाह-सर्वसंस्कारा अनात्मान इति। सर्वे धर्मा अनात्मान इत्युक्तत्वात् ज्ञातव्यं यत् संस्कारा इति वचनं तत् संस्कृताभिधायकम्। यत् धर्मा इति वचनं तत् सर्वा[भिधायक]मिति। आह च-क एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानाति यथा विद्याचक्षुषा रूपं पश्यति। केवलं बुद्धा भगवन्तः सम्यक् सम्बुद्धा विमुक्तिलाभिन एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानन्ति यथा विद्याचक्षुषा रूपं पश्यन्ति इति। अनात्मलक्षणेन हि सर्वधर्मा एकलक्षणाः। अतो ज्ञायते अनात्म[ज्ञानं] सर्वधर्मानालम्बते। न तु दुःखमात्रम् इति।

उच्यते। सर्व[मिति] द्विविधं सर्वसङ्‍ग्राहकमेकदेशग्राहकमिति। सर्वसङ्‍ग्राहकमिति यथा भगवानाह-अशं सर्वज्ञ इति। [अत्र] सर्वं नाम द्वादशायतनानि। एकदेशग्राहकमिति यथाह-सर्वमादीप्तमिति। अनास्रवमसंस्कृतन्तु नादीप्तमुपलभ्यते। यथा च तथागतवर्गे उक्तम्-तथागतः सर्वत्यागी सर्वजयी इति। शीलादयो धर्मा न त्याज्याः। किन्तु अकुशलधर्मानुद्दिश्याह-सर्वत्यागीति। अजेय्या अन्ये बुद्धाः। अन्यान् सत्त्वानुद्दिश्यापरमाह-सर्वजयीति। किञ्चाह-कतमो भिक्षुः सर्वज्ञः। यः षट्‍स्पर्शायतनानामुत्पादं निरोधञ्च यथाभूतं प्रजानाति। अयमुच्यते सामान्यलक्षणज्ञः सर्वधर्माणां, न तु विशेषलक्षणज्ञ इति। भगवांस्तु सामान्यविशेषज्ञः सर्वज्ञ इत्युच्यते। भिक्षुरयं सामान्येन सर्वे धर्मा अनित्या इति प्रजानातीत्यतः सर्वज्ञो भवति। तस्य नामसाम्येऽपि वस्तुतोऽस्ति भेदः। [तत्] एकदेशसङ्‍ग्राहकं नाम।

आह च भगवान्-यत्‌सूत्रेऽवतरति। विनये च सन्दृश्यते। धर्मताञ्च न विलोमयति। स धर्म उपादेय इति। किञ्चाह-य आह इदं बुद्धवचनमिति। स सुव्यञ्जनः। न स्वर्थः। विद्वान् तत्र स्वर्थं सुव्यञ्जनं ब्रूयात्। येनार्थेन भिक्षोरस्य व्यञ्जनं प्रशस्यं भवति। पुनरस्ति कश्चिद्वक्ता स्वर्थस्य, न सुव्यञ्जनस्य। स्वर्थं सुव्यञ्जनेन प्रक्षिपेत्। इत्येवमादिसूत्रे भगवान् सर्वं तत् संश्रावयति। अस्ति च नीतार्थं नेयार्थञ्च सूत्रम्। इदन्तु नेयार्थं सूत्रम्। कस्मादेकस्मिन् वस्तुनि सर्वमिति वचनं भवति। तस्याभिसन्धि र्ज्ञातव्याऽस्ति। लौकिका अपि वदन्ति एकस्मिन् सर्वमिति। यथा वदन्ति-सर्वत्यागं करोति। सर्वेषाञ्च भोजनं प्रयच्छति। अयं सर्वभुक् इति। अतो ज्ञायते सर्वमनात्मेति वचने सत्यपि पञ्चोपादानस्कन्धान[भिसन्धाय] उक्तं, न तु सर्वधर्मानिति द्रष्टव्यम्।

यदुक्तं भवता-दश शून्यता इति। तत्रासंस्कृतं शून्यमिति नोपलभ्यते। कस्मात्। न हि कश्चिदसंस्कृत आत्मसंज्ञामुत्पादयति। तदन्यस्मिन् शून्येऽपि न काचित्क्षतिः। भवानपि दुःखज्ञानेन शून्यं संयोजयति। अतः शून्यता न सर्वधर्मालम्बिनी। (पृ) लौकिकी शून्यता सर्वधर्मानालम्बते न तु अनास्रवशून्यता। (उ)नास्ति तु लौकिकी शून्यता। सर्वा शून्यता अनास्रवा। (पृ) उक्तं हि धर्ममुद्रासूत्रे-शून्यता लौकिकी शून्यतेति। (उ) इयं लोकोत्तरशून्यता न तु लौकिकी शून्यता। (पृ) अत्रोक्तं ज्ञानदर्शनस्याविशुद्धत्वात् ज्ञायत इयं लौकिकी शून्यतेति। (उ) उक्तन्तु प्रागस्माभिः-अनास्रवं चित्तं प्रज्ञप्तिविदारणमिति। अतः प्रज्ञप्तिविदारणादागतमनास्रवं चित्तम्। पश्चान्निरोधसत्यं दृष्ट्वा अभिमानं विहाय ज्ञानदर्शनं विशुद्धं भवति। अतो न लौकिकी शून्यता।

यद्भवानाह-सर्वे संस्कारा अनित्याः सर्वे धर्मा अनात्मान इति। एवं हि स्यात्-योगी यदा नैरात्म्यसंज्ञासमन्वितः तदा धर्मसंज्ञासमन्वितत्वात् नैरात्म्ये धर्म इति स संज्ञोच्यते। यथोक्तं दर्शनवर्गे-यो दुःखं न पश्यति, स आत्मदर्शी भवति। यो यथाभूतं दुःखं पश्यति, न स पुनरात्मानं पश्यति। इति। यथाभूतमिति यदनात्मदर्शनम्। अतः सर्वे धर्मा अनात्मान इति वचनं दुःखसत्यमात्रमालम्ब्य अनात्मा संस्कार इत्यभिदधाति। यद्भवानवोचत्-बुद्धा [भगवन्तः] एकलक्षणं लक्षणान्तरञ्चाभिमुखं पश्यन्तीति। तदपि धात्वायतनादीनामेकत्वादेकलक्षणमित्युच्यते इति स्यात्। को दोषः॥

सर्वालम्बनवर्ग एकनवत्युत्तरशततमः।

१९२ आर्यविहारवर्गः

अस्ति द्विविधो विहारः शून्यविहार अनात्मविहार इति। पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं शून्यविहारः। पञ्चस्कन्धा अपि न सन्तीति दर्शनमनात्मविहारः। केनेदं ज्ञायते। उक्तं हि सूत्रे- रूपं निस्खभावं पश्यति [यावत्] वेदनां संज्ञां संस्कारान् विज्ञानं निःस्खभावं पश्यतीति। किञ्चोक्तं सूत्रे-निःस्खभावमुपादाय विमुच्यत इति। अतो ज्ञायते रूपस्वभावो न वस्तुसन् यावद्वेदनासंज्ञासंस्कारविज्ञानस्वभावा न वस्तुसन्त इति। अपि चोक्तं सूत्रे-पञ्चस्कन्धाः शून्या मायावत् इति। न हि माया वस्तुसतीति निर्वाच्या। यदि माया वस्तुसती, न मायेति भवति। नास्तीत्यपि न निर्वक्तुं सम्भवति। अवस्तुत्वादेव [बाला]लापनं करोति। अयञ्च योगी सर्वं शून्यं पश्यति। अतो ज्ञायते पञ्चस्कन्धा न वस्तुसन्त इति। यथा एकलक्षणविधमनाद्भित्त्यादिरेको[ऽपि] धर्मो नास्ति। तथा पञ्चस्कन्धा अपि, नैकः [तादृशः] परमार्थिको धर्मोऽस्ति।

(पृ) यदि रूपादयो धर्मा अपि अवस्तुसन्तः। तदा एकं लोकसत्यमेव स्यात्। (उ) निरोधः परमार्थसत्यत्वादस्ति। यथोक्तं सूत्रे-मृषा नाम यत् तुच्छकम्। सत्यं नाम यथाभूतमिति। निरोधः स नियतं यथाभूत इत्यतः परमार्थसन् इति। (पृ) यद्भवतोक्तं पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं [शून्यविहार] इति। केन हेतुना पञ्चस्कन्धाः सत्त्व इत्युच्यन्ते। [स] किं सास्रव उतानास्रवः। (उ) सास्रवोऽनास्रवश्च (पृ) सूत्र उक्तम्-यः सत्त्वं पश्यति स पञ्चोपादानस्कन्धान् पश्यति इति। (उ) अनास्रवधर्मोऽपि सत्त्वाख्ये वर्तते नासत्त्वाख्ये तरुपाषाणादौ। अतो ज्ञायते अनास्रवान् स्कन्धानुपादायापि सत्त्व इत्युच्यन्ते। यदाचार्योऽनास्रवचित्तगतः। तस्मिन् समयेऽप्यस्ति चित्तं सत्त्व इति। अतोऽनास्रवचित्तमपि सत्त्वो भवति। सर्वे स्कन्धा उपादानस्कन्धा इत्युच्यन्ते। उपादानादुत्पन्नत्वात्।

(पृ) कथं ज्ञायते सर्वे उपादानादुत्पद्यन्त इति। (उ) अनास्रवधर्मो दानशीलसमाधिभावना कर्मचित्तादुत्पद्यते। असति तु [तस्मिन्] नोत्पद्यते। यथोक्तं सूत्रे-अविद्यानिवृततृष्णासंयोजनया प्रतिबद्धो मूढ इमं कायमनुप्राप्नोति। एवं विद्वानपि इति। काय एवोपादानस्कन्धः। (पृ) यदि सर्वे स्कन्धा उपादानस्कन्धाः। सास्रवोऽनास्रव इति स्कन्धानां प्रविभागः कथम्। (उ) सर्वे स्कन्धा उपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्युच्यन्ते। नैव पुनर्भवमुपाददत इत्यतोऽनास्रवाः। इत्ययं प्रविभागः। स्कन्धा उपादानस्कन्धैः सहोपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्यभिधीयन्ते। इदं सूत्रं न विरुध्यते।

इमौ द्वौ विहारौ यत्किञ्चिदभावमालम्बेते। यद्रूपादये धर्माः शून्याः स्वभावनिरुद्धा इति। अयमेव यत्किञ्चिदभावः। (पृ) इमौ द्वौ पञ्चस्कन्धानालम्बेते। उक्तं हि सूत्रे-रूपं पश्यति शून्यमनात्मा वेदनासंज्ञासंस्कारान् विज्ञानञ्च पश्यति शून्यमनात्मा इति। (उ) स्कन्धानुपादाय पश्यति शून्यमनात्मेति। कस्मात्। सत्त्वकारणे सत्त्वशून्यं पश्यति। रूपादीनां धर्माणामपि निरोधं पश्यति। (पृ) एवञ्चोभयालम्बनम्। यद्योगी स्कन्धांश्च शून्याननुस्मरति। तदेव स्कन्धान् यत्किञ्चिदभावञ्चालम्बते। (उ) योगी सत्त्वकारणे न सत्त्वं पश्यतीत्यत एव शून्यचित्तमुत्पाद्य ततः शून्यं पश्यति। पञ्चस्कन्धानां निरोधे च न पश्यति रूपस्वभावं वेदनासंज्ञासंस्कारविज्ञानस्वभावम्। अतो ज्ञायते इमौ द्वौ यत्किञ्चिदभावालम्बनाविति॥

आर्यविहारवर्गो द्विनवत्त्युत्तरशततमः।

१९३ ज्ञानदर्शनवर्गः

(पृ) सम्यग्दर्शनस्य सम्यग्‌ज्ञानस्य च को विशेषः। (उ) उभयमेकात्मकमेव। नास्ति कश्चिद्विशेषः। सम्यग्दर्शनं द्विविधं लौकिकं लोकोत्तरमिति। लौकिकं यदस्ति पुण्यं पापमित्यादि। लोकोत्तरं यत् दुःखादीनां सत्यानां प्रतिसंवेदः। तथा सम्यक् ज्ञानमपि॥

(पृ) भवतोक्तं ज्ञानदर्शनयोर्नेदृशं लक्षणम्। कस्मात् क्षान्तयो दर्शनमात्रं न ज्ञानम्। क्षयज्ञानमनुत्पादज्ञानं, पञ्चविज्ञानसम्प्रयुक्ता च प्रज्ञा ज्ञानमेव च दर्शनम्। (उ) कस्मात् क्षान्तयो न ज्ञानम्। (पृ) आज्ञातमाज्ञास्यामीत्यत आज्ञास्यामीन्द्रियम्। यदि दुःखे धर्मक्षान्तिर्ज्ञानम्। दुःखे धर्मक्षान्तिर्ज्ञातैव दुःखे धर्मज्ञानमाज्ञेन्द्रियं स्यात्। नाज्ञास्यामीन्द्रियम्। अतो क्षान्तिर्न ज्ञानम्। उक्तञ्च सूत्रे-यत् धर्मेषु धर्मान् परीत्तं प्रज्ञया विपश्यति। क्षान्ति[रियं विपश्यना] अपरिनिष्पन्ना। परिनिष्पन्ना तु ज्ञानम् इति। या क्षान्तिः, अपरिनिष्पन्ना विपश्यना [सा]। प्रथमा चानास्रवा प्रज्ञा प्राथमिकं दर्शनं क्षान्तिः। न प्राथमिकं दर्शनं ज्ञानं भवेत्। क्षान्तिकाले च न विनिश्चयो भवति। ज्ञानकाले तु विनिश्चयोऽवश्यं भवति। क्षान्त्युत्पत्तिकाले विचिकित्सा पुनरनुवर्तते। अतः क्षान्तिर्न ज्ञानम्। (उ) या क्षान्तिस्तदेव ज्ञानम्। कस्मात्। छन्दः अभिरतिः क्षान्तिः सर्वमेकार्थकम्। योगी पूर्वं दुःखं ज्ञात्वा पश्चात् [तत्-] क्षान्तावभिरमते। यदि पूर्वमेव नास्ति ज्ञानम्। क्षन्तव्ये काऽभिरतिः। परीत्तवचने च केवलमुक्तं विपश्यना क्षान्तिरिति न ज्ञानम्। तथा चेत् प्रतिपत्तिफलवेदको ज्ञानरहितः स्यात्। यदि मन्यसे योगिनो ज्ञानवत एव क्षान्तिर्भवतीति। तदा क्षान्तिवेदनमेव ज्ञानं भवति। उक्तञ्च सूत्रे-[एवं] जानन् पश्यन् आस्रवाद्विमुच्यत इति। आह च-ज्ञानं दर्शनञ्चैकार्थकमिति। किञ्च भगवानाह-दुःखज्ञानं समुदय[ज्ञानं] निरोध[ज्ञानं] मार्गज्ञानम् इति। न त्वाह क्षान्तिरिति। अतो ज्ञायते ज्ञानमेव क्षान्तिरिति।

भगवान् विमुक्त्यर्थमाह-यथाभूतं प्रजानातीति ज्ञानम् इति। क्षान्तिरपि यथाभूतं प्रजानातीति न [ज्ञाना]दन्या स्यात्। यदि भवत् आज्ञात[माज्ञास्यामी]न्द्रियमेव क्षान्तिरिति। तदयुक्तम्। न वयं वदामः पूर्वं क्षान्तिः पश्चात् ज्ञानमिति। एकस्यैव चित्तस्य क्षान्तिः ज्ञानमित्याख्या भवति। अयं सूत्रार्थोऽसिद्धः। भवतः कथमसिद्धेन लक्षणसिद्धिर्भवति। भवानाह-क्षान्तिपरिनिष्पन्नेति। प्रत्युक्तमिदं मया यत् ज्ञानपूर्विका क्षान्तिरिति। [अतः] परिनिष्पन्नैव क्षान्तिरिति द्रष्टव्यम्। यदि परिनिष्पत्तिं न जानाति। कथं क्षमते। भवानवोचत्-क्षान्तिकाले न विनिश्चयोऽस्तीति। भवतां शासनेक्षान्त्या संयोजनं प्रजहाति। एवमनिश्चितं किं संयोजनं प्रजहाति। भवानवोचत्-क्षान्तिकाले विचिकित्साऽनुवर्तते इति। तथा चेत् मार्गसत्यदर्शनेऽपि विचिकित्साऽनुवर्तमाना भवति। तत्र ज्ञानमुत्पद्यमानमपि अज्ञानं स्यात्। न सविकल्पिकेयं क्षान्तिः इदं ज्ञानं भवति। यथा लौकिकी विपश्यना चतुस्सत्यानुसारिणी क्षान्तिरित्यप्युच्यते ज्ञानमित्यप्युच्यते। अनास्रवा क्षान्तिर्ज्ञानञ्च तथा स्यात्।

(पृ) क्षयज्ञानमनुत्पादज्ञानञ्च ज्ञानमात्रं न दृष्टिः। (उ) किं कारणम्। (पृ) सूत्रे हि पृथुगुच्यते सम्यग्दृष्टिः सम्यक् ज्ञानमिति। अतो ज्ञानं न दृष्टिः। (उ) तथा चेत् सम्यग्दृष्टिर्न सम्यग् ज्ञानं भवति। यदि भवतो मतं सम्यग् दृष्टिः सम्यग् ज्ञानमिति। सम्यग् ज्ञानमपि सम्यग् दृष्टिः स्यात्। पञ्चाङ्गधर्मकाये प्रज्ञास्कन्धात् पृथगुक्तं विमुक्तिज्ञानदर्शनं न प्रज्ञा भवेत्। तथा च क्षयज्ञानममुत्पादज्ञानमपि न प्रज्ञा भवति। इदानीं सम्यग्दृष्टिरेव भिन्नलक्षणतया सम्यग् ज्ञानमित्युच्यते। यदुत सर्वक्लेशानां क्षयोऽर्हतश्चित्ते समुत्पद्यत इत्यत [स्तत] सम्यग् ज्ञानमित्युच्यते।

(पृ) यदि सम्यग् ज्ञानमेव सम्यग्दृष्टिः। तदा अर्हन्न दशाङ्गसम्पन्नः स्यात्। (उ) एकस्यैव नामान्तरम्। यथा धर्मज्ञानं दुःखज्ञानमिति। आह च-अर्हन् अष्टगुणपुण्यक्षेत्रसम्पदिति। अतः सम्यग् ज्ञानमेव सम्यग्दृष्टिः। षट्‍सु सामीचीषु षष्ठी सामीची समतादृष्टिरित्युच्यते। यदि भवतोक्तवत् भवति। तदा क्षयज्ञानमनुत्पादज्ञानं न सामीची भवति। किञ्च सम्यग्विपश्यतीति सम्यग्दृष्टिः। क्षयज्ञानमनुत्पादज्ञानञ्च सम्यग्विपश्यतीत्यतोऽपि सम्यग्दृष्टिः।

(पृ) पञ्चविज्ञानसम्प्रयुक्ता प्रज्ञा ज्ञानमात्रं न दृष्टिः। (उ) कस्मान्न दृष्टिः। (पृ) पञ्चविज्ञानानि निर्विकल्पकानि। प्रथमत आलम्बनगतत्वात्। दृष्टिर्नाम सञ्चित्योपनिध्यानम्। पञ्चविज्ञानानि च प्रत्युत्पन्नमालम्बन्ते। अतो न दृष्टिः। (उ) तत्र वितर्कविचाराभावात् न विकल्पयन्ति। प्रथमत आलम्बनगतत्वात् न दृष्टिरिति यदि मतम्। तदयुक्तम्। कस्मात्। भवतां हि शासनं चक्षुर्विज्ञानं सन्तानालम्बनं यथा मनोविज्ञानमिति। अतो न वक्तव्यं प्रथमत आलम्बनगतमिति। तथा चेन्मनोविज्ञानमपि न दृष्टिर्भवेत्। भवान् पुनराह-प्रत्युत्पन्नालम्बनत्वान्न दृष्टिरिति। इदमपि न युक्तम्। परचित्तज्ञानमपि प्रत्युत्पन्नालम्बनम्। इदमपि न दृष्टिः स्यात्। पञ्चविज्ञानेषु नास्ति यथाभूतज्ञानम्। प्रतिपत्त्यभावात्। सदा प्रज्ञप्त्यनुवर्तनाच्च। दृष्टिः ज्ञानं प्रज्ञा इत्यादि सर्वं नास्ति। किं पुनर्दृष्टिमात्रं नास्तीति।

केचिदाहुः- चक्षुरिन्द्रियं दृष्टिरिति। कथमिदम्। (उ) न चक्षुरिन्द्रियं दृष्टिः। चक्षुर्विज्ञानं [विषया]लम्बनं भवति। लोकव्यवहारमनुसृत्य चक्षुर्दृष्टिरित्युच्यते। (पृ) केचिदाहुः-सन्त्यष्टदृष्टयो यदुत पञ्चमिथ्यादृष्टयो लौकिकी सम्यग्दृष्टिः शैक्षदृष्टिरशैक्षदृष्टिः। एता अष्टदृष्टिर्वर्जयित्वा अन्या प्रज्ञा न दृष्टिरित्युच्यत इति। कथमिदम्। (उ) ज्ञानदर्शनं विमुक्तिलाभः प्रतिसंवेदनं साक्षात्कार इतीदं सर्वमेकार्थकम्। इयं दृष्टिरियं न दृष्टिरिति यत् वचनम्। सर्वं तत् स्वसंज्ञाविकल्पितं वचनम्। (पृ) उक्तं ननु सूत्रे-जानन् पश्यन् आस्रवाद्विमुच्यत इति। कथमस्ति प्रविभागः। (उ) यत् ज्ञात्वा आदौ प्रज्ञप्तिं विदारयति तत् ज्ञानमित्युच्यते। धर्मस्थितायामवतरणं दर्शनम्। आद्यविपश्यना ज्ञानम्। [तत्]प्रतिसंवेदनं दर्शनम्। इत्येवमस्ति प्रविभागः॥

ज्ञानदर्शनवर्गस्त्रिनवत्युत्तरशततमः।

१९४ त्रिविधप्रज्ञावर्गः

तिस्रः प्रज्ञा, श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञेति। सूत्रादि द्वादशाङ्गप्रवचनादुत्पन्ना श्रुतमयी। इदमनास्रवां प्रज्ञां जनयतीति प्रज्ञा। यथोक्तं सूत्रे-राहुलो भिक्षुर्विमुक्तिप्रापिणीं प्रज्ञां सम्पादयति इति। वेदादीन् व्यावहारिकग्रन्थान् शृण्वन्नपि नानास्रवां प्रज्ञामुत्पादयतीत्यतो न [सा] श्रुतमयी प्रज्ञा भवति। यत् सूत्राणामर्थं चिन्तयति सा चिन्तामयी प्रज्ञा। यथोच्यते-योगी धर्मं श्रुत्वा तदर्थगतिं चिन्तयति। इति। अपि चाह-योगी धर्मं श्रुत्वा तदर्थं चिन्तयन् सदा प्रतिपदमनुवर्तत इति। यत् ज्ञानदर्शनमभिमुखीभवति सा भावनामयी प्रज्ञा। यथोच्यते-योगी समाहितचित्ते पञ्चस्कन्धानुत्पादनिरुद्धान् पश्यतीति। यथोक्तं सूत्रे-यूयं भिक्षवो ध्यानसमाधिं भावयन्तो यथाभूतज्ञानदर्शनमभिमुखं लभध्वे। इति। किञ्चोक्तं सप्तसम्यग्‌ज्ञानसूत्रे-यत् भिक्षु धर्मं प्रजानाति। [इयं] श्रुतमयी प्रज्ञा। यदर्थं प्रजानाति [इयं] चिन्तामयी प्रज्ञा। यत् कालादीन् प्रजानाति। इयं भावनामयी प्रज्ञा। इति। यथा च राहुलः पञ्चोपादानस्कन्धनिकायादीनधीते। इयं श्रुतमयी प्रज्ञा। यद्विविक्तदेशे तदर्थं चिन्तयति। इयं चिन्तामयी प्रज्ञा। पश्चात्सम्बोधिकाले भावनामयी प्रज्ञा। किञ्चोक्तं सूत्रे-त्रीण्यायुधानि श्रुतायुधं विवेकायुधं प्रज्ञायुधमिति। श्रुतायुधं नाम श्रुतमयी प्रज्ञा। विवेकायुधं चिन्तामयी प्रज्ञा। प्रज्ञायुधं भावनामयी प्रज्ञा। अपि चोक्तं सूत्रे-पञ्चानुशंसाधर्मश्रवणे। कतमाः पञ्च। अश्रुतं शृणोति। श्रुतं पर्यादापयति। कांक्षां विहन्ति। दृष्टिं ऋजु करोति। चित्तमस्य प्रसीदति। इति। अश्रुतं शृणोति। श्रुतं पर्यादापयति इतीयं श्रुतमयी प्रज्ञा। कांक्षां विहन्ति। दृष्टिं ऋजुकरोति इतीयं चिन्तामयी प्रज्ञा। चित्तमस्य प्रसीदति इतीयं भावनामयी प्रज्ञा। धर्मश्रवणानुशंसायाञ्चोक्तम्-श्रोत्रेण धर्मं शृणोति। वाचा धर्ममधीते। इयं श्रुतमयी प्रज्ञा। मनसा मीमांसते। इयं चिन्तामयी प्रज्ञा। पश्यन् अभिसमेति। इयं भावनामयी प्रज्ञा इति। चतुर्षु श्रोत‍आपत्त्यङ्गेषु सद्धर्मश्रवणं श्रुतमयी प्रज्ञा। योनिशोमनस्कारश्चिन्तामयी प्रज्ञा। धर्मानुधर्मप्रतिपत्तिर्भावनामयी प्रज्ञा। पञ्चविमुक्तिद्वारेषु [यदन्यतरस्मात्] गुरुस्थानीयात् धर्मं श्रृणोति। इयं श्रुतमयी प्रज्ञा। [तस्मिन् धर्मे] यदर्थप्रतिसंवेदी भवति। इयं चिन्तामयी प्रज्ञा। तस्य यत् प्रमोद्यादि जायते। इयं भावनामयी प्रज्ञा।

अपि चोक्तं सूत्रे-भगवान् धर्ममुपदिशति आदौ कल्याणं मध्ये कल्याणमन्ते कल्याणमित्यादि। तं धर्मं शृणोति सत्पुरुषस्तरुणो वृद्धो वा। श्रुत्त्वा प्रतिसञ्चिक्षति-सम्बाधो गृहावासोऽभ्यवकाशा प्रव्रज्या। नेदं सु करमगारमध्यावसता [एकान्तपरिशुद्धं] सद्धर्मं चरितुमिति। तदैव भोगस्कन्धं प्रहाय ज्ञातिपरिवृत्तं प्रहाय अगारादनागारं प्रव्रजति। शीलं धत्ते। इन्द्रियाणि रक्षति। इर्यापथेषु सम्प्रजन्यकारी भवति। विविक्तदेशे चिन्तयति। पञ्च नीवरणानि प्रहाय प्रथमध्यानादीनुपसम्पद्य विहरति। यावदास्रवक्षयमनुप्राप्नोति। इति। तत्र यत् धर्मं शृणोति तरुणो वा वृद्धो वा इति। इयं श्रुतमयी प्रज्ञा। श्रुत्वा यत् प्रतिसञ्चिक्षति-सम्बाधो गृहावासोऽभ्यवकाशा प्रव्रज्येति। इयं चिन्तामयी प्रज्ञा। पञ्च नीवरणानि प्रहाय यावदास्रवक्षयमनुप्राप्नोति। इयं भावनामयी प्रज्ञा। किञ्चोक्तं सूत्रे-द्वाभ्यां प्रत्ययाभ्यां सम्यग्दृष्टिरुत्पद्यते। [कतमाभ्यां द्वाभ्याम्]। परतो धर्मश्रवणं योनिशोमनस्कार इति। परतो धर्मश्रवणं श्रुतमयी प्रज्ञा। योनिशोमनस्कारश्चिन्तामयी प्रज्ञा। सम्यग्दृष्टिसमुत्पादो भावनामयी प्रज्ञा। उक्तञ्च गाथायाम्-

निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य च।
विविक्तदेशाभिरतः तच्चित्तं विनयेत्पुनः॥ इति।

तत्र निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य चेतीयं श्रुतमयी प्रज्ञा। विविक्तदेशाभिरत इतीयं चिन्तमयी प्रज्ञा। तच्चित्तं विनयेत्पुनरितीयं भावनामयी प्रज्ञा। किञ्च भगवान् भिक्षूननुशास्ति-यत्किञ्चिद्भाषमाणैर्युष्माभिश्चतुस्सत्यानि भाषयितव्यानि। यत्किञ्चिच्चिन्तयद्भिश्चतुस्सत्यानि चिन्तयितव्यानि इति। तत्र चतुस्सत्यभाषणं श्रुतमयी प्रज्ञा। चतुस्सत्यचिन्तनं चिन्तामयी प्रज्ञा। चतुस्सत्यानां लाभः भावनामयी प्रज्ञा। एवमादिना तत्र तत्र सुत्रे भगवान् त्रिविधां प्रज्ञामवोचत्।

(पृ) तिसृषु प्रज्ञासु कति कामधातौ। कति रूपधातौ। कति आरूप्यधातौ भवन्ति। (उ) कामधातौ सर्वा भवन्ति। यथा हस्तक उपासकोऽतप्यद्देवेषूपपद्य तत्र धर्मं देशयति। धर्मं देशयन् अवश्यं तदर्थं चिन्तयति। अतो ज्ञायते रूमधातावप्यस्ति चिन्तामयी प्रज्ञेति। आरूप्यधातावस्ति भावनामयी प्रज्ञा। (पृ) केचिदाहुः कामधातौ नास्ति भावनामयी प्रज्ञा। रूपधातौ नास्ति चिन्तामयी प्रज्ञेति। कथमिदम्। (उ) केन प्रत्ययेन कामधातौ नास्ति भावनामयी प्रज्ञा। (पृ) न कामधातुकमार्गेण सर्वाणि नीवरणानि सर्वाणि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेत्। (उ) भवतां शासने नेदं वचनमस्ति यत् न कामधातुकमार्गेण नीवरणानि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेदिति। आह च कामधातुकमार्गेण क्लेशान परिभेदयतीति। किमिति। कामधातावस्ति अशुभादिभावना। यथोक्तं सूत्रे-अशुभभावनां भावयन् कामरागं समूहन्ति इति। तथा करुणादावपि। (पृ) कामधातावशुभादिभावना नात्यन्तं क्लेशान् समुच्छेदयति। (उ) रूपधातुकाशुभादिभावनापि नात्यन्तं क्लेशान् समुच्छिन्द्यात्। (पृ) दौष्ठुल्याद्याकारैः क्लेशान् प्रजहाति। नाशुभादिना। (उ) दौष्ठुल्यादिना क्लेशान् प्रजहाति नाशुभादिना इति नास्ति किञ्चन सूत्रवचनम्। उक्तं हि सूत्रे-अशुभादिना क्लेशान् समूहन्ति इति। दौष्ठुल्यादीनां किमस्ति बलं क्लेशानां समुच्छेदकम्। [यत्] नास्त्यशुभादीनाम्। यदि कामधातौ दौष्ठुल्याद्याकारोऽस्ति। अनेनाकारेण क्लेशान् समुच्छिन्द्यात्। यदि नास्ति, वक्तव्यं कारणं कस्मादस्ति अशुभादिः, न दौष्ठुल्यादिरिति। यदि सन्नपि न क्लेशान् समुच्छेदयति। रूपधातौ सन्नपि न समुच्छिन्द्यात्। अत्रापि कारणं वक्तव्यं कस्मात् कामधातौ न समुच्छेदयति। रूपधातौ परं समुच्छेदयतीति।

कामधातौ सन्नपि दौष्ठुल्यादिर्न क्लेशान् समुच्छेदयति। अस्ति विक्षेपधातुत्वात्। विक्षिप्तचित्तो न किञ्चित्समुच्छेदयति। ययोक्तं सूत्रे-चित्तसमाधानं मार्गः चित्तविक्षेपोऽमार्ग इति। (उ) कारणं वक्तव्यं कस्मात् कामधातुर्विक्षेपधातुरिति। तत्रास्ति अशुभादिभावना यद्ययं विक्षेपधातुः। कथं कङ्कालादि विलक्षणं पश्यति। रूपधातौ च चित्तसमाधाने कस्य वैलक्षण्यमस्ति। कामधातो तु नास्ति। (पृ) रूपधातुकमार्गेण वैराग्यमनुप्राप्य तदन्तरा म्रियमाणो रूपधातावुत्पद्यते। यथा आणिराणिं निस्सारयति। (उ) किं नाम वैराग्यम्। (पृ) क्लेशप्रहाणं वैराग्यम्। रूपधातुकर्मार्गेण क्लेशान् प्रजहाति। न कामधातुकेन। (उ) तीर्थिकाः प्रहीणसंयोजना अपि पुनः कामधातौ समुत्पद्यन्ते। अतः [ते] प्राकृता न प्रहीणसंयोजना इत्युच्यन्ते। यदि [संयोजनानि] प्रहाय पुनरुत्पद्यते। तदा अनास्रवः क्षीणसंयोजनोऽपि पुनरुत्पद्येत। तत्तु न सम्भवति।

अपि चोक्तं सूत्रे- क्षीणत्रिसंयोजनस्त्रीणि विषाणि समूहन्तीति। प्राकृतो न त्रीणि संयोजनानि क्षपयतीत्यतो न वीतरागो भवति। प्राकृतस्य नित्यमस्ति आत्मदृष्टिः। यतः स न सत्कायदृष्ट्यादीन् क्षपयति। यदि प्राकतो वैराग्यकुशलः, सर्वेऽपि क्लेशा न स्युः। कस्मात्। सर्वे हि क्लेशाः प्रतीत्यसिद्धाः। यथोक्तं सूत्रे-प्रत्ययेभ्य आत्मा सिध्यतीति। यदि पृथग्जनस्यास्य कामधातुकपञ्चस्कन्धेषु सत्कायदृष्टिर्नोद्भवति। उर्ध्वधातुकस्कन्धेषु पुनर्न भवेत्। तदा तु पृथग्जनस्य न सत्कायदृष्टिर्भवेत्। इत्यस्तीदृशो दोषः। एवं क्लेशैरत्यन्तक्षीणैर्भवितव्यम्। पृथग्जनोऽयमर्हन् स्यात्। वस्तुतस्तु [तस्य] क्लेशा नैकान्तं क्षीणाः। यथोक्तं सूत्रे-द्वाविमौ भिक्षवः अशन्या फलन्त्या न सन्त्रसतः। [कतमौ द्वौ] भिक्षुश्च क्षीणास्रवो राजा च चक्रवर्ती इति। इदानीमयं पृथग्जनोऽपि न सन्त्रसेत्। अर्हन् नाभिनन्दति जीवितं, नाभिसन्त्रसति मरणम्। अयं [पृथग्जनो]ऽपि एवं स्यात्। यथा उपसेनोऽर्हन् आशीविषदष्टो जीवितान्तेऽविरूपेन्द्रियोऽविकृतरूपश्च बभूव। तथाऽयमपि स्यात्। अर्हतोऽष्टौ लोकधर्मा न चित्तमवपातयन्ति। तथा स्यादयमपि। वीतरागत्वात्। वस्तुतस्तु पृथग्जनस्य वीतराग इति कथ्यमानस्यापि नेदं लक्षणं स्यात्। अतो ज्ञायते न क्षीणक्लेशो[ऽय]मिति।

(पृ) पृथग्जनः संयोजनानि प्रहाय अत्रायुषोऽन्ते रूपधातावुत्पद्यते। यदि संयोजनानि न प्रजहाति। कथं तत्रोत्पद्येत। सूत्रेऽप्युक्तम्-अस्ति वीतरागस्तीर्थिक इति। आह च अराडः कलाम उद्रको रामपुत्रो रूपे वीतराग आरूप्य उत्पद्यत इति। किञ्चाह-रूपेण कामं विजहाति। अरूपेण रूपं विजहाति। निरोधेन स्मृत्युपस्थानानि विजहातीति। अतो [यत्]भवतोक्तं पृथग्जनः क्षीणक्लेशोऽपि पुनरुत्पद्यत इत्यतो न क्षीण[क्लेश] इति। तन्न युज्यते। भवानप्याह-पृथग्जनस्य सर्वाणि विद्यमानानि प्रहीणानीति इदं वस्तुतः प्रतिषिद्धमित्यतः क्षीणो वीत इत्युच्यते। यथोक्तं गाथायाम्-

अहं ममेति या चिन्ता म्रियमाणो जहाति ताम्

अयमेव वीतरागो नाम। तीर्थिकानां प्रहाणन्तु मरणप्रहाणादन्यत्। मरणप्रहीणो न रूपारूप्यधातावुत्पद्यते। यो बालः स्वभूमिं त्यजति तं सत्कृतवतामपि नास्ति महाविपाकः। यदि वीतरागं तीर्थिकं सत्करोति, महाविपाकं विन्दते। वचने समानेऽपि तदर्थस्तु विभिन्नः। अतो ज्ञायते पृथग्जनो वस्तुतः प्रहीण[क्लेशो] वीत[राग] इति।

(उ) प्रतिषेधेऽस्ति प्रविभागः। यदि गभीरक्लेशव्यावर्तकः तदा रूपारूपधातावुत्पद्यते। यदि सत्कायदृष्टिं व्यावृत्तवान् तदा पूर्वोक्तो दोषः। यदि कामधातुकसत्कायदृष्टिं न व्यावृत्तवान्। कथं रूणरूप्यधातावुत्पद्यते। व्यावृत्तरागप्रतिघमात्रस्य रूपधातावुत्पादः। न व्यावृत्तसत्कायदृष्टिकस्य। अतः पृथग्जनो न वस्तुतः प्रहीणसंयोजन इति ज्ञायते। कामधातुकसद्धर्मोऽपि क्लेशव्यावर्तकोऽस्ति। अतो ज्ञायते कामधातावपि भावनामयी प्रज्ञाऽस्तीति। सूत्रेऽप्युक्तम्-सप्तनिश्चयानतिक्रम्य सम्बोधिं विन्दत इति। अतो ज्ञायते कामधातुनिश्रितः समाधिस्तत्त्वज्ञानजनक इति।

(पृ) पुग्दलोऽयं प्रथमध्यानस्यासन्नभूमिं निश्चित्यार्हन्मार्गमनुप्राप्नोति। न कामधातुकसमाधिम्। (उ) न युक्तम्। अतिक्रम्य सप्तनिश्रयानिति वचनेन प्रथमध्यानं तदासन्नभूमिश्चातिक्रान्तैव। न तत्रास्ति कारणमासन्नभूमिं निश्रयते न कामधातुकसमाधिमिति। यद्ययं योगी आसन्नभूमिमुपसन्नः। कस्मान्न प्रथमध्यानमुपसम्पद्यते। अस्यापि नास्ति कारणम्। सुसीमसूत्रे चोक्तम्-पूर्वं खलु धर्मस्थितिज्ञानं पञ्चान्निर्वाणज्ञानमिति। अस्यार्थः नावश्यं ध्यानसमाधिप्राप्तिपूर्वक आस्रवक्षयः। किन्तु धर्मस्थितिज्ञानमवश्यं पूर्वं कृत्वा पश्चादास्रवक्षयो भवतीति। अतो ज्ञायते सर्वान् ध्यानसमाधीनतिक्रामतीति। ध्यानसमाधिसमतिक्रमाय सूसीमसूत्रमाह। यद्यासन्नभूमिं वेदयते। स एव ध्यानसमानदोषः। सूत्रे चासन्नभूमिरिति वचनं नास्ति। स्वसंज्ञानुस्मरणविकल्पोऽयम्।

(पृ) पूर्वमुक्तो मया आणिदृष्टान्तः। अतो ज्ञायते अन्यभूमिकमार्गेणान्यभूमिकसंयोजनं प्रजहातीति। यथा सूक्ष्मयाण्या स्थूलाणिं निस्सारयति। एवं रूपधातुकमार्गेण कामधातुं प्रजहाति। योगी यदि पूर्वं काममकुशलधर्मांश्च प्रजहाति। तदुत्तरं प्रथमध्यानेऽवतरति। अतो ज्ञायतेऽवश्यमस्त्यासन्नभूमिः यया कामं प्रजहाति। आह च-रूपमुपादाय काममतिक्रामतीति। यदि नास्त्यासन्नभूमिः। कथं रूपमुपादद्यात्। उक्तञ्च सूत्रे-योगी शुभं प्रतिलभमानोऽशुभं त्यजति तद्यथा नन्दः अप्सरतृष्णामुपादाय पूर्वतनकामं जहौ इति। यश्च प्रथमध्याने नोपशमरसमनुविन्दते, न स पञ्चकामगुणेषु महावद्यमतिं करोति। अतो ज्ञायते पूर्वं प्रथमध्यानस्यासन्नभूमिमनुप्राप्य कामधातुमुत्सृजतीति।

उच्यते। कामधातौ शुभमनुप्राप्याशुभं प्रजहति। तद्यथाह-पञ्चनिस्सरणस्वभावा इति। यद्यार्यश्रावकः कदाचित् पञ्चकामगुणा न प्रीतिसौमनस्यजनका इत्यनुस्मरति। तदा तच्चित्तं नाभिरमते सिरापक्षदाहवत्। यदि [ते] निस्सरणधर्मा इत्यनुस्मरति। तदा चित्तमभिरमते। आह च-योगिनो यदाऽकुशलवितर्को भवति। तदा कुशलवितर्केण तं निरोधयति। तस्माद्भवदुक्त आणिदृष्टान्तोऽपि कामधातौ सम्भवति। यत् भवानाहरूपमुपादाय काममतिक्रामतीति। इदं चरमभविकम्। योगी यदि कामधातुकमार्गेण क्लेशान् प्रजहाति। तदनुक्रमशो यावद्रूपधातुककुशलधर्मान् प्रतिलभते। तस्मिन् समये कामधातोरत्यन्तप्रहाणं नाम रूपधातुकधर्मप्रतिलाभः। भवानाह-निरोधसमापत्तिं प्रतिलभत इति। अर्हन्नपि समाधीन् प्रतिलभते। किन्तु तच्चरमभविकमित्युच्यते। यद्भवतोक्तं-शुभं प्रणीतं प्रमोदमुपशमरसञ्च प्रतिलभमान इति। तत्सर्वं सामान्यतः प्रत्युक्तम्।

यदि च कामधातौ नास्ति समाधिः। कथं व्यग्रचित्तेन रूपधातुककुशलं साक्षात्करोति। (पृ) प्रज्ञाविमुक्तस्यार्हतो नास्ति समाधिः। प्रज्ञा परमस्ति। (उ) तत्र ध्यानसमाधिमात्रस्य निषेधः। अवश्यं भवितव्यमल्पकालं समाहितचित्तेन यावदेकं क्षणम्। यथा सूत्रे भगवानाह-भिक्षूणां चीवरं गृह्णतां त्रिषु [क्लेश] विषेषु सत्स्वपि चीवरासङ्गो निरुद्ध एवेति। व्यग्रचित्तस्य तत्त्वज्ञानमुत्पद्यत इति न किञ्चित्सूत्रमाह। सर्वथाह-समाहितो यथाभूतं प्रजानातीति॥

त्रिविधप्रज्ञावर्गश्चतुर्वनवत्युत्तरशततमः।

१९५ चतुः प्रतिसंविद्वर्गः

(पृ) अस्ति धर्मस्थितेः प्रत्यासन्नं लौकिकं ज्ञानम्। कतमदिदम्। (उ) इदं ऊष्मादिधर्मे प्रज्ञप्तिविदारकं ज्ञानम्। ज्ञानमिदं सांवृतसत्यदर्शन[रूप]त्वात् लौकिकम्। आर्यमार्गस्य प्रत्यासन्नत्वात् धर्मस्थितेः प्रत्यासन्नमित्युच्यते। (पृ) इदं सत्यदर्शनमार्गे अनागतभावनादीनां ज्ञानम्। (उ) अनागतभावनादीनां ज्ञानं नास्तीति पश्चाद्वक्ष्यते। कस्मात्। धर्मलक्षणविदारणे हि नास्ति प्रज्ञप्तिचित्तम्। अतः सत्यदर्शनमार्गे न लौकिकं ज्ञानं भावयति।

(पृ) सूत्र उक्तम्-चतस्रः प्रतिसंविद इति। कतमा इमाः। (उ) अक्षरेषु, या प्रतिसंवित्। इयं धर्मप्रतिसंवित्। रुतेषु प्रतिसंवित् निरुक्तिप्रतिसंवित्। यदुत [नाना] दिगन्तरव्यवहृतरुतविशेष[ज्ञान]म्। यथोक्तं सूत्रे-जनपदनिरुक्तौ नाभिनिवेशेत योगी इति। रुतस्याप्रयोगेऽर्थो दुरधिगमः। अक्षराभावेऽर्थो न प्रकाश्यो भवति। इयमेव निरुक्तिरकुण्ठा अक्षया असन्दिग्धं सुभाषितमित्युच्यते। यथोक्तं सूत्रे-सन्ति चत्वारो भाषितधर्माः किञ्चिद्भाषितं सार्थगति नाक्षयकरम्। किञ्चिदक्षयकरं न सार्थगति। किञ्चिदुभयवत् इति। किञ्चिन्नोभयवत् इति। इदं त्रिविधं ज्ञानं निरुक्त्युपायः। नामपदज्ञाने यदर्थप्रतिसंवेदनम्, इयमर्थप्रतिसंवित्। यथाह-सन्ति चत्वारो भाषितधर्माः कश्चिदर्थोपायः न व्यञ्जनोपायः। कश्चिद्वयञ्जनोपायो नार्थोपायः। कश्चिदुभयोपायः। कश्चिन्नोभयोपायः। य एतच्चतुःप्रतिसंवित्प्राप्तः स उपायसम्पन्नो दुष्प्रधृष्यो दुरधिगम्यो धर्मभाषणे। [तस्य] सुभाषितमक्षय[कर]मपि सार्थगति। प्रज्ञाऽनवसन्ना वचननिरुक्तिश्चा प्रतिहता भवति।

(पृ) प्रतिसंविदियं कथं प्रतिलब्धव्या भवति। (उ) पूर्वाध्वनीनकर्मप्रत्ययात्। यदि प्रत्यध्व प्रज्ञाप्रत्ययं स्कन्धाद्युपायञ्च सम्यग्भावयति। तदा तद्भावनाबलादिहैवाध्वनि अशिक्षिताक्षरसूत्राध्ययनोऽपि [तत्र] ज्ञानं विन्दते। यथा दिव्यचक्षुरभिज्ञादिषु। (पृ) कतमः पुद्गलः प्रतिलभते। (उ) आर्यपुद्गल एव प्रतिलभते। केचिदाहुः-अर्हन्नेव प्रतिलभते। न शैक्षजना इति। नायं तथा नियमः। शैक्षा अपि अष्टविमोक्षान् विन्दते। कस्मान्न प्रतिलभन्त इदं ज्ञानम्।

(पृ) चतस्र इमाः प्रतिसंविदः कस्मिन् धातौ वर्तन्ते। (उ) कामधातौ रूपधातौ च सर्वा भवन्ति। आरूप्यधातौ केवलमर्थप्रतिसंविदस्ति। प्रतिसंविद् द्विविधा भवति सास्रवा अनास्रवेति। शैक्षाणां द्विविधा च भवति। अशैक्षाणां केवलमनास्रवा। प्रतिलाभे तु सर्वा युगपद्विन्दते। स्त्रियोऽपि प्रतिलभन्ते यथा धर्मदिन्नादयो भिक्षुण्यः॥

चतुःप्रतिसंविद्वर्गः पञ्चनवत्युत्तरशततमः।

१९६ पञ्चज्ञानवर्गः

पञ्च ज्ञानानि-धर्मस्थितिज्ञानं, निर्वाणज्ञानं अरणाज्ञानं प्रणिधिज्ञानं प्रान्तकोटिकज्ञानमिति। तत्र धर्माणामुत्पादज्ञानं धर्मस्थितिज्ञानम्। यथा जातिप्रत्ययं जरामरणं यावदविद्याप्रत्ययाः संस्कारा इति। अस्ति वा तथागतो नास्ति वा तथागतः। एषां स्वभावः सदा स्थित इत्यतो धर्मस्थितिज्ञानमित्युच्यते। एषां धर्माणां निरोधो निर्वाणज्ञानम्। यथा जातिनिरोधे जरामरणनिरोधः। यावदविद्यानिरोधे संस्कारनिरोध इति।

(पृ) तथा चेत् निर्वाणज्ञानमपि धर्मस्थितिज्ञानं भवति। कस्मात्। यतः अस्ति वा तथागतो नास्ति वा तथागतः। अस्य स्वभावोऽपि सदा स्थितः। (उ) धर्माणां क्षयनिरोधो निर्वाणमित्याख्यायते। अस्मिन् क्षयनिरोधे को धर्मः स्थितः। (पृ) निर्वाणं किमद्रव्यमसत्। (उ) स्कन्धानामशेषनिरोधो निर्वाणमिति कीर्त्यते। तत्र किमस्ति [अवशिष्टम्]। (पृ) द्रव्यसत् निर्वाणम्। तत् केन ज्ञायते। निरोधसत्यं हि निर्वाणम्। दुःखादीनां सत्यानां वस्तुसत्त्वात् निर्वाणमपि वस्तुसत्। किञ्च निर्वाणस्य ज्ञानं निरोधज्ञानं भवति। यद्यसन् धर्मः। कस्य धर्मस्य ज्ञानमुत्पद्यते। सूत्रे च भगवानवोचत्-अस्ति, भिक्षवः कृतको जातो भूतः संस्कृतधर्मः। अस्ति [भिक्षवः] अकृतकोऽजातोऽभूतोऽसंस्कृतधर्म इति। अपि चोक्तम्-सन्ति द्विधैव धर्माः संस्कृतोऽसंस्कृत इति। संस्कृतधर्म इति उत्पादस्थितिव्ययविकृतः। असंस्कृत अनुत्पादस्थितिव्ययविकृतः। किञ्चोक्तं सूत्रे-ये विद्यन्ते संस्कृता वा असंस्कृता वा निरोधो निर्वाणं तेषामग्रमाख्यायते इति। आह च-रूपमनित्यम्। रूपनिरोधे निर्वाणं नित्यम्। एवं यावद्विज्ञानमपि। सूत्रे चोक्तम्-निरोधः साक्षात्कर्तव्य इति। यद्यसन् धर्मः। कतमः साक्षात्कर्तव्यः। भगवान् बहुधातुकसूत्र आह-विद्वान् संस्कृतधातुमसंस्कृताधातुञ्च यथाभूतं प्रजानाति। इति। योऽसंस्कृतधातुः तदेव निर्वाणम्। यथाभूतज्ञातं कथमभाव इत्युच्यते। सर्वेषु सूत्रेषु नास्ति किञ्चिन्नियतं वचनं निर्वाणमसद्धर्म इति। अतो ज्ञायते यन्निर्वाणमसदिति तत् भवतः स्वसंज्ञाविकल्प एवेति।

उच्यते। यदि स्कन्धानां वियोगेऽपि पुनरस्ति धर्मान्तरं निर्वाणमिति। तदा धर्माणामशेषनिरोधो निर्वाणमिति न स्यात्। यदि निर्वाणं सत्। तदा वक्तव्यः अस्ति स्वभावः कोऽयमिति। निर्वाणालम्बनः समाधिरनिमित्त इत्याख्यायते। यदि धर्मलक्षणमपि सजीवम्। किमसल्लक्षणं भवति। यथोक्तं सूत्रे-योगी रूपलक्षणं प्रहीणं पश्यति यावद्धर्मलक्षणं प्रहीणं पश्यति इति। सूत्रे च तत्र तत्रोक्तम्-सर्वे धर्मा अनित्याः सर्वे धर्मा अनात्मानः। तेषां व्युपशमो निर्वाणमिति। तत्रात्मा सर्वधर्माणां स्वभावः। यत् सर्वधर्माणां स्वभावादर्शनम्। तदा अनात्मदर्शनं भवति। यदि निर्वाणं धर्मः तदा नास्ति स्वभाव इति दर्शनं नोपलब्धुं शक्यते। अस्य धर्मस्य निरोधाभावात्। यथा यत्र घटोऽस्ति। न तत्र घटस्य विनाशधर्मोऽस्ति। घटे विनष्टे तु घटो विनष्ट इति वक्तुं शक्यते। वृक्षच्छेदेऽप्येवम्। एवं संस्कारा अथापि वर्तन्ते। तदा न निर्वाणमित्याख्यायते। संस्काराणां निरोधे तु निर्वाणमित्याख्या भवति।

दुःखनिरोधश्च न पुनर्धर्मान्तरं भवति। यथोक्तं सूत्रे-यदिदं भिक्षवो दुःखं निरुध्यते अन्यद्दुःखं नोत्पद्यते न पुनस्तत्सन्ततिरस्ति। इदं स्थानं परमं शान्तं शिव यदुत सर्वप्रतिनिस्सर्गः कायिकचैतसिकरागात्यन्तविसंयोगो निरोधो निर्वाणमिति। तत्रेदं दुःखं निरुध्यते। अन्यद्दःखं नोत्पद्यत इति वचने को धर्मो निर्वाणादन्यो भवति। नाप्यस्ति पुनः पृथक् क्षयधर्मः। उत्पन्नमात्रा तृष्णा निरुध्यते, अजाता न जायते। तस्मिन् समये क्षयो नाम। को धर्मः पुनरस्ति क्षय इत्यभिधीयमानः। द्रव्यतो नाभिधातुं शक्यते।

अथ सत्ता धर्मस्य नामान्तरम्। पञ्चस्कन्धानामभावो निर्वाणमित्युच्यते। तत्राभावो विद्यमानः सन् सत्तेत्युच्येत। इतीदन्तु न सम्भवति। अशेषनिरोधे निर्वाणमित्यभिधीयते। तद्यथा चीवरक्षयः पुनर्न धर्मान्तरमस्ति। तथा नो चेत् चीवरक्षयादिरपि पृथक् धर्मः स्यात्।

भवानवोचत्-अस्ति निरोधज्ञानमिति। तदप्यबाधितम्। तद्यथा वृक्षच्छेदादौ [वृक्षच्छेद] ज्ञानमुत्पद्यते। न चास्ति पृथक् छेदधर्मः। संस्कारवशात्तत्र ज्ञानमुत्पद्यते। यत् सर्वसंस्काराणामभावः। [तत्] निर्वाणं भवति। यथा यत्र यन्नास्ति तत्र तेन शून्यमिति ज्ञानम्। (पृ) किमिदानीं नास्ति निर्वाणम्। (उ) न नास्ति निर्वाणमिति। किन्तु नास्ति द्रव्यधर्म[रूपम्]। यदि नास्ति निर्वाणम्। तदा सदा सर्वत्र जातिमरणमस्ति। न कदाचिन्मोक्षसमयः। यथा अस्ति घटभङ्गः वृक्षसमुच्छेदः। परं तु नास्ति द्रव्यतो धर्मान्तरमस्तीति। [अनेन] अन्यसत्यादिवचनमपि प्रत्युक्तम्। कस्मात्। अस्ति दुःखनिरोध इत्यतोऽस्त्यजातोऽभूतोऽकृतकोऽसंस्कृत इत्यादिवचनं सर्वमप्रतिहतम्।

अरणाज्ञानमिति। येन ज्ञानेन न रणायते परेण सह। इदमरणा [ज्ञान]म्। केचिदाहुः-मैत्रीचित्तमिदमिति। मैत्रीचित्तान्न सत्त्वानुपहन्ति। अन्ये केचिदाहुः-शून्यताविहारोऽयमिति। अनेन शून्यताविहारेण न वस्तुना रणायते। केचिद्वदन्तिनिर्वाणाभिरुचिचित्तमिदमिति। निर्वाणाभिरुच्या हि न रणास्पदमस्ति। केचिद्वदन्ति-चतुर्थध्यानगतं [किञ्चिदिद] मिति। नेदं नियमेन तथा। एतज्ज्ञानभावितचित्तस्यार्हतो नास्ति [रणास्पदं] किञ्चित्।

प्रणिधिज्ञानमिति। धर्मेषु अप्रतिहतं प्रणिधिज्ञानमित्युच्यते। (पृ) तथा चेत् भगवतो बुद्धस्य केवलमिदं ज्ञानं स्यात्। (उ) एवमेव। बुद्धो भगवानेवैतज्ज्ञानसम्पन्नः। अन्ये [त]द्बलाधिष्ठिता अप्रतिहत[ज्ञानं] विन्दन्ते।

प्रान्तकोटिकज्ञानमिति। यत् योगी प्रकृष्टमुत्तमं ज्ञानं सर्वध्यानसमाधिभिः परिभावितं परिवर्धितं प्रतिलभ्य [स्व]जीवितस्य बृद्धौ ह्रासे वशितां विन्दते। इदं प्रान्तकोटिकज्ञानमित्युच्यते॥

पञ्चज्ञानवर्गः षण्णवत्युत्तरशततमः।

१९७ षडभिज्ञाज्ञानवर्गः

अस्ति षडभिज्ञाज्ञानम्। षडभिज्ञाः-कायर्द्धिः द्वियचक्षुः दिव्यश्रोत्रं परचित्तज्ञानं पूर्वनिवासानुस्मृतिरास्रवक्षय[ज्ञान]मिति। कायर्द्धिरिति। योगी स्वकायादपोऽग्निञ्चाविष्करोति। विहायसा गच्छति। आविर्भवति। तिरोभवति। सूर्याचन्द्रमसौ परामृशति। ब्रह्माणमीश्वरं नानानिर्मितांश्चाधिगच्छति। ईदृशं कर्म कायर्द्धिः। (पृ) कथमिदं सेत्स्यति। (उ) योगी ध्यानसमाधीनां सम्यक् भावनया विन्दते। यथोक्तं सूत्रे-ध्यानसमाधानस्य बलमचिन्त्यमिति। केचिदाहुः-निर्माणचित्तमव्याकृतमिति। इदमयुक्तम्। यद्ययं योगी परहिताय नानानिर्मितं प्रदर्शयति। कस्मात्तदव्याकृतं भवेत्। केचिदाहुः-कामधातुकचित्तेन कामधातुकनिर्मितं करोति। रूपधातुकचित्तेन रूपधातुकनिर्मितं करोतीति। तदप्ययुक्तम्। चक्षुराद्यपि एवं स्यात्। कामधातुकविज्ञानेन कामधातुकरूपमेव पश्येदित्यादि। यदि रूपधातुकचित्तं कामधातुकचित्तं करोति। को दोषोऽस्ति। केचिदाहुः-प्रथमध्यानाभिज्ञया ब्रह्मलोकं गच्छति यावच्चतुर्थध्यानाभिज्ञया रूपपर्यन्तं गच्छतीति। इदमप्ययुक्तम्। इन्द्रियबलवशात् यत्र कुत्रचित् गच्छति। यदि तीक्ष्णेन्द्रियः, प्रथमध्यानाभिज्ञया चतुर्थध्यानमनुप्राप्नोति। मृद्विन्द्रियो द्वितियध्यानाभिज्ञयाऽपि न प्रथमध्यानमुपयोजयति। यथा महाब्रह्मा [सहां] पतिः ध्यानस्यान्तरमनुप्राप्तः। न तत्रास्ति [तस्या]भिज्ञा। प्रथमध्यानबलेन अन्यान् ब्रह्मदेवाननुप्राप्नोति। नैव तु प्रथमध्यानेन ब्रह्मावासं प्रजानाति। भगवान् पूर्वनिवासेन आरूप्यमनुस्मरति। यथोक्तं सूत्रे रूपे वा आरूप्ये वा पूर्वतनीनमुपपत्त्यायतनं भगवान् सर्वं प्रजानाति। अतो नास्ति नियमः।

केचिदाहुः-दिव्यचक्षुः प्रज्ञास्वभावमिति। तदप्ययुक्तम्। दिव्यचक्षुरालोकवशेन सिद्धम्। प्रज्ञा तु नैवम्। (पृ) सूत्र उक्तम्-आलोकलक्षणं भावयन् ज्ञानदर्शनं साधयति इति। ज्ञानदर्शनमेव दिव्यचक्षुः। (उ) मैवम्। अपि चाह-दिव्यश्रोत्रं न प्रज्ञास्वभावमिति। तत् श्रोत्रमित्याख्यायते इति। अतो न प्रज्ञास्वभावम्। दिव्यचक्षुः प्रत्युत्पन्नं रूपमालम्बते। न तथा मनोविज्ञानम्। दिव्यचक्षुर्विभङ्गे चोक्तम्-ज्ञानं सत्त्वकर्मविपाक[भूत]म्। चक्षुर्विज्ञानस्य नास्ति बलमिदम्। किन्तु मनोविज्ञानस्य ज्ञानं चक्षुर्विज्ञानप्रयोगकाले समुत्पद्यते। अतो ध्यानसमाधिभ्य उत्पन्नं रूपं दिव्यचक्षुरित्युच्यते। (पृ) दिव्यचक्षुषः संस्थानं किं महत् किं वाल्पम्। (उ) तारकाप्रमाणसदृशम्। (पृ) अन्धस्य कथम्। (उ) चक्षुरायतनेन सहैव भवति। (पृ) किं दिव्यचक्षुरेकं उत द्वे। (उ) द्वे भवतः। (पृ) यां काञ्चिद्दिशमनुपश्यति। (उ) सर्वा दिशो व्याप्य पश्यति। (पृ) किं निर्मितेऽप्यस्ति। (उ) नास्ति। निर्मातुरस्ति। दिव्यश्रोत्रवादोऽप्येवम्।

योगी तत् परचित्तं वेत्ति। यत् परचित्तज्ञानम्।(पृ) कस्मान्नोच्यते परचैतसिकज्ञानम्। (उ) अस्मादेव कारणान्नास्ति पृथक् चैतसिकम्। परकीयसंज्ञावेदनादीनां ज्ञानमपि परचित्तज्ञानमेव। केचिदाहुः-ज्ञानमिदं सजातीयालम्बनम्। यथा सास्रवेण सास्रवं जानाति अनास्रवेण अनास्रवं जानाति इति। तदयुक्तम्। नेमे वदन्ति कारणनियमम्-अनेन कारणेन सजातीयमेवालम्बनं जानातीति। केचिद्वदन्ति-प्रत्युत्पन्नमात्रालम्बनमिति। तदप्ययुक्तम्। किञ्चिदनागतालम्बनम्। यथा कश्चिदवितर्कसमाधिमुपसम्पन्नः प्रजानाति अस्मात् समाधेर्व्युत्थिते एवमेवं वितर्को भविष्यतीति। केचिद्वदन्ति-ज्ञानमिदं न मार्गसत्यं प्रजानातीति। तदयुक्तम्। यदि प्रजानाति। को दोषः। आह च-प्रत्येकबुद्धो मार्गसत्यदर्शनगततृतीयचित्तं ज्ञास्यामीति सप्तमं चित्तमेव पश्यति। श्रावकस्तृतीयचित्तं ज्ञास्यामीति षोडशं चित्तमेव पश्यति। किमयं न मार्गसत्यदर्शनं प्रजानाति। केचिदाहुः-ज्ञानमिदं न प्रजानाति ऊर्ध्वभूमिमूर्ध्व[भूमि] पुद्गलमूर्ध्वमिन्द्रियमिति। इदमप्यनियतम्। देवा अपि प्रजानान्ति भगवतश्चित्तम्। तद्यथा भगवानेकदा परिषदं विहाय पुनर्ग्रहणेच्छामन्वस्मरत्। तत् सर्वं ब्रह्मा प्राजानत्। किञ्चैकस्मिन् समये मनस्यचिन्तयत्-राजा भूत्वा यथाधर्मं लोकं विनेष्यामीति। मारस्तदेव ज्ञात्वा समागत्यायाचत। देवा अपि जानन्ति-अयमर्हन् यावदयं स्त्रोत‍आपत्तिप्रतिपन्नक इति। भिक्षवोऽपि प्रजानन्ति भगवतश्चित्तम्। तद्यथा भगवति परिनिर्वाणाभिमुखे सति अनिरूद्धो भगवतोपसम्पन्नान् ध्यानसमाधीन् यथाक्रममजानीत्। केचिदाहुः-ज्ञानमिदं नारूप्यं प्रजानातीति। इद मयुक्तम्। भगवान् हि पूर्वनिवासा[नुस्मृत्या] आरूप्यं प्रजानाति। परचित्तज्ञानेनापि तथा ज्ञाने को दोषः।

(पृ) कथं परिचित्तं जानाति। (उ) आलम्बने सति जानाति। यदि चित्तं रूपावचरं, रूपालम्बनं चित्तं भवति। इत्यादि। (पृ) तथा चेत् परचित्तं सर्वधर्मालम्बनं स्यात्। (उ) एवमेव [स्यात्]। यदि न जानात्यालम्बनं, कतमत् चित्तं जानीयात्। यथोक्तं सूत्रे-भवतश्चित्तमेवमेवमिति प्रजानामि इति। इदमेव रूपाद्यालम्बनम्।

परचित्तज्ञानं त्रिविधम्-निमित्तज्ञानं, विपाकप्रतिलब्धं, भावनाप्रतिलब्धमिति। निमित्तज्ञानमिति यथा अङ्गमन्त्रादिना जानाति। विपाकप्राप्तमिति यथा असुरादीनाम्। भावनाप्रतिलब्धमिति ध्यानसमाधिभावनाबलप्रतिलब्धं परचित्तज्ञानम्। इदमेव षडभिज्ञासु भावनाप्रतिलब्धमित्युच्यते।

यदतीताध्वनीस्कन्धानामनुस्मरणं [तत्] पूर्वनिवासानुस्मरणम्। (पृ) केषां स्कन्धानामनुस्मरणं करोति। (उ) स्वस्कन्धान् परस्कन्धानसत्त्वस्कन्धांश्चानुस्मरति। जिनानां स्कन्धाननुरमरन्नपि तेषां शीलादीन् धर्माननुस्मरति। केन तत् ज्ञायते। यथा शारिपुत्रः भगवन्तं प्रत्याह-अहमतीतानागतानां तथागतानां चित्तमजानन्नपि तेषां धर्मं जानामीति। शुद्धावासा देवास्तथागतचित्तं जानन्तीत्यतो भगवन्तमुपसम्पद्याहुः-अतीततथागतानां भगवन् इर्यापथोऽप्येवमिति।

(पृ) पूर्वनिवासा[नुस्मृति] विभङ्गे कस्मादुक्तं सह निमित्तेन सह जात्येति। (उ) अनुस्मृतिर्विशदेत्यत एवं निमित्तसंज्ञामवोचत् अमुकः पुद्गलः इत्यादि। वस्तुविज्ञानेन निमित्तमित्युच्यते। जातिर्नाम गोत्रम्। यथाहुः-इदं तव कुलं इयं तव जातिरिति। जातिं निमित्तञ्च मिलित्वा वदतीत्यतो ज्ञानदर्शनं विशुद्धम्। (पृ) कस्माद्विशदानुस्मरणं भवति। (उ) अतीतधर्मा निरुद्धा न निमित्तानि। अथापि तान् ज्ञातुं प्रभवतीदमद्भुतम्। कश्चिन्निमित्ताभ्युहेन जानन् न विशदं जानाति। यज्जिनौरसाः [ते]ऽपि पुनरेवम्। अतो जातिं निमित्तं मिलित्वोक्तम्।

कश्चित् पूर्वनिवासज्ञानं प्रयोजयति। कदाचित् समार्गया चिन्तामयप्रज्ञया प्रजानात्यतीतमध्वानम्। यथा संस्कारप्रत्ययं विज्ञानम्। अनयोर्द्वयोश्चिन्तामयी प्रज्ञा विशिष्यते। कस्मात्। अस्ति हि पुद्गलस्य अष्टमहासहस्रकल्पान् जानतोऽपि नास्तीयं चिन्तामयी प्रज्ञा। अतो मिथ्यादृष्टिरुत्पद्यते। यदि त आगतं जरामरणं भवति। तदतीत्य न पुनरस्ति [इति]। समार्गचिन्तामयप्रज्ञस्य नैवास्ति तच्चित्तम्।

(पृ) केचिदाहुः-ज्ञानमिदमतीतं क्रमशोऽनुस्मरतीति। तदयुक्तम्। यदि क्षणक्रमेणानुस्मरति। एकस्मिन्नेव कल्पे वस्तु दुर्विज्ञेयं सर्वतः। किं पुनरप्रमाणकल्पे (पृ) सूत्रे कस्मादुक्तम्-अहमेकनवतिकल्पानागत्य नापश्यं [किमपि] दानमपचीयमानं विना विपाकेन इति। (उ) भगवानत्र सप्तबुद्धान् साक्षीचकार। दीर्घायुष्काः शुद्धावासा अपि बुद्धैर्न समदर्शिनः। भगवान् यथाभूतज्ञानं प्रतिलब्धवानित्यतः परिशुद्धगुणः। यदि सत्करोति [तथागतं] स उभयोर्लोकयोः पुण्यमनुप्राप्नोति। अत एतदुभयमुक्तम्।

केचिदाहुः-ज्ञानमिदं नोर्ध्वभूमिं प्रजानातीति। तदयुक्तम्। ऊर्ध्व[भूमिक] कायर्द्ध्यादौ प्रत्युक्तमेव। (पृ) यदि स्मृतिस्वभावमिदम्। कुतो ज्ञानमित्युच्यते। (उ) स्मृतिर्निमित्तमनुसम्भवति। अतीतं न निमित्तम्। अथाप्यनुस्मरति। प्रज्ञाविशेषमेव स्मृतिरिति ब्रूमः।

पूर्वनिवासानुस्मृतिस्त्रिविधा-पूर्वनिवासज्ञानप्रयोगिणी, विपाकप्रतिलब्धा, पुनरात्मस्मृतिसञ्जननीति। पूर्वनिवासज्ञानं भावनाप्रतिलब्धम्। विपाकप्रतिलब्धमिति यथाऽसुरादीनाम्। पुनरात्मस्मृतिसञ्जननी यन्मनुष्यगतौ भवति। (पृ) केन कर्मणा पुनरात्मसञ्जननी भवति। (उ) सत्त्वानामविहिंसनेन कर्मणा प्रतिलभते। कस्मात्। मरणकाल उपपत्तिकाले च दुःखाभिहतत्वान्मुषितस्मृतिर्भवति। तत्रामोषणं दुर्लभम्। अतः कुशलं कर्मापेक्ष्यते। केचिद्वदन्ति-इदमतीतं सप्ताध्वपरममनुस्मरतीति। नायं नियमः। कश्चित् प्रत्यध्वमविहिंसनधर्मसुभावितत्वात् सुचिरं विप्रकृष्टञ्चानुस्मरति।

आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेति। वज्रोपमसमाधिरयम्। वज्रोपमसमाधिरयमास्रवक्षयरूपः अनावरणमार्गः। आस्रवक्षयः अशैक्षज्ञानमित्युच्यते। वज्रोपमसमाधिना आस्रवाणां निरोधः क्षयः। [स] आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेत्युच्यते। (पृ) अन्ये ऋद्धि [पादा] अपि वक्तव्याः; केन धर्मेण साक्षात्करोति। (उ) उक्तमेव पूर्वं ध्यानसमाधीन् गभीरं भावयन् ऋद्धिपादान् साक्षात्करोतीति। यत्प्रयोजनमनुसृत्य साक्षात्कारः साक्षात्कृतं वस्तु, [स] सर्व ऋद्धिपादः।

केचिदाहुः-सर्व आर्यमार्गा अस्रवक्षयस्योपायाः। यथोक्तं सूत्रे-तथागते लोक उत्पन्ने सुपुरुषा धर्मं श्रुत्वा प्रव्रजिताः शीलं समाददाना अपनीतपञ्च नीवरणाः समाधिं भावयन्तः सत्यं पश्यन्ति इत्यादि सर्वमास्रवक्षयस्योपायाः। केचिदाहुः-दानादयः कुशलधर्मा अपि आस्रवक्षयस्य निदानानि। यथोक्तं सूत्रे-योगिनो दानं क्षीणास्रवशून्यानात्मज्ञानं साधयतीति। इदमुच्यते तत्त्वत आस्रवक्षयसाक्षात्काराभिज्ञा इति। अस्यैव धर्मस्य नामान्तरं वज्रोपमसमाधिरिति। निमित्तानि समूहन्तीति वज्रत्वम्। तीर्थिकाः पञ्चाभिज्ञा भवन्ति। तैरस्य तत्त्वज्ञानस्याप्रतिलब्धत्वात्।

(पृ) अनात्मज्ञानेन आत्मदृष्टिं भिन्द्यात्। कथमनेन कामप्रतिघादि प्रजहाति। (उ) अनात्मज्ञानेन सर्वाणि निमित्तानि निरुन्धे। निमित्ताभावात्सर्वे क्लेशा निरुध्यन्ते। (पृ) अद्येन अनात्मज्ञानेन निमित्तानि निरुन्धे। द्वितीयज्ञानादिना क उपयोगः (उ) निमित्तानि निरुद्धान्यपि पुनरुत्पद्यन्ते। अतो द्वितीयाद्यपेक्षते। (पृ) यदि निरुद्धं पुनरुत्पद्यते। तदा अनवस्थं निमित्तं भवति। तथा सति नार्हन्मार्गः। (उ) अस्त्यवस्था। यथा पश्यामः स्तन्यं शुष्यत् पुनः प्रस्रवति। अस्ति कश्चित् कालः [यदा] स्तन्यं प्रतिरुद्धपयःप्रसूति भवति। तदा अवधिर्भवति। निमित्तमप्येयम्। यथा च तप्तेऽयसि कृष्णलक्षणं निरुद्धं पुनरुत्पद्यते। यावल्लोहितलक्षणमुत्पद्यते। स समयोऽवधिरित्युच्यते। कललादयो दृष्टान्ता अप्येवम्। यस्मिन् समये निमित्तानि निरुद्धानि न पुनरुत्पद्यन्ते। स समयोऽर्हन्मार्गप्रतिलम्भः। (पृ) किमर्हतोऽत्यन्ताभावरूपाणि निमित्तानि। (उ) यदा असमाहितचित्तस्थः, तस्मिन् समये सन्त्यपि रूपादिनिमित्तानि। किन्तु न दोषजनकानि। यदि किश्चित् चक्षुषा रूपाणि दृष्ट्वा मिथ्यामनस्कारेण मिथ्या विकल्पयति। तदा दोषाजनकानि भवन्ति।

(पृ) किमनात्मशून्यज्ञानम्। (उ) यद्योगी पञ्चसु स्कन्धेषु प्रज्ञप्तं सत्त्वं न पश्यति। धर्मशून्यत्वात् रूपकायनिरोधं यावद्विज्ञाननिरोधं पश्यति। इदमुच्यते अनात्मशून्यज्ञानम्। (पृ) प्रज्ञप्तिकृता धर्मा नित्यवर्तिनः। [तेषु] तृष्णादयः क्लेशा अपि प्रहेयाः। यथोक्तम्-पदार्था नित्यस्थायिनः। व्यवसायी तु [तत्र] कामतृष्णां प्रजहाति इति। किं निरोधलक्षणमपेक्षते। (उ) सूत्र उक्तम्-यत्किञ्चित्समुदयधर्म, तत्सर्वं निरोधधर्म। तेषु धर्मेषु विरजो धर्मचक्षुः प्रतिलभत इति। यो निरोधेन प्रहाणं तदत्यन्तप्रहाणम्। कश्चिद्योगी रूपेषु वीतरागः कामप्रतिघं क्षपयति। तदर्थं भागवानीदृशीं गाथामवोचत्। किञ्चाह-संस्काराः स्वभावशून्या मायावत्। प्राकृता अज्ञा वदन्ति-ते वस्तुसन्त इति। शैक्षाः पुनः प्रजानन्ति-ते तुच्छा रिक्ता मायावदिति। अर्हन्नपि मायां [किं] न पश्यति। अतो ज्ञायते यया प्रज्ञया धर्माणां निरोधं साक्षात्करोति इयमास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञेति॥

षडभिज्ञावर्गः सप्तनवत्युत्तरशततमः।

१९८ ज्ञानक्षान्तिवर्गः

(पृ) सूत्र उक्तम्-यो योगी सप्तभिरुपायैस्त्रिभिरर्थावलोकनैः समन्वितः सोऽस्मिन् धर्मे क्षिप्रमास्रवक्षयमनुप्राप्नोतीति। किमिदं ज्ञानम्। (उ) सप्तोपाया नाम श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा च। कस्मात्। असमाहितचित्त एवं विचारयति-यदिदं रूपम्, अयं रूपसमुदयः अयं रूपनिरोधः इयं रूपनिरोधगामिनी प्रतिपत्, [अयं] रूपास्वादः, [अयं] रूपादीनवः इदं रूपनिस्सरणं इति। (पृ) यदीयं श्रुतमयी चिन्तामयी प्रज्ञा। कस्मादाह-क्षिप्रमास्रवक्षयमनुप्राप्नोतीति। (उ) यद्यपीयं श्रुतमयी चिन्तामयी प्रज्ञा तथाप्येवं पञ्चस्कन्धान् विकल्पयन् आत्ममतिं विभेदयति। अत आह-क्षिप्रमास्रवक्षयमनुप्राप्नोतीति। त्रिविधावलोकनज्ञानं यदुत संस्कारा अनित्या दुःखा अनात्मान इति। स्कन्धधात्वायतनमुखेन संस्कारान् पश्यतो नास्त्यर्थो हितं वा। (पृ) तथा चेत् पूर्वमादीनव उक्तमेव-अनित्या दुःखा इति। निस्सरणे चोक्तम्-अनात्मान इति। कस्मात्पुनरुच्यते त्रिविधमिदमवलोकनमिति। (उ) त्रिविधाः शिक्षते-पूर्वं श्रुतमयीं चिन्तामयीं प्रज्ञाम्। पश्चात् भावनामयीं प्रज्ञाम्। पूर्वं श्रुतमय्यां चिन्तामय्यां प्रज्ञायामुक्ताः सप्त प्रकाराः। पश्चाद्भावनामय्यां प्रज्ञायां त्रयः प्रकाराः। कस्मात्। यदनित्यं तत् दुःखमिति लक्षणस्य भङ्गो नाम अनित्यस्य भङ्गः नानित्यसंस्काराणां भङ्गः। पूर्वं कामकषायोत्सर्ग उक्तेऽपि नोक्तं कथमुत्सृजतीति। पश्चात्ताबदुक्तं त्रिविधमर्थावलोकनम्।

(पृ) कतमा अष्ट क्षान्तयः। (उ) यत्किञ्चित् ज्ञानं प्रज्ञप्तिविदारणम्, इयं क्षान्तिरित्युच्यते। क्षान्तिरियमूष्ममुर्धक्षान्तिलौकिकाग्रधर्मेष्व[स्ति]। (पृ) योगिनोऽपि बुद्धे धर्मे सङ्घे शीलदिषु क्षान्तिरस्ति। कस्मादुक्तमष्टाविति। (उ) प्राधान्यादुक्तम्। प्राधान्यं मार्गप्रत्यासन्नता। यथा दुःखे धर्मज्ञानाय दुःखे धर्मक्षान्तिरित्येवमादि। कस्मात्। पूर्वं हि मार्गानुकूलां चिन्तामयीं प्रज्ञां प्रयुज्य पश्चात्प्रत्यक्षज्ञानमनुप्राप्नोति। यथा हस्तिपकः पूर्वं हस्तिपदं दृष्ट्वा तेन ज्ञानेन प्रजानाति-अत्र वर्तत इति। पश्चादभिमुखीकरोति। तथा योग्यपि पूर्वं क्षान्त्याऽन्वयज्ञाने न निर्वाणमभ्यूह्य पश्चात् तेन ज्ञानेनाभिमुखीकरोति। अतः सूत्र उक्तम्-[एवं] जानन्[एवं] पश्यन् आस्रवक्षयमनुप्राप्नोतीति॥

ज्ञानक्षान्तिवर्गोऽष्टनवत्युत्तरशततमः

१९९ नवज्ञानवर्गः

(पृ) केचिदाभिधर्मिका वदन्ति अर्हन् क्षयज्ञानं साक्षात्कुर्वन् सांवृतानि नव ज्ञानानि प्राप्नोति यदुत कामधातुप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञानं] यावन्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञान]म्। कथमिदम्। (उ) न सर्वोऽर्हन् सर्वान् ध्यानसमाधीन् प्राप्नोति। कथं नव ज्ञानानि प्राप्नुयात्। (पृ) सर्वोऽर्हन् ध्यानसमाधीन् प्राप्नोति। न तु सर्वः समापत्तिमभिमुखीकरोति। (उ) यदि समापत्तिं नाभिमुखीकरोति। कतमा प्राप्तिर्नाम। यथा कश्चिदाह-ग्रन्थं जानामि, तदक्षरमेकन्तु न विजानामीति। तथेदमप्यस्ति। (पृ) यो वीतरागः सन् न प्रथमध्यानसमापत्तिं नाद्यापि प्रत्यक्षीकृतवान्। स आयुषोऽन्ते[ऽपि] न तामुत्पादयति। (उ) सूत्रे तूक्तम्-अस्मिन्नन्तराले समापद्य पश्चात्तां समुत्पादयेदिति। इदानीं कथमस्मिन्नन्तरालेऽसमापन्नस्तां समुत्पादयति। (पृ) यदि रागाद्विरज्यमानस्यातीतानागतानि सर्वाणि ध्यानानि मूलतः प्राप्नानि। तद्विपाकेन [त]दुत्पत्तिं प्राप्नोति। (उ) अनागतं कर्म अकृतमभूतं न विपाकं प्रापयति। अतीतानि ध्यानानि चित्त उत्पन्नचराणि यदि विपाकं प्रयच्छन्ति। तदा अविद्यमानताहानिः। किञ्च नानागतकर्माणि प्राप्नुयात्। यदि प्राप्यमिति, अनागतं सर्वं प्राप्यं स्यात्। कस्य प्रतिबन्धात् प्राप्त्यप्राप्ती स्तः।

(पृ) यद्यनागतो धर्मो न प्राप्य इति। शैक्षो नाष्टभिरङ्गैः समन्वितः स्यात्। अशैक्षोऽपि दशभिरङ्गैः समन्वितः। कस्मात्। यस्य द्वितीयध्यानादि निश्रित्य सम्यक् धर्मनियामावक्रान्तिर्भवति। सोऽनागते सम्यक्सङ्कल्पं प्राप्नोति। यदि योगी क्षयज्ञानमभिमुरवीकरोति। तदाऽनागतेऽध्वनि सम्य् दृष्टिं प्राप्नोति कश्चिदारूप्यसमाधिं निश्रित्यार्हत्फलं प्राप्नोति। अयमनागते सम्यक्‌सङ्कल्पं सम्यग्वाचं सम्यक्कर्मान्तं सम्यगाजीवं प्राप्नोति। यदि तृतीयध्यानादि निश्रित्यार्यमार्गं प्राप्नोति। सोऽनागते प्रीतिं प्राप्नोति। एवमादयो धर्मास्तदा न स्युः। अतो ज्ञायते अस्त्यनागतो धर्म इति। यदि च नास्ति अनागत [धर्मः] कथं भावको फलानि ध्यानसमाध्यादीननुप्राप्स्यति। योगी यदा मार्गान्वयज्ञाने वर्तते। प्रथमफलसङ्‍गृहीतानि सर्वाणि ज्ञानानि समाधींश्च सर्वथाऽनुप्राप्नोति। तथा नो चेत् फलानि गणयित्वा गणयित्वाऽनुप्राप्नुयात्। कस्मात्। फलानि सर्वाण्यभिमुखीकाले प्राप्नुयादितीदं न सम्भवति। अतो ज्ञायते भवेदनागते भावनेति।

उच्यते। यत् भवतोक्तम्-अङ्गैः समन्वित इति। इदमबाधितम्। कस्मात्। शीलाद्यङ्गानि क्रमशः प्राप्यन्ते नैककालमिति ब्रूमः। अतो नास्ति दूषणम्। यदुक्तं भवता केषाञ्चित्प्राप्तिस्तज्जातीयाता[मपि]। योगिनः [कुत्रचित्] दुःखज्ञानप्राप्तावन्यदुःखज्ञानजातिः प्राप्ता भवति। यथा मनुष्यजातिः प्राप्तेत्यतो मनुष्यलक्षणं प्राप्तं भवति। नापि प्रतिक्षणं क्रमशो मनुष्यलक्षणं प्राप्तमिति। तथेदमपि। (पृ) योगिनो विद्यमानदुःखादीनां ज्ञानानि क्रमिकाणीति सर्वं परिहृतमेव। स्त्रोत‍आपत्तिफलसङ्गृहीतानां ज्ञानानां प्राप्तिः पुनरैककालिकी। (उ) अनास्रवज्ञानानि प्राप्तानि तु न परिहीयन्ते। (पृ) यदि पूर्वं प्राप्तानि न परिहीयन्ते। तदा प्राप्तिः प्रयोग इति नास्ति भेदः। कस्मात्। प्राप्तफल एव योगी इत्यादिदोषः। (उ) यदि नास्ति विशेषः। किमवद्यं भवति। यथा सम्पन्नफलोऽपि योगीत्युच्यते। तथेदमपि। पुद्गलोऽयं पुनर्विशिष्टं धर्मं प्राप्नोतीत्यतोऽस्ति प्रविभागः। अतो नास्ति दोषः। यथा समापत्तपञ्चशीलः पुनः प्रव्रज्यासंवरमनुप्राप्नुवन्नपि न मौलिकशीलेभ्यः परिहीयते। प्राप्तफलस्य च मार्गादर्शनादस्ति प्रविभागः। यथा कश्चिदादौ वस्तु जानन्नपि विशिष्टवस्तु[दर्शनाय यतत] इति प्रविभागोऽस्ति। तथे दमपि। अतो ज्ञायते नास्त्यनागतस्य प्राप्तिरिति। किञ्च योगी शून्यानात्मज्ञाने विहरति। तस्मिन् समये कथमनुप्राप्नोति लौकिकं धर्मम्। अतो ज्ञायते क्षयज्ञानप्राप्तौ न लौकिकज्ञानमनुप्राप्नोतीति।

(पृ) इमानि लौकिकज्ञानानि क्षयज्ञानेन सहार्हतः समाधिसमापत्तिव्युत्थानचित्तक्रियां प्रापयन्ति। (उ) अर्हतश्चित्तं सन्तानेन प्रवर्तमानं प्रतिक्षणं विशुद्धम्। यदि पुनर्नवज्ञानानि प्राप्नोति। चक्षुरादि सर्वं पुनः प्राप्येत। तथा नो चेत् न नवज्ञानानि प्राप्नुयात्। उक्तञ्च-अनागतभावनाया नास्ति हेतुः प्रत्ययो वा इति। कस्मात्। एते हि वदन्ति-सत्यदर्शनमार्गे केवलं निमित्ताभासं ज्ञानं भावयति। चिन्तनामार्गेऽपि निमित्ताभासमनिमित्ताभासञ्च भावयति। सत्यदर्शनमार्गे नोर्ध्वभूमिं भावयति। चिन्तनामार्गे तु भावयति। मार्गान्वयज्ञाने न सांवृतं कुशलं भावयति। अन्यस्मिन् ज्ञाने तु भावयति। आनन्तर्यमार्गे न परचित्तज्ञानं भावयति। श्रद्धाविभुक्तो दर्शनप्राप्तत्वेन परिवर्तमानः सर्वस्मिन्नानन्तर्यविमुक्तिमार्गे न सांवृतं मार्गं भावयति। समयविमुक्तः अकोप्यविमुक्ततया परिवर्तमानो नवानन्तर्य[मार्गेषु] अष्टविमोक्षमार्गेषु संवृतं मार्गं न भावयति। नवमे विमुक्तिमार्गे [तु] भावयति। सूक्ष्मचित्ते न भावयति सर्वमनास्रवम्। एत्येवमादीनां सर्वेषां नास्ति कारणम्। अतो भवान् यदि वा सम्यग्द्येतुं ब्रूयात् यदि वा श्रद्धापयेत्। किञ्च शैक्षभावनया भावना भवति। ऊष्म[गता]दिषु स्थितिकाले उत्तमानि सर्वाणि कुशलमूलानि भावयति। सर्वथा प्रकर्षकरणार्थत्वात्। यथा सूत्रमधीयानस्य सर्वथा वैशद्योपकारो भवति। अत ऊष्मगतादिधर्मकालात् यावत् क्षयज्ञानं सर्वेषां भावना भवति। तथा नो चेत् सद्धेतुर्वक्तव्यः॥

नवज्ञानवर्ग एकोनद्विशततमः।

२०० दशज्ञानवर्गः

दश ज्ञानानि-धर्मज्ञानं अन्वयज्ञानं, परचित्तज्ञानं संवृतिज्ञानं, चत्वारि सत्यज्ञानानि, क्षयज्ञानमनुत्पादज्ञानमिति। प्रत्युत्पन्नधर्मज्ञानमेव धर्मज्ञानमित्युच्यते। यथोक्तं सूत्रे-भगवानानन्दमामन्त्र्याह-अस्मिन् धर्मे एवं ज्ञानेन दृष्ट्वा एवं प्रतिबुध्यस्व। अतीतेऽनागतेऽप्येवं जानीहीति। वक्तव्यं प्रत्युत्पन्नधर्मज्ञानमिति। इदानीं प्रत्युत्पन्नमनुक्त्‌वा केवलमुच्यते धर्मज्ञानमिति। यथोक्तं सूत्रे-बालः प्रत्युत्पन्नं धर्मं बहुमन्यते। ज्ञानी अनागतं बहुमन्यत इति। किञ्चाह-प्रत्युत्पन्नाः कामा अनागताः कामाश्च मारसेना मारधेया मारबन्धना इत्यादौ सर्वत्रोच्यते प्रत्युत्पन्नवादः। इदं संक्षिप्यवचनात् केवलं धर्मज्ञानमित्युच्यते।

अवशिष्टधर्मज्ञानमन्वयज्ञानमिति वदन्ति। अवशिष्टा इति यदुतातीता अनागता धर्माः। प्रत्युत्पन्नधर्माननु पश्चात् जानातीति अन्वयज्ञानम्। कस्मात्। दृष्टधर्मज्ञानपूर्वकं हि अन्वयज्ञानम्। धर्मज्ञानं नाम दृष्टज्ञानमित्युच्यते। एतद्धर्मज्ञानमनुसृत्य वितर्कितं ज्ञानमन्वयज्ञानमित्युच्यते। (पृ) अन्वयज्ञानमिदमनास्रवं ज्ञानम्। अनास्रवं ज्ञानं कथमन्वयज्ञानं भवति। (उ) लोकेऽप्यस्त्यन्वयज्ञानम्। कस्मात्। धर्मज्ञानमन्वयज्ञानं परचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानञ्च सर्वं सास्रवमनास्रवमस्ति। इमानि ज्ञानानि ऊष्मगतादिधर्मेषु सास्रवाणि नियामावक्रान्तिप्राप्याणि अनास्रवाणि।

(पृ) केचिदाहुः-काम [सम्प्रतियुक्तेषु] संस्कारेषु [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] हेतौ [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] निरोधे [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] प्रहाणाय मार्गे [यदनास्रवं] ज्ञानम्, इदमुच्यते धर्मज्ञानम्। रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां हेतौ यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्, इदमुच्यतेऽन्वयज्ञानम् इति। कथमिदम्। (उ) उक्तं हि सूत्रे-भगवानानन्दमामन्त्र्याह-अतीतऽनागते चैवं प्रजानीहीति। न किञ्चित्सूत्रमाह-रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु ज्ञानमन्वयज्ञानमिति। किञ्चोक्तं सूत्रे-योगी अनुस्मरेत्-अहमिदानीं दृष्टरूपेणोपद्रुतो भवामि। अतीतेऽपि रूपेणोपद्रुतोऽभवम्, अनागतेऽपि रूपेणोपद्रुतो भविष्यामीति। अपि चोक्तं सूत्रे-जातिप्रत्ययं जरामरणम्। अतीतेऽनागतेऽप्येवं स्यादिति। तथावोचदश्वघोषबोधिसत्त्वो गाथाम्-

प्रत्यक्षमालोक्य च जन्म दुःखं दुःखं तथातीतमपीति विद्धि।
यथा च तत् दुःखमिदञ्च दुःखं तथानागतमप्यवेहि।
[बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः।]
पत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव॥ इति।

एवमादि दुःखं महावैभाषिका अपि वदन्ति।

अतीतानागताध्वनीनधर्मज्ञानमेवान्वयज्ञानम्। अस्य च युक्तिरस्ति। कस्मात्। योगी हि अतीतेऽनागामिनि प्रत्युत्पन्ने च दुःखे निर्विद्यते। निर्वेद एव एषु धर्मेषु तत्त्वज्ञानप्रादुर्भावः। यथा प्रत्युत्पन्नाः संस्कारा दुःखम्। तथातीता अनागताः संस्कारा अपि दुःखम्। केन ज्ञानेन अतीतानागतान् धर्मान् जानाति। यदीदं धर्मज्ञानम्। रूपारूप्यसम्प्रतियुक्ताः संस्कारा अपि सन्त्यतीता अनागताः। तेषां ज्ञानमपि धर्मज्ञानं स्यात्। तथा च धर्मज्ञानमेव नान्वयज्ञानमस्ति। यदि रूपारूप्यसम्प्रतियुक्तेषु अतीतानागतेषु संस्कारेषु ज्ञानान्तरमस्तीति। कामसम्प्रतियुक्तेष्वतीतानागतेषु संस्कारेषु च ज्ञानान्तरं भवेत्। तदर्थमेव आभिधर्मिका आहुः-अस्ति प्राप्तिरप्राप्तिरित्यतोऽनुपूर्वेण सत्यं पश्यतीति। कामधातुसम्प्रतिसंयुक्तं दुःखं प्राप्तिः। रूपारूप्यसम्प्रतियुक्तं दुःखमप्राप्तिः। अत एकस्मिन् समय उभयज्ञानं न सम्भवति। यद्यप्राप्तिर्दुःखमन्वयज्ञानेन ज्ञायते। इदानीं कामधातावप्राप्तिर्दुःखमपि अन्वयज्ञानेन ज्ञायेत।

(पृ) केन ज्ञानेन संयोजनप्रहाणमार्गो भवति। (उ) [तत्र] धर्मज्ञानमात्रमुपयुज्यते। अन्वयज्ञानमुपायमार्गे वर्तते। (पृ) किं धर्मज्ञानमुपयुज्यते। (उ) दुःखे धर्मज्ञानं निरोधे धर्मज्ञानञ्चोपयुज्यते। कस्मात्। योगी अनित्यं दुःखमिति पश्यन् शून्यमनात्मेति पश्यति। तस्मिन् समये संस्काराणां निरोधं साक्षात्करोति। अन्यत् ज्ञानं सर्वमुपायः। (पृ) किं दुःखं दृष्ट्वा निरोधो भवति। (उ) वेदनाः दुखं पश्यति। तत्रात्ममतिरुत्पद्यते। अतस्तासामपि निरोधं पश्यति। यथोक्तम्-अध्यात्मविमुक्तत्वात् तृष्णायाः क्षये निरोधे स्वत एवार्हन् प्राप्त इत्युच्यते। इति। (पृ) ननु सूत्रे किं नोक्तं सर्वसंस्काराणां प्रहाणं प्रहाणलक्षणमिति। (उ) अयं योगी अध्यात्मनिरोधं साक्षात्कृर्वन् सर्वत्र निर्विण्णः। किञ्च योगी अध्यात्मनिरोधमवश्यं साक्षात्कुर्यात्। नान्यदवश्यनियतम्।

(पृ) सत्येषु कथं ज्ञानं भवति। (उ) जातिर्दुःखमित्यादि ज्ञानं भवति। (पृ) इदमसमाहितं चित्तम्, कथं ज्ञानं जनयति। (उ) एवं दर्शने सति स्कन्धानामनित्यतादिदोषमपि दृष्ट्वा दुःखनात्मसंज्ञां जनयति। यथोक्तं सूत्रे-[यत्] दुःखं तदनित्यम्, यदनित्यं तदानात्म इति। कस्मात्। चक्षुरादीनामिन्द्रियाणामुत्पादोऽस्ति व्ययोऽस्ति। यद्ययमात्मा, आत्मन उत्पादो व्ययः स्यादित्यतो ज्ञायते अनात्मेति। इदञ्च चक्षुराद्युत्पद्यमानं न कुतश्चिदागच्छति। कृतकमस्तीत्यतोऽनात्मेत्युच्यते। सूत्रे चोक्तं-नास्ति कारक इति। अतो ज्ञायते यदनित्यं तदनात्मेति। एवं योगिनः सम्यक् अनित्यमनात्म च भावयतः कायचित्तमुपशाम्यति। सर्वसंस्कारेषु समुत्पन्नेषु तेषां विहिंसामनुभवतो दुःखसंज्ञा समुत्पद्यते। निश्चर्मण्या यथा गाव अल्पस्पर्शे[ऽपि] व्यथाऽनुभूयते। तथा योगी अनात्मसंज्ञावशादुत्तमां दुःखसंज्ञां साधयति। मूढस्तु आत्मसंज्ञावशात्सत्यपि महति दुःखे न तदुपायासमनुभवति। इदमुच्यते दुःखज्ञानम्। संस्काराणामुत्पाददर्शनं हेतुज्ञानम्। संस्काराणां व्ययदर्शनं निरोधज्ञानम्। मार्गस्यावराग्रानुसरणं मार्गज्ञानम्।

(पृ) किमुच्यते क्षयज्ञानम्। (उ) सर्वाणि निमित्तानि क्षपयतीति क्षयज्ञानम्। कस्मात्। शैक्षस्य निमित्तं प्रहीणं पुनरुत्पद्यते। इदन्तु अत्यन्तं क्षपयतीति क्षयज्ञानम्। यथोक्तं सूत्रे-अभूतनिमित्तमिदमभूतं संज्ञामात्रमिति प्रजानतो दुःखानि क्षीयन्त इति। शैक्षाः प्रजानन्ति। अभूतं संज्ञामात्रमात्मेति। तच्चित्तमत्यन्तं प्रहीणमिति क्षयज्ञानमित्युच्यते। यथोक्तं सूत्रे-कश्चिदर्हन् तथागतस्य पुरतो व्याकरोति-भगवता देशितानि न सन्ति मम। नाहमेषु संयोजनेषु पुनर्विचिकित्से। सदा मम समाहितैकाग्रस्य सम्यक् चर्यामनुस्मरतः कामादीन्यकुशलानि न चित्तस्यास्रवा भवन्ति इति। तत्र निमित्तं गृह्णातीत्यतः संयोजनानि भवन्ति। प्रहीणनिमित्तस्य तु संयोजनानि निरुध्यन्ते। शैक्षा निमित्तेऽनिमित्तमिति विहरन्ति। अत आत्ममतिः कदाचिदाविर्भवति। यथा स्थाणुं दृष्ट्वा अयं पुरुष इति संशेरते। अतोऽर्हतः केवलं निर्विचिकित्सस्य प्राप्तिः। सदा अनिमित्तविहारिचित्तत्वात् पूर्वं सत्त्वशून्यतां दृष्ट्वा पञ्चसु स्कन्धेषु न पश्यत्यात्मानम्। पश्चात् धर्मशून्यत्वान्न पश्यति रूपस्वभावं यावद्विज्ञानस्वभावञ्च। अतो ज्ञायते सर्वनिमित्तक्षयः क्षयज्ञानमिति।

सर्वनिमित्तानामनुत्पादं जानातीत्यनुत्पादज्ञानम्। शैक्षस्य प्रहीणनिमित्तस्य पुनरुत्पादः क्षीणः। अशैक्षस्य निमित्तं क्षीणं न पुनरुत्पद्यते। सर्वनिमित्तानां क्षये निरोधे यत्पुनरनुत्पादः तदनुत्पादज्ञानम्। (पृ) शैक्षोऽपि जानाति अस्ति[मम]क्षयज्ञानमनुत्पादज्ञानमिति। यथानुस्मरति-परिक्षीणत्रिसंयोजनो न पुनरुत्पत्स्य इति। कस्मान्नाह दशाङ्गसमन्वित इति। (उ) शैक्षो न सर्वसंज्ञाः प्रजहाति। अतो नाह-अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति। यथा कश्चित् तत्र तत्र प्रतिबद्ध एकस्मान्मुक्तोऽपि न विमुक्त इत्युच्यते। अस्ति चायमर्थः शारिपुत्रोऽनाथपिण्डदस्य दशाङ्गसमन्वागममवोचत् इति। अर्हन् वशिताबलप्राप्तत्वात् प्रजानाति-क्षीणानि [मे] संयोजनानि, न पुनरुत्पत्स्य इति। तथा शैक्षोऽपि। अर्हन् अशैक्षमार्गं प्राप्तो[यत्]प्रजानाति क्षीणा[मे]जातिरिति। तत् क्षयज्ञानमित्युच्यते। उषितं ब्रह्मचर्यमिति शैक्षचर्यापरित्याग उच्यते। कृतं करणीयमिति करणीयानि सर्वाणि कृत्वा प्रजानाति-अस्माद्भवात् नास्ति भवान्तरमिति। अतो ज्ञायते अर्हन्नेव सर्वेषु करणीयेषु वशितां प्राप्तः क्षयज्ञानेनानुत्पादज्ञानेन च समन्वितः स्यात्, न तु शैक्षा इति। यथा कश्चित् ज्वरार्तो[ज्वरा]नुद्गमकालेऽपि ज्वरीत्युच्यते। यथोक्तं सूत्रे-

सर्वत्र विहता नन्दिः तमस्कन्धः प्रदालितः।
जित्वा मृत्योर्हि सेनाञ्च विहरामि अनास्रवः॥ इति।

परचित्तज्ञानं यथा षडभिज्ञासूक्तम्। पञ्चस्कन्धकलापः सत्त्वः। तत्र ज्ञानं संवृतिज्ञानम्। अनास्रवं ज्ञानं तत्त्वज्ञानम्। इदमनास्रवाभासं ज्ञानाख्यां प्राप्नोतीत्यतः संवृतिज्ञानमिति वदन्ति। (पृ) केचिदाहुः-सर्वे सत्त्वाः समं ज्ञानसमन्विता इति। कथमिदम्। (उ) यो जिनौरसो जानाति धर्माः प्रतीत्यसमुत्पन्ना इति। स प्राप्नोति नान्यः सत्त्वः। ज्ञानाख्यायाः प्रापित्वात्। सर्वे सत्त्वाः संज्ञाप्रयोगमात्रं विजानन्ति। यदि प्राप्नुवन्तीदं ज्ञानम्। [तदा] आभ्यन्तरपृथग्जन इत्युच्यन्ते।

दशज्ञानवर्गो द्विशततमः।

२०१ चतुश्चत्वारिंशज्ज्ञानवर्गः

(पृ) सूत्र उक्तम्-चतुश्चत्त्वारिंशत् ज्ञानानि यदुत जरामरणे ज्ञानं, जरामरणसमुदये ज्ञानं, जरामरणनिरोधे ज्ञानं, जरामरणनिरोधमार्गे ज्ञानं, जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानसंस्कारेष्वप्येवम्। कस्मादिदमुच्यते। (उ) निर्वाणेतत्त्वरत्ने विविधैर्द्वारैरवतरति। कश्चित्पञ्चस्कन्धमुखेनावतरति। कश्चित् धात्वायतननिदानद्वारैः, [कश्चित्] सत्यैः एवमादिभिर्द्वारैर्निर्वाणमनुप्राप्नोति। केनेदं ज्ञायते। यथोक्तं सूत्रे-[तद्यथा] नगरस्वामी नगरे निषण्णः स्यात्। [तत्र] किञ्चित् दूतयुगमेकस्मात् द्वारादागत्योपसृत्य नगरस्वामिनो यथाभूतं वचनं निर्यात्य [यथागतमार्गं] प्रतिपद्येत। तथा [अन्यदूतयुगमन्येभ्यो] द्वारेभ्योऽपि। तत्र नगरस्वाम्युपमो योगी। द्वाराणीति स्कन्धधात्वायतनादीनां भावनाया अधिवचनम्। दूतयुगं शमथविपश्यनोपमम्। यथाभूतं वचनं निर्वाणस्याधिवचनम्। इति। दूता नानाद्वारेभ्य आगता अपि एकमेव स्थानमुपसर्पन्ति। एवं स्कन्धधात्वायतनादीनां भावना नानाद्वाराण्युपाया निर्वाणेऽवतरणस्य। यथा राहुल एकान्ते निषण्णो धर्मं चिन्तयन् एवं प्रजानाति-ईदृशो धर्म परिकीर्तितं निर्वाणं प्रति अनुप्रयातीति।

किञ्च भगवान् धर्मस्यानिशंसायामाह-धर्मोऽयं सर्वान् क्लेशाग्नीन निरोधयतीति निरोध इत्युच्यते। योगिनश्चित्तं प्रशमयतीति प्रशमः। योगिनः सम्यक् परिज्ञानं पराययतीति परायणम्। इत्यादयोऽर्था निर्वाणस्यानिशंसाः। ब्रह्मचर्यमष्टाङ्गमार्ग उच्यते। अष्टाङ्गमार्गे च सम्यग्ज्ञानमेवोक्तम्। अस्य सम्यग्ज्ञानस्यैव फलं यदुच्यते निर्वाणमिति। भगवतोप्रदिष्टं शासनं सर्वं निर्वाणाय भवति। अतो ज्ञायते पञ्चस्कन्धादयो द्वाराणि निर्वाणपरायणानि भवन्ति।

(पृ) केचिदाभिधर्मिका आहुः-जरामरणज्ञानं दुःखज्ञानमिति। कथमिदम्। (उ) न [युक्तम्]। कस्मात्। न तत्रोच्यते दुःखाकारः। अतो न[तत्] दुःखज्ञानम्। (पृ) इदं कस्य ज्ञानं भवति। (उ) तत् जरामरणस्वभावज्ञानम्। (पृ) उच्यते च जरामरणसमुदयः जरामरणनिरोधो जरामरणनिरोधमार्ग इत्यादि। अतो ज्ञायते इदं दुःखज्ञानमेव स्यादिति। (उ) तत् निदानद्वारं भवति, न सत्यद्वारम्। अतो न तस्य दुःखाकारो वक्तव्यः। [एवं] समुदयादौ वक्तव्यः। लक्षणसाम्यात्। (पृ) अत्र कुतो नोच्यते आस्वादादीनवनिस्सरणादीनां ज्ञानानि। (उ) सर्वाणीमानि अत्र परिगृहीतानि। किन्तु सङ्गीतिकारः संक्षिपन् न [विस्तरश] उवाच॥

चतुश्चत्वारिंशज्ज्ञानवर्ग एकोत्तरद्विशततमः।

२०२ सप्तसप्ततिज्ञानवर्गः

(पृ) सूत्र उक्तम्-सप्तसप्ततिज्ञानानि यदुत जातिप्रत्ययं जरामरणमिति [ज्ञानम्]। असत्यां जातौ नास्ति जरामरणमिति[ज्ञानम्]। एवमतीतेऽनागतेऽध्वन्यपि। यदस्य धर्मस्थितिज्ञानम्। [तदपि] अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नं क्षयधर्म, विपरिणामधर्म, वियोगधर्म, व्ययधर्म इति ज्ञानम्। यावदविद्याप्रत्ययाः संस्कारा इत्यप्येवम् इति। तत्र कस्मान्नोक्तं-जरामरणस्य स्वभावो निरोधो मार्ग इत्यादि। (उ) हितज्ञस्य कृत एवमुक्तं तस्य द्वारत्वमात्रमविष्करोति। अन्यदप्येवं ज्ञेयम्।

तीर्थिका बहवो निदाने भ्रान्ता वदन्ति-लौकिकानां पदार्थानां हेतुर्लोकात्मक इत्यादि। अतो भगवान् तेषां निदानमात्रमाह। (पृ) जातिप्रत्ययं जरामरणमित्युक्त्‌वा कस्मात्पुनराह-असत्यां [जाता]विति। (उ) नियमार्थम्। यथा दानं पुण्यस्य हेतुः। शीलेनापि पुण्यं विन्दते। यथोक्तम्-धृतशीलो देवेषूत्पद्यत इति। केचिन्मन्यन्ते-जरा-मरणप्रत्यया जातिरिति। केचिदहेतुका जातिरिति। अतो नियम उच्यते। (पृ) कस्मादतीतेऽनागतेऽध्वनि पुनर्नियम उच्यते। (उ) प्रत्युत्पन्नमतीताध्वनः कदाचिद्भिन्नधर्म भवति यदुतातीतानां सत्त्वानामायुरप्रमाणं प्रभावश्च देवतुल्य इत्येवमादि। आयुरादि भिन्नं जरामरणप्रत्ययोऽपि भिन्नो भवेदिति जना वदेयुरिति भीत्या नियम उच्यते। अनागतेऽप्येवं [वक्तव्यम्]।

इदं षड्विधं धर्मस्थितिज्ञानम्। अन्यन्नाम निर्वाणज्ञानम्। जरामरणसन्तानकरत्वादुच्यते-अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नम्। क्षयधर्म विपरिणामधर्म इत्यनित्याकारः। वियोगधर्म इति दुःखाकारः। व्ययधर्म इति अनात्मशून्याकारः।

कस्मात् तत्र रूपस्य स्वरूपं निरोधः वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य च स्वरूपं निरोधः। अयं त्रिविधविपश्यनानामर्थ इत्याख्यायते। यथोक्तं सूत्रे-यो भिक्षवः सप्तभिः स्थानोपायैः त्रिभिर्विपश्यनार्थैश्च समन्वितः स क्षिप्रमास्रवाणां क्षयमनुप्राप्नोति। इदमेव निर्वाणज्ञानं भवतीति। इत्यादि निदानज्ञानानि अप्रमाणशतसहस्राणि सन्ति यदुत चक्षुर्विज्ञानमित्यादि। यथोक्तं सूत्रे-चक्षुष कर्म प्रत्ययः। कर्मणः तृष्णा प्रत्ययः। तृष्णाया अविद्या प्रत्ययः। अविद्याया अयोनिशोमनस्कारः प्रत्ययः। अयोनिशोमनस्कारस्य चक्षूरूपं प्रत्ययः। आस्रवाणामयोनिशो मननं प्रत्ययः। आहाराणां तृष्णा प्रत्ययः। पञ्चकामगुणानां कबलीकाराहारादयः प्रत्ययाः। नरकस्याल्पायुषश्च प्राणातिपातादयः प्रत्ययाः। यदिदानीन्तनं दुःखं पूर्वतनीनञ्च दुःखं, सर्वस्याभूतसंज्ञा प्रत्ययः। अभूतसंज्ञायाः कायचित्तयोः प्रियाप्रिये प्रत्ययः। प्रियाप्रिययोः कामरागः प्रत्ययः। कामरागस्य मिथ्यावितर्कः प्रत्ययः इत्येवमादिप्रत्ययानां ज्ञानमप्रमाणमनवधि स्वयमेवोन्नेतव्यम्॥

सप्तसप्ततिज्ञानवर्गो द्व्‍युत्तरशततमः।

[मार्गसत्यस्कन्धः समाप्तः]
शास्त्रं समाप्तम्
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project