Digital Sanskrit Buddhist Canon

4 अथ निरोधसत्यस्कन्धः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

4 atha nirodhasatyaskandhaḥ

अथ निरोधसत्यस्कन्धः
१४१ निरोधसत्यस्कन्धे आद्यः
प्रज्ञप्तिस्थापनवर्गः

शास्त्रमाह-त्रिविधचित्तानां निरोधो निरोधसत्यं यदुत प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तम्। (पृ) कथमेषां त्रयाणां चित्तानां निरोधः। (उ) प्रज्ञप्तिचित्तं बहुश्रुतप्रत्ययज्ञानेन वा निरुध्यते। चिन्तनाप्रत्ययज्ञानेन वा निरुध्यते। धर्मचित्तमूष्मगतादिधर्मेषु शून्यताबुद्धया निरुध्यते। शून्यताचित्तं निरोधसमापत्त्यवतरणेन निरुध्यते। यदि वाऽनुपधिशेषनिर्वाणेऽवतरतः सन्तानसमुच्छेदे निरुध्यते।

(पृ) कतमा प्रज्ञप्तिः। (उ) स्कन्धानुपादाय ये विकल्पा तद्यथा पञ्चस्कन्धानुपादाय पुरुष इत्युच्यते। रूपरसगन्धस्पर्शानुपादाय घट इत्युच्यते इत्यादि। (पृ) कस्मादियं प्रज्ञप्तिः। (उ) सूत्रे भगवानाह-

यथाह्यङ्गसम्भाराद्भवति शब्दो रथेति च।
एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः॥ इति।

यथा च भगवान् भिक्षूनवोचत्-धर्मा अनित्या दुःखाः शून्या अनात्मानः प्रतीत्यसमुत्पन्ना अनियतस्वभावा नाममात्रमनुस्मरणमात्रं भोगमात्रम्। इमानेव पञ्चस्कन्धानुपादाय नाना नाम प्रवर्तते सत्त्वो मनुष्यो देव इत्यादि इति। सूत्रेऽस्मिन् वस्तुसतो धर्मस्य प्रतिषेधादुच्यते नाममात्रमिति।

किञ्चाह भगवान्-द्वे सत्ये परमार्थसत्यं संवृतिसत्यमिति। परमार्थसत्यं यदुत रूपादयो धर्मा निर्वाणञ्च। संवृतिसत्यं यत् प्रज्ञप्तिमात्रं निःस्वभावम्। यथा रूपादिप्रत्ययो घटः सिध्यति। तथा पञ्चस्कन्धप्रत्ययः पुरुषः सिध्यति। (पृ) यदि परमार्थतो नास्तीदम्। लोकसत्यस्य क उपयोगः। (उ) लौकिकाः सत्त्वा लोकसत्यमुपादायोपयोजयन्ति। केनेदं ज्ञायते। यथा चित्रितोऽग्निरित्युक्तौ जनाः श्रद्दधन्ते। बुद्धा भगवन्तो लौकिकानां प्रज्ञप्तितो वियोजनाय लोकसत्येन व्यवहरन्ति। यथोक्तं सूत्रे-नाहं [भिक्षवो] लोकेन विवदामि। लोकश्च मया विवदति। न [भिक्षवः] धर्मवादी [केनचिल्लोके] विवदति। इति।

पुरा किल जना वस्तूपभोगकामनया वहुवस्तुनामुत्पत्तिकाले घट इत्यादि नाम स्थापयाञ्चक्रुः। सद्धर्मे सति नोपयोगो लभ्येत। अतो लोकसत्यमित्युच्यते। सत्यद्वय उक्ते भगवतः शासनं सुविशुद्धम्। परमार्थतस्तु विद्वान् न विशिष्यते। लोकसत्यतो बालैर्न विवदन्ते। सत्यद्वयं वदन् न शाश्वतोच्छेद [दृष्टौ] पतति। न पतति मिथ्यादृष्टौ सुखान्ते दुःखान्ते च। कर्मविपाकादि सर्वं सिध्येत्। लोकसत्यं बुद्धानां शासनविनयमूलम्। यदुत दानशीलयोर्विपाकः सुस्थान उपपत्तिः। अनेन धर्मेण तच्चित्तं दमयित्वा मार्गशासनं ग्राहयित्वा पश्चात्परमार्थसत्यमुपदिशति। एवं जिनशानमादावगाधगभीरम्-तद्यथा महासमुद्रः क्रमशो गभीरः। अतो लोकसत्यं वदन्ति। यो मार्गस्य लाभज्ञानं साधयति [स] परमार्थधर्मोपदेशार्हो भवति। यथा भगवत एवं चेतः परिवितर्क उदभुत्-परिपव्काः खलु राहुलस्य [भिक्षोः] विमुक्तिपरिपचनीया धर्माः यन्नूनमहं राहुलं उत्तर आस्रवानां क्षये विनयेयमिति। तद्यथा घ्राणपाकः तद्विनाशे सुखं जनने दुर्भेदनम्। एवं लोकसत्येन चित्तं दमयित्वाऽथ परमार्थज्ञानेन विनाशयति। उक्तञ्च सूत्रे-धर्माणां प्रविचयपूर्वकं निर्वाणं परिज्ञातव्यमिति। योगी पूर्वं धर्माः [किं] प्रज्ञप्तिसन्तः [किं वा] परमार्थसन्त इति ज्ञात्वा पश्चान्निरोधसत्यं साक्षात्करोति। क्लेशाः स्थूलसूक्ष्मक्रमेण निरुध्यन्ते। यथा केशरोमादिनिमित्तेन स्त्रीपुरुषादिनिमित्तं निरुध्यते। रूपादिनिनिमित्तेन केशरोमादिनिमित्तं निरुध्यते। अथ शून्यतादिनिमित्तेन रूपादिनिमित्तं निरुध्यते। यथा कीलेन किलोऽपनीयते। अतो लोकसत्यमुच्यते।

लोकसत्येन मध्यमा प्रतिपत्साध्यते। कस्मात्। पञ्चस्कन्धाः सन्तानेन प्रवर्तन्त इति नोच्छेदः। क्षणिका इति न शाश्वतः। शाश्वतोच्छेदविनिर्मुक्त इति मध्यमा प्रतिपत्। यथोक्तं सूत्रे-लोकसमुदयं पश्यतः नास्तीति दृष्टिर्न भवति। लोकनिरोधं पश्यतः अस्तीति दृष्टिर्न भवति इति। अत उच्यते लोकसत्यम्। लोकसत्यतो भगवतः शासनं सर्वं सत्यमेव यदुत अस्त्यात्मा नास्त्यात्मा इत्यादि पर्यायाः। लोकसत्यतोऽस्त्यात्मेति वदतो नास्त्यवद्यम्। परमार्थतो नास्त्यात्मेति वदतश्च सत्यम्।

लोकसत्येन प्रतिदूषणं स्थाप्यते। परमार्थतस्तु प्रतिवचनम्। अस्ति वस्तुतः सत्त्व इति या दृष्टिः अयं महामोहः। नास्तीति यद्वचनं तदपि मोहतमसि पातयसि। कस्मात्। इयं भावाभावदृष्टिः शाश्वतोच्छेदात्मिका। येन योगिनो भावान्तान्निर्गम्य अभावान्ते पतन्ति। लोकसत्येऽसति केन निर्गमं लभेरन्। यदप्रतिलब्धशून्यताप्रज्ञो वदति नास्ति सत्त्व इति। इयं मिथ्यादृष्टिः। जननमरणवेदकः सत्त्वो नास्तीति वचनं हि मिथ्यादृष्टिः। यदि शून्यताबुद्धिप्रतिलाभी वदति नास्ति सत्त्व इति। न तदा दोषः। यथोक्तं सूत्रे-अर्हन्ती भिक्षुणी पापीयांसं मारमवोचत्-



किं नु सत्त्व इति प्रत्येषि मारदृष्टिगतं नु ते।
शुद्धसंस्कारपुञ्जोऽयं नेह सत्त्व उपलभ्यते॥ इति।

किञ्चाह-
कायोऽयं स्कन्धसन्तानः शून्यश्चाप्यकिञ्चनः।
मायावत् निर्मितवच्चापि प्राकृतानामक्षिमोहनः॥
शल्यवद्गण्डवच्चापि सपत्नोऽमित्रहारकः।
दुःखं शून्यो निरात्मा च जातिव्ययविनाशनः॥ इति।

(पृ) सर्वस्यापि नास्ति यत्किञ्चन चित्तम्। कस्मात् केषाञ्चिन्मिथ्यादृष्टिरित्युच्यते केषाञ्चित्परमार्थदृष्टिरिति। (उ) यस्य पुरुषस्य शून्यतातत्त्वज्ञानं नोत्पन्नं तस्यास्त्यात्मेति मतिर्भवति। अतो नास्त्यात्मेति श्रुत्वैव सन्त्रासमुत्पादयति। यथाह भगवान्-ये बालाः पृथग्जनाः शून्यो नास्त्यात्मा, न पुनः करोति इति श्रुतवन्तः ते महाभीता भवन्ति। इति। अतो ज्ञायते अप्रतिलब्धशून्यताज्ञानः अस्त्यात्मेति मत्या निर्वाणाद्बिभेति। तदा मिथ्यादृष्टिर्भवति। प्रतिलब्धशुन्यताज्ञानस्तु नास्ति मूलत आगतिरिति प्रजानाति। तदा नास्ति किञ्चन भयमिति। अप्रतिलब्धशून्यतातत्त्वो नास्ति किञ्चनेतिदृ ष्ट्या दुर्गतौ पतति यदुतोच्छेददृष्टि[रूप]मिथ्यादृष्टिः। योऽयं लोकसत्यतोऽस्त्यात्मेति प्रज्ञाय अस्ति कर्मफलमिति श्रद्दधानः पश्चात् संस्कारा अनित्या उत्पत्तिनिरोधलक्षणा इति भावयित्वा निरोधं साक्षात्करोति। [तस्य] आत्मबुद्ध्यभावे कामचित्तं निरुध्यते। स यदि नास्ति किञ्चनेति वचनं शृणोति। तदा नास्ति कश्चन दोषः। अत उच्यते लोकसत्यम्।

केचित्तीर्थिका अपवदन्ति श्रमणो गौतमः परमार्थत आत्मानं दूषयतीति। अतो भगवानाह- लोकसत्यतो वदामि अस्ति सत्त्व इति। सम्यग्दृष्टिं प्रकाशयन् वदामि सन्ति सत्त्वाः सन्धावन्तः संसरन्त इति। इयं सम्यग्दृष्टिरिति वदामि। पृथग्जन मिथ्यामनस्कारान्निःसत्त्वे वस्तुसदिति वचनं, तन्मिथ्यामनस्कारस्य दूषणम्। न सत्त्वस्य दूषणम्। यथा घटादयः प्रज्ञप्त्योच्यन्ते। तत्र न रूपादयो घटाः। न रूपादिव्यतिरिक्तो घटः। एवं न रूपादयः स्कन्धाः सत्त्वः। नापि रूपादिव्यतिरिक्तः सत्त्वः। यथा रूपादीनुपादाय प्रज्ञप्तिमतिक्रामति। एवं निरोधलक्षणेन रूपादीनतिक्रामति। दृष्टान्तेनार्थः सुविभज्यते। यथा चित्रितः प्रदीपः प्रदीप इत्युक्तोऽपि न प्रदिपवृत्तिको भवति। एवं घटोऽस्तीति कथितोऽपि न वस्तुसन् भवति। सन्ति पञ्चस्कन्धा इत्युक्ता अपि न परमार्थाः॥

प्रज्ञप्तिस्थापनवर्ग एकचत्वारिंशदुत्तरशततमः।

१४२ प्रज्ञप्तिलक्षणवर्गः

(पृ) कथं घटादयः प्रज्ञप्तितः सन्ति न वस्तुतः। (उ) (१) प्रज्ञप्तौ निमित्तप्रदर्शनमस्ति न परमार्थे। यथा वदन्ति इदं रूपं इदं घटरूपमिति। न वक्तुं शक्यत [इदं] रूपरूपमिति। नापि वक्तुं शक्यत इदं वेदनादिरूपमिति। (२) प्रदीपो रूपसहगमात् प्रज्वलतीति [वदन्ति] स्पर्शसहगमात्प्रदहतीति। परमार्थधर्मस्तु नैवं दृश्यते। कस्मात्। विज्ञानं नान्यसहगमाद्विजानातीति। वेदनाऽपि नान्यसहगमाद्वेदयत इति। अतो ज्ञायते सहभावः प्रज्ञप्तिसन्निति। (३) अन्यधर्ममुपादाय प्रज्ञप्तिसन् सिध्यति। यथा रूपादीनुपादाय घटः। परमार्थधर्मस्तु नान्यधर्ममुपादाय सिध्यति। कस्मात्। यथा वेदना नान्यधर्ममुपादाय सिध्यति। (४) प्रज्ञप्तिश्च नानाधर्मवती। यथा प्रदीपः प्रकाशते प्रदहति च। नैवं दृश्यते परमार्थधर्मः। कस्मात्। यथा वेदना न वेदयते विजानाति च। (५) रथशब्दो रथाङ्गादिषु भवति। रूपादिशब्दस्तु न पदार्थे वर्तत। इत्येवं विभागः। रथाङ्गादयो रथसाधनाः प्रत्ययाः। न तत्रास्ति रथशब्दः। तथा च रथकारणे नास्ति रथधर्मः। तदुपादाय तु रथः सिध्यति। अतो ज्ञायते रथः प्रज्ञप्तिरिति। (६) रूपादिशब्देनोक्ता रूपादयो लभ्यन्ते। घटादिशब्देनोक्ता घटादयस्तु न लभ्यन्ते। अतो ज्ञायते घटादयः प्रज्ञप्तय इति। (७) प्रज्ञप्तौ चित्तं विक्षिपति, न समादधाति। यथा कश्चिदश्वं दृष्ट्‍वा वदति-अश्वं पश्यामीति। कश्चिदश्वकायं पश्यामीति। कश्चिच्चर्म पश्यामीति। कश्चिद्रोमाणि वा पश्यामीति। कश्चिद्वदति वीणाशब्दं शृणोमीति। कश्चित् तन्त्रीनादं शृणोमीति। कश्चिद्वदति कुसुमं जिघ्रामीति। कश्चित्कुसुमगन्धं जिघ्रामीति। कश्चिद्वदति सुरां पिबामीति। कश्चित्सुरारसं पिबामीति। कश्चिद्वदति पुरुषं स्पृशामीति, कश्चित् पुरुषकायं स्पृशामीति, कश्चित् पुरुषभुजं स्पृशामिति, कश्चित् पुरुषहस्तं स्पृशामीति, कश्चित् पुरुषस्याङ्‍गुलिं स्पृशामीति, कश्चित् पुरुषस्याङ्‍गुलिपर्व स्पृशामिति। मनोविज्ञानमपि सत्त्वादौ विक्षिपति यदुत कायः सत्त्वः चित्तं सत्त्व इति। एवं रूपादय एव घट अथवा रूपादिव्यतिरिक्तो घट इत्यादि। परमार्थवचने तु चित्तं समादधाति न विक्षिपति। रूपं पश्यामीति [वत्] शब्दमपि पश्यामीति न वक्तुं शक्यते।

(८) ज्ञेयादौ [सर्व]मव्यपदेश्यमपि अस्तीत्युच्यते। [यत् व्यपदिश्यते] इयं प्रज्ञप्तिः यथा घटादयः। अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति। कस्मात्। रूपादयो धर्मा ज्ञेयादावनभिधेया इति न व्यपदिश्यन्ते। यथा रूपादयः स्वलक्षणेन व्यवदेश्याः। न घटादयः स्वलक्षणेन व्यपदिश्यन्ते। अत इमे प्रज्ञप्तिसन्त इति ज्ञायते। (९) केचित् अस्तीति प्रज्ञप्तिलक्षणं वदन्ति। इदं लक्षणमन्यत्र वर्तते न प्रज्ञप्तौ। यथोक्तं सूत्रे-कर्म विदुषोऽविदुषश्च लक्षणमिति। यः कायवाङ्मनोभिः कुशलं करोति स विद्वान्। यः कायवाङ्मनोभिरकुशलं कर्म करोति सोऽविद्वान्। कायवाक्कर्म चत्वारि महाभूतान्युपादाय तिष्ठति। मानसं कर्म चित्तमाश्रयते। इमानि त्रीणि कथं विदुषोऽविदुषश्च लक्षणम्। अतो ज्ञायते नास्ति प्रज्ञप्तेः स्वलक्षणम्। (१०) प्रज्ञप्तिलक्षणमन्यत्र वर्तमानमपि न पुनरेकम्। यथोक्तम्-शल्यविद्ध इव रूप्यते इति। रूप्यत इति रूपलक्षणम्। वेदयत इति वेदनालक्षणे पुरुष उच्यते। यथाह भगवान्-विद्वान् मूढश्च सर्वः सुखं दुःखं वेदयते। विद्वान् सुखे दुःखे न काममुत्पादयति। बह्वादिनिमित्तोद्ग्रहणं संज्ञालक्षणमित्यपि पुरुष एवोच्यते। यथाह-प्रभामहं पश्यामि रूपमहं पश्यामीति। [संस्कृत]मभिसंस्करोतीति संस्कारलक्षणेऽपि पुरुष एवोच्यते। यथाह-अयं पुरुषपुद्गलः पुण्योपगं संस्कारमभिसंस्करोति। अपुण्योपगं संस्कारमभिसंस्करोति। आनेञ्ज्योपगं संस्कारमभिसंस्करोतीति। विजानातीति विज्ञानलक्षणेऽपि पुरुष एवोच्यते। यथाह-[क्षिप्रं] धर्मं विजानाति विज्ञो जिह्वा सूपरसं यथा। इति। अतो यदन्यत्रगतमुक्तमपि बहुलक्षणमुच्यते। इदं प्रज्ञप्तिलक्षणम्। रूपादि[स्व] लक्षणं नान्यत्रगतं नापि बहुलक्षणम्।

(११) यो धर्मः सर्वेषामनुशयकरः स प्रज्ञप्तिसन्। परमार्थधर्मस्तु नानुशयकरः। अनुशया हि पुरुषं कुर्वन्ति। (१२) प्रज्ञप्तौ च न ज्ञानोत्पादो भवति। पुरोवर्तिरूपादिषु ज्ञानोत्पादो भवति। तदुत्तरं मनोविज्ञानेन विकल्पयति घटमहं पश्यामीत्यादि। घटस्य ज्ञानमवश्यं रूपाद्यपेक्षम्। कस्मात्। रूपरसगन्धस्पर्शानुपादाय हि अयं घट इति व्यवहारः। परमार्थज्ञानन्तु न यत्किञ्चिदपेक्ष्य भवति।

(१३) प्रज्ञप्तौ च भवति संशयः यथा स्थाणुर्वा पुरुषो वा इति। रूपादिषु तु न संशयो भवति रूपं वा किं वा शब्द इति। (पृ) रूपादावपि संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति। (उ) नेदं युक्तम्। रूपं पश्यन् नैव संशेते अयं शब्द इति। अन्यस्मात् कारणात् संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति। यथा रूपं शून्यमिति श्रुत्वा पुना रूपं पश्यन् संशेते किमस्ति किं वा नास्तीति। निरोधसत्यं पश्यतोऽयं संशयः प्रहीयते। (पृ) निरोधसत्येऽपि संशयो भवति किमस्ति निरोधः किं वा नास्ति निरोध इति। (उ) अभिनिविष्टेषु संशयो भवति न तु निरोधसत्ये। अस्ति निरोध इति मतं नास्ति निरोध इति मतञ्च यः शृणोति तस्य भवति संशयः किमस्ति किं वा नास्तीति। स तदा न निरोधसत्यं पश्यति। कस्मात्। निरोधसत्यं पश्यतो न पुनः संशयो भवति। अतो ज्ञायते संशयोत्पादस्थले प्रज्ञप्तिरस्ति।

(१४) एकस्मिन् वस्तुनि बहुविज्ञप्त्युत्पत्तिलाभे प्रज्ञप्तिरस्ति। यथा घटादौ। परमार्थधर्मे तु न तथा। कस्मात्। रूपादौ न भवन्ति श्रोत्रादिविज्ञप्तयः। (१५) बह्वायतनसङ्‍गृहीतं प्रज्ञप्तिसत्। यथा घटादयः। अतः केचिद्वदन्ति प्रज्ञप्तिसत् चतुर्महाभूतसङ्‍गृहीतम्। परमार्थधर्मस्तु न बह्वायतनसङ्‍ग्रहं लभते। (१६) यत् निःस्वभावं सत् क्रियासमर्थं भवति। इदं प्रज्ञप्तिसत्। यथा पुरुषः करोतीति। पुरुषस्वभावः कर्मस्वभावश्च न परमार्थ उपलभ्यते। स्नेहद्वेषादिविकल्पो यः कश्चन स सर्वः प्रज्ञप्तिसन्। न परमार्थसन्। कस्मात्। रूपादिधर्माणां साक्षाद्दर्शने न स्नेहद्वेषादिसंज्ञोत्पद्यते। (१७) गम्यते आगम्यत इत्यादि, उच्छिद्यते विनश्यति इत्यादि, दाह्यते प्रदाह्यते इत्यादि या काचन क्रिया सर्वा सा प्रज्ञप्तिसती। न परमार्थसती। कस्मात्। परमार्थधर्मास्यादाह्यत्वात्। अविनाश्यत्वात्। पुण्यपापादिकर्म सर्वं प्रज्ञप्तिसत्। कस्मात्। प्राणातिपातादि पापं प्राणातिपातविरत्यादि पुण्यं सर्वं न परमार्थसत्। (१८) प्रज्ञप्तिसदापेक्षिकम्-यथा इदं, तत्, गुरु लघु, दीर्घं ह्रस्वं, महदल्पं, आचार्यः अन्तेवासी, पिता पुत्रः आर्य अनार्य इत्यादि। परमार्थस्तु नापेक्षिकः। कस्मात्। रूपं नान्यपदार्थमपेक्ष्य शब्दादीन् साधयतीति। न शून्यतया प्रज्ञप्तिखण्डनं प्रज्ञप्तिसत्। यथा वृक्षान् निश्रित्य वनं खण्ड्यते। मूलकाण्डं निश्रित्य वृक्षः खण्डयते। रूपादि निश्रित्य मूलकाण्डं खण्ड्यते। तथा शून्यतया यत् खण्डनं तत्तु परमार्थसत्। यथा रूपादि शून्यतया खण्ड्यते।

(१९) शून्यताचार्यायतनानुवर्तनं प्रज्ञप्तिसत्। नैरात्म्यचर्यायतनानुवर्तनन्तु परमार्थसत्। (२०) सन्ति चत्वारो वादाः- एकत्वं, नानात्वं, अनिर्वचनीयत्वं, अभाव इति। एते चत्वारो वादाः सावद्याः। अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति।

एकत्वम्-रूपरसगन्धस्पर्शा एव घट इति। नानात्वम् रूपादीन् विहायान्योऽस्ति घट इति। अनिर्वचनीयत्वम्-रूपादय एव वा घटः किं वा तद्वयतिरिक्तो घट इति न निर्वक्तुं शक्यते। अभावः-नास्त्ययं घट इति। इमे चत्वारो वादा अयुक्ताः। अतो ज्ञायते घटः प्रज्ञप्तिरिति।

प्रज्ञप्तिलक्षणवर्गो द्विचत्वारिंशदुत्तरशततमः।

१४३ एकत्वखण्डनवर्गः

(पृ) एषामेकत्वादीनां चतुर्णां वादानां के दोषाः। (उ) एकत्ववादे दोषो यदुत रूपादीनां धर्माणां लक्षणं प्रत्येकं विभक्तम्। यदि घट एकः, तदा न सम्भवति। रूपादीनि नैकैकं पृथिवीधातुरित्युच्यन्ते। तत्समवायः कथं पृथिवी भवेत्। कस्मात्। यद्येकैकोऽश्वो न गौर्भवति। तत्समवायः कथं गौर्भवेत्। (पृ) यथा एकैकं तिलं न कलापं साधयति। तत्समवायस्तु साधयति। एवं रूपादीन्येकैकं न पृथिवीं साधयन्ति। तत्समवायस्तु साधयति। (उ) न युज्यते। कस्मात्। तिलकलापः प्रज्ञप्तिसन्। एकत्वादि तु परमार्थधर्मे विचार्यते। इति कथं दृष्टान्तः स्यात्।

रूपरसगन्धस्पर्शाश्चत्वारो धर्माः। पृथिवी तु एकधर्मः। न चत्वार एकः स्यात्। यदि चत्वार एकः। एकोऽपि चत्वारः स्यात्। तत्तु न सम्भवति। अतो ज्ञायते रूपादय एव न पृथिवीति। लौकिका वदन्ति-पृथिवीरूपं पृथिवीगन्धः पृथिवीरसः पृथिवीस्पर्शं इति। न पश्यामो रूपरूपमिति वदन्तं यं कञ्चन। अन्यधर्मलक्षणेनावश्यं प्रदर्श्यते-यथा अमुकस्य पुरुषस्य कुटीति। (पृ) इदं नान्यधर्मलक्षणेन प्रदर्शनं, स्वधर्मेणैव स्वात्मप्रदर्शनम्। यथा शिलापुरुषस्य हस्तपादमिति। कस्मात्। न हि हस्तपादव्यतिरिक्तः शिलापुरुषोऽस्ति। एवं रूपादिव्यतिरिक्ता पृथिवी यद्यपि नास्ति। तथापि स्वात्मरूपेणैव स्वात्मप्रदर्शनं [इति वदतः] को दोषः। (उ) यद्युच्यते पृथिवी रूपादिना स्वात्मानमेव प्रदर्शयतीति नायं न्यायो भवति। शीलापुरुषदृष्टान्तो यद्यपि भवतोक्तः। स दृष्टान्तस्तु न युक्तः। कस्मात्। शिलापुरुषस्य हस्त इति प्रदर्शने तदन्यः कायः शिलापुरुष इति स्यात्। शून्यतायामपि च अस्तीत्यभिधीयते। यथा वदन्ति शिलापुरुषस्य काय इति। तस्मिन् समये शिलापुरुष एव न पुनस्तदन्योऽस्तीत्युच्यते। यथा भगवानाह-सन्त्यस्मिन् काये केशा रोमाणि रक्तं मांसं इत्यादि। तानि केशादीनि विहाय नास्त्यन्यः कायः। केशादीनां निश्रयस्थानमिदं पृथगसदपि [अस्तीति] अभिधीयते। अतो ज्ञायते शिलापुरुष इति वचनमपि मृषावचनम्, इति। यदि शिलापुरुषदृष्टान्तेन पृथिवीं साधयसि। तथाऽपि नास्ति पृथिवी। भवतां सूत्रे उक्तं-रूपरसगन्धस्पर्शवती पृथिवीति। इयं पृथिव्येव नास्ति कायवत्। अतो ज्ञायते रूपरसगन्धस्पर्शा एव, नैवास्तीयं पृथिवीति।

गुणानाञ्च न लक्षणं प्रदर्शयितुं शक्यते। रूपं गन्धवदिति न वक्तुं शक्यते। रूपरसगन्धस्पर्शवती पृथिवी इति तु वक्तुं शक्यते। अतो नैकत्वमिति। रूपादिबुद्धिः पृथिवीबुद्धिश्च पृथक्। अतो ज्ञायते रूपादीनि न पृथिवीति। अन्यद्रूपादीनां नाम अन्यत् पृथिव्या नाम। (पृ) बुद्धिभेदो नामभेदश्च सर्वः संयोगे भेदवान्। (उ) यदि बुद्धिर्नामसंयोगमात्रेणास्ति। [तदा] संयोगो नाममात्रं भवेत्। तथा च पृथिवी नाममात्रमस्ति। इति नास्त्येकत्ववादः।

पृथिवी स सर्वेन्द्रियज्ञेया भवति। केनेदं ज्ञायते। पुरुष एवं चिन्तयति-पृथिवीं पश्यामि, पृथिवीं रसयामि, पृथिवीं स्पृशामि इति। यदि रूपरसगन्धस्पर्शाः पृथिवी। न स्यात् रूपमात्रे पृथिवीं पश्यामीति पृथिवीसंज्ञा। गन्धादावप्येवम्। वस्तुतस्तु न रूपमात्रे पृथिवी ज्ञायते। अतो ज्ञायते न रूपादीन्येव पृथिवीति। प्रज्ञप्तिसंज्ञाकारणे एकस्मिन्नवयवे च प्रज्ञप्तिसंज्ञाऽभिधीयते। यथा कश्चिद् वृक्षशाखां छिन्दन् वदति-वृक्षं छिन्दामि, वनं छिन्दामीति च। गुणानां सीमानि द्रव्याणि अन्यानि। तत्र यद्यस्ति कारणम्। नानेन सिध्यति एकत्ववादः।

सांख्याः पुनराहुः-पञ्च गुणाः पृथिवीति। तदप्ययुक्तम्। कस्मात्। यथा पूर्वमुक्तं-शब्दो रूपादिव्यतिरिक्तः क्षणिकः सन्तानप्रवृत्तः। न चतुर्महाभूतसाधनहेतुरिति। अतो ज्ञायते न सर्वाणि भौतिकानि शब्दवन्तीति॥

एकत्वखण्डनवर्गस्त्रिचत्वारिंशदुत्तरशततमः।

१४४ नानात्वखण्डनवर्गः

(पृ) नानात्ववादे के दोषाः। (उ) रूपादीन् विहाय नास्ति पृथिवी। कस्मात्। केन तत् ज्ञायते। न हि रूपरसगन्धस्पर्शान् विहाय पृथिवीबुद्धिरुत्पद्यते। रूपादिधर्मेष्वेवोत्पद्यते। कस्मात्। यथा अन्यत् रूपं अन्ये शब्दादयः। न च शब्दादीनपेक्ष्य रूपबुद्धिरुत्पद्यते। यदि रूपादिव्यतिरिक्ता पृथिवी। रूपादीन्यनपेक्ष्यापि पृथिवीबुद्धिः स्यात्। न वस्तुतस्तान्यनपेक्ष्य भवति। अतो नास्ति पृथिवी पृथक्। (पृ) नान्यधर्ममनपेक्ष्य भवति। अवश्यं रूपलक्षणमपेक्ष्य रूपबुद्धिर्भवति। (उ) सामान्यलक्षणखण्डनवर्गे वक्ष्यते। न रूपव्यतिरिक्तं रूपलक्षणं पृथगस्तीति। अतो न युज्यते।

पृथिव्यादिपृथग्धर्मस्य नेन्द्रियं ज्ञापकम्। अतो ज्ञायते न पृथक् सन्ति पृथिव्यादयो धर्मा इति। (पृ) पृथिव्यादयो द्वीन्द्रियग्राह्या यदुत कायेन्द्रियग्राह्याश्चक्षुरिन्द्रियग्राह्याः। केन तत् ज्ञायते। चक्षुषा दृष्ट्वा जानीमोऽयं घट इति। कायेन्द्रियेण स्पृष्ट्वापि जानीमः अयं घट इति। अतो नेन्द्रियग्राह्या इति भवतो वचनमयुक्तम्। (उ) तथा चेत् घटोऽयमिन्द्रियचतुष्टयग्राह्यः स्यात्। घ्राणेनापि मृत जिघ्र्यते। रसनयापि मृत् रस्यते। (पृ) घ्राणरसनाभ्यां न गृह्णाति घटम्। कस्मात्। न ह्यन्धकारे विवेचयति घटो वा जिघ्रयते कपालं वा। घटो वा रस्यते कपालं वा इति। (उ) यद्यपि न विवेचयति किं घट उत कपालमिति। तथापि मृदि ज्ञानं भवति मृदं जिघ्रामि, मृदं रसयामीति। यदि घट उद्गतमुखं खन्यते। तदा दृष्ट्वा स्पृष्ट्वा वा न निर्धारयति किमयं घट शरावः किं वा घतशकलमिति। अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियञ्च न घटं गृह्णीयात् इति। अन्धकारे घटबुद्धिरुत्पन्नाऽपि न विवेचयति सुवर्णघटो रजतघटो वा इति। अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियमपि न घटं गृह्णीयात्। घ्राणेन्द्रियं जिह्वेन्द्रियं पुष्पफलक्षीरसुरादीन् धर्मान् गृह्णाति। चक्षुरिन्द्रियं कायेन्द्रियन्तु न गृह्णाति। यथा [चक्षुः] पुष्पादि पश्यति न विविच्य जानाति गन्धः सुरभिरसुरभिर्वा रसो मधुरोऽमधुरो वा इत्यादि। अतो यदि मतं चक्षुःकायेन्द्रियाभ्यां जानीमो द्रव्यं न घ्राणजिह्वाभ्यामिति। नेदं सम्भवति। यथा घ्राणजिह्वे द्रव्यं पृथक्‌कृत्य न विकल्पयतः। तथा चक्षुःकायेन्द्रिये अपि द्रव्यमपृथग्भूतमपि न विकल्पयतः।

पञ्चेन्द्रियेषु प्रज्ञप्तिग्राहकं ज्ञानं नास्ति। अतो ज्ञायते प्रज्ञप्तिर्न चक्षुःकायघ्राणजिह्वेन्द्रियैर्लभ्यते। षष्ठस्य त्वस्ति प्रज्ञप्तिज्ञापकं ज्ञानम्। कस्मात्। मनोविज्ञानस्य सर्वधर्मालम्बनत्वात्। चक्षुर्यदि रूपं पश्यति अरुपञ्च पश्यति। तदा शब्दादीनमपि पश्येत्। तथा चेत् श्रोत्रादीनीन्द्रियाणि नावश्यकानि स्युः। न तु सम्भवति। अतश्चक्षुःकायेन्द्रियाभ्यां न द्रव्यं गृह्यते। (पृ) रूपेण द्रव्योपलब्धौ चक्षुः पश्यति। न तु सर्वो रूपात्पृथग्भूतो धर्मो दृश्यः। (उ) रूपेण घटोपलब्धिरितीदं न युज्यते। कस्मात्। कः करोति घटरूपम्। संयोगमात्रमिदम्। अतो न रूपेण घटोपलब्धिः। यदि च दृश्यधर्मेण तदन्यधर्म उपलभ्य दृश्यो भवति। घटादिनादृश्यधर्मेण रुपोलब्धिरिति रूपमपि अदृश्यं स्यात्। घटोऽपि द्विविधः स्यात् दृश्योऽदृश्य इति। दृश्यधर्मस्यादृश्योपलब्ध्यर्थत्वात्। यद्यवश्यं रूपादिधर्मस्योपलब्धत्वात् चक्षुरादीन्द्रयग्राह्यमिति। [तदा] रूपलक्षणं चक्षुरिन्द्रियग्राह्यमिति न स्यात्। कस्मात्। भवतां सूत्रे रूपमुपादाय (=रूपहेतुकं) इन्द्रियेण रूपं दृश्यमितीदं रूपलक्षणं पुनरलक्षणं भवति। तथा तु रूपलक्षणमदृश्यमिति स्यात्। अतो न युज्यते।

यदि रूपोपलब्ध्या दृश्यमिति। [तर्हि] सर्वाणीन्द्रियाणि द्रव्यं जानीयुः। श्रोत्रेन्द्रियमपि आकाशं जानीयात् शब्दोपलम्भात्। कायेन्द्रियेण वायुं जानीयात् स्पर्शोपलम्भात्। भवतां मते तु न युज्यते। अतो नेदं धर्ममुपलम्भयति। (पृ) अन्ये धर्मा नोपलब्धिकराः। रूपमात्रमुपलब्धिकरम्। (उ) मैवम्। न तत्रास्ति विनिगमना रूपमात्रमुपलब्धिकरं नान्ये धर्मा इति। यथा भवानाह महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिरिति। एवं रूपहेतुकं रूपमुपलभ्यते। रूपलक्षणोपलम्भेन रूपं तदुत्तरमुपलभ्यम्। न रूपमात्रमुपलब्धिकरमिति। एवमुक्ते[ऽपि] न पूर्वोक्तदोषपरिहारः।

अन्यकालं रूपबुद्धिरुत्पद्यते अन्यकालञ्च घटबुद्धिः। अतो रूपात् घटोपलम्भे क उपकारः। यथा अन्धोऽभ्यस्तघटपरिमाणो विनष्टचक्षुष्कोऽपि स्पृष्ट्वा घटं जानाति। अतो न रूपमात्रं दर्शनस्य कारणम्। अन्धः कायेन्द्रियेण च वायुं जानाति। अतो न रूपमात्रोपलम्भात् ज्ञानमुत्पद्यते। भवतां सूत्रेऽप्युक्तम्-कायागतस्पृष्टः स्पर्शो न पृथिव्यप्तेजसांमिति ज्ञातव्यम्-अदृष्टलिङ्गो वायुरिति। तदप्ययुक्तम्। कस्मात्। अन्ध इमं वायुं जानन्नपि न जानाति वायुरयं किं दृश्यः किंवा अदृश्य इति। पुरुषश्चक्षुषा संख्यापरिमाणादीन् धर्मान् पश्यति। न तत्रास्ति रूपोपलब्धिः। गन्धमाघ्रायापि अगन्धधर्मे ज्ञानं लभते। रसं रसयित्वाऽपि अरसधर्मे ज्ञानं लभते। अतोऽवश्यं रूपोलम्भेन द्रव्यं तदूर्ध्व ज्ञेयमितीदमयुक्तम्।

(पृ) यदि रूपोपलम्भो दर्शनस्य न कारणम्। ये संख्यापरिमाणादयो धर्माः[ते] अदृश्यद्रव्यगताः, वायुश्च दृश्यः स्यात्। (उ) अस्मन्मते रूपं विहाय नास्त्यन्यो धर्मो दृश्यः। अतो ज्ञायते मते[ऽस्मिन्] यत्र रूपमुत्पन्नमस्ति तत्र चक्षुः पश्यति। चक्षुषा दृष्टरूपस्यैव घटसंज्ञा भवति। यस्मिन् धर्मे नास्त्युत्पन्नं रूपम्, तत्र सचक्षुष्कस्यापि नोत्पद्यतेऽन्यघटसंज्ञा। अतो रूपदि विहाय पृथगस्ति घट इतीदं न न्याय्यम्॥

नानात्वखण्डनवर्गश्चतुश्चत्वारिंशदुत्तरशततमः।

१४५ अनिर्वचनीयत्वखण्डनवर्गः

(पृ) अनिर्वचनीयत्वे के दोषाः। परमार्थधर्मो नैकत्वनानात्वाभ्यामनिर्वचनीयः। कस्मात्। न हेतुदृष्टान्तौ स्तः इदमनिर्वचनीयमिति ज्ञापयितुम्। रूपादयो धर्माः परमार्थसन्तः। अतो नानिर्वचनीयाः। धर्माः प्रत्येकं सस्वलक्षणाः। यथा रूपणलक्षणं रूपम्। न नानात्वलक्षणम्। कथमुच्यतेऽनिर्वचनीयमिति। विज्ञानविशेषाद्धर्मविशेषः। यथा चक्षुर्विज्ञानेन रूपं ज्ञायते, न शब्दादि। अतोऽस्य नानिर्वचनीयता। रूपं रूपायतनसङ्‍गृहीतं न शब्दादिसङ्‍गृहीतम्। यद्यनिर्वचनीयत्वमिच्छसि। इदं रूपमिदं रूपमिति निर्वचनीयमस्ति। रूपमिदमरूपमिदमिति अनिर्वचनीयम्। एवं शब्दादयोऽपि। धर्माणां क्रमः संख्या चास्ति। यद्यनिर्वाच्याः। तदा धर्मा असंख्याः स्युः। कस्मात्। प्रथमं द्वितीयमिति लक्षणभेदस्याभावात्। अतो ज्ञायते परमार्थतो नानिर्वाच्याः धर्माः प्रज्ञप्तावेव एकत्वनानात्वसत्वादुच्यतेऽनिर्वाच्य इति॥

अनिर्वचनीयत्वखण्डनवर्गः पञ्चचत्वारिंशदुत्तरशततमः।

१४६ अभावखण्डनवर्गः

(पृ) अभाववादे के दोषाः। (उ) अभावत्वे न पुण्यपापादीनां विपाको विमुक्त्‌यादयः सर्वे धर्माः। विद्यमानं नास्तीति ग्रहे स ग्रहोऽपि अभावः स्यात्। वक्तुः श्रोतुश्चाभावात्। अस्ति नास्तीति वादाः श्रद्धयोक्ताः प्रत्यक्षज्ञानश्रद्धया वा भवन्ति अनुमितिज्ञानश्रद्धया वा भवन्ति। सूत्रम्रन्थानुसारेण वा भवन्ति। यत्किञ्चन नास्तीति यत् वचनं तदेषु त्रिषु न भवति। सूत्रं वानुसराम इति भवतामाशयो[यः] नायं युज्यते। सूत्राशयोऽपि दुःसंवादः। कदाचिदस्तीत्याह कदाचिन्नास्तीत्याह। कथं श्रद्धां गृह्णीमः। यद्यनुमानज्ञानं श्रद्दध्यात्। अवश्यं प्रत्यक्षपूर्वकमनुमितिज्ञानं भवेत्। घटादयो धर्मा इदानीं प्रत्यक्षदृष्टाः सन्ति। ज्ञानजनकत्वात्। यो ज्ञानजनकः धर्मोऽस्ति नाभाव[रूपः]।

इदानीं घटशरावादयः सविशेषा दृश्यन्ते। यदि सर्वेऽभावाः। कः सविशेषः स्यात्। मिथ्यासंज्ञया सविशेषा इति भवतां मतम्। कस्मात् आकाशे घटादीन् न विकल्पयति। मोहात्पदार्थबुद्धिरुत्पद्यत इति भवतां मतम्। सर्वेषामभावत्वे मोहोऽप्यभावः स्यादिति केन प्रवर्तेत। सर्वे धर्मा अभावा इति भवत आशये ज्ञानमिदं किं प्रतीत्य भवति। न हि ज्ञानान्यभावप्रत्ययेनोत्पद्यन्ते। पदार्थान् जानातीति ज्ञानम्। नेदं ज्ञानमभाव इति वाच्यम्। यद्यत्यन्ताभावा इति। तदा सर्वे जना यथाभिप्रेतं यत्किञ्चन कुर्युः। किन्त्वार्या दानशीलक्षान्त्यादिकुशलकर्माभिरता अकुशलधर्मविविक्ताश्च भवन्ति। अतो ज्ञायते नाभावा इति। घटादयो धर्माः प्रत्यक्षज्ञेयाः। भवांस्त्वाह-प्रत्यक्षं सर्वमभावरूपमिति। अभावधर्मकत्वाच्च न सूत्रे श्रद्दधीत। तथा च केन कारणेनाह-सर्वमभाव इति। अतः सर्वमभाव इतीदं[न] स्पष्टं भवेत्। यदि कारणेन न प्रकाशयति [तदा] परगृहीतं प्रकृतितः सिध्येत्। परवादस्य सिद्धत्वात् भवतां धर्मो विनश्येत्। यो भावः कारणेन साध्यः न सोऽभाव इत्युच्यते॥

अभावखण्डनवर्गः षट्चत्वारिंशदुत्तरशततमः।

१४७ अभावस्थापनवर्गः

अभाववाद्याह-यद्यपि वचसा शून्यतां खण्डयसि। तथापि धर्मांः परमार्थतोऽभावाः। इन्द्रियैर्विषयाणामनुपलम्भात्। कस्मात्। न ह्यस्ति धर्माणामवयवी ग्राह्यः। अतः सर्वे धर्मा अग्राह्याः। अग्राह्यादभावा[त्मकाः]। अवयविन्यग्राह्येऽपि अवयवा ग्राह्या इति भवतो यन्मतम्। तन्न युक्तम्। नावयवेषु बुद्धिर्भवति। कस्मात्। स्थूलघटादीनां पदार्थानामेव ग्राह्यत्वात्। न चावयवा अवयविनं कुर्वन्ति। कस्मात्। अवयविनमुपादाय हि अवयवा उच्यन्ते। अवयविनोऽभावादवयवा अपि न सन्ति। द्रव्येषु गुणेषु असत्सु नावयवाः सन्ति। अतो न सन्त्यवयवाः। सूक्ष्मावयवान् पश्यतोऽवयवबुद्धिः सदा भवति न घटबुद्धिः। कस्मात्। अवयवान् नित्यं स्मरतो घटबुद्धिर्नैव भवेत्। यद्यवयवस्मरणपूर्वकं घटबुद्धिर्भवति। तदा घटबुद्धिर्विलम्ब्य भवेत्। न वस्तुतो विलम्ब्य भवति। अतो नावयवाः स्मर्यन्ते। घटं दृष्ट्‍वा यन्नावयवविकल्पबुद्धिर्भवति सैव घटबुद्धिः।

सर्वे चावयवा अभावा[त्मकाः]ः। कस्मात्। सर्वेह्यवयवा अवयवशो भिद्यमाना अणुतां यान्ति। अणुशो भिद्यमाना अत्यन्ताभावतां प्रतियन्ति। सर्वेषां धर्माणां निष्ठा शून्यताबुद्धिजननमवश्यम्। अतोऽवयवाः परमार्थतोऽभावत्मकाः। अवयववादिनः सत्यद्वयभङ्गः स्यात्। कस्मात्। यो वदति नास्त्यवयवी केवलमवयवाः सन्तीति। तस्यातीतागामिदर्शनप्रहाणादीनि कर्माणि न स्युः। एवञ्च लोकसत्यं नास्ति। भवान् परमार्थं शून्यतां मन्यते। परमार्थे चाभावात्मका अवयवाः। अतो ज्ञायते अवयवमात्रवचनं न सत्यद्वयेऽवतारयति। सत्यद्वयेऽनवतारादभावः।

यो धर्मोऽपनेयः सोऽभाबात्मकः। यथा अवयवानुपादाय अवयवी निराक्रियते। अवयवान्तराण्युपादाय पूर्वावयवा निराक्रियन्ते। अतोऽयमवयववादोऽभावात्मकः। रूपादीन्यपि अभावात्मकानि। कस्मात्। न हि चक्षुः सूक्ष्मं रूपं पश्यति। न च मनो गृह्णाति प्रत्युत्पन्नं रूपम्। अतो रूपमग्राह्यम्। चक्षुर्विज्ञानं न विकल्पयति इदं रूपमिति। मनोविज्ञानन्तु अतीते अनागते वर्तते न रूपे वर्तते। अतो नास्ति किञ्चिद्रूपविकल्पकम् विकल्पकाभावाद्रूपमग्राह्यं भवति। नाद्यविज्ञानं रूपं विकल्पयति। तथा द्वितीयादिविज्ञानान्यपि। अतो नास्ति किञ्चिद्रूपविकल्पकम्।

(पृ) चक्षुर्विज्ञानेन रूपे गृहीते ततो मनोविज्ञानमनुस्मरति। अतो न नास्ति विकल्पकमिति। (उ) चक्षुर्विज्ञानं रूपं दृष्ट्वा निरुद्धमेव। तत ऊर्ध्वं मनोविज्ञानमुत्पद्यते। मनोविज्ञानमिदं न रूपं पश्यति। अदृष्ट्वा कथमनुस्मरेत्। यद्यदृष्ट्वा‍ऽनुस्मरेत्। अन्धोऽपि रूपमनुस्मरेत्। न वस्तुतोऽनुस्मरति। अतो मनोविज्ञानं नानुस्मरति। (पृ) चक्षुर्विज्ञानान्मनोविज्ञानमुत्पद्यते। अतोऽनुस्मरति। (उ) मैवम्। कस्मात्। सर्वाणि चरमचित्तानि चक्षुर्विज्ञानमुपादाय समुत्पन्नानि अनुस्मरेयुः। नैव विस्मरेयुः। तस्मादुत्पन्नत्वात्। न वस्तुतो युज्यते। अतो ज्ञायते मनोविज्ञानमपि नानुस्मरति। यथाकाशानुस्मरणम्, रूपघटादिग्रहः। सर्वेऽपि पदार्थस्तुच्छा अभावात्मकाः मृषागृहीताः। अतः सर्वे पदार्था अभावात्मकाः।

यदि वदसि चक्षुः पश्यतीति। किं रूपं प्राप्य पश्यति किं वाऽप्राप्य पश्यति। यदि प्राप्य [पश्यतीति] तदा न पश्यति। चक्षुर्नातीतलक्षणमितीदं पूर्वमेव प्रतिपादितम्। यद्यप्राप्य पश्यतीति। तदा सर्वस्थं रूपं पश्येत्। न वस्तुतः पश्यति। अतो ज्ञायते नाप्राप्य पश्यतीति। (पृ) रूपं ज्ञानगोचरगतं चक्षुः पश्यति। (उ) को नाम ज्ञानगोचरः। (पृ) यस्मिन् काले चक्षुः पश्यति। [स]ज्ञानगोचरः इत्युच्यते। (उ) यदि चक्षुरप्राप्तमपि ज्ञानगोचर इत्युच्यते सर्वस्थं रूपं ज्ञानगोचरः स्यात्। अतः प्राप्याप्राप्योभयथा न पश्यति। अतो ज्ञायते रूपमदृश्यमिति। यदि सति पूर्वमेव चक्षुषि रूपे च पश्चाच्चक्षुर्विज्ञानमुत्पद्यते। तदेदं चक्षुर्विज्ञानं निराश्रयं निष्प्रत्ययञ्च स्यात्। यद्येककाल [मुत्पद्यते] तदा न चक्षूरूपप्रत्ययं चक्षुर्विज्ञानमित्याख्यायते। ऐककालिकयोर्मिथो हेतुत्वाभावात्।

किञ्च चक्षुश्चतुर्महाभूत[मयम्]। यदि चक्षुः पश्यति। श्रोत्रादीन्यपि पश्येयुः। चतुर्महाभूतसाम्यात्। एवं रूपमपि [पश्येत्]। चक्षुर्विज्ञानं स्यात् सायतनं निरायतनं वा। उभयथाऽस्ति दोषः। तथा हि-यदि च चक्षुर्विज्ञानं चक्षुराश्रितं, तदा सायतनम्। यदि पदार्थो निरायतनः तदा आश्रित्य तिष्ठतीति न लभ्यते। यदि ब्रवीषि विज्ञानं चक्षुषोऽल्पभाग उत्पद्यते यदि वा व्याप्योत्पद्यते। यदि वोभयोश्चक्षुषोरेककालमुत्पद्यते। तदा सायतनं भवति। सायतनत्वे सावयवम्। एवं सति बहुभिर्विज्ञानैरेकं विज्ञानं सिध्यति। इत्ययं दोषः। बहूनां विज्ञानानामैककालिकत्वदोषश्चास्ति। एकैकविज्ञानावयवो न विजानाति अवयवी तु विजानाति। वस्तुतस्तु नास्त्यवयवी इत्ययं दोषः। यदि निरायतनं, तदा न चक्षुराश्रितं स्यात्॥

अभावस्थापनवर्गः सप्तचत्वारिंशदुत्तरशततमः।

१४८ शब्दखण्डनवर्गः

अभाववाद्याह-एकत्वग्रह एव नास्ति। कस्मात्। चित्तं हि क्षणिकम्। शब्दोऽपि क्षणिकः। यथा वदन्ति पुरुष इति। अय [मेकत्व]वादो न श्राव्यः। कस्मात्। ‘पु’ श्रवणमनु विज्ञानं न ‘रुं’ शृणोति। ‘रुं’ श्रुत्वा शृणोति षम्। इति नास्त्येकं विज्ञानमक्षरत्रयग्राहकम्। अतो नास्ति विज्ञानमेकत्ववादग्राहकम्। अतो ज्ञायते शब्दो न श्राव्य इति। विक्षिप्तचित्तः शब्दं शृणोति। समाहितचित्तस्तु न शृणोति। समाहितचित्तेन तत्त्वं ज्ञेयं भवति। अतः शब्दो न श्रवणीयः। शब्दोऽयं प्राप्य अप्राप्य वा उभयथाऽपि न श्रवणीयः। उभयथाऽप्यश्रवणीयत्वान्नास्ति शब्दः।

केचिदाहुः-श्रोत्रमाकाशस्वभावमिति। तम्य पदार्थाभावरूपत्वात् आकाश इत्याख्या। अतो नास्ति श्रोत्रम्। श्रोत्राभावात् शब्दो नास्ति। शब्दकारणं नास्तीत्यतः शब्दो नास्ति। शब्दकारणं महाभूतसंश्लेषः। अयं संश्लेषधर्मो नोपलभ्यते। कस्मात्। ये धर्मा विभिन्नस्वभावाः, न ते संश्लिष्यन्ते। ये न विभिन्नस्वभावाः, कथं तेषां स्वतः संश्लेषः। एकत्र स्थितमपि क्षणिकम्। अतो न संश्लेषो लभ्यते।

शब्दखण्डनवर्गोऽष्टचत्वारिंशदुत्तरशततमः।

१४९ गन्धरसस्पर्शखण्डनवर्गः

न गन्धो ग्राह्यः। कस्मात्। न हि घ्राणविज्ञानं विकल्पयति। अयं चम्पकगन्धः इमेऽन्ये गन्धा इति। मनोविज्ञान[मपि] न गन्धं जिघ्रति। तस्मान्मनोविज्ञानमपि न विकल्पयति चम्पकगन्धमिमम्। (पृ) यद्यपि चमपकगन्धमिमं न विकल्पयति। किन्तु गन्धं गृह्णात्येव। (उ) मैवम्। यथा कश्चिच्चम्पकवृक्षमलब्ध्वा मोहाच्चम्पकबुद्धिमुत्पादयति। तथा गन्धमलब्ध्वा मोहाद्ग्रन्धबुद्धिमुत्पादयति। पूर्वोक्तवत् गन्धः प्राप्तो वा अप्राप्तो गृह्यत इत्युभयथाऽस्ति दोषः। तस्मान्नास्ति गन्धः। तथा रसोऽपि स्पर्शोऽपि नास्ति। कस्मात्। सूक्ष्माद्यवयवेष्वेव स्पर्शज्ञानं नोत्पद्यत इति यथापूर्वं वक्तव्यम्। अतो नास्ति स्पर्शः॥

गन्धरसस्पर्शखण्डनवर्ग एकोनपञ्चाशदुत्तरशततमः।

१५० मनोविज्ञानखण्डनवर्गः

मनोविज्ञानमपि धर्मान्न गृह्णाति। कस्मात्। मनोविज्ञानं हि न प्रत्युत्पन्नान् रूपरसगन्धस्पर्शान् गृह्णाति। [यत्] अतीतमनागतं तन्नास्तीति पूर्वमुक्तमेव। अतो मनोविज्ञानं न रूपादीन् गृह्णाति। (पृ) यदि मनोविज्ञानं रूपादीन् धर्मान् न जानाति। स्वात्मानं [वा] जानीयात्। (उ) न [कश्चित्] धर्मः स्वात्मानं जानाति। कस्मात्। न प्रत्युत्पन्ने स्वात्मवेदनं सम्भवति। तद्यथा असि[धारा] न स्वात्मानं छिनत्ति। अतीतानागतयोरसद्धर्मत्वात् नान्यच्चित्तमस्ति। अतो मनोविज्ञानं न खात्मानं विजानाति।

(पृ) यदि कश्चित् परचित्तं जानाति। तदा तन्मनोविज्ञानं चैत्तधर्मं जानात्येव। (उ) यथा कस्यचित् चित्तं स्वात्मानमज्ञात्वाऽपि चिन्ता भवति अहं चित्तवानिति। एवं परचित्तेऽपि। योऽनागतधर्मोऽभाव[रूपः] सोऽपि ज्ञानजनकः। परचित्तमप्येवमिति चेत्को दोषः। धर्मालम्बनं मन इति [मतं] बहुधा दुष्टम्। यथा मनः प्राप्यालम्बते विजानाति। [वा] अप्राप्यालम्बते। मनश्च न रूपादीननुस्मरेत्। एभिर्दोषैर्न मनोविज्ञानं धर्मान् विजानाति॥

मनोविज्ञानखण्डनवर्गः पञ्चाशदुत्तरशततमः।

१५१ हेतुफलखण्डनवर्गः

अभाववाद्याह-यद्यस्ति फलम्। हेतौ पूर्वं सन् वा गुण उत्पद्येत। पूर्वमसन्[वा] गुण उत्पद्येत। उभयथा चास्ति दोषः। यथा द्वयोर्हस्तयोः पूर्वमसन् शब्दो भवति। दधिहेतौ पूर्वमसत् दधि, दधि उत्पादयति। शकटहेतौ पूर्वमसमत् शकटं, शकटमुत्पादयति। अतो न हेतौ पूर्वं सन् गुणः फलमुत्पादयति।

भवतो यदि मतं हेतौ पूर्वमसन् गुणः फलमुत्पादयतीति। तदा रूपरहितवायुसूक्ष्मरेणू रूपमुत्पादयेत्। तथा चेत् वायू रूपवान् स्यात्। वज्रादीनां गन्धवत्ता स्यात्। दृष्टे पश्यामः खलु शुक्लतन्तुः शुक्लपटं साधयति। कृष्णतन्तुः कृष्णपटं साधयति। यदि हेतौ पूर्वमसन् गुणः फलं साधयति। कस्मात् शुक्लतन्तुः शुक्ल[पट]मेव साधयति न कृष्णम्। अतो न हेतौ पूर्वमसन् गुणः फलमुत्पादयति।

इमौ द्वावपि दृष्टान्तौ दुष्टौ। अतो नास्ति फलम्। यदि हेतौ सत्कार्यम्, तदा नोत्पद्येत। कथं सदुत्पद्येत। यद्यसत्। तदपि नोत्पद्येत। असत्कथमुत्पद्येत। (पृ) दृष्टे पश्यामः खलु घटं कियमाणम् कथं नास्ति घट इति। (उ) घटोऽयं पूर्वमकृतः कथं करणीयः। तस्यैवाभावात्। यदि पूर्वं कृत एव। कथं करणीयः। तस्य सत्त्वात्। (पृ) क्रियमाणः क्रियत इत्युच्यते। (उ) नास्ति क्रियमाणम्। कस्मात्। यः कृतभागः स कृतकोटौ पतति। योऽकृतभागः [सो]ऽकृतकोटौ पतति। अतो नास्ति क्रियमाणम्। यदि घटः क्रियावान्, अतीतोऽनागतः प्रत्युत्पन्नो वा स्यात्। अतीतो न क्रियावान्। निरुद्धत्वात्। अनागतो न क्रियावान् असत्त्वात्। प्रत्युत्पन्नोऽपि न क्रियावान्, भूयमानत्वात्।

कारकमुपादाय क्रियावतः कर्म सिध्यति। तत्र कारक एव वस्तुतो नोपलभ्यते। तथा हि। शीर्षाद्यवयवेषु क्रियावृत्त्यभावान्नास्ति कारकः। कारकाभावात् क्रियावृत्तिरपि नास्ति। हेतुः कार्यस्य पूर्वं वा, किं वा पश्चात्, किं वा समकालम्, सर्वथा न युज्यते। कस्मात्। यदि पूर्वं हेतुः पश्चात्कार्यम्। हेतौ निरुद्धे केन फलमुत्पद्येत यथा अविद्यमानः पिता कथं पुत्रमुत्पादयेत्। यदि पश्चाद्धेतुः पूर्वं फलम्। हेतुः स्वयमनुत्पन्नः कथं फलमुत्पादयेत्। यथा अनुत्पन्नः पिता कः पुत्रमुत्पादयति। यदि हेतुः फलञ्च समकालम् न तर्हि अयं न्यायः। यथा द्वे शृङ्गे युगपदुद्‍भूते नोच्येते वामदक्षिणेऽन्योन्यहेतुके। सिद्धान्ता इमे त्रयोऽपि अयुक्ताः। अतो नास्ति फलम्।

हेतुफले इमे यद्येकं, यदि वा नाना। उभयथाऽस्ति दोषः। कस्मात्। यदि नाना। तदा तन्तून् विहाय पटः स्यात्। यद्येकम्। तन्तुपटयोर्विभागो न स्यात्। लौकिका न पश्यन्ति कञ्चन धर्मं हेतुफलयोरपृथग्भावरूपम्।

यद्यस्ति फलम्। स्यात् स्वकृतं परकृतमुभयकृतमहेतुकृतं वा। सर्वमिदमयुक्तम्। कस्मात्। न कश्चिद्धर्मः स्वात्मानं करोति। यद्यस्ति स्वरूपतः। किं स्वात्मक्रियया। यदि नास्ति स्वरूपतः। कः करोति स्वात्मक्रियाम्। न च पश्चामः कञ्चन धर्मं स्वात्मानं कुर्वन्तम्। अतो नास्ति स्वकृतन्। परकृतमयुक्तम्। कस्मात्। चक्षूरूपयोर्विज्ञानोत्पत्तौ वृत्त्यभावात् न परकृतम्। कर्तृत्वसंज्ञाऽभावात्सर्वे धर्मा अकर्तृकाः। यथा “बीजस्य नैवं भवति-अहमङ्कुरमभिनिर्वर्तयामीति। चक्षुषो रूपस्य नैवं भवति-आवां सह विज्ञानमभिनिर्वर्तयाव इति। अतः सर्वधर्माणां नास्ति कर्तृत्वसंज्ञा। उभयकृतमप्ययुक्तम्। स्वकृतपरकृतदोषसत्त्वात्। अहेतुकृतमपि न युक्तम्। हेतावासति फलमपि नास्तीत्युच्यते। यदि चतुर्धाऽपि नास्ति। कथमस्ति फलम्। यद्यस्ति, उच्येत।

फलमिदं यदि क्रियाचित्तपूर्वकं स्यात्, यदि वाऽक्रियाचित्तपूर्वकं स्यात्। यदि क्रियाचित्तपुर्वकम्। गर्भेऽपि बालानां चक्षुरादिकायावयवेषु कः सचित्तत्वं करोति। ईश्वरादयोऽपि न कुर्वन्ति। पूर्वकृतस्य कर्मणोऽपि नास्ति क्रियाचित्तम्। कर्मेदमतीतगतम्। कथं क्रियाचित्तं भवेत्। अतो न कर्मणोऽप्यस्ति चित्तम्। यद्यक्रियाचित्तपूर्वकमिति। कथं परस्य दुःखकृत् दुःखं लभते। परस्य सुखकृत् सुखं लभते। दृष्टे च कर्मकरणे चित्ते विकल्पयति-एवं कर्तव्यं, एवं न कर्तव्यमिति। यदि नास्ति क्रियाचित्तम्। कथमयं विभागो भवेत्। अतः सचित्तपूर्वकमचित्तपूर्वकं सर्वमयुक्तम्। एवमादयः सर्वेऽपीन्द्रियविषया नोपलभ्यन्ते। अतो नास्ति धर्मः।

हेतुफलखण्डनवर्ग एकपञ्चाशदुत्तरशततमः।

१५२ लोकसत्यवर्गः

उत्तरमुच्यते। यत् भवान् नानाकारणैर्ब्रवीति-सर्वे धर्माः शून्या इति। तन्मतमयुक्तम्। कस्मात्। पूर्वमेवोक्तं मया-यदि सर्वमभाव[रूप]म्। शास्त्रमिदमप्यभावरूपम्। नापि सर्वधर्मेषु इत्यादिशून्यतादूषणमप्रतिवदन्नपि शून्यतां स्थापयसि। अतो न सर्वधर्मा अभावात्मकाः। यद्भवतोक्तं-नास्तीन्द्रियं, नास्तिप्रत्यय इत्यादि। न तदस्माभिः प्रतिपादितम्। कस्मात्। भगवान् सूत्रे स्वयमिदं न्यषेधीत्। यदुत पञ्च वस्तून्यचिन्त्यानि लोकवस्तु, सत्त्ववस्तु, कर्मप्रत्ययतावस्तु, ध्याननिष्ठावस्तु, तथागतवस्तु इति। इदमसर्वज्ञः पुरुषोऽभ्यूह्य न नितीरयितुं शक्नोति। तथागताः केवलं धर्मविवेचनज्ञानसमर्थाः। श्रावकाः प्रत्येकबुद्धाश्च निर्वाणज्ञानमात्रगतिंगता धर्माणां विवेचनज्ञानस्येकदेशलाभिनः। तथागताः परं सर्वधर्माणां सर्वाकारं प्रकृतितो नैस्स्वाभाव्यं विशेषसामान्यलक्षणानि सर्वाणि प्रतिविध्यन्ति। यथा पुरुषालयादयः पदार्थाः सुविनाशा दुष्कल्पाः। एवं शून्यताज्ञानं सुलभम्। धर्माणां प्रविचयज्ञानं दुरुत्पादम्।

(पृ) यथा भगवता बोधिमण्डगतेन धर्माणां लक्षणं प्रतिलब्धम्। यथा च भगवतोपदिष्टम्। तत्तथैव भविष्यति। (उ) भगवान् सर्वधर्मानुपदिशन्नपि न सर्वाकारमुपदिशति। विमुक्त्यर्थत्वाभावात्। तद्यथा भगवानुपदिशति सर्वधर्माः प्रतीत्य समुत्पन्ना इति। नोपदिशत्येकैकशः किंप्रत्यय इति। दुःखनाशनप्रयोजनमात्रमपेक्षितमिति[तत्]- उपदिशति। विचित्राङ्कादीनि रूपाणि नृत्तगीतादयो नादा गन्धरसस्पर्शा अप्रमाणविशेषा नोपदेश्याः। उपदेशेऽपि नास्ति महद्धितम् इत्यत ईदृशं वस्तु नोपदिशति भगवान्। न [तानि] न सन्तीति वक्तुं शक्यते। यथा कश्चित् चित्राङ्कनादिधर्मविकल्पमज्ञात्वा वदति तानि न सन्तीति। तथा भवानपि यत्किमप्यसाधयित्वा वदति नास्तीदं-वस्तु इति। ज्ञातुस्तु अस्ति। अज्ञातुः पुनर्नास्ति। यथा जात्यन्धो वदति नास्ति कृष्णमवदातं वा, मयाऽदृष्टत्वात्। न चादृष्टत्वाद्रूपाणि न सन्तीति सम्भवति। यद्येवम्, प्रतीत्यसिद्धत्वान्न सन्ति सर्वे धर्मा इति वक्तुं पार्यते।

तथागताः सर्वज्ञा इति श्रद्धेयमस्माभिः। तथागतस्तु आह-सन्ति पञ्च स्कन्धा इति। अतो ज्ञायते रूपादयः सर्वधर्माः सन्ति यथा घटादयः संवृतितः सन्तीति॥

लोकसत्यवर्गो द्विपञ्चाशदुत्तरशततमः।

१५३ धर्मचित्तनिरोधवर्गः

(पृ) पूर्वमुक्तं-भवता त्रिविधचित्तनिरोधो निरोधसत्यमिति। हेतुप्रत्ययाख्य प्रज्ञप्ति [चित्त] निरोधो ज्ञात एव। इदानीं वक्तव्यं किं धर्मचित्तं, कथं तस्य निरोध इति। (उ) सन्ति वस्तुतः पञ्चस्कन्धा इति चित्तं धर्मचित्तमित्युच्यते। पञ्चस्कन्धान् शून्यान् दृष्ट्वा सम्यग्भावयतो धर्मचित्तं निरुध्यते। (पृ) योगी पश्यति पञ्चस्कन्धान् शून्यान् यदुत पञ्चस्कन्धेषु नास्ति नित्यधर्मः स्थिरधर्मोऽविनाशधर्मोऽविपरिणामधर्म आत्मामीयधर्म इति। ते शून्या इत्युच्यन्ते। न तु स्कन्धानेव न पश्यतीति। (उ) योगावचरो नैव पश्यति पञ्चस्कन्धान्। कस्मात्। योगावचरः संस्कृतालम्बनचित्तं प्रहाय असंस्कृतालम्बनचित्तं प्रतिलभते। अतो योगावचरः पञ्चस्कन्धान् न पश्यति, स्कन्धनिरोधमात्रं पश्यति। पञ्चस्कन्धानां दर्शने न शून्या इत्युच्यन्ते। स्कन्धानामेवाशून्यत्वात्। एवं शून्यताज्ञानन्तु विकलं स्यात्।

(पृ) योगावचरो रूपं नैरात्म्यतः शून्यं पश्यति। यथोक्तं सूत्रे-योगावचर इदं रूपं पश्यति यावदिदं विज्ञानं शून्यं षश्यति इति। न तु रूपादयः पञ्चस्कन्धा न सन्तीति ज्ञातव्यम्। (उ) अस्तीदं वचनं, न तु व्यवदाना[र्थक]म्। यथोक्तं धर्ममुद्रासूत्रे- योगावचरः पश्यति रूपादीन् धर्मान् अनित्यलक्षणान् विक्षेपलक्षणान् विनाशलक्षणान् मायालक्षणान् निर्वेदलक्षणान् इति। इदं शून्याख्यमपि न व्यवदानात्मकम्। पुरुषोऽयं [य]दन्ते पञ्चस्कन्धानां निरोधं पश्यति। तद्दर्शनं तावद्वयवदाना[त्मकम्] अतो ज्ञायते पञ्चस्कन्धानां निरोधं पश्यतीति।

(पृ) संस्कृतालम्बनज्ञानेन कस्मान्न व्यवदानं लभते। (उ) योगावचरस्य पञ्चस्कन्धसंज्ञाप्रवृत्तस्य कदाचित्प्रज्ञप्तिचित्तं पुनर्भवेत्। अतः संस्कृतालम्बनचित्तेन न व्यवदानं लभते। पञ्चस्कन्धानां निरोधं साक्षात्कुर्वतस्तु न तत् पुनरभिमुखीभबति। प्रज्ञप्तिकारणनिरोधस्य प्रसाधितत्वात् प्रज्ञप्तिसंज्ञा नानुवर्तते। तद्यथा कश्चन वृक्षः क्रकचकृत्तो भस्मसात्कृतः प्रक्षीणः। न [तत्र] वृक्षसंज्ञा प्रहीणा पुनरनुवर्तते। तथा इदमपि। भगवान् राधमाह-सत्त्वं तथा विभिद, विधम, यथा नोपतिष्ठति इति। किञ्चाहैकं सूत्रम-रूपं राध तथा विभिद, विधम यथा नोपतिष्ठति इति। अतो ज्ञायते यः सत्त्वपरिभेदः इयं प्रज्ञप्तिशून्यता। यो रूपपरिभेदः इयं धर्मशून्यतेति।

भावना च द्विविधा-शून्य[ता-] भावना नैरात्म्यभावना इति। शून्यताभावना च यत् प्रज्ञप्तिसत्त्वादर्शनम्। यथा कश्चित् जलं नास्तीति घट शून्यं पश्यति। तथा पञ्चस्कन्धेषु पुद्गलो नास्तीति [तान्] शून्यान् पश्यति। यत् धर्मान् न पश्यति। इदं नैरात्म्यमित्युच्यते। उक्तञ्च सूत्रे-नैरात्म्यज्ञानलाभी सम्यग्विमुच्यते इति। अतो ज्ञायते रूपस्वभावनिरोधो वेदनासंज्ञासंस्कारविज्ञानस्वभावनिरोधो नैरात्म्यमित्युच्यते। नैःस्वाभाव्यमेव नैरात्म्यम्। (पृ) यदि नैःस्वाभाव्यं नैरात्म्यमित्युच्यत इति। किमिदानीं न सन्ति वस्तुतः पञ्चस्कन्धाः। (उ) न सन्ति वस्तुतः। सन्ति तु संवृतितः। कस्मात्। भगवानाह-संस्काराः संवृतितः सन्ति मायावत् निर्मितवत्। न तु परमार्थतः। परमार्थतः शून्यमिति वचनम्-अयमर्थसत्यतः शून्यो न संवृतिसत्यत इति। परमार्थश्च यदुत रूपं शून्यमकिञ्चनम् यावद्विज्ञानं शून्यमकिञ्चनम्। अतो यद्रूपादीनां धर्माणां शून्यतादर्शनं तत् परमार्थशून्यतादर्शनमित्युच्यते।

(पृ) यदि पञ्च स्कन्धाः संवृतिसत्यतः सन्ति। कस्मादुच्यन्ते रूपादयो धर्माः परमार्थसत्या इति। (उ) सत्त्वानां कृत उच्यन्ते। सन्ति केचित् पञ्चस्कन्धेषु समुत्पन्नपरमार्थसंज्ञाः। तदर्थमुच्यन्ते पञ्च स्कन्धाः परमार्थतः शून्या इति। (पृ) किं नु खलु सूत्रे नोक्तम् अस्ति कर्म अस्ति फलम्, कारकस्तु नोपलभ्यते इति। (उ) अयं हेतुः धर्मणां कारकाख्यो नोपलभ्यत इतीदं प्रज्ञप्तिशून्यताभिधानम्। यथोक्तं सूत्रे-धर्माः प्रज्ञप्तिसंज्ञामात्रम्। प्रज्ञप्तिसंज्ञा च यदुत अविद्याप्रत्ययाः संस्कारा यावज्जरामरणदुःखसमुदयनिरोधो भवति इति। अस्माद्वचनात् ज्ञायते पञ्चस्कन्धा अपि परमार्थतो न सन्तीति। महाशून्यतासूत्रेऽप्युक्तम्-य आह इदं जरामरणं, तस्य जरामरणम् इति। य आह-स एव जीवः तदेव शरीरम्, अन्यो जीवोऽन्यत् शरीरम् इति। इदमेकार्थकम्, व्यञ्जनमेव नाना। येषामेषा दृष्टिः न ते मच्छ्रावका न ब्रह्मचारिण इति। यत् तस्य जरामरणं प्रतिषिध्यते तत् प्रज्ञप्तिखण्डनम्। यदिदं जरामरणं प्रतिषिध्यते। तत् पञ्चस्कन्धखण्डनम्। किञ्चाह-जातिप्रत्ययं जरामरणं मध्यमा प्रतिपदित्युच्यते। नास्ति जरामरणं परमार्थत इत्युक्तमिति ज्ञातव्यम्। संवृतित उच्यते जातिप्रत्ययं जरामरणमिति। यथा घटसंज्ञाऽत्यये नास्ति घटः परमार्थतः। एवं रूपादिधर्माणामत्यये नास्ति रूपं परमार्थतः। उक्तञ्च सूत्रे-यो धर्मो माया स मृषा। यो धर्मोऽमाया, स एव परमार्थः इति। सर्वे संस्कृतधर्मा विपरिणामित्वात् माया इत्युच्यन्ते। मायात्वादभूताः। अभूतत्वान्न परमार्थसन्तः। यथाह गाथा-

अभूतबद्धो लोकोऽयं सुनिश्चितवत्प्रभासते।
असत् दृष्टं सदाभासमसद्वै परया धिया॥ इति।

[अतो] ज्ञातव्यं स्कन्धा अपि शून्या इति।

निरोधसत्यदर्शनं मार्गलाभ इत्युच्यते। अतो ज्ञायते निरोधः परमार्थसन्, न स्कन्धा इति। यदि स्कन्धाः परमार्थसन्तः, योगावचरोऽपि दृष्ट्वा मार्गलाभी स्यात्। वस्तुतस्तु न तथा। अतो ज्ञायते पञ्चस्कन्धा न परमार्थसन्त इति। स्कन्धनिरोधश्च सत्यम्। अतो ज्ञायते स्कन्धा न सत्यमिति। न सम्भवति स्कन्धाः सत्यं स्कन्धाभावोऽपि सत्यमिति वक्तुम्। दृश्यस्य सर्वस्य मोहहेतुकत्वात्। यथा न कश्चिदवञ्चितलोचनो मायां पश्यति। तथा योऽमुग्धः न स पश्यति स्कन्धान्। अतः स्कन्धा न परमार्थसन्तः। उक्तञ्च सूत्रे-यत्रास्मीति तत्रेञ्जितम्। स्कन्धेषु चास्ति अस्मीति। यथाहानन्दः-धर्मानुपादाय अस्मीति सिध्यति यदुत रूपस्कन्धं यावद्विज्ञानस्कन्धमुपादायेति। स्थविरा भिक्षवः क्षेमकमाहुः-किमस्मीति वदसि। क्षेमकः प्रत्याह-न खल्वायुष्मन्तो रूपमस्मीति वदामि। नाप्यन्यत्ररूपादस्मीति वदामि। एवं यावद्विज्ञानमपि। अपि च मे आयुष्मन्तः पञ्चसूपादानस्कन्धेषु अस्मीति अधिगतम्। [अयमहमस्मीति न समनुपश्यामि]। इति। अयं सूत्राशयः-शैक्षजनाः कदाचित् स्मृतिविक्षेपादस्मिमानमुत्पादयन्ति। समाहितस्मृतिकस्य पञ्चसूपादानस्कन्धेषु अस्मिमानं निरुद्धमेव। पुष्पवत्। न मूलकाण्डशाखापत्राण्येव पुष्पम्। नाप्यन्यत्र तेभ्य पुष्पम्। एवमेव न रूपा दीनि अस्मीति [वदामि]। नाप्यन्यत्र रूपादिभ्यः अस्मीति [वदामि]। एवमस्मिनिरोधप्रत्ययमस्मिमानं न प्रवर्तते। अतो ज्ञायते पञ्चोपादानस्कन्धा अपि शून्या इति।

योगावचरः सर्वनिमित्तानि निरुध्यानिमित्तं साक्षात्कुर्यात्। यदि वस्तुसत् निमित्तम्, किमर्थं नानुस्मरति। न तीर्थिकानामिव रूपप्रहाणकाले ज्ञायते वस्तुसत् रूपं, परन्तु नानुस्मर्यत इति। योगी अवश्यं रूपादीनां स्कन्धानां निरोधं पश्यति निरोधदर्शनात् अनिमित्तेऽवतरति। अतो ज्ञायते रूपादयो न परमार्थसन्त इति। यत्र सन्ति पञ्चस्कन्धाः तत्रास्मीति बुद्धिर्भवति। पञ्चस्कन्धा न सन्तीत्यतोऽस्मीति बुद्धिर्निरुध्यते। अतः स्कन्धाः सर्वे शुन्याः। फेनसूत्रे भगवानाह-यदि पुरुषः फेनपिण्डं पश्येत् योनिश उपपरीक्षेत। स[तत्]तुच्छकञ्चैव जानीयात्। एवमेव भिक्षुर्यदि रूपस्कन्धं सम्यगुपपरीक्षते। स[तं] रिक्तकञ्चैव जानाति, तुच्छकञ्चैव[जानाति], असारकञ्चैव[जानति], विक्षेपलक्षणञ्चैव जानाति। वेदनामुपपरीक्षते यथा बुद्धुदम्, संज्ञा [मुपपरीक्षते]यथा मरीचिकाम्, संस्कारा [नुपपरीक्षते] यथा कदलीम्, विज्ञान[मुपपरीक्षते] यथा मायाम्। तत्र पञ्च दृष्टान्ताः शून्यार्थनिरूपणाः। कस्मात्। पश्यामः खलु चक्षुषा फेनमपचीयमानमभावतां याति। तथा बुद्‍बुदादीन्यपि। अतो ज्ञायते स्कन्धा न परमार्थसन्त इति। ये जिनपुत्राः संसारात् परमनिर्विण्णाः। [ते]धर्माणां प्रकृतितोऽनुत्पादमाकिञ्चन्यञ्च पश्यन्ति। अतो येऽनित्यं पश्यन्ति। [तेषां] विक्षेपविनाशदुःखलक्षणमेव भवति। ये निःस्वभावं पश्यन्ति, अन्यलक्षणाभावात् ते दुःखचर्यां परिपूरयन्ति। एतत्त्रिविधदुःखपरिपूरणं विमुक्तिप्रापकमित्युच्यते। [अतः] सर्वधर्माः शून्या इति ज्ञातव्यम्।

शून्यता च विमोक्षमुखम्। शून्यता चेयं न केवलं सत्त्वशून्यतात्मिका। धर्मशून्यता[त्मिका]पि चास्ति। यथोक्तम्-चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति। निरुध्यमानं न क्वचिद्गच्छति। तदा प्रजानाति अतीतमनागतं चक्षुः शून्यमिति। प्रत्युत्पन्नं चक्षुरपि चतुर्महाभूतविकल्पितमित्यतः शून्यमिति। यथाह भगवान्-यच्चक्षुषि मांसपिण्डे खक्कटं खरगतं स पृथिवी [धातु]ः इत्यादि। य इमां शून्यतां प्रतिलभते स वदति नास्ति यत्किञ्चिदिति। किञ्चाह-सर्वसंस्काराः प्रहीयन्त इति प्रहाणस्वभावाः। विमुच्यन्त इति विमुक्तिखभावाः। निरुध्यन्त इति निरोधस्वभावाः इति। अतो ज्ञायते सर्वे संस्कारा निरुद्धा भवन्तीति। यदि वस्तुसन्तः संस्काराः तदा न स्युः सम्यक् प्रहाणविमुक्तिनिरोधाः। निरोधश्चाभाव इत्युच्यते। अतो द्रष्टव्यं परमार्थतः संस्काराः सर्वेऽभावात्मकाः संवृतितस्तु सन्ति संस्कारा इति॥

धर्मचित्तनिरोधवर्गस्त्रिपञ्चाशदुत्तरशततमः।

१५४ निरोधवर्गः

यन्निर्वाणालम्बनं तत् शून्यचित्तमित्युच्यते। (पृ) निर्वाणमसद्धर्मः। चित्तं किमालम्बते। (उ) चित्तमिदं यत्किञ्चताभावमालम्बते। इदं पूर्वमेव प्रतिपादितम्। निर्वाणज्ञानत्वात्। (पृ) शून्यचित्तमिदं कुत्र निरुध्यते। (उ) स्थानद्वये [निरुध्यते] (१) अचित्तकसमाधिमुपसम्पन्नस्य (२) अनुपधिशेषनिर्वाणं प्रविष्ठस्य सन्तानसमुच्छेदे वा निरुध्यते। कस्मात्। हेतुप्रत्ययनिरोधात्। अचित्तकसमाधावालम्बननिरोधात् [तत्] निरुध्यते। सन्ताने समुच्छिद्यमाने पुनः कर्मक्षयात् [तत्] निरुध्यते।

शास्त्रमाह-एतानि त्रीणि चित्तानि निरोधयतो योगावचरस्य कर्मक्लेशा नैव पुनः समुदाचरन्ति (पृ) कस्मात् न समुदाचरन्ति। (उ) पुरुषोऽयं नैरात्म्यसम्पन्न इत्यतः कर्मक्लेशा निरुध्यन्ते। यथा प्रदीपो धर्मश्च सति निश्रये वर्तते। असति निश्रये न वर्तते। एवमात्मचित्ते निश्रये सति कर्मक्लेशानां समुदयः। असति तु न समुदयः। अनास्रवा सम्यग्दृष्टिः सर्वाणि निमित्तानि तथा प्रदहति यथा न किञ्चिदवशिष्यते। यथा कल्पाग्निः पृथिव्यादिन् निःशेषं दहति। निमित्ताभावात् कर्मक्लेशानां न पुनः समुदयो भवति। अस्मिचित्तकस्य तु कर्मक्लेशाः समुद्यन्ति। अर्हतः शून्यताज्ञानगतिंगतस्य अस्मिमानरहितस्य न पुनः समुद्यन्ति।

अस्य नूत्नकर्मानुपचयेऽपि प्राक्तनकर्महेतुना कस्मान्नोपपत्तिर्भवति। (उ) सम्यक्-प्रज्ञया तत्कर्मविनाशान्न विपाकभाग्भवति। यथा दग्धं बीजं न पुनः प्ररोहति। असति च तृष्णाचित्ते न कर्माणि पच्यन्ते। यथा अनभिष्यन्दितायां भूमौ बीजं न प्ररोहति। योगावचरस्यास्य सर्वविज्ञानस्थितिषु सर्वनिमित्तनिरोधे विज्ञानं निराश्रयं भवति। अतो नास्त्युपपत्त्यायतनम्। यथा बीजमनाश्रयं नोत्पद्यते। कर्मक्लेशपौष्कल्यात् कायमुपादत्ते। अपौष्कल्ये तु निरुध्यते।

स क्लेशाभावात् विकलहेतुप्रत्ययः सत्स्वपि कर्मसु नोपपत्तिं वेदयते। सत्त्वाः क्लेशहेतोर्गतिषु कायं वेदयन्ते। कायं वेदयत इत्यतः तस्य कर्माणि विपाकं प्रयच्छन्ति। असति क्लेशे कायो न वेद्यते। कायवेद्यभावात् कर्माणि कस्य विपाकं प्रयच्छन्ति। यथा अधर्मेण प्रबलमधितिष्ठति उत्तमर्णो नावकाशं लभते। तथा योगावचरोऽपि। संसारेऽवर्तमानस्य सन्त्यपि कर्माणि न विपाकं प्रयच्छन्ति। यथा बद्धं पुरुषमन्ये जना यथेष्टं निन्दन्ति। एवं क्लेशबद्धानां सत्त्वानां कर्मतारतम्यवशात् [क्लेशाः] विपाकं प्रयच्छन्ति। प्रतिलब्धविमोक्षे तु नावकाशं लभन्ते।

स्वीयं कर्म च विपाकं प्रयच्छति। शून्यचर्याविहारित्वादस्य पुरुषस्य धर्मेषु स्वलक्षण[संज्ञा] नास्तीत्यतः कर्माणि न विपाकं प्रयच्छन्ति। यथा दत्तीकृतस्य पुत्रस्य दायभागो नास्ति। तथेदमपि। क्लेशबलेन च कर्माणि प्रवर्तन्ते। क्लेशवेगे क्षीणे तु न तानि प्रवर्तन्ते। यथा चक्रं गतिस्थमपि वेगक्षयान्न पुनः प्रवर्तते। क्लेशबले च कर्माणि विकारयन्ति। यथा सुतवत्सलाया मातुः रक्तं स्तन्यं परिणमते। निरुद्धवात्सल्यचित्तायास्तु न पुनः परिणमते। एवं क्लेशबलात् कर्म विपाकं प्रयच्छति। [क्लेश]विरहे तु न प्रयच्छति। अयञ्च पुरुषः शीलसमाधिप्रज्ञादिगुणैर्भावितकायः। तत्प्रभावमाहात्म्यात् कर्माणि नावकाशं लभन्ते। अतः सदपि प्राक्तनं कर्म न विपाकं प्रयच्छति। एवमस्य प्राक्तनं कर्म प्रत्युत्पन्ने किञ्चि[द्विपाक] मर्पयति। नूत्नं तु कर्म न करोति। यथाग्निरिन्धनानां भस्मीभावे शाम्यति। एवमयं पुरुषोऽपि वेदनीयाभावान्निरुध्यते। [इति] त्रिविधचित्तानां निरोधात्सर्वदुःखेभ्योऽत्यन्तं विमुच्यते। अतो विद्वान् त्रिविधचित्तानि निरुन्ध्यात्॥

निरोधवर्गश्चतुःपञ्चाशदुत्तरशततमः।

[निरोधसत्यस्कन्धः समाप्तः।]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project