Digital Sanskrit Buddhist Canon

3 अथ समुदयसत्यस्कन्धः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

3 atha samudayasatyaskandhaḥ

अथ समुदयसत्यस्कन्धः
९५ समुदयसत्यस्कन्धे कर्माधिकारे
कर्मलक्षणवर्गः

शास्त्रमाह-दुःखसत्यं परिसमाप्य समुदयसत्यमिदानीं वक्ष्यत इति। तत्र कर्म क्लेशाश्च समुदयसत्यम्। त्रिविधं कर्म कायिकं वाचिकं मानसिकमिति। कायेन कृतं कर्म कायिकम्। तत् त्रिविधं अकुशलं प्राणातिपातादि। कुशलं चैत्यवन्दनादि। अव्याकृतं तृणच्छेदादि।

(पृ) यदि कायेन कृतं कायिकम्। तदा घटादिद्रव्यमपि कायिकं कर्म स्यात्। कायेन कृतत्वात्। (उ) घटादि कायिककर्मणः फलम् न कायिकं कर्म। हेतुफलयोर्भेदात्। (पृ) न स्यात्कायिकं कर्म। कस्मात्। कायस्पन्दनकृतं कायिकं कर्म। संस्कृतधर्माणां क्षणिकत्वात् न स्यात्स्पन्दनम्। (उ) इदं क्षणिकवर्गे प्रत्युक्तं यदेकस्मिन् धर्म उत्पद्यमानेऽन्यस्यापचय उपचयो वा [तत्] कायिकं कर्मेति। (पृ) तथा चेत् काय एव कायिकं कर्म भवेत्। अन्यत्रोत्पद्यमानत्वात्। न तु कायेन कृतं कायिकं कर्म। (उ) कायः कर्मक्रियायाः साधनम्। कायेऽन्यत्रोत्पद्यमाने पुण्यपापसमुदयः कर्म। अतो न काय एव कर्म। (पृ) पुण्यपापसमुदयोऽविज्ञप्तिः। कायविज्ञप्तिः कथम्। (उ) कायेऽन्यत्रोत्पद्यमाने क्रियमाणा विज्ञप्तिः कायविज्ञप्तिर्भवति। (पृ) कायविज्ञप्तिः कुशला वाऽकुशला वा। कायस्तु न तथा। अतो न कायविज्ञप्तिः स्यात्। (उ) चित्तबलात् कायेऽन्यत्रोत्पद्यमाने कर्म समुदेति। अतस्तत्समुदयो यदि वा कुशलो [यदि वा] अकुशलः न तु साक्षात्कायिकः। तथा वाचिककर्मापि। न तु तत् साक्षाच्छब्दव्यवहार [रूपम्]। चित्तबलात् शब्दव्यवहारसमुदितं कर्म कुशलमकुशलं वाचिकं कर्मेत्युच्यते। एवं मानसं कर्मापि। य इमं सत्त्वं हन्मीति अध्यवसितचित्तो भवति। तस्य तस्मिन् समये पापं समुदेति। एवं पुण्यमपि।

(पृ) यथा कायवाग्भ्यां पृथगस्ति कर्म। [तथा] मनोऽपि मानसकर्मणोऽन्यदेव। (उ) तत् द्विधा भवति मन एव मानसं कर्म मनस उत्पन्नं वा मानसं कर्म इति। सत्त्वं हन्मीति यदध्यवसितं मनः तदकुशलं मन एव मनसं कर्म। तत्कर्म पापसञ्चयरूपं कायिकवाचिककर्मातिशायकम्। यदि चित्तमनध्यवसितम्। तदा मनः कर्मणोऽन्यत्।

(पृ) विज्ञप्तिलक्षणं ज्ञातम्। विज्ञप्तित उत्पन्नोऽन्यःकर्मसमुदयः। किं [तस्य] लक्षणम्। (उ) तदविज्ञप्तिरेव। (पृ) किं केवलमस्ति कायिकवाचिकाविज्ञप्तिरेव न मानसिकाविज्ञप्तिः। (उ) मैवम्। कस्मात्। नह्यस्ति तत्र कारणं केवलं कायिकवाचिकाविज्ञप्तिरेवास्ति न मानसिकाविज्ञप्तिरिति। सूत्रे चोक्तं द्विधा कर्म-चेतना वा चेतयित्वा वा [कर्मे] ति। चेतना मानसं कर्म। चेतयित्वा [कर्म] त्रिविधम्-चेतनासञ्चितं कर्म कायिकं वाचिकं कर्मेति। तत्र मानसं कर्म गुरुतरमिति पश्चाद्वक्ष्यते। गुरुतरकर्मसञ्चितमविज्ञप्त्याख्यं सदा सन्तानेन प्रवर्तते। अतो ज्ञायते मानसिककर्मणोऽपि अविज्ञप्तिरस्तीति॥

समुदयसत्यस्कन्धे कर्माधिकारे

कर्मलक्षणवर्गः पञ्चनवतितमः।

९६ अविज्ञप्तिवर्गः

(पृ) कोऽविज्ञप्तिधर्मः। (उ) चित्तं प्रतीत्योत्पद्यमानं पुण्यपापं मिद्धमूर्छादिकालेऽपि यन्नित्यं प्रवर्तते। साऽविज्ञप्तिः। यथोक्तं सूत्रे-
आरामरोपा वनरोपा ये जनाः सेतुकारकाः।
प्रपाञ्चैवोदपानञ्च ये ददन्ति उपाश्रयम्।
तेषां दिवा च रात्रिञ्च सदा पुण्यं प्रवर्तते॥ इति।

(पृ) केचिदाहुः- विज्ञप्तिकर्म प्रत्यक्षमुपलभ्यते। यानि चीवरदानचैत्यवन्दनहननहिंसादीनि तानि भवेयुः। अविज्ञप्तिस्तु अनुपलभ्यमानत्वात् नास्तीत्ययमर्थः स्पष्टं स्यादिति। (उ) यदि नास्त्यविज्ञप्तिः। तदा प्राणातिपातविरत्यादिधर्मो नास्ति। (पृ) विरतिर्नामाकरणम्। अकरणमभावधर्मः। यथा पुरुषस्याभाषणकाले नास्तिभाषणधर्मः। रूपस्यादर्शनकालेऽपि नास्त्यदर्शनधर्मः। (उ) प्राणातिपातविरत्यादिना स्वर्ग उत्पद्यते। यदि विरतिरभावधर्मः। कथं हेतुः स्यात्। (पृ) न विरत्या स्वर्ग उत्पद्यते, किन्तु कुशलचित्तेन। (उ) मैवम्। उक्तं हि सूत्रे-वीर्यवान् पुरुष आयुर्वशात् बहुपुण्यं प्रसवति। पुण्यबहुत्वाच्चिरं स्वर्गसुखं विन्दत इति। यदि कुशलचित्तमात्रेण, किमर्थं बहुपुण्यो भवति। न ह्ययं कुशलचित्तो भवितुं क्षमते। आह च वनादिरोपस्य दिवा रात्रिञ्च सदा पुण्यं प्रवर्धत इति। शीलं ध्रुवमिति चोक्तम्। यदि नास्त्यविज्ञप्तिः। कथं वक्तव्यं स्यात् पुण्यं सदा प्रवर्धते, शीलं ध्रुवमिति च। न च विज्ञप्तिः प्राणातिपातक्रियैव। प्राणातिपातानन्तरं धर्मो भवति। तदूर्ध्वं प्राणातिपातपापं लभते। यथा हन्तुं कञ्चन प्रेरयति। हननकालमनु प्रेरको हननपापं लभते। अतो ज्ञायतेऽस्त्यविज्ञप्तिरिति। मनश्च न शीलसंवरः। कस्मात्। यदि कश्चिदकुशलाव्याकृतचित्तस्थः, यदि वाऽचित्तः। सोऽपि शीलधारीत्युच्यते। अतो ज्ञायते तस्मिन् समयेऽस्त्यविज्ञप्तिरिति। एवमकुशल संवरोऽपि।

(पृ) ज्ञातं विनाऽपि चित्तमस्त्यविज्ञप्तिधर्म इति। इदानीं किमिदं रूपं किं वा चित्तविप्रयुक्तसंस्कारः। (उ) स संस्कारस्कन्धसङ्‍गृहीतः। कस्मात्। यस्मादभिसंस्करणलक्षणः संस्कारः। अविज्ञप्तिरपि अभिसंस्करणलक्षणा। रूपञ्च रूपणालक्षणम् नाभिसंस्कारलक्षणम्। (पृ) सूत्र उक्तं षट् चेतनाकायाः संस्कारस्कन्ध इति। न चित्तविप्रयुक्तसंस्कारा इति। (उ) प्रतिपादितमिदं पूर्वं यदस्ति पुण्यं पापं चित्तविप्रयुक्तमिति। (पृ) अविज्ञप्तिर्यदि रूपलक्षणा। को दोषः। (उ) रूपशब्दगन्धरसस्प्रष्टव्याः पञ्च धर्मा न पुण्यपापस्वभावाः। अतो न रूपस्वभावाऽविज्ञप्तिः। भगवानाह-रूपणालक्षणं रूपमिति। अविज्ञप्तौ रूपणालक्षणानुपलम्भान्न रूपस्वभावता।

(पृ) अविज्ञप्तिः कायिकवाचिककर्मस्वभावा। कायिकवाचिककर्म च रूपमेव। (उ) अविज्ञप्तिः कायिकवाचिककर्मेति नाममात्रम्। न वस्तुतः कायवाग्भ्यां क्रियते। कायञ्च वाचञ्च प्रतीत्य मानसिककर्मणोत्पन्नत्वात्कायिकवाचिकमानसिककर्मस्वभावेत्युच्यते। अथवा मनस उत्पन्नैवाविज्ञप्तिः। इयमविज्ञप्तिः कथं रूपस्वभावा। आरूप्येऽप्यस्त्यविज्ञप्तिः। आरूप्ये कथं रूपं भविष्यति। (पृ) काः क्रिया अविज्ञप्तिमुत्पादयन्ति। (उ) शुभाशुभकर्मक्रियाभ्य उत्पद्यतेऽविज्ञप्तिः। नाव्याकृताभ्यः। अल्पबलत्वात्। (पृ) कदा क्रियाभ्योऽविज्ञप्तिरुत्पद्यते। (उ) द्वितीयचित्तादुत्पद्यते। यत् कुशलाकुशलानुगामि चित्तं प्रबलं भवति। तत् चिरं तिष्ठति। यच्चित्तं दुर्बलं न तच्चिरं तिष्ठति। यथा एकदिनसमात्तं शीलमेकदिनं तिष्ठति। आदेहपातसमात्तं शीलन्तु आदेहपातं तिष्ठति॥

अविज्ञप्तिवर्गः षण्णवतितमः।

९७ हेत्वहेतुवर्गः

(पृ) सूत्र उक्तम्-हेतुकृतं कर्म अहेतुकृतं कर्मेति। कतमो हेतुः अहेतुश्च। (उ) ज्ञानपूर्वकं कृतं [कर्म] हेतुकृतम्। तद्विपरीतमहेतुकृतम्। (पृ) [तर्हि] यदहेतुकृतं न तत् कर्म भवति। (उ) अस्तीदं कर्म। किन्तु यच्चित्तहेतुकृतं कर्म तत्सविपाकम्। चित्तेऽध्यवसीयकृतं कर्म हेतु [कृत]म्, अनध्यवसीयकृतं कर्माहेतु [कृतम्]। यथा योधाजीवव्यवहारोऽहेतुकः। अयोधाजीवव्यवहारस्तु हेतुः। यथोक्तं सूत्रे-तव दोषान् गणयिष्यामि। यदि योधाजीवो व्यवहरसि न तदा गणयिष्यामीति यावत् त्रिधा पृच्छति। यद्यकरणचित्तपूर्वकं करोति-यथा कश्चिद्विहरन् पादनिक्षेपणेन कीटं हन्ति। सोऽहेतुः। अहेतुककर्मासञ्चितमिति न विपाकजनकम्।

कर्माणि चतुर्विधानि-कृतानुपचितं, उपचित्ताकृतं, कृतोपचितं अकृतानुपचितम् इति। कृतानुपचितमिति-यथा हननादिकर्म कृत्वा पश्चाच्चित्तं परितपति। दानादिकर्म कृत्वा च चित्तं परितपति। कर्मक्रियाचित्तमुत्पाद्य न पुनः स्मरति। तत् कृतानुपचितम्। उपचिताकृतमिति-यत् अन्यं हननादि कारयित्वा प्रमुदितचित्तो भवति। अन्यं दानादि कारयित्वा च प्रमुदितचित्तो भवति। कृतोपचितमिति-यत् हननादि पापं कृत्वा दानादिपुण्यं कृत्वा च प्रमुदितचित्तो भवति। अकृतानुपचितमिति-न च करोति नापि मुदितचित्तो भवति। तत्र कृतोपचितकर्मणोऽस्ति विपाकवेदना। यथोक्तं सूत्रे-यत् कर्म कृतमुपचितं तस्य कर्मणोऽवश्यमस्ति विपाकप्रतिसंवेदना इति। अतः कृतोपचितकर्मणो दृष्टधर्मे वा विपाको वेद्यते। उपपत्तौ वा विपाको वेद्यते। आयत्यां वा विपाको वेद्यते।

(पृ) यदि हेतुकृतोपचितकर्मणोऽवश्यमस्ति विपाकप्रतिसंवेदना तदा नास्ति विमुक्तिः। (उ) कर्म हेतुकृतमपि तत्त्वज्ञानलाभिनो न पुनरुपचीयते। यथा दग्घबीजं न पुनः प्ररोहति। लवणपलवर्गे भगवानाह-एकत्यः (श्च) पुरुषो [भावितकायो] नरकवेदनीयं कर्म करोति। तस्य तादृशमेवाल्पमात्रकं दृष्टधर्मवेदनीयं भवति। इति। (पृ) यदि गुरुपापकं कर्म अल्पमात्रकं [दृष्टधर्म] वेदनीयं प्रज्ञायते। कस्मान्नात्यन्तं क्षयमेति। (उ) यस्तत्त्वज्ञानं न भावयति स पापकर्मणोऽनुशयं लभते। अतोऽल्पको दृष्टधर्मवेदनीयो विपाको भवति। (पृ) [तर्हि] भाविततत्त्वज्ञानोऽर्हन्नपि अकुशलविपाकं वेदयते। (उ) परमकुशलधर्ममभ्यसन्नकुशलं प्रतिहन्ति। अतो यो जन्मशतसहस्रेषु शीलादि कुशलमुपचिनोति। न तस्याकुशलं कर्मोदेति। यथा बुद्धानां सर्वज्ञानां पुरुषाणाम्। नान्येषामेवं सामर्थ्यम्। अतोऽकुशलकर्म लभन्ते। अतोऽर्हन् भाविततत्त्वज्ञानोऽपि पूर्वकर्मवशादकुशलविपाकं वेदयते च। (पृ) उक्तं सूत्रेऽपि-भगवानपवादाद्यकुशलकर्मविपाकं वेदयत इति। (उ) भगवान् सर्वज्ञो नाकुशलकर्मविपाकः। समुच्छिन्न सर्वाकुशलमू[ल]त्वात्। किन्त्वप्रमाणर्द्ध्युपायेनोपदर्शयति अचिन्त्यं बुद्धवस्त्विति। यथोक्तमेकोत्तरागमे अचिन्त्यानि पञ्चवस्तूनीति।

कर्म द्विविधम्-नियतविपाकमनियतविपाकमिति। नियतविपाकं कर्म बहु वा अल्पं वा अवश्यवेदनीयविपाकम्। अनियतविपाकं कर्मेति अत्यन्तपरिक्षीयमाणम्। (पृ) किं नियतविपाकं कर्मं किमनियतविपाकम्। (उ) यानि सूत्रोक्तानि तानि नियतविपाककर्माणि। (पृ) किं पञ्चानन्तर्याण्येव नियतविपाककर्माणि। किमन्यान्यपि सन्ति। (उ) अन्येषां कर्मणामस्ति नियतविपाकताभागः। किन्तु न प्रदर्शितः। विषयगौरवाद्वा नियतविपाकता। यथा भगवति तच्छ्रावके वा सत्कारः अथवाऽल्पमात्रानिन्दा। चित्तगौरवाद्वा नियतविपाकता। यथा गम्भीरघनपर्यवस्थानेन क्रिमिकीटान् हन्ति। इदं पुरुषहननादपि गुरुतरम्। एवमादि। अन्यानि कर्माण्यनियतविपाकानि सन्ति। (पृ) यदि पञ्चानन्तर्यपापकानि तनूभवन्तीति। कस्मादत्यन्तं न क्षीयन्ते। (उ) न ते पापधर्मास्तस्मिन् समयेऽत्यन्तं क्षीयन्ते। यथा स्त्रोत‍आपन्नः कौसीद्यप्राप्तोऽपि नाष्टयोनीः प्राप्नोति। सारगौरवात्पञ्चानन्तर्याणि नात्यन्तं क्षीयन्ते। यथा राजधर्मे गुरुपातकी दण्ड्य एव न क्षन्तव्यः॥

हेत्वहेतुवर्गः सप्तनवतितमः।

९८ गुरुलघुपापवर्गः

सूत्र उक्तम्-अस्ति गुरुलघुपापं कर्मेति। कतमद्गुरुलघु। (उ) यत्कर्मावीचिनरकवेदनीयप्रापकं तत् कर्म गुरुपापकमित्युच्यते। (पृ) कानि कर्माणि तद्विपाकप्रापकानि। (उ) यत्सङ्घभेदनकर्म तेनावश्यं तद्विपाकं वेदयते। कस्मात्। त्रीणि रत्नानि प्रतिविभिन्नानि। सङ्घरत्नं बुद्धरत्नाद्व्‍यतिरिक्तम्। धर्मरत्नभेदोऽपि [गुरुपापम्]। अधिमात्र मिथ्यादृष्टिजातस्तत्कर्माभिनिर्वर्तयति। बुद्धे परमीर्ष्याव्यापादाभ्यां तत्कर्म करोति। चिरोपचिताकुशलस्वभावः स्वलाभलोभात्तत्कर्म करोति। धर्मो धर्म इति [यत्] तन्नास्तीति तस्मिन् वदति कुशलधर्माणामचरितारो बहवः सत्त्वाः प्रतिहन्यन्त इत्यतो भवति गुरुतरं पापम्।

(पृ) किं सङ्घभेदमात्रमवीचौ विपाकप्रापकम्। किमन्यदप्यस्ति। (उ) अन्यदप्यस्ति कर्म। नास्ति पापं नास्ति पुण्यं नास्ति मातापितृसज्जानानां सत्कारविपाक इति यद्वचनं तदादिमिथ्यादृष्टिरपि तद्विपाकप्रापिणी। अन्यं मिथ्यादृष्टौ पातयन् बहून् सत्त्वानकुशलानि कारयंश्च तद्विपाकं वेदयते। ईदृशमिथ्यादृष्टिसूत्राणि रचयन्ति यथा पूरणादयो मिथ्यादृष्टिनामाचार्याः सम्यग्दृष्टिविहिंसया बहूनां सत्त्वानामकुशलाय हेतुप्रत्ययं प्रकाशयन्ति। आर्याणामपवादोऽपि तद्विपाकप्रापकः। यथा वदन्ति चतुरशीतिवर्षसहस्त्राणि एकनिन्दको दुःखमनुभवति। यथा चोक्तं धर्मपदे-

धर्मेण जीवन्नार्यो यस्तेन धर्मेण शिक्षयेत्।
मृद्विन्द्रियः पापसेवी विलोमयति तद्वचः॥
कण्टकोद्वन्धनं यद्वदात्मकायविघातकम्।
नरके स पतत्येव ह्यूर्ध्वपादमवाच्छिरः॥
शतं सहस्राणां निरर्बुदानां
षट् त्रिंशच्च पञ्च च अर्बुदानाम्
यदार्यगर्ही निरयमुपैति
वाचं मनः प्रणिधाय पापकम्। इति।

प्राणातिपातादि यद्विषयगुरुकं चित्तगुरुकं तत्पापमपि अवीचिनरकपातकम्। गुरुविपरीतं लघु यदुत तपनप्रतपनादिषु हीननरकेषु तीर्यक्षु प्रेतेषु देवमनुष्येषु चाकुशलविपाकं प्रतिसंवेदयते। तल्लघुपापकमित्युच्यते।

गुरुलघुपापवर्गोऽष्टनवतितमः।

९९ महाल्पार्थककर्मवर्गः

(पृ) सूत्र उक्तं महाल्पार्थकं कर्मेति। किं तन्महार्थकं कर्म। (उ) येन कर्मणा अनुत्तरसम्यक्‌सम्बोधिमधिगच्छति। तन्महत्तमार्थकं कर्म। ततोऽवरकर्मणा प्रत्येकबुद्धमार्गं विन्दते। ततोऽवरकर्मणा श्रावकमार्गं लभते। ततोऽवरकर्मणा भवाग्रऽशीतिमहाकल्पसाहस्राण्यायुर्विपाकं लभते। इदं संसारे महत्तमविपाकं कर्म। ततोऽवरकर्मणा आकिञ्चन्यायतने षष्टिकल्पसहस्राण्यायुर्विन्दते। एवं क्रमेण यावद्ब्रह्मलोकं कल्पार्धमायुर्विन्दते। ततोऽवरकामधातौ परनिर्मितदेवेषु दिव्यगणनया षष्टिवर्षसहस्राण्यनुभवति। यावच्चतुर्महाराजिकेषु दिव्यगणनया पञ्चवर्षशतानि [विपाकं] वेदयते। एवं मनुष्येषु चतुर्महाराजिकानामधः प्रत्येकं कर्मवशाद्विपाकं वेदयते। एवं तिर्यक्‌प्रेतनरकेष्वप्यस्ति अल्पलाभं कर्म।

कीदृशानि कर्माणि अनुत्तरसम्यक्‌सम्बोध्यादीन् प्रापयन्ति। (उ) दानादिषट्‌पारमितासम्पदनुत्तरसम्यक्‌सम्बोधिं प्रापयति। ततः कुशलकर्मक्रमेण जघन्यप्रवृत्तं प्रत्येकबुद्धबोधिं प्रापयति। [ततोऽपि] जघन्यप्रवृत्तं श्रावकबोधिं प्रापयति। अधिमात्रेषु चतुरप्रमाणचित्तेषु विहरन् भवग्र उत्पद्यते। ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन्नवरभूमावुत्पद्यते। ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन् शीलसमाधिप्रत्ययवशाच्च रूपधातावुत्पद्यते। दानशीलकुशलाभ्यासप्रत्ययेन कामधातावुत्पद्यते। दानादिकर्मणां पुण्यक्षेत्रोत्कर्षनिकर्षमनुसृत्यास्ति विशेषः। यत् बुद्धक्षेत्र आचरणं तदत्युत्तमम्। यत्प्रत्येकबुद्धक्षेत्र आचरणं तत् ततो न्यूनम्।

(पृ) पुण्यक्षेत्रं किं बोध्योत्कृष्टं किं वा प्रहाणेन। (उ) अत्यन्तशून्यताख्यं धर्मलक्षणं या बोधिः प्रापयति। सा प्रहाणादुत्कर्षति। कस्मात्। यथा भगवान् बोध्या श्रावकेभ्योऽतिरिच्यते न प्रहाणेन। यथोक्तं संयुक्तपिटके-

जम्बूद्वीपसमां यच्च सङ्घभूमिं विशोधयेत्।
पाणिकल्पस्य चैत्यस्य शास्तुस्तच्छोधनोपमम्॥

सर्वज्ञज्ञानञ्च प्रहाणार्थम्। अतो यद्बोधिसत्त्वानां संसारे दीर्घकालावासः स सम्यक् प्रहाणार्थः। सम्यक् प्रहाणमिति यत् स्वसंयोजनप्रहाणं सत्त्वप्रहाणञ्च। तानि संयोजनानि च क्रमशो बोधिप्रहेयानि। अतो ज्ञायते बोध्या पुण्यक्षेत्रं प्रहाणादुत्कृष्टमिति।

(पृ) यस्तीक्ष्णेन्द्रियः स्त्रोत‍आपन्नः यश्च मृद्विन्द्रियः सकृदागामी। अतयो पुण्यक्षेत्रयोः क उत्कृष्टः। (उ) तीक्ष्णेन्द्रिय उत्कृष्टो न मृद्विन्द्रियः। (पृ) तद्वचन मयुक्तम्। यथोक्तं सूत्रे स्त्रोत‍आपन्नशतसत्कारो नैकसकृदागामिसत्कारकल्प इति। आह च-दन्धानां हिंसया कामरागकलहचित्तं प्ररोहति। इति। अतो वीतरागस्य दानं बहुपुण्यानि प्रापयेत्। सकृदागामी च त्रीणि विषाणि तनूकरोति। न स्त्रोत‍आपन्नः। कस्मादुच्यत उत्कृष्ट इति। (उ) तत्सूत्रं नेयार्थकम्। केनेदं ज्ञायते। तस्मिन्नेव सूत्र उक्तं-तिरश्चां दानं शतगुणं हितं प्रापयति इति। वस्तुतस्तु पारावतपक्ष्यादीनां दानेन प्रतिलब्धो विपाकः तीर्थिकानां पञ्चाभिज्ञानां दानमतिशेते। अतस्तत्सूत्रं चिन्त्यार्थकम्। सूत्रं तत् बहुना हेतुनाह-निस्सरणार्था प्रज्ञा इति।

स्त्रोत‍आपन्नश्च प्रज्ञाबलेन कामान् वेदयमानोऽपि पुण्यक्षेत्रमित्युच्यते। न तु प्रहीणरागः प्राकृतो यावद्भवाग्रनियमलाभी [पुण्यक्षेत्रम्]। बहुश्रुतज्ञानं निर्वेधभागीयगतमेव प्रकृष्टं न भवाग्रनियतोऽनिर्वेधभागीयगतः। मैत्रेयबोधिसत्त्वोऽप्रतिलब्धबुद्धत्वोऽपि अर्हतां सत्कार्यः। शून्यताकारमात्रबोधिचित्तोत्पादकोऽर्हतां सत्कार्यः। तद्यथा एकः श्रामणेरः पात्रचीवरमादाय अर्हन्तमनुचरति। अस्मिन् श्रामणेरे उत्पन्नानुत्तर [बोधि] चित्ते तु अर्हन्नेव तत्पात्रचीवरमादाय स्वयमुत्तरासङ्गं कृत्वा तमनुगच्छति। तद्यथा दृष्टान्ते विस्तरेणोक्तम्। अतो ज्ञायते प्रज्ञया पुण्यक्षेत्रमुत्कृष्टं भवतीति॥

महाल्पार्थककर्मवर्ग एकोनशततमः।

१०० त्रिविधकर्मवर्गः

(पृ) सूत्र उक्तम्-त्रिविधं कर्म कुशलमकुशलमव्याकृतमिति। किं कुशलं कर्म। (उ) यत् कर्म परेषां प्रियं प्रयच्छति तत् कुशलम्। (पृ) किं प्रियम्। (उ) परेषां यत् सुखप्रापकं तत् प्रियम्। कुशलमित्यप्युच्यते पुण्यमित्यप्युच्यते। (पृ) यत् परेषां सुखप्रापकं तत् पुण्यम्। यत् परेषां दुःखप्रापकं तेन पापेन भवितव्यम्। यथा आञ्जनौषधशल्यवेधाः परेषां दुःखजनकाः पापाः स्युः। (उ) आञ्जनौषधशल्यवेधाः सुखप्रदत्वादपापाः। (पृ) सुखप्रदं तत् पुण्यमिति। यथा परदारगमनं तत् तस्य सुखजनकं तत् पुण्यकरमपि स्यात्। (उ) अब्रह्मचर्यं नियमेनाकुशलम्। यत् परानुकुशलधर्मे प्रवर्तयति तत् दुःखाय भवति न सुखाय। सुखं नाम यदिहामुत्र च सुखम्। न त्वैहिकमल्पसुखम्। यत् प्रेत्यामुत्र महादुःखं विन्दते।

(पृ) केचिदन्नपानप्रत्ययं परेषां सुखमुत्पादयन्ति। तदन्नपानं कदाचिदजीर्यमाणं सत् पुरुषस्य मरणं प्रापयति। तदन्नदायकः किं पापं लभेत किं वा पुण्यम्। (उ) स साधुचित्तोऽन्नं प्रयच्छति न दुष्टचित्तः। अतः पुण्यमात्रं लभते न पापम्। (पृ) परदारगमनमप्येवं स्यात्। केवलं सुखार्थत्वात्पुण्यमपि लभेत। (उ) इदं पूर्वमेव प्रत्युक्तं यदब्रह्मचर्यं नियमेन अकुशलमिति। महादुःखजनकत्वात्। अन्नपानदाने त्वस्ति पुण्यगुणभागः। कस्मात्। नह्यवश्यमन्नलाभी म्रियते। सत्त्वाः कामक्लिष्टाः काममैथुनमनुभवन्ति। तत् सर्वथाऽपुण्यहेतुः। कथं पुण्यं लभेरन्। (पृ) केचित् प्राणिहिंसया बहू नामुपकुर्वन्ति। यथा चोराणां निग्रहे राष्ट्रं निरीति भवति। क्रूरपशुमारणे जनानां हितं भवति। एवमादिप्राणिहिंसया किं पुण्यं लभ्येत। केचित्स्तेयप्रत्ययं पितरौ पोषयन्ति। मैथुनप्रत्ययं प्रियपुत्रं जनयन्ति। मृषावादप्रत्ययञ्च कस्यचिज्जीवीतं प्रददन्ति। पारुष्यवचनप्रत्ययं परेषां हितं भवति। इदं सर्वं दशाकुशलसङ्‍गृहीतम्। कथमनेन पुण्यं लभेरन्। (उ) ते पुण्यं पापञ्च लभन्ते। परानुग्रहात्पुण्यं लभन्ते परोपघातात्पापम्। (पृ) चिकित्साऽपि परस्यादौ दुःखप्रदा पश्चात्सुखं प्रापयति। कस्मात्पापमलब्ध्वा पुण्यमात्रं लभते। (उ) चिकित्सायां कुशलचित्तेन कृतायां नास्त्यकुशलाशयः। यत् कर्म कुशलाकुशलहेतुसमुद्धितं, ततः पुण्यं पापं व्यामिश्रं लभते।

चोदयति। हिंसादयः सर्वे पुण्यप्रापकाः। कस्मात्। हिंसाप्रत्ययमभीष्टं लभते। यथा राज्ञाश्चोरनिग्रहे पुण्यं लभ्यते। पुण्यप्रत्ययञ्च यदभीप्सितं तल्लभ्यते। इति प्राणातिपातात् कथं पुण्यं न भवति। हिंसां कुर्वन् यशो लभते। यशः पुरुषस्य काम्यं भवति। पुरुषस्य काम्यं पुण्यफलकम्। हिंसया च प्रीतिसुखं लभते। प्रीतिसुखमपि पुण्यफलविपाकम्। आह च च सूत्रम्-यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति। यथाह गाथा-म्रियमाणञ्च सङ्‍ग्रामे पतिं बरयतेप्सराः इति। किञ्चाह-

सुधनत्वेऽपि पुरुषश्चोरं पुरत आगतम्
हन्यादेव न वै पापं आहन्ता विन्दते तु तत्॥ इति

धर्मसूत्रमाह-चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः। एषां पृथक् सन्ति स्वधर्माः। ब्राह्मणस्य षड्‍धर्माः क्षत्रियस्य चत्वारो वैश्यस्य त्रयः शूद्रस्यैकः। षड् धर्मा इति यजनमार्विज्य मध्ययतमध्यापनं दानं प्रतिग्रहः। चत्वारो धर्मा इति यजनं नार्त्विज्यं, परतो वेदाध्ययनं नाध्यापनं, दानं न प्रतिग्रहः प्रजापालनम्। त्रयो धर्मा इति यजनं नार्त्विज्यं, अध्ययनं नाध्यापनं दानं न प्रतिग्रहः। एको धर्म इति त्रयाणामुत्तमवर्णानां शूश्रूषा। क्षत्रियस्य प्रजापालनाय प्राणिवधे पुण्यमेव न पापम्। वेद उक्तम्-प्राणिवधः पुण्यप्रापकः यदुत वैदिकमन्त्रेण हताः पशवः स्वर्ग उत्पद्यन्त इति। वेदाश्च लोके श्रद्धेया भवन्ति। किञ्चाह यद्वस्तुतो मर्तव्यं तद्धनने नास्ति पापम्-यथा पञ्चाभिज्ञ ऋषिर्मन्त्रेण पुरुषं हन्ति। न वक्तव्यमृषेः पापमस्तीति। [अनृषे]ः पापिष्ठस्य कथमेतत्सिध्यति। अतो ज्ञायते प्राणिवधो न पापप्रापक इति। कश्चित्कदाचिच्चित्तबलेन प्राणिनं हत्वा पुण्यं लभते। प्राणदानेन तु पापं लभते। यदि कुशलचित्तेन सुखलिप्सया प्राणिनं हन्ति। कथं तस्य पापं भवति। यथा सूनकादयः। पशुपालानां गवाजदानेऽपि पापम्। एवमदत्तादानादिष्वपि पुण्यगुणोऽस्ति।

अत्रोच्यते। यदुक्तं भवता प्राणिवधेनाभीप्सितलाभादस्ति पुण्यगुण इति। तदयुक्तम्। कस्मात्। पुण्यगुणाधीनतया हि अभीप्सितलाभः। अभीप्सितप्रत्ययः प्राणिवधलाभ इति कस्माद्युक्तम्। पूर्वाध्वकृताविशुद्धपुण्यत्वात्। यथोक्तं सूत्रे-चौर्यहरणवधहिंसाप्रतिलब्धधनोऽन्यस्य दानं प्रयोजयति। तत् दौर्मनस्यपरिदेवनेनापरिशुद्धं दानमिति। एवमादिदानमपरिशुद्धमित्युच्यते। अवश्यमशुभप्रत्ययाधीनां विपाकवेदनां प्रापयति। तस्य पुरुषस्य पूर्वाध्वनि पुण्यमस्ति प्राणातिपातकर्मप्रत्ययोऽप्यस्ति। तस्मादिदानीं कायो हननहेतुकं विपाकं वेदयते। केचित्सत्त्वा अपि प्रत्यर्पणीयजीवितधना इत्यतो वधहिंसया यदभीप्सितं तल्लभते। न च तथा सर्वे सत्त्वाः। [अतः] प्राणिवधेनोपभोग्यं लभते। यथा लोक आहुः-अयं पुरुषोऽल्पपुण्यो बहुकुर्वन्नपि न विन्दत इति। यशःप्रीतिसुखेष्वप्येवं स्यात्। पुण्यगुणप्रत्ययेन यशःकायबलसुखानि लभते। पुण्यस्य केवलमपरिशुद्धत्वात् वधेन [उपभोग्यं] लभते। (पृ) सिंहव्याघ्रादिलब्धं कायबलं सर्वं पापजम्। यक्षराक्षसादिलब्धं कायबलसुखमपि पापजम्। (उ) इदं पूर्वमेव प्रत्युक्तम्। अविशुद्धपुण्यत्वात्पापप्रत्ययेन लभते।

यद्ब्रवीषि सूत्र उक्तं-यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति। तदयुक्तम्। कस्मात्। सूत्रमिदमनेन मिथ्याप्रलापेन मूढान् प्रोत्साहयति सौर्यमुत्पादयितुम्। केनेदं ज्ञायते। अवश्यं पुण्याधीनं पुण्यमुत्पद्यते पापाधीनं पापम्। तत्रात्यन्तमसति पुण्यहेतौ केन पुण्यं लभेत। यदाह भवान्-चतुर्णां वर्णानां पृथक् सन्ति स्वधर्माः। क्षत्रियस्य प्रजापालनात् वधोऽपाप इति। स गृह्यधर्मसमः। यथा सूनकादीनां लोकानां गृह्यधर्माः प्राणिवधाः सदा क्रियमाणा न पापविमुक्ताः। तथा क्षत्रियस्यापि। स राजधर्मोऽपि हेतुना पापप्रापकः। यदि क्षत्रियो राजधर्मत्वेन प्राणान् वध्यन् अपापो भवति। तदा सूनकव्याधादयोऽप्यपापाः स्युः। क्षत्रियः परं प्रजासु करुणार्द्रचित्ततया वैरमुत्सृज्य तदधीनं पुण्यं लभते। यः पुरुषजीवितमपहरति। तस्य पापमस्ति। यथा कश्चिन्मातापितृपालनाय परधनमपहरति। स पुण्यं पापं व्यामिश्रं लभते।

(पृ) मातपितृपालनाय चोरयन् न पापं लभेत। यथोक्तं धर्मसूत्रे-यः सप्तदिनान्युपवसति। स चण्डालादपहरन् न पापमुपादत्ते। यो मुमूर्षुः स ब्राह्मणादप्युपादानं लभते इति। इमे दुष्कर्मणा जीवन्तोऽपि नोच्यन्ते शीलव्यसनिन इति। आपन्नत्वात्। यथाकाशो न रजसा दूष्यते। तथा तेऽपि न पापेन दूष्यन्ते। (उ) उक्त ब्राह्मण धर्म एव-चौर्यकाले धनस्वाम्यागत्य रक्षति। तस्मिन् समये ब्राह्मणेन विचारयितव्यम्। यदि स धनस्वामिगुणैरसमानो भवति। तदा तं हन्यात्। कस्मात्। अहमुत्तमः, नानाप्रायश्चित्तैस्तत्पापं निर्हरामि। यदि तेन तुल्यगुणः। तदा आत्महनने परहनने वा तत्पापमपि तुल्यम्। तस्य गुरुतरपापस्य दुर्हरणत्वात्। यदि धनस्वामी गुणाधिकः। तदा स्वकायं त्यजेत्। तत्र पापस्यापनोद्यत्वात्। एवं विवेकः। चोरहननेऽप्येवं स्यात् दुष्कर्मणा जीवन्त इति यदुक्तं तत्र दुष्कर्मसत्त्वात्कथं पुण्यं भवेत्।

यदवोचः चोरं पुरत आगतं हन्यादेव न वै पापमहन्ता तु विन्दते तत् इति। तद्दूषितचरमेव। कस्मात्। यदि पुरत आगतो गुणाधिकः। तदा स्वकायं त्यजेत्। यदि नास्ति पापमिति। कस्मात्तथा भवेत्। यदब्रवीः वेद उक्तं प्राणिवधः पुण्यप्रापक इति। तत्प्रत्युक्तमेव यदुत बधे नास्ति पुण्यमिति। यदुक्तं वस्तुतो मर्तव्यस्य कस्यचिद्वधे नास्ति पापमिति। तदा दुष्टचोरवधेऽपि पापं न स्यात्। सर्वे च सत्त्वाः पापिष्ठाः। स्कन्धकायानुभवकर्माभिसंस्कारित्वात्। एवञ्च प्राणिवधेन पापं लभेत। तत्तु न सम्भवति।

(पृ) ये सत्त्वाः पूर्वाध्वनि स्वयंकृतबधप्रत्ययाः। तेषामिदानीं वधे कस्मात्पापं लभ्यते। चौर्यादिकर्मस्वप्येवं स्यात्। (उ) तथा चेत् पुण्यपापे न स्याताम्। कस्मात्। अयं पुरुषः पूर्वाध्वकृतवधप्रत्ययत्वात्तद्वधोऽपापः। तत्प्राणातिपातविरतिरप्यपुण्या स्यात्। एवं यः परस्मै ददाति तस्यापि न पुण्यं स्यात्। प्रतिग्रहीता पूर्वाध्वनि स्वाचरितदानकर्मक इदानीं तद्विपाकं लभते। न हि सम्भवति नास्ति पुण्यं पापमिति। अतो ज्ञातव्यं सत्त्वानां पूर्वाध्वकृतवधकर्मणामपि वधिता पापं लभत इति। रागद्वेषमोहेभ्यः समुत्पन्नत्वात्। इमे क्लेशा मिथ्याविपर्यासाः। मिथ्याविपर्यस्तचित्तोत्पाद एव पापं लभते। कः पुनर्वादस्तद्धेतूत्थितेषु कायवाक्कर्मसु। तेन संसारोऽनवस्थः। तथा नोचेदृषयो रागद्वेषादिक्लेशानामुदये ऋद्धे न हीयेरन्। यदीदं न पापम्। कस्य धर्मस्य विपरीतं पुण्यमित्युच्येत। ज्ञातव्यं पूर्वाध्वकृतप्रत्ययानामपि सत्त्वानां वधिता पापवान् स्यादिति। यद्युप्युक्तं त्वया पापियान् न किञ्चित्साधयतीति। तदयुक्तम्। चण्डालादयोऽपि मन्त्रविधिना पुरुषं घ्नन्ति। तथा महर्षयोऽपि अकुशलचित्तेन यथाभिहितं साधयन्ति। ते पुण्यबलात्साधयन्तः प्राणातिपातात्पापं लभन्ते।

यदब्रवीः-कश्चिच्चित्तबलेन प्राणातिपातं कुर्वन् पुण्यं प्रसूते। प्राणदानेन पापमिति। तदयुक्तम्। कस्मात्। अवश्यं चित्तबलेन पुण्यप्रत्ययेन पुण्यं लभते। न तु चित्तमात्रेण। यः कुशलचित्तेन गुरुतल्पगो ब्राह्मणहन्ता वा भवति। तेन किं पुण्यं लभ्येत। पारसीकादि पर्यन्तभूमिगतानां जनानां पुण्यबुद्धया मातृभगिन्यादिगामिनां किं पुण्यं भवेत्। अतो ज्ञायते पुण्यप्रत्ययत्वात्पुण्यमुत्पद्यते। न तु चित्तमात्रेण एवं स्तेयादावपि। अतो ज्ञायते वधादयोऽकुशला इति। ते वधादयः परेषामपकारकत्वादकुशला इत्युच्यन्ते। यद्यपि दृष्टे कञ्चित्कालं सुखं लभते। पश्चात्तु महद्दुःखमनुभवति। परापकारो ह्यकुशललक्षणम्। पश्यामः खलु प्रत्यक्षं बहवः सत्त्वा वधादीनाचरन्तो भूयसा तिसृषु गतिषु मनुष्यगतौ च दुःखपीडा अनुभवन्तीति। [अतो] ज्ञातव्यं दुःखपीडा वधादीनां फलमिति। हेतुसरूपत्वात्फलस्य। तिसृषु दुर्गतिषु पापानि तीव्रदुःखानि। अतो ज्ञायते वधादिप्रत्ययात्तत्रोपपद्यन्त इति।

(पृ) देवेषु मनेष्येषु चैवं स्यात्। देवा अपि सदा युद्धेऽसुरैः सह वध्यन्ते। मनुष्येषु गर्तग्रहणयन्त्रजालविषैः सत्त्वान् घ्नन्ति। (उ) देवमनुष्येषु सन्ति वधविरत्यादयो धर्माः। न तु तिसृषु गतिषु, इति ज्ञातव्यं तत्र पापं तीव्रदुःखमिति। मनुष्या वधादिप्रत्ययेन तु प्रक्षीणायुरादिलाभसुखा भवन्ति। [तथा हि] पुरा मनुष्या अप्रमाणायुष्का अभूवन्। चन्द्रसूर्यवत्स्वकायनिश्चरद्रश्मयः विहायसा स्वैरचारिणाः। पृथिवी स्वाभाविकयथेष्ठद्रव्याः स्वाभाविकतण्डुलाः। सर्वमिदं वधादिपापैः प्रणष्टम्। ततः पुनः क्षयोऽभूत्। यावद्दशवर्षेषु मनुष्येषु धृततैलसितोपलाशालिचोलयवादयः सर्वेऽपि तिरोहिताः। अतो ज्ञायते वधादयोऽकुशलकर्माणीति। यो वधहिंसादिभ्यो विरमति स पुनर्लाभसुखायुःपौष्कल्यं लभते। यथाशीतिवर्षसहस्रायुष्कस्य यथेष्टं कामा भवन्ति। अतो ज्ञायते वधोऽकुशल इति।

इदानीमौत्तरा वदन्ति तण्डुलं स्वाभाविकं वसनं वृक्षजम्। प्राणातिपातविरतित्वात्। संक्षिप्येदमुच्यते सत्त्वानां सर्वाणि सुखोपकरणानि प्राणातिपातविरतिसमुत्पन्नानीति। अतो ज्ञायते प्राणातिपातादयोऽकुशलकर्माणीति। प्राणातिपातादिधर्माः सज्जनैः परित्याज्याः। ये बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावका अन्ये च भदन्ताः ते सर्वे तान् परित्यज्य विरमन्ति। अतो ज्ञायतेऽकुशला इति।

(पृ) प्राणिवधादयः सुजनैरप्यनुश्रूयन्ते। यथोक्तं मेदे यज्ञार्थं पशुवधोऽनुश्रूयत इति। (उ) ते न सुजनाः। सुजनः सदा परस्य हितार्थी भवति। करुणाचित्ताभ्यासी मित्रामित्रयोः समः। तादृशः पुरुषः कथं प्राणिवधमनुश्रावयेत्। कामक्रोधकलुषितचित्ताः सन्त इमं ग्रन्थं रचयामासुः। [सत्त्वानां] स्वर्गे जन्माभिलाषी सत्त्वानभिमन्त्रयमानः स्वपुण्यबलेन तत्साधयति। वधादिभ्यो विमुक्तिलाभी न तत्करोति। अतो ज्ञायतेऽकुशलमिति। (पृ) विमुक्तिलाभी अन्यदपि विकालभोजनादि करोति। इदमप्यकुशलं भवेत्। (उ) इदं पापहेतुरिति सुजनाः परिहरन्त्यपि। यो धर्मोऽदुष्टः न स धर्मः परिहरणीयः स्यात्। विकालभोजनादयो ब्रह्मचर्यं घ्नन्तीत्यतोऽपि परिहरन्ति। केचिद्धर्माः स्वरूपतोऽकुशला इत्यतः परिहरन्ति यथा मद्यपानविकालभोजनादयः। अतो ज्ञायते प्राणातिपातः स्वरूपतोऽकुशल इति। प्राणातिपातो बहुजनविद्विष्टः। यथा सिंहव्याघ्रदस्युचण्डालादयः। यदनेन हेतुना जनविद्विष्टं कथं तदकुशलं न भवेत्। यः प्राणातिपातविरतः स बहूनां जनानां प्रियो भवति। यथा करुणाविहारी आर्याणां प्रियः। अतो ज्ञायते वधोऽकुशल इति।

(पृ) कश्चित्तु प्राणिवधकृत् स्वविक्रमवशाज्जनानां प्रियो भवति। यथा कश्चिद्राजार्थं दुष्टचोराणां हन्ता राजप्रियो भवति। (उ) [पाप]हेतुसत्त्वान्नात्यधिकं प्रियो भवति। यथा वदन्ति यो दुष्कर्मणा राजचित्तं तर्पयति। राजा च यदि निर्विण्णचित्तो भवति। तस्य पुनः स विमतो भवति। यो दुर्वृत्त्या विमतो भवति। स कथं प्रियो भवेत्। अकुशलचारी आत्मन एवाप्रियः। कः पुनर्वादोऽन्येषाम्। अतो ज्ञायते प्राणिहिंसाऽकुशलधर्म इति। वधादिधर्माः ताडनहिंसनवन्धनादीनां दुःखो पद्रवाणां हेतव इत्यतो ज्ञायतेऽकुशला इति। (पृ) अहिंसादिधर्मा अपि दुःखहेतवः। यथा राजा दुष्टचोरान् वधितुमाज्ञापायति। यो न वध्यति तं राजा हन्ति। (उ) यो न हन्ति स हन्यत इत्यहन्तारः सर्वे मरिष्यमाणा भवेयुः। राजशासनविरुद्धत्वादेषाम्। यदि राजा जानाति अयमवधचित्त इति तदा अवधिता प्रत्युत सत्क्रियते। अतो ज्ञायते वधादयो दुःखहेतवो न त्ववधादयः। यो वधानाचरति। तस्य मरणकाले चित्तं परितपति। अतो ज्ञायतेऽकुशलमिति। वधाद्याचरणात् न जनानां श्रद्धेयः। स्वयूथ्येष्वेव न श्रद्धीयते। कः पुनर्वादः सज्जनेषु। सिंसाद्याचारी सजातीयैरेवाधिक्षिप्यते। कः पुनर्वादोऽन्यजनैः। हिंसाद्याचारी चण्डालसूनकव्याधादिवत् सज्जनैः दूरतः परित्यज्यते। हिंसाद्याचरिता न सुखी जन इत्युच्यते। यथा सूनको न कदापीदृशकर्मणा सत्कारं लभते। सुजनो गुणाय हिंसादिभ्यो विरमति। यदि नाकुशलम्। कस्मात् गुणाय विरतिं सम्प्रत्येषति। दृष्टे पश्यामः खलु हिंसादीनां विप्रियं फलं भवतीति। ज्ञातव्यमागामिन्यध्वन्यपि दुःखविपाकं प्रापयतीति। यदि हिंसादयो नाकुशलाः। को धर्मः पुनरकुशलः स्यात्।

(पृ) यदि हिंसादिधर्मा अकुशलाः। तदा देहपोषणं न स्यात्। कस्मात्। न ह्यस्ति अहिंसासम्भवकालः। गतागते पादोत्क्षेपणे पादावक्षेपणे वा सदा सूक्ष्मसत्त्वान् विहन्ति। आत्मीयसंज्ञया परवस्तूनि सदा गृह्णाति। यथास्वसंज्ञञ्च मिथ्या व्यवहरति। अतो नैव देहपोषणं भवेत्। (उ) यत् हेतुकृतं तत् पापम्। नाहेतुकृतम्। यथोक्तं सूत्रे-वस्तुसन्तः सत्त्वाः, तेषु सत्त्वसंज्ञामुत्पाद्य जिघत्साबुद्ध्या तान् हत्वा हननपापं लभन्त इति। एवं स्तेयादावपि। (पृ) यथा विषं पीतवानिति हेतावहेतावुभयथा पुरुषं हन्ति। यथा च वह्निप्रक्रमणं ज्ञानेऽज्ञाने च पुरुषं दहति। तथा वेधनादिरपि स्यात्। ज्ञातव्यं प्राणिहिंसा हेतावहेतौ च पापं प्रापयति। (उ) नायं दृष्टान्तो युक्तः। विषेण कायहिंसनान्मरणम्। पुण्यन्तु चित्तगतम्। किमत्र दृष्टान्तो भवेत्। वह्निवेधनादिरपि प्रबोधेऽसति न दुःखजनकः। अतो न स दृष्टान्तो युज्यते। असति विज्ञाने न खेदं बुध्यते। सति तु विज्ञाने बुध्यते एवमसति हेतुचित्ते न कर्म सिध्यति। सति तु चित्ते सिध्यति। स दृष्टान्तस्तथा स्यात्। हेतौ सति पापम्। असति तु नास्ति। कर्मणां चित्तबलात्पुण्यपापविभागः। असति हेतुचित्ते कथमुच्चनीचभावो भवेत्। चिकित्सायामचिकित्सायाञ्चोभयथा पुरुषस्य दुःखं जायते। चित्तबलात्पुण्यपापविभागः। यथा मातुस्तनग्रहणे बालको न पापं लभते। अनुरागचित्ताभावात्। अनुरागचित्तेन ग्रहणे तु पापमस्ति। पुण्यं पापं सर्वं चित्ताधीनं जायत इति ज्ञातव्यम्।

यदि हेतुचित्तेऽसत्यपि पापमस्ति। तदा विमुक्तिलब्धोऽपि असति हेतौ सत्त्वान् पीडयन् पापं लभेत। तदा न विमुच्येत। पापिष्ठानां मोक्षाभावात्। यदि हेतोवसत्यपि पुण्यपापमस्ति। तदैकमेव कर्म कुशलमकुशलञ्च स्यात्। यथा कश्चित्पुण्यं कर्म कुर्वन् सत्त्वं हतवानस्मीति भ्रान्तो भवति। तदा तत्कर्म पापं पुण्यञ्च स्यात्। तत्तु न युज्यते। हेतावसति पुण्यं पापं वा नास्तीति ज्ञातव्यम्। यदि विना चित्तं कर्मास्ति। तदा कथमिदं कुशलं इदमकुशलं इदमव्याकृतमिति विभागः स्यात्। चित्तहेतुना त्वयं विभागः। यथा त्रयः पुरुषाः सम्भूय स्तूपप्रदक्षिणं कुर्वन्ति। तत्रैको बुद्धगुणानुस्मरणाय। द्वितीयः स्तेयहरणाय। तृतीयो भावशमनाय। [तेषां] कायकर्मणि समानेऽपि कुशलाकुशलाव्याकृतविभागश्चित्तगत इति ज्ञेयम्। किञ्चित्कर्म नियतविपाकं, किञ्चिदनियतविपाकं, किञ्चिदुत्तमं मध्यममधमं, दृष्टधर्मविपाकमुपपद्यविपाकं, तदुत्तरविपाकमित्यादि। यदि चित्तेन विना पुण्यपापं लभ्यते। कथमयं विभागो भवेत्। यदि चित्तव्यतिरिक्तं कर्मास्ति असत्त्वसंख्येष्वपि पुण्यपापं स्यात्। यथा सभीरणोन्मूलितपर्वतोपद्रुतेषु सत्त्वेषु समीरणे पापं स्यात्। सुगन्धिकुसुमस्य स्तूपविहारपतने पुण्यं स्यात्। तत्तु न सम्भवति। अतो ज्ञायते न चित्तव्यतिरिक्तं पुण्यपापमस्तीति।

तीर्थिका वदन्ति-उपवासस्थण्डिलशयनशलाकावेधादिभिर्जलपतनदहनप्रवेश भृगुपतनादिभिश्च दुःखप्रत्ययैः पुण्यं भवतीति। तत्र प्राज्ञा दूषयन्ति। तथा चेन्नारकाः सत्त्वाः सदा दह्यन्ते पच्यन्ते च। प्रेता बुभुक्षिताः पिपासिताः। पतङ्गा दहनप्रविष्टाः। मीननक्रा जलावसथाः। अजवराहाश्वादयः सदा पुरीषक्षेत्रशायिनः। तेऽपि पुण्यं लभेरन्। ते प्रतिब्रूवन्ति। अवश्यं हेतुचित्तेन तद्दुःखमनुभवतां पुण्यं भवति नत्वहेतुचित्तेन। नारकादयो न हेतुचित्तेन दाहादिदुःखमनुभवन्ति। यदि हेतुचित्तेन विना पुण्यं नास्ति। हेतुचित्तेन विना पापमपि नास्ति। यदि हेतुचित्तेन विना पुण्यमस्ति। नारकादीनामपि पुण्यं स्यात्। इत्येवं दोषोऽस्ति। [इति]। यदि हेतुचित्तं विना पुण्यं पापं वास्ति। तदा सुजनो न स्यात्। कस्मात्। चतुर्षु इर्यापथेषु सदा सत्त्वान् हन्ति। तत्तु न सम्भवति। हेतावसति नास्ति पुण्यं पापमिति ज्ञातव्यम्। सुजन्मक्षेत्रञ्च न लभेत्। सदा पापकत्त्वात्। वस्तुतस्तु सन्ति ब्रह्मकायिकादीनां सुरुचिराः काया अतो ज्ञायते न हेतुं विना पुण्यं पापं वास्तीति।

भावतां शासने अपरिशुद्धाहारे पापं भवति। योऽभिप्रैति सर्वाण्यन्नपानानि अपरिशुद्धाहाराः पापप्रापकाः स्युरिति। एवं सुरादिस्पर्शे सोऽब्राह्मणः स्यात्। परिशुद्धेन चित्तेन भोजने न पुनरस्ति पापमिति श्रुतं दृष्टवानसि। तदा चित्तं विना नास्ति पुण्यं पापं वा इति ज्ञातव्यम्। अध्वरे च पुण्यचित्तेन पशवो हन्यन्ते। तेन स्वर्ग उत्पद्येरन् इति। पुण्यचित्तेन हननात्पुण्यमस्ति। तथा नो चेत् सर्वे प्राणिवधाः पुण्यप्रापकाः पापप्रापका वा स्युः। ब्राह्मणमाह-किञ्चित्स्तेयमपापम्। यथा सप्तदिनान्यनशनः शूद्रादपि प्रतिगृह्णीयात्। यो मुमूर्षुः स ब्राह्मणादपि गृह्णीयात्। पुत्रार्थिनोऽब्रह्मचर्यमपापम् इति। हेतुचित्तेऽसति न स्यादीदृशविभागः। अतो ज्ञायते यो हेतुं विनान्यस्य विषं प्रयच्छति। केन स पापं लभेत। यः सहेतु अन्यस्य विषं प्रयच्छति। विषं प्रत्युत व्याधिं शमयति। स पुण्यं लभेत। कस्यचिदन्नं प्रयच्छति। अन्ने चाजीर्णे पुरुषो म्रियते। तत पापं प्राप्नुयात्। यदि विना हेतुं पुण्यपापे स्तः। तदा धर्मोऽयं व्याकुलः स्यात्। लौकिकाः सर्ववस्तुषु चित्तं श्रद्दधन्ते। यथा एकमेव वचनं प्रीतिद्वेषजननम्। पृष्ठताडनादिरप्येवम्। अतो ज्ञायते कर्माणि चित्ताधीनानि इति। [तत्र] मानसं कर्म गरिष्ठमित्युत्तरत्न वक्ष्यते। अतो ज्ञायते कर्माणि चित्ताधीनानीति। यः प्राज्ञः स पञ्चकामगुणेषु वसन्नपि न पापमाक् भवतीति मनसो बलम्। कस्मात्। न हि प्राज्ञो रूपाणि दृष्ट्वा मिथ्यासंज्ञामुत्पादयति। अतो नास्ति रूपासङ्गदोषः। तथा शब्दादावपि। यद्यनुत्पन्नमिथ्यासंज्ञोऽपि पापवान्। तदा सर्वाणि दर्शनश्रवणानि पापानि स्युः। तथा च मानसं कर्म निष्प्रयोजनं स्यात्। ज्ञानी प्रज्ञाशीर्षकः पञ्चकामगुणाननुभवन्नपि नासक्तिमुत्पादयति। पञ्चकामगुणाः सन्तोऽपि चित्तनिर्वेदान्न मलिनयन्ति। किमिदं न मानसकर्मणो बलम्। अतो नास्ति विना हेतुं पुण्यपापप्रतिलाभः।

चोदयति। यद्ब्रवीषि परस्यानुग्रहाननुग्रहौ कुशलाकुशललक्षणमिति। तदयुक्तम्। कस्मात्। यः स्वकायं परिपालयन्पुण्यं कर्माचरति। तस्यात्मानं भोजयतोऽपि पुण्यमस्ति। चैत्यविहारावसत्त्वभूतौ। तयोः सेचनशोधने अपि पुण्यप्रापके। वन्दनादयस्तु न परानुग्राहकाः। केवलं परगुणवैकल्यकरा इति न भवेत्पुण्यम्। न च चित्तमात्रेण पुण्यगुणो भवति। अन्नवस्त्राभ्यां परमुपकुर्वता तस्मिन् समये पुण्यं लभ्यते। तथा करुणा [मात्र] चारिणो न भवेत्पुण्यम्। यदि चैत्यविहारादयोऽसत्त्वसंख्याताः। तेषां यो धनमपहरति विनाशयति वा। न तस्य भवेत्पापम्। अनभिमुखीकृत्य दुर्वचसा परनिन्दने न भवेत्पापम्। अश्रुतत्वात्कस्यापकर्षः स्यात्। अन्यपुरुषे च दुष्टचित्तमात्रमुत्पादयति न कायवाक्कर्म करोति। किं पुनर्हीयते। न स पापभाक् स्यात्। कश्चिदात्मानं निन्दति। कश्चिदात्मानं हन्ति। कश्चित्स्वयं मिथ्याचरति। कश्चिच्च पापं लभते। अतः कुशलाकुशललक्षणं न परानुग्रहाननुग्रहमात्रेण भवति।

अत्रोच्यते। यद्ब्रवीषि स्वदेहं पालयतः पुण्यगुणोऽस्तीति। तदयुक्तम्। यद्यात्मसत्कारे पुण्यगुणोऽस्ति। तदा न कश्चित्परं सत्कुर्यात्। वस्तुतस्तु पुण्यार्थी परं सत्करोति। यात्मार्थता ततः पुण्यमल्पं भवति। अतो ज्ञायते आत्मार्थता न पुण्यवती स्यादिति। यदाह भवान् आत्मपोषणं पुण्यकर्माचरणार्थमिति। तत् स्वदेहः परेषामुपकारार्थ इति पुष्णाति। तस्यास्याश्चित्तभूमेः पुण्यगुणः प्रसूते। नात्मपोषणमात्रेण। यद्ब्रवीषि चैत्यविहारा वसत्त्वभूतौ, तयोः सेचनशोधने अपि पुण्यप्रापक इति। तत् भगवद्‍गुणाः सत्त्वेषु पूज्या इति स्मृत्वा जनाः सेचन्ते शोधयन्ति च। तस्य सत्त्वाधीनत्वाच्च पुण्यमेव लभ्यते। (पृ) निर्वृतो हि भगवानसत्त्वभूतः। उक्तञ्च सूत्रे-न तथागतः सन् नासन्, नापि सदसत् नापि च न सन् नासन् इति। कथं सत्त्व इत्युच्येत। (उ) यदि निर्वृतोऽसत्त्वभूतः। तदा अनिर्वृतकालीनं भगवन्तं स्मृत्वा पूजयन्तः पुण्यं लभन्ते। यथा जनाः पितरौ जननपोषणकालं स्मृत्वा यजन्ति। तथा नो चेत् न पितृपूजा भवेत्। तथेदमपि। यद्ब्रवीषि वन्दनादयो न परानुग्राहका इति। तदयुक्तम्। कस्मात्। वन्दनादिभिः परस्य नानाहितं भवति। येन परः पूज्यानां सत्कार्यो भवति। अयमेव [परा] नुग्रहः। तेनान्येऽपि जनाः सत्कारशिक्षाननुसरन्तः पुण्यगुणं लभन्ते। परस्य वन्दने स्वाभिमानं भज्यते। अकुशाङ्गभङ्गाद्बहूपकृतं भवति। परगुणांश्च ख्यापयतीति वन्दनादीनामीदृशं हितं भवति। यदब्रवीः वन्दनादयः परगुणवैकल्यकरा इति। तदयुक्तम्। वन्दनं भक्तिचित्तेन [क्रियते]। न तीर्थिकानामिव परापकर्षार्थतया तदाचर्यते। यथा च वस्त्रदानं यद्यपि परं हापयति। तथापि परगुणापकर्षकमेव। तथा च वस्त्रदानेनापि न पुण्यं भवेत्। अतो वन्दनादीनां गभीरचेतनेन सभव्यमाचरणं स्यात्। यथोक्तं सूत्रे-एको भिक्षुः स्नानगृहे अन्यस्य देहं हस्तेन मार्जयति स्म। [एतच्छृत्वा] भगवान् भिक्षूनामन्त्र्याह-अयमुपसेवको भिक्षुरर्हन्। उपसेव्यमानस्तु भिन्नशीलः। तथा शिक्षयथ यूयम्। न सिंहेन श्वादय उपसेव्यन्त इति।

यद्भवानाह-न च चित्तमात्रेण पुण्यं लभत इति। तत्र चित्तं हि सर्वगुणानां मूलम्। यत् कश्चित्परस्योपकारं चकार करोति करिष्यति वा सर्वं तत् कुशलचित्तमूलकम्। यच्च परस्यापकारं चकार करोति करिष्यति वा सर्वं तदकुशलचित्तमूलकम्। करुणाचारी च करुणाचित्तविपाकेन सर्वेषामुपकरोति यदुत चण्डवातवृष्ट्यनुपतनेऽपि सूर्याचन्द्रमसौ नक्षत्राणि च न भ्रश्यन्ति सदा चरन्ति च। न महासमुद्रमुद्वेलयति। न च महाग्निर्दहति। नापि चण्डवात उत्प्लावयति। इदं सर्वं करुणाविपाकबलम्। यथोक्तं सूत्रे-यदि सर्वे लोकाः करुणाचित्तमाचरन्ति। तदा कामाः स्वाभाविकाः स्युः इति। यद्ब्रवीषि चैत्यविहारधनापहारे न पापं स्यादिति। तत् स पुरुषः सत्त्वचित्तेन तदपहरति। यच्चैत्यधनमपहरति। तत्प्रत्ययेन अपकर्षकरणेऽकरणे वा सर्वथा तदाधिपत्येन पापं लभते। भगवति पिडाऽजननान्न पापमस्तीति भवतो यदि मतम्। तदा [कश्चित्] वाक्पारुष्यादिभिरर्हन्तं योजयति। न तदर्हतो दुःखं जनयति। तस्यापि न पापं भवेत्।

यब्द्रवीषि-अनभिमुखनिन्दने न भवेत्पापमिति। तदयुक्तम्। अकुशलचित्तेन तत्र प्रयुज्यते। अकुशलचित्तवत्त्वात् तस्मिन् शृण्वति अशृण्वति वाऽवश्यं दुःखं जनयेत्। अतः पापं लभते। यदुक्तं दुष्टचित्त[मात्र]मुत्पाद्य कायवाक्कर्माकुर्वतो न भवेत्पापमिति। तदपि न युक्तम्। परपीडनायाविशुद्धाकुशलचित्तत्वात् [पापं] जनयत्येव। यदि परप्रबोधितो जानाति तदा तस्यावश्यं दुःखोपायासो जायेत एव। यथा चोर आगत्य परधनमपहरति। तदा [स्वामी] प्रबुध्य यद्यपि न जानाति तथापि तस्य [पश्चात्] पीडां करोत्येव। यद्ब्रवीषी आत्महननमात्मनिन्दनञ्च पापकरमिति। तदयुक्तम। यदि स्वदेहं दुःखयन् पापभाक् भवति। तदा न कोऽपि सुजन्मस्थानं प्राप्नुयात्। कस्मात्। जना हि चतुर्ष्विर्यापथेषु स्वदेहं दुःखयन्ति। तथा च सर्वे सत्त्वाः सदा पापं लभेरन् यथा परपीडना जनाः। अतो न कश्चित्सुस्थाने जायेत। न ह्येतद्युज्यते। अतो न स्वदेहमात्रात्पुण्यं पापं वास्तीति ज्ञातव्यम्। मार्गहेतुत्वाद्विनये शीलमिदं परिबद्धं यः क्लिष्टचित्तेनात्मानं हन्ति न संक्लेशात्पापं लभत इति।

अव्याकृतं कर्मेति। यत्कर्म न कुशलमकुशलं वा न परसत्त्वानामुपकारकं नापकारकं तदव्याकृतमित्युच्यते। (पृ) कस्मादव्याकृतमिति नाम। (उ) तत्कर्म निरुच्यते। यत्कर्म न कुशलं नाकुशलं तदव्याकृतमिति वदन्ति। कुशलमकुशलञ्च कर्म विपाकप्रापकम्। नैतत्कर्म विपाकप्रापकमित्यव्याकृतम्। कस्मात्। कुशलमकुशलञ्च कर्म प्रबलम्। इदन्तु दुर्बलम्। यथा पूतिबीजं नाङ्‍कुरं प्ररोहयति। विपाको द्विविधः। कुशलं प्रियविपाकम् अकुशलमप्रियविपाकम्। अव्याकृतन्त्वविपाकम्। (पृ) तत्र न प्रिय नाप्रियोपादानं तदव्याकृतविपाकमस्तु। को दोषः। (उ) भगवानाह-द्विधा विपाकः मिथ्याकायचर्या अप्रियविपाकप्रापिणी सम्यक्कायचर्या प्रियविपाकप्रापिणीति। न त्वाह अनयोरुदासीनमस्तीति। पुण्यं प्रियलाभमनोज्ञस्मृतिविपाकम्। पापं तद्विपरीतम्। सुखदुःखे पुण्यपापयोर्विपाकौ। अदुःखासुखञ्च सुचरितविपाकः। अतो ज्ञायते नास्त्यव्याकृतविपाक इति।

त्रिविधकर्मवर्गः शततमः।

१०१ दुश्चरितवर्गः

भगवानाह-त्रीणि दुश्चरितानि कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितं इति। कायाभिसंस्कृतमकुशलं कायदुश्चरितम्। तत् द्विविधम् (१) एकं दशाकुशलकर्मपथसङ्‍गृहीतम्। यथा प्राणातिपातादत्तादानकाममिथ्याचाराः। अपरं तदसङ्‍गृहीतम्। यथा कशादण्डाधातबन्धनस्वदारगमनादयः अकुशलकर्मपथपूर्वोत्तरदुष्कर्माणि च। (पृ) प्राणातिपातादीनि त्रीण्यकुशलकर्माणि किं केवलकायिककर्मस्वभावानि। (उ) हननपापं हननाकुशलकर्मेत्युच्यते। पापमिदं स्वकायेनापि क्रियते यत्र स्वकायेन सत्त्वान् हन्ति। वाचापि क्रियते यत्न सत्त्वान् हन्तुं परमाज्ञापयति। मनसापि क्रियते यत् कश्चिच्चित्तमुत्पादयति येन परो म्रियते। एवमदत्तादानकाममिथ्याचारपापेऽपि। स्वकृतन्तु पूर्णं पापं लभते। कायाकुशलं कर्म कायात्मकं वागात्मकं वा। कदाचिच्चित्तोत्पादे परो जानाति अनेन प्रत्ययेनापि पापकरं प्राणातिपातादि कुर्यादिति। भूयसा कायकृतत्वात्कायिकं कर्मेत्याख्या। एवं वाङ्‍मिथ्याचरितमपि। वाचाभिसंस्कृतमकुशलं कर्म वाङ्‍मिथ्याचरितम्। तस्यापि द्वैविध्यम्। यत् केनचित्प्रश्ने स्थापिते तं पुरत एव वञ्चयति। तदकुशलकर्मपथसङ्‍गृहीतम्। अन्यत्तदसङ्‍गृहीतम्। अभिध्याव्यापादमिथ्यादृष्ट्यादयो मानसमिथ्याचरितम्।

(पृ) दशाकुशलकर्मपथानां कस्मान्मिथ्यादृष्टिरित्याख्या त्रयाणामकुशलमूलानां संमोह इति। (उ) मिथ्यादृष्टिरिति संमोहस्य नामान्तरम्। संमोहविवृद्धि साररूपा मिथ्यादृष्टिः। न पुनः संमोहस्य लक्षणान्तरमस्ति। अभिष्वङ्गविपर्यासमात्रं संमोहः। (पृ) सूत्र उक्तं-सर्वाणि दुश्चरितानि अप्रियविपाककराणि सुचरितानि प्रियविपाककराणीति। प्रियाप्रियलक्षणञ्चानियतम्। यथैकमेव रूपं [कस्यचित्] प्रियं भवति [अन्यस्या] प्रियं भवति। अतस्तल्लक्षणं विवेचनीयं स्यात्। (उ) सुखमेव प्रियलक्षणम्। यथोक्तं सूत्रे-पुण्यविपाकः सुखमिति। दुःखमप्रियलक्षणम्। यथोक्तं सूत्रे- पापात्सञ्जातभीतिका भवथ। दुःखहेतुत्वात् इति। (पृ) सुखमेव प्रियलक्षणम्। श्ववराहादयोऽन्नपुरीषेण सुखीभवन्ति। किमिदं पुण्यफलम्। (उ) इदमविशुद्धपुण्यफलम्। यथोक्तं कर्मसूत्रे-यदकाले ददाति अशुचिर्ददाति। लघुचित्तेन कलुषितचित्तेन अक्षेत्रे च ददाति। एवमादिदानेन तद्विपाकं लभत इति।

(पृ) सम्यक् चरितानि प्रियविपाककराणीति सूत्र उक्त्वा कस्मात्पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उत्पद्यत इति। (उ) मिथ्याचार्यपि स्वर्ग उत्पद्यते। केचिद्वदन्ति स्वर्ग उपपत्तिर्दुश्चरितविपाक इति। अतः सूत्रे पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उपपद्यत इति। दुश्चरितसुचरिते कुशलाकुशलगतिककायं प्रापयतः गृहीतकायस्तत्र सुखं दुःखं वा वेदयते। यथा दुश्चरितप्रत्ययं दुर्गतौ दुःखं वेदयते। सुचरितप्रत्ययं देवेषु मनुष्येषु वा सुखं वेदयते॥

दुश्चरितवर्ग एकोत्तरशततमः।

१०२ सुचरितवर्गः

कायकृतं कुशलं कायसुचरितम्। तथा वाङ्मनसोरपि। प्राणातिपाताद्यकुशलकर्मत्रयविरतिः कायसुचरितम्। वाग्दोषचतुष्टयविरतिर्वाक्‌सुचरितम्। मानसाकुशलत्रयविरतिर्मनस्सुचरितम्। इवास्तिस्रो विरतयः संवरसङ्‍गृहीताः यदुत शीलध्यानानास्रवसंवराः। यद्वन्दनवस्त्रदानादि कुशलं कायिकं कर्म तत् कायसुचरितम्। यत् सत्यभाषणमृदुभाषणादि तत् वाक्‌सुचरितम्। अनभिध्यादि मानसं कर्म मनःसुचरितम्। इमानि त्रीणि सु चरितानि।

(पृ) तीर्थिका ज्ञप्तिं विना प्रातिमोक्षशीलभाजो भवन्ति। ते शीलसंवरं लभन्ते न वा। (उ) तीर्थिकाश्चित्ततः शीलसंवरमुत्पादयन्ति। केचित् वाचापि गृह्णन्ति। अन्येऽपि शीलसंवरसङ्‍गृहीतं सुचरितं लभन्ते यथा दशवर्षायुष्कस्य पुरुषस्य प्राणातिपातविरतिसमादानाद्विंशतिवर्षायुष्कः पुत्र उत्पद्यते।

(पृ) सूत्र उक्तं-सुचरितं विशुद्धचरितं व्युपशमचरितमिति। तेषां को भेदः। (उ) आभिधार्मिका आहुः-पृथग्जनानां यत् कायिकं वाचिकं मानसं कुशलं कर्म तत् सुचरितमित्युच्यते। शैक्षाणां संयोजनप्रहाणात्तदेव सुचरितं विशुद्धचरितमित्युच्यते। अशैक्षाणां प्रहीणसंयोजनानां विसंयोजनिकव्यवहारत्वात् [तदेव]व्युपशमचरितम्। अशैक्षा अत्यन्तानुत्पन्नाकुशलकर्मका इत्यतो व्युपशमचरिता इत्युच्यन्ते। यथोक्तं-कायव्युपशमो वाग्व्युपशमो मनोव्युपशम इति। केचिदाहुः-इमानि त्रीणि चरितानि एकस्यैवार्थस्यविभिन्नानि नामानि। किन्तु तद्भव्यतानुरूपत्वात् सम्यगिति शंस्यते। क्लेशैर्विविक्तत्वाद्विशुद्धमिति वदन्ति। सर्वाकुशलविविक्तत्वात् व्युपशम इति। तानि त्रीण्यपि नार्थतो भिन्नानि।

(पृ) आभिधर्मिका आहुः-चित्तमेव व्युपशमचरितं न चेतनेति। कथमयमर्थः। (उ) त्रीणि चरितान्यपि चित्तमेव। कस्मात्। चित्तव्यातिरिक्ता नास्ति चेतना। नास्ति च कायवाक्कर्म। (पृ) सूत्र उक्तंं-सुचरितदृष्टिसम्पन्नो देवदृशो वा भवति देवसंख्यातदृशो वा भवति। न सर्वे सुचरिता देवेषूपपद्यन्त इति। कस्मादेवं विनिश्चयः। (उ) देवसंख्यातेति वचनादिदं ज्ञापितम्। सुचरीतशाली यद्यपि नावश्यं देवेषूत्पद्यते तथापि य आर्यबहुमतस्थान उत्पद्यते। स देवसरूप इत्यतो देवसंख्यातदृश इत्युच्यते। सर्वे सुचरितवन्तो देवेषूत्पद्येरन्। केचिदन्यप्रत्ययैर्विनिष्टा नोत्पद्येरन्। यत् सम्यङ्‍मिथ्याव्यामिश्रं सुचरितं [तत्र] मिथ्याचरितस्य प्राबल्यान्न देवेषूत्पद्यन्ते। यथोक्तं सूत्रे-भगवानानन्दमवोचत्-पश्याम्यहं केचन त्रीणि सुरितानि चरन्तोऽपि दुर्गतावुत्पद्यन्ते। तत् तेषां पूर्वाध्वगतदुश्चरितस्य फलविपाक इति। इदानीं सुचरितस्यापि अपरिपूर्णत्वान्मरण उपस्थिते मिथ्यादृष्टेश्चित्ताभिमुख्याद्दर्गतौ पतन्ति। दुश्चरितशाली सुस्थान उत्पद्यत इतीद मप्येवम्। अतः पृथग्जनत्वमश्रद्धेयम्। प्रबलकर्मवशादुपपत्तिविभेदं वेदयत इति ज्ञातव्यम्॥

सुचरितवर्गो द्वयुत्तरशततमः।

१०३ प्रतिसंयुक्तकर्मवर्गः

(पृ) सूत्र उक्तं-त्रिविधं कर्म कामधातुप्रतिसंयुक्तं कर्म रूपधातुप्रतिसंयुक्तं कर्म अरूप्यधातुप्रतिसंयुक्तं कर्मेति। कानीमानि। (उ) यत् कर्म आनरकादाच परनिर्मितवशवर्तिदेवादन्तराले विपाकवेदकं तत्कामधातुप्रतिसंयुक्तं कर्म। आब्रह्मलोकादाकनिष्ठाच्चान्तराले विपाकवेदकं कर्म रूपधातुप्रतिसंयुक्तं कर्म। आकाशानन्त्यायतनादानैवसंज्ञानासंज्ञायतनाच्चान्तराले विपाकवेदकं आरूप्यधातुप्रतिसंयुक्तं कर्म। (पृ) अव्याकृतं कर्म अनियतविपाकञ्च कर्म किमेतेषु नान्तर्गतम्। (उ) तत्कर्मविपाकश्च कामधातुप्रतिसंयुक्तः। कस्मात्। तस्य धर्मस्य कामधातुकविपाकत्वात्। (पृ) ननु कामधातुकधर्माः सर्वे तत्कर्मविपाकाः। अतो न युज्यते। (उ) सर्वे च कामधातुकधर्माः कामधातुककर्मविपाका एव। (पृ) तथा चेदिदं तीर्थिकशास्त्रं यदुत सर्वप्रतिसंवेद्यं सुखं दुःखञ्च पूर्वकर्महेतुप्रत्ययं भवतीति। पूर्वकर्मविपाको यदुत कुशलमकुशलं कर्म सविपाकमविपाकमिति व्यवसायगुणस्य नास्ति यत्किञ्चनप्रयोजनम्। यदि सर्वं कर्मविपाकः। कः पुनः प्रयासे गुणः। यस्य क्लेशाः कर्माणि कर्मविपाकाश्च सन्ति तस्य विमुक्तिर्नास्ति। कर्मविपाकस्याक्षीणत्वात्। उच्यते। यदुक्तं इदं तीर्थिकशास्त्रमिति। तदयुक्तम्। तीर्थिका हि वदन्ति सुखं दुःखं परत्वमपरत्वं पूर्वविपाकमात्रमिति। तथा च न स्यात्प्रत्युत्पन्नप्रत्ययापेक्षा। पश्यामस्तु वस्तुतः पदार्थाः प्रत्युत्पन्नेभ्यः प्रत्ययेभ्यः समुत्पद्यन्ते यथा बीजाङ्‍कुरादय इति। अतो न वक्तव्यं सर्वं पूर्वकर्मप्रत्ययाधीनमिति। हेतुप्रत्ययाभ्यञ्च वस्तून्युत्पद्यन्ते यथा बीजहेतुकाः पृथिव्यबाकाशकालादिप्रत्यया [अड्‍कुरादयः]। चक्षुर्विज्ञानञ्च कर्महेतुकं चक्षूरूपादिप्रत्ययम्। अतो न तीर्थिकमिथ्याशास्त्रसाम्यम्। यद्ब्रवीषि पूर्वकर्मविपाक इत्यादि। तदयुक्तम्। प्रत्यक्षं खलु फलात्फलसन्ततिरुत्पद्यत इति। यथा ब्रीहिभ्यो ब्रीहयः। एवं विपाकाद्विपाकोत्पत्तौ को दोषः। यथा अजातपुत्रस्य च चटकचक्रवाकादीनाञ्च कामः, सर्पादिनां कोपः, तत्सर्वं पूर्वकर्मविपाक इति ज्ञेयम्।

(पृ) यदि विपाकाद्विपाक उत्पद्यते। तदाऽनवस्था स्यात्। (उ) कर्मविपाकास्त्रिविधाः कुशलोऽकुशलोऽव्याकृत इति। कुशलाकुशलाभ्यां विपाक उत्पद्यते नाव्याकृतादित्यतो नानवस्था। यथा ब्रीहिभ्यो व्रीहय उत्पद्यन्ते। तत्र बीजादङ्‍कुर उत्पद्यते न तु तुषादिभ्यः। एवं कुशलाकुशलविपाकाद्विपाक उत्पद्यते नाव्याकृतविपाकात्। यदुक्तं भवता प्रयासे न गुण इति। यद्यपि कर्मणो विपाक उत्पद्यते। तथापि अवश्यं यथाशक्ति पश्चात्संसिध्यति। यथा सस्यकर्मतः सस्यमुत्पद्यते। तथापि बीजाद्यपेक्ष्य तत् सिध्यति। यदाह भवान्-न विमुक्तिर्भवेदिति। तदप्ययुक्तम्। तत्त्वज्ञानलाभात्कर्माणि क्षीयन्ते। तद्यथा दग्धं बीजं न पुनः प्ररोहति। अतो नास्ति विमुक्तेर्दोषः। किञ्च य उत्पन्ना धर्माः सर्वे ते कर्ममूलकाः। यदि नास्ति कर्ममूलं, कथमुत्पद्येत। धर्माणामुत्पादेऽस्ति प्रतिनियतमङ्गम्। यथाऽयं धर्मो नियमेन एतत्पुरुषकायादुत्पद्यते नान्यकायात्। यदि नास्ति कर्ममूलं, कथमेवं प्रतिनियतविभागः स्यात्।

(पृ) धर्मा हेतुमात्रजाः। यथा माषान्माष उत्पद्यते। [एवं सति] को दोषः। (उ) तदपि कर्ममूलकम्। माषकर्मप्रत्ययलाभान्माषान्माष उत्पद्यते। केनेदं ज्ञायते। पुरा किल जनाः कुशलमाचरितवन्त इत्यतः शालितण्डुलाः स्वत अजायन्त। अतो ज्ञायते कर्मभूलकत्वात् माषान्माषो जायत इति। (पृ) ननु सत्त्वसंख्यातं वस्तु खलु पूर्वकर्मजम्। (उ) मैवम् असत्त्वसंख्यातं वस्त्वपि कर्ममूलकम्। सर्वसत्त्वानां साधारणकर्मविपाको यदुत चङ्‍क्रमणास्थानकर्मप्रत्ययलाभात् क्षित्यादयो भवन्ति। प्रकाशकर्मप्रत्ययलाभाच्चन्द्रसूर्यादयो भवन्ति इति ज्ञातव्यं जन्यं वस्तु सर्वं कर्ममूलकमिति। (पृ) यदि जन्यधर्माः कर्ममूलकाः। संस्कृतोऽनास्रवः कथम्। (उ) सोऽपि कर्ममूलकः। कस्मात्। सर्वं पूर्वाध्वगतदानशीलादिवलाधीनम्। अतोऽपि कर्मादिसम्भूतम्। (पृ) यद्यनास्रवधर्मोऽपि कर्मसम्भूतः। सोऽपि प्रतिसंयुक्तधर्म इत्याख्या स्यात्। तत्तु न सम्भवति। उक्तं हि सूत्रे-अस्ति अप्रसंयुक्ता वेदेनेति। (उ) अनास्रवधर्मस्तत्त्वज्ञानहेतुकः कर्मप्रत्ययकः। हेतुबलमहिम्ना तु अप्रतिसंयुक्त इत्युच्यते।

(पृ) किं कर्म कामधातुविपाकवेदकम्। किं रूपधातुविपाकवेदकम्। किमारूप्यधातुविपाकवेदकम्। (उ) यः कामरूपारूप्यधातुषु दशाकुशलकर्माणि समुत्पादयति स कामधातौ विपाकं वेदयते। (पृ) रूपारूप्यधातुगतोऽपि किमकुशलं कर्म समुत्पादयति। (उ) तत्राप्यकुशलं कर्म समुत्पादयति। यथोक्तं सूत्रे-तत्रास्ति मिथ्यादृष्टिरिति। मिथ्यादृष्टिः किं नाकुशला। (पृ) तत्र मिथ्यादृष्टिरव्याकृता नत्वकुशला। (उ) नाव्याकृता। केनैतत् ज्ञायते। उक्तं हि सूत्रे भगवता-मिथ्यादृष्टिर्दुःखक्लेशानां हेतुरिति। मिथ्यादर्शिना समुत्पादितानि कायवाङ्मनस्कर्माणि दुःखविपाकायभिसंस्क्रियन्ते। यथा तिक्तकारवेल्ले विद्यमानानि चत्वारि महाभूतानि सर्वाणि तिक्तरसानि भवन्ति। यथा कामधातौ मिथ्यादृष्टिरकुशला। रूपारूप्यधात्वोरपि तल्लक्षणा अकुशला स्यात्। लक्षणसाम्यात्। यथा बको ब्रह्मा ब्रह्माणमामन्त्रयाह-मोपगच्छ श्रमणं गौतमम्। अस्माल्लोकादुत्तारयाम इति। इदं मनोवागकुशलं रूपधातौ समुत्पन्नम्। अन्येऽपि ब्रह्म [कायिका] देवाः तत्र भवन्तं तादृशं पुरुषं दूषयन्ति। रूपारूप्यधातुगताः पुरुषा वदन्ति-इदमेव निर्वाणमिति। आयुषोऽन्ते कामरूपयोरन्तराभवमेव पश्यन्ति। इतोऽन्यन्निर्वाणं नास्तीति मिथ्यादृष्टिरुत्पन्नेति अनुत्तमधर्मापवादात्कथं नाकुशलम्। अनेन ज्ञातव्यं तत्रास्त्यकुशलं कर्मेति। (पृ) यदि तत्राकुशलं कर्मोत्पादयन्ति। तत्कर्म किंस्थानप्रतिसंयुक्तम्। (उ) यदीदमकुशलं कर्म तदा कामधातौ विपाकं वेदयत इत्यतः कामधातुप्रतिसंयुक्तम्।

कुशलं कर्मास्ति उत्तमं मध्यममधममिति। अधमं कामधातुवेदनीयविपाकम्। मध्यमं रूपधातुवेदनीयविपाकम्। उत्तममारूप्यधातुवेदनीयविपाकम्। केचिदाहुः-चतुर्थध्यानसङ्‍गृहीतं कुशलं कर्म रूपधातुवेदनीयविपाकम्। चतुरारूप्यसमाधिसङ्‍गृहीतमारूप्यवेदनीयविपाकम्। अन्यद्विक्षिप्तचित्तसमुत्पादितं कर्म कामधातुवेदनीयविपाकम्। इति। (पृ) कथं तत्र समुत्पादितं कुशलं कर्म कामधातुवेदनीयविपाकं भवेत्। (उ) यथाऽस्मिन् लोके समाहितचित्तसमुत्पादितकुशलकर्मणस्तत्र विपाकं वेदयते। तथा तत्र विक्षिप्तचित्तसमुत्पादितकुशलकर्मणोऽस्मिन् लोके विपाकं वेदयते। यथा च रूपारूप्यधातुसमुत्पादिताकुशलकर्मणः कामधातौ विपाकं वेदयते। तथा तत्र समुत्पादितकुशलकर्मणोऽपि।

(पृ) यो रूपारूप्यधातुगतः न स उत्पादयति कामधातुप्रतिसंयुक्तं कुशलं कर्म। (उ) तत्र नास्त्ययं हेतुः यत् कामधातुगतो रूपारूप्य[प्रतिसंयुक्तं] कुशलं कर्मैव समुत्पादयति न रूपारूप्यधातुगतः कामधातुप्रतिसंयुक्तं कुशलं कर्म समुत्पादयति इति। उच्यते च युष्माभिः कामधातुगतः कामधातुकमव्याकृतं चित्तं समुत्पादयतीति। यद्यव्याकृतं चित्तं समुत्पादयति। कस्मान्न कुचलं चित्तम्। सूत्रे भगवान् हस्तकदेवपुत्रमेतदवोचत्-चित्तविहरणे औदारिकवेदनासंज्ञां मनसिकुरु इति। औदारिकसंज्ञा कामधातुप्रतिसंयुक्तं चित्तमेव। अयं कुशलचित्तेन यत् धर्मं शृणोति बुद्धं पूजयति तत् सर्वं कामधातुप्रतिसंयुक्तं चित्तम्। तथा नो चेत् औदारिकसंज्ञेति नाख्या स्यात्। तत्रानुस्मृतिप्रार्थना पुण्यवस्तु। यथाह भगवान् त्रिषु वस्तुषु अतृप्तोऽस्मिन् लोके आयुषोऽन्तेऽनवतप्तदेवेषूपपत्स्ये यदुत तथागतं पश्यामि धर्मं शृणोमि सङ्घं सत्करोमीति। [तत्र] अनुस्मृतिप्रार्थना पुण्यवस्तु कामधातुप्रतिसंयुक्तं चित्तम्। तत्रास्ति बुद्धानुस्मृतिः न पुण्यवस्तु। अतो ज्ञेयं कामधातुप्रतिसंयुक्तं कुशलमस्तीति।

प्रतिसंयुक्तमकर्मवर्गस्त्रयुत्तरशततमः।

१०४ त्रिविधकर्मविपाकवर्गः

(पृ) सूत्रे भगवानाह-त्रिविधं कर्म दृष्टधर्मवेदनीयविपाकं, उपपद्यवेदनीयविपाकं ऊर्ध्ववेदनीयविपाकमिति। किमिदम्। यदेतत्कायाभिसंस्कृतं कर्म एतत्काय एव वेद्यते। तद् दृष्टधर्मवेदनीयविपाकम्। यदेतल्लोकाभिसंस्कृतं कर्म समनन्तरलोकमतीत्य वेद्यते तदूर्ध्ववेदनीयविपाकम्। [यत्] समनन्तरलोकातीतं तदूर्ध्वमित्युच्यते। (पृ) अन्तराभविककर्मविपाकः कस्मिन् स्थाने वेद्यते। (उ) स्थानद्वये वेद्यते। समनन्तरान्तराभविकं कर्म उपपद्यविपाकस्थाने वेद्यते। उपपत्तिविशेषस्यैवान्तराभवत्वात्। अन्यान्तराभविकं कर्म ऊर्ध्वविपाकस्थाने वेद्यते। (पृ) किमेतानि त्रीणि कर्माणि नियतविपाकानि नियतकालानि च। (उ) केचिदाहुः-नियतविपाकानीति। दृष्टविपाकं कर्मावश्यं दृष्ट एव वेदनीयविपाकम्। तथान्यत् द्वयमपि। सतोऽपीदृशवचनस्यार्थो न युज्यते। कस्मात्। तथा चेत् पञ्चानन्तर्याणि नियतविपाकानीति न स्यात्। षट् पादाभिधर्मे तूक्तं पञ्चानन्तर्याणि नियतविपाकानीति। लवणपलोपमसूत्रे पुनरुक्तम्-अनियतविपाकानीति यत्किञ्चनास्ति नरकवेदनीयविपाकम्। इहैकत्यः पुद्गलः भावितकायो भवति। भवितशीलो भावितचित्तो भावितप्रज्ञो भवति। तस्य तत्कर्म दृष्टधर्मवेदनीयं भवति। तस्मात्त्रिविधकर्मणां नियतकालतया भाव्यम्। दृष्टधर्मवेदनीयविपाकं कर्म नावश्यं दृष्टधर्म एव वेद्यते। वेद्यते चेत् दृष्टधर्म एव वेदनीयं स्यात् नान्यत्र। एवमन्यत् द्वयमपि।

(पृ) केन कर्मणा दृष्टधर्मे विपाकं वेदयते। (उ) केचिदाहुः-व्याध्यर्थकर्मणो दृष्टधर्म एव विपाकं वेदयते। यथा तथागत आर्येषु मातापित्रादिषु समुत्पादितं यत् कुशलमकुशलं कर्म तत् दृष्टधर्मवेदनीयविपाकम्। यदनर्थगुरु तदुपपद्यवेदनीयविपाकम्। यथा पञ्चानन्तर्यादीनि। यदर्थ गुरु च तदूर्ध्ववेदनीयविपाकम्। यथा चक्रवर्तिनः कर्म बोधिसत्त्वस्य वा कर्म। केचिदाहुः-त्रिविधकर्मणामेषां यथाप्रणिधानं विपाकं वेदयत इति। यत् कर्म प्रणिदधाति इहैवाध्वनि वेदयेयमिति। तत् दृष्टधर्मवेदनीयम्। यथा मल्लिकादेवी स्वान्नभागदानेन प्रणिदधाति दृष्ट एवाध्वनि राजमहिषी भवेयमिति। एवमन्यत् कर्मद्वयमपि। यथाकर्मपरिपाकं पूर्वं वेदयते। (पृ) अतीतं कर्म कथं परिपच्यते। (उ) गुरुत्वलक्षणसम्पदेव परिपाक इत्युच्यते। (पृ) यस्मिन् क्षणे कर्मोत्पद्यते तत्समनन्तरक्षण एव किं विपाको वेद्यते। (उ) न। क्रमेणैव वेद्यते। यथा बीजात्क्रमेणाङ्कुरः प्ररोहति। कर्मापि तथा।

यो गर्भमध्यस्थो ये च मिद्धोन्मत्तादयः ते कर्म सञ्चिन्वन्ति न वा (उ) ते सचेतनाश्चेत् कर्मोपचिन्वन्ति। किन्तु न [ते चेतना] सम्पन्नाः। (पृ) योऽस्यां भूमौ वीतरागः स पृथिवीकर्म करोति न वा। (उ) सात्मचित्ताः सर्वेऽपि तत् कर्मोपचिन्वन्ति। आत्मचित्तविगतास्तु नोपचिन्वन्ति। (पृ) अर्हन्नपि वन्दनकर्माभ्यस्यति। तत्कर्म कस्मान्नोपचिनोति। (उ) यस्मात् सत्त्वचित्तः तस्मात् कर्माण्युपचिनोति। अर्हन्नात्मचित्तविहीन इत्यतः कर्माणि नोपचिनोति। अर्हन्ननास्रवचित्तः। योऽनास्रवचित्तः न स कर्माण्युपचिनोति। उक्तञ्च सूत्रे-प्रहीणपुण्यपापकर्मकोऽर्हन्निति स नोपचिनोति पुण्यकर्माणि अपुण्यकर्माण्यानेञ्ज्यकर्माणि च। अतो वेदनापर्यवसन्नं कर्मेति न नूत्नं कर्माभिसंस्करोति।

(पृ) शैक्षाः कर्माण्युपचिन्वन्ति न वा। (उ) नोपचिन्वन्ति। कस्मात्। सूत्रे ह्युक्तं-स कर्माणि विध्वस्य न सञ्चिनोति नोपचिनोति निरुद्धं न तथा भवति इत्यादि। आभिधार्मिका वदन्ति-शैक्षाः सास्मिमानत्वात्कर्माण्यप्युपचिन्वन्ति। नैरात्म्यज्ञानबलेन परं नावश्यं वेदयन्ते विपाकमिति।

(पृ) इमानि कर्माणि कस्मिन् धातावभिसंस्क्रियन्ते। (उ) सर्वत्र त्रिष्वपि धातुषु (पृ) अनियतं कर्म किमस्ति किं वा नास्ति। (उ) अस्ति। यत् कर्म दृष्टधर्मवेदनीयविपाकं वा उपपद्यवेदनीयविपाकं वा तदूर्ध्ववेदनीयविपाकं वा भवति। तद नियतमित्युच्यते। एवं कर्माणि बहूनि।

(पृ) य इमानि त्रीणि कर्माणि प्रजानाति। तस्य क उपकारो भवति। (उ) य इमानि त्रिविधकर्माणि विवेचयति स सम्यग्दृष्टिमुत्पादयति। कस्मात्। पश्यामः खलु केचिदकुशलचारिणोऽपि प्रभूतं सुखमनुभवति। कुशलचारिणो दुःखम्। उदासीनस्य कदाचिन्मिथ्यादृष्टिर्भवेत् यदुत कुशलस्याकुशलस्य वा नास्ति विपाक इति। यस्तेषां कर्मणां विभागं प्रजानाति। तस्य सम्यग्दृष्टिर्भवति। यथोक्तं गाथायाम्-

पापोऽपि पश्यति भद्राणि यावत्पापं न पच्यते।
यदा च पच्यते पापमथ पापो पापानि पश्यति॥
भद्रोऽपि पश्यति पापानि यावद्भद्रं न पच्यते।
यदा च पच्यते भद्रमथ भद्रो भद्राणि पश्यति॥

महाकर्मविभङ्गसूत्रमाह-अविरतप्राणिवधोऽपि स्वर्ग उत्पद्यते। यः पूर्वाध्वनि पुण्यवान् सन् आयुषोऽन्ते प्रबलकुशलचित्तमुत्पादयति इति। एवं प्रजानन् सम्यग्दृष्टिमुत्पादयति। अत एषां त्रयाणां कर्मणां लक्षणं प्रजानीयात्॥

त्रिविधकर्मविपाकवर्गश्चतुरुत्तरशततमः।

१०५ त्रिविधकर्मविपाकवेदनावर्गः

(पृ) सूत्रे भगवानाह-त्रिविधं कर्म सुखविपाकं, दुःखविपाकमदुःखासुखविपाकमिति। किमिदम्। (उ) कुशलं कर्म सुखविपाकप्रापकम्। अकुशलं कर्म दुःखविपाकप्रापकम्। अनेञ्ज्यं कर्म अदुःखासुखविपाकम्। तत्कर्म नावश्यं नियतवेदनम्। यदि वेदना भवति। तदा सुखविपाकं वेदयते। न दुःखविपाकम् इत्यादि। तथान्यत् द्वयमपि। (पृ) तानि कर्माणि रूपविपाकप्रापकान्यपि भवन्ति। कस्मादुक्तं [सुखादि] वेदनामात्रम्। (उ) विपाकेषु वेदना प्रधाना। वेदनैव वस्तुतो विपाकः। रूपादि तु तत्साधनम्। वेदनाप्रत्ययेषु वेदनेति व्यवहारः। यथोच्यते अग्निर्दुःखमग्निः सुखमिति। हेतौ फलोपचारः यथान्नस्य दाता पञ्चार्थानां दातेति। यथा चान्नं धनम् इत्यादि। (पृ) कामधातुमारभ्य यावत्तृतीयध्यानं किमदुःखासुखवेदनाविपाको लभ्यते। (उ) लभ्येतैव वेदना। (पृ) कस्य कर्मणो विपाकोऽयम्। (उ) अवरकुशलकर्मणो विपाकः। उत्तमकुशलकर्मणस्तु सुखवेदनाविपाकः। (पृ) तथा चेत्कस्माच्चतुर्थध्यान आरूप्यसमापत्तौ [अदुःखासुखवेदनाविपाक] उच्यते। (उ) स्वभूमिकः सः। कस्मात्। तत्रायमेव विपाकोऽस्ति। न पुनर्विपाकान्तरम्। सूपशान्तत्वात्।

केचिदाहुः-दौर्मनस्यं न विपाक इति। कथमिदम्। (उ) कस्मान्न भवति। (पृ) दौर्मनस्यं संज्ञाविकल्पमात्रादुत्पद्यते। [कर्म] विपाकस्य संज्ञाविकल्पत्वा भावात्। यदि दौर्मनस्यं विपाकः। तदा लघुः स्यात् विपाकः। अतो न विपाकः। दौर्मनस्यं वितरागाणां व्यावर्तते। न विपाको वीतरागाणां व्यावर्तते। अतो दौर्मनस्यं न विपाकः स्यात्। उच्यते। दौर्मनस्यं संज्ञाविकल्पादुत्पद्यत इत्यतो न विपाकः। सुखन्तु विपाक इति ब्रवीषि। द्विविधं सुखम्-सुखं सौमनस्यञ्चेति। तत्र सौमनस्यमपि संज्ञाविकल्पादुत्पद्यत इति न विपाकः स्यात्। भवानाह विपाकस्तर्हि लघुः स्यादिति। दौर्मनस्यमिदं दुःखात् दुःखतरदोषः। कस्मात्। तद्धि मूढानां विद्यते। न तु ज्ञानिनाम्। अतो दुःश्शोधं परमसन्तापकरञ्च। किञ्च चतुश्शतकपरीक्षायामुक्तम्-

अग्र्याणां मानसं दुःखमितरेषां शरीरजम् इति।

तच्च दौर्मनस्यं ज्ञानप्रहेयं कायिकं सुखं दुःखमपि परिहरति। दौर्मनस्य त्रिष्वध्वसु क्लेशं जनयति यदुत पूर्वमहं दुःखी इदानीं दुःखी आयत्याञ्च दुःखीति। दौर्मनस्यं क्लेशानां प्रतिष्ठायतनम्। यथा सूत्रे क्लेशायतनत्वेनाष्टादश मन‍उपविचारा भवन्ति। पञ्चविज्ञानानां क्लेशाजनकत्वात्। उक्तञ्च सूत्रे-दौर्मनस्यं द्विशल्यरूपमिति। गुरुतरदुःखवेदनाभूतत्वात्। यथा कश्चिदेकत्र गुरुतरद्विशल्यविद्धो दुःखमधिकतरं प्रतिसंवेदयते। यथा च रोगी कश्चित् [रोग-] दुःखाभिहतः पुनः कायचित्तपीडनयात्यधिकदौर्मनस्योपायासो भवति। अतो दुःखादधिकतरं [दौर्मनस्यम्]। मूढा नित्यदौर्मनस्याः। कस्मात्। ते हि प्रियविरहविप्रियसमागमप्रार्थितालभादिमत्त्वात् नित्यदौर्मनस्यपीडिताः।

तद्दौर्मनस्यं द्वाभ्यां कारणाभ्यामुत्पद्यते एकं सौमनस्यादुत्पद्यते। द्वितीयं दौर्मनस्यात्। तदा प्रियवस्तु प्रणश्यति तदा सौमनस्यजं [दौर्मनस्यम्]। यथोक्तं सूत्रे-भगवान् प्रसेनजितं राजानमपृच्छत्-अपि त्वं [महाराज] काशीकोसलेषु प्रियोऽसि इति। उक्तञ्च-देवा रूपासक्ता रूपकामाः रूपे विनष्टे दौर्मनस्यजाता भवन्ति। इति। इदं सौमनस्यादुत्पन्नम्। दौर्मनस्यादुत्पन्नमिति यत् विप्रियवस्तुसमुत्पन्नम्। ईर्ष्यादिभ्योऽपि समुत्पद्यते। अवीतरागस्य ईर्ष्यादिसंयोजनानि सदा चित्तं पीडयन्ति। यथोक्तम्-ईर्ष्यामात्सर्य बहुला देवा इति। बहवश्च सत्त्वा दौर्मनस्यकरं परान् सम्पीडयन्तः सदौर्मनस्यसम्पीडनविपाकं लभन्ते। यथोक्तम्-यथाबीजं फलं प्रवर्तत इति। अतो ज्ञायते दौर्मनस्यं कर्मविपाक इति।

यदुक्तं भवता-वीतरागाणां व्यावृत्तत्वान्न विपाक इति। तदयुक्तम्। स्त्रोत आपन्नोऽवीतरागोऽपि व्यावृत्तनरकादिविपाकः। नरकादिविपाको न विपाक इति किं सम्भवेत्। अतो न सम्भवति वीतरागाणां व्यावृत्तमविपाक इति।

(पृ) अदुःखासुखं कर्म आनेञ्ज्यम्। तत् कर्म कुशलं सत्सुखवेदनीयविपाकं स्यात्। कस्माददुःखासुखवेदनीयविपाकम्। (उ) वेदनेयमानेञ्ज्येति वस्तुतः सुखम्। उपशमरूपत्वाददुःखासुखेत्युच्यते। उक्तञ्च सूत्रे-सुखवेदनायां रागोऽनुशय इति। यत्र रागः तद्वेदनायां [सोऽ]नुशयः। इति ज्ञायत इदं सुखमिति॥

त्रिविधकर्मविपाकवेदनावर्गः पञ्चोत्तरशततमः।

१०६ त्रिविधावरणवर्गः

(पृ) सूत्र उक्तं-त्रीण्यावरणानि कर्मावरणं क्लेशावरणं विपाकावरणमिति। कानीमानि। (उ) कर्माणि क्लेशा विपाकाश्च विमुक्तिमार्गमावृण्वन्तीति आवरणानि। (पृ) किमित्यावृण्वन्ति। (उ) दानशीलकुशलाभ्यासस्त्रिषु भवेषु परिवर्तयतीति स मार्गमावृणोति। समापत्तिवेदनीयं कर्माप्यावरणम्। यथोक्तं सूत्रे-योऽयं पुरुषो नितयं समापत्तौ वेदनीयविपाकं कर्मोपचिनोति न स सुपदेऽवतरति इति। इदं कर्मावरणम्। यत् कस्यचित्क्लेशा घनास्तीव्राश्चित्तगताः तत् क्लेशावरणम्। यत् कस्यचित् क्लेशा अनिवार्याः तद्यथा षण्डादीनां कामः। तदपि क्लेशावरणम्। यन्नरकादौ पापाकुशलोपपत्त्यायतने यथोपपत्त्यायनञ्च न मार्गं भावयति। तत् विपाकावरणम्।

(पृ) केचित् पूर्वं विद्याविहीनेभ्यः पूर्वपुरुषेभ्यो न प्रजानन्ति इदं कुशलमिति। तदा ते न ददन्ति यत् स यदि मत्तो दानं लब्ध्वा अकुशलानि करोति तदा अहं भागी स्यामिति। यथा ब्राह्मणादयः परिव्राजकाः। अतः परिव्राजको न दद्यात्। नूत्नकर्मणा मार्गप्रतिबन्धात्। (उ) न युक्तमिदम्। नान्यकृतस्य पुण्यं पापमात्मनो भागो भवति। कस्मात्। प्रत्ययानां पुण्यपापवत्त्वे बहून्यवद्यानि सन्ति। किमिति। यथा सत्त्वो वधस्य प्रत्ययः। यदि नास्ति सत्त्वः। कस्य वधः स्यात्। तथा च मृतेन पापिना भाव्यम्। यथा च घनिकश्चौर्यस्य प्रत्ययः। सूरूपं काममिथ्याचारस्य प्रत्ययः। परपुरुषा मृषावादादीनां प्रत्ययाः। कूटमानादयः कुहनायाः प्रत्ययाः इति क्रेतारः पापिनः स्युः। प्रतिग्रहीता दानस्य प्रत्यय इति पुण्यभाक् स्यात्। ये कूपतटाकाद्युपभोक्तारः ते सर्वे पुण्यभाजः स्युः। तथा च स्वस्य पुण्यं न स्यात्। न तत् वस्तुतो युज्यते। अतः प्रत्ययानां न स्यात्पुण्यपापवत्ता।

[अथ यदि] प्रतिग्रहीतुः स्वपुण्यभागः क्षीयमाणः स्यात्। तदा न कश्चिदन्यस्मात् दानं प्रतिगृह्णीयात्। कस्मात्। स्वपुण्यभागेनान्नपानयोः क्रीयमाणत्वात्। दाता च पापबहुलोऽल्पपुण्यः स्यात्। कस्मात्। कियत्कुशलं ब्राह्मणाः कुर्युरिति। भूयसा ते त्रिविधविषकलुषितचित्ताः पञ्चकामगुणासक्ता न व्यवस्यन्ति कुशलभावनाम्। अतो दाता पापबहुलोऽल्पपुण्यः स्यात्। ब्राह्मणादय आत्मानं सुजनभावितधर्मचय इति कीर्तयन्तो न सम्यक् पश्यन्ति समापत्तिचित्तसमाधानानि धर्मान्। ये ध्यानसमापत्तिविनिर्मुक्ताः ते चित्तदुर्विनेयाः। अतो दाता अवीतरागाय ददन् पापबाहुल्यं लभेत। जनाः पितॄन् पूजयन्तः पुत्रभार्याबन्धून् समाराधयन्तः [यदि] ज्ञात्वा विजानन्ति सर्वे पापं प्रापयेयुरिति। तदा न कोऽपि पुण्यभाक् स्यात्। न तु वस्तुतस्तथा युज्यते। अतः पुण्यं पापञ्च न प्रत्ययगतम्। शीलादिधर्मोपि परेषां हितकरः। प्राणातिपातविरतः सर्वेषां जीवितं प्रयच्छति। शीलधारी तदा महापापभागं लभेत। प्राणातिपातविरत्या पुरोवर्तिजनो जीवितलब्धो यदकुशलं करोति। तत् शीलवतो भागः स्यात्। अतः पुण्यार्थी पुनः प्राणिनं हन्यात्, न शीलं धारयेत्।

किञ्च कश्चिद्धर्ममुपदिशति। तेन परः पुण्यमभ्यस्यति। पुण्याभ्यासप्रत्ययं पश्चात्प्रभूतघनं लभते। प्रभूतघनेन प्रमत्तो भवति। प्रमत्तः सन् पापानि करोति। तेषां पापानां धर्मभाणको भागी स्यात्। दानप्रत्ययं परो घनिको भवति। घनिकत्वहेतोः कृतानां पापानामपि दाता भागी स्यात्। तथा च ब्राह्मणा न दानं प्रतिगृह्णीयुः। नापि प्रयच्छेयुः। इदानीन्तु ब्राह्मणाः केवलं प्रतिगृह्णन्ति न प्रयच्छन्ति। अतो ज्ञायते स दुष्टः पन्था इति। यथा च राजानो यथाधर्मं प्रजाः पालयन्तः पापिनोऽपि स्युः। यदि पुत्रः पापं करोति। तदा पितरौ भागिनौ स्याताम्। तदा न पुत्रमुत्पादयेताम्। वैद्यश्चिकित्समानोऽपि पापभाक् स्यात्। तच्चिकित्सालब्धजीवितेन पापकरणात्। देवे वर्षति पञ्चसस्यान्यायतानि प्ररोहन्ति। तदा देवः पापभाक् स्यात्। दुष्टसत्त्वानां पोषणपरित्राणकरत्वात्। अन्नदाताऽपि पापभाग् स्यात्। भोक्तुरन्नमजीर्णं कदाचिन्मरणाय भवेत्। अवीतराग आस्वादाभिनिविष्ट इत्यतो दाता पापी स्यात्। तथा च दाता, त्वदन्नं भुक्त्‌वा नाकुशलं करिष्यामीति भोक्तारं सदा प्रतिज्ञाप्य पश्चाद्दास्यति। तथा नो चेत् दातुरुभयं नश्येत्।

(पृ) ननु सूत्रेऽप्युक्तम्-यदि भिक्षुर्दानपतेरन्नं भुक्त्‌वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति तत्प्रत्ययात् स दानपतिरप्रमाणपुण्यं प्रसूत इति। तत्प्रत्ययेन पुण्यलाभी चेत् कथं न पापभाक् भवति। (उ) यदि स भिक्षुर्दानपतेरन्नं भुक्त्‌वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति। तदा दानपतेर्दानपुण्यं स्वत एवाधिकं वर्धते। न तु तत्समाधेः पुण्यभाक् भवति। यथा क्षेत्रस्य सारवत्त्वादायफलं बहु भवति। बन्ध्येऽल्पम्। एवं पुण्यक्षेत्रस्य सारवत्त्वे दानविपाको महान्। वन्ध्ये पुण्यमल्पम्। न तु प्रतिग्रहीतुः पुण्ये पापे वा दाता भागं लभते। अतो न तत्पुण्यपापप्रत्ययेन दाता पुण्यपापभाक् भवति। स यद्यपि प्रत्ययो भवति। तथापि स्वं पुण्यं पापं वा स्वकृतत्रिविधकर्मापेक्ष्य भवति।

(पृ) अवीतरागस्य चित्तं न स्ववशवर्ति, अवश्यं कामासक्तम्। अतः प्रव्रजितो न दानमाचरेत् [तस्य]। (उ) तथा चेत् प्रव्रजिनः शीलादिन् धृत्वा सपुण्यो भवतीदमुपेक्षितं स्यात्। न वस्तुतस्तत्सम्भवति। अतो दानमपि नोपेक्ष्यम्। त्रिभवानां कृते केबलं नाचरेत्। निर्वाणाय परमाचरेत्। किन्तु क्लेशानकुशलकर्माणि च वर्जयेत्। कस्मात्। तानि हि कर्माणि हेतुकाल एव वार्याणि। फलकाले न कथमपि शक्यते [वारयितुम्]। अतो बुद्धा [भगवन्तो] हेतुकाल एव विनयाय धर्ममुपदिशन्ति। न तु यमराजवत् फलकालेऽपराधमन्यथयेयुः।

(पृ) त्रिष्वावरणेषु किं गुरुतरम्। (उ) केचिदाहुः-विपाकावरणं गुरुतरमिति। अन्यथयितुमशक्यत्वात्। [अन्ये] केचिदाहुः-पुद्गलानुसरणतः सर्वं गुरुतरम्। (पृ) किं निवर्त्यं भवति। (उ) सर्वं हापयितुं शक्यम्। यन्निवर्त्यं न तदावरणमित्युच्यते॥

त्रिविधावरणवर्गः षडुत्तरशततमः।

१०७ चतुःकर्मवर्गः

(पृ) सूत्रे भगवतोक्तम्-चत्वारीमानि कर्माणि। [कतमानि]। अस्ति कर्म कृष्णं कृष्णविपाकम्। अस्ति कर्म शुक्लं शुक्लविपाकम्। अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम्। अस्ति कर्म अकृष्णमशुक्लमकृष्णाशुक्लविपाकम्। कर्म कर्मक्षयाय संवर्तत इति। कानि तानि। (उ) अस्ति कर्म कृष्णं कृष्णविपाकमिति। येन कर्मणा सव्याबाध्ये लोके यथावैवर्तिनरक उपपद्यते। अन्यत्र च सव्याबाध्येऽकुशल विपाकायतने समुपपद्यते यदि वा तिर्यञ्च एकत्याः प्रेता वा। एतद्विपरीतं द्वितीयं कर्म। येन कर्मणा अव्याबाध्ये लोक उपपद्यते यथा रूपारूप्यधात्वोः कामधातौ च देवा मनुष्या एकत्याः। कृष्णशुक्लव्यामिश्रं कर्म तृतीयम्। येन कर्मणा समुत्पद्यते सव्याबाध्येऽव्याबाध्ये च लोके यदि वा तिर्यञ्चः प्रेता देवा मनुष्या एकत्याः। चतुर्थमनास्रवं कर्म त्रीणि कर्माणि क्षपयति।

यत् कर्मलोकद्वयविगर्हितं इह विगर्हितममुत्र च विगर्हितम्। तत् पापं कर्म पुरुषः कृत्वा तमसि पतितः सन् न यशः श्रुतवान् भवतीति कृष्णमित्युच्यते। इह दुःखममुत्र दुःखमित्यध्वद्वयेऽपि दुःखविषमिति कृष्णम्। (पृ) इदं कर्म किमिति सव्याबाध्यलोकजनकम्। (उ) निमित्तक्रमेणाकुशलं कृत्वा न चित्तं परितपति। अन्तराले चाकुशलव्यावर्तकं कुशलं नास्ति। इदं कर्म सव्याबाध्यलोकजनकम्। मिथ्यादृष्टिचित्तेन हि क्रियन्तेऽकुशलानि। अकुशलक्रिया च गुरुजनेषु यन्मातापितृषु अन्येषु सज्जनेषु च। सत्त्वानामहितं कृत्वा न किञ्चिदपि कृपां करोति। यथा सत्त्वान् हन्ति समस्तं तद्धनं वाऽपहरति। कारागारे वा बध्वा पुनराहारमपि निषेधयति। गुरुतरं वा ताडयति। तेन न भवति सुखान्तरमपि। एवमादि कर्म एकान्तसव्याबाध्यलोकजनकम्।

शुक्लं शुक्लविपाकं कर्मेति। यः कश्चिदेकान्ततः कुशलान्युपचिनोति। अकुशलवांश्च न भवति। तत्कर्मद्वयातिशयबलं महत्तमम्। नान्यत्तदतिशेते। न कृष्णविपाकं प्रतिसंवेदयतः शुक्लविपाकस्य प्रसङ्गोऽस्ति। नापि शुक्लविपाकं प्रतिसंवेदयतः कृष्णविपाकस्य प्रसङ्गः। कस्मात्। सर्वे सत्त्वाः कुशलमकुशलञ्चोपचिन्वन्ति। कर्मबलस्य परस्परमावरणत्वान्न युगपत्प्रतिसंवेदयन्ते। यथा द्वयोर्मल्लयो बलीयानग्रे विनिपातयति [दुर्बलम्]। तृतीयं कर्म दुर्बलं कुशलाकुशलव्यामिश्रत्वात् तद्विपाकं युगपत्प्रतिसंवेदयते। अन्योन्यं स्पर्धित्वात्।

(पृ) केचिदाहुः-यदकुशलं कर्म दुर्गतौ विपाकप्रतिसंवेदकं तदाद्यं कर्म। यद्रूपधातुप्रतिसंयुक्तं कुशलं तत् द्वितीयं कर्म। यत् कामधातुप्रतिसंयुक्तं देवमनुष्येषु व्यामिश्रविपाकप्रतिसंवेदकं तत् तृतीयं कर्म। अनावरणमार्गे सप्तदशशैक्षचेतना चतुर्थं कर्म इति। कथमयमर्थः स्यात्। (उ) भगवान् स्वयमवोचदेषां कर्मणां लक्षणम्। यदुत एकत्यः सव्याबाध्यं कायसंस्कारमभिसंस्करोति, सव्याबाध्यं वाक्‌संस्कारमभिसंस्करोति, सव्याबाध्यं मनः संस्कारमभिसंस्करोति। स सव्याबाध्यं कायसंस्कारमभिसंस्कृत्य सव्याबाध्यं वाक्संस्कारमभिसंस्कृत्य सव्याबाध्यं मनःसंस्कारमभिसंस्कृत्य सव्याबाध्ये लोके उत्पद्यते। तत्र सव्याबाध्ये लोक उत्पन्नं सन्तं सव्याबाध्याः स्पर्शाः स्पृशन्ति इति। अतो ज्ञायते यत् सत्त्वानां कृष्णदुःखलोकोत्पादकं तदाद्यं कर्मेति। रूपारूप्यधात्वोस्तु एकान्तसुखवेदनैव। कामधातुकदेवमनुष्या अप्येकान्तसुखवेदिनः। यथोक्तं सूत्रे-सुखिनां मनुष्याणामपि सन्ति षट् स्पर्शा इति। देवमनुष्यैरनुभूयमाना विषया येन अमनोरूपा न भवन्ति तत् द्वितीयं कर्म। कृष्णशुक्लव्यामिश्रसमुदाचरणं तृतीयं कर्म। सर्वाण्यनास्रवकर्माणि कर्माणां क्षयाय संवर्तन्ते। मिथो विरोधात्। न सप्तदशशैक्षचेतनामात्रं चतुर्थं कर्म।

(पृ) अनास्रवं वस्तुतः शुक्लम्। कस्मादशुक्लमित्युच्यते। (उ) तत् शुक्ललक्षणाद्भिन्नम्। न द्वितीयशुक्लकर्मसमानम्। अस्मादतिशयितमशुक्लस्य, तदनपेक्षत्वात्। यथा राज्ञश्चक्रवर्तिनः सुविशुद्धातिक्रान्तदेवमानुषचक्षुः सम्पत्। वस्तुतस्तु तन्मानुषमेव चक्षुः। अन्यपुरुषातिशायित्वादतिमानुषमित्युच्यते। तथा तत्कर्माऽपि अन्यशुक्लकर्मातिशायित्वादशुक्लमित्युच्यते। केचिदाहुः-अकृष्णं शुक्लविपाकं कर्मेति वक्तव्यमिति। तत्त्वदुष्टम्। निर्वाणञ्च न शुक्लम्। अतस्तत्कर्माशुक्लमिति वाच्यम्। वक्तव्यञ्चाकृष्णमशुक्लमिति। कस्मात्। निर्वाणं ह्यधर्मः। निर्वाणार्थत्वात्तत्कर्माकृष्णमशुक्लम्। लोके श्लाध्यतरं सास्रवं कुशलं कर्म शुक्लमित्युच्यते। चतुर्थं कर्म तत्कर्म व्यावर्तयतीति अशुक्लम्। तस्य कर्मणोऽकृष्णलक्षणत्वादशुक्ललक्षणतापि प्राप्यते। विपाकस्य शुक्लत्वात्कर्म शुक्लमित्याख्यायते। इदं कर्म त्वविपाकमित्यतो न शुक्लमित्याख्यायते॥

चतुःकर्मवर्गः सप्तोतरशततमः।

१०८ पञ्चानन्तर्यवर्गः

[एत] त्कायसमनन्तरं विपाको वेद्यत इत्यानन्तर्यमित्युच्यते। यदि दृष्ट एव धर्मे वेद्यते तदा सव्याबाधविपाको लघुर्भवति। तस्य गुरुत्वात्क्रमेण क्षिप्रं वा अवैवर्तिके नरके पतति। त्रीण्यानन्तर्याणि पुण्यक्षेत्रगुणगौरवादानन्तर्याणीत्युच्यन्ते यदुत सङ्घभेदः तथागतशरीरे दुष्टचित्तेन लोहितोत्पादनमर्हद्वधः। मातृपितृवध आनन्तर्यमकृतज्ञत्वात्। तदानन्तर्यं मनुष्यगतावेव सम्भवति। नान्यगतिषु। मनुष्याणामेव विवेकज्ञानवत्त्वात्। (पृ) अन्येषामार्यजनानां वध आनन्तर्यं लभते न वा। (उ) आर्यजनानां वधिता प्रायो नरके पतति। यस्त्वर्हन्तं हन्ति सोऽवश्यं नरके पतेत्। यस्तथागतं ताडयति न तु लोहितमुत्पादयति स गुरुतरं पापं लभते। इच्छया भगवत्याघातात्।

(पृ) यद्येकमानन्तर्यं करोति। तदा नरके पतति। यदि द्वे त्रीणि वा करोति। तदा एकस्मिन्नेव काये विपाकवेदना क्षीयते न वा। (उ) पापानां प्राचुर्यात् स चिरं गुरुतरदुःखान्यनुभवति। ततश्च्युतः पुनस्तत्रैव जायते। (पृ) सङ्घभेदे कथं गुरुतरं भवति [पापम्]। (उ) यद्यधर्ममधर्मतो ज्ञात्वा इमं धर्मं धर्मतो जानाति। एवंमनस्कारो गुरुतरो भवति। यद्यधर्मं धर्ममिति वदति धर्मञ्चाधर्ममिति। नेदं पूर्ववत्। यत् कश्चित् बुद्धात्सङ्घं प्रभिद्य आत्मानं प्रशंसति महान् शास्ता देवमनुष्याणां पूज्य इति। इदमपि गुरुतरम्। (पृ) यः प्राकृतजनभेद्यः, नायमार्यः। [तद्भेदः] किमिति गुरुतरं पापम्। (उ) सद्धर्मस्य विघ्नितत्वाद्‍गुरु गुरुतरं पापम्।

(पृ) सङ्घधर्मभेदः कदा भवति। (उ) धर्मेऽचिरप्रतिष्ठिते नैकामपि रात्रिमतिवाहयति स्म। ब्रह्मादयो देवाः शालिपुत्रादिमहाश्रावकाः पुनः [सङ्घं] समीचक्रुः। केचिदाहुः इमानि पञ्च भिक्षुशतानि पूर्वाध्वनि परान् विघ्नयन्तः कुशलमूलमार्गलब्धास्तत्प्रत्ययमिदानीं तद्विपाकं विन्दन्त इति। प्राकृता लघुचलचित्तत्वात्सुभेद्याः। यो लौकिकानात्मशून्यतामात्रं लब्धवान् तस्य चित्तमेवाभेद्यम्। कः पुनर्वादोऽनास्रवं [चित्तम्]। चित्तगतामिध्यात्वात् सङ्घभेदप्रत्ययं करोति। अतः पुण्यार्थी सन् त्यजेदभिध्याम्॥

पञ्चानन्तर्यवर्गोऽष्टोत्तरशततमः।

१०९ पञ्चशीलवर्गः

भगवानाह-उपासकस्य पञ्चशीलानीति। (पृ) केचिद्वदन्ति-समादानसमन्वितस्तु शीलसंवरं लभते इति। कथमिदम्। (उ) समात्तबह्वल्पत्ववशात्संवरं लभते नावश्यं पञ्चमात्राणि गृह्णाति। (पृ) आप्तिविरत्यादयः कस्मान्न शीलम्। केवलं प्राणातिपातविरत्यादय उच्यन्ते। (उ) सपरिबारत्वात्। (पृ) कस्मान्नोच्यते कामचारवर्जनम्। काममिथ्याचारविरतिः केवलमुच्यते। (उ) अवदातवसनानामावसथे लोकव्यवहारस्य सदा दुष्परिहारत्वात्। स्वभार्यागमनञ्च नावश्यं दुर्गतिषु पातयति। यथा स्त्रोत‍आपन्नादयोऽपीमं धर्ममाचरन्ति। अतो नोक्तं कामचारवर्जनम्।

(पृ) पैशुन्यादिविरतिः कस्मान्न शीलम्। (उ) वस्त्विदमतिसूक्ष्मं दुष्परिपालम्। पैशुन्यादिर्मृषावादस्याङ्गम्। यदि मृषोच्यते तदा सामान्यतः [पैशुन्य] मुक्तमेव। (पृ) किं मद्यपानं प्रकृतिसावद्यम्। (उ) न। कस्मात्। मद्यपानस्य सत्त्वाव्याबाधात्केवलं पापहेतुः। यो मद्यं पिबति सोऽकुशलद्वारमपावृणोति। अतो मद्यपानं यः शास्ति स पापाङ्गं लभते। समाध्यादिकुशलधर्माणां विघ्नकृत्त्वात्। यथा तरुषण्डोऽवश्यं भित्त्यावरणार्थः। एवमिमे चत्वारो धर्माः प्रकृतिसावद्याः। तद्विरतयः प्रकृतिपुण्यानि। तत्पालनायैतन्मद्य [संवर]शीलं योज्यते॥

पञ्चशीलवर्गो नवोत्तरशततमः॥

११० षट्‍कर्मवर्गः

षड्विधं कर्म-नरक[वेदनीय] विपाकं कर्म, तिर्यग्योनि[वेदनीय] विपाकं कर्म, प्रेत[वेदनीय]विपाकं कर्म, मनुष्य[वेदनीय]विपाकं कर्म, देव[वेदनीय]विपाकं कर्म, असमाधिवेदनीयविपाकं कर्म इति। (पृ) कानीमानि। (उ) नरकवेदनीयविपाकं कर्मेति यथा षट्‍पादाभिधर्मे लोकप्रज्ञप्तौ विस्तृतम्। प्राणातिपातपापेन नरकं भवति। यथोक्तं सूत्रे-यः प्राणातिपातनिरतः स नरक उत्पद्यते। यो मनुष्येषु भवति सोऽल्पायुर्विन्दते। इति। एवं यावन्मिथ्यादृष्टि [वक्तव्यम्]।

(पृ) जानीम एव दशाकुशलकर्मपथैर्नरकविपाकं विन्दते। तिर्यक्‌प्रेतमनुष्यगतिर्वोत्पद्यत इति। भवांस्तु केवलमाह नरकेषु मनुष्येषु वोत्पद्यत इति। इदानीं विशिष्य वक्तव्यं किं कर्म नरकविपाकमात्रवेदकमिति। (उ) तदेव पापकर्म गुरुतरं सत् नरकविपाकवेदकम्। यद्यल्पं लघु तदा तिर्यगादिविपाकवेदकम्। यः सम्पन्नत्रिविधमिथ्याचारः तस्य नरकं भवति। असम्पन्नान्यकर्मणः तिर्यगादयो भवन्ति। अतश्च गुरुतरपापक्रियायां नरकं भवति। शीलभेदिना दृष्टिभेदिना च कृतमकुशलं कर्म नरकाय भवति। चित्तभेदचर्याभेदाकुशलेऽधिचित्तो यस्तत्कृतमकुशलं कर्म नरकाय भवति। योऽकुशलं कर्म कृत्वा अकुशलस्यानुचरो भवति। तस्य नरकं भवति। आर्येषु योऽकुशलं कर्म करोति। तस्य नरकं भवति। अकुशलं कर्म कुर्वतोऽकुशलं कर्मोपचीयते। यथा कश्चिदकुशलं कर्म कृत्वा पश्चात्प्रीया प्रशंसन् न परित्यक्तुमिच्छति। तस्य नरकं भवति। यो विद्वेषव्यापादचित्तेन पापकं करोति। तस्य नरकं भवति। यो घनार्थं [पापं] करोति। स विपाकान्तरं वेदयते। मिथ्यादृष्टिचित्तेनाकुशलं कर्म कुर्वतो नरकं भवति। शीलदूषिणा कृतं पापकर्म नरकाय भवति। अह्रीकेणापत्रपेण कृतं पापकर्म नरकाय भवत्ति। अकुशलस्वभावेन जनेन कृतं पापकर्म नरकाय भवति। तद्यथा क्लिन्ना भूमिरल्पवृष्टापि कर्दमं साधयति। सदाकुशल कर्मचारिणा कृतमकुशलं कर्म नरकाय भवति। यः सम्भ्रमकारणं विना [ससंभ्रम] मकुशलं कर्म करोति। तस्य नरकं भवति। योऽनात्मशून्यताङ्गमन्यत्राभिनिवेशान्न लभते। तेन कृत पापकर्म नरकाय भवति। यः कायेन शीलं मनसा च प्रज्ञां नाभ्यस्यति। तेन कृतमकुशलं कर्म नरकाय भवति। प्राकृतेन कृतमकुशलं कर्म नरकाय भवति। कस्मात्। न ह्ययं प्रजानाति स्कन्धधात्वायतनद्वादशनिदानादीनि। अज्ञानादकार्यं कुर्यात्। कार्यञ्च न कुर्यात्। अवाच्यं वदेत्। वाच्यञ्च न वदेत्। अननुस्मरणीयमनुस्मरेत्। अनुस्मरणीयञ्च नानुस्मरेत्। तेन कृतं पापमल्पमपि नरकाय भवति। यो न पश्यत्यकुशलस्यादीनवम्। स गुरुकं पापकर्म कृत्वा नरकविपाकं वेदयते। यः पापं कृत्वा न कुशलं प्रतिश्रयते। तस्य नरकं भवति। यथाधमर्णो न राजानं शरणीकरोति। तदोत्तमर्णोऽवकाशभाग्भवति। यस्य कुशलं कर्म दुर्बलम्। तेन कृतमल्पमपि पापं नरकाय भवति। यथा कस्यचित्काये पाचनशक्तिरल्पा। स दुष्परिपाचनमाहारं भुङ्‍क्त्वा न परिपक्तुं शक्नोति। अकुशलकर्मव्यामिश्रमकुशलमात्रमाचरतो नरकं भवति। यथा कश्चिच्चौर्यं कृत्वा लघुतरं गुरुतरं वा बध्यते। यः सर्वकुशलमूलविविक्तः यथा हस्तिना युध्यमानः [तस्य] हस्तं न परिरक्षति। तत्पुरुषकृतं पापं नरकाय भवति। यो हीनधर्ममाचरन् हीनाचार्याच्छिक्षां समादत्ते। तेन कृतं पापं नरकाय भवति। यथा दरिद्रोऽधर्मण आह्रियते। योऽकुशलं सदा वर्धयति अधमर्णस्येव वृद्धिम्। तद्यथा सौनकपुत्रव्याधादयः। तेषां कर्म नरकाय भवति। गण्डस्यान्तः स्राववत् पापस्य म्रक्षणे नरकं भवति। यो दीर्घकालं चित्तगतमकुशलं न सहसा नियच्छति। तस्य नरकं भवति। यथा चिकित्सायै दत्तं विषमेव पुरुषं हन्ति। यः स्वयमकुशलं कृत्वा परानपि शास्ति। तेन बहूनां सत्त्वानां दुःखोपायासद्वारस्योद्धाटनान्नरकं भवति। यथा राष्ट्रपाला बहवो विज्ञाः पूर्णादिवदकुशलमिथ्याचारमाचरन्तोन्यान्यपि बहून् शिक्षयन्ति। यच्च कृतं कर्म भूयसा सत्त्वानां ब्याबाधाय भवति यथा वनदाहादि। बहूनां शासनं येन अधर्मे ते पतन्ति। यथा केदारव्याधादयः। योऽकुशलकर्मणा जीवति यथा चोरामात्यसूनिकव्याधादयः। अत्यन्तशीलदूषिणा कृतं पापकर्म नरकाय भवति। यदामरणं न त्यजन्ति तदत्यन्तमित्युच्यते। यथाह गाथा-

यस्यात्यन्तदौःशील्यं मालुःसालमिवातता।
करोति स तथात्मानं यथैनं इच्छन्ति द्विषः॥ इति।

अवस्तु कुप्यति। अनेन कोपेन यत्पापं करोति। तन्नरकाय भवति। यस्तु सवस्तु कुप्यस्ति। तत्कृतं पापं न तादृशं भवति। यो द्वेषेण कर्म करोति। अस्य गुरुसंयोजनत्वान्नरकं भवति। यथोक्तं सूत्रे-द्वेषः पापीयानपि सुनिग्रह इति। योऽकुशलचित्तस्वभावः तस्य नरकं भवति। यत् हेतुप्रत्ययैः पापं कर्म करोति तदणीयो भवति। यः प्रमादाय व्युत्सृष्टः तेन कृतमशुभं कर्म नरकाय भवति। यो विज्ञैः परिपालितो भवति स देवेषूत्पद्यते। वासवयक्षे आयुषोऽन्ते म्रियमाणे शारिपुत्रः तदन्तिकमागतः। सोऽकुशलेन्द्रियेण शालिपुत्रमभिसभीक्ष्य नान्यथाभूत्। पुरत आगतं मन्दमाहूय पुनरौच्छ्वसत्। शारिपुत्रप्रभास्वरमाहात्म्यमवलोक्याचिन्तयत् अयं महात्मा न हन्तव्य इति विशुद्धचित्तेन सप्तकृत्वः शारिपुत्रमूर्ध्वमधो व्यवालोकयत्। अनेनैव हेतुना सप्तकृत्वो देवेषूदपद्यत। सप्तकृत्वो मनुष्येषु चोदपद्यत। अथ प्रत्येकबुद्धमार्गमलभत। यथा चाङ्गुलिमालः पापकं कर्म बहुकृत्वा मातर[मपि]हन्तुमैच्छत्। भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयति स्म। यथा च कश्चिद्दानपति रग्निघादविषान्नभोजनैर्मध्ये [गृहं] हन्तुमैच्छत्। भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयत्। एवमादयः पुरुषाः अकुशलकर्मका अपि न नरके पतन्ति। अत उक्तं यः प्रमादाय व्युसृष्टः तेन कृतं पापं कर्म नरकाय भवतीति।

यः समुच्छिन्नकुशलमूलो देवदत्तादिवत्पुनरचिकित्स्यो भवति। तद्यथा कश्चिद्रोगी दृष्टमरणनिमित्तः। तेन कृतं पापं नरकाय भवति। यः कुशलं कर्तुमगणयन् म्रियमाणो दुरुत्पादकुशलचित्तो भवति। स चित्तपरितापान्नरके पतति। यो म्रियमाणो मिथ्यादृष्टि चित्तमुत्पादयति। स पूर्वाकुशलहेतुकं मिथ्यादृष्टि प्रत्ययञ्च नरके पतति। एवं बहूनि कर्माणि नरकविपाकाय भवन्ति। आभिधर्मिका वदन्ति-सर्वाण्यकुशलानि नरकनिदानानीति। एभ्योऽकुशलेभ्योऽन्यैस्तिर्यगादिषूत्पद्यन्ते। यथोक्तं सूत्रे-भगवान् भिक्षूनामन्त्र्यावोचत्-यान् सत्त्वान् पश्यथ कायिकमिथ्याचारान् वाचिकमिथ्याचारान् मानसिकमिथ्याचारान् तान् जानीत नरकप्रेक्षकानिति।

(पृ) नरकविपाकं कर्माधिगतम्। किं पुनस्तिर्यग्विपाकं कर्म। (उ) यः कुशलव्यामिश्रमकुशलं कर्म करोति। स ततः तिर्यक्षु पतति। अनुशयसंयोजनौत्कट्याच्च तिर्यक्षु पतति। यथा कामरागौत्कट्याच्चटकपारावतचक्रवाकादिषूत्पद्यते। द्वेषौत्कटयात्सर्पवृश्चिकादिषूत्पद्यते। मोहौत्कट्यात् वराहादिषूत्पद्यते। मदौत्कट्यात् सिंहव्याघ्रश्वापदादिषूत्पद्यते। औद्धत्यचाञ्चल्यौत्कट्यान्मर्कटादिषूत्पद्यते। ईर्ष्यामात्सर्यौत्कट्यात् श्वादिषूत्पद्यते। एवमादीनामन्येषामपि क्लेशानामौत्कट्यान्नानातिर्यक्षूत्पद्यते। यः कश्चिद्दानभागी भवति। स तिर्यक्षूत्पन्नोऽपि सुखमनुभवति। सुवर्णपक्षगरुडहस्त्यश्वादयः। वाचिककर्मणो विपाको भूयसा तिर्यक्षु पतनम्। यथा कश्चित्कर्मविपाकमज्ञात्वा श्रद्धया च नानावाक्कर्म तथा करोति यथा वदन्ति अयं पुरुषो मर्कटवदतिचपल इति। स मर्कटेषूत्पद्यते।

यद्वदन्ति वायसवदाहारलोलुपः। श्वबुक्कवद्भाषते। अजवराहवद्धावति। गर्दभवच्छब्दायते। उष्ट्रवत् याति। हस्तिवदात्मानमुन्नमयति। मत्तबलीवर्दवदशुभयति। चटकवद्यभति। विडालवत्सारज्यति। शृगालवद्वञ्चयति। कृष्णोरभ्रवज्जडो भवति। गोवत् द्रोणबहुलो भवति। एवमाद्यकुशलं वाचिकं कर्म कृत्वा यथाकर्म विपाकं वेदयते। सत्त्वाः सुखलोभान्नानाप्रणिधान्युत्पादयति। तद्यथा कामसुखरागे सति पक्षिषूत्पद्यते। यो नागगरुडादीनां शक्तिबलं श्रुत्वा प्रणिदधाति स तत्रोत्पद्यते। उक्तञ्च सूत्रे-यो निबिडस्थाने म्रियमाणः प्रणिदधाति विपुलं स्थानं लभ इति। स पक्षिषूत्पद्यते। यः परितर्षितो म्रियते स जलार्थितया जलेषूत्पद्यते। क्षुधितो म्रियमाणोऽन्नरागार्द्वचः कुट्यामुत्पद्यते।

व्योमाहात् लघु कर्माणि कुर्वन् व्यामिश्रकुशलत्वात् मक्षिकालीक्षाकृमिकीटादिषूत्पद्यते। यः परानुपदिशन् असद्धर्मे पातयति सोऽविद्वत्पद उत्पद्यते। अन्धो जायते। मृत्वा च शवे कृमिर्भवति। व्यामिश्रकर्माचरणाच्च तिर्यक्षूत्पद्यते। यथोक्तं सूत्रे-तिर्यञ्चो नानाचित्तवशान्नानाकाराननुप्राप्नुवन्ति इति। यस्तृणमद्याम् इति कर्म करोति। यथा कश्चिन्मिथ्या वदति अहं मन्त्रानध्येमीति। यो वा इदमन्नमत्त्वा तृणमद्भीति प्रकटयति। अथ वा वदति मृदं भक्षयामीत्येयमादि। यश्च कश्चिद्वाक्‌पारूष्येणाधिक्षिपति। किं तृणमनत्त्वा मृदं भक्षयसीति। सोऽभिलापवशात्तृणमृदादिभक्षकेषूपपत्तिं वेदयते। अविशुद्धदानामाचारन् तृणादिभक्षकेषु विपाकं वेदयते। य ऋणमादाय न प्रत्यर्पयति। स गवाजकृष्णमृगाश्वगर्दभादिषु पतित्वा ऋणरात्रीर्यापयति। एवमादिकर्मणा तिर्यक्षु पतति।

(पृ) तिर्यद्विपाकं कर्म परिज्ञातम्। केन कर्मणा प्रेतेषु पतति। (उ) अन्नपानादिषु सञ्जातमत्सरलोभचित्तः सन् प्रेतेषु पतति। (पृ) यदि कश्चित्स्वद्रव्यं न ददाति। कस्मात्स पापभाग्भवति। (उ) अयं कदर्यो यदि कश्चिद्याचनां करोति। सापेक्षत्वात्तस्मै कुप्यति। अनेनावद्येन प्रेतेषूत्पद्यते। स कृपणः याचनां कुर्वति कस्मिंश्चित् नास्तीति वदन् अनृतवादित्वात्प्रेतेषु पतति। स चिरात्कदर्यसंयोजनामभ्यस्यति। परस्य हितलाभं दृष्ट्वा ईर्ष्यासूयाचित्तमुत्पादयति। अतः प्रेतेषु पतति। कदर्योऽयं दानचारिणं परं दृष्ट्वा तं दानपतिं द्विप्यति। याचकोऽयं लाभाभ्यासान्मत्तोऽवश्यं याचेतेति। चिरादारभ्य कदर्यचित्तवासनया न स्वयं ददाति परमपि निषेधति। यत्किञ्चिदस्ति विहारे सङ्घद्रव्यं यज्ञे च ब्राह्मणद्रव्यम्। तत् कश्चित् स्वयं केवलमभिलषति न परस्य दातुमिच्छति। अतः प्रेतेषु पतति। यः परस्यान्नपानमपहरति नाशयति वा। स निरशनस्थान उत्पद्यते। यो दानपुण्यविगतः स तदुपपत्त्यायतने विपाकालाभी ततो याचकाधिक्षेपकर्मणो दुःखं तत्रैवानुभवति। अयं कृपणः क्षुत्तृष्णार्दितं परं दृष्ट्वा निर्दयचित्तो भवति। अतो यत्रोत्पद्यते तत्र सदा क्षुत्तृष्णामनुभवति। यथा दयया देवेषूत्पद्यते। तथा द्वेषोपनाहाभ्यां दुर्गतावुत्पद्यते। बन्धुपरिवारप्रियजनेषु सुप्रतिष्ठिते देशे च परमासक्तत्वात्कलिङ्गादिप्रेतेषूत्पद्यते, रागतृष्णाप्रत्ययत्वात्। एवमादि यथा विस्तृतं कर्मविपाकसूत्रे।

(पृ) परिज्ञातानि त्रीणि दुर्गतिविपाकानि। केन कर्मणा देवेषूत्पद्यते। (उ) यो दानसंवरकुशलादिकर्माभ्यस्यति। स उत्तमः सन् देवेषूत्पद्यते। अधमः सन् मनुष्येषूत्पद्यते। यश्च तीक्ष्णेन्द्रियः स मनुष्येषूत्पद्यते। मनुष्यधर्ममाचरतीति मनुष्यः। व्यामिश्रकुशलकर्मणा च मनुष्येषूत्पद्यते। तत्कर्म [त्रिविध] मुत्तमं मध्यममधममिति। एकाग्रतानैकाग्रता विशुद्धमविशुद्धमित्यादि। केनेदं ज्ञायते। मनुष्याणां नानाविभागश्रेणीनां वैषम्यात्। यथोक्तं सूत्रे-प्राणातिपात्यल्पायुष्को भवति। चौर्ये दरिद्रः। काममिथ्याचारे हीनासत्कुलः। मृषावादे सदा परिभाष्यते। पैशुन्ये कुलपांसुलः। पारुष्ये सदा परुषशब्दं शृणोति। संम्भिन्नप्रलापे जनानामश्रद्धेयः। रागेर्ष्यायां कामचारबहुलः। क्रोधे दुःखभावभूयिष्ठः। मिथ्यादृष्टौ मोहबहुलः। मानेऽवरजन्मा। आत्मन उन्माने खर्वः। ईर्ष्यायामते[ज]स्वी। मात्सर्ये दारिद्र्यपीडितः। द्वेषे विरूपी भवति। परपीडायां व्याधिबहुलः। व्यामिश्रचित्तेन दानेऽमधुररसाभिलाषी। अकालदाने न यथेष्टभाक्। पश्चात्तापविमतौ पर्यन्तभूमौ जायते। अविशुद्धदानचर्यायां दुःखतो विपाकलाभी भवति। अमार्गेण कामचर्यायामपुरुषाकारं लभते। मनुष्येषु एवमादीनि सङ्कीर्णान्यकुशलकर्माणि। तद्विपरीतानि तु कुशलकर्माणि। यथा प्राणातिपातविरतिर्दीर्घायुष्यप्रापिणीत्यादि। मनुष्यगतावेवमादि नानावैषम्यमस्तीत्यतो ज्ञायते व्यामिश्रकर्मविपाकोऽयमिति।

प्रणिधानेन हि मनुष्येषु जायते। केचिदप्रमादरता अपि न कामबहुला भवन्ति। ये प्रज्ञास्वधिमुक्तिका मनुष्यदेहप्रणिधानं कुर्वन्ति। ते मनुष्येषूत्पद्यन्ते। यः पित्रोः पूज्यानाञ्च सत्कारे स्वभिरुचिको भवति। ब्राह्मणश्रमणादीनामपि सत्कारवित् तत्कर्मक्रियातुष्टश्च पुण्यं सम्यगभ्यस्यति। सोऽपि मनुष्येषूत्पद्यते। मनुष्येषु च यो विशुद्धकर्मप्रत्ययः स उत्तर [कुरुषू] त्पद्यते। यश्च क्षेत्रगृहकुटीष्वात्मीयविशेषेषु द्विष्यति। स उत्तरासूत्पद्यते। यः शुक्लकर्म सम्यगाचरन् परानपीडयित्वा धनमादत्ते दानाय नाभिष्वङ्गाय। स्वयञ्च शीलमाचरन् न पूर्वापरपरिवारेषु शीलं भेदयति। स उत्तरकुरुषूत्पद्यते। ततः किञ्चिदूनकुशलो गोदानीय उत्पद्यते। ततोऽपि किञ्चिदूनश्च अयथावत् (?) पूर्वविदेह उत्पद्यते।

देवविपाकं कर्मेति। अतिशुद्धदानशीलत्वात् देवेषूत्पद्यते। यः प्रज्ञाङ्गं लब्ध्वा संयोजनानि समुच्छेदयति। स देवेषूत्पद्यते। व्यामिश्रकर्मवशाच्च विशिष्यते। मनुष्येषूक्तवत् प्रणिधानहेतुना च विश्रुतदेवेषु सुखवेदनाप्रत्ययं कृतकुशलकर्मकाः सर्वे तत्र जन्मगतिं प्रणिदधति। यथोक्तं-अष्टपुण्यसर्गस्थाने यः करुणामुदितोपेक्षासु विहरति स उत्पद्यते ब्रह्मलोके यावद्भवाग्रम्। अत्र ध्यानसमापत्तेर्विशिष्टरूपत्वात् विपाकोऽपि विशिष्यते। यस्य स्त्यानमिद्धौद्धत्यादीनि न सम्यक् प्रहीणानि। सोऽनाभास्वरदेहप्रभो भवति। यस्य सम्यक् प्रहीणानि स विशुद्धतरप्रभो भवति। अत्युत्तमकुशलकर्मविपाको देवेषूत्पद्यते। अमीप्सितानां यथामनस्कारमेव प्रतिलाभात्। यो विविक्तरूपैररूप्यसमाधिमुपसम्पद्य विहरति। स आरूप्यस्थान उत्पद्यते। एवमादि देवविपाकं कर्माख्यायते।

अनियतविपाकं कर्मेति। यदवरं कुशलमकुशलं कर्म। इदं कर्म नरकेषु प्रेतेषु तिर्यक्षु देवेषु मनुष्येषु वा वेद्यते। (पृ) अन्यासु चतसृषु गतिषु कुशलकर्मविपाको वेदयितुं शक्यते। नरके कथम्। (उ) कश्चिन्नरकान्मुहूर्तं निवर्तते। यथा [कश्चि] दर्चिर्नरकाद्विमुक्तो दूरतो वनषण्डं दृष्ट्वा मुदितचित्त आशु तस्मिन् वने प्रविशति। शीतवातकम्पिते तस्मिन् वने [यावत्] असितोमराणि न पतन्ति। तस्मिन् समये मुहूर्तं सुखी भवति। अथवा क्षारनदीं दृष्ट्वा इदं प्रसन्नसलिलमिति द्रुतगति प्रधाव्य मुहूर्तं सुखभाग्भवति। एवं नरकेऽपि कुशलकर्मणो विपाकभागोऽस्ति। इदमनियतं कर्मेत्युच्यते॥

षट्‍कर्मवर्गो दशोत्तरशततमः।

१११ सप्ताकुशलसंवरवर्गः

सप्ताकुशलसंवराः यदुत हिंसास्तेयकाममिथ्याचारपैशुन्यपारुष्यमृषावादसम्भिन्नप्रलापाः। य एषां सप्तानां वस्तुनां समग्रो वा असमग्रो भवति। सोऽकुशलसंवर इत्युच्यते। (पृ) कोऽकुशलसंवरसमन्वागतः। (उ) हिंसाकुशलसमन्वागतो यदुत सौनिकव्याधादयः। स्तेयसमन्वागतो यदुत चोरादयः। काममिथ्याचारसमन्वागतो यदुतामार्गमैथुनचारिणो गणिकादयः। मृषावादामन्वागता गायकनटपुत्रादयः। पैशुन्यसमन्वागतो दूषणपरिवादानन्दी राष्ट्रवृत्त्यादिसन्धिलिपिदूषणाध्येता च। पारुष्यसमन्विता नरकपालादयः पारुष्योपजीव्यादयश्च। सम्भिन्नप्रलापसमन्विताः शब्दसन्दर्भयोगेन जनहास्यकरादयः। केचिदाहुः-राजानः प्रतिपक्षिणो राज्ञः शासनावसरे एतदकुशलसंवरसमन्विता इति। तदयुक्तम्। यः पापसन्ततिं कृत्वा न विरमति। स खलु एतदकुशलसंवरसमन्वित इत्युच्यते। न तथा राजादयः।

(पृ) अयमकुशलसंवर इति कथं लभ्यते। (उ) यस्मिन् काले पापकर्माचरति। तदा लभ्यते। (पृ) किं वधितसत्त्वात् संवरमिमं लभते किं वा सर्वसत्त्वेभ्यः। (उ) सर्वसत्त्वेभ्यः। यथा कश्चित् शीलधारी सर्वसत्त्वेभ्यः शीलसंवरं लभते। तथा अकुशलसंवरमपि। प्राणातिपातानुवर्तिनः वधपापसङ्‍गृहीताकुशलसंवरसङ्‍गृहीतरूपद्विविधाविज्ञप्तिलाभे अन्यसत्त्वेभ्योऽकुशलसंवरसङ्‍गृहीतापि लभ्यते। (पृ) अयमकुशलसंवरः कियत्कालं समन्वितो भवति। (उ) यावदुपेक्षाचित्तं न प्रतिलभ्यते। तावत्सदा समन्वितो भवति। (पृ) योऽवरमृदुचित्तादकुशलसंवरं प्रतिलभते। यो वा लोभादिचितात् प्रतिलभते। स सदा एतत्समन्वितो भवति। पुनः किं प्रतिलभते। (उ) यथाचित्तं यथाक्लेशप्रत्ययञ्च पुनरेतदकुशलसंवरं प्रतिलभते। प्रतिक्षणं सदा प्रतिलभते। सर्वसत्त्वेषूत्पन्नः सप्तविधो भवति। सप्तविधोऽयमुत्तममध्याधम इति एकविंशतिधा भवति। एवं प्रतिक्षणं सर्वसत्त्वभूमिषु प्रतिलभते।

(पृ) अकुशलसंवरमिमं कदा त्यजति। (उ) कुशलसंवरसमादानकाले त्यजति। मरणकालेऽपि त्यजति। अद्यप्रभृति न पुनः करोमीति यदाध्याशयमुत्पादयति। तस्मिन् कालेऽपि त्यजति। अभिधर्मिका आहुः-इन्द्रियपरावृत्तो त्यजतीति। तदयुक्तम्। कस्मात्। अशक्ता अपि समन्वागमं लभन्ते। विनयेऽप्युक्तम्। यो भिक्षुः परावृत्तेन्द्रियः न स विनष्टसंवरो भवति इति। अतो ज्ञायते नेन्द्रियपरावृत्त्या त्यजतीति।

(पृ) पञ्चसु गतिषु कस्यां गतौ सत्त्वा अकुशलसंवरसमन्विता भवन्ति। (उ) मनुष्या एव समन्विता नान्यगतिस्थाः। केचिदाहुः-[तथा नोचेत्] सिंहव्याघ्रादयः सदा दुष्कर्मणोपजीविनोऽपि समन्विताः स्युरिति॥

सप्ताकुशलसंवरवर्ग एकादशोत्तरशततमः।

११२ सप्तकुशलसंवरवर्गः

सप्त कुशलसंवराः प्राणातिपातविरतिर्यावत्सम्भिन्नप्रलापविरतिः। (पृ) असत्त्वाख्येभ्य इमं कुशलसंवरं लभते न वा। (उ) लभते। केवलं सत्त्वमुपादाय भवति। कुशलसंवरोऽयं त्रिविधः-शीलसंवरो ध्यानसंवरः समाधिसंवर इति। (पृ) कस्मान्नोच्यतेऽनास्रसंवरः। (उ) अनास्रवसंवरोऽन्त्यद्वये सङ्‍गृहीत इत्यतः पृथङ् नोच्यते। आभिधर्मिका आहुः-अस्ति पुनः प्रहाणसंवरो यदुत कामधातुवीत[रागः] तस्मिन् काले कुशलसंवरं लभते। शीलभेदाद्यकुशलं प्रजहातीति प्रहाणम् इति। वस्तुतस्तु सर्वे संवरास्तिषु सङ्‍गृहीताः।

(पृ) तीर्थिका इमं शीलसंवरं लभन्ते न वा। (उ) लभन्ते। तेषामपि अकुशलचित्तेभ्यो विरतावधिचित्तत्वात्। आचार्यः शीलमुपदिशति अद्यप्रभृति प्राणातिपातादिपापं मा कुर्या इति। (पृ) अन्यासु गतिषु इमं शीलसवरं लभन्ते न वा। (उ) उक्तं हि सूत्रे-नागादयोऽपि दिनमेकं शीलमुपाददते। इति। अतो ज्ञायते भवेदिति। (पृ) केचिदाहुः-अशक्तादिनां न शीलसंवरोऽस्तीति। कथमिदम्। (उ) अयं शीलसंवरश्चित्तभूमिजः। अशक्तादीनामपि कुशलचित्तमस्ति। कुतो न लभन्ते। कुतो न शृण्वन्ति भिक्षुक्रियाम्। अतिगहनसंयोजनानुशयानामेषां दुर्लभमार्गत्वात्। तादृशाः पुरुषा न भिक्षुमध्ये वर्तते(न्ते) नापि भिक्षुणीमध्ये। अतो न शृण्वन्ति। तेषु चान्ये प्रतिषिद्धाः यथा काणादयः। तेऽपि कुशलसंवरस्यास्यार्हाः। (पृ) अस्ति च प्रतिषेधो विनये पातकिनीचवृत्तिकभिक्षुणीदूषकादयो न भिक्षुचर्यां शृण्वन्ति इति। तेषामपि किं कुशलसंवरोऽस्ति। (उ) स यद्यवदातवसनो भवति। कदाचित्कुशलसंवरं लभते। यथा ते दानदयादिसद्धर्मचर्याभ्यासे न प्रतिषिद्धाः। एवं लौकिकशीलसंवरवत्त्वे को दोषः। केवलं दुष्कर्मदूषितत्वात् ते प्रतिहतार्यमार्गाश्च भवन्ति। अतो न प्रव्रज्यां शृण्वन्ति।

(पृ) किं वध्यादिसत्त्वेभ्यः किं कुशलसंवरं लभते किं वा सर्वसत्त्वेभ्यः। (उ) सर्वसत्त्वानां सामन्ताल्लभते। तथा नो चेत् संवरः प्रादेशिकः स्यात्। प्रादेशिको विकलः स्यात्। अयं तु संवर उपचीयमानोऽपचीयमानो निर्ग्रन्थपुत्रधर्मसमश्च यदुत शतयोजनेष्वन्तः प्राणातिपातादिभ्यो विरतिः इति। तादृशदोषवत्त्वात्संवरो न प्रादेशिको भवति। य आह अस्य पुरुषस्य वधाद्विरमामि न तस्य पुरुषस्येति। न स इमं शीलसंवरं लभते। आभिधर्मिकाः आहुः-प्रादेशिकेऽपि दानचर्याकरुणाचित्तादौ पुण्यगुणोऽस्ति। तथा शीलमपि भवेत्। यथैकमपि शीलधारणं शीलपुण्यं प्रसूते। तथैकसत्त्वे संवरं लभेत इति।

(पृ) शीलसंवरोऽयं द्विविधः यावज्जीवक एकदिनाहोरात्रक इति। यावज्जीवक इति यत् भिक्षोरूपासकस्य वा। एकाहोरात्रक इति यथा एकाहोरात्रमष्टशीलान्युपादत्ते। कथमिदम्। (उ) अनियतमिदम्। एकाहोरात्रं वा एकदिनमात्रं वा एकरात्रिमात्रं वा अर्धदिनमात्रं वा अर्धरात्रं वा यथशक्ति कालं स्वीकरोति। प्रव्रज्यालब्धस्य तु यावज्जीवमात्रं भवति। य आह-आहमेकमासमात्रं मासद्वितयमात्रं वा एकवत्सरमात्रं वा [शीलं समादद इति]। न स प्रव्रज्यालब्ध इत्युच्यते। तथा पञ्चशीलान्यपि। (पृ) यः कुशलसंवरं लभते स पुनः संवराद्भ्रश्यति न वा। (उ) न भ्रश्यति। केवलमकुशलधर्मेण संवरमिमं दूषयति। (पृ) किं प्रत्युत्पन्नसत्त्वेभ्यः शीलसंवरं लभते किं वा त्रैकालिकसत्त्वेभ्यः। (उ) त्रैकालिकसत्त्वेभ्यो लब्धस्यः। यथा कश्चिदतीतान् पूज्यान् पूजयित्वाऽपि पुण्यगुणो भवति। तथा संवरोऽपि। अतः सर्वे बुद्धाः समानैकशीलस्कन्धाः।

अप्रमाणोऽयं संवरः। यथैकस्य सत्त्वस्य सप्तविध उत्पद्यते। अलोभादिकुशलमूलेभ्य उत्पद्यते। उत्तममध्याधमचित्तेभ्यश्चोत्पद्यत इति बहुविधो भवति। यथैकस्य पुरुषस्य तथा सर्वसत्त्वानां समन्तादपि प्रतिक्षणं सदा प्रतिलाभादप्रमाणः।

(पृ) शीलसंवरः कदा लभ्यः। (उ) कश्चिद्दिनमेकं शीलमुपादत्ते। अयमाद्यसंवरः। तस्मिन्नेव दिने उपासकशीलमुपादत्ते। अयं द्वितीयसंवरः। तस्मिन्नेव दिने प्रव्रज्य श्रामण्यं करोति। अयं तृतीयसंवरः। तस्मिन्नेव दिने समग्रशीलमुपादत्ते। अयं चतुर्थः संवरः। तस्मिन्नेव दिने ध्यानसमापत्तिं लभते। अयं पञ्चमः संवरः। तस्मिन्नेव दिन आरूप्यसमाधिं लभते। अयं षष्ठः संवरः। तस्मिन्नेव दिनेऽनास्रव [संवरं] लभते। अयं सप्तमः संवरः। मार्गफललाभमनुसरन् पुनः संवरं लभते। लब्धमूलो न नश्यति। प्रत्युत विशिष्ट इत्याख्यां गृह्णाति। एवं पुण्यगुणोऽभिवर्धते। यस्मादयं शीलसंवरः सर्वसत्त्वेषु सदा प्रतिक्षणं लभ्यते। तस्मादुच्यते चत्वारो रत्नाकरा नार्हन्ति षोडशीं कलां दिनमेकं संवरस्येति।

ध्यानसंवरोऽनास्रवसंवरश्च यथाचित्तं समुदाचरति। शीलसंवरो न यथाचित्त[मात्रं] समुदाचरति। (पृ) केचिद्वदन्ति-समाधिप्रविष्टस्यास्ति ध्यानसंवरः। न समाधिव्युत्थितस्येति। कथमिदम्। (उ) समाधिव्युत्थितस्य सदास्ति। लब्धतत्त्वोऽयं न करोति शीलभेदनविरुद्धमकुशलम्। अकुशलं कदाप्यकुर्वद्भिः कुशलचित्तप्रकर्षप्रवृत्तैः सदा भवितव्यम्। (पृ) यद्यारूप्ये ध्यानस्य शीलभेदकता नास्ति। कस्य विरोधात् कुशलसंवर इत्याख्या। (उ) धर्मता ईदृशी स्यात्। [यत्] आर्या महर्षयः सर्वे कुशलसंवरलाभिन इति। यदि शीलभेदनविरोधादेव ते संवरवन्तः। तदा सम्पीडनीयसत्त्वेभ्य एव कुशलसंवरो लभ्येत इत्ययमस्ति दोषः। अतो न युज्यते।

सप्तकुशलसंवरवर्गो द्वादशोत्तरशततमः।

११३ अष्टाङ्गोपवासशील वर्गः

अष्टाङ्ग उपवास उपासकस्योच्यते। स कुशलचेतसा शीलभेदाद्विरत उपवसतीति उपवसथः। (पृ) कस्मात् अष्ट विरतयो मुख्यत उच्यन्ते। (उ) अष्टावेता द्वारं भवन्ति। एभिरष्टधर्मैः सर्वाकुशलेभ्यो विरमति। तत्र चत्वारि द्रव्यतोऽकुशलानि। सुरापानं सर्वाकुशलानां मूलम्। अन्यानि त्रीणि प्रमादकारणानि। पञ्चाकुशलेभ्यो विरतिः पुरुषस्य पुण्यकारणम्। त्रिभ्योऽन्येभ्यो विरतिर्मार्गकारणम्। अवदातवसनानां कुशलधर्मो भूयसा हीनः मार्गस्य कारणतामात्रं करोति। अत एभिरष्टभिर्धर्मैः समन्वागतानि पञ्च यानानि।

(पृ) किमेतान्यष्टोपवासाङ्गानि सहोपादेयानि किं वा पृथक्। (उ) यथाबलं धर्तुं शक्यते। केचिदाहुः-एमे धर्मा एकमुपवासदिनं रात्रिञ्च भवन्ति इति। तदयुक्तम्। बह्वल्पं शीलं यथा [बलं] उपादाय अर्धदिनं वा यावदेकं मासं वा सम्भवतीति को दोषोऽस्ति। केचिदाहुः-अवश्यमन्यस्मादुपादत्त इति। अयमप्यनियमः। असत्यन्यस्मिन् मनसा स्मरन् वाचा वदति-अहमष्टशीलानि धारयामीति। शीलस्य पञ्च शौचानि-(१) दशकुशल[कर्म]पथाचारणम्। (२) पूर्वान्तापरान्तयो दुःख[संज्ञा]। (३) अकुशलचित्तेन न कस्यचिदुपघातः। (४) स्मृत्वा संवररक्षणम्। (५) निर्वाणप्रवणता। य इदृशोपवाससमर्थः तस्य चत्वारो महारत्नाकरा नैकामपि कलामर्हन्ति। देनावामिन्द्रस्य पुण्यविपाकोऽपि नार्हति। शक्रो गाथामवोचत्। भगवान् तं विगर्ह्य [अवोचत्]-यःक्षीणास्रवः तेन हीयं गाथा वक्तव्या। यथोक्तम्-

मासे षडुपावासार्द्ध अष्टाङ्गेषु प्रपन्नकः।
स पुमान् पुण्यमाप्नोति मया च सदृशो भवेत्॥ इति।

यो दिनमुपवसति स उपवासपुण्यमुपभुञ्जानः शक्रतुल्यो भवति। इममुपवासधर्ममुपादातुर्निर्वाणफलं स्यात्। अतः क्षीणास्रवेण सा गाथा वक्तव्येति।

उपवासधर्मसमादाने सुनिबद्धाः शृङ्खलाः सर्वा मोचयितव्याः। सर्वाकुशलप्रत्ययोऽपि प्रहातव्यः। इदं शौचमित्युच्यते। (पृ) आर्यश्चक वर्ती राजा उपवासधर्मसमादानमभिलषति [चेत्] कस्तं समादापयति। (उ) भदन्ता ब्रह्मा देवा भगद्‍द्रष्टारस्तं शासयित्वा ग्राहयेयुः॥

अष्टाङ्गोपवासशीलवर्गस्रयोदशोत्तरशततमः।

११४ अष्टविधवादवर्गः

अष्टविधवादेषु चत्वारोऽशुद्धाः चत्वारः शुद्धाः। चत्वारोऽशुद्धा इति। यो वदति दृष्ट्‍वा नाद्राक्षमिति। अदृष्ट्वा वदति अद्राक्षमिति। अदृष्ट्वा अद्राक्षमिति वन् [व्यवहारे] पृष्टो वदति नाद्राक्षमिति। दृष्ट्‍वा नाद्राक्षमिति ब्रूवन् पृष्टो वदति-अद्राक्षमिति। एवं वस्तुविपर्यासेन चित्तविपर्यासादशुद्धाः। चत्वारः शुद्धा इति। दृष्ट्‍वा वदति अद्राक्षमिति। अदृष्ट्‍वा वदति नाद्राक्षमिति। दृष्ट्‍वा नाद्राक्षमिति ब्रूवन् पृष्ठो वदति नाद्राक्षमिति। अदृष्ट्‍वा अद्राक्षमिति ब्रुवन् पृष्ठो वदति अद्राक्षमिति। एवं वस्तुतत्त्वेन चित्ततत्त्वात् शुद्धाः। श्रुतिबुद्धिज्ञानेष्वपि।

(पृ) दृष्टिश्रुतिबुद्धिज्ञानानां को भेदः। (उ) त्रिविधाः श्रद्धाः। दृष्टिः प्रत्युत्पन्ने श्रद्धा। श्रुतिराप्तवचने श्रद्धा। ज्ञानमनुमितिज्ञानम्। बुद्धिस्त्रिविधश्रद्धाविवेचनी प्रज्ञा। इमास्त्रिविधाः प्रज्ञाः कदाचित्सत्या भवन्ति। कदाचिद्विपरीत्ताः। उत्तमपुरुषा अशुद्धवादमकृत्वा शुद्धवादमात्रं कुर्वन्ति। अतोऽवरजनैः प्रयुज्यमानोऽशुद्ध इत्युच्यते। उत्तमजनैः प्रयुज्यमानस्तु शुद्ध इति। केचिदाहुः- अर्थस्यास्य सम्यगभिज्ञातारः उत्तमा भवन्ति। न मार्गमात्रलाभिन [उत्तमाः]। अतः प्राकृता अपि शुद्धवादिन इति॥

अष्ठविधवादवर्गश्चतुर्दशोत्तरशततमः।

११५ नवकर्मवर्गः

नवविधं कर्म-कामधातुप्रतिसंयुक्तं कर्म त्रिविधं विज्ञप्तिरविज्ञप्तिर्नविज्ञप्ति नाविज्ञप्तिरिति। रूपधातुप्रतिसंयुक्तं कर्माप्येवम्। आरूप्यधातुप्रतिसंयुक्तं द्विविधञ्चानास्रवं कर्म। कायवाग्भ्यां कृतं कर्म विज्ञप्तिः। विज्ञप्तिमुपादाय [यः] पुण्यपापसञ्चयः सदानुयायी। अयं चित्तविप्रयुक्तधर्मोऽविज्ञप्तिरित्युच्यते। चित्तमात्रजाऽविज्ञप्तिरप्यस्ति। नविज्ञप्ति नाविज्ञप्तिरिति मन एव। मनश्च चेतनैव। चेतना च कर्मेत्युच्यते। तस्माद्यन्मनसा प्रणिधाय पश्चात्काय[कृतं] तन्मानसं कर्मापि चेतनेत्युच्यते। चेतनया चिन्तयित्वा काय[कृत] मित्यतः कर्मेत्युच्यते।

(पृ) तथा चेदनास्रवचेतना न [स्यात्]। (उ) यदिदं चेतनात्मकं सैवानास्रवचेतना। (पृ) अविज्ञप्तेः कायजाताया अपि किं तारतम्यविभागो भविष्यति न वा। (उ) यत् सर्वे कायावयवाः विज्ञप्तिकर्म कुर्वन्ति। तदुपादाय सञ्चिताऽविज्ञप्तिर्महती महाविपाकप्रापिणी। (पृ) अविज्ञप्तिरियं कस्मिन् स्थाने विद्यते। (उ) कर्मपथस्वरूपं नियतमविज्ञप्तिसञ्चायकम्। विज्ञप्तिः सती असती वा भवति। अन्या तु चित्तापेक्षिणी। यदि चित्तं सुदृढं भवति। तदा सती। यदि चित्तं मृदु भवति। तदा असती। अविज्ञप्तिरियं प्रणिधानादपि उत्पद्यते। यदि कश्चित्प्रणिदधाति-अवश्यमहं दास्यामीति। यदि वा चैत्यं करोमीति। सोऽवश्यमविज्ञप्तिं प्रतिलभते। (पृ) कदा प्रतिलभ्यतेऽविज्ञप्तिरियं। कदा प्रणश्यति। (उ) यथाविज्ञप्ति वस्तु वर्तते। यदि चैत्यारामादिदानं करोति। यावद्दत्तं वस्तु न प्रणश्यति। तावत्कालं सदानुवर्तते। चित्तञ्चानुसरति। नोपरमति। यथा कश्चिच्चित्तमुत्पादयति-मयेदं सदा कर्तव्यम्। यदि वा समैः मेलयामि, यदि वा चीवरं ददामीति। एवमादि वस्तु चित्तगतं नोपरमति। तस्मिन् समये सदा प्रतिलभ्यते। यावजीवमनुरति च। यथा प्रव्रज्याशीलं समाददाति। तस्मात्कालात्सदा प्रतिलभ्यते।

(पृ) केचिदाहुः-कामधातावेव विज्ञप्तेरविज्ञप्तिरुत्पद्यते। न रूपधाताविति। कथमिदम्। (उ) धातुद्वयेऽप्युत्पद्यते। कस्मात्। रूपधातुकदेवा अपि धर्मं प्रवदन्ति। बुद्धं सङ्घञ्च वन्दन्ते। यथा मनुष्यादय इति कथं विज्ञप्तिकर्मतोऽविज्ञप्तिर्नोत्पद्यते। केचिदाहुः-विलीनाव्याकृता नास्त्यविज्ञप्तिरिति। इदमयुक्तम्। विलीनाव्याकृता गुरुतरक्लेशः। क्लेशोपचयोऽयमनुशय इत्युच्यते। अविलीनाव्याकृता परं नास्त्यविज्ञप्तिः। कस्मात्। चित्तमिदमवरं मृदु सत् नोपचयमुत्पादयति। यथा पुष्पं तिलं वासयति न तृणवृक्षादि। केचिदाहुः-ब्रह्मलोकादूर्ध्वं नास्ति विज्ञप्तिकर्मचित्तमुत्पादकं इति। कस्मात्। वितर्कविचारौ हि वाक्कर्म समुत्पादयतः। न तत्र स्तो वितर्कविचारौः। ब्रह्मलोकोपभोगचित्तमात्रं वाक्कर्म समुत्पादयति। इति। तदयुक्तम्। सत्त्वाः कर्मानुसारेण शरीरमुपाददते। य ऊर्ध्वलोक उत्पद्यते। न स ब्रह्मलोके विपाकमुपभुञ्ज्यात्। अतो ज्ञायते स्वभूमिकचित्तेन वाक्कर्म करोतीति। यदुक्तं भवता न तत्र वितर्कविचारौ स्त इति। तत्पश्चाद्वक्ष्यते स्त इति।

(पृ) आर्या अपर्यवसन्नसंयोजनप्रहाणा विज्ञप्तिकर्म कुर्वन्ति न वा। (उ) आर्याः प्रकृतितो नावद्यं कर्म कुर्वन्ति। (पृ) श्वादीनां सत्त्वानां [वाग्]ध्वनिः वाक्कर्म भवति न वा। (उ) असत्यप्यालापविशेषे चित्ततः समुत्थानात्कर्मेत्यप्युच्यते। यदि वा व्यक्तलक्षणं यदि वाह्वानं यदि वा वेण्वादि सर्वं [तत्] वाक्कर्मेत्युच्यते। इदं कायिकं वाचिकं कर्मावश्यं मनोविज्ञानादुत्पद्यते। नान्यविज्ञानात्। अतः पुरुषाः स्वकायिकं कर्म पश्यन्ति स्ववाचिकं कर्म शृण्वन्ति च। मनोविज्ञानसमुत्पन्नं कर्म सन्तत्याविच्छिन्नं सत् स्वयं पश्यन्ति शृण्वन्ति च॥

नवकर्मवर्गः पञ्चदशोत्तरशततमः।

११६ दशाकुशलकर्मपथवर्गः

सुत्रे भगवानाह-दशाकुशलकर्मपथा यदुत प्राणातिपातादि। पञ्चस्कन्धकलापः सत्त्व इत्युच्यते। तदायुषश्छेदः प्राणातिपातो नाम। (पृ) यदीमे पञ्चस्कन्धाः प्रतिक्षणविनाशिनः। केन वधो भवति। (उ) पञ्चस्कन्धाः प्रतिक्षणविनाशिनोऽपि पुनः पुनः सन्तत्या समुत्पद्यन्ते। तत्सन्ततिसमुच्छेद एव प्राणातिपातो भवति। प्राणातिपातचित्तेन च प्राणातिपातपापं लभते पुरुषः। (पृ) किं प्रत्युत्पन्नपञ्चस्कन्धानां समुच्छेदः प्राणातिपातो भवति। (उ) पञ्चस्कन्धसन्ततावस्ति सत्त्व इत्याख्या। तत्सन्ततिविनाशः प्राणातिपातः। न क्षणिकेषु सत्त्व इत्याख्यास्ति। (पृ) केचिदाहुः कश्चिदनुचरानवलम्ब्य सत्त्वान् हन्ति। अथ वा दृढासिनाभिहत्य सहसा सत्त्वान् हन्ति। तदा तस्य पापं नास्तीति। कथमिदम्। (उ) तेऽपि पापं लभेरन्। कस्मात्। ते वधपापसमन्विताः। चतुर्भिः प्रत्ययैः खलु प्राणातिपातपापं लभन्ते। (१) सत्त्वसत्ता, (२) सत्त्वसत्ताज्ञानम्, (३) जिघत्साचित्तम्, (४) तज्जीवितोच्छेद इति। एभिश्चतुर्भिर्हेतुभिर्मण्डितः पुमान् कथमपापी स्यात्।

अदत्तादानमिति यद्वस्तु यत्पुरुषसम्बन्धी तत् तस्मात्पुरुषाच्चौर्येण गृह्णाति। तददत्तादानमित्युच्यते। अत्रापि सन्ति चत्वारः प्रत्ययाः- (१) द्रव्यस्य परसम्बन्धिता, (२) परसम्बन्धिताज्ञानम्। (३) चौर्यचित्तम्, (४) चौर्येण ग्रहणम् इति। (पृ) केचिदाहुः-निधिः राजसम्बन्धी। य इमं गृह्णाति। स राज्ञः पापं लभत इति। कथमिदम्। (उ) भूमध्यगतद्रव्यस्य न विचारः। भूमावुपरि गतं द्रव्यं परं राजसम्बन्धि स्यात्। कस्मात्। अनाथपिण्डदादय आर्या अपि हीदं द्रव्यं गृह्णन्ति। अतो ज्ञायते नास्ति पापमिति। यः स्वाभाविकद्रव्यस्य लाभः न तत् चौर्यम्।

(पृ) यदि सर्वे पदार्थाः साधारणकर्मभिरुत्पद्यन्ते। कस्मात् चौर्येण पापं लभन्ते। (उ) साधारणकर्महेतोः समुत्पत्तावपि अस्ति हेतोः प्राबल्यदौर्बल्यम्। यत् [यस्य] पुरुषस्य कर्महेतुबलतिशयाधिष्ठितं तत् द्रव्यं तत्सम्बन्धि। (पृ) यदि कश्चिच्चैत्यात् सङ्घाद्वा किञ्चित् क्षेत्रगृहादिद्रव्यमपहरति। कतरस्मात् पापं लभते। (उ) भगवतः सङ्घस्य वा द्रव्ये नास्ति ममताचित्तम्। असत्यपि ततः पापं लभते। द्रव्यमिदं नियमेन भगवतः सङ्घस्य वा सम्बन्धि। तस्य चौर्ये अदत्तादाने वा अकुशलचित्तं समुत्पन्नमित्यतः पापं लभते।

काममिथ्याचार इति। या [यस्य] सत्त्वस्य जाया न भवति। तया सह कामचारः। [तस्य] काममिथ्याचारः। स्वजायायामपि अमार्गेण कामचारोऽपि काममिथ्याचार इत्युच्यते। सर्वासां स्त्रीणां सन्ति पालकाः यन्मातृपितृभ्रातृगणस्वामिपुत्रवध्वादयः। प्रव्रजितस्त्रीणां राजादयः पालकाः। (पृ) गणिका न [कस्यचित्] जाया भवति। तया सह कामचारः कथं न काममिथ्याचारः। (उ) अल्पवयस्का हि जाया। यथोक्तं विनये-अल्पवयस्का जाया यावदेकेन श्मश्रृणान्तरिता इति। (पृ) यदि काचिदस्वामिनी स्त्री स्वयमागत्य प्रार्थयते जाया भवामीति। कथमिदम्। (उ) या वस्तुतोऽस्वामिनी कस्यचित्सत्त्वस्य पुरतो यथाधर्ममागता, [तया सह गमनं] न काममिथ्याचारः। (पृ) प्रव्रजितस्य जायापरिग्रहेण काममिथ्याचारादुन्मोकोऽस्ति न वा। (उ) नोन्मोकोऽस्ति। कस्मात्। न ह्यस्ति स धर्मः। प्रव्रजितस्य धर्मः सदा काममिथ्याचाराद्विरतिः। परस्त्री-[गमन]आपत्तितोऽतिजघन्यं पापं भवति।

मृषावाद इति। यत्कायबाङ्मनोभिः परसत्त्वान् वञ्चयित्वा मृषा प्रतिपादयति। अयं मृषावादः। पापस्य गुरुतरत्वाद्भगवानाह बहूनां पश्नसमाधिः मृषावादः। यावदेकस्मिन् पुरुषे पृच्छत्यपि मृषावादः। किमुत बहूनाम् इति। यो वञ्चयितुमभीष्टः, तस्मात्पापं लभते। यदि कश्चित्परं वदति अहममुकमीदृशं वदामीति। तद्वस्तुनोऽतत्त्वेऽपि न मृषावादः। किञ्च संज्ञामनुसृत्य मृषावादः। यः पश्यन् न पश्यति संज्ञाम्। स पृष्टो वदति नाद्राक्षमिति। तस्य नास्ति मृषावादपापम्। इति यथा वर्णितं विनये।

(पृ) यदि कश्चिद्वस्तुविपर्ययात् अदृष्ट्‍वा वदति अद्राक्षमिति तस्य कथं न मृषावादः। (उ) सर्वाणि पुण्यपापानि चित्ताधीनानि उत्पद्यन्ते। स पुरुषोऽदृष्टवस्तुनि दृष्टसंज्ञामुत्पादयतीत्यतो नास्ति पापम्। यथा [यस्य] तात्त्विकसत्त्वे नास्ति सत्त्वसंज्ञा। असत्त्वे च सत्त्वसंज्ञोत्पन्ना। स न वधपापं लभते। (पृ) यथा वस्तुसति सत्त्व उत्पन्नसत्त्वसंज्ञो वधपापं लभते। तथा यदि दृष्टे दृष्टसंज्ञामुत्पादयति। तदा न पापं स्यात्। नत्वदृष्टे दृष्टसंज्ञामुत्पादयन् न पापं लभत इति। (उ) पापमिदं सत्त्वोपादानकचित्तमुपादायोत्पद्यते। अतः सत्त्वे सत्यपि सत्त्वसंज्ञाविहीनो न लभते पापम्। [तादृश] चित्ताभावात्। असति सत्त्वे सत्त्वसंज्ञावान् [वस्तुतः] सत्त्वस्याभावादपि न पापं लभते। सति सत्त्वे सत्त्वसंज्ञावान् प्राणातिपातपापं लभत एव। हेतुप्रत्ययानां समग्रत्वात्। यस्य दृष्टे वस्तुनि अदृष्टसंज्ञोत्पद्यते। स पृष्टो वदति नाद्राक्षमिति। स संज्ञाविपर्ययाभावात् न सत्त्वान् वञ्चयति। वस्तुविपर्ययेऽपि सत्यमित्येवोच्यते। यस्यादृष्टे वस्तुनि दृष्टसंज्ञोत्पद्यते। स पृष्टो वदति नाद्राक्षमिति। स संज्ञाविपर्ययात् सत्त्वान् वञ्चयति। वस्त्वविपर्ययेऽपि मृषावाद इत्युच्यते।

पैशुन्यमिति। यत् कश्चित्परविभेदयिषया वाक्कर्म करोति। तत्पैशुन्यमित्युच्यते। यस्य नास्ति सम्भेदबुद्धिः। परः श्रुत्वा स्वयं भेदयति। स न पापभाग्भवति। यस्तु विनयकुशलबुद्धया दुर्जनान् सम्भेदयति। स सम्भेदे कृतेऽपि न पापभाग्भवति। यः संयोजनानुशयेन कलुषितचित्तो न भवति। स वाचं वदन्नपि न पापभाग्भवति।

पारुष्यमिति। यत् कश्चित्कटु वदति हितकरञ्च न भवति परस्योपायासमात्रमिच्छति। तत्पारुष्यमित्युच्यते। यस्तु करुणाचित्तेन हितं कुर्वन् कटु वदति। न तस्यास्ति पापम्। यथा निरर्थकप्रयुक्त उपायासे पापमस्ति। [चिकित्सार्थं] कस्मिंश्चित्कायदेशे सूच्या वेधनं कट्‍वपि न पापं भवति। तथा कटुवचनमपि। बुद्धा आर्या अपि कुर्वन्ती दम्। यथा रूग्णादीनामुपदेशः। यः संयोजनानुशयकलुषितचित्तो न भवति। तेन कृतं कटुवचनं न पापमित्युच्यते। यथा वीतरागादयः। यः कलुषितचित्तेन कटु वदति। स क्लेशोत्पत्तिकाल एव पापं लभते।

सम्भिन्नप्रलाप इति। यदनृजु असत्यार्थभाषणं स सम्भिन्नप्रलापः। अकाण्डे सत्यवचनमपि सम्भिन्नप्रलापः। सत्यमपि काले विपत्त्यानुलोम्येनाहितकरत्वात् सम्भिन्नप्रलाप इत्युच्यते। सत्यवचनेऽपि काले चाहिते अमूलमनर्थमक्रमं वचनं सम्भिन्नप्रलापः। मोहादिक्लेशविक्षिप्तचित्ततया वचनं सम्भिन्नप्रलापः। कायमनसोरनार्जवमपि सम्भिन्नं कर्म। किन्तु भूयसा वाक्कृतमेव व्यवहारतः सम्भिन्नप्रलाप इत्युच्यते। अन्यानि त्रीणि वाक्कर्माणि सम्भिन्नप्रलापसंमिश्राणि भवन्ति न विवेकभागीनि। यदि मृषावादः कटुवचनाञ्चाविविक्तम्। तदा द्विधा भवति मृषावादः सम्भिन्नप्रलाप इति। यदि मृषावादोऽपि संबिभेदयिषया अकटुवचनः। तदा त्रिधा भवति मृषावादः पैशुन्यं सम्भिन्नप्रलाप इति। यदि मृषावादः कटुवचनः सम्बिभित्सा च। तदा चतुर्धा भवति। यदि नास्ति मृषावादः। कटुवचनमपि अविविक्तं केवलमकाण्डवचनमहितवचनमनर्थवचनम्। तदा सम्भिन्नप्रलापमात्रम्। अयं सम्भिन्नप्रलापोऽपि सूक्ष्मो दुस्त्यजः। केवलं बुद्धा एव तदिन्द्रियं समुच्छेदयन्ति। अतो बुद्धा एव भगवद्वादप्रसाधने श्रद्धेयाः नान्ये।

(पृ) उक्ताः सप्तविधाः कर्मपथाः। क उपयोगः पुनस्त्रिविधमानसकर्मकथनेन। (उ) केचिद्वदन्ति-पुण्यं पापमवश्यं कायवागधीनं न चित्तमात्रात् इति। अतो वदन्ति चित्तमपि कर्मपथः। त्रिविधस्यास्य मानसकर्मणो बलादुत्पद्यते कायिकं वाचिकमकुशलकर्म इति। इदं त्रिविधं यद्यपि गुरुतरम्। मानसकर्मणः सूक्ष्मत्वात् इति पश्चाद्वक्ष्यते। सर्वेषां लेशानामकुशलकर्मोत्पादकत्वेऽपि इदं त्रिविधं परं सत्त्वानामुपायासकरत्वादकुशलकर्मपथ इत्युच्यते। यदि रागो मध्यमोऽवरो वा न स कर्मपथो भवति। रागोऽयमधिमात्रः परमधिरज्य संपीडेच्छया सोपायः कायिकवाचिककर्मोत्पादकत्वात् रागेर्ष्या कर्मपथो भवति। प्रतिघमोहावपि तथा। यदि मोह एव सर्वक्लेशात्मक उच्यत इति मतम्। तस्यैव कायवाग्भ्यां सत्त्वानामुपद्रवोत्पादकत्वात् त्रैविध्यमुच्यते।

(पृ) कस्मान्मोहो मिथ्यादृष्टिर्भवति। (उ) अस्ति [स] मोहविशेषः। कस्मात्। न हि सर्वो मोहोऽकुशलः। यो मोहो मिथ्यादृष्टिप्रवृत्तावधिपतिः सोऽकुशलः कर्मपथः। सर्वाण्यकुशलानि एतत्त्रिमुखाधीनानि भवन्ति। यदि [वा] कश्चिद्धनलाभायाकुशलं कर्म करोति तद्यथा सुवर्णकार्षापणाय प्राणिनं हन्ति। द्वेषेण वा [अकुशलं कर्म करोति] तद्यथा अमित्रं चोरं वा हन्ति। अथ वा न धनलाभाय न द्वेषेण, अपि तु मोहबलेनैव परापराविज्ञानात् प्राणिनं हन्ति। (पृ) चत्वारो दुर्गतिप्रत्ययाः सूत्र उक्ता रागतो द्वेषतो भयतो मोहतश्च दुर्गतिषु पतन्तीति। इदानीमत्र कस्मान्नोक्तं भयतोऽकुशलं कर्मोत्पद्यत इति। (उ) भयं मोहसङ्गृहीतम्। यदुच्यते भयत इति तन्मोहत एव भवति। कस्मात्। न ज्ञानी यावदायुर्विनाशप्रत्ययमपि अकुशलं कर्म करोति। इदञ्च पूर्वं प्रत्युक्तमेव।

यत् क्लेशविवृद्धिः कायिकवाचिकर्मोत्पादयति स कालोऽकुशलकर्मपथ इत्युच्यते। अस्य त्रिविधस्य भूयसा अकुशलोत्पादकत्वात्। (पृ) कस्मात्कर्मपथ इत्युच्यते। (उ) मन एव कर्म। तत्र चरतीति कर्मपथ इत्युच्यते। अन्तिमत्रितये पूर्वं चरति। आद्यसप्तके पश्चाच्चरति। त्रीणि कर्मपथाः न कर्म। सप्त कर्माणि कर्म च पन्थाश्च। (पृ) कशाताडनसुरापानादीन्यकुशलकर्माण्युक्तानि। कस्माद्दशैवोक्तानि। (उ) गुरुतरपापत्वादिमानि दशोक्तानि। कशाताडनादीनि सर्वाणि तत्परिवाराः पौर्वापरिकाः। न सुरापानं प्रकृतिसावद्यम्। नापि परोपद्रवकृत। परोपद्रवकृदिति स्वीकारेऽपि न सुरापानं तद्भवति।

(पृ) अकुशलकर्मपथा इमे कुत्र वर्तन्ते। (उ) सर्वत्र पञ्चगतिषु वर्तन्ते। उत्तरकुरुषु केवलं न सन्ति। मिथ्याकामचारस्त्रिभिर्वस्तुभिरुत्थापितः कामरागेण संसिद्धः। अन्ये त्रिभिर्वस्तुभिरुत्थापितः त्रिभिर्वस्तुभिः संसिद्धः। (पृ) आर्याः किमकुशलं कर्म कुवन्ति न वा। (उ) मानसाकुशलकर्मोत्पत्तावपि न कायिकवाचिककर्मोत्पादयन्ति। मानसकर्मण्यपि द्वेषचित्तमात्रमुत्पादयन्ति न वधचित्तम्। (पृ) सूत्र उक्तम्-शैक्षा अन्यान् शपमाना आहुः समुच्छिन्नवृषणो भव इति। तत्कथम्। (उ) [अन्यत्] किञ्चित्सूत्रमाह-अर्हन् शपत इति। अयं क्षीणास्रव पुरुषः प्रहीणक्लेशमूलः चित्तमेव नोत्पादयति। किं पुन शपेत इति। शैक्षस्य शापवचनमपि तथैव स्यात्। आर्या अकुशलकर्मसु अविज्ञप्तिसंवरं लभन्त। कथं कुर्युरकुशलम्। न च ते दुर्गतौ पतन्ति। यद्यकुशलमुत्पादयन्ति। पतेयुरपि। यद्यार्या इहाध्वनि अकुशलं कर्म कृत्वा दुर्गतौ न पतन्ति। अतीताध्वनि अकुशलकर्मवन्त इति कस्मान्न पतन्ति। (उ) आर्याणां मनसि तत्त्वज्ञाने समुत्पन्ने सर्वेऽकुशलकर्मपथा मन्दा भवन्ति यथा दग्धं बीजं न पुनः प्ररोहति।

त्रीणि च विषाणि द्विविधानि-दुर्गतिप्रापकाणि तदप्रापकाणीति। यानि दुर्गतिप्रापकाणि तानि आर्याणां प्रक्षीणानि। कर्मक्लेशाभ्यां हि शरीरमुपादीयते। आर्याः कर्मयुक्ता अपि क्लेशविकलत्वान्न पतन्ति। किञ्च ते रत्नत्रयाख्यमहास्थानबलमवष्टभ्य महदकुशलं क्षपयन्ति। यथा कश्चिद्राजाश्रित उत्तमर्णेन न पीड्यते। ते च तीक्ष्णप्रज्ञाविद्या अकुशलं कर्म क्षपयन्ति। यथा कश्चित्कायेऽग्निशक्तिविवृद्ध्या दुष्परिपाचं परिपाचयति। तेषां सन्ति बहव उपायाः। कदाचिद् बुद्धान् स्मृत्वा कदाचित्करुणां स्मृत्वा कुशलकर्महेतुभि [र्वा] अकुशलेभ्यो विमुक्तिं लभन्ते। यथा चोरो वह्वलीकैररण्यदुर्गमाश्रित्य नोपलभ्यते। आर्या इमे ज्ञानेन विमुक्तिमार्गं लभन्ते। यथा गौः स्वामिनं याति। विहग आकाशं निश्रयते। दीर्घरात्रं कुशलधर्माणामभ्यासान्न दुर्गतौ पतन्ति। यथोक्तं सूत्रे-यो नित्यं कायेन शीलं चित्तेन प्रज्ञामभ्यस्यति स नरकवेदनीयं कर्माभिमुखीभूय लघु वेदयते इति। यथा चाह गाथा-

चरन्तं करुणाचित्तेऽप्रमाणेऽनिरावृते।
गुरुकर्माणि सर्वाणि न किञ्चिदुपयन्ति च॥ इति।

आर्याणामेषाञ्चित्तेऽकुशलं कर्म न स्थिरीभवति। सन्तप्तायसि पतितैकजलबिन्दुवत्। आर्याणां कुशलं कर्म सुदूरगामि खदिर वृक्षमूलवत्। आर्याश्चेमे बहुकुशला अल्पाकुशलाः। अल्पमकुशलं बहुकुशलेषु वर्तमानं न बलवत् यथा गङ्गायां क्षिप्तमेकपललवणं न विकारयति तद्रसम्। आर्यास्ते पुण्यश्रद्धादिना धनिकाः। यथा दरिद्र एककर्षापणाय पापं स्वीकरोति। न [तथा]धनिकः शतसहस्रेभ्योऽपि पापं प्राप्नोति। आर्यमार्गप्रवेशाब्दहुमता भवन्ति। यथार्याः सत्यपि पापे न नरकं प्रविशन्ति। यथा व्याघ्रशार्दूलजाश्ववराहानां(णां) सह विवदमानानां बलिष्ठो जयं लभते। आर्याणामेषां चित्तामार्यमार्गोषितम्। दुर्गतिकपापानि न पुनरुपायासयन्ति। यथा राजाध्युषित एकान्तगृहे नान्ये प्रविशन्ति। आर्याः स्वविहृतिस्थानविहारिणः। न [तेषु] दुर्गतिकपापकर्माण्यवकाशं लभन्ते। तद्यथा गृध्रो वा कङ्क इति दृष्टान्तः। किञ्चार्याश्चतुस्मृत्युपस्थानेषु चित्तं प्रतिबध्नन्ति। अतो दुर्गतिककर्माणि नावकाशं लभन्ते। शाखानिवेशितवृत्तघटवत्। द्विविधसंयोजनसमन्वागमाद्धि दुर्गतौ पतितो यथाकर्म विपाकं वेदयते। आर्यास्तु एक [संयोजन] प्रहाणान्न दुर्गतौ पतन्ति। ते सदा कुशलकर्मविपाकं समाददत इत्यतो दुर्गतिककर्माणि नावकाशं लभन्ते। यथा पूर्वं षट्‍कर्मवर्गे प्रतिपादितं नरक[वेदनीयं] कर्मलक्षणम्। [तादृश] कारणाभावादार्या न दुर्गतौ पतन्ति॥

दशाकुशलकर्मपथवर्गः षोडशोत्तरशततमः।

११७ दशकुशलकर्मपथवर्गः

दशकुशलकर्मपथा यदुत प्राणातिपातविरतिः यावत्सम्यक्‌दृष्टिः। इमे दशशीलसंवरसङ्‍गृहीता ऐककालिकाः। ध्यानमरूपसंवरसङ्‍गृहीतमपि ऐककालिकम्। विरतिर्नाम कर्मपथः। साऽविज्ञप्तिरेव। (पृ) वन्दनादीनि पुण्यानि अन्ये कर्मपथाः सन्ति। कस्माद्विरतिमात्रं कर्मपथ इत्युच्यते। (उ) विरतिप्राधान्यात्। इमानि दश कर्माणि दानादिभ्य उत्कृष्टानि। कस्मात्। दानादिना लब्धः पुण्यविपाको न शीलधारणस्य [तुला] मर्हति। यथा दशवार्षिकः पुमान् प्राणातिपातविरतिप्रत्ययमायुर्वर्धयति। दशाकुशलकर्मणां पापत्वात् तद्विरतिः प्रकृतितः पुण्यम्। अन्तिमानि त्रीणि कुशलकर्माणि कुशलकर्माणां मूलम्। तस्माद्दानादीनि कुशलानि कर्मपथसङ्‍गृहीतानि। अस्मिन् कर्मपथेऽस्ति पौर्वापर्येणोपनिध्योक्तकशाताडनादिविरतिः। अतः सर्वाणि कुशलानि अत्र सङ्‍गृहीतानि॥

दशकुशलकर्मपथवर्गः सप्तदशोत्तरशततमः।

११८ आदीनववर्गः

(पृ) अकुशलकर्मणां किमादीनवम्। (उ) अकुशलकर्मभिर्नरकादिदुःखं वेदयते। यथोक्तं सूत्रे-प्राणातिपातप्रत्ययं नरके पतति। यदि मनुष्येषूत्पद्यते। अल्पायु र्विन्दते। यावदेवं मिथ्यादृष्टिः। अकुशकर्मप्रत्ययं चिरं दुःखमनुभवति। यथाऽवीचिनरकेऽप्रमाणवर्षाण्यतिवाहयन् नायुः क्षपयति इति। सत्त्वानां विद्यमानाः सर्वा अकुशलपराभवहानिपीडा अकुशलैः [कर्मभि]रेव भवन्ति। अदृष्टाकुशलकर्मणां महोपकारोऽस्ति। यथा सैनिकव्याधादयो नानेन कर्मणा बहुमानं लभन्ते। चोरवधप्रत्ययं धनभानं लभत इति यत् भवत आशयः। तदिदं पूर्वमेव त्रिकर्मवर्गे प्रत्युक्तम्। अकुशलचारी गर्हानिर्भत्सनादीनि दुःखोपायासाङ्गानि विन्दते। परेषामनिष्टप्रापकं क्रूरमित्यत एभ्योऽकुशलकर्मभ्यो विरमितव्यम्। उक्तञ्च सूत्रे-प्राणातिपातस्य पञ्चावद्यानिः-(१) जनानामश्रद्धेयता, (२) दुर्यशःप्राप्तिः, (३) कुशलाद्विप्रकृष्याकुशलप्रत्यासत्तिः, (४) मरणकाले चित्तविप्रतिसारः, (५) अन्ते दुर्गतिपतनम् इति। प्राणातिपातप्रत्ययमल्पसुखं बहुद्दुःखं भवति। अकुशलकर्माचरणं पुरुषचित्तं संक्लेशयति। अध्वन्यध्वनि समुपचितसमुदयश्चिरं दुश्चिकित्सो भवति। अकुशलचारी तमसस्तमः प्रविष्टः प्रवृत्तिमार्गत्रितयान्न निर्याणं लभते। अकुशलचारी मनुष्यदेहोपादानं वृथाकरोति। यथोषधिनिचितात् हिमगिरेर्विषतृणस्य समाहर्ताऽतिमूढो भवति। एवं दशकुशलकर्मपथैर्मनुष्यदेहं लभते। कुशलमनाचरन् केवलं महतीं हानिमेव करोति। किं पुनरकुशलकर्मसमादाने। किञ्चाकुशलचारी स्वकायं कामयन्नपि न वस्तुतः स्वात्मानं कामयते। स्वात्मानं रक्षन्नपि नात्मानं रक्षति। आत्मपीडाकरकर्मप्रत्ययत्वात्। पुरुषोऽयं कायसङ्गतः तद्यथाऽमित्रचोरेण [सङ्गतः] स्वात्मन एव दुःखकारकत्वात्। योऽकुशलमाचरति। स स्वयमेव तत्कायं चोरयति। किं पुनः परः। अकुशलकर्मचर्या यद्यपीदानीं नाभिव्यज्यते विपाके तु अध्यवसीयते। तस्मादल्पीयस्यपि अश्रद्धा न कर्तव्या। यथाऽल्पीयोऽपि विषं पुरुषं हन्ति। यथा वा ऋणमल्पमपि क्रमेण वृद्ध्या वर्धते। परस्य कृतं पापं परः सदा न विस्मरति। अतः कृतं चिरविप्रकृष्टमपि न श्रद्धातव्यम्। अकुशलचारी न सुखे रमते। अकुशलाचरणाद्देवमनुष्यसुखाद्भ्रश्यति। असुखरतो मूढः श्रेष्ठः। अकुशलचारिणो दुःखं गाढशोचनीयं भवति। विप्रतिसारादिदुःखं प्रत्यक्षं वेदयते। अन्ते तु दुर्गतिदुःखं वेदयते। अकुशलकर्मफलात् विहायसा गत्वा समुद्रे निमज्यापि न विमुक्तिस्थानं लभते। यथा सुवर्णतोमरो बुद्धमन्वधावत्। सर्वमकुशलं मोहोत्थितम्। अतो विद्वान् नानुस्मरेत्। उक्तञ्च सूत्रे-प्रमादः शत्रुवत्कुशलधर्मान् हन्ति इति। अतो नानुस्मरेत्। किञ्चाकुशलं कर्म बुद्धबोधिसत्त्वैरर्हद्भिरार्यैः पञ्चभिज्ञैर्महर्षिभिः पुण्यपापवेदिभिरविगीतं न भवति। अतो न कुर्वीत। पश्यामः खलु प्रत्यक्षमकुशलचित्तवैपुल्य एव भावव्यामोहविक्षेपोपायासाधिदुःखैर्विकृतमुखवर्णः पुमानप्रीतो दृश्यत इति। किं पुनः कायिकवाचिककर्मोत्पादने। एभिः प्रत्ययैर्ज्ञायते अकुशलानामप्रमाणान्यवद्यानि सन्तीति॥

आदीनवर्गोऽष्टादशोत्तरशततमः।

११९ त्रिकर्मगौरवलाघववर्गः

त्रिषु कर्मसु किं गुरुतरं-किं कायिकं कर्म, वाचिकं कर्म किं वा मानसं कर्म। (पृ) केचिदाहुः-कायिकं वाचिकञ्च कर्म गुरुतरम्। न मानसं कर्मेति। कस्मात्। कायिकवाचिककर्मणोर्नियमेन सत्यत्वात्। यथा पञ्चानन्तर्याणि कायं वाचञ्चोपादाय क्रियन्ते। कायो वाक् च कर्म निष्पादयति। यथा कश्चिदिमं सत्त्वं हन्मीति चित्तमुत्पाद्य कायवाग्भ्यां तत्कर्म साधयति। न मानसकर्ममात्रेण प्राणिवधपापं विन्दते। नापि चित्तोत्पादमात्रेण चैत्यनिर्माणब्राह्मपुण्यं विन्दते। कायवचस्यसति मानसिककर्ममात्रस्य न विपाकोऽस्ति। यथा कश्चिच्चित्तमुत्पादयति दानं दास्यामीति। न तु प्रयच्छति। न तस्यास्ति दानपुण्यम्। नापि प्रणिधानमात्रेण वस्तु परिनिष्पद्यते। यथा कश्चित्सङ्घस्य महादानं करोमीति प्रणिदधाति। न तु ददाति। तस्य नास्ति सङ्घदानपुण्यम्। मानसं कर्म महत्तरमिति चेत् [तदा] दानपुण्यं लभेत। तथा च कर्मविपाकः व्यामोहः स्यात्। विनये च नास्ति मानस्यापत्तिः। यदि मानसं कर्म महत्तरम्। कस्मान्नास्त्यापत्तिः। यदि चित्तमुत्पादयितुः पुण्यं लभ्यत इति। तदा पुण्यं सुलभं स्यात्। आचरिता कस्मात् सुलभमिदं कर्म त्यक्त्वा दुराचरणं दानादिकर्म कुर्यात्। तथा चेदक्षीणपुण्यः स्यात्। यथा कश्चिद् वृथा चित्तमात्रमुत्पादयति। नात्यन्तं व्याप्रियते। [तदा] कस्य क्षयः। धनं परिमितमित्यतः पुण्य[मपि] क्षीयते। न चित्तोत्पादमात्रं परस्योपकरोति। अपकरोति वा। यथा तर्षितो बुभुक्षितः सत्त्वः पानमाहारमभिलषति। न मानसकर्मणा वार्यते। लौकिकानां हानिलाभावतिमात्रौ। चित्तं लघु चलं दुर्दममित्यतोऽकुशलाकरणं न किञ्चित्। तदा गुर्वी हानिं विन्देरन्। ये पुण्यचिकीर्षया कुशलचित्तमुत्पादयन्ति। ते महालाभमेवाप्नुयुः। इदन्तु अत्यन्तं दुष्टम्। यदि मानसं कर्म महत्तरम्, प्राणातिपातचिकीर्षाचित्तमुत्पादयन् नरके पतेत्। एवं चिरोपचितेनापि शीलादिना किमुपकृतं स्यात्। शीलादिकुशलाचाराणां गुणा अव्यवस्थिता भवेयुः। कस्मात्। एकचित्तोत्पादमात्रेण पापलाभात्। उक्तञ्च सूत्रे-कायिकं वाचिकं कर्म औदारिकम्। अतः पूर्वं प्रजह्यात्। औदारिकक्लेशप्रहाणाच्चित्तं समाधीयत इति। योऽब्रह्मचर्यचित्तमुत्पादयति। तस्य मैथुनं कृतमिति शीलं विपद्येत। यश्चित्तोत्पादः न तन्मैथुनम्। एतन्मैथुनचित्तव्यतिरिक्तः को धर्मो मैथुनमित्युच्यते। उत्पद्यमानं विज्ञप्तिकर्म सर्वं कायवचसा भवति न मानसकर्मणा। यथा परपुरुषनिन्दा अवश्यं वाक्कर्माधीना मृषावादपापं गमयति। यत्पूर्वमुक्तं चतुर्भिः प्रत्ययैः प्राणातिपातपापं लभते यदुत सत्त्वसत्ता, सत्त्वसत्ताज्ञानं, जिघत्साचित्तं तज्जीवितोच्छेद इति चतुर्भिर्वस्तुभिः पापं सिध्यति। [अतो] ज्ञातव्यं न मानसं कर्म गुरुतरमिति। यथा चाह भगवान्- यो बालक आजन्म करुणामभ्यस्यति। स किमकुशलं कर्मोत्पादयितुं शन्कोति अकुशलं कर्म चेतयते वा इति। अतो ज्ञायते कायिकं कर्मैवोत्पादयति न मानसं कर्म इति।

अत्रोच्यते। यत् भवानाह-कायिकं वाचिकं कर्मैव गुरुतरं न मानसम् इति। तदयुक्तम्। कस्मात्। सूत्रे भगवानाह-

चित्तं धर्मस्य वै मूलं चित्तं प्रभुश्च किङ्करः।
शुभाशुभं तत्स्मरति वचनं चरणञ्च तत्॥ इति।

अतो ज्ञायते मानसं कर्मैव गुरुतरमिति। मनोविशिष्टत्वेन कायिकवाचिककर्मणो र्विशेषोऽस्ति। यथा उत्तमं मध्यममधममित्यादि। विना चित्तं नास्ति कायिकं वाचिकं कर्म। सूत्रे वचनाच्च विज्ञप्तिकर्म कृत्वा नियमेन विपाकं वेदयते। आह च-सप्तविशुद्धिपुण्यानां त्रिविधमानसकर्ममात्रमुपयोजयति। इमानि सप्तविशुद्धिपुण्यानि पुण्यसम्पत्सूत्तमानि भवन्ति। करुणा च मानसं कर्म। सूत्रमाह-करुणाचित्तं विपाकप्रापकमिति। यथाह सूत्रम्-पुराऽहं सप्तवर्षाणि करुणासमुदाचरणान्नेमं लोकं सप्तमहाकल्पान् प्रतिनिवर्तामीति। अतो ज्ञायते मानसं कर्मेव गुरुतरमिति। तदेव सर्वान् लोकान् व्याप्तुं शक्नोति। मानसं कर्म गुरुतरम्। यथा मानसकर्मविपाकादशीतिमहाकल्पहस्राण्यायुर्भवति। मानसकर्मणः शक्ति कायिकं वाचिकं कर्मातिशेते। यथा कुशलचारी आयुषोऽन्ते मिथ्यादृष्टिमुत्पादयन् नरके पतति। अकुशलचारी मरणकाले सम्यग्दृष्टिमुत्पादयन् देवेषूत्पद्यते। [ततो] ज्ञातव्यं मानसं कर्म महत्तरमिति। उक्तञ्च सूत्रे-पापेषु मिथ्यादृष्टिर्गुरुतरेति। आह-यो लोकोत्तरां सम्यग्दृष्टिमुत्पादयति स वर्षशतसहस्याणि संसारे संसरन्नपि न दुर्गतौ पतति इति। मानसकर्मणो बलं कायिकं वाचिकं कर्मातिशेते। यथोक्तमुपालिसूत्रे-तीर्थिको महर्षिः [आगत्य वदेत्] एकेन मनोदण्डेन नालन्दं भस्मीकरोमीति इति। यथा दण्डकारण्यानि ऋषिणां मनोदण्डेन [भस्मी-] कृतानि इति। मानसं कर्मैव विपाकप्रापकम्। यथोक्तं सूत्रे-योऽयमत्र मृतः स एव नरकं प्रविशति। स एव देवेषूत्पद्यते हस्तमुक्तेषुवत् इति। यथा मानसकर्मणोपचित्तैर्मलधर्मैर्यावदवैवर्तिकनरकं प्रविशति। [तथा] उपचितैः कुशलधर्मैर्यावन्निर्वाणम्। चैतसिकस्य सविपाकत्वादेव कायिकं वाचिकं विपच्यते। अभावे कर्मणो विपाकाभावात्। न विना मानसं कर्म कायवाक्कर्मणोर्विपाकोऽस्ति। यन्मनसा कायं वाचञ्च निश्रित्य कुशलमकुशलं वा चरति तत्कायिकं वाचिकं कर्मेत्युच्यते। विनापि कायिकवाचिककर्मणनसकर्मणो विपाकोऽस्ति। न तु विना मानसं कर्म कायिकस्य वाचिकस्य वा विपाकः। अतो ज्ञायते मानसं कर्म गुरुतरं न कायिकं वाचिकम्। इति।

यद्भवतोक्तं कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् यथा पञ्चानन्तर्याणि कायं वाच[ञ्चोपादाय] क्रियन्त इत्यतो गुरुतराणीति। तन्न युज्यते। यस्मात् चेतना गुर्वी वस्तु च गुरु तस्मात्कर्म गुरु। न कायवचसी गुरुणी इति। चित्तनैयत्यात्कर्म नियमेन सत्यम्। यथा चित्तबलमात्रेण सद्धर्मपदं प्रविशति तथा चित्तबलेनैव चानन्तर्यपापं सम्पादयति। असति चित्ते मातापितृवधोऽपि नानन्तर्यम्। अतो ज्ञायते कायवचसी न बलवतीति।

उक्तं भवता काये वाक् च कर्म वस्तु निष्पादयतीति। तन्न युक्तम्। कर्मसमापनं निष्पत्तिः। परस्यायुरपहरन् प्राणातिपातपापं लभते। न कायिकवाचिककर्मोत्पत्तिकाले। कर्मसमापने चित्तबलमवश्यमपेक्षते। न कायवचसी। यदुक्तं भवता-वृथाचित्तोत्पादमात्रेण नास्ति विपाक इति। तदयुक्तम्। यथोक्तं सूत्रे-दृढचित्तमुत्पाद्य तदैव देवेषूत्पद्यते नरके वाऽधः पतति इति। कथमाह मानसकर्मणो न विपाकोऽस्तीति। यदुक्तं भवता-नापि प्रणिधानमात्रेण वस्तु साधयतीति। तदप्ययुक्तम्। कस्यचिदुत्पन्नं गभीरं कुशलचित्तं महासङ्घ[दान] पुण्यमप्यतिशेते। यदाह भवान्-नास्ति मानस्यापत्तिरिति। तदयुक्तम्। यदाऽकुशलचित्तमुत्पादयति तदैव पापं लभते। यथाह भगवान्-सन्ति विविधानि पापानि कायिकवाचिकमानसपापानीति। अतो ज्ञायतेऽकुशलचित्तोत्पादमात्रम पापमिति न लभ्यते। असंयोजनमात्रं शीलम्, दुर्धरत्वात्। औदारिकं पापं शीलधारणेन वारयति। सूक्ष्मं पापं समाध्यादिना परिहरति।

यदुक्तं भवता पुण्यं पापञ्च सुलभं स्यादिति। तदयुक्तम्। चित्तबलस्य तनुत्वात् जनाः सुलभं त्यक्त्वा दुर्लभं कुर्वन्ति। यथा करुणाचित्तादि, तत्पुण्यमतिमात्रबहुलम्। न तु दानं [तथा]। सत्त्वा अवरज्ञानबलाः करुणादि मानसं कर्म चरितुं न समर्था इत्यतो दानादि कुर्वन्ति। प्रकीर्णकुसमगन्धादिषु पूजोपकरणेषु विशुद्धचित्तस्य दुर्लभत्वात्। यदुक्तमक्षीणपुण्यः स्यादिति। तत्प्रतिब्रूमः। स यदि बोधिबलयुक्तः तदा अक्षीणं कुशलधर्मं लभेतैव। यदुक्तं मानसं कर्म न कस्यचिदुपकरोति अपकरोति वा इति। तन्न युज्यते। कायिकवाचिकर्माणि मानसकर्मणाऽऽहृतानीति न प्रधानानि भवन्ति। यद्बलादुत्पद्यते तत् [ततः] प्रधानम्। सर्व उपकाराः करुणाचित्तविहाराधीना भवन्ति। कस्मात्। करुणाविहारबलात्समीरणवृष्टयोः ऋतुमनुवर्तमानयोरपि बीजशतानि पच्यन्ते। यथा कल्पादौ तण्डुलानि स्वयमुत्पद्यन्ते पुरुषाणां दशवर्षायुःकाले प्राप्ते तत्सर्वं नाभूत। कथमाह-करुणाचित्तमनुपकारकमिति। करुणाविहारी सर्वाण्यकुशलमूलानि क्षपयति। अकुशलकर्माधीना हि सर्व उपद्रवाः। कथमाह-करुणाविहारो महोपकारक इति। यदि सर्वे सत्त्वाः करुणाचित्ते विरहन्ति। तदा सर्वे सुस्थान उत्पद्येरन्। न हि सर्वे प्रकृतितः पुण्यप्रयोगमभिलषन्ति। अतो ज्ञायते करुणापुण्यं परमगभीरगहनमिति। कदाचित्करुणादानाभ्यां सत्त्वानुपकुर्वन्ति। कदाचित्करुणामात्रेण। करुणाविहारिणः सत्त्वा यदि कायं स्पृशन्ति। यदि वा तच्छायायां निपतन्ति। सर्वथा निवृतिं लभन्ते। ज्ञातव्यं करुणापुण्यं दानादिभ्य उत्तममिति।

यदुक्तं भवता-हानिलाभावतिमात्राविति। तत्प्रत्युक्तपूर्वं यन्मनोबलेन सत्त्वानुपकरोति अपकरोति चेति। अतो ज्ञायते मानसं कर्म गुरुतरमिति। यदुक्तं चिरोपचितेनापि शीलादीना न किञ्चिदुपकृतमिति। तदप्ययुक्तम्। कस्मात्। मनोविशुद्धया हि शीलविशुद्धिः। यदि मनो न विशुद्धम्। शीलमपि न विशुद्ध्यति। यथेदं सप्ताब्रह्मचर्यसूत्र उक्तम्। विशुद्धशीलश्च महाविपाकं प्रतिलभते। यथाह सूत्रम-शीलव्रतः प्राणिहितं मनोऽनुयायि भवति। यदुत शीलविशुद्ध्या इति। शीलविशुद्धौ च चित्तं प्रशाम्यति। नान्यधर्मे [सति]। यदुक्तं कायिकं वाचिकं कर्मादौरिकम्। अतः पूर्वं प्रजहातीति। तदयुक्तम्। सूक्ष्मकुशलेन महाविपाकं लभते। यथा ध्यानसमापत्तौ चेतना। यदुक्तं यद्यब्रह्मचर्यचित्तमुत्पादयति तदा शीलं विपद्येतेति। तदयुक्तम्। यस्य मानसं कर्माविशुद्धम्, तस्य शीलमपि अविशुद्धम्। पुण्यपापयोर्भेदे लब्धे संयोजनशीलधर्मयोर्भेदः। यदुक्तं त्वया-उत्पद्यमानं विज्ञप्तिकर्म कायवाग्भ्यां भवतीति। तत् सामान्यतः प्रत्युक्तं यदुत कायिकवाचिककर्मधर्मभेदे मानसकर्मधर्मभेदः। कायिकं वाचिकं कर्म अवश्यं विज्ञापयित्रा सिध्यति। यथा चतुर्भिः प्रत्ययैः सिद्धं प्राणातिपातपापं न मानसकर्म विना भवति। लौकिकाः सत्वा वदन्ति कायिकं वाचिकं कर्माकुशलं न तथा मानसमिति। मानसं कर्म च न जनेषूपप्रयुज्यते नाप्युपलभ्यतेऽस्तीति। पूर्वञ्चोक्तं पुण्यपापयोर्लक्षणम्। तल्लक्षणत्वान्मानसं कर्मैव गुरुतरं न कायिकं वाचिकं वा॥

त्रिकर्मगौरवलाघववर्ग एकोनविंशत्युत्तरशततमः।

१२० कर्महेतुप्रकाशनवर्गः

शास्त्रमाह-संक्षिप्योक्तानि कर्माणि। कर्मेदं कायोपादानस्य कारणम्। कायो दुःखस्वभावः। अतस्तं निरोधयेत्। एतत्कायनिरोद्धुकामेन तत्कर्म प्रहातव्यम्। हेतुनिरोधे फलस्यापि निरोधात्। यथा बिम्बमुपादाय प्रतिबिम्बम्। बिम्बनिरोधे प्रतिबिम्बं निरुध्यते। अतो दुःखनिरोधकामिना तद्धेतुकर्मप्रहाणाय वीर्यमारब्धव्यम्।

(पृ) कर्मतः काय उत्पद्यत इतीदं प्रतिपादयितव्यम्। कस्मात्। केचिदाहुः-कायः प्रकृतित उत्पद्यत इति। केचिदाहुः-महेश्वरादुत्पद्यत इति। केचिदाहुः-महापुरुषात्सम्भूत इति। अन्ये केचिदाहुः-स्वभावज इति। अतो वक्तव्यं कारणं कथं ज्ञायते कर्मत उत्पद्यत इति। (उ) इदं विविधैः कारणैर्दूषितम्। ज्ञातव्यं कर्मतः कायमुपादत्त इति। पदार्था नानाविप्रकीर्णजातय इति ज्ञातव्यं हेतुरपि भिद्यत इति। यथा पश्यामः अलकसन्दुककोद्रवादीनां भेदः तद्बीजमसमं ज्ञापयति इति। महेश्वरादीनां भेदाभावात् न हेतुरिति ज्ञातव्यम्। कर्मणस्तु अप्रमाणविभक्तत्वात् नानाकाया उपादीयन्ते। किञ्च सज्जनाः श्रद्धधन्ते यत् कर्मोपादाय काय उपादीयत इति। कस्मात्। ते हि सदाचरन्ति दानशीलक्षान्त्यादिकुशलधर्मान्। विरम्यन्ते च प्राणातिपाताद्यकुशलधर्मेभ्यः। अतो ज्ञायते कर्मतः शरीरमुपादीयत इति। यदि कर्मोपादाय शरीरमुपादीयते तदा तत् निवर्तनीयम्। तत्त्वज्ञानलाभान्मिथ्याज्ञानं प्रहीयते। मिथ्याज्ञानप्रहाणात्कामक्रोधादयः क्लेशाः प्रहीयन्ते। क्लेशानां प्रहाणादूर्ध्वजन्मोत्पादकं कर्मापि प्रहीयते। तदा त्वयं कायो निवर्त्यते। ईश्वरादीनां कारणत्वे तु न निवर्तयितुं शक्यते। ईश्वरादीनामप्रहातव्यत्वात्। अतो ज्ञायते कर्मतः शरीरमुपादीयत इति। प्रत्यक्षं प्रश्यामः खलु हेतुसदृशं फलम्। यथा क्रोद्रवात्कोद्रव उत्पद्यते शालेश्च शालिः। एवमकुशलकर्मतोऽनिष्टविपाको लभ्यते। कुशलकर्मत इष्टविपाकः। ईश्वरादीषु तु नेदृशमस्ति। अतः कर्म कायस्य मूलम्। नेश्वरादयः।

पश्यामः खलु प्रत्यक्षं पदार्थाः कर्मसम्भूता इति। अकुशलकर्मणा हि ताडननिग्रहबन्धनकशाधातादिदुःखान्यनुभवन्ति। कुशलकर्मप्रत्ययञ्च यशोलाभसत्कारादिसुखान्यनुभवन्ति। मनोज्ञप्रियवादी मनोज्ञप्रियविपाकं विन्दते। अतो ज्ञायते कर्मतः शरीरमुपादीयते न महेश्वरादिभ्य इति। लौकिकाः स्वयं जानन्ति पदार्थाः कर्महेतसम्भूता इति। अत एव कृष्यादिकर्म कुर्वन्ति। दानशीलक्षान्त्यादिपुण्यकर्माणि च कुर्वन्ति। नान्त[र्गृह]मुपविशन्ति ईश्वरादिभ्य ईप्सितमाकांक्षमाणाः। अतो ज्ञायते कर्मतो विपाको लभ्यत इति। जना ईश्वरादीन् कारणं वदन्तोऽपि कर्माणि निश्रयन्ते यदुत स्वदेहं खेदयन्त उपवासादीन् स्वीकुर्वन्ति च। अतो ज्ञायते कर्महेतुकमिति। यददृष्टं वस्तु तत्र परशासनमनुसरेत् यदार्याणामाचरितम्। सर्वे चार्याः शीलादिकुशलधर्मान् निश्रयन्ते यतो जानन्ति कर्महेतोर्लोकोऽस्तीति। यदि शीलादिविरतः न [स] आर्यो भवति। न कश्चिदार्यः शासनप्रतिद्वन्द्विकर्मको भवति। अतो ज्ञायते कर्मणः शरीरमुपादीयत इति। किञ्च शीलादि कर्मणामाचरणादृध्यभिज्ञानिर्मितादीनि साधयन्ति। अतो ज्ञायते कर्महेतुक इति। नरकादिदुर्गतिषु द्वेषप्रदाशादयो बहुलाः। अतो ज्ञायते द्वेषप्रदाशादिना दुर्गतयो भवन्तीति। यथा उपरि वृक्षे फलं दृष्ट्वा जानन्ति वृक्षस्तद्धेतुरिति। अतो ज्ञायते कर्म देहस्य मूलमिति। दुर्गतौ मोहादयः प्रबला इति ज्ञातव्यं क्लेशाः दुर्गतिकारणम्। सर्वेषामकुशलानां मोहाधीनत्वात् इति। दुर्गतिषूत्पन्ना बहवः, सुगतिषूत्पन्ना अल्पाः। चक्षुषा पश्यामः खलु वधाद्यकुशलचारिणो बहवः। कुशलचारिणोऽल्पा इति। अतो ज्ञायते हिंसादिवृत्तिर्दुर्गतिकारणमिति। वधादि सज्जना विगर्ह्य न कुर्वन्ति। यदि जानन्ति नाशुभफलानीति कस्मात् निराकुर्वन्ति। सज्जानानां चित्ते यद्यकुशलमुत्पद्यते तदैव प्रयत्नेन निगृह्यते। अकुशलविपाकभीरुत्वात्। [अतो] ज्ञातव्यं वधादयोऽवश्यमकुशलविपाका इति। तथा नोचेत् यथेष्टं कुर्यः इदमेव परमं सुखमिति। तदा हत्वा सत्त्वानां भोजनं परद्रव्यापहारः यदि वा परस्त्रीगमनं इमान्यपि सुखानि भवेयुः। आगामिदुःखभीरुत्वात् तानि दूरतः परिहरन्ति। अतो ज्ञायते कर्मतः कायो भवतीति। सम्यक् ज्ञानभावनया सास्रवं कर्म क्षीयते। न तदा काय उपादीयते। अतो ज्ञायते कर्म तस्य मूलमिति। अर्हतो यद्यपि सास्रवकर्माणि सन्ति। सम्यक् ज्ञानभावनया तु [तानि] नोपचिनोति। अतो ज्ञायते कर्म कायस्य हेतुरिति। कायहेतुनिरोधात्कायोऽपि निरुध्यते। चतुस्सत्यज्ञानात् सत्याश्रयाः क्लेशा न कदापि पुनरुद्भवन्ति। अनुद्भवान्न भवति कायवान्। विद्वानेवं चिन्तयन् चतुस्सत्यानि जिज्ञासति। अतो ज्ञायते कर्म कायस्य हेतुरिति। प्रत्यये विकले च न कायमुपादत्ते। यथा शुष्कभूमौ बीजे च दग्धे न सर्वोऽङ्‍कुरः प्ररोहति। एवं विज्ञानस्थितिक्षेत्रे तृष्णास्नेहानभिष्यन्दिते कर्मबीजे च तत्त्वज्ञानदग्धे नोर्ध्वदेहाङ्‍कुरः प्ररोहति। विद्वानेतद्वस्तु प्रज्ञाय विज्ञानस्थितिक्षेत्रं शोषयितुं कर्म बीजं दग्धुञ्च वीर्यमधिष्ठाय प्रयतते। अतो ज्ञायते कर्म कायोपादानस्य प्रत्यय इति॥

कर्महेतुप्रकाशनवर्गो विंशत्युत्तरशततमः।

कर्माधिकारः समाप्तः

१२१ समुदयसत्यस्कन्धे क्लेशाधिकारे
आद्यक्लेशलक्षणवर्गः

शास्त्रमाह-उक्तानि कर्माणि। क्लेशा इदानीं वक्ष्यन्ते। मलिनचित्तसमुदाचारः क्लेश इत्युच्यते। (पृ) किं मलमुच्यते। (उ) यत् संसारसन्तानस्य प्रवर्तकं तन्मलिनचित्तमित्युच्यते। तन्मलिनचित्तप्रभेदा एव रागद्वेषमोहादयः। इदं मलिनचित्तं क्लेश इत्युच्यते। पापधर्म इत्यपि, परिहाणिधर्मः तिरोभावधर्म परितपनधर्म अनुपतनधर्म इत्यादिनाम्नाप्युच्यते। एतन्मलिनचित्ताभ्यासोपचयोऽनुशय इत्युच्यते। न तु मलिनचित्त उत्पन्नमात्रेऽनुशयः। क्लेशा नाम रागद्वेषमोहविचिकित्सामानपञ्चदृष्टयः। तत्प्रभेदा अष्टनवतिरनुशयाः।

रागः प्रीतिसुखाख्यस्त्रिविधः। विभवप्रीतिसुखमपि राग इत्युच्यते। यथोक्तं सूत्रे-कामतृष्णा भवतृष्णा विभवतृष्णा इति। विभवो नाम प्रहाणं निरोधः। सत्त्वा दुःखाभिहता स्कन्धकायं परिजिहीर्षवो विभवं सुखं मन्यन्ते।

(पृ) प्रीतिसुखं वेदनालक्षणं न नन्दिरागः। यथोक्तं सूत्रे-ऐहिकं सौमनस्यमामुष्मिकं सौमनस्यं इहलौकिकसुखवेदना आमुष्मिकसुखवेदना इत्यर्थमभिदधाति इति। किञ्चाह-ऐहिकं दौर्मनस्यमामुष्मिकं दौर्मनस्यं इहलौकिकदुःखवेदना आमुष्मिकदुःखवेदना इत्यर्थमभिदधाति। यथोक्तं देवताप्रश्ने-किं नन्दति पुत्रैः पुत्रवान्। भगवानाह-शोचति पुत्रैः पुत्रवान् इत्यादि।

अत्रोच्यते। रागो नन्द्यङ्गम्। यथोक्तं सूत्रे-वेदनाप्रत्यया तृष्णा। सुखवेदनायां रागोऽनुशयः। कबलीकाराहारेऽस्ति नन्दिरस्ति रागः। नन्दिक्षयाद्रागक्षय इति। अतो ज्ञातव्यं रागः प्रीत्यङ्गमिति। इदं त्वनवद्यम्। केन तत् ज्ञायते। यथोक्तं सूत्रे-समुदयसत्यं यदुत तर्षणं इति। कस्याभिधानं तर्षणम्। यत् पुनर्भवलिप्सा। किंलक्षणमिदं तर्षणम्। यत् रागं निश्रित्य विविधलिप्सा। (पृ) यद्युच्यते पुनर्भवलिप्सा तर्षणलक्षणमिति। कस्मात्पुनरुच्यते रागं निश्रित्य विविधलिप्सेति। (उ) अस्ति पुनस्तर्षणलक्षणम्। विविधलिप्सेति विशिष्टलक्षणवचनम्। वीतरागस्याप्यस्ति विविधलिप्सातर्षणं यदुत सलिलादिलिप्सा। नेयं समुदयसत्यसङ्‍गृहीतम्। यद्रागमुपदाय पुनर्भवलिप्सा, तत्तर्षणं समुदयसत्यसङ्‍गृहीतम्।

(पृ) यदि तर्षणमपि नन्दिः, रागोऽपि नन्दिः कस्मादुच्यते रागं निश्रित्येति। (उ) आद्योत्पन्नं तर्षणम्। विवृद्धो रागः। अतस्तं निश्रित्येत्युच्यते। यथोक्तं सूत्रे-नन्दिसम्बन्धो लोक इति। अतो नन्दिरेव रागः। उक्तञ्च सूत्रे-निरोधं वर्जयित्वा रागो दौर्मनस्यञ्च सर्वेऽकुशला धर्मा इति। तत्र राग एव नन्दिः। दौर्मनस्यं द्वेषः। यथोच्यते द्वेषो दौर्मनस्यमिति तदा ज्ञायते नन्दिः राग इत्युप्युच्यत इति। अतोऽष्टादशमन‍उपविचारेषु न क्लेशा उच्यन्ते केवलं वेदना उच्यन्ते। अतो ज्ञायते नन्द्यङ्गं राग इति। पृथग्जना वीतरागा न वेदयन्ते सुखम्। वीतद्वेषाश्च न दुःखं वेदयन्ते। वीतमोहा नादुःखमसुखं वेदयन्ते। केन तत् ज्ञायते। तृतीयवेदनायामुच्यते पृथग्जना अस्या वेदनाया न जानन्ति समुदयं, न जानन्ति निरोधं, न जानन्ति आस्वादं, न जानन्ति आदीनवं न जानन्ति निस्सरणम्। अतोऽदुःखासुखवेदनायामविद्यानुशयोऽनुशेते। इमे पृथग्जनाः सदा पञ्चधर्मान् तान् न जानन्तीत्यतोऽदुःखासुखवेदनायां सदाऽविद्यानुशयं र्वन्ति। योऽविद्यानुशयः तद्वेदनोपविचारस्वभावाज्ञानम्। एवं पृथग्जनानां सुखदुःखमन‍उपविचारावेव रागप्रतिघौ। यदादावागत्य चित्ते वर्तते [सा] वेदनेत्युच्यते। तदेव चित्तमधिमात्रं क्लेश इत्युच्यते।

समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गं एकविंशत्युत्तरशततमः।

१२२ रागलक्षणवर्गः

शास्त्रमाह-नवसंयोजनेषु रागोऽयमात्रिधातुप्रतिप्रतिसंयुक्तस्तृष्णेत्युच्यते। सप्तानुशयानामङ्गं द्विधा भवति-कामरागो भवराग इति। कस्मात्। केचिदूर्ध्वधातुद्वये विमुक्तिसंज्ञामुत्पादयन्ति। अतो भगवानाह-स्थानमिदं भव इति। भवो नाम जन्म। असति रागे न जन्म भवति इत्यतः पृथगुच्यते भवराग इति। न तु कामरागमात्रम्। केचिदाहुः-कामरागमात्रं क्लेशः। क्षीणकामरागो विमुक्तो नाम इति। अतो भगवानाह-आरूप्यध्यानेऽप्यस्ति भवराग इति। प्रदर्शयति च भगवान् तत्र[आऽपि] भवः सूक्ष्मः प्रवर्तत इति। अतः पृथगुच्यतेऽयं रागः। दशाकुशलकर्मपथेषु चतुर्षु बन्धनेषु च कामराग इत्याख्या भवति। कामरागस्य परद्रव्यलिप्येत्याख्या। पञ्चनीवरणानां पञ्चावरभागीयसंयोजनानाञ्च कामकामनेत्याख्या भवति। [तत्र]कामकामना नाम पञ्चकाम [गुणा]नां कामकामना। त्रयाणामकुशलमूलानामकुशलमूलराग इत्याख्या। अकुशलमूलरागो नाम अकुशलमूलानामुपचयनम्। अयं रागो यद्यधमाचरणः तदा अकुशलराग इत्याख्या। यथा परद्रव्यापहरणं, यावच्चैत्यसङ्घद्रव्यादानम्। यद्यमृतसत्त्वस्य मांसबुभुक्षा, यदि वा मातृभगिनीस्वस्राचार्यपत्नीः प्रव्रजितपत्नीं स्वपत्नीं वाऽमार्गेण जिगमिषति। अयमकुशलराग इत्युच्यते। यत् स्वद्रव्यं न त्यक्तुमिच्छति। तत्कार्पण्यम्। कार्पण्यं राग एव। वस्तुतोऽसति गुणे अस्तीति वक्तुमन्यप्रेरणमकुशलरागः। सति गुणे अन्यस्य तद्विजिज्ञापयिषा रागोत्पादनम्। बहुदानस्य बहुद्रव्यस्य वा लिप्सा, सा बहुरागता। यदल्पद्रव्यस्याल्पदानं लब्ध्वा प्रियतरं कामयते न तृप्यति। [इय]मसन्तुष्टिः। गोत्रकुलबन्धुयशोरूपसम्पद्यौवनजीवितादिषु यदभिष्वङ्गः [स] मद इत्युच्यते। यच्चतुःसत्काररागः [तत्] तृष्णाचतुष्टयमित्युच्यते।

अयञ्च रागो द्विविधः कामरागः उपकरणराग इति। पुनर्द्विविधः आत्मराग आत्मीयराग इति। आद्य आद्यात्मिकप्रत्ययः। अपरो बाह्यप्रत्ययः। ऊर्ध्वधातुद्वये राग एकान्तेनाध्यात्मिकप्रत्ययः। पुनः पञ्चविधः-रूपरागः, संस्थानरागः, स्पर्शरागः, इर्यापथप्रलापरागः, सर्वराग इति। रूपरसगन्धशब्दस्पर्शरागः पञ्चकामगुणरागः। षट्‍सु स्पर्शेषूत्पन्ना तृष्णा षड्विषयरागः। तिसृषु वेदनासु रागोऽस्ति सुखवेदनायामस्ति लिप्सारागः, तत्परिपालनरागः। दुःखवेदनायामस्ति अलिप्सारागः तत्परिजिहीर्षारागः। अदुःखासुखवेदनायामस्ति मोहरागः। सन्ति चास्य रागस्य नवाङ्गानि। यथोक्तं महानिदानसूत्रे-तृष्णां प्रतीत्य यथेष्टवस्तुपर्येषणा। यथा कश्चित् अनेन वस्तुना दुःखितो वस्त्वन्तरं पर्येषते। यथोक्तम्-सुखी न पर्येषते दुःखी तु बहु पर्येषते। रागविवृद्धिः पर्येषणा। पर्येषणाकाले यल्लभ्यते [स] तृष्णालाभः। लाभं प्रतीत्य विनिश्चयः। इदं ग्राह्यमिदमग्राह्यमिति यच्चित्तनिर्धारणं स विनिश्चयः। विनिश्चयं प्रतीत्य छन्दरागः। छन्दरागं प्रतीत्याध्यवसानम्। अध्यवसानं नाम प्रगाढच्छन्दः। अध्यवसानं प्रतीत्य परिग्रहः। परिग्रहो नाम उपादानम्। उपादानं प्रतीत्य मात्सर्यम्। मात्सर्यं प्रतीत्य आरक्षा। आरक्षाधिकरणं दण्डादानशस्त्रादानादि। इमानि नवाङ्गानि पुनरपि नवाङ्गगानि। रागोऽयं कालमनुसृत्य अधमः, मध्यमः, उत्तमः, अधमाधमः, अधममध्यमः, अधमोत्तमः, मध्यमाधमः, मध्यममध्यमः, मध्यमोत्तमः, उत्तमाधमः, उत्तममध्यम, उत्तमोत्तम इति। रागस्य चास्य लौकिकाङ्गानि दश भवन्ति। तद्यथा प्रियरूपं दृष्ट्‍वा चित्ते इदं [प्रिय]मिति वचनं करोति। ततो रागं जनयति। प्रणिधानं करोति। अनुस्मरति। यथाशिक्षितं प्रकटयति। ह्र्यपत्रपां विस्मरति। सदा स्वयं पुरोवर्तते। प्रमत्तो भवति। उन्मत्तो भवति। मुर्च्छामरणं [करोति]। इदं रागलक्षणम्॥

रागलक्षणवर्गो द्वाविंशत्युत्तरशततमः।

१२३ कामहेतुवर्गः

(पृ) कामोऽयं कथमुत्पद्यते। (उ) स्त्रीरूपाध्यालम्बने यदि मिथ्यामनस्कारमुत्पादयति। यदि वा तद्रूपे यदि वाकारे यदि वा स्पर्शे यदि वा सुभाषिते [मिथ्यामनस्कारमुत्पादयति]। तदा कामराग उत्पद्यते। चक्षुः श्रोत्रादिद्वारासंवरणे कामराग उत्पद्यते। भोजने चामात्रताज्ञाने कामराग उत्पद्यते। स्त्रीरूपसंस्तवे कामराग उत्पद्यते। सुखानि वेदयतः कामराग उत्पद्यते। मोहात्कामराग उत्पद्यते। अशुचिसंज्ञाजननात्, दुर्विज्ञानात्कामराग उत्पद्यते। यथा शुद्धं वस्त्र [मपगतकलङ्कं] सम्यङ् मलेन दूष्यते। रागबहुलानां पुरुषाणां संवासेन कामराग उत्पद्यते। कायादिषु चातुर्भौतिकेषु मिथ्यामनस्कारमुत्पादयन् कामाहृतो भवति। अप्रगृहीतवृत्तघटवदग्रथितकुसुमवच्च। यदि कौसीद्यान्न कुशलं भावयति। तदा कामरागोऽवकाशं लभते। अगम्यस्थाने गच्छन् रागेणा भिभूयते। यदुत वेश्याङ्गनामद्यविक्रयवधककुट्यादयः। तद्यथा गृध्रो वा कङ्को वा इति दृष्टान्तः। अशुच्यादि विलोक्य अप्रतिहतालम्बनस्य कामरागो वेगं लभते। सुचिरादारभ्य सदा कामरागाभ्यासात् रागानुशयः सिध्यति। तदा सूत्पादोऽयं भवति। स्त्रीरूपाद्यलम्बने प्रीतो निमित्तं गृह्णाति परिच्छेदञ्च गृह्णाति। निमित्तग्रहणं नाम पाणिपादमुखनयनालापमन्दहासकटाक्षरोदननयनबाष्पादिनिमित्तानां ग्रहणम्। परिच्छेदग्रहणं नाम स्त्री पुमानिति संस्थानविशेषविकल्पः। एवं गृहीतानुस्मरणविकल्पस्य कामराग उत्पद्यते। दुर्बलविचारणाचित्त आलम्बनमनुधावति न निगृह्णाति। तदा कामराग उत्पद्यते। यः प्रवृत्तकामरागः [तत्-] क्षान्तिं वेदयन् न परित्यजति। स क्रमशो वर्धयति। अधमान्मध्यममुत्पादयति। मध्यमादधममुत्पादयति।

कामरागस्य हितास्वादमात्रं दृष्ट्‍वा तदानीनवमजानतः कामराग उत्पद्यते। ऋतुना च कामराग उत्पद्यते यथा वसन्तादयः। स्थानवशेन च कामराग उत्पद्यते यथा किञ्चित्स्थानं यत्र चिरादारभ्य कामचारो बहुशोऽभ्यस्तः। देहस्या [वस्था]वशाच्च कामरागो भवति। यथा यूनोऽरोगस्य धनसम्पन्नस्य। बलशक्त्या च कामरागो भवति। यथा पानौषधादिः। शुभान् मनोहारिणः पञ्चकामगुणान् यदुत सुपुष्पितसर‍आरामप्रसन्नस्निग्धवापीकूपनवमेघतटित्सुरभिवातव्यजनानि लब्धवतः, पक्षिणां कलरवं स्त्रीणां सुकुमारभूषणरुतानि सुभाषितानि वा शृण्वतः कामराग उत्पद्यते। कर्मप्रत्ययेन च कामराग उत्पद्यते। यथा विशुद्धदाता विशुद्धप्रणीतेषु पञ्चकामगुणेषु संप्रहर्षति। पापी तु अविशुद्धेषु। जातितश्च कामरागो भवति। यथा पुरुषः पुरुषमिच्छति। प्रज्ञप्तावत्यासङ्गे च कामराग उत्पद्यते। [यथा] कश्चिदन्तःपुंलक्षणो बहिस्तु स्त्रीलक्षणो वस्त्रवेषवैरमैत्र्यादिलक्षणश्च। अलब्धचित्तसमाधानस्य अन्तः सत्त्वं पश्यतो बहिः रूपादि पश्यतश्च कामरागो भवति। यस्य रागानुशोऽक्षीणः तृष्णाप्रत्ययश्च सम्मुखी भवति। तस्य मिथ्यामनस्कार उत्पद्यते। एवमादिप्रत्ययैः कामराग‍उत्पद्यते॥

कामहेतुवर्गस्त्रयोविंशत्युत्तरशततमः।

१२४ कामदोषवर्गः

(पृ) कामरागस्य के दोषाः सन्तीति कामः प्रहातव्यः। (उ) कामरागो वस्तुतो दुःखम्। पृथग्जना विपर्ययेण मृषा [तत्र] सुखसंज्ञामुत्पादयन्ति। ज्ञानी तु दुःखं पश्यति। दुःखं पश्यन् प्रजहाति। कामोपादाने नास्ति तृप्तिः। यथा मद्यपानं तत्परितर्षणमनुवर्धयति। परितर्षणविवृद्ध्या कः सुखी भवति। कामोपादानादकुशलानि सहोपचीयन्ते। असिशस्त्रादीनां कामाधीनत्वात्। उक्तञ्च सूत्रे-कामः पापो लघुर्दूस्त्यजः। व्यापाद [गतो] लघुपापः, वस्तुतः स [ततोऽपि] लघुत्तरः इति। कामः पुनर्भवस्य हेतुः। यथोक्तं-तृष्णाप्रत्ययमुपादानं यावन्महतो दुःखस्कन्धस्य समुदय इति। तृष्णां प्रतीत्य कायो भवति। आह च दुःखहेतुस्तृष्णा भवतीति। किञ्चाह-विद्यमानानि दुःखानि भिक्षवः कस्माद्भवन्तीति मनसिकृत्वा जानीध्वं [तानि] कामहेतुकानि। तृष्णायाश्च कायो हेतुरिति। किञ्चाह-कबलीकारे [भिक्षव] आहारेऽस्ति नन्दि अस्ति रागः। अतो विज्ञानं तत्र प्रतिष्ठितम् इति। ज्ञातव्यं तृष्णा कायवेदनायाः प्रत्यय इति। अयञ्च रागः सदा अशुचौ समुदाचरति। यथा स्त्र्यादिषु। स्त्रीणां कायचित्तमशुचि शकृन्मृत्सु [विद्यमान] वृश्चिकवत् दष्ट्वा दूषयति। स कामरागः सदा मोहे समुदाचरति। यथोक्तं सूत्रे-यथा श्वा रक्तलिप्तमस्थिकङ्कालं स्वादयित्वा [स्व]लालायोगान्मन्यते यन्मधुर [मिद] मिति। तथा राग्यपि नीरसे कामे मिथ्याविपर्यासबलेन मन्यते यदिदं रसास्वादमिति। यथा मांसपेश्यादयः ससोपमा [उक्ताः]। केषाञ्चिदतीतेऽतागते वा वस्तुनि कामराग उत्पद्यते। अतो ज्ञायते मोहे सदा समुदाचरतीति। सत्त्वानां कामरागप्रत्ययं सुखमल्पं दुःखं बहु केन किम् [स्यात्]।

कामतृष्णावान् सुखहेतोः सर्वदुःखान्यनुभवति यदुतार्जनकाले दुःखं रक्षणकाले दुःखमुपभोगकालेऽपि दुःखम्। यथा कृषिवाणिज्यसंग्रामराजसेवापरिचर्यादीनि अर्जने दुःखं हानभीत्या रक्षणे दुःखं, प्रत्युत्पन्ने तृप्त्यभावाद्दुःखम्। इष्टसङ्गमे प्रीतिरल्पा विरहे च दुःखं बहु। यथो ज्ञायते कायो बहुदोष इति। यथाह भगवान्-कामतृष्णायाः पञ्चादीनवाः-अल्पास्वादो बहुदुःखं, संयोजनादीपनमामरणतृप्तिरार्यविगर्हणमकुशलं विना न करणम् इति। अनेन कामरागेण सत्त्वाः संसारस्रोतानुगामिनो निर्वाणाद्दूरीभवन्ति। एवमादीन्यप्रमाणान्यवद्यानि सन्ति। इति ज्ञातव्यं कायो बहुदोषः इति।

क्लेशा रागमुपादाय भवन्ति यथा कामरागात् क्लेशाः सर्वे समुद्भवन्ति। तृष्णानुशयेऽनुन्मूलिते पुनः पुनर्दुःखमनुभवति। यथा विषवृक्षोऽनुच्छिन्नः सदा पुरुषं हन्ति। रागेण सत्त्वा गुर्वी धुरं वहन्ति। उक्तञ्च सूत्रे-कामतृष्णा बन्धनमित्युच्यते। यथा कृष्णशुक्ला गौः स्वयमबद्धा रज्जुना परमबद्धा। एवं चक्षुर्न रूपबद्धं, रूपञ्च न चक्षुर्बद्धम्, कामरागस्तु तत्र बद्धः। इमं बन्धमवलम्बयतो न विमुक्तिर्लभ्यते। किञ्चोक्तं सूत्रे-पूर्वा कोटिर्न [प्रज्ञायते] अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां सन्धावतां संसरताम् इति। अपि चोक्तं सूत्रे-रागप्रहाणाद्रूपं प्रहीयते यावद्विज्ञानं प्रहीयत इति। रागोऽयमनित्यतादिभावनया प्रहीयते। प्रहीणेऽस्मिन् कामरागे चित्तं विमुच्यते। रूपरागप्रहाणे नास्ति रूपम्। असति रूपे दुःखं निरुध्यते। यावद्विज्ञानेऽप्येवम्। ज्ञायते कामरागाः सुदृढं बन्धनमिति।

कामरागश्चोरोपमः। सत्त्वास्तु तदकुशलं न पश्यन्ति। कामरागः सदा कुसुमारमुखतः समुदाचरतीत्यतः परममकुशलं नाम। किञ्च सत्त्वाश्चित्तप्रमोदेन कामरागे प्रवर्तन्ते यावन्मशकपिपीलिका[दय]ः सर्वेऽपि आहारमैथुनयोः प्रवर्तन्ते। स कामरागो नानाकारणैः पुरुषाणां चित्तं बध्नाति यदुत मातृपितृस्वसृभगिनीपत्नीसंज्ञा धनादयः। सत्वा आहारमैथुनादिकामरागनीवृतचित्ताः सन्तो जन्मोपाददते। ध्यानसमापत्तिराग ऊर्ध्वभूमावुत्पद्यते। कामरागोऽयं सङ्गमं करोति। सर्वेषां लोकानां रुचयः प्रत्येकं विभिन्नाः। रागात्सङ्गच्छन्ते। यथा शुष्काः सिकताः सलिलयोगे संयुज्यन्ते। संसारे कामतृष्णां रसं मन्यन्ते। यथा रूपाणामास्वादाध्यवसानमित्युक्तं यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम्। असति रागे नास्वादः। आस्वादेऽसति संसारमाशु प्रजहाति। स च कामरागो विमुक्तिविरुद्धः। कस्मात्। यस्मात् सत्त्वाः कामः सुखं ध्यानं सुखं समापत्तिः सुखमिति संरज्यन्ते। तस्मात् विमुक्तिरसुखम्। [यत्] रागाङ्गप्रहाणं तदेव सुखं परिणमति। यथोक्तं-यस्य वैराग्यं स परमं सुखमनुप्राप्नोति इति। किञ्चाह-यः सर्वसुखलाभमिच्छति तेन सर्वाणि कामसुखानि त्यक्तव्यानि। सर्वकामानां त्यागादात्यन्तिकनित्यसुखं लभत इति। यो महासुखं लिप्सति तेनाल्पसुखमुपेक्षितव्यम्। अल्पसुखोपेक्षया अप्रमाणसुखं प्रतिलभते।

विदुषश्च नास्ति प्रत्येकलाभ इत्युक्तम्। यथा वीतरागतृष्णचित्तस्य। यस्य चित्तं रागतृष्णाविविक्तं तस्य सर्वे दुःखोपायासा निरुद्धाः। कामरागोऽयं सद्धर्मं विहन्ति। कस्मात्। न हि परमरागी शीलजातिधर्मशासनेर्यापथशांस्यपेक्षते। नाववादमादत्ते। नादीनवं पश्यति। नापि पुण्यपापमालोचयति। उन्मत्तवत् प्रमत्तवच्च न जानाति कुरूपं सुरूपम्। अन्धवच्च न पश्यति धनलाभम्। यथोक्तं-कामरागो न पश्यति हितम्। कामरागो न विजानाति धर्मं अन्धतमसि अज्ञानवत्। रागानपगमात्। किञ्चोक्तम्-

कामरागः समुद्रो[ऽय] मपर्यन्तश्चाप्यगाधकः।
सोर्मिः सवीचिः सावर्तः सग्रहश्च सराक्षसः॥

एवं दुर्गा अशेषाश्च मनुष्याणामतारणाः।
विशुद्धशीलनौकास्थः सद्‍दृष्टिवायुवेगवान्॥

नाविकश्च महान् बुद्धः सन्मार्गान् सम्प्रदर्शयन्।
यथोक्तभावनायोगी सोऽयं तरति वै तदा॥ इति।

नास्ति कस्यचित्क्लेशानां संज्ञाविकल्पास्वादो यथा कामरागिणः। स च कामरागोऽत्यन्तं दुष्प्रजहः। यथोक्तं-द्वे इमे आशे दुष्प्रजहे। कतमे द्वे। लाभाशा जीविताशा इति।

कामरागस्येदृशा दोषाः सन्ति। कथं ज्ञायते कामरागिणो लक्षणम्। (उ) कामरागबहुलः स्त्रीरूपकुसुमगन्धमालनृत्तवाद्यगीतेषु प्रमुदितो वेश्यागृहपानगोष्ठीगामी महासमाजनाटकरसिकः सानुरागालापानन्दितः सदा परितोषितचित्तः प्रसन्नवदनः साकूतसकाकुसस्मिताभिलाषी दुर्लभकोपः सुलभप्रमोदो भूयसा दयालुचित्तः पुनः पुनर्व्याधितचपलगात्रः स्वदेहाध्यासक्त इत्येवमादि रागबहुलस्य लक्षणम्। लक्षणमिदं स्वभावबन्धेनानु गतमित्यतो दुष्प्रजहम्। सर्वे च कामरागा आत्यन्तिकदुःखाः। कस्मात्। रागाभिलषितस्य विप्रयोगोऽवश्यभावी। विप्रयोगप्रत्ययं दौर्मनस्यदुःखमवश्यभावि। यथोक्तं-रूपसुखिनो [भिक्षवो] देवमनुष्या रूपरागिनो रूपमुदिता रूपविपरिणामे दुःखचित्ता विहरन्ति इति। एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि। भगवान् तत्र तत्र सूत्रे नानादृष्टान्तैरिमं कामरागं गर्हयति यदुत [आशी] विषोपमः, प्रज्ञायुःक्षयकरत्वात्। शल्योपमः चित्तगतदुःखत्वात्। असिशूलोपमः कुशलमूलसमुच्छेदकत्वात्। अग्निस्कन्धोपमः कायचित्तपरिदाहत्वात्। अमित्र [भूतः] दुःखानामुत्पादकत्वात्। अन्तःसपत्नभूतः मनसिजातत्वात्। रूढमूलोपमः दुरुन्मूलनत्वात्। पङ्कभूतः यशोदूषकत्वात्। विघ्नभूतः कुशलमार्गाणामावरणत्वात्। हृद्गतशल्यभूतः अन्तर्व्यथनात्। अकुशलमूलभूतः सर्वाकुशलानामुत्पादकत्वात्। ओघभूतः संसारार्णवे संप्लाबनात्। चोरभूतः कुशलसम्पदपहारात्। एवमाद्यप्रहाणानामादीनवानां सत्त्वात् कामरागः प्रहातव्यः।

कामानामादिनववर्गश्चतुविंशत्युत्तरशततमः।

१२५ रागप्रहाणवर्गः

(पृ) कामरागस्येदृशा दोषाः सन्ति। कथं प्रहातव्यः। (उ) अशुचि भावनादिभिः प्रतिषेधयति। अनित्यतादिभावनादिभिः प्रजहाति। (पृ) केषाञ्चिदनित्यतादिबोधनात्कामरागो वर्धते। कथमिदम्। (उ) यः सर्वमनित्यमिति प्रजानाति न तस्य कामरागोऽस्ति। यथोक्तं सूत्रे-अनित्यसंज्ञा [भिक्षवः] भाविता बहुलीकृता तदा सर्वः कामरागः पर्यादीर्यते सर्वः रूपरागः पर्यादीर्यते सर्वो भवरागः पर्यादीर्यते सर्वाविद्या पर्यादीर्यते सर्वोऽस्मिमानः पर्यादीर्यते समुद्धन्यते इति। यः पश्यति लोको दुःखं दुःखहेतुः राग इति। तस्यायं रागः प्रहीयते। यो नित्यं स्मरति मया जातिजराव्याधिमरणान्यनुभवितव्यानीति स इमं रागं प्रजहाति। विशुद्धसुखे लब्धे अविशुद्धसुखं त्यजति। यथा प्रथमध्यानलाभे कामतृष्णां त्यजति। कामानामादीनवानुदर्शी इमां त्यजति। आदीनवश्च यथापूर्वमुक्तः। बहुश्रुतादिप्रज्ञाविवृध्या च कामरागं त्यजति। ज्ञानस्य क्लेशभेदनस्वभावत्वात्। कुशलप्रत्ययसम्पन्नस्य कामरागः प्रहीयते यदुत शीलविशुद्ध्या दीन्येकादशसमाध्युपकरणानीति पश्चान्मार्गसत्ये वक्ष्यते। रूपज्ञानादीनि धर्मज्ञानादीन्युपायाः। भगवान् महाभिषक्। सब्रह्मचारिणोऽनुचराः। सद्धर्म औषधम्। आत्मना यथोक्तवदाचरणं विरेचनम्। तदा कामरागव्याधिः प्रहीयते। यथा ज्ञायते रूग्णस्य त्रिवस्तुसम्पन्नस्य तस्मिन्नेव समये व्याधिः शाम्यति इति।

(पृ) यथोक्तं सूत्रे-अशुभ[भावनया] रागं निर्वापय इति। कस्मात् भवान् ब्रवीति अशुभादि अनित्यतादि च। (उ) सर्वाणि बुद्धशासनानि क्लेशानां भेदकानि। तथापि प्रत्येकमस्ति बलविशेषः। आदौ अशुभया रागो वार्यते पश्चादनित्यताज्ञानेन प्रहीयते। अशुभया औदरिको रागोऽपनीयत इतीदं बहूनां ज्ञातमेव। रागानुशयः सूक्ष्म इति अनित्यतया प्रहीयते। केवलमेकस्मिन् सूत्र ईदृशं वचनमुक्तम्। सर्वेषु सूत्रेष्वन्येऽपि प्रहाणधर्मा उक्ताः। ईदृशप्रत्यये सति कामरागः प्रहीयते।

रागप्रहाणवर्गः पञ्चविंशत्युत्तरशततमः।

१२६ व्यापादवर्गः

शास्त्रमाह-व्यापादो द्वेषलक्षणमिति। यो द्विष्यति स विनाशं कर्तुमिच्छति। परस्य ताडनबन्धनमारणविहिंसनानि कर्तुं प्रणिदधाति। एकान्ततो निराकृत्य नैव द्रष्टुमिच्छति। अयं द्वेषः प्रतिध इत्याख्यायते। गुरुतरो द्वेष इत्यर्थः। कश्चित् द्वेषी परान् निन्दितुं दण्डेन ताडयितुञ्चेच्छति। [अयं द्वेषो] विहिंसा इत्यभिधीयते। मध्यमद्वेष इत्यर्थः। कश्चित् द्वेषी [परं] परिहर्तुं नेच्छति। कदाचित् तत्पुत्रभार्यादीन् विद्विषति। तत्रोत्पद्यमानो [द्वेषः] क्रोध इत्युच्यते। अधमद्वेष इत्यर्थः। कश्चित् द्वेषी सदाक्लिष्टचित्तः [स] म्रक्ष इत्यभिधीयते। अविपक्वेन्द्रिय इत्यर्थः। कश्चित् द्वेषी चित्तगतमकुशलमत्यक्त्वा पुनर्विपाकायेच्छति। [स] उपनाह इत्युच्यते। विपक्वेन्द्रिय इत्यर्थः। कश्चित् द्वेषी सहसा किञ्चित् गृहीत्वा नानाकारणै [र्न] त्यक्तुमिच्छति। यथा सिंहो नदीं विगाह्य तत्तीरनिमित्तं गृहीत्वा आमरणं न [ततो] विनिवर्तते। [स] प्रदाश इत्युच्यते। आग्रह इत्यर्थः। कश्चित् द्वेषी हितलाभिनं परं दृष्ट्वा चित्ते मात्सर्यमुत्पादयति। इयमीर्ष्यत्युच्यते। कश्चित् द्वेषी सदा कलहप्रियो धृष्टमनोवाग् भवति। [अयं] संरम्भ इत्युच्यते। रोषकलह इत्यर्थः। कश्चित् द्वेषी चिरमात्सर्येण शीलमुपदिष्टोऽपि पुनः प्रतिलोमयति। अयं द्वेष इत्याख्यायते। क्रौर्यमित्यर्थः। कश्चित् द्वेषी किञ्चिदभीष्टस्य अमनःप्रह्लादनस्य वस्तुनो लाभे क्षुभितचित्तो भवति। इयमक्षान्तिरित्युच्यते। अक्षमेत्यर्थः। कश्चित् द्वेषी असुकुमारवचनः सदा भ्रुकुटिलालसो न मनः पूर्वमालापं योजयति। इयमपकीर्तिरित्युच्यते। अनात्तमनस्कतेत्यर्थः। कश्चित् द्वेषी सहवासिषु सदाधिक्षेपलोलुपो भवति। इदमसौरत्य मित्यभिधीयते। अदान्त इत्यर्थः। कश्चित् द्वेषी कायवाङ्‍मनोभिः सतीर्थ्यं संस्पृष्टोपायासं करोति। इयं जिगीषा इत्यभिधीयते। उपायासस्पर्श इत्यर्थः। कश्चित् द्वेषी सदा गर्हाप्रकटनप्रीतो विगीतवस्तुप्रियश्च भवति। इयं तोदनता इत्युच्यते। उपालम्भ इत्यर्थः।

द्वेषोऽयं द्विविधः-कदाचित्सत्त्वमुपादाय भवति कदाचिदसत्त्वमुपादाय इति। सत्त्वमुपादयोत्पद्यमानो गुरुतरः पापः। उत्तममध्यमाधमविकल्पेन नवराशयो भवन्ति। नवक्लेशानुपादाय नवधा विभज्यते। विना वस्तु द्वेषपरिणाहो दशमो भवति। इदं द्वेषलक्षणम्।

(पृ) कथं द्वेष उत्पद्यते। (उ) अमनोज्ञाद्दुःखोपायासादुत्पद्यते। दुःखवेदनास्वभावस्य असम्यक् परिज्ञानाद्व्यापाद उत्पद्यते। गर्हावधतडनादिभ्यो वा समुत्पद्यते। दुर्जनसहवृत्त्या वा व्यापाद उत्पद्यते यथा सौनिकव्याधादयः। मन्दज्ञानबलाद्वा द्वेष उत्पद्यते यथा वृक्षाणां शाखोपशाखा वातेरिता भवन्ति। चिरसमुपचितद्वेषानुशयस्य आनिर्यातनभावं द्वेष उत्पद्यते सौनिकव्याधसर्पाणामागमाद्वा द्वेष उत्पद्यते। परदोषानुस्मृतिप्रेम्णा वा द्वेष उत्पद्यत इति यथा नवक्लेशेषूक्तम्। कालवशाद्वा द्वेष उत्पद्यते यथा दशवयस्कादीनाम्। जात्या वा द्वेष उत्पद्यते यथा सर्पादीनाम्। देशस्थानाद्वा द्वेष उत्पद्यते यथा कान्यकुब्जदेशादौ। पूर्वमुक्तो रागजननप्रत्ययः। तद्विरोधे द्वेष उत्पद्यते। आत्मबुद्धिमध्ययस्य [तत्र] मानपरिपोषणं पदार्थाध्यवसानञ्चेत्येवमादिप्रत्ययेषु सत्सु द्वेष उत्पद्यते।

(पृ) द्वेषस्य के दोषाः। (उ) उक्तं सूत्रे-द्वेषः कामरागाद् गुरुतरं पापम् इति। अतः सुविमोकः। वस्तुतस्तु दुर्विमोकः। किन्तु रागवन्न चिरं चित्तमनुवर्तते। द्वेषो द्विधा सन्तापकः। आदावात्मानं सन्तापयति अन्ते परं सन्तापयति। किञ्च द्वेषो नियमेन नरकाय भवति। द्वेषोत्थकर्मणां भूयसा नरके पातनात्। द्वेषः कुशलपुण्यानि विनाशयति यदुत दानशीलक्षान्तयः। इमास्त्रिस्रः करुणाचित्तजाः। द्वेषस्य करुणाविरोधित्वात् [ताः] विनाशयति। द्वेषजञ्च कर्म सर्वमन्ते चित्तं परितापयति। द्वेषेन्द्रियवान् निर्दयत्वात् क्रूरचण्डाल इत्युच्यते। सत्त्वाः सदा दुःखिनः पुनर्द्वेषेण पीडिताः व्रणे प्रयुक्तक्षारवत्। किञ्च सूत्रे भगवान् स्वयं द्वेषदोषानाह-द्वेषबहुलः कुत्सितः खर्वाकारोऽप्रशान्तबुद्धिशयः सदा भीरुचित्तो जनानामश्रद्धेय इति।

(पृ) व्यापादबहुलस्य कानि लक्षणानि। (उ) धृष्टवाङ्‍मनाः सदा अनात्तमना भवति। भ्रुकुटिक्षेपेण दुरभिगमोऽसंश्लिष्टमुखवर्णो दुर्विमोकसुलभकोपः सदा व्यापादोपनाहमुदितो विग्रहभूषणायुधेषु प्रीतो दुर्मित्रपक्षपाती सज्जनविद्वेषी, जनानां भीषणायातथ्यध्यानचिन्तनोऽल्पह्रयपत्रप इत्येवमादीनि द्वेषलक्षणानि। इमान्यन्येषां विप्रियकराणि। अतः प्रहातव्यानि।

(पृ) कथं स प्रहातव्यो भविष्यति। (उ) सदा करुणामुदितापेक्षाभावनायां द्वेषः प्रहीयते। द्वेषस्यादीनवं पश्यन् द्वेषं प्रजहाति। तत्त्वज्ञानलाभिनो द्वेषः प्रहीयते। क्षान्तिबलाच्च द्वेषः प्रहीयते। (पृ) किं नाम क्षान्तिबलम्। (उ) यः परगर्हादिदुःखं क्षमते स कुशलधर्मपुण्यं लभते। नाक्षान्तिजमकुशलं लभते। इदं क्षान्तिबलम्। क्षान्तिविहारी श्रमण इत्युच्यते। क्षान्तिर्हि मार्गस्याद्यं द्वारं भवति। अतः श्रमणधर्मणः कोपेऽपि न कोपविपाकः। निन्दायाञ्च न निन्दाविपाकः। ताडने च न ताडनविपाकः। यो भिक्षुः क्षमावान् स प्रव्रज्याधर्मा स्यात्। व्यापादवतो न प्रव्रजितधर्धो भवति। क्षान्तिरियं प्रव्रजितधर्मः। य आकारवेषाभ्यां भिक्षुः भिन्नव्यवहारो द्वेषचित्तसहगतश्च न स भव्यो भवति। यस्तु क्षमाविहारी स एव करुणागुणसवन्वितः। क्षमाविहारी स्वहितं साधयति। कस्मात्। द्वेषकारी परान् व्याबाधितुं कामयानः स्वात्मानमेव व्याबाधते। यानि कायवाग्भ्यां परत्र प्रत्युक्तान्यकुशलानि। [तेषा] मकुशलानां दोषाः शतसहस्रगुणमात्मनैव लभ्यन्ते। अतो ज्ञायते द्वेषो महान्तमात्मापकर्षं करोति इति। अतः प्राज्ञेनात्मनो हितं कर्तुकामेन महद्दुःखं महत्पापञ्चापाकुर्वता क्षान्तिराचरितव्याः।

(पृ) को निन्दादिदुःखं खमते। (उ) योऽनित्यतां भावयति बहुलीकरोति प्रतिबुध्यते सर्वधर्मा क्षणिकाः, निन्दको वेदकः सर्वोऽपि क्षणिक इति। तस्य कुत्र द्वेष उत्पद्येत। शून्यताचित्तस्य सम्यक् भावनया क्षममाण एवं चिन्तयति धर्मेषु वतुस्तः शून्येषु को निन्दकः को वा निन्दावेदक इति। यदि वस्तु सत्यं तदा [त]द्वेदना क्षन्तव्या। अहं सत्यतो दोषवान् इति पूर्वपुरुषाः सत्यं वदन्ति, कस्मात् द्विषामि। यदि वस्तु सत्यं। ते पुरुषाः स्वयमेव मृषावादपापं लभेरन्। कस्मादहं द्विषामीति। अशुभनिन्दां शृण्वन् एवं चिन्तयेत् सर्वे लोका यथाकर्म विपाकं वेदयन्ते। मया पुरा इदं निन्दाकर्म समुपचितमासीत्। तदिदानीं प्रत्यनुभवितव्यम्। कस्माद् द्विष्यामीति। यदि चाशुभनिन्दां शृणोति तद्दोषमात्मनि भावयेत्। आत्मवशेनैव कायमनुभवामि। कायश्च दुःखभाजनम्। अतो निन्दाऽनुभवितव्येति। क्षान्तिविहारी एवं चिन्तयेत् पदार्थाः प्रतीत्यसमुत्पन्नाः। इदमशुभं निन्दाकर्म श्रोत्रविज्ञानमनोविज्ञानशब्दादिसमुत्पन्नम्। एषु अहं द्व्यङ्गसमन्वितः। परस्तु शब्दमात्रसमन्वितः। एवञ्च ममैव पापाङ्गं बहु। कस्मात् द्विषामि। मया शब्दस्यास्य निमित्तग्रहणादेव दौर्मनस्योपायासाः सम्भवन्ति इत्यहमेव दुष्टः। क्षान्तिमान् न परान् दोषयति। कस्मात् द्वेषादीनि पापानि न सत्त्वानां दोषाः, सत्त्वा व्याधिसमुत्थापितचित्तत्वादनीश्वराः। यथा भूतचिकित्सको भूतोच्चाटनाध्यवसितो भूतमेव द्विषति न तु रोगिणम्। अयं वीर्योत्सुकः कुशलधर्माणां सञ्चय आरज्यते। अतः परप्रवादान् न गणयति। बुद्धानार्यसङ्घञ्च स्मृत्वा न निन्दाः प्रमोचयति। यथा निन्दापटवो ब्राह्मणादयो बुद्धं विविधं निन्दन्ति। यथा वा शारिपुत्रादिषु ब्राह्मणैः प्रयुज्यन्तेऽपवादनिन्दाः। कः पुनर्वादोऽस्मासु तनुपुण्येषु।

किञ्चेदं चिन्तयेत् लोका अकुशबहुला आत्मजीवितमहृत्वैव कटुकं कुर्वन्ति। किं पुनस्ताडननिन्दामिति। किञ्चैवं चिन्तयेत्- अशुभनिन्दादिना न मम दुःखमिति वेदना क्षन्तव्या। यथा भगवान् भिक्षून् शास्ति-काये क्रकचेण विदीर्णेऽपि वेदना क्षन्तव्या। का पुनर्निन्दा इति। इदमाचरन् सदा संसारान्निर्विद्यते। निन्दायां लब्धायां निर्वेदं भूयसा मात्रया सुनिश्रितमवगम्याकुशलमाचरति। स जानाति च निन्दाया अक्षमा अन्ते दुःखंविपाकवेदना इत्येवं चिन्तयन् नरके मा भूत् पात इति गुर्वीमपि निन्दां वेदयते। सोऽतीव ह्र्यपत्रपासापेक्षः चिन्तयति अहं महापुरुषस्य भगवतः श्रावको मार्गभावयिता। [मम] कथमुत्पादयेदकार्यं कायवाक्कर्म इति। क्षान्तिचारिभिर्बोधिसत्त्वैः शक्रादिभिश्च लभ्यं क्षान्तिबलं श्रूयते च। अतः क्षान्तिः कार्या॥

व्यापादवर्गः षड्विंशत्युत्तरवशततमः।

१२७ अविद्यावर्गः

शास्त्रमाह-प्रज्ञप्त्यनुवर्तनमविद्या। इति। यथाहुः-पृथग्जना आत्मरुतमनुवर्तन्ते। तत्र नास्ति वस्तुत आत्मा नात्मीयम्। धर्माणां समवायः केवलं प्रज्ञप्त्या पुरुष इत्युच्यते। पृथग्जनानामविवेकादात्मचित्तं प्रवर्तते। आत्मचित्तप्रवृत्तिरियमविद्यैव।

(पृ) भगवानाह-पूर्वान्ताज्ञानविद्या इति। कस्मादुच्यते। आत्मचित्तमात्रमियमविद्येति। (उ) अतीतादौ बहवो भ्रान्ताः। अत आह-तत्राज्ञानमविद्येति। अत आह तस्याज्ञानमविद्येति। सूत्रे च विद्याया अर्थो विवृतः-यस्य कस्यचित् ज्ञानं विद्येति। केषां धर्माणां ज्ञानम्। रूपमनित्यमिति यथाभूतज्ञानम्। वेदना संज्ञा संस्कारा विज्ञानमनित्यमिति यथाभूतज्ञानम्। विद्याया विरुद्धा विद्याऽविद्या। तथा च यथाभूता विद्या अविद्यैव।

(पृ) यथाभूताविद्या यद्यविद्या। तरुपाषाणादिधर्मा अपि अविद्या स्यात्। यथाभूतविद्याया अभावात्। (उ) मैवम्। तरुपाषाणानि चाचित्तकानि न पूर्वान्तादि विकल्पयन्ति। अविद्या तु विकल्पिनीति न तरुपाषाणयोः समाना। (पृ) अविद्या नाम धर्माभावः। यथा पुरुषस्य चक्षुषा रूपादर्शनं नादर्शनधर्मो भवति। अतो विद्याया अभावमात्रमविद्या। न धर्मान्तरम्। (उ) मैवम्। यद्यभावोऽविद्या। पञ्चस्कन्धेषु अस्ति पुद्गल इति मिथ्याकल्पना घटशकले च सुवर्णसंज्ञोत्पद्यत इति कस्माद्भवति। अतो ज्ञायते मिथ्याविकल्पस्वभावाऽविद्या। न तु विद्याया अभावोऽविद्येति। अविद्याप्रत्ययाः संस्कारादयः सन्तत्या प्रवर्तन्ते। यद्यभावः कथमुत्पादयेत्। (पृ) न विद्या अविद्या इति चेत् इदानीं विद्यां विहाय सर्वे धर्मा अभावाः स्युः। अतो नैको धर्मोऽविद्या भवति। (उ) अविद्येयं स्वलक्षणत उच्यते नान्यधर्मतः। यथोच्यते अकुशलमेवाकुशलस्वरूपं नाव्याकृतम्। तथाऽविद्याऽपि। कुसूलं पुरुषाकारमपि पुरुषगत्यभावात् अपुरुष इत्युच्यते। एवमियं विद्या सविकल्पाऽपि यथाभूतं न प्रजानातीत्यविद्येत्युच्यते। न तरुपाषाणयोरपि तथा।

(पृ) यान्युक्तानि अरूपमप्रतिघमनास्रवमसंस्कृतमिति तानि सर्वाणि तदन्याभिधायकानि। कस्मादविद्याऽपि नैवम्। (उ) अस्ति कदाचिदयं न्यायः। अकुशलादिषु तु नैवं भवति। (पृ) केचिदाहुः-विद्याया अभावमात्रमविद्येति। यथा प्रकाशाभावे तम इति। (उ) लोके द्विधा वदन्ति-विद्याया अभावोऽविद्येति। कदाचिद्विपरीता विद्या अविद्येति। विद्याया अभावोऽविद्येति यथा वदन्ति लोके-अधोऽरूपदर्शी, बधिरोऽशब्दश्रोतेति। विपरीता विद्या अविद्येति-यथा रात्रौ स्थाणुं दृष्ट्‍वा पुरुष इति बुद्धिर्भवति। पुरुषं वा दृष्ट्‍वा स्थाणुबुद्धिः। यदि कश्चिदिदमिति यथाभूतं न प्रजानाति। तदज्ञानम्। मिथ्याचित्तं क्लेशः। अयं संस्काराणां प्रत्ययः। अर्हतः समुच्छेदान्न सन्ति अविद्याप्रत्ययाः संस्काराः। यदि न विद्या अविद्येति। अर्हतो बुद्धधर्मेषु विद्या नास्तीति विद्याऽविद्या स्यात्। योऽविद्यावान् न सोऽर्हन्। [अतो] ज्ञातव्यं पृथगस्ति अविद्यास्वरूपम्। इदं मिथ्याचित्तमिति।

सर्वे क्लेशा अस्या अविद्याया अङ्गानि। कस्मात्। सर्वेषां क्लेशानां मिथ्याचार [रूप]त्वात्। ते पुरुषाणां चित्तावरणा अन्धतमोरूपाः। यथाह-कामरागी न धर्मं पश्यति, कामरागी न पुण्यं पश्यति इति। तत्कामोपादाता अन्धतमोभूमः। एवं क्रोधमोहावपि। सर्वे क्लेशाः संस्काराणामुत्पादकाः। उक्तन्तु सूत्रे-अविद्याप्रत्ययाः संस्कारा इति। अतो ज्ञायते सर्वे क्लेशा अविद्या इति। अशून्यतादर्शिनो नित्यमस्त्यविद्या। क्लिष्टाविद्यामात्रं सर्वसंस्काराणां प्रत्ययः। विपरीता विद्या अविद्येत्युच्यते। अदृष्टशून्यभावस्य नित्यमस्तीयमविद्या। अतो ज्ञायते अविद्याङ्गानि सर्वे क्लेशा इति।

(पृ) अविद्या कथमुत्पद्यते। (उ) असद्धेतुं श्रुत्वा चिन्तयतोऽविद्योत्पद्यते। यथा अस्ति द्रव्यमस्त्यवयवी अस्ति चित्, सर्वे धर्मा अक्षणिकाः, नास्ति पुनर्भवः। शब्द आत्मा, स च नित्यः, तृणवृक्षादयः सचेतना इत्येवमादिमिथ्याग्रहे सति अविद्योत्पद्यते। असत्कारणैर्वाऽविद्योत्पद्यते। यदुत दुर्मित्रसंस्तवोऽसद्धर्मश्रवणं मिथ्यामनस्कारो मिथ्यासमुदाचार इत्येभिश्चतुर्भिः कारणैरविद्योत्पद्यते। अन्यक्लेशजननप्रत्ययाः सर्वेऽविद्याजननहेतवः। अविद्याहेतुभ्यश्चाविद्योत्पद्यते। यथा यवेभ्यो यवाः शालिभ्यः शालयः। एवं यत्रास्ति सत्त्वकल्पना, तत्राविद्योत्पद्यते। किञ्चोक्तं सूत्रे-मिथ्यामनस्कारप्रत्ययेऽविद्योत्पद्यत इति। मिथ्यामनस्कारश्चाविद्याया नामान्तरमेव। पुरुषं दृष्ट्वा अस्तीति बुद्धेः पूर्वमेव पुरुषमनस्कार उत्पद्यते पश्चान्निश्चय इत्यतोऽविद्येत्युच्यते। इदमुभयं पूर्वापरलक्षणमन्योन्यसहायमुत्पद्यते। यथा वृक्षात्फलं भवति फलाद्‍वृक्षः।

अविद्यायाः के दोषाः। (उ) सर्वे विपत्त्युपायासा अविद्याधीनाः। कस्मात्। [यस्मात्] अविद्यातः समुत्पद्यन्ते रागादयः क्लेशाः। तेभ्योऽकुशलं कर्म। ततः कायानुभवः। तत्प्रत्ययो विविधविपत्युपायासानां प्रतिलाभः। यथोक्तं सूत्रे-अविद्यानिवृतस्य [भिक्षवो वालस्य] तृष्णासम्प्रयुक्तस्यैवमयं कायः समुदागत इति। सिंह नादसूत्रे चोक्तम्-उपादानानि तृष्णानिदानानीति। गाथा चाह-

याः काश्चिदिमा दुर्गतयोऽस्मिंल्लोके परत्र च।
अविद्यामूलकाः सर्वा इच्छालोभसमुच्छ्रयाः॥ इति।

अविद्यासमुत्पन्नत्वात्सर्वक्लेशानाम्। पृथग्जना वेदयन्ते [सुखत] इमान् स्कन्धान् पञ्च [ये] ऽशुचयोऽनित्या दुःखाः शुन्या अनात्मकाः। य आर्याः ते तान् दुःखान् वेदयन्ते। सम्यङ्मनस्कारात्पञ्च स्कन्धान् प्रजहाति। यथोक्तं सूत्रे-आत्मसंज्ञा मिथ्याविपर्यास इति प्रजानतो न पुनरुत्पद्यत इति। अतोऽविद्याप्रत्ययो बन्धो विद्याप्रत्ययो मोक्ष इति। लोके सत्त्वा अविद्याबलादल्पादभिनिवेशाद्बहूनादीनवान् न पश्यन्ति। यथा शलभा अग्नौ पतन्ति। यथा वा मत्स्या अङ्कुशं गिलन्ति। तथा सत्त्वा अपि दृष्टेऽल्पास्वादगृद्धा बहूनादीनवान् न प्रतीक्षन्ते। तीर्थिकग्रन्थैरुत्पन्नमिथ्यादृष्टिका वदन्ति न सन्ति पुण्यादीनि इति। सर्वमियमविद्या। असतां मार्गोऽकुशलहेतुः। अकुशलहेतुः सर्वोऽविद्या। मिथ्यादृष्ट्या कृतकर्मणा भूयसा नरके पतन्ति। मिथ्यादृष्टयः सर्वा अविद्ययोत्पद्यन्ते। बुद्धो भगवान् सर्वज्ञः शास्ता त्रयाणां धातूनां सम्यक् चर्याविशुद्ध आर्यविनीत इत्यादि तीर्थिका न विविच्य प्रजानन्ति। यथा सद्रत्नमन्धा निराकुर्वन्ति। इमेऽविद्याया दोषाः।

किञ्च सर्वसत्त्वानां विपत्त्युपायसविप्रलोपादयः सर्वेऽविद्याधीनाः। सर्वे च लाभसंसिद्धिप्रकर्षा विद्याधीनाः। यो वर्धिताविद्यः स एकान्ततोऽवीचिनरके पतति। यथा कल्पादौ जना आस्वादस्तुच्छ इत्यनभिज्ञाय [तत्र] रागाध्यवसायमुत्पादयामासुः। अतो रूपबलायुरादयो विनष्टाः। अतो ज्ञातव्यमविद्यया सर्वे लाभाः प्रमुषिता इति। इयमविद्या च तत्प्रज्ञानमात्रेण प्रहीयते। रागादिभिस्तु न तथा। रागचित्ते नास्ति क्रोधः। क्रोधचित्ते नास्ति रागः। अविद्या तु सर्वचित्तेषु वर्तते। अभावितप्रज्ञस्य चाविद्या सदा चित्ते वर्तते। सर्वक्लेशेषु अविद्या प्रबला। यथोक्तं सूत्रे-अविद्या पापीयसी गुर्वी दुर्विमोका च इति। अविद्या च द्वादशनिदानानां मूलम्। असत्यामविद्यायां कर्माणि नोपचीयन्ते न संसिध्यन्ति। कस्मात्। नह्यस्ति अर्हतां सत्त्व[संज्ञा]लक्षणम्। अविद्याविरहान्न कर्माण्यु पचीयन्ते। कर्मणामनुपचयाद्विज्ञानादीन्यङ्गानि न पुनः प्रादुर्भवन्ति अतो ज्ञायते अविद्या सर्वदुःखानां मूलमिति।

प्रत्यक्षं दृश्यते खलु अस्मिन्नशुचिकाय आसङ्गः, अनित्ये नित्यसंज्ञा च। यथा रिक्तमुष्टिर्बालानामुल्लापनाय। यथा च माया मूढानां पुरः प्रदर्शयति मृदं सुवर्णमिति। प्राकृता मूढा दृष्टे पापाधिष्ठिता अभिधानेनोल्लपनीया भवन्ति। तथा लोका अपि चक्षुषा अशुचि दृष्ट्‍वा तद्वञ्चिता भवन्ति। चैत्ता धर्मा क्षणिकाः, निमित्तग्रहणादुत्पद्यन्ते। क्षणिके रूपे मोहान्निमित्तं गृह्णन्ति। तथा शब्दादावपि। तस्माद्दुर्विमोका। इमेऽविद्याया दोषाः।

(पृ) अविद्याबहुलस्य पुंसः कानि लक्षणानि। (उ) अयं भयस्थाने निर्भयो भवति। सुस्थाने प्रीतिविगतः सज्जनद्वेषी दुर्जनस्निद्घोऽभिप्रायस्य विपर्ययग्राही प्रियमित्रे सदा प्रतिकूलः तुच्छवस्तुषु सारग्राही अल्पह्रयपत्रपो न विचिकित्साप्रतीक्षी, न परेषां तर्पण आत्मनापि दुर्निषेवणो मूढोऽविज्ञाता सुजीर्णमलिनवस्त्रो भ्रमति। रम्यप्रदेशादशुचिप्रदेशमन्धकारे प्रयाति। आत्मनैवात्मानं महानिति श्लाघमानः परस्य लघूकरणे तृप्यति। अपथेनात्मगुणान् प्रकटयति। दोषं दोष इति न विजानाति। हितं हितमिति न विजानाति। अपरिशुद्धोऽनैर्याणिको भाषणेऽपटुः सदा क्रोधोपनाहमुदितः परोपदेशं विपर्ययतो गृहीत्वा [तत्र] परमाध्यावसितो दुर्लभमभ्यस्य सुविनश्वरं लभते। लब्धस्यापि नार्थ वेत्ति। विदितमपि मिथ्या विपर्ययति। एवमादिलक्षणानि सर्वाण्यविद्याधीनानि। अतो ज्ञायतेऽविद्याऽप्रमाणदुष्टा अतः प्रहातव्येति।

(पृ) कथं प्रहातव्या। (उ) तत्त्वज्ञानं भावयतोऽविद्या प्रहीयते। (पृ) स्कन्धधात्वायतनानां ज्ञानमपि तत्त्वज्ञानम्। कस्मात्सूत्र उक्तम्-अविद्याया भैषज्यं प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादभावना वा इति। (उ) तीर्थिका बहवो भ्रान्ताः। हेतौ भ्रान्ता वदन्ति-ईश्वरा दयो लोककारणमिति। वस्तुतस्तु भ्रान्ता वदन्ति-अस्ति द्रव्यमस्त्यवयवीत्यादि। प्रतीत्यसमुत्पादा[दि]द्वयं भावयतो [ऽविद्या] प्रही यते। (पृ) प्रतीत्यसमुत्पादोऽविद्याया भैषज्यम्। कस्मादुच्यते द्वयमिति। (उ) अन्यज्ञानसंजिहीर्षया। स्कन्धधात्वायतनादि भावयन्नपि अविद्यां भिनत्ति। मिथ्यादृष्टिमात्रं गुरुतराविद्या। मिथ्यादृष्टिश्च प्रतीत्यसमुत्पादप्रहेया। अतो द्वयमित्युच्यते। एवं रागद्वेषावपि। लौकिका भूयसा घटादिपदे भ्रान्ताः। यथा घटपदं शृण्वतो मनसि संशय उदेति किं रूपादिः घटः किंवा रूपादिव्यतिरिक्तोऽन्योऽस्ति घट इति। एवं पञ्चस्कन्धात्मकः पुरुषः किं वा तद्व्यतिरिक्तोऽन्योऽस्ति पुरुष इति। समाहितचित्तः काय एवात्मा कायादन्य आत्मा इति शाश्वतोच्छदाख्येऽन्तद्वये न पतति। यः प्रजानाति घटः प्रतीत्यसमुत्पन्नो रूपरसगन्धस्पर्शमय इति। एवं रूपादयः स्कन्धः पुरुष इति। [स] एवं प्रजानन् नामजं संशयं प्रजहाति। इदं नाम धर्माणां परमार्थं सञ्छादयति। यथाह देवतापरिपृच्छासूत्रम्-

नाम सर्वमध्वभावि नाम भूयो न विद्यते।
एकधर्मस्य नाम्नोऽस्य सर्वे धर्मा वशानुगाः॥ इति।

किञ्चाह-लोकस्य समुदयं पश्यतोऽभावदृष्टिर्निरुध्यते। लोकस्य निरोधं पश्यतो भावदृष्टिर्निरुध्यते। इति। अपि चोक्तम्-संस्काराणां सन्ततिं पञ्चस्कन्धानां संसरणं वदन्ति। इमेऽविद्यादीनवाः प्रतीत्यसमुत्पादं भावयतो निरुध्यन्त इति। उक्त ञ्च सूत्रे-यः प्रतीत्यसभुत्पादं पश्यति स धर्मं पश्यति। यो धर्मं पश्यति स बुद्धं पश्यतीति। एवं यो नामजं संशयं प्रजहाति सोऽपरप्रत्ययः परमार्थतो बुद्धं पश्यति। अतस्तत्त्वज्ञानादविद्या क्षीयते। प्रतीत्यसमुत्पादं सम्यक् प्रजानन् तत्त्वज्ञानं प्रतिलभते। संक्षेपत उक्तं चतुरशीतिधर्मस्कन्धे-या काचन प्रज्ञा सर्वा साऽविद्याव्यावर्तिनीति। अविद्या च सर्वक्लेशानां मूलं सर्वक्लेशानां सहकारिणी चेत्येवं प्रतीत्यसमुत्पाद [ज्ञाने] अविद्या प्रहीयते॥

अविद्यावर्गः सप्तविंशत्युत्तरशततमः।

१२८ मानवर्गः

(पृ) त्रयः क्लेशाः संसारस्य मूलमित्युक्तम्। अतोऽन्यः पुनरस्ति न वा। (उ) अस्ति मानाख्यः। (पृ) कतमो मानः। (उ) मिथ्याचित्तेनात्मन उन्नतिर्मान इत्युच्यते। मानोऽयंबहुविधः। अवर आत्मनि उन्नतिर्मानः। समेषु समतामन्यताऽपि मान इत्युच्यते। तत्रात्मबुद्धिनिमित्तग्रहदोषसत्त्वात्। समेषु आत्मन उन्नतिर्महामानः। विशिष्टेषु आत्मन उन्नतिरभिमानः। पञ्चसु स्कन्धेषु आत्मनिमित्तग्रहोऽस्मिमानः। अस्मिमानो द्विविधो निमित्तप्रदर्शनोऽनिमित्तप्रदर्शन इति। निमित्तप्रदर्शनः पृथग्जनानामात्ममानो यदुत रूपमात्मा, रूपवानात्मा, आत्मनि रूपं, रूप आत्मा इति दर्शनम्, एवं यावद्विज्ञानमपि। इति विंशतिधा प्रदर्शनात् निमित्तप्रदर्शनः। अनिमित्तप्रदर्शनः शैक्षजनानामस्मिमानः। यथा स्थविरः क्षेमक आह-न खल्वायुष्मन् रूपमस्मीति वदामि, न वेदना, न संज्ञा, न संस्कारा, न विज्ञानम्, [नाप्यन्यत्र विज्ञानादस्मीति वदामि]। अपि च म आयुष्मन् पञ्चसूपादानस्कन्धेषु अनुसहगतोऽस्मीति मानः अस्मीतिच्छन्दः अस्मीत्यनुशयोऽसमुद्धतः। [इत्यादि]। अयमस्मिमान इत्युच्यते।

यःस्त्रोत आपत्त्यादिफलविशेषानप्रतिलभ्य प्रतिलब्धवानिति वदति सोऽधिमानः। (पृ) अलाभे कस्माद्भवति लाभबुद्धिः। (उ) ध्यानाभ्यासेऽल्पास्वादलाभात् संयोजना नुशयं व्यावर्तयति न पुनश्चित्ते समुदाचरति। अतोऽयं मानो भवति। श्रुतचिन्तामयप्रज्ञाबलेन च सदा कल्याणमित्रमुपसद्य [त]त्समुदाचारविवेकमभिरोचयति। पञ्चस्कन्धानां लक्षणमल्पं ज्ञात्वा स्त्रोत‍आपत्त्यादिफलसंज्ञामुत्पादयति। [अय] मधिमानः।

(पृ) अधिमानस्य के दोषाः। (उ) अन्ते दौर्मनस्योपायासैर्भवितव्यम्। यथोक्तं सूत्रे-यो भिक्षुः कथयति अहं समुद्धतविचिकित्सः प्रतिलब्धमार्ग इति। [तस्य] पुरत एवं कथयेत्-अतिगभीरः प्रतीत्यसमुत्पादो लोकोत्तरधर्म इति। यद्ययं भिक्षुर्वस्तुतोऽप्रतिलब्धमार्गः। [तदाऽस्य] इमं धर्मं शृण्वतः कौकृत्योपायासो भवति। अतो यत्नेनाधिमानमिमं समुच्छिन्द्यात्। अधिमानिनि बुद्धा भगवन्तो महाकारुणिका अपि [तं] दूरीकृत्य न धर्माववादं कुर्वन्ति। अतः समुच्छिन्द्यात्। किञ्चाधिमानी धर्मस्य मिथ्यादर्शने विहरति। अतो नास्ति तात्त्विको गुणः। तद्यथा वणिक् गभीरमहासमुद्रगतो रत्नाभासेष्वासक्तो भवति। तथाऽयमपि बुद्धशासनार्णवगतः अल्पं ध्यानसुखं प्रतिलभ्य पारमार्थिकमार्ग इति तत्रासङ्गं जनयति। अधिमानी अन्ते मरणकाले न मार्गं वेदयते। अतो यत्नेन पारमार्थिकतत्त्वज्ञानमन्विष्यात्। अधिमानी स्वार्थं विनाशयति सम्मोहञ्च बर्धयति। अलब्धे लब्धसंज्ञावत्वात्। अतो नात्मानमात्मनैव वञ्चयेत्। इति क्षिप्रं विसृजेत्।

यदुत्तमं पुरुषमवरं वदन्ति। तदयथा भवतीति अयथामान इत्युच्यते। अयं स्वयमुच्चोऽपि स्वात्मभावमवनमयति। यदगुणाः सन्त आत्मानमुन्नमयन्ति। तन्मिथ्यामान इत्युच्यते। अकुशलधर्मैरात्मन उच्चकरणमपि मिथ्यामानः। यत् सुजने पूज्ये पृष्ठतोऽसत्कार उद्धतमानः सः। इत्यादि मानलक्षणम्।

(पृ) कथं मान उत्पद्यते। (उ) स्कन्धानां परमार्थलक्षणमजानानां मान उत्पद्यते। यथोक्तंसूत्रे-ये केचित् [श्रमणा ब्राह्मणा वा] अनित्येन रूपेण [दुःखेन विपरिणामधर्मेण] श्रेष्ठोऽहमस्मीति समनुपश्यन्ति। सदृशो[ऽहमस्माति समनुपश्यन्ति] हीनो [ऽहमस्भीति समनुपश्यन्ति] किमन्यत्र यथाभूतस्यादर्शनात्। एवं यावद्विज्ञानमिति। स्कन्धानां परमार्थलक्षणं जानतां नास्ति मानः। कायानुस्मृतिं भावयतो नास्ति मानः। यथा गौः शृङ्गमपेक्ष्य तीक्ष्णो भवति। तच्छृङ्गे गते न भवति। कायोऽशुचिः नवद्वारेषु मलप्रस्रावी। कः प्राज्ञ इममपेक्ष्य उच्चोऽस्मीति [मन्येत] एवमादिकायानुस्मृतिप्रत्यये तु नास्ति मानः। प्राज्ञो जानाति सर्वे सत्त्वा यदि वा दरिद्री यदि वा धनी यदि वा पूज्यो यदि वा जधन्यः सर्वेऽपि अस्थिमांसस्नायुसिरापञ्चसन्धिपेशीकललसमवायमयकायाः, जातिजराव्याधिमरणदौर्मनस्यपरिदेवदुःखोपायाससमन्विता रागक्रोधादिपुण्यपापकर्मयुक्ता नरकादिदुर्गतिभागिनश्चेति। कथमुत्पादयेन्मानम्। आभ्यन्तरं बाह्यं चित्तं प्रतीत्यसमुत्पन्नं सर्वं क्षणिकमिति पश्यतो न भवति मानः। चित्तसमाधिञ्च सम्यक् भावयतो न भवति मानः। कस्मात्। निमित्तेऽनुगते हि मान उत्पद्यते। असति निमित्ते कुत्र मानमुत्पादयेत्। किञ्च प्राज्ञस्य शीलादिषु सत्सु न भवति मानः। कस्मात्। शीलादयो हि सर्वे एषां क्लेशानां क्षयकराः। असत्सु गुणेषु कः प्राज्ञोऽसद्वस्तुनि मानमुत्पादयेत्। अनित्यतादिलक्षणं भावयतो मानो निरुध्यते। कः प्राज्ञोऽनित्येन दुःखेन अशुचिना पदार्थेन मानं कुर्यात्।



(पृ) मानस्य के दोषाः। (उ) मानात्कायो भवति। कायात्सर्वं दुःखं प्रवर्तते। यथाह भगवान् सूत्रे-यदाहं माणवकोऽभूवम्, न तदा मानलक्षणमाज्ञासिषम् अहमिति वेदनाव्याकरणं कुत्रचिदुत्पत्स्यत इति। अन्यमानानामप्रहीणत्वात्। सर्वे क्लेशा निमित्तग्रहानुवर्तिनः। अहमिति निमित्तेषु महत्। अतो ज्ञायते मानात्कायो भवतीति। मानोऽयं मोहभागीयः। कस्मात्। चक्षुषा रूपं दृष्ट्‍वा अहं पश्यामीत्याह। मानोऽयमनीत्या च प्रवर्तते। कस्मात्। सर्वे लोका अनित्या दुःखा अनात्मकाः। कथमनेन मानो भवति। अतो रागद्वेषमोहाः परमानीतयः। मनोद्धितं कर्म तीक्ष्णं गुरुकञ्च। गभीरासक्तत्वात्। रागोद्धितन्तु नेदृशं भवति। मानबलाद्रागादयो वर्धन्ते। अनेन रागेण लब्धो गोत्रादिमानस्तु विपुलं वर्धते। अस्मिमानप्रत्ययं प्रवर्तते नीचकुलम्। सिंहव्याघ्र वृकेष्वपि भवति। अस्मात्प्रत्ययान्नरके पतति। मानस्य सन्त्येवमादीन्यप्रमाणान्यवद्यानि।

(पृ) किं मानबहुलस्य लक्षणम्। (उ) अयं समुपात्तधार्ष्ट्यो दुःसहभाषणोऽसत्कारचित्तोऽल्पभयः स्वैराचारमुदितः स्वयञ्च महादुःशासनो यत्किञ्चिज्जधन्य[मपि]स्वयं बहुमानी, परकुत्सनप्रियालुरितीमे दोषा दुरपनेयाः। अतो ज्ञानिना नाचरितव्याः। मानोऽयं सर्वगुणानां विघटकतया प्रवर्तते॥

मानवर्गोऽष्ठाविंशत्युत्तरशतत्तमः।

१२९ विचिकित्सावर्गः

शास्त्रमाह-विचिकित्सा नाम तत्त्वार्थे बुद्ध्यविनिश्चः किमस्ति विमुक्तिः किं वा नास्ति। किमस्ति कुशलमकुशलम्। उत न। किमस्ति रत्नत्रयम्। उत न इति।

(पृ) वृक्षे संशयो भवति किं स्थाणुः किं वा पुरुष इति। मृत्पिण्डे संशयो भवति किं मृत्पिण्डः उत कोकिल इति। मधुकरे संशयो भवति किं मधुकरः किं वा जम्बूफलमिति। सर्पे संशयो भवति किं सर्पः किं वा रज्जुरिति। घोटकमृगे संशयो भवति किं प्रभा किं वा सलिलं इति। एवमादयः संशयहेतवश्चाक्षुषविज्ञानजनकाः। ध्वनौ संशयो भवति किं मयूरकृत उत मनुष्यकृत इति। गन्धे संशयो भवति किमुत्पलगन्धः उत संपर्कगन्ध इति। रसे संशयो भवति किं मांसरस उत मांसाभासरस इति। स्पर्शे संशयो भवति किमौत्पत्तिकतन्तव उत परिपक्वतन्तव इति। मानसविज्ञानन्तु नानाविधसंशयजनकम्। यथा किमयं धर्मो द्रव्यवान् उत गुणमात्रम्। विमस्त्यात्मा उत न इत्येवमादयः किं संशया न सन्ति।

अत्र ब्रूमः। स्थाणुर्वा पुरुषो व इत्येवमादिभिस्तु न क्लेशा भवन्ति। न च ते पुनर्भवस्य प्रत्यया भवन्ति। क्षीणास्रवाणामप्येतत्सम्भवात्।

(पृ) विचिकित्सेयं कथमुत्पद्यते। (उ) द्विविधधर्मदर्शनश्रवणज्ञानैर्विचिकित्सा भवति। कस्मात्। पूर्वं द्विधावस्थितं पदार्थं स्थाणुं पुरुषञ्च दृष्ट्‍वा पश्चाद्दूरतः पश्यति पुरुषादि वस्तु तदा संशेत स्थाणुर्वा पुरुषो वेति। तदा मृदादावपि। द्विधाश्रवणम्-यदि कश्चिच्छृणोति अस्ति पुण्यं पापमिति। पश्चाच्छृणोति लोके नास्तीति। अतः संशयो भवति। द्विधाज्ञानम्-यदा देवे वर्षति नदी समृद्धा भवति। जलसेतुभेदेऽपि नदी समृद्धा। यथा देवे विवृक्षति पिपीलिकापोतान्यण्डवाहीनि। कस्मिंश्चित् [कुत्रचित्] खनत्यपि अण्डसंक्रान्तो गच्छति। मयूरकूजनं पुरुषोऽपि कर्तुं शक्नोति। किञ्चिद्वस्तु दृश्यं यथा घटः। किञ्चिददृश्यं यथाऽलातचक्रम्। अदृश्यं वस्तु यथा वृक्षमूलं पृथिव्यामधस्तात् जल[स्थं]वा। किञ्चिदवस्तु अदृश्यञ्च यथा द्वितीयं शिरः तृतीयो बाहुः। एवमादिभिर्द्विधाधर्मदर्शनश्रवणज्ञानैः संशयो भवति।

अपरीक्ष्य दर्शनाच्च संशयो भवति। यथाऽतिदूरादिभिरष्टप्रत्ययैः। द्विधाश्रद्धावत्त्वेन च संशयो भवति। यथा कश्चिद्वदति-अस्ति परलोक इति। [अन्यः] कश्चिद्वदति नास्तीति। उभयोरपि पुरुषयोः श्रद्धावतः संशयो भवति। विमते वस्तुनि यावद्विशिष्टलक्षणं न पश्यति तावत्संशयो भवति। विशिष्टलक्षणं पश्यतस्तु संशयो न भवति। (पृ) कथं विशिष्ठलक्षणं पश्यति। (उ) दर्शनश्रवणज्ञानानां विनिश्चयाद्विगतसंशयो भवति। भगवच्छासने यः कायेन धर्मतालक्षणं साक्षात्करोति। सोऽत्यन्तविगतसंशयो भवति। यथा बोधिसत्त्वो बोधिमण्डे निषण्णोऽवदत् व्यवसायेन ब्राह्मणलब्धं गमीरं धर्ममभिसमेत्य प्रत्ययान् जानन् पश्यंश्च प्रक्षीणसंशयजालो भवेयमिति। सद्युक्तिप्रज्ञालाभिनश्च संशयः प्रहीयते। यथा ज्ञानी संस्काराणां प्रतीत्यसमुत्पादं श्रुत्वा विज्ञाय च निर्धास्यति संसारोऽनादिरित्येवमादि।

(पृ) विचिकित्सायाः के दोषाः। (उ) विचिकित्साबहुलस्य लौकिकं लोकोत्तरं सर्वं न सिध्यति। कस्मात्। सन्दिद्घः पुमान् न कार्यं कर्म करोति। यत् करोति तत् जघन्यं भवति। साधयितुमक्षमत्वात्। उक्तञ्च सूत्रे-विचिकित्सा चित्तस्यानुप्ररोहः। तद्यथा सतृणक्षेत्रेऽनुप्ररोहबहुलत्वादन्यतृणान्येव न प्ररोहन्ति। किः पुनः शालिसस्यादीनि। एवं चित्तं विचिकित्साप्रसृष्टमसद्वस्तुन्येव समादधाति। किं पुनः सम्यक् समाधौ इति। किञ्चाह भगवान्-विचिकित्सा नाम तमसो राशिरिति। स तमसो राशिस्त्रिविधः अतीतोऽनागतः प्रत्युत्पन्न इति। स तमसो राशिरात्मदृष्टीनामुत्तिस्थानम्। पुरुषोऽयं चित्तं समादधानोऽपि मिथ्या समादधाति। विना भगवच्छासनं न सम्यक्‌समाधिमान् इति वक्तुं शक्यते। बहवः सत्त्वा आमरणं विचिकित्साविनष्टाः। तद्यथाह-अष्टकादयः पञ्चाभिज्ञा महर्षयः संशयालीढा विपन्ना इति। संशयानस्य दानादि कुर्वतः पुण्यमविपाकं वा स्यादल्पविपाकं वा। कस्मात्। इमानि पुण्यकर्माणि चित्तोद्गतानि। तस्य पुरुषस्य चित्तं सदा विचिकित्साकलुषितमित्यतो नास्ति कुशलम्। उक्तञ्च सूत्रे-विचिकित्सितचित्तो दानं दत्वा प्रत्यन्तभूमौ विपाकं वेदयत इति। कस्मात्। विचिकित्साबहुलो नैकाग्रचित्तो यथाकालं पाणिभ्यां प्रयच्छति। नापि विविधं सत्कारचित्तमुत्पादयति। अतः प्रत्यन्तभूमौ क्षुद्रं विपाकं वेदयते। तद्यथा पायास्यादयः क्षुद्रराजाः।

(पृ) नास्तीयं विचिकित्सा। कस्मात्। विचिकिकित्सा नाम चैतसिकधर्मः। चैतसिकाश्च क्षणिकाः। सन् न विचिकित्सा। असन् अपि न विचिकित्सा। नैकं चित्तं सत् असदिति भवति। अतो नास्तीति ज्ञायते। (उ) नाहं वदामि क्षणिकेष्वस्ति विचिकित्सेति। अनिर्धारितचित्तसन्तानो विचिकित्सेत्याख्यायते। न तस्मिन् समये चित्तं निर्धारयति अयं स्थाणुरयं पुरुष इति। सतन्यमानमिदं चित्तमश्रद्दधानत्वादाविलम्। मिथ्यादर्शनादस्ति वा नास्ति वेति विचिकित्सन्न श्रद्दधते।

अश्रद्धेयं द्विविधा विचिकित्सासम्भवा मिथ्यादर्शनसम्भवा इति। विचिकित्सासम्भवा लघुतरा। मिथ्यादर्शनसम्भवा तु गुरुतरा। श्रद्धा च द्विविधा सम्यद्गर्शनसम्भवा श्रवणसम्भवेति। सम्यद्गर्शनसम्भवा श्रद्धा दृढा भवति श्रवणसम्भवा तु नैवं भवति॥

विचिकित्सावर्ग एकोनत्रिंशदुत्तरशततमः।

१३० सत्कायदृष्टिवर्गः

पञ्चसु स्कन्धेषु आत्मबुद्धिः सत्कायदृष्टिः। वस्तुत आत्मनोऽभावात्पञ्चस्कन्धालम्बिनीत्युच्यते। कायः पञ्चस्कन्धात्मकः। तत्रोत्पन्ना [आत्म] दृष्टिः सत्कायदृष्टिरित्युच्यते। निरात्मक आत्मनिमित्तग्रहणात् दृष्टिरित्याख्यायते।

(पृ) पञ्चसु स्कन्धेषु आत्मेति नामकरणे को दोषः। यथा घटादयः पदार्थाः प्रत्येकं स्वलक्षणाः। न तत्रास्ति दोषः। तथात्माऽपि। स्कन्धव्यतिरिक्त आत्माऽस्तीति ब्रूवतस्तु दोषः स्यात्। (उ) यद्यपि न स्कन्धव्यतिरिक्त आत्मेत्युच्यते। तथाऽपीदं दुष्टम्। कस्मात्। तीर्थिका हि वदन्ति-आत्मा नित्यः। अस्मिन्नध्वनि कृतकर्मणामन्ते विपाकवेदनात् इति। एवं ब्रुवतः पञ्चस्कन्धा एव नित्याः स्युः। आत्मवादी मन्यते आत्मा एक इति। तथा सति पञ्चस्कन्धा एक एव स्युः। इत्ययं दोषः। आत्मग्रहश्च दुष्टः। कस्मात्। आत्मबुद्धौ हि आत्मीय [बुद्धि] रस्ति। आत्मीये सति रागद्वेषादयः सर्वे क्लेशाः समुद्भवन्ति। अतो ज्ञायत आत्मबुद्धिः क्लेशानामुत्पत्तिस्थानमिति। यद्यपीमे न वदन्ति स्कन्धव्यतिरिक्त आत्मेति। [तथापि] स्कन्धेषु निमित्तग्रहान्न [तेषां] शून्यतायामवचरन्ति। शून्य[ता]यामनवचरणात्क्लेशाः सम्भवन्ति। क्लेशेभ्यः कर्म सम्भवति। कर्मतो दुःखम्। एवं जननमरणसन्तानोऽविच्छिन्नो भवति। इम आत्मकल्पनया कायशिरश्चक्षुर्हस्तपादस्यौदारिकं विवेकमेव न लभन्ते। किं पुनः स्कन्धानां विवेकम्। एक आत्मा नित्य आत्मेति समादानात्। यो न विवेचयति। कोऽवक्रामति शून्य[ताया]म्। आत्मदर्शीनिर्वाणभीत आत्मा न भविष्यतीति। यथोक्तं सूत्रे-पृथग्जनाः शून्यानात्मतां श्रुत्वा महाभीतिमुत्पादयन्ति आत्मा न भविष्यति। अतो नास्ति किञ्चिदुपलभ्यमिति। एवं पृथग्जना यावत्पामोपहतं कायं प्रार्थयमाना न निर्वाणाय प्रयन्ते। यः शून्यताज्ञानप्रतिलाभी स पुनर्निर्भीतो भवति। यथोहोपसेनसूत्रम्-

ब्रह्मचर्यं सुचरितं मार्गश्चापि सुभावितः।
तुष्ट आयुःक्षये भोति रोगस्यापगमे यथा॥ इति।

आत्मास्तीति यो वदति स मिथ्यादृष्टौ पतति। यद्यात्मा नित्यः तदा सुखदुःखयोर्विकारो न स्यात्। असति विकारे नास्ति पुण्यं पापं वा। यद्यनित्य आत्मा। तदा नास्ति परलोकः। स्वभावतो विमुक्तस्यापि नास्ति पुण्यं पापं वा। अतो ज्ञायते सत्कायदृष्टिर्गुरुतरं पापमिति। किञ्च सत्कायदृष्टिकोऽत्यन्तमूढः। पृथग्जनाः सर्वे सत्कायदृष्ट्या विक्षिप्तचित्ता भवन्ति। अत्यासङ्गात् संसारे यातायाता भवन्ति। यो नैरात्म्यं पश्यति तस्य यातायातं समुच्छिद्यते।

(पृ) यदि पञ्चस्कन्धा अनात्मकाः। कस्मात् सत्वानां तत्रात्मबुद्धिर्भवति। (उ) मर्त्यो देवः पुमान् स्त्री इति नामनिमित्तं शृण्वतः संज्ञाविकल्पादात्मबुद्धिरुत्पद्यते। न तु हेतुना। हेत्वभावेनात्मबुद्धिरुत्पद्यते यदुत यद्यात्मा नास्ति कः सुखं सुखं वेदयेत्, इर्यापथव्यवहारोद्धितपुण्यपापकर्मणा विपाकं [को] वेदयेतेति। अनादौ संसारे च चिरसञ्चितमात्मनिमित्तन्तु तदनुशयसाधनम्। यथा घटादिनिमित्तम्। अत आत्मबुद्धिरुत्पद्यते। सर्ववेदनास्कन्धेषु आत्मबुद्धिरुत्पद्यते न तु वेदनायाम्। अत उच्यत आत्ममतिर्यत्रोत्पद्यते तत्रात्मास्तीति। कस्मात्। न हि सर्वत्रात्ममतिर्भवति। व्यामोहादात्ममतिरुत्पद्यते। तद्यथा अन्ध [कल्प] स्य शकलादि लब्ध्वा सुवर्णमणिसंज्ञा भवति। किञ्चायं शून्यताविवेकज्ञानालाभी मोहात्पश्यत्यात्मानम्। तद्यथा माया[मरीची] गन्धर्वनगरालातचक्रादिषु अस्तीति मतिर्भवति।

(पृ) पश्यामः खलु प्रत्यक्षं रूपकाये केशनखरोमाद्यवयवान् प्रत्येकं विभिन्नान्। कः सचेतनस्तानात्मानं मन्येत। (उ) केचित्पश्यन्ति आत्मानं यवसदृशं सर्षपादिसमानं हृदयान्तर्वर्तिनञ्च। ब्राह्मणानामात्मा शुक्लः। क्षत्रियाणामात्मा पीतः। वैश्यानामात्मा रक्तः। शूद्राणामात्मा कृष्ण इति। उक्तञ्च वेदे-

पुरासीन्महान् पुरुष आदित्यवर्णः तमसः परस्तात्। तमेवं विद्वानमृत इह
भवति। नान्यः पन्था विद्यते [ऽयनाय]। अणोरणियान् महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः। तमक्रतुः पश्यति [वीतशोकः] सूत्रं
मणिगणेष्विव।

एवं केचिन्मन्यन्ते रूपमात्मेति। स्थूलचेतना आहुः वेदनाऽऽत्मेति। वृक्षशिलादौ वेदनाया अभावात् ज्ञेयं वेदनैवात्मेति। मध्यमचेतना आहुः संज्ञा आत्मा, सुखदुःखयोरतीतयोरपि [तत्] संज्ञावदात्मेति बुद्धि[सत्त्वा] त्। सूक्ष्मचेतना आहुः संस्कार आत्मेति। घटादावतीतेऽपि [तत्] चेतनावानात्मेति बुद्धेः। परमसूक्ष्मचेतना आहु-विज्ञानमात्मेति। चेतनाऽपि औदारिकी। चेतनायामस्यामतीतायामपि [तत्] विज्ञानवानात्मेति बुद्धेरिति जानन्ति। [यस्य] पञ्चसु स्कन्धेषु आत्मबुद्धिर्भवति। न स विवेचयति वेदनादीन् स्कन्धान्। रूपं चित्तञ्च सम्मिश्र्य आत्मसंज्ञा समुत्पद्यते। यथा रूपादिचतुर्धर्मसामान्ये घटसंज्ञोत्पद्यते। रूपादिविभागेन विंशतिभागैः पश्यति रूपमात्मेति। कस्मात्। रूपवानयमात्मेति प्रतीतो धर्मो वेदनादीनामाश्रयः। वेदनादय इमे रूपे प्रतिबद्धा इत्यत उच्यते रूप[वान्] आत्मेति। केचिद्वेदनादिगतं रूपं पश्यन्ति। वेदनादय इमेऽनुपलभ्यमानधर्मा इत्यतो रूपमाश्रयन्ते। यथा आकाशोऽनुपलभ्य इत्यतः पृथिव्यादय आश्रीयन्ते। एव [मात्मदृष्टे] विंशतिभागा मोहाद्भवन्ति।

(पृ) चक्षुरादिषु कस्मान्नोच्यत आत्मेति भागः। (उ) अस्ति च। यथोक्तं सूत्रे-यद्याह कश्चित् यच्चक्षुरयमात्मेति। तन्न युज्यते। कस्मात्। चक्षुरुत्पन्नविनाशि। यदि चक्षुरयमात्मा। तदा आत्मा उत्पन्नविनाशी स्यात्। चक्षुरादीनि पृथक् पृथग्विशिष्टलक्षणानि। यद्युच्यते चक्षुरात्मेति। श्रोत्रादयो नात्मा स्युः। तत्तु न युज्यते। यदि श्रोत्रादयः पुनरा [त्मा]। तदा एक एव पुमान् बह्वात्मा स्यात्। रूपादीनां सविशेषत्वात् वक्तुं शक्यं रूपमेवा न वेदनादय इति।

(पृ) नास्त्यात्मेति यद्वचनम्। सापि मिथ्यादृष्टिः। कथमिदम्। (उ) अस्ति सत्यद्वयम्। परमार्थतोऽस्त्यात्मेति यद्वचनं सा सत्कायदृष्टिः। संवृतितो नास्ति आत्मेति वचनं मिथ्यादृष्टिः। लोकसत्यतोऽस्त्यात्मा परमार्थतो नास्त्यात्मेति वचनं सम्यक् दृष्टिः। परमार्थतो नास्ति संवृतितोऽस्तीति वदन् न दृष्टौ पतति। एवमस्ति नास्तीति वचनं ज्ञेयम्। यथा व्याघ्री स्वपोतं मुखेनापहरति अतिनिष्ठुरग्रहणे क्षतं [भवेदिति] अतिशिथिलग्रहणे भ्रंशो [भवेदिति]। एवमास्तित्वं प्रतिपन्नश्चेत्सत्कायदृष्टौ पतति। आत्मनास्तित्वं प्रतिपन्नश्चेन्मिथ्यादृष्टौ पतति। कृतहानमकृताभ्यागम उभयं दुष्टम्। नास्तीति प्रतिपन्नस्य [कृत]हानम्। आत्मास्तीति प्रतिपन्नस्या [कृता] भ्यागमः। अतः सूत्र उक्तं-द्वावन्तौ परिहार्याविति। परमार्थतो नास्तीति वदन् संवृतितोऽस्तीति च वदन् अन्तद्वयं परित्यज्य मध्यमायां प्रतिपदि चरतीत्याख्यायते। बुद्धशासनमविवादमनुत्कर्षणम्। परमार्थतो नास्तीत्युक्तौ पण्डितो नोत्कर्षति। संवृतितोऽस्तीत्युक्तौ पामरो न विवदते। तथागतशासनेऽशाश्वतानुच्छेदा परिशुद्धा मध्यमा प्रतिपत्। परमार्थतो नास्तितया न शाश्वतः। संवृतितोस्तितया नोच्छेदः।

(पृ) यो धर्मः परमार्थतो नास्ति स सुतरां नास्तीति स्यात्। केन पुनरुच्यते संवृतितोऽस्तीति। (उ) सर्वैर्लौकिकैर्व्यवह्रियते अस्तीति यदुत कर्म कर्मविपाको यदि वा बन्धो यदि वा मोक्ष इति। इमे सर्वे मोहजाः। कस्मात्। इमे पञ्चस्कन्धाः शून्या मायोपमाः ज्वालावच्च सन्तानेनोत्पन्नत्वात्। पृथग्जनानां तितीर्षया अस्तीतिवचनमनुवर्तते। यदि नास्तीति वदेत्। तदा पृथग्जना व्यामुह्य यदि वा उच्छेदवादे पतेयुः यदि वा स्कन्धानां नास्तीताकथने अविनेयाः स्युः। पुण्यपापादिकर्मभिर्बन्धो वा मोक्षो वा न सिध्येत्। यस्तं मोहवादं विनाशयति। सः स्वयमेव शून्यतायामवतरति। तदास्य सर्वा मिथ्यादृष्टयो न भवन्ति। अतः परमार्थसत्यं पश्चादुच्यते। यथा स्त्रीपुंनिमित्तव्यावृत्तये कायप्रत्यवेक्षणमादावुपदिश्यते। अथ केशरोमनखादिभिः कायविकल्पलक्षण [मुपदिश्यते] पञ्चस्कन्धमात्रमस्तीति। अथ शून्यतालक्षणेन पञ्चस्कन्धनिरोधलक्षण [मुपदिश्यते]। पञ्चस्कन्धनिरोधलक्षणं परमार्थसत्यमित्युच्यते। संवृत्याऽस्तीति कथने न तदा पुनः परमार्थतो नास्तीति वचनमपेक्ष्यते। उक्तञ्च सूत्रे-यः सर्वधर्मान् निःस्वभावान् प्रजानाति स शून्यतायामवतरति। इति। अतो ज्ञायते पञ्च स्कन्धा अपि न सन्तीति। उक्तञ्च परमार्थशून्यतासूत्रे-चक्षुरादि परमार्थतो नस्ति। अस्ति तु संवृतित इति। महाशून्यतासूत्र उक्तम्-यदिदं जरामरणमिति वचनं यदि वायं पुरुषो जरामरण [-लक्षण] इति वचनं। यदि वा तीर्थिकानां वचनं काय एव जीवः, यदिवान्यः कायोऽन्यो जीव इतीदमेकार्थकं, व्यञ्जनमेव नाना। काय एव जीवः अन्यः कायोऽन्यो जीव इतीदं वचने न ब्रह्मचर्यं भवति। यः प्रतिषेधः अयं पुरुषो जरामरण[लक्षण] इति नैरात्म्यस्याभिधानम्। यः प्रतिषेध इदं जरामरणमिति तत् जरामरणस्य व्यावर्तनम्। यावदविद्यायाः इति। अतो ज्ञायते परमार्थतो न जरामरणादि। संवृत्या तूच्यते जातिप्रत्ययं जरामरणम्। इयमुच्यते मध्यमा प्रतिपत्। किञ्चोक्तं राधसूत्रे-रूपं राध यूयं विकिरत विधमत विध्वंसत विक्रीडनकं कुरुत [तृष्णा] क्षयाय [प्रतिपद्यत] तद्यथा पांस्वागारिकाः। अवस्तुत्वात् क्षयाय भाव्या इति। स्कन्धा अपि क्षयाय [भाव्याः]। परमार्थतोऽभावात् स्कन्धवृत्तिलक्षणवृत्तिमनुसरतो नात्ममतिरत्यन्तं प्रहीयते। हेतुप्रत्ययानामनिरोधात्। यथा वृक्षः परशुना छिन्नो भस्मसात्कृतः। तथाऽपि [तत्र] वृक्षसंज्ञामनुवर्तते। यदा तु महावाते ओपूयते जलेन वा प्रवाहितः तदा वृक्षसंज्ञा निरुध्यते। एवं यदा विध्वंसितानि विक्रीडनकं कृतानि विकीर्णानि विध्मातानि निरुद्धानि पञ्चस्कन्धलक्षणानि, तस्मिन् समये शून्यतालक्षणं सम्पन्नं भवति। यथाह सूत्रम्-राध यूयं [रूपं] विध्वंसत विक्रीडनकं कुरुत विकिरत विधमत भागशो विदलयत सत्त्वक्षयाय इति। अस्मिन् सूत्र उक्तम्-पञ्चस्कन्धा अनित्याः सत्त्वशून्याः न सन्तीति। पूर्वस्मिन् सूत्र उक्तम्-पञ्चस्कन्धा विकीर्णा निरुद्धाः ते धर्मशून्या भवन्ति इति॥

सत्कायदृष्टिवर्गस्त्रींशत्युत्तरशततमः।

१३१ अन्त[ग्रह]दृष्टिवर्गः

धर्माः समुच्छिद्यन्ते वा शाश्वता वा इति यदिदं वचनं तदन्त[ग्रह] दृष्टिरित्युच्यते। केचिदाभिधर्मिका आहुः-यदा कश्चिदाह आत्मा शाश्वतो वा अशाश्वतो वेति इयमेवान्तग्रहदृष्टिः न सर्वे धर्माः[शाश्वता वा अशाश्वता वा] इति। कस्मात्। दृष्टं खलु प्रत्यक्षं [यत्] बाह्यं वस्तु समुच्छिद्यत इति। उक्तञ्च सूत्रे-अस्तीति दर्शनं शाश्वतग्रहः। नास्तीति दर्शनमुच्छेदग्रह इति। काय एव जीव इत्युच्छेददृष्टिः। अन्यः कायो ऽन्यो जीव इति शाश्वतदृष्टिः। नास्ति कर्म परं मरणादिति उच्छेददृष्टिः। अस्ति कर्म परं मरणादिति शाश्वतदृष्टिः। अस्ति च नास्ति च कर्म परं मरणादित्यत्र यदस्तीति स शाश्वत[वादः] यन्नास्तीति स उच्छेदवादः। नैवास्ति न च नास्तीत्यप्येवम्।

(पृ) अयं चतुर्थो ग्रहो न दृष्टिः स्यात्। (उ) लोकसत्यतोऽपि पुद्गलरहितत्वाद्धर्माणां दृष्टिरित्युच्यते। शाश्वतोऽशाश्वतः अन्तवाननन्तवानित्यादि चतुष्कोटिकमप्येवम्। उक्तञ्च सूत्रे-षट् स्पर्शायतनानि निरुध्यन्ते सन्त्यन्यानीति शाश्वतवादः। न सन्त्यन्यानीति उच्छेद[वाद] इति। आत्मा पूर्वमकरोत् पश्चात्करिष्यतीति यद्दर्शनं सा शाश्वतदृष्टिः आत्मा पूर्वं नाकरोत् पश्चान्न करिष्यतीतीयमुच्छेददृष्टिः। अपि चाह मिथ्यादृष्टिसूत्रम्-पुरुषस्य सप्तकायाः पृथिव्यप्तेजोवायवः सुखंदुःखं जीवितमिति। म्रियमाणस्य चत्वारि महाभूतानि तम्मूलप्रतिशरणानीन्द्रियाण्याकाशप्रतिशरणानि इति। किञ्चाह-क्षुरेण च क्रकचेन प्राणिनो हत्वा [एक] मांसपुंञ्च कुर्यात् नास्ति [ततो निदानं]पापं [नास्ति पापस्यागम] इति। इयमुच्छेददृष्टिः। ब्रह्मजालसूत्र उच्छेददृष्टिलक्षणमुक्तम्। अस्ति परलोकः यः कारकः स एव वेदक इति यद्वचनम्। इयं शाश्वतदृष्टिरित्युच्यते।

(पृ) शाश्वतोच्छेददृष्टिः कथमुत्पद्यते। (उ) येन हेतुना भवति तथागतः परं मरणादिति वदन्ति ततो निदानं शाश्वतदृष्टिर्भवति। येन हेतुना न भवति तथागतः परं मरणादिति वदन्ति ततो निदानमुच्छेददृष्टिर्भवति। (पृ) कथमियं दृष्टिः प्रहीयते। (उ) शून्यतां सम्यग्भावयतो नास्त्यात्मदृष्टिः। असत्यामात्मदृष्टौ नास्त्यन्तद्वयम्। यथोक्तं यमकसूत्रे-नास्त्यैककस्मिन् स्कन्धे तथागतः। नास्ति समुदिते स्कन्धे तथागतः। नास्ति चान्यत्र स्कन्धात्तथागतः। एवं दृष्ट एव धर्मे [तथागतो]ऽनुपलभ्यमानः। कथं वक्तव्यं [यथा] क्षीणास्रवोऽर्हन् कायस्य भेदा [दुच्छेत्स्यति विनंक्ष्यति] न भवति परं मरणादिति। अतो ज्ञायते नोपलभ्यते पुद्गल इति। पुद्गलस्यानुपलम्भादात्मदृष्टिः शाश्वतोच्छेददृष्टिश्च नास्ति। धर्माः प्रतित्यसमुत्पन्ना इति पश्यतो नास्त्यन्तद्वयम्। यथा पुनरुक्तम्-लोकसमुदयं पश्यतोऽभावदृष्टिर्निरुध्यते। लोकनिरोधं पश्यतो भावदृष्टिर्निरुध्यत इति। मध्यमायां प्रतिपदि विहरतश्चान्तद्वयं निरुध्यते। कस्मात्। धर्माणां सन्तत्योत्पादं पश्यत उच्छेददृष्टि र्निरुध्यते। [तेषां] क्षणिकतां पश्यतः शाश्वतदृष्टिर्निरुध्यते। किञ्चोक्तम्-न पञ्चस्कन्धास्तथागतः। न चास्ति अन्यत्र स्कन्धात्तथागत इति। अतो ज्ञायते नोच्छेदो न शाश्वत इति। कायादन्य उपलभ्यत इत्यतो नैकः कायेन भवति। सहायं सत्त्व इत्यतो नान्यो भवति। पञ्चस्कन्धाः पुनः सन्तन्यन्त इत्यतः सत्त्वो जायते म्रियत इति वक्तमेव न प्रभवति। सन्तानेन प्रवृत्तत्वादन्य इति न वक्तुं शक्यते। सन्तानस्यैकत्वेनाभिधानात्। इमे स्कन्धास्ते स्कन्धाश्चान्य इत्यभिधानात् शाश्वतवादो न भवति। स्वसन्तानप्रत्ययबलेन प्रवर्तत इत्यत उच्छेदवादो न भवति।

अन्तग्रहदृष्टिवर्ग एकत्रिंशदुत्तरशततमः।

१३२ मिथ्यादृष्टिवर्गः

वस्तुतः सत्सु धर्मेषु नास्तीति चित्तोत्पादनं मिथ्यादृष्टिः। यथा वदन्ति न सन्ति चतुस्सत्यानि त्रीणि रत्नानीत्यादि। ऊक्तञ्चसूत्रे-कतमा भिक्षवो मिथ्यादृष्टिः, नास्ति दत्तं नास्तीष्टं, नास्ति हुतं, नास्तिसुकृतदुष्कृतानां फलं विपाकः। नास्त्ययं लोकः नास्ति परो लोकः, नास्ति माता नास्ति पिता, न सन्ति सत्त्वा औपपातिकाः, न सन्ति श्रमणब्राह्मणाः सम्यग्गताः सम्यक् प्रतिपन्ना य इमं लोकं परञ्च लोकं स्वयमभिज्ञाय साक्षात्कृत्य प्रवेदयन्ति-क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमित्थत्वाय इति। दत्तं [यत्] परहिताय प्रयच्छति। इष्ठं इति वेदोक्तो देवानां कृते यागः। हुतमिति देवेभ्यो घृतादिद्रव्यहोमः। सुकृतमिति त्रयाणां सुकृतकर्मणामिष्टफलप्रतिलाभः। दुष्कृतमिति त्रयाणां दुष्कृतकर्मणामनिष्टफलप्रतिलाभः। सुकृतदुष्कृतकर्मणां[फलं] विपाकः इहलोकशुभाशुभकीर्त्यादिः देवकायादयः पारलौके विपाकश्च। अयं लोक इति वर्तमानः। परलोक इति अनागतः। माता पिता जनकौ। सत्त्व औपपातिक इति अस्माल्लोकात्परलोकगन्ता। अर्हन्निति क्षीणास्रवः। यदिदं सर्वं नास्तीति सा मिथ्यादृष्टिः। सत्त्वानां संक्लेशो व्यवदानं ज्ञानदर्शनमज्ञानदर्शनम्-इदं सर्वमहेतुकम्। नास्ति बलं नास्ति वीर्यम्। नास्ति च तेषां फलमित्यादि मिथ्यादृष्टिः। संक्षिप्येदं ब्रूमः-यद्विपर्ययचित्तं सर्वं तन्मिथ्यादृष्टिः इति। तद्यथा अनित्ये नित्यसंज्ञा, दुःखे सुखसंज्ञा, अशुचौ शुचिसंज्ञा, अनात्मनि आत्मसंज्ञा अनुत्कृष्ट उत्कृष्टसंज्ञा, उत्कृष्टे चानुत्कृष्टसंज्ञा, व्यवदानमार्गे अव्यवदानमार्गसंज्ञा, अव्यवदानमार्गे च व्यवदानमार्गसंज्ञा, अभावे भावसंज्ञा, भावे चाभावसंज्ञा इत्येवमादीनि विपर्ययचित्तानि। अभिधर्मे याः पञ्चदृष्टयः ब्रह्मजालसूत्रे च द्वाषष्टिदृष्टयः सर्वा [स्ता] मिथ्यादृष्टयो भवति।

मिथ्यादृष्टिः कथममुत्पद्यते। (उ) मोहादुत्पद्यते। अहेतौ हेत्वाभासे चासंक्लिष्टासक्तत्वाद्भवति। सुखहेतावासङ्गाद्वदति नास्ति दुःखमिति। भ्रष्टशून्यतामार्गत्वाद्वदन्ति नास्ति दुःखमिति। न हि दुःखवेदकोऽस्तीति। लौकिकाः पदार्था अहेतुका अप्रत्यया इति यद्वदन्ति। यदि वा वदन्ति ईश्वरादिहेतुका न तृष्णाहेतुका इति। इदं नास्ति समुदय इति। येन हेतुना वदन्ति नास्ति निर्वाणमिति। अन्यथा वा वदन्ति निर्वाणम्। इदं नास्ति निर्वाणमिति। असति निर्वाणमार्गे केन प्राप्येत। अथ वा वदन्ति अस्ति विमुक्तेर्मार्गान्तरमुपवासादिरिति। इदं नास्ति मार्ग इति। नास्ति बुद्ध इति। ते वदन्ति धर्मा अप्रमाणाः। कथमेकः पुरुषः सर्वान् जानीयात् इति। अथ वा मन्यन्ते बुद्धः पुरुषाणां पूज्यो नास्ति पुरुष इत्यतो नास्ति [स] बुद्ध इति द्रष्टव्यम्। क्लेशानां क्षयाभावान्नास्ति धर्मः। सम्यक्‌चर्यया तद्धर्मप्रतिलाभिनो न सन्तीत्यतो नास्ति सङ्घः। दत्तस्य दृष्टफलानुपलम्भाद्वदन्ति नास्ति दत्तमिति। उक्तञ्च सूत्रे-नास्ति दत्तम्। तदनुमानमप्यनैकान्तिकम्। लोके कश्चिद्दानाभिरतो दरिद्रो भवति। कृपणस्तु धनिक इत्यादिभिः नास्ति कारणैर्वदन्ति दत्तमिति। नास्तीष्टं नास्ति हुतमित्यप्येवम्। यद्यग्नौ प्रक्षिप्तं द्रव्यं भस्मसाद्भवति। तस्य किं फलमस्ति। नास्ति सुकृतं दुष्कृतं, नास्ति च सुकृतदुष्कृतानां [फलं] विपाकः। यदि जीवो नित्यः तदा नास्ति सुकृतं दुष्कृतम्। यदि जीवोऽनित्यः तदा नास्ति परलोकः। नास्ति परो लोक इत्यतो नास्ति सुकृतं दुष्कृतं, नास्ति सुकृतदुष्कृतानां विपाकः, नास्त्ययं लोक इति। अवयवशः प्रविभज्यमाना धर्मा अत्यन्ताभावतां प्रतिगच्छन्ति। नास्ति परो लोक इति। मरणात्परं न भवति प्रतीत्यसमुत्पाद इत्यतो वदन्ति नास्ति परो लोक इति। नास्ति माता पिता। तेऽप्यवयवशः प्रविभज्यमानाः प्रक्षीयन्ते। वदन्ति च गोमयमुपादाय क्रिमयो भवन्ति। न हि गोमयं क्रिमीणां पितरौ। ये मस्तकादयः शरीरावयवाः, न त एव मतापित्रोः शरीरावयवाः। धर्माणां क्षणिकत्वात् माता पिता च किं करोति। न सत्त्वा औपपातिका इति। सत्त्वधर्माभावादयं लोक एव नास्ति। किं पुन [स्तदूर्ध्व] कायं वेदयत इति।

चेतनाख्यः सत्त्वोऽयं किं कायात्मकः किमकायात्मकः। यदि कायात्मकः। तदा चक्षुषा परिदृश्यमानोऽयं कायः खन्यमानो मृद्भवति। हूयमानो भस्म भवति। क्रिमिभुक्तः पुरीषं भवति। अतो नास्त्यौपपातिकः। अकायात्मक इत्ययं द्विविधो यदि चित्तात्मको यदि वा चित्तव्यतिरिक्त इति। यदि चित्तात्मकः, तदा चैत्तधर्मः। चैत्तधर्मश्च प्रतिक्षणमुत्पत्तिविनाशी, न स्थायी। किमुत परदेहं प्राप्नुयात्। यदि चित्तव्यतिरिक्तः तदा नात्ममतिः। परस्य चित्त एव नात्ममतिः, किमुताचित्तस्थाने। अतो नास्त्यौपपातिकः।

नास्त्यर्हन्निति। स क्षुधितः सर्वान् दृष्ट्वा अन्नं प्रार्थयते। शीते सत्यौष्ण्यं प्रार्थयते। तापे शीतं प्रार्थयते। निन्दितः कुप्यति। सत्कृतस्तृप्यति। अतो नास्ति क्षीणास्रवः। सूत्रे केचिद्वदन्ति-नास्त्यर्हन्निति। इदं सूत्रमनुसृत्य सा मिथ्यादृष्टिर्भवति। संक्लेश इति। काय एव संक्लेशः। अतो वदन्त्यकारणमिति। ज्ञानदर्शनमज्ञानदर्शनमप्येवम्। नास्ति बलं नास्ति वीर्यमिति। पश्यामः खलु सर्वे सत्त्वाः प्रज्ञप्तिकारणका इति। केचिद्वदन्ति ईश्वरः [स्वातन्त्र्येण] करणीयं करोतीति। पश्यामश्च सर्वान् सत्त्वान् कर्मकारणतन्त्रान् न स्वतन्त्रान्। अतो वदन्ति नास्ति बलं नास्ति वीर्यं [नास्ति] च तत्फलमिति।

अनित्ये नित्यसंज्ञेति। येन कारणेन क्षणिक[वादः] खण्ड्यते। तेन कारणेन शाश्वतदृष्टिरुत्पद्यते। वदन्ति च धर्मा निरुध्यमानाः पुनः परमाणवो भवन्तीति। [अन्ये] केचिद्वदन्ति मूलप्रकृतौ प्रतियन्तीति। धर्माणां विनाशेऽपि संज्ञानुस्मरणात् सुखदुःखे वेदयते। तस्य शाश्वतदृष्टिरुत्पद्यते। आहुश्च जीवो नित्यः। शब्दोऽपि नित्य इति। एभिः कारणैः शाश्वतदृष्टिर्भवति।

दुःखे सुख[संज्ञे] ति। येन कारणेन वदन्ति अस्ति सुखमिति। यथा पूर्वमुक्तं त्रिवेदनावर्गे। अनेन कारणेनोत्पद्यते सुखसंज्ञा। अशुचौ शुचिसंज्ञेति। कायेऽभ्यासङ्गात् चक्षुषा अशुचि दृष्ट्वा शुचिसंज्ञामुत्पादयन्ति। केचिच्चिन्तयन्ति-आत्मा पुरुषलक्षणलब्धः। अस्य पुरुषस्य कायमशुचिं पश्यामः। अस्ति पुनः सत्त्वो येन शुचीक्रियत इति। एभिः कारणैः शुचिसंज्ञोत्पद्यते।

अनात्मनि आत्मसंज्ञेति। स्कन्धानां सन्तानेन प्रवृत्तिं दृष्ट्वा एकलक्षणं गृह्णाति। तदा आत्मेति मन्यन्ते। यथा च पूर्वमुत्पन्नं सत्कायदृष्टेः कारणम्। अनेनैव कारणेनात्मसंज्ञा सम्भवति। अनुत्कृष्ट उत्कृष्टसंज्ञेति। पूरणादिषु तीर्थिकाचार्येषु उत्कृष्टसंज्ञामुत्पादयन्ति। ब्रह्मा स्वयमाह-अहमस्मि महाब्रह्मा प्रभुर्देवानां कर्ता जगत इत्येवमादि। केचिदाहुः-यदि कश्चित्पञ्चकामानां सुखवेदनासम्पन्नः अयमुत्कृष्ट धर्म इति। केचित्पुनराहुः -यदि कश्चिद्विरक्तः प्रथमध्यान[मारभ्य] यावच्चतुर्थध्यानमुपसम्पद्य विहरति अयमुत्कृष्ट धर्म इति। केचिदाहुः-लोके प्रत्यक्षदृष्टेषु ब्राह्मणाः पूज्याः। परेक्षेषु सत्त्वेषु देवाः पूज्या इति। इयमनुत्कृष्ट उत्कृष्टसंज्ञेति। उत्कृष्टे चानुत्कृष्टसंज्ञेति। सर्वेषु सत्त्वेषु बुद्धः परमपूज्यः। केचित्तस्मिन् अनुत्कृष्टसंज्ञामुत्पाद्य वदन्ति-अयं क्षत्रियः अल्पकालिकशिक्षामार्गः। बुद्धवचनञ्च न चाटुकाव्य [वत्] क्लेशगुरुकं न वेदसदृशम्। तदुत्कृष्टमिति न वदन्ति। सन्ति सङ्घे चतुष्कोटिकाः पुद्गला इत्यतोऽनुत्कृष्टः। एवमुत्कृष्टेऽनुत्कृष्टसंज्ञामुत्पादयन्ति।

अव्यदानमार्गे व्यवदानमार्गसंज्ञेति। यत्केचिदाहुः-भस्मतीर्थादिस्नानैः पुरुषः शुध्यतीति। केचिदाहुः-जननमरणयोः क्षयोऽवसानं व्यवदानमार्ग इति। शीलधारण ब्रह्मचर्यमात्र आसज्य देवपूजादयश्च [व्यवदानमार्ग आख्यायेत] ईश्वर [प्रसादेन] च विशुद्धिं लभत इति च वदन्ति। केचिदाहुः-तपश्चर्यया पूर्वतनीनकर्मक्षयो व्यवदानमार्ग इति। [केचिदाहुः]-लशुनं त्यक्त्‌वा दधिनवनीतादिना विशुद्धिं लभते। पुनः प्रयतः स्नात्वा ब्रह्मयज्ञपठनतदूर्ध्वभोजनं विशुद्धिमार्ग इति। एभिर्नानाविधैरसन्मार्गैर्विमुक्ति र्लभ्यते नत्वष्ठाङ्गिकविशुद्धिमार्गेणेति।

भावेऽभावसंज्ञेति। यत् धर्मा लोकसत्यतः सन्तोऽपि अभाव इत्युच्यन्ते। अभावे भावसंज्ञेति यदुच्यते सन्ति द्रव्याणि अस्त्यवयवीति। सन्ति संख्यापरिमाणादयो गुणा इत्यपि वदन्ति। सामान्यलक्षणं पृथक्‌त्वलक्षणं समवायञ्च वदन्ति। प्रकृतिकालादयोऽसत्पदार्थाः सन्तीति च वदन्ति। एभिः कारणैरुत्पन्नानि विपर्ययचित्तानि मिथ्यादृष्टयो भवन्ति। आसु मिथ्यादृष्टिषु विशिष्य चतस्रो दृष्टयः। अन्या य उग्रक्लेशा सा मिथ्यादृष्टिः।

(पृ) इयं मिथ्यादृष्टिः कथं प्रहीयते। (उ) सूत्रे भगवता प्रोक्तसम्यक्‌दृष्ट्या प्रजहाति। (पृ) सम्यग्दृष्टिः कथमुत्पद्यते। (उ) यो दर्शनश्रवणान्वयज्ञानैः सम्यग्विनिश्चिनोति। तस्य सम्यग्दृष्टिर्भवति। सम्यक्समाधिं भावयतः सम्यग्दृष्टिरुत्पद्यते। यथाह सूत्रम्-समाहितो यथाभूतं प्रजानातीति। न विक्षिप्तचित्त [इत्यर्थः]।

(पृ) अस्या मिथ्यादृष्टेः के दोषाः। (उ) सर्वे दोषा विपत्तिव्यसनानि च मिथ्यादृष्ट्या भवन्ति। स आह-नास्ति पापं नास्ति पुण्यं सुकृतदुष्कृतानां फलं विपाक इति। अतो दृष्टधर्म एव न सन्ति सुवृत्तानि। किं पुनरनागतानि। एवं दूषितसुकृतदुष्कृतः पुमान् समुच्छिन्नकुशलमूल इत्युच्यते। स नियतमवीचौ पतिष्यति। यथोक्तं षट्‍पादाभिधर्मे-क्रिमिपिपीलिकाहननं पुरुषहननाद् गुरुतरम् इति। स मिथ्यादृष्टिकः पुरुषः लोकदूषकः सत्वानां भूयसापकाराय प्रवर्तते। यथा विषवृक्षो हिंसायै प्ररोहति। तेन कृतं कायिकं वाचिकं मानसं कर्म सर्वमशुभविपाकाय भवति। यथोक्तं सूत्रे-मिथ्यादृष्टिकस्य [भिक्षवः] पुरुषपुद्गलस्य यत्कायकर्म यथादृष्टिसमात्तं समादत्तं यच्च वाक्कर्म........यच्च मनःकर्म या चेतना या प्रार्थना यः प्रणिधिः ये च संस्काराः सर्वे तेऽनिष्टाय अकान्ताय अमनापाय अहिताय दुःखाय संवर्तते। तद्यथा तिक्तकालाबुबीजं कोषातकीबीजं पिचुमन्दबीजमाद्रायां पृथिव्यां निक्षिप्तं यच्चैव पृथिवीरसमुपादीयते यच्चापोरसं तेजोरसं वायुरसमुपादीयते सर्वं तत् तिक्तकत्वाय कटुकत्वाय असातत्वाय संवर्तते। [तत्कस्य हेतोः] बीजं हि भिक्षवः पापकम्। एवमेव मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य चित्तचैतसिका धर्मा अनिष्टाय [अकान्ताय अमनापाय अहिताय दुःखाय] संवर्तते। [तत्कस्य हेतोः] दृष्टिर्हि भिक्षवः पापिका इति। अतस्तस्य पुरुषपुद्गलस्य कृतमपि दानादि नेष्टफलं भवति। पूर्वकृतमिथ्यादृष्टिचित्तेन विनष्टत्वात्। तत्कृतस्याशुभमेवाधिमात्रं भवति। पापकचित्तस्य चिरसञ्चितत्वात्।

संवरेण च कश्चिदसद्धर्मं प्रतिरोद्धुं शक्नोति। अस्य पुरुषपुद्गलस्य नास्ति सुकृतं दुष्कृतमित्यतो न यतः कुतश्चित्प्रतिविरतिः। अत्यन्तप्रमत्तोऽसद्धर्म चरति। ह्र्यपत्रपाख्यद्विविधशुक्लधर्मसभिन्नः पशुसमो भवति। यश्च वदति नास्ति सुकृतं दुष्कृतं वेति स सदा चित्तेऽकुशलमेव काङ्‍क्षते। तस्य सद्धर्मसमादापनकारणमेव नास्ति। कस्मात् न हि स सज्जनमुपगच्छति। ना[पि] सद्धर्मं शृणोति। तस्य दुष्कृतचित्तं सूत्थानं भवति। सुकृतचित्तं दुरुत्पादम्। दुष्कृतस्य सूत्थानत्वात्सुकृतस्य कारणमेव नास्ति। एवं क्रमेण दुष्कृतोपचये समुच्छिन्नकुशलमूलो भवति।

मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य दुस्थानगत इत्याख्या। यथा नारकाः सत्त्वा न मार्गप्रतिलाभप्रवणाः। तथा च पुद्गलो मध्यमदेश उत्पन्न इष्टानिष्टविवेकाय षडिन्द्रियसम्पन्नोऽपि न मार्गप्रतिलाभप्रवणो भवति। मिथ्यादृष्टिकस्य नास्ति [यत्किञ्चित्] दुष्कृतमकुटम्। नास्ति विरतिर्लघोरल्पाद्वा [दुष्कृतात्]। अल्पमप्यकुशलं कुर्वन् नरके पतति। कर्मणोऽस्य गुरुपापकचित्तेन समुत्पन्नत्वात्। यथा कर्मवर्गे नरकविमोचकं कर्म इत्यनेन कारणेन तत्पुरुषकृतं सर्वं नरकाय संवर्तते। न च स पापकमकुशलं कर्म क्षपयति। अकुशलधर्मस्य सदा चित्तगतत्वात्। दुर्लभा च तस्योत्तरोत्तरान्नरकाद्विमुक्तिः। कस्मात्। समुच्छिन्नकुशलमूलस्य हि यदा कुशलं न प्रवर्तते तदनन्तरं नरकान्नैव विमुक्तिः। चित्ते मिथ्यादृष्टिकत्वात् तस्य कुशलमूलं कथं प्रवर्तेत। मिथ्यादृष्टिकः पुद्गलोऽचिकित्स्यः तद्यथा समुपस्थितमरणनिमित्तो रोगी। चिकित्सकः सन्नपि न चिकित्सितुं शक्नोति। एवमयमपि। अन्यकुशलरहितत्वाद्यावद् बुद्धा अपि न चिकित्सन्ते। अतोऽवश्यमवीच्यां पतति॥

मिथ्यादृष्टिवर्गो द्वात्रिंशदुत्तरशततमः।

१३३ परामर्शद्वयवर्गः

अभूतवस्तुनि इदमेव सत्यमन्यन्मिथ्येति वचनं दृष्टिपरामर्श इत्युच्यते। पूर्वोक्तेऽनुत्कृष्टधर्म उत्कृष्टसंज्ञाविनिश्चयोऽपि दृष्टिपरामर्शः।

(पृ) दृष्टिपरामर्शस्य के दोषाः। (उ) स पुरुषो न्यूनगुणं लब्ध्वा आत्मानं पूर्णं मन्यते। तस्य गुणञ्चातिवक्ति। कस्मात्। अकुशले वस्तुनि अत्यन्तकुशलसंज्ञामुत्पाद्य वीर्यमारभते। तेन हेतुना च पश्चात्परितपति। विदुषां परिहास्यश्च भवति। अनुत्कृष्टे उत्कृष्टसंज्ञायाः कृतत्वात्। योऽनुत्कृष्टमुत्कृष्टं वदति स बालो मूढसंज्ञः। यथान्धो घटशकले सुवर्णसंज्ञामुत्पाद्य चक्षुष्मतां लघु हास्यो भवति। दृष्टिपरामर्शस्येदृशा दोषाः।

यत् कश्चित् बोधिमुपेक्षमाणः स्नानादिशीलेन विशुद्धिप्राप्तिं काङ्‍क्षते तत् शीलव्रतपरामर्श इत्युच्यते। (पृ) ननु शीलेन न विशुद्धिलाभः। (उ) प्रज्ञयैव विशुद्धिलाभः। शीलन्तु प्रज्ञेन्द्रियस्य मूलम्। (पृ) के दोषाः शीलव्रतपरामर्शस्य। (उ) ये दोषा उक्ता दृष्टिपरामर्शस्य “न्यूनं वस्तु [लब्ध्वा] सम्पूर्णं मन्यते इत्यादिना त एव दोषाः। शीलव्रतपरामर्शप्रत्ययमत्यधिकं दुःखान्यनुभवति। यदुत शीतोष्णवेदना, भस्मभूमितरुकण्टकादिषु शयनं जलह्रदाग्निप्रवेशो भृगुपतनमित्यादि। परलोकेऽपि अतिमात्रदुःखविपाकः। यथोक्तं सूत्रे-गोव्रतिकः संसिद्ध[व्रत]ः [कायस्य भेदात्परं मरणात्] गवां सहव्यतामुपपद्यते। असंसिद्धो नरके पतति इति। स तमसः तमः प्रविशति। यतस्तं धर्मं समाददानो दृष्टधर्मे दुःखमनुभवति। ऊर्ध्वमपि दुःखम्। स गुरुतरं पापञ्च विन्दते। कस्मात्। अधर्मं धर्मं मत्वा सद्धर्मं विनाशयति। सद्धर्मचर्यापबादकश्च बहून् सत्त्वान् नरके पातयति। सुविशुद्धधर्मस्य पृष्ठीकृतत्वात्। सञ्चितमहापापोऽवश्यमवीचिनरके विपाकमनुभवति।

[अतो] अनाचाराद्विरम। मा चर मिथ्यामार्गम्। कस्मात् य आदितो नाचरति तस्य मार्गचरणं सुकरम्। मिथ्याचारपराहतचित्तस्य तु दुष्करो मार्गप्रवेशः। शत्रुरपि न तथा पुद्गलं ग्लपयति यथा मिथ्यादृष्टिः। कस्मात्। न हि शत्रुस्तथा पुद्गलं परिभावयति यथा मिथ्यादृष्टयनुगामिनां तीर्थिकाचरितानां नानादुःशीलानां नग्नतानिर्लज्जताभस्मरजःकायताकेशोल्लुञ्च्छनादीनां समादानम्। मिथ्यादृष्टिकः सर्वस्माल्लौकिकहितकामात् भ्रश्यति। दृष्टधर्मे पञ्चकामगुणेभ्यो भ्रश्यति। तदूर्ध्वं सुगतिसुखान्निर्वाणाच्च भ्रश्यति। सुखं प्रार्थयित्वा दुःखं लभमानो विमुक्तिं प्रार्थयित्वा बन्धं लभमानः पुरुषः किं न मत्तः। तत् कस्मात्। [य] एकेनान्नदानप्रत्ययेन स्वर्गे जन्मलाभार्हो भवति। तस्य पुरुषस्य मिथ्याचारचारित्वात् दानाय कायजीविते सत्यपि न किञ्चन हितं भवति॥

परामर्शद्वयवर्गस्त्रयस्तिंशदुत्तरशततमः।

१३४ उपक्लेशवर्गः

गुरुचित्तस्य स्वापकामता मिद्धम्। चित्तसमाधानाय प्रबोधविरतिः स्वापः। विषयेषु विक्षिप्तचित्तता औद्धत्यम्। चित्ताकांक्षिते दौर्मनस्यबन्धः कौकृत्यम्। तद्यथा कृतमकर्तव्यमकृतञ्च कर्तव्यमिति। कुशलकुहनकुटिलचित्तं माया। मायाचित्तवृत्तिनिर्वर्तनं शाठ्यम्। स्वकृताकुशलस्याह्रेपणमाह्रीक्यम्। सङ्घे कृताकुशलस्याह्रेपणमनपत्राप्यम्। अकुशलानुगं चित्तं प्रमादः। यदसन्तं गुणं ख्यापयति तेन जना वदन्ति अस्तीति। [सा] कुहना। लाभसत्कारायाद्‍भुतं प्रख्याप्य परेषां मनःप्रह्लादिनी वाक् लपना। परद्रव्यलिप्सया तल्लिप्सामुपगूह्य वदति इदं वस्तु सुन्दरमित्यादि। तन्नैमित्तिकता। यदेतत्पुरुषनिन्दायै अन्यं स्तौति-तव पिता व्यवसायी त्वन्तु नेति। [तत्] निष्पेषिकता। यत् दानेन दानं प्रार्थयमानो वदति-इदं दानवस्तु अमुकात्पत्यन्ताल्लब्धमित्यादि। तत् लाभेन लाभजिगृक्षा। यत् पुरुषस्य निद्राव्याधौ निरतिः सा तन्द्रीत्युच्यते। या मार्गचर्याकारणसुदेशसंपत्तावपि सदोत्कण्ठितता [सा] अरतिरित्युच्यते। यत् पुरुषस्य कायस्य जृम्भणा अदमनं स्त्यानमिद्धस्य प्रत्ययः सा विजृम्भिका। य आहारे बह्वल्पतादमनानभिज्ञः। [स] आदितोऽदम इत्युच्यते। यो नातिमात्रव्यवसायी भवति। [स] विवर्त्यचित्त इत्युच्यते। यो महामात्राणां वचनं न सत्करोति न बिभेति। सोऽबहुमानीत्युच्यते। अकुशलरुचिकः पुरुषः पापमित्र इत्युच्यते। इत्यादय उपक्लेशाः। क्लेशेभ्य उत्पन्नत्वात्॥

उपक्लेशवर्गश्चतुस्त्रिंदुत्तरशततमः।

१३५ अकुशलमूलवर्गः

त्रीण्यकुशलमूलानि यदुत लोभद्वेषमोहाः। (पृ) मदमानाद्यपि अकुशलमूलं स्यात्। कस्मात्तीण्येवोक्तानि। (उ) सर्वेऽपि क्लेशा स्त्रयाणां क्लेशानामङ्गान्येव। मानादिकं मोहाङ्गम्। अतो न पृथगुच्यते। त्रयः क्लेशा सावानां चेतसि भूयसा वर्तन्ते। न मानादि। सर्वेषामवीतरागाणां मशकपिपीलिकापर्यन्तानामिमे त्रयः क्लेशा एव चित्तवर्तिनः। नैवं मदमानादिः। रागे सति द्वेषोऽकुशलमूलं भवति। अनुरक्तस्य विरोधे द्वेषोऽनुप्रवर्तते। मोहस्तु द्वयोर्मूलम्। कस्मात्। यस्य नास्ति मोहः न तस्य रागद्वेषौ। यथोक्तं सूत्रे-दशाकुशलकर्माणि त्रिविधानि लोभद्वेषमोहजानीति। न तूक्तं मानादिजानीति। सन्ति च तिस्र एव वेदना न पुनरस्ति चतुर्थी। आसु तिसृषु वेदनासु त्रयः क्लेशा अनुशया भवन्ति। यद्यस्ति पृथङ् मानादिः। कस्यां वेदनायामनुशयः स्यात्। तद्वस्तुतो नाभिधातुं शक्यते। [इति] ज्ञातव्यं तानि त्रीण्येव क्लेशमूलानीति।

(पृ) कस्मात्सुखवेदनायां रागोऽनुशयः। (उ) प्रत्यक्षं हि तत्र तस्योत्पत्तिः। यथोक्तं सूत्रे-सुखवेदनीयस्पर्शं लभमानस्य भवति प्रीतिः। दुःखवेदनीयस्पर्शं लभमानस्य भवति अप्रीतिः। तस्य वेदनानामुदयव्ययास्वादादीनवनिस्सरणानां यथाभूताप्रज्ञानात्। इति। अदुःखासुखवेदनायामविद्यानुशयः। कस्मात्। नह्ययमारूप्यधात्वाप्तानां स्कन्धानां सन्तानं यथाभूतं प्रजानाति। तदा [खल्वस्य] तत्र भवति निर्वाणसंज्ञा वा विमुक्तिसंज्ञा वा अदुःखासुखसंज्ञा वा आत्मसंज्ञा वा। अत उक्तं-अदुःखासुखवेदनायां मोहोऽनुशयो भवतीति।

(पृ) अनुशयाः किं धर्मेऽनुशेरते कि वा सत्त्वेऽनुशेरते। (उ) धर्मानुपादाय सत्त्वबुद्धिर्भवति। सत्त्वबुद्धिमनुसृत्य वेदना वेद्यन्ते। वेदना अनुसृत्य लोभादयः क्लेशानुशयाः। अतो ज्ञायते धर्मानुपादायोत्पन्नोऽनुशयः सत्त्वेऽनुशेत इति। कस्मात् तत् ज्ञायते। यस्य सत्त्वस्याप्रहीणः सोऽनुशयः तस्य सोऽनुशयोऽनुशेते। यस्य तु प्रहीणः न तस्यानुशेतेऽनुशयः। यदि धर्मेऽनुशयोऽस्ति। धर्माणां नित्यसत्त्वादनुशया नित्यानुशयाः स्युः। नित्यस्याप्रहातव्यत्वात्। असत्त्वसंख्यातोऽपि सानुशयः स्यात्। तथा चेत् पुरुषस्यानुशयोऽस्तीति भित्त्यादिरनुशयवान् स्यात्। पुरुषस्य विज्ञानमस्तीति भित्त्यादिरपि विज्ञानवान् स्यात्। नेदं वस्तुतोऽस्ति। तथार्हन्न स्यात्। अन्येषां पुरुषपुद्गलानामनुशयोऽस्तीति [सो]ऽनुशयवान्[स्यात्]।

(पृ) अयमनुशयः अप्रहीणः सन् अनुशेते। प्रहीणस्सन्नानुशेते। (उ) द्विधाऽनुशयोऽनुशेते। (१) आलम्बनतोनुशयनम् (२) सम्प्रयोगतोऽनुशयनमिति। अयमनुशयो यदि प्रहीणो यदि वाऽप्रहीणः स आलम्बनतः संप्रयोगतश्च। कस्मादुच्यते प्रहीणः सन् नानुशेत इति। तथा चेत् तृतीयानुशयनलक्षणं वक्तव्यम्। अनभिधानात् ज्ञातव्यं नास्तीति। अनुशयो भूम्यन्तरालम्बनो नानुशेते। अतो ज्ञायते सत्त्वमात्रेऽनुशयो न धर्म इति।

(पृ) द्विधाऽनुशयोऽनुशेत (१) आलम्बनतोऽनुशयः (२) सम्प्रयोगतोऽनुशय इति। एषां सत्त्वानामनुशया नालम्बनतो न सम्प्रयोगतः। कथं भविष्यत्यनुशयः। (उ) प्रत्युक्तपूर्वमिदम्-अनुशया धर्ममुपादायोत्पन्नाः सत्त्वेऽनुशेरत इति। यथोक्तमभिधर्मकाये-कामधातुकसत्त्वानां कत्यनुशया इत्यादि। यदि सत्त्वेषु नानुशयीरन्। कथमेतादृशः प्रश्नः स्यात्।

(पृ) यद्यनुशयः सत्त्वेऽनुशेते। सुखायां वेदनायां रागोऽनुशय इति सूत्रोक्तं विरुध्येत। (उ) नेदं पार्यन्तिकं वचनम्। वक्तव्यं खलु सुखायां वेदनायां समुत्पन्नो रागः सत्त्वेऽनुशेत इति। (पृ) स रागो रूपादीनुपादायापि भवति। कुतोऽत्रोच्यते केवलं सुखवेदनामुपादाय भवतीति। (उ) संज्ञानुस्मरणविकल्पप्रीत्यादिना राग उत्पद्यते न तु रूपादिमात्रात्। (पृ) दुःखवेदनामुपादायापि रागो भवति। यथा वदन्ति-सुखी न प्रार्थयते दुःखी तु बहु प्रार्थयते। कस्मात्केवलमुक्तं सुखवेदनातो भवतीति। (उ) न दुःखवेदनया राग उत्पद्यते। दुःखस्य पीडनात्मकत्वात् पुरुषस्य सुखायां वेदनायामेव राग उत्पद्यते।

(पृ) अदुःखासुखायां वेदनायामपि रागानुशयोऽनुशेते। कस्मादुक्तं केवलं सुखायां वेदनायामिति। (उ) अदुःखासुखवेदनाः सुख[रूप] त्वात् [तत्र] पुरुषस्य राग उत्पद्यते। अत उच्यते सुखायां वेदनायां रागानुशय इति। तासु त्रिषु वेदनासु त्रयः क्लेशा अनुशया इत्यतस्त्रय एवोच्यन्ते॥

अकुशलमूलवर्गः पञ्चत्रिंशदुत्तरशततमः।

१३६ सङ्कीर्णक्लेशवर्गः

(पृ) सूत्र उक्तम्-त्रय आस्रवाः-कामास्रवो भवास्रवोऽविद्यास्रव इति। कतमे इमे। (उ) कामधातावविद्यां वर्जयित्वा अन्ये सर्वे क्लेशाः कामास्रवा इत्युच्यन्ते। एवं रुपारूप्यधात्वोर्भवास्रवः। त्रैधातुकी चाविद्या अविद्यास्रवः।

(पृ) आस्रवाः कथं वर्धन्ते। (उ) उत्तमाधमध्यमधर्मैः क्रमशो वर्धन्ते। रूपादिविशिष्टालम्बनलाभाच्च वर्धन्ते। (पृ) इमे त्रय आस्रवाः; कथं वदन्ति सप्तास्रवा इति। (उ) वस्तुत आस्रवा द्विविधाः सत्यदर्शनहेया [ये] आस्रवाणां मूलभूताः। भावनाहेया [ये] आस्रवाणां फलभूताः। पञ्चभिरारास्रवसहकारिभिः प्रत्ययै मिलित्वा सप्त भवन्ति। ते क्लेशा एव। भगवानर्थत आह-त्रय आस्रवाः, चत्वार ओघाः, चत्वारो बन्धाः, चत्वार्युपादानानि, चत्वारो ग्रन्था इत्यादि।

(पृ) चत्वार ओघाः कामौघो भवौघो दृष्ट्योधोऽविद्यौघ इति। कतम इमे। (उ) दृष्टिमविद्याञ्च वर्जयित्वा तदन्ये कामधातुकक्लेशाः सर्वे कामौघ इत्युच्यते। रूपारूप्यधातुकभबौघोऽप्येवम्। सर्वा दृष्टयो दृष्टयौघः। अविद्या अविद्यौघः। (पृ) ओघेषु कस्मात् दृष्ट्यौघः पृथगुच्यते। नास्रवेषु। (उ) तीर्थिका बहवो दृष्टिवाहिताः। अत ओघेषु पृथगुच्यते। च्युतिं बहतीति ओघः। त्रीन् भवान् बध्नातीति बन्धः।

(पृ) चत्वार्युपादानानि-कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानमिति। कतमानीमानि। (उ) आत्मनोऽभावात् तद्वादोपादानमात्मवादोपादानम्। अस्त्यात्मेति पश्यतोऽन्तद्वयं भवति-अयमात्मा नित्योऽनित्योवेति। अनित्य इत्यवधारयन् पञ्चकामगुणानुपादत्ते। नास्ति परलोक इति दृष्टसुख आसज्यते। नित्य इत्यवधारयन् मन्देन्द्रियः पारलौकिकसुखमाकांक्षमाणः शीलव्रतमुपादत्ते। किञ्चित्तीक्ष्णेन्द्रिय एवं चिन्तयति-यदि जीवो नित्यः तदा अदुःखसुखविकारः, तदा पुण्यपापाभावादिति मिथ्यादृष्टिमुत्पादयति। एवमात्मवादमुपादायैव चत्वार्युपादानानि भवन्ति।

(पृ) चत्वारो ग्रन्थाः अभिध्याकायग्रन्थो व्यापादः कायग्रन्थः शीलव्रतपरामर्शः कायग्रन्थः इदं सत्याभिनिवेशः कायग्रन्थ इति। कतम इमे। (उ) परद्रव्याभिध्यया अन्यस्मिन्नददति द्वेषबुद्धिमुत्पादयति, कशाशस्त्रादिना [गृह्णाति]। गृहस्थानामिदं विग्रहमूलम्, सुखान्तनुवर्तनमित्युच्यते। यः शीलव्रतपरामर्शकः कामयते अनेन शीलव्रतेन विशुद्धिं लभेय इति। तस्येदमेव तथ्यमन्यन्मिथ्येति दृष्टिर्भवति। इदं प्रव्रजितानां विवादमूलं, दुःखान्तानुवर्तनमित्युच्यते। पञ्च स्कन्धाः काय इत्युच्यन्ते। चत्वार इमे ग्रन्था अवश्यं कायवाङ्‍मया इति कायग्रन्थ इत्युच्यन्ते। केचिदाहुः-चत्वार इमे धर्मा जननमरणे सङ्‍ग्रऽथ्नन्तीति ग्रन्थाः।

(पृ) पञ्च नीवरणानि-कामच्छन्दो व्यापादः स्त्यानमिद्धं औद्धत्यकुकृत्यं विचिकित्सा चेति। कतमानीमानि। (उ) पुरुषस्य कामेषु अभिनिवेशाद्व्‍यापादोऽनुवर्तते। यथोक्तं सूत्रे-तृष्णात उत्पद्यते व्यापादः। ईर्ष्यादयः क्लेशाः कशाशस्त्रादिदुश्चरितानि च कामच्छन्दादुत्पद्यन्ते इति। पुरुषोऽयं कायचित्तयो रागद्वेषपरिक्षिप्यमाणयोर्बहुव्यापारैः परिच्छिन्नयोश्च स्त्यानमिद्धमिच्छति। स्त्यानमिद्धेन किञ्चिद्विश्रम्य पुना रागद्वेषविक्षिप्तचित्तो न ध्यानसमाधिं लभते। चित्तस्य बाह्यालम्बनानुवर्तनादौद्धत्यं भवति। अशुद्धकर्मकस्य पुरुषस्य चित्ते सदा दौर्मनस्यकौकृत्यं भवति। विक्षिप्तचित्तत्वात्कौकृत्यचित्तत्वाच्च सदा विचिकित्सते-विमुक्तिरस्ति नवेति। यथा राजकुमारोऽचिरवतं श्रमणोद्देशमवोचत्।

(पृ) कस्मान्नीवरणमित्याख्या। (उ) कामच्छन्दो व्यापादश्च शीलस्कन्धं निवृणुतः। औद्धत्यकुकृत्यं समाधिस्कन्धं निवृणोति। स्थानमित्थं प्रज्ञास्कन्धम्। केचित् तेषां नीवरणानां वर्जनाय वदन्ति- इदं कुशलमिदमकुशलमिति। स तत्र विचिकित्सते किमस्ति किं वा नास्तीति। सा विचिकित्सा सिद्धा स्कन्धत्रयं निवृणोति। एषु पञ्चसु नीवरणेषु त्रीणि दृढबलानीति केवलं नीवरणमित्युच्यन्ते। अन्ये द्वे नीवरणे तनुबले इति द्वौ धर्मौ सांसर्गिकौ। इमे द्वे नीवरणे जननकारणसहिते इत्यतः सांसर्गिके इत्युच्येत। स्त्यानमिद्धस्य पञ्चधर्माः प्रत्यया यदुत चाञ्चल्यमरतिर्विजृम्भिका, आहारेऽमात्रता चेतसोऽवलीनता इति। औद्धत्यकौकृत्यस्य चत्वारो धर्माः प्रत्ययाः-ज्ञातिवितर्को जनपदःवितर्कोऽमरणवितर्कः, पूर्वतनीनक्रीडितसुखितालापितहसितानुस्मरणमिति। इमानि जननकारणानि। प्रतिपक्षोऽपि समानः। स्त्यानमिद्धस्य प्रज्ञा प्रतिपक्षः। औद्धत्यकुकृत्यस्य समाधिः प्रतिपक्षः। निवारणमपि समानम्। इमे द्वे सांसर्गिके नीवरणे। इमे पञ्चधर्मा नीवरणानि वा भवन्ति। अनीवरणानि वा भवन्ति। कामधात्वाप्ता अकुशला नीवरणानि। अन्यात्रानीवरणानि।

पञ्चावरभागीयेषु संयोजनेषु कामच्छन्दो व्यापादः शीलब्रतपरामर्शः अवरगमनार्थत्वादवरभागीयानि। तद्यथा गोव्रतिकः संसिद्धः कायस्य भेदात्परं मरणात् गवां सहव्यतामुपपद्यते। असंसिद्धो नरके पतति। विचिकित्सा वैराग्यस्य विघ्नभूता। सत्कायदृष्टिश्चतुर्णां मूलम्। इतीमानि पञ्च। कामच्छन्दव्यापादौ कामधातोर्नातिवर्तेते। सत्कायदृष्टिरात्मबुद्धेर्नातिवर्तते। शीलव्रतपरामर्शोऽवरधर्मान्नातिवर्तते। विचिकित्सा पृथग्जनत्वान्नातिवर्तते। कामच्छन्दव्यापादौ कामधातुं नातिक्रामतः। अतिक्रमे पुनराक्षिप्यते। अन्यानि त्रीणि पृथग्जनत्वं नातिक्रामन्ति। अत उच्यन्तेऽवरभागीयानीति।

पञ्चोर्ध्वभागीयानि [औद्धत्यं मानोऽविद्या रूपरागः अरूपरागः।] औद्धत्यस्य ध्यानसमाधिविधातित्वान्न चित्तमुपशाम्यति। इदमौद्धत्यस्य निमित्तग्रहानुवर्तनान्मानः प्रवर्तते। निमित्तग्राहि चित्तमिदमविद्यासम्भूतमित्यतो रूपरागोऽरूपरागश्च स्तः। तानि पञ्च संयोजनानि शैक्षजनानामूर्ध्वसमुदाचरणार्थत्वादूर्ध्वभागीयानीत्युच्यन्ते। तानि शैक्षजनानां चित्त उच्यन्ते न पृथग्जनानाम्। (पृ) औद्धत्यं कस्मात् रूपारूप्यधातुकं संयोजनं न कामधातुकम्। (उ) तत्र स्थूलक्लेशाभावादौद्धत्यं व्यक्तं भवति। तदौद्धत्यं समाधिभङ्गे बलवदित्यतः संयोजनमित्युच्यते। तदूर्ध्वभागीयं समुच्छेदयतो विमुक्तिर्लभ्यते। केषाञ्चित् रूपे आरूप्ये च विमुक्तिसंज्ञा भवति। तत्प्रतिषेधायोच्यते सन्त्यूर्ध्वभागीयानि संयोजनानीति।

पञ्च मात्सर्याणि-आवासमात्सर्यं, कुलमात्सर्यं, लाभमात्सर्यं, वर्णमात्सर्यं धर्ममात्सर्यमिति। [तत्र] आवासमात्सर्यम्-अहमेव अत्र वसामीति नान्यान् प्रयोजयति। कुलमात्सर्यम्-कुलमिदमहमेव प्रविशामीति नान्यान् प्रयोजयति। सत्स्वप्यन्येषु अहमेवोत्कृष्ट इति। लाभमात्सर्यमिति-अहमेवात्र दानं लप्स्य मान्येभ्यः प्रयच्छतु इति। अन्ये सन्त्योऽपि मा मामतिक्रामन्तु। वर्णमात्सर्यम्-मामेव वर्णय, मान्यान्। अन्यान् वर्णयन्नपि मा मामतिरिच्यतु इति। धर्ममात्सर्यम्-अहमेव द्वादशाङ्गप्रवचनार्थं जानामि। गभीरमर्थरहस्यं जानन्नपि न प्रवदामीति।

(पृ) पञ्च मात्सर्याणां के दोषाः। (उ) इम आवासादयो बहूनां पुरुषाणां साधारणाः। अयन्तु स्वकुलं त्यक्त्वा साधारणभूतेषु मात्सर्यमुत्पादयति। इत्ययं दोषक्लेशः। स विमुक्तेर्नैव भागी भवति। कस्मात्। स साधारणभूतान् धर्मानेव न त्यजति। कः पुनर्वादः स्वीयान् पञ्च स्कन्धान् त्यजतीति। स च प्रेतादीनां दुरुपपत्त्यायतनेषु पतति। लाभनिवृत्तचित्तस्य मान उत्पद्यते। सज्जनानन्यान् लघूकृत्य नरके पतति। अन्येभ्यो दानभङ्गान्मनुष्यदेहं लाभमानो दरिद्रो भवति। मात्सर्यचित्तेन दातर्गुणं प्रतिग्रहीतुर्देयञ्च समुच्छेदयतीत्यतो गुरुतरं पापं लभते। धर्ममत्सरोऽन्धादिपापभाग्भवति। तद्यथा जात्यन्धस्य सपत्नबहुलानाञ्च जन्म न स्वातन्त्रयप्रापकम्। आर्यगर्भाच्च परिहीयते। त्रिषु अध्वसु दशसु दिक्षु [गतानां] बुद्धानां शत्रुः सन् संसारे संसरन् सदा मूढो भवति। सज्जनान् दूरीकरोति। सज्जनदूरीकरणादकुशलं विना न वर्तते। अकुशलं त्रिविधम्-अकुशलाकुशलं महाकुशलं अकुशलमध्याकुशलमिति। अकुशलं प्राणातिपातादत्तादानादि। महाकुशलं यदात्महननं, परस्त्यात्महननसमादापनं, स्वयं मात्सर्य[करणं] परस्य मात्सर्यसमादापनम्। स धर्ममात्सर्येण बहून् पुरुषानुकुशले पातयति। बुद्धधर्ममार्गञ्च क्षपयति। यथोक्तं सूत्रे- सन्त्यावासमात्सर्यस्य पञ्च दोषाः-अनागतस्य सुभिक्षोरागमनाय नेच्छति। आगतं पुनस्तर्जयन्न तृप्यति। गमनायानुचिन्तयति। सङ्घदेयं गोपयति। सङ्घदेयेषु आत्मीयबुद्धिं करोति। कुलमात्सर्यस्य पञ्च दोषाः-कुलाभिनिवेशादवदातवसनैस्तुल्यसुखदुःखो भवति। धनायावदातवसनं प्रजहाति। प्रतिग्रहीतुर्दानं लभते। तदुभयप्रहाणात्तस्मिन् कुले वर्चः कुट्यां भूतत्वायोत्पद्यते। लाभमात्सर्यस्य पञ्च दोषाः-सदा सम्भारसम्भवाय क्लमति। द्वयोर्भेदेन लाभी भवति। सज्जनान् निन्दति सदा दौर्मनस्यचित्तः। वर्णमात्सर्यस्य पञ्च दोषाः-अन्येषां वर्णं श्रुत्वा व्याकुलकषायचित्तो भवति। शतसहस्रेषु लोकेषु अशुद्धचित्तः सज्जनानधिक्षिपति। आत्मोन्नत्या परानवनमति। दुर्यशोऽन्तर्धापयति इति। सर्वेषां मात्सर्याणां सामान्यत इमे दोषाः सन्ति-प्रभूतधनसञ्चयः। परिषद्भीरुता, बहुजनविद्वेषिता, सदा व्याकुलचित्तता, आत्मनः सदैकाकिता, अवरकुले जन्म इत्येवमादयोऽप्रमाणाः पञ्चमात्सर्याणां दोषाः।

पञ्च चेतः खिलाः-[इहायुष्मन्तो भिक्षुः] शास्तरि विचिकित्सते, धर्मे विचिकित्सते, शीले विचिकित्सते, शिक्षायां विचिकित्सते। यो भिक्षुः शास्तुर्महापुरुषाणाञ्च वर्णवादी, तस्मिन् जने अनात्तमना आहतचित्तो भवति। अयं पञ्चमः। शास्तरि विचिकित्सक एवं चिन्तयति-किं शास्ता महान्, किं वा पूरणादयः इति। धर्मे विचिकित्सक [एवं चिन्तयति] किं शास्तुः प्रवचनमुत्कृष्टमुत वेदस्येति। शीले विचिकित्सते किं शास्तृप्रोक्तं प्रवचनमुत्कृष्टं, किं वा कुक्कटश्वादिव्रतमिति। शिक्षायां विचिकित्सते किं मानपानादि धर्मो निर्वाणं गमयति उत नेति। अनात्तमना आहत [चित्तो] व्यापादबुद्ध्या भयगौरवचित्तं विना सज्जनान् गर्हयति। एभिः पञ्चभिः धर्मैर्विप्रलुप्तचित्तो, न नानाकुशलेन्द्रियाण्यवष्टम्भयति। अतश्चेतः खिल इत्युच्यते।

(पृ) कस्माच्छास्त्रादौ विचिकित्सते। (उ) सोऽबहुश्रतत्वाद्विचिकित्सते। बहुश्रुतस्य तु विचिकित्सा आल्पीयसी भवति। स च बालो मूढोऽज्ञो न तथागतधर्मान्यधर्मयोर्विवेकं प्रजानाति। अतो विचिकित्सते। धर्मे च नास्वादं लभते। अतश्च। विचिकित्सते। न च वेददीन् ग्रन्थान् शृणोति अध्येति वा। जनैर्वर्णितं श्रुत्वा उत्कृष्टचित्तमुत्पादयति। अध्वन्यध्वनि बहुलमिथ्याविचिकित्सः सदा कलुषितचित्ततया शास्त्रादौ विचिकित्सते। यथा शास्तुरुपस्थायकः सुनक्षत्रः। स च मिथ्यादृष्टिबहुलैः पुरुषैः समानकृत्यतया विचिकित्सते। किञ्च वेदव्याकरणादीनि मिथ्यादृष्टिसूत्राण्यधीयानः परिभिन्नसम्यक्प्रज्ञो भवति इत्यतो विचिकित्सते। धर्माणां [यथाश्रुते]ऽर्थे प्रीतः कुस्मृतिं जनयन् न सूत्रकृदाशयं लब्धुं शक्नोति। अतो विचिकित्सते सर्वदा स्वहितालाभप्रत्ययतः शास्त्रादिषु विचिकित्सते।

पञ्च चेतसो विनिबन्धाः-यः कायोऽविगतरागो स काय आसज्यते। कामेष्ववीतरागः कामेष्वासज्यते। गृहस्थेन प्रब्रजितस्य समागमः। आर्यवचने चेतो न प्रहृष्यति। अल्पहितवस्तुनात्मानं पूर्णं मन्यते। तत्र चत्वारो विनिबन्धाः कामरागमुपादायोद्भवन्ति। य आध्यात्मिकात्मभावेऽविगतरागः स बाह्यरूपादिकामेष्वासज्यते। अत उभयोः समागममभिलषति। अभिलाषाव्याकुलतया आर्यवचने उपशमप्रदर्शने धर्मे न प्रहृष्यति। अतः शीलबाहुश्रुत्यध्यानसमाध्यादिष्वल्पं हितं वस्तु लब्ध्वा तेनात्मानं पूर्णं मन्यते। तदल्पहितवस्त्वभिनिवेशान्महाहितं विस्मरति। प्राज्ञस्तु नाल्पहिताभिनिविष्टो महाहितं विघ्नयेत्। अयं यद्यष्टाक्षणविहीनः [सः] पुरुषकायं दुष्करं लब्ध्ववानित्यतश्चित्तैकाग्र्येण वीर्यमारभेत। पृथग्जनता चाश्रद्धेया। अस्य समग्रस्य प्रत्ययस्य विगमेऽन्ये प्रत्यया भवन्ति। [इति] नैवार्यमार्गेऽवतरति [पृथग्जनः]। अल्पहितमकामयमानः प्रव्रज्याफलविपाकं लभते। म्रियमाणश्च न विप्रतिसरति। स्वपरहितञ्च करोति। सगुणेष्वेव नाभिनिविशते। कः पुनर्वादोऽकुशले धर्मे। अतः [स] सम्यगाचार इत्युच्यते। पृथग्जनादीनवा न किमपि संक्लेशयन्ति।

(पृ) के पृथग्जनानामादीनवाः। (उ) सूत्र उक्तं-पृथग्जनो विंशतिधा स्वचित्तं निगृह्यैवं चिन्तयेत्-मम विभिन्नाकारवेषमात्रस्य वृथा, न किञ्चिल्लभ्यम्, अशुभेन [पथा] मरिष्यामि, महाभयार्णवे पतिष्यामि, तद्भयस्थाने न ज्ञास्याम्यभयस्थानं, नापि ज्ञास्यामि मार्गं, न ध्यानसमाधीन् लप्स्ये, असकृत्कायदुःखमनुभविष्यामि, दुष्परिहारा भविष्यन्त्यष्टावक्षणाः, शत्रुः सदाऽनुसरिष्यति, सर्वे मार्गा विवृताः, दुर्गतेरविमोक्षः, अप्रमाणदृष्टिभिः सदा विनिबन्धः, पञ्चस्वानन्तर्येषु अप्रतिबन्धः, अनादिः संसारो नान्तवान्, अकुर्वतो न पुण्यपापप्रतिलाभः। कुशलाकुशलयोर्न प्रतिनिधिलाभः। न सद्धर्म करोमि, नैवास्ति सुखलयः कृतयोः कुशलाकुशलयोर्नैव विस्मृतिर्विनाशो वा आमरणं न दान्तो भविष्यामि इति। एते विंशतिधर्माः कं न दूषयन्ति। कर्तव्यमयं कृतवानित्यतश्चित्तं न विप्रतिसरति। [कामा] भिनिविष्ठस्य गार्हस्थ्यधर्मः प्रव्रज्याधर्मश्चन सिध्यतः। अतो नाल्पहितेऽभिनिवेशेत्।

सप्तानुशयाः। (पृ) क्लेशाः कस्मादनुशय इत्युच्यन्ते। (उ) जननमरणसन्ताने सदा सत्त्वमनुर्वर्तत इत्यनुशयः। तद्यथा धात्री सदा बालमनुवर्तते। यथा वाऽविमुक्तो वातज्वरः। यथा वा ऋणी अनुदिनमुच्छवसति। यथा वा अनपगतमाखुविषम्। तप्तायसः कृष्णलक्षणम्। यथा वा यवस्याड्‍कुरः। स्वयंदत्तदासपत्रत्वम्। यथा वा प्रणष्टस्य वस्तुनः साक्षिजनः। यथा प्रज्ञा क्रमशः समुपचीयमाना [ऽस्ति]। यथा कर्म सदोपचीयामानम्। यथा ज्वाला सन्तन्यते। एवं क्रमेण सन्तत्या वर्धत इत्यनुशय इत्युच्यते।

(पृ) अयमनुशयः किं चित्तसम्प्रयुक्तः किं वा चित्तविप्रयुक्तः। (उ) चित्तसम्प्रयुक्तः। कस्मात्। रागादयोऽनुशयलक्षणाः। इमेऽनुशयलक्षणाः सौमनस्यसम्प्रयुक्ताः। यदिदं सौमनस्यं चित्तविप्रयुक्तमितीदं न युज्यते। सौमनस्यमिदं यदि सुखायां वेदनायां वर्तते [तदा] रागानुशय इत्युच्यते। रागो नामासङ्गः। चित्तविप्रयुक्ते नासङ्गभावोऽस्ति। अतो ज्ञायतेऽनुशयाश्चित्तसम्प्रयुक्ता इति।

(पृ) न युक्त[मिद]म्। अनुशया न चित्तसम्प्रयुक्ताः। कस्मात्। उक्तं हि सूत्रे-बालानां मैथुनचित्तमेव नास्ति। कः पुनर्वादो मैथुनरागसामर्थ्यम्। रागानुशयानुशयिताश्च भवन्ति इति। किञ्चाह-नास्ति चेतना नास्ति विकल्पः। विज्ञाप्रतिष्ठितमालम्बनञ्चास्ति इति। किञ्चोक्तं सूत्रे-सत्कायदृष्टिसमुच्छेदेऽनुशयाः सहैव समुच्छिद्यन्ते इति। आर्यमार्गश्च न क्लेशानां यौगपद्यं लभते। अत आर्यमार्गसमुत्पादश्चित्तविप्रयुक्तानुशयसमुच्छेदकः। तथा नोचेत् आर्यमार्गेण कस्य समुच्छेदः स्यात्। यदि नास्ति चित्तविप्रयुक्तोऽनुशयः। पृथग्जनाः शैक्षजनाश्च यदा कुशलचित्तेऽव्याकृतचित्ते च वर्तन्ते। तदा अर्हन्तः स्युः। अनुशयश्च पर्यवस्थानहेतुः। अनुशयात्पर्यवस्थानमुत्पद्यते। पर्यवस्थानलब्धोऽनुशयो वर्धते। अतो ज्ञायतेऽनुशयाश्चित्तविप्रयुक्ता इति। यदि कश्चित्कुशलाव्याकृतचित्तोऽपि सानुशय इत्युच्यते। यस्य नास्ति चित्तविप्रयुक्तोऽनुशयः। कुतोऽनुशयवान् भवति। अतो जायतेऽनुशयश्चित्तविप्रयुक्त इति।

अत्रोच्यते। न युक्तमिदम्। यदुक्तं बालानामसति रागे रागानुशयोऽस्तीति। तदयुक्तम्। बालानां रागापनयनौषधालाभादप्रहीणकामरागा इत्यतो रागानुशयोऽनुशेते। यथा भूतसमाविष्टोऽनुद्‍भवकालेऽपि भूतसमाविष्ट इत्युच्यते। कस्मात्। तद्व्याधिप्रशमनमन्त्रोषधानामलाभात्। यथा च चतुर्दिनज्वरार्तो दिनद्वये [ज्वरा]नुद्भवेऽपि ज्वरार्त इत्युच्यते। यथा वा आखुविषमनपनीतव्याधित्वाद्धनगर्जने प्रादुर्भवति। एवं यस्मिन् चित्तेऽनुशयापनयनमोषधमप्रतिलब्धम्। [तत्] अप्रहीणा[नुशय]मित्युच्यते। अन्येऽपि प्रश्नाः सामान्यतः प्रत्युक्ता एव। यदुच्यते भवता नास्ति चेतना नास्ति विकल्पः विज्ञानस्यमालम्बनमस्ति इति। तदपि अप्रहीणानुशयत्वात्। यदाह भवान्- सत्कायदृष्टिरनुशयेन सह समुच्छिद्यत इति। भवतः पर्यवस्थानं चित्तसम्प्रयुक्तम्। अनुत्पत्तिकाले। प्रहीणमेव। एवमनुशयोऽपि। आर्यमार्गकालेऽविद्यमानमपि प्रहीणमित्युच्यते। विरोधिधर्मप्रतिलम्भात्। यद्ब्रवीषि-मार्गः क्लेशैः सह नैककालिकोऽस्तीति। [तत्]अप्रहीणत्वादस्तीत्युच्यते। यदवोचः पृथग्जनाः शैक्षजनाश्च यदि कुशलाव्याकृतचित्तगताः, तदा अर्हन्तः स्युरिति। प्रहीण[क्लेशो]ऽर्हन्। तेषान्त्वप्रहीण[क्लेश]त्वात्। यथा कश्चिन्मासवर्जनधर्ममसमादानो मांसमभुञ्जन्नपि न वर्जितमांस इत्युच्यते। अविद्यामिथ्यास्मृतिमिथ्यासङ्कल्पादयः सन्तीत्यतोऽप्रहीणाः क्लेशास्तदा समुत्पद्यन्ते। अर्हतस्तु नास्ति सहेतुरिति नान्यैः साम्यम्। यदुक्तं त्वया पर्यवस्थानलब्धोऽनुशयस्तु वर्धत इति। तदयुक्तम्। सर्वे क्लेशा उत्तममध्यमावरधर्मैर्वर्धन्ते, न पर्यवस्थानलाभात्। यद्ब्रषीषि कुशलाव्याकृतचित्तगतोऽनुशयवान् स्यादिति। तदपि अप्रहीणत्वादनुशयवानित्युच्यते। एभिः कारणैर्ज्ञायतेऽनुशया न [चित्त] विप्रयुक्ता इति।

अष्ट मिथ्यामार्गाः-मिथ्यादृष्टिर्यावन्मिथ्यासमाधिरिति। अयथाभूतविपर्यय ज्ञानदर्शनान्मिथ्यादृष्टिः यावन्मिथ्यासमाधिः। (पृ) सम्यगाजीवो मिथ्याजीवश्च न कायवाक्कर्मव्यतिरिक्तौ। कस्मात्पृथगुच्यते। (उ) मिथ्याजीवः प्रव्रजितानां दुस्समुच्छेदत्वात् पृथगुच्यते। मिथ्याजीवो [येन] मायाशाठ्यादयः पञ्चधर्माः पुष्टिं लभन्ते स मिथ्याजीवः। संक्षिप्येदमुच्यते-प्रव्रजितानामकार्यं धनार्जनकर्म यदुत राजसेवावाणिज्यरोगचिकित्सादिकर्म। अनादेयञ्च प्राणिधधनधान्यादि। आदाने मिथ्याजीवः। विनये यत्प्रतिषिद्धं तेन च स्वात्मजीवनं मिथ्याजीवः। यथोक्तं सूत्रे-पञ्च वाणिज्यान्युपासकेनाकरणीयानीति। (पृ) केन कुर्याज्जीवितम्। यथाधर्मभिक्षया जीवेत्। न मिथ्याजीवं जीवेत्। कस्मात्। अविशुद्धचेतसा सद्धर्मं प्रणाशयति। मार्गयोगानवष्टम्भात्। मार्गावचर एवं चिन्तयेत्-भगवतः शासनेऽवतारो मार्गाचरणार्थः न जीवनार्थ इति। अतः सद्धर्माभिरतः परिशुद्धजीवनमाचरेत्। भिक्षुर्भिक्षधर्मे सुनिष्णातः स्यात्। यो मिथ्याजीवनमाचरति, न [स] भिक्षुधर्मा भवति॥

सङ्कीर्णक्लेशवर्गः षट्‍त्रिंशदुत्तरशततमः।

१३७ नवसंयोजनवर्गः

तृष्णादीनि नवसंयोजनानि। (पृ) कस्माद् दृष्टिषु द्विधा परामर्श उच्यते। (उ) शीलव्रतपरामर्शस्य दुर्विमोकत्वात्। यथा उडुपमोघपतितं दुस्तरं भवति। तथाऽयमपि। एवं चिन्तयति-अहमनेन शीलेन स्वर्ग उत्पत्स्य इति। तदर्थञ्च जलमज्जन दहनप्रवेशभृगुपतनादीनि नाना दुःखान्यनुभवामीति। लौकिका न शीलव्रतपरामर्शस्य दोषं पश्यन्ति। अत उक्तं भगवता संयोजनमिति। तं शीलव्रतपरामर्शं निश्रित्य अष्टाङ्गमार्गमुपेक्षन्ते। सोऽसम्यङ्‍मार्गोऽव्यवदानमार्गो दुःखान्तानुवर्तनमित्युच्यते। शीलव्रतपरामर्शः प्रव्रजितानां विनिबन्धः। कामा गृहस्थानाम्। शीलव्रतपरामर्शी यद्यपि नानाप्रव्रज्याधर्मानाचरति। तथापि वृथा न किञ्चिदनेन लभ्यते। स नैहिकं सुखं विन्दते, परत्र च महद्दुःखमनुभवति। यथागोव्रतिकः संसिद्धव्रतिको गौर्भवति। विक्षिप्तव्रतो नरके पतति। तच्छीलव्रतपरामर्शमुपादाय सम्यङ् मार्गं सम्यङ् मार्गचारिणञ्चापवदति। शीलव्रतपरामर्शः तीर्थिकानां मानोत्पत्तिस्थानम्। [त] एवं चिन्तयन्ति-अहमनेन धर्मेणान्यमतिशेय इति। शीलव्रतपरामर्शहेतुना षण्णवतिधा विभक्ता धर्मा सन्ति। शीलव्रतपरामर्शः स्थूलदर्शन इत्यतो बहूनां सत्वानां गोचरः। प्रज्ञामार्गस्त्वतिसूक्ष्मो दुर्दर्शनः। लौकिका न प्रजानन्ति तदाचरणहितम्। सा च दृष्टिर्जनानां चित्तं हरति। अतो बाला बहवस्तं धर्ममाचरन्ति। सा गुर्वी पापिका दृष्टिरित्युच्यते। सम्यङ्‍मार्गाचारस्य प्रतिलोम्येनामार्गत्वात्।

दृष्टिपरामर्शो येनासद्धर्माभिनिविष्टस्तत्परिहर्तुमसमर्थो भवति। तदृष्टिपरामर्शस्य बलम्। तद्वलेन च संयोजनानि दृढानि भवन्ति। (पृ) शक्नप्रश्ने कस्मात्केवलमुक्तमीर्ष्यामात्सर्यसंयोजना देवामनुष्या इति। (उ) इदं क्लेशद्वयमतिग्राम्यं जवन्यम्। कस्मात्। पश्यामः खलु परसत्त्वान् क्षुत्पिपासापीडितान्, मात्सर्यचित्तत्वान्नातिक्रान्तान्। [ते] परतो लब्धं दृष्ट्वाऽपि ईर्ष्यासूयाचित्तमुत्पादयन्ति सोत्कण्ठासन्तापम्। अनेन कारणेन च दरिद्राणां नीचानां कुत्सितानामतेजस्विनाञ्च स्थाने पतन्ति। शक्रस्य देवानामिन्द्रिस्यैतत्संयोजनं बहुतरमसकृदागत्य चित्तं पीडयति। अतो भगवान् वचनमाह। तत्संयोजनद्वयं गुरुपापकस्य निदानम्। कस्मात्। तदुपादाय गुरूणि पापकर्माण्युद्भवन्ति।

त्रिषु विषेषु रागः प्रतिघश्च गुरुपापकमुत्पादयति। तयोर्विवृध्या तत्संयोजनद्वयमुत्पद्यते। तत्संयोजनद्वयं स्त्रियं पुरुषञ्च पीडयति। दुरुत्सर्गञ्च भवति। कस्मात्। यः कुशलचित्तं निभृतं भावयति। सोऽत्यन्तमीर्ष्यासूयं समुच्छेदयति। दानञ्च निभृतमभ्यस्यान्ते सर्वमात्सर्यचित्तं समुच्छेदयति। कर्मविपाकमपश्यन् तद्‍गुरुतरवस्तु त्यजतीदमति दुष्करम्। यथा कस्यचित्स्वत उत्कृष्टवस्तुलाभिनं पुत्रमेव पश्यतश्चित्तं दुष्प्रीतिकं भवति। कः पुनर्वादः शत्रुम्। तत्संयोजनद्वयोः प्रियविप्रयनिश्चितत्वादतिदुष्करः परित्यागः। अस्मात् कर्मप्रत्ययात् भगवता केवलमुक्तम्॥

नवसंयोजनवर्गः सप्तत्रिंशदुत्तरशततमः।

१३८ प्रकीर्णप्रश्नवर्गः

शास्त्रमाह-सर्वे क्लेशा भूयसा दशानुशयसङ्‍गृहीताः। अतो दशानुशयानुपादाय शास्त्रं रचितव्यम्। दशानुशया इति रागप्रतिघभानाविद्याविचिकित्साः पञ्चदृष्टयश्च। (पृ) दशक्लेशमहाभूमिकधर्माः तद्यथा अश्राद्धयं कौसीद्यं मुषितस्मृतिता विक्षेपोऽविद्याऽसम्प्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्च। इमे धर्माः सर्वक्लेशचित्तैः सदा सम्प्रयुक्ताः। कथमिदम्। (उ) सत्प्रयोगः पूर्वं खण्डित एव। चैतसिकश्चैकैक एवोत्पद्यते। अतो न युज्यते। न च सन् न्यायो भवति। केनेदं ज्ञायते। किञ्चिदकुशलचित्तकुशलश्रद्धासमन्वितमस्ति। किञ्चिदकुशलचित्तं श्रद्धासमन्वितं नास्ति। तथा वीर्यादिकमपि। अतो ज्ञायते न सर्वक्लेशचित्तेषु ते दश धर्माः सन्तीति। यद्भवानाह-मिद्धमौद्धत्यं सर्वक्लेशचित्तेषु वर्तत इति। तदयुक्तम्। यदा चित्तं लीनं भवति। तस्मिन् समये मिद्धसमन्वितं स्यात्। नौद्धत्यचित्ते स्यात् इतीदृशा दोषाः सन्ति।

(पृ) कामधातौ सकला दशक्लेशाः सन्ति। रूपधातावारूप्यधातौ च द्वेषवर्जिता अवशिष्टाः सन्ति। कथमिदम्। (उ) तत्रापि सन्तीर्ष्यादयः। केनेदं ज्ञायते। सूत्र उक्तम्-महाब्रह्मा ब्रह्मकायिकानामन्त्र्याह मा भवन्तो श्रमणं गौतममुपसङ्‍क्रमन्तु। इहेव तिष्ठत जरामरणस्यान्तं लप्स्यध्वे इति। इयमीर्ष्या। ईर्ष्यासत्त्वाद्वेषोऽपि भवेत्। उक्तञ्च सूत्रे-[अथ खलु केवधं] महाब्रह्मा तं भिक्षुं बाहौ गृहीत्वा एकमन्तमपनयित्वा तं भिक्षुमेतदवोचत्-अहमपि न जानामि यत्रेमानि चत्वारि महाभूतान्यपरिशेषाणि निरुध्यन्ते इति। एवं मायाचित्तेन ब्रह्मकायिकानां वञ्चनं मायेत्युच्यते। यदाह-अहमस्मि [महाब्रह्मा] कर्ता निर्माता श्रेष्ठ.......इति। अयं प्रमादः। इत्यादीनि छिद्राणि सन्ति। ईदृशानां पापकानां क्लेशानां सत्त्वात् ज्ञातव्यमस्ति च [तत्रा] अकुशलमिति।

केचिदाभिधर्मिका आहुः-मातापित्रुपाध्यायाचार्यादिषु यो रागः स कुशलरागः। अन्यपदार्थादिषु रागोऽकुशलरागः। अन्येषामुपकारोऽपकारो वा यन्न क्रियते। [अय] मव्याकृतरागः। असद्धर्मे दुर्विज्ञादिषु द्वेषः कुशलद्वेषः। सद्धर्मद्वेषः प्राणिद्वेषश्च अकुशलद्वेषः। योऽसत्त्वपदार्थद्वेषः अव्याकृतद्वेषो[ऽयम्]। यन्मानं निश्रित्य मानं समुच्छेदयति अयं कुशलमानः। अन्यस्य सत्त्वस्यावमानमकुशलमानः। अविद्यादिष्वप्येवं [वक्तव्यम्]।

किञ्चाहुराभिधर्मिकाः-यः कुशलः न [स] क्लेशो भवति। (पृ) कामधातौ सत्कायदृष्टिमव्याकृता वदन्ति। कस्मात्। यदि सत्कायदृष्टिररकुशला। सर्वे पृथग्जना आत्मचित्तमुत्पादयन्ति। ना[नेन] नरके पतनीया भवन्ति। अतोऽव्याकृतेति वदन्ति। कथमिदम्। (उ) सत्कायदृष्टिरियं सर्वक्लेशानां मूलम्। कथमव्याकृता। स परेषामात्मास्तीति वदन् पतति। तदा कथमव्याकृता भवेत्। एवमन्तग्रहदृष्टिरपि [वक्तव्या]। (पृ) यदि मिथ्यादृष्टिं प्रवर्तयित्वा संशये पातयति। किमिदमकुशलम्। (उ) नेदमकुशलम्। कस्मात्। वरं संशय एव पातयति न मिथ्यादृष्टावतारयति।

केचिदाहुः- कामधात्वाप्ताः क्लेशाः सर्वे कामभवसन्तानकराः। एवं रूपरूप्यधात्वाप्ता अपि। कथमिदम्। (उ) तृष्णैव भवसन्तानकरी। नन्दिपूर्विका हि जातिः। आह च-दुःखसमुदयस्तृष्णेति। अपि चाह-भोजनकामरागादितृष्णा सुखमिति। अतो यथास्थानं जन्म वेदयते। मिथ्यादृष्ट्यादिषु नैवमर्थोऽस्ति। सूत्रे यद्युप्युक्तं-मानप्रत्यया जातिरिति। तथापि मनापूर्वकतृष्णयोत्पद्यते। एवं द्वेषोऽपि। अतो ज्ञायते तृष्णया सर्वे भवसन्तानां भवन्तीति।

(पृ) क्लेशेषु कति सत्यदर्शनहेयाः कति भावनाहेयाः। (उ) रागप्रतिघमानाविद्या द्विधा सत्यदर्शनहेया भावनाहेयाश्च। अन्ये षट् सत्यदर्शनमात्रहेयाः। (पृ) शैक्षजनस्याप्यस्त्यहंबुद्धिः। अतो ज्ञायतेऽनिमित्तनिरूपणसत्कायदृष्टिभागः शैक्षजनस्याहेय इति। (उ) [अहं] मानोऽयं दृष्टिः। निमित्तनिरूपणा हि दृष्टिः। (पृ) केचिदाहुः- ईर्ष्यामात्सर्यकौकृत्यमायादयो भावनाहेया इति। कथमिदम्। (उ) इमे सर्वे द्विधाऽपि भवन्ति सत्यदर्शनहेया भावनाहेयाश्चेति। केनेदं ज्ञायते यथा नाथपुत्रादयो भगवच्छ्रावकान् सत्कारला भिनो दृष्ट्वा ईर्ष्याचित्तमुत्पादयमासुः। इयमीर्ष्या मार्गदर्शिनो निरुद्धेत्यतो ज्ञायते सत्यदर्शनहेयेति। कश्चित्पूर्वं भगवच्छ्रावकेषु मत्सरी सन् नाददत्। मार्गदर्शनलब्धः परं प्रायच्छत्। तदा मात्सर्यमिदं सत्यदर्शनहेयम्। यथा सुनक्षत्रादीनां कौकृत्यं सत्यदर्शनहेयमपि। यथा स्त्रोत‍आपन्नस्य नरकपतनप्रत्ययः अष्टमलोके कायवेदकमाया च सत्यदर्शनहेयाऽपि।

(पृ) क्लेशेषु कति दुःखदर्शनहेयाः कति समुदयनिरोधमार्गदर्शनहेयाः कति भावनाहेयाः। (उ) पूर्वोक्ताः सत्यदर्शनहेयाः षडनुशयाश्चतुर्धा भवन्ति दुःखदर्शनहेयाः समुदयनिरोधमार्गदर्शनहेयाः। अन्ये चत्वारोऽनुशयाः पञ्चधा भवन्ति। (पृ) सत्कायदृष्टिरन्तग्रहदृष्टिर्दुःखदर्शनमात्रहेयाः। शीलव्रतपरामर्शो द्विधा दुःखदर्शनमार्गदर्शनहेयाः। कथमिदम्। (उ) सर्वे क्लेशा वस्तुतो निरोधसत्यदर्शनकाले प्रहीयन्ते। अतः सत्कायदृष्ट्यादयो न दुःखदर्शनमात्रहेयाः स्युः। सत्कायदृष्टिश्चतुर्षु सत्येषु भ्रमति। पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः। आत्मा तु नानित्यो न प्रतीत्यसमुत्पन्नः। पञ्चस्कन्धाः सनिरोधाः, आत्मा त्वनिरोधः, मार्ग आत्मदृष्टेर्विरोधिधर्मः। अतः सत्कायदृष्टिश्चतुर्धा हेया। अन्तग्रहदृष्टिरपि चतुर्धा हेया। कस्मात्। योगी समुदयसम्भूतं दुःखं दृष्ट्वा उच्छेददृष्टिं व्यावर्तयति। मार्गलब्धं निरोधं दृष्ट्वा शाश्वतदृष्टिं व्यावर्तयति। शीलव्रतपरामर्शोऽपि चतुर्धा। हेतौ सति फलमस्ति। अतो दुःखं पश्यन् प्रजानाति-शीलं दुःखं, नानेन विशुद्धिर्लभ्यत इति। इदं समुदयदर्शनहेयम्। मिथ्यादृष्ट्या निर्वाणमपोद्यते, यदनया दृष्ट्या विशुद्धिर्लभ्यत इति। इदं निरोधदर्शनहेयम्। अनया मार्गोऽपोद्यते-इदं मार्गदर्शनहेयम्। यथा दृष्टिपरामर्शो मिथ्यादृष्ट्याश्रितेति चतुर्धा हेयः। एवं शीलव्रतपरामर्शोऽपि स्यात्।

(पृ) तथा चेन्न स्युरष्टनवतिरनुशयाः। सर्वेऽनुशया भूमिवशात्प्रहीयन्ते न धातुवशात्। अष्टनवतिरनुशया इति नान्तो भवति। (पृ) रागो मानो मिथ्यादृष्टिं वर्जयित्वा अन्याश्चतस्रो दृष्टयो दुःखदौर्मनस्येन्द्रिये वर्जयित्वा [तदन्य] त्रिविधेन्द्रियसम्प्रयुक्ताः। द्वेषोऽपि सुखसौमनस्येन्द्रिये वर्जयित्वा [तदन्य] त्रिविधेन्द्रियसम्प्रयुक्तः। अविद्या पञ्चेन्द्रियसम्प्रयुक्ता। मिथ्यादृष्टिर्विचिकित्सा च दुःखेन्द्रियवर्जं चतुरिन्द्रियसम्प्रयुक्ता। द्वेषम्रक्षपापमात्सर्येर्ष्याश्च दौर्मनस्येन्द्रियमात्र सम्प्रयुक्ताः। कथमिदम्। (उ) सम्प्रयोगो नास्तीति पूर्वमेव दूषितम्। पश्चादपि वक्ष्यते पञ्चसु विज्ञानेषु नास्ति क्लेश इति। भवतः शासने रागः सौमनस्येन्द्रियसम्प्रयुक्तः। मात्सर्यन्तु न तथा इत्यत्र नास्ति हेतुः। मात्सर्यस्य रागाङ्गत्वात्। एवं मानो न दौर्मनस्येन्द्रियसम्प्रयुक्त इत्यत्रापि नास्ति हेतुः। अतो ज्ञायते भवद्भिरुक्तं सर्वं स्वसंज्ञानुस्मरणविकल्पमात्रमिति।

(पृ) केचिदाहुः-दुःखहर्शनहेयाः पञ्चमिथ्यादृष्टयो विचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याः। समुदयसत्य[दर्शन]हेयाश्च मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याश्च इमे सर्वत्रगानुशया अन्येऽसर्वत्रगानुशयाः। कथमिदम्। (उ) सर्वे सर्वत्रगाः। कस्मात्। सर्वेषां मिथोहेतुप्रत्ययत्वात्। मम[शासने]मिथ्यादृष्टौ रागो भवति, नास्ति दुःखं यावन्नास्ति मार्गः। तस्यां दृष्टावभिनिविष्ट आत्मानमुन्नमयति। यदि शृणोति दुःखमिति, तदा विद्विषति। स च रागो निरोधसत्यालम्बनः। द्वेषो निर्वाणद्वेष्यपि भवति। निर्वाणेनाप्यात्मन उच्चमतिर्भवति। तद्वन्मार्गेणापि, अन्येऽप्यनुशयाः सर्वत्रगा इति द्रष्टव्यम्। कामधात्वाप्ताः क्लेशा रूपधात्वालम्बनाः। यथा रागेण सुखमभिनन्दति। द्वेषेणाशुभं विद्विषति। तेन धर्मेणात्मानमुन्नमयति, तत्प्रधाना भवन्ति [रूपधातौ] न कामधातौ। यथा कामधातुकक्लेशारूपधात्वालम्बनाः तथा रूपधातुकादृष्टयादयः क्लेशा अपि कामधात्वालम्बनाः। एवमारूप्यधातावपि। किञ्चेमे क्लेशाः सामान्यविशेषलक्षणालम्बनाः। कस्मात्। रागः सामान्यलक्षणालम्बनोऽपि चतुरो देवान् तदधस्तनांश्च संक्लेशयति। यथाह दीर्घनखसूत्रम्-सर्वं क्षमत इतीदं संरागाय। सर्वं न क्षमत इतीदमसंरागाय इति। सर्वं न क्षमत इतीदं संरागाय। सर्वं क्षमत इतीदमसंरागाय। तेन क्लेशेनात्मानमुन्नमयति। क्लेशोऽयं कायवाक्कर्म प्रवर्तयति। कस्मात्। उक्तं हि सूत्रे-ईदृशीं दृष्टिमुत्पाद्य ईदृशं वस्तु वदति यदस्ति जीव इत्यादि।

ते सर्वे क्लेशाः षष्ठविज्ञाने वर्तन्ते। न पञ्चसु विज्ञानेषु। कस्मात्। षष्ठविज्ञानस्य संज्ञोपगत्वात्। सर्वे च क्लेशाः संज्ञासम्भूताः। तथा नो चेत् सत्कायदृष्ट्यादयोऽपि पञ्चसु विज्ञानेषु वर्तेरन्। कस्मात्। चक्षुषा रूपं दृष्ट्वा वदति अहं पश्यमीति। तथा मानविचिकित्सादिष्वपि। (पृ) सूत्र उक्तम्-षट् तृष्णाकाया इति। कथमुच्यते पञ्चसु विज्ञानेषु न क्लेशाः सन्तीति। (उ) यथा षण्मन‍उपविचारा मनोविज्ञाने वर्तन्ते। केवलं चक्षुरादिभिराहृता इत्यतः षण्मन‍उपविचारा इत्युच्यन्ते। तथेदमपि। मनोविज्ञाने हि विद्यमानं विकल्पकारणं न पञ्चसु विज्ञानेषु। अतो ज्ञायते पञ्च विज्ञानेषु न सन्ति क्लेशा इति॥

प्रकीर्णप्रश्नवर्गोऽष्टस्त्रिंशदुत्तरशततमः।

१३९ दोषप्रहाणवर्गः

(पृ) केचिदाहुः-क्लेशा नवविधा-अधममध्यमोत्तमा अधमाधमाधममध्यमाधमोत्तमा मध्यमाधम मध्यममध्यममध्यमोत्तमा उत्तमाधमोत्तममध्यमोत्तमोत्तमा इति। ज्ञानमपि नवविधम्। क्लेशेषूत्तमोत्तमः पूर्वं प्रहेयः। अधमाधमोऽन्ते प्रहेयः। अधमाधपज्ञानेनोत्तमोत्तमक्लेशं प्रजहाति। यावदुत्तमोत्तमज्ञानेन अधमाधमक्लेशं प्रजहाति इति। कथमिदम्। (उ) अप्रमाणचित्तैः क्लेशान् सर्वान् प्रजहाति। कस्मात्। सूत्रे भगवानाह-तद्यथा दक्षः कर्मकरो हस्तेन परशुमादाय चक्षुषा मुष्टिप्रदेशं दृष्ट्वा यान्यंशसहस्रानि प्रतिदिनं क्षीयमाणानि तान्यगणयनन्नपि क्षीणमात्रं दृष्ट्‍वा प्रजानाति इदं क्षीणमिति। तथा स भिक्षुरपि मार्गचर्यां भावयन् कान्यद्य क्षीणाण्यास्रवसहस्राणि कानि ह्यः क्षीणान्यास्रवहस्राणीति अगणयन्नपि क्षीणमात्रे प्रजानाति क्षीण आस्रव इति। अतो ज्ञायतेऽप्रमाणै ज्ञानैः क्लेशाः क्षीयन्त नत्वष्ठ नव वा इति।

(पृ) कं समाधिं निश्रित्य कः क्लेश प्रहीयते। (उ) सप्तप्रतिशरणान्युपादाय क्लेशान् समुच्छेदयति। यथोक्तं सूत्रे भगवता-प्रथमध्यानमुपादायास्रवाणां क्षयो यावदाकिञ्चन्यायतनमुपादायास्रवाणां क्षय इति। तानि सप्तप्रतिशरणानि विनाऽपि आस्रवाणां क्षयं करोति। यथोक्तं सुसीमसूत्रे-अतिक्रम्य सप्तनिश्रयानास्रवक्षयमनुप्राप्नोतीति। अतो ज्ञायते कामधातुकसमाधिं निश्रित्यापि आस्रवक्षयं प्रतिलभत इति।

(पृ) सत्यदर्शनहेयाः क्लेशा नारूप्यसमाधिं निश्रित्य प्रहीयेरन्। तस्य योगिनो रूपलक्षणभङ्गात्। (उ) इदं पूर्वमेव प्रयुक्तम्। यदारूप्यसमाधि[रपि] रूपमवलम्बत इति। (पृ) पूर्वं प्रथमध्यानाद्वीतरागः किं क्रमेण द्वितीयध्यानादीन् प्राप्नोति किं वा एककालमेव। (उ) क्रमेण भवितव्यम्। प्रथमध्याने वीतरागस्य द्वितियध्यानादीनामुत्पत्तेः। (पृ) किं कामधातावस्ति क्रमः। (उ) क्लेशानां प्रतिक्षणनिरुद्धत्वात्स्यादपि क्रमः। यथा च याम्या देवाः परिष्वङ्गे कामं साधयन्ति। तुषिता देवाः पाणिं गृहीत्वा कामं साधयन्ति। निर्माणरता वागालापेन कामं साधयन्ति। परनिर्मितवशवर्तिनो देवा आकारं दृष्ट्वा कामं साधयन्ति। [एवं] ज्ञातव्यं कामधातुकक्लेशाः क्रमेणापि क्षीयन्त इति। केचिदाहुः- पुण्यगुणप्रत्ययं तत्रोत्पद्यन्ते। न क्लेशप्रहाणेन। प्रणीतकामत्वात् तत्साधने विशेषः। मृद्विन्द्रियत्वात्परिष्वङ्गेन कामं साधयन्ति। तीक्ष्णेन्द्रियत्वादाकारं दृष्ट्वा कामं साधयन्ति इति।

(पृ) केचिदाहुः-भावनाहेयाः क्लेशाः क्रमेणा प्रहीयन्ते। पूर्वं कामधात्वाप्ताः पञ्चाद्रूपारूप्याप्ताः। सत्यदर्शनहेयास्त्वेककालं प्रहीयन्त इति। कथमिदम्। (उ) यथा सत्यदर्शनहेयाः सर्वे क्लेशा निरोधसत्यदर्शनेन प्रहीयन्ते। उक्तपूर्वमिदम् यत् निरोधदर्शनप्रहेयाः सत्कायदृष्ट्यादयः क्लेशाः सर्वे निरोधसत्यदर्शनेन प्रहीयन्ते। ऊष्मधर्मादारभ्य अनित्याद्याकारैः पञ्चस्कन्धलक्षणानि भावयित्वा आदौ प्रहेयाः क्लेशा निरोधदर्शनेन क्षीयन्ते।

(पृ) कामधात्वाप्तदुःख[सत्य] भावनया कामधातुकसंयोजनानि प्रजहाति। समुदयसत्यभावनायाप्येवम्। यथा कामधातौ तथा नैवसंज्ञानां संज्ञायतनेऽपि। कामधातुकनिरोध[सत्य]भावनया त्रैधातुकसंयोजनानि प्रजहाति। एवं मार्ग[भावनया]पि। कथमिदम्। (उ) निरोधज्ञः क्लेशान् प्रजहाति। अतो भवदुक्तं न युज्यते। (पृ) [ननु] सूत्र उक्तम्-पञ्चस्कन्धाननित्यादिना भावयित्वा स्त्रोत‍आपत्तिपलं यावदर्हत्फलं विन्दते इति। कथमाह भवान् निरोधसत्यदर्शनमात्रेण क्लेशान् प्रजहातीति। (उ) इमान् पञ्चस्कान् भावयन् प्रजानाति निरोधमिश्रभावनाम्। अतः प्रजहाति क्लेशानुशयान्। यथोक्तं सूत्रे-भिक्षुर्भावयति इदं रूपं, अयं रूपसमुदयः, अयं रूपनिरोध इति सर्वदा मम पश्यतो धर्मं विजानतः क्लेशाः प्रहीयन्त इति। ज्ञातव्यंनिरोधसत्यदर्शनेन क्लेशानां क्षय इति। पञ्चस्कन्धा दुःखम् ततः क्लेशाः समुत्पद्यन्ते। यदा पञ्चस्कन्धानां निर्वाणमुपशमं पश्यति। तदा दुःखसंज्ञा सम्पन्ना भवति। अतो ज्ञायते स्कन्धानां निरोधं पश्यतः क्लेशाः क्षीयन्त इति। यथोक्तम्-धर्मानुपादायाकायस्वभावमेकमुपेक्षाचित्तमाश्रित्य प्रहाणमिति। अकायस्वभाव एव निरोधः। यो रूपमकायस्वभावं यावद्विज्ञानमकायस्वभावं पश्यति सोऽत्यन्तविसंयोगभाग्भवति। त्रीणि विमोक्षमुखानि निर्वाणस्य प्रत्ययाः। विमोक्षमुखैरेभिरेव क्लेशान् प्रजाहाति। नान्योपायैः। अतो ज्ञायतेऽसंस्कृतालम्बनो मार्ग एव क्लेशान् प्रजहातीति। अतो भवदुक्तो [यः] क्लेशप्रहाणधर्मो नायं युक्तः।

शास्त्रमाह-क्लेशानामेवंजातीयानामप्रमाणानि विक्लपस्वभावानि भवन्ति [इति] विमुक्तिप्रार्थिभिर्ज्ञातव्यम्। कस्मात्। एतद्बन्धदोषज्ञानबलाद्विमुच्यते। यदा कश्चिच्छत्रुं विज्ञाय दूरीकरोति। यथा वा विषममार्गं ज्ञात्वा वर्जयति। एवं क्लेशानपि। क्लेशबन्धोऽतिसूक्ष्मो वेमचित्रमसुरराजं बवन्ध। यावद्भवाग्रं सत्वाः क्लेशबद्धाः। अतो ज्ञातव्यं तेषामादीनवम्। सत्त्वा यादद्भवाग्रमाजवञ्जवपतिताः। यतः क्लेशानामादीनवज्ञानं न पश्यन्ति। अप्रहीणसंयोजनत्वादप्रहीण आत्ममानो वर्धते। ततस्तु विमतिकौकृत्ये भवतः। अतः क्लेशदोषैर्मा वञ्चितः स्यामिति ज्ञातव्यम्। यत् सत्वा विशुद्धं परमं निर्वाणसुखमुपेक्षन्ते प्रत्युतातितुच्छं कामसुखं भवसुखं कामयन्ते तदिदं सर्वं क्लेशानां दोषः। यदा क्लेशान् प्रजहाति तदा महाहितं प्रतिलभन्ते। अतः क्लेशदोषाणां ज्ञानदर्शनं कुर्यात्। विमुक्तेरावरणधर्मा यदुत क्लेशाः। क्लेशानामप्रहाणे नैवास्ति विमुक्तिनिदानम्। कस्मात्। क्लेशाः कामनिदानम्। क्लेशानुयायी कायो भवति। कायानुयायि दुःखम्। अतो दुःखवियोगार्थी क्लेशानां प्रहाणाय वीर्यमारभेत॥

क्लेशप्रहाणवर्ग एकोनचत्वारिंशदुत्तरशततमः।

१४० विद्याहेतुवर्गः

(पृ) क्लेशाः कायस्य निदानमित्येतद्विद्या स्यात्। कस्मात्। तीर्थिका हि नेदं श्रद्दधन्ते। केचिदाहुः-कायोऽहेतुकोऽप्रत्ययः, तृणवृक्षवत् स्वयंभूत इति। केचिदाहुः -पदार्था महेश्वरादिभिः सृष्टा इति। केचिदाहुः-पदार्थाः कालस्वभावजाः इति। केचिदाहुः-परमाणुसमवायजा इति। एवंजातीयवचनानि विद्या स्युः। (उ) कर्मणः कायो भवतीदं पूर्वमेव साधितम्। तत्कर्म क्लेशेभ्यः सम्भूतम्। अतः क्लेशाः कायस्य निदानम्।

(पृ) कथं ज्ञायते क्लेशहेतुकं कर्मेति। (उ) प्रज्ञप्तिचित्तमविद्येत्युच्यते। प्रज्ञप्तिचित्तकः कर्माण्युपचिनोति। अतो ज्ञायते क्लेशप्रत्ययं कर्म भवतीति। अर्हन्न कर्माण्युपचिनोति न निष्पादयति। अतो ज्ञायते कर्माणि क्लेशसिद्धानीति। यथोक्तं भगवतासूत्रे-यः प्रतिलब्धविद्यः सन्यस्ताविद्यः स किं पापकं कर्म पुण्यं कर्म आनेञ्ज्यञ्च कर्म करोति न वा। नो भगवन् इति। नास्ति चानास्रवं कर्म। अतो ज्ञायते प्रज्ञप्त्यनुयायी केवलं कर्माणि करोतीति। अनास्रवं चित्तं न प्रज्ञप्तिमवलम्बत इति न कर्माणि करोति। शैक्षस्य नास्ति चर्या। यथोक्तं सूत्रे-शैक्षजनः प्रत्यागतं नाचरति, निरुद्धं न करोतीति। क्रियालक्षणा हि चर्या। चर्यैव कर्मेत्युच्यते। अनास्रवं चित्तञ्च न चर्यालक्षणमित्यतो नास्त्यनास्रवं कर्म। तस्मात् सर्वाणि कायवेदनीयकर्माणि क्लेशहेतुसम्भूतानि। प्रहीणक्लेशो न पुनर्जन्मानुभवति। अतो ज्ञायते विद्यमानः कायः क्लेशहेतु[क] इति।

(पृ) सर्वे सत्त्वा अक्लेशतया जायन्ते। पश्चात्तु क्लेशाः समुद्भवन्ति। यथा पुरुषस्य जननकालेऽविद्यमानं दशनं पश्चादुत्पद्यते। (उ) न युक्त[मिद]म्। क्लेशवानेव [जायते] यत्र भवलक्षणं क्वरोदनादि जननकाले प्रत्यक्षमस्ति। अतो ज्ञायते क्लेशैः सहैव सर्वे जायन्त इति। प्रत्यक्षं पश्यामः खलु सत्त्वा बहवो वर्चःकुट्यादिषु प्रसूयन्ते न तु शिलादिषु। गन्धरसाद्यासङ्गात्तत्र प्रसूयन्त इति द्रष्टव्यम्। अतो ज्ञायते क्लेशवशादुत्पद्यन्त इति। (पृ) नरकादौ न जन्म लभेरन्। कस्मात्। न हि कश्चिनरकादौ सुखं कामयेत। (उ) मोहबलाद्विपर्ययचित्ता उत्पद्यन्ते। म्रियमाणा दूरतो नरकं दृष्ट्वा इदं पद्मसर इति तदासङ्गात्तत्रोत्पद्यन्ते। यथोक्तं सूत्रे-यो निबिडितस्थाने विपुलं स्थानं लभेयमिति म्रियते स पक्षिषूत्पद्यते। यः परितर्षितो म्रियते स जलजन्तुर्जायते। यः शीतार्तो म्रियते स तपननरके जायते। यस्तापतर्षितो म्रियते स शीतनरके जायते। यो मैथुनकामासक्तः स चटकेषु जायते। य आहारासक्तः स कुणपेषु कीटो जायते। इति। कामासङ्गहेतुना अकुशलानि करोति। अकुशलप्रत्ययदार्ढ्यात्फलविपाकं वेदयते। कायासक्त्‌या कर्माणि विपाकजनकानि। कस्मात्। कायासक्तस्य मोहबलान्मानादयः क्लेशा जायन्ते। ततः कर्मणि सञ्चिनोति। कर्मबलाद्गतिषूत्पद्यते।

(पृ) यदि क्लेशप्रत्ययेन कायो भवति। प्रहीणक्लेशस्य पञ्चस्कन्धसन्तानो न स्यात्। (उ) कायोऽयं पूर्वं क्लेशजातः। [इदानीं] क्लेशेषु प्रहीणेष्वपि तद्वेगबलात्कायः पुनर्न प्रहीयते। यथा दण्डेन चक्रभ्रमणम्। मुहूर्तं दण्डे विरमत्यपि [चक्रम्] भ्रमत्येव न तु शाम्यति। (पृ) यदि पूर्वकर्मक्लेशवेगात्कायो भवति। तदा प्रहीणक्लेशः पूर्वकर्मक्लेशवेगात्पुनः कायमुपादद्यात्। (उ) निमित्तग्रहाद्विज्ञानमवश्यं तिष्ठति। अयं प्रक्षीणपूर्वकर्मवेगः। इदानीमनिमित्तविमोक्षमुखं भावयन् नोर्ध्वदेहमुपादत्ते। यथा तत्पपाषाणे न बीजानि प्ररोहन्ति। एवं ज्ञानाग्निना विज्ञानस्थितिषु दग्धासु न विज्ञानबीजं प्ररोहति। उर्ध्वसन्तानः समुच्छिद्यते। संस्कारप्रत्ययवैकल्यात् न पुनः सन्तानो भवति। यथोक्तं सूत्रे भगवता-विज्ञानं बीजम्। कर्मसंस्काराः क्षेत्रम्। रागतृष्णा सलिलम्। अविद्या अवकिरणम्। एभिः प्रत्ययैरायत्यां कायमुपादत्त इति। अर्हतस्त्वेषां प्रत्ययानां वैकल्यान्नायत्यां कायो भवति इति ज्ञातव्यं क्लेशप्रत्यया कायवेदनेति। विगतक्लेशस्य दुःखज्ञानादिचित्तमस्ति। इदानीमुपपत्तिवेदको न पश्यति तच्चित्तमस्तीति। अतो ज्ञायते विगतक्लेशो नोपपतिं वेदयत इति। (पृ) स्त्रोत‍आपन्नादिनां दुःखादिचित्तमस्ति। त उपपत्तिकालेऽपि न पश्यन्ति अस्तीति। (उ) अर्हतां ज्ञानबलं सुदृढम्। सर्वेऽपि क्लेशा नोत्कर्षन्ति। अतो म्रियमाणा उपपत्तिवेदनां प्रतिघ्नन्ति। स्त्रोत‍आपन्नादीनां ज्ञानबलन्तु न तथा। अतो न दृष्टान्तः स्यात्।

भवतोक्तं यथा दशनं पश्चात्क्रमेण भवति तथा क्लेशा अपीति। इदमयुक्तम्। कस्मात्। अर्हन्तोऽनास्रवप्रज्ञादद्घक्लेशा इत्यतो नोत्पद्येरन्। यथा दग्धं बीजं न पुनः प्ररोहति। प्रत्यक्षं खलु लोकेऽस्मिन् क्लेशजः काय इति। यथा कामरागात्कायरूपं विक्रियते। तथा द्वेषादपि। अतो ज्ञायते आयत्यां पञ्चस्कन्धा अपि क्लेशजा इति।

(पृ) पश्यामः खलु आहारप्रत्ययाः पञ्चस्कन्धा उत्पद्यन्ते। तथापि नोच्यते आहारः कायवेदनाप्रत्यय इति। (उ) आहारश्चित्तप्रज्ञप्तितो रूपादीनां जनकः। क्लेशास्तु न तथा, अप्रज्ञप्तितो रूपादिजनकाः। अतो ज्ञायते क्लेशाः कायप्रत्यया इति। प्रत्यक्षं खलु चटकादयः कामबहुलाः, सर्पादयो द्वेषबहुलाः, सूकरादयो मोहबहुलाः। ज्ञातव्यमिमे सत्त्वा अवश्यं पूर्वाभ्याससञ्चितमैथुनरागादिक्लेशा इत्यतस्तेषूत्पद्यन्त इति। (पृ) उत्पत्तिस्थान धर्मस्तथा न तु पूर्वाभ्याससञ्चितक्लेशहेतुकम्। (उ) तथा चैन्मैथुनरागादयो निर्हेतुकाः स्युः। नेदं सम्भवति। इति ज्ञातव्यं पूर्वाभ्याससञ्चितहेतुना भवतीति। कामक्रोधादिषु क्लेशेषूद्दीपितेषु हननादिपापानि कुर्वन्ति। तेभ्यः पापेभ्यो दृष्ट एव बधबन्धनादिदुःखमनु भवन्ति। क्लेशेष्वल्पेषु शीलधारणकुशलाभ्यासादिहितं लभन्ते। तत्कुशलशीलमुपादाय दृष्ट एव ख्यातियशोलाभसत्कारादिसुखं लभन्ते। यथेह लोके लाभो हानिश्च क्लेशहेतुका, तथाऽमुष्मिन्नप्येवमिति ज्ञायते।

(पृ) यदि क्लेशहेतुकः कायो भवति। तदा समुच्छिद्येत संसारे गतागतम्। कस्मात्। क्लेशविवृद्ध्या दुर्गतौ पतति स एव पापकायमनुभूय क्लेशान् पुनर्वर्धयति। सदा च विमुक्तिहेतुरहितः। एवञ्च न सुस्थाने जन्म लभेत। यदि पुण्यवर्धनाय पुण्यकायमुपादते। तदा पुनरपि न दुस्थान उत्पद्येत। एवञ्च न स्यात्संसारे गतागतम्। (उ) जनोऽयं दुर्गतौ पतितोऽपि कदाचित्कुशलचित्तभाग्भवति। सुस्थान उत्पन्नोऽपि कदाचिदकुशलचित्तमुत्पादयति। अतः संसारे गतागतं न समुच्छिद्यते। रागादिक्लेशानां तनुत्वतः सुस्थाने जन्मानुवर्तते। तेषामेव महत्वतो दुःस्थाने जन्मानुवर्तते यथा सूकरश्वादयः। अल्पकेशत्वतः सुस्थाने जायत इति यथा [कश्चित्] क्लेशतनुत्वात् दानशीलादिकर्माचरन् षट्‍सु कामदेवेषूत्पद्यते। प्रहीणाब्रह्मचर्यारागत्वाद्विशिष्टध्यानसुखं प्रतिलभते। प्रहीणरूपसंक्लेशत्वाद्विशिष्टसमाधिसुखं प्रतिलभते। सर्वसंयोजनानां क्षयेऽनुपमं निर्वाणसुखं प्रतिलभते। अतो ज्ञायते कायोऽयं क्लेशहेतुक इति।

पश्यामः खलु सत्त्वा कुदेशभूमौ रता दुर्जनैः सह कुत्सितमधिवसन्तीति सर्वमासङ्गाद्भवति। अतो ज्ञायते संसारे सत्त्वानामधिवासोऽप्यासङ्गाद्भवति। यथा शलभा भास्वररूपरागात्प्रदीपदग्धा भवन्ति। आसक्तिरियं न ज्ञानद्भवति। कस्मात्। शलभा इमे न जानन्ति अग्निर्दुःखस्पर्श इत्यतस्तत्र पतन्ति। तथा सत्त्वाः पौनर्भविकदुःखपतिता अविद्याप्रत्ययकामतृष्णार्त उत्पद्यन्ते। यथा मत्स्या अङ्‍कुशं ग्रसन्तः, हरिणाः शब्दानु चारिणः। ते सर्वे कामासङ्गान्म्रियन्ते। यथा च कश्चित् कामासक्त्‌या विप्रकृष्टां विदिशं गच्छन् न प्रतिनिवर्तते। तत् सर्वं क्लेशाज्जातमिति द्रष्टव्यम्। यथा वृक्षस्य मूलेऽनुन्मूलिते स वृक्षः पुनः प्ररोहति। तथा रागमूलेऽनुन्मूलिते दुःखवृक्ष सदा वर्तते। यथाह भगवान्-

यथापि मूलेऽनुपद्रुते दृढे च्छिन्नोऽपि वृक्षः पुनरेव रोहति।
एवमपि तृष्णानुशयेऽनुद्धृते निर्वर्तयति दुःखमिदं पुनः पुनः॥ इति।

कायोऽयमशुचिरनित्यो दुःखं शून्योऽनात्मकः। स्वतोऽविद्यां विना को ज्ञानी तत् व्ययदुःखं कामयमानो वेदयेत। यथाऽन्धो मलिनवासो रत्नाभरणमिति प्रलोभितः स्यात्। तथाऽविद्यान्धीभूत आदीनवबहुलानशुचीन् पञ्चस्कन्धाननुभवति। आत्ममत्या दुःखमपि कायमनुभवन् न त्यजति। अनात्मबुद्धौ तु प्रजहाति। यथाह शारिपुत्रः-विशुद्धसंवर-प्रतिलब्धमार्गो म्रियमाणोऽभिनन्दति। तद्यथा विषकुम्भे भग्ने। अतो ज्ञायते क्लेशप्रत्ययोऽयं काय इति। अज्ञानादस्मिन् काय आसज्यते। यथा चित्रकारण्डोऽशुचिसमृद्धः। अनपावृतो रमणीयः। अपावृते तु पूतितृणानि [दृश्यन्ते]। यथा विषसर्पसम्पूर्णे गृहप्रकोष्ठेऽप्रज्वलिते च दीपे सुखाध्यवसानं भवति। [विषसर्प]दर्शने तु तदपैति। तथा सत्त्वा अपि अविद्यायां सत्यां लोकेऽभिरमन्ते। उत्पन्नायान्तु विद्यायां चित्तं निर्विद्यते। एवं कामतृष्णा भवस्य मूलम्। कस्मात्। कामतृष्णया हि प्रार्थयते। प्रार्थना हि द्विविधा-कामप्रार्थना भवप्रार्थना इति। प्रत्युत्पन्नेषु कामेषु प्रार्थना कामप्रार्थना। पुनर्भवप्रार्थना भवप्रार्थना। अतो ज्ञायते कामतृष्णा भवस्य मूलमिति। पञ्चस्कन्धासक्तौ सत्कायदृष्टिरुत्पद्यते यदुताहमित्यात्मवादोपादानम्। तदुपादानमुपादायान्यानि त्रीण्युपादानानि भवन्ति। उपादानप्रत्ययो भवः। भवप्रत्यया जातिरिति ज्ञातव्यं क्लेशाः कायस्य मूलमिति।

कायोऽयं दुःखम्। दुःखकायेऽस्मिन् सुखसंज्ञाविपर्यय उत्पद्यते। तेन सुखविपर्ययेण विपरीततृष्णा प्रवर्तते। तथा विपरीततृष्णया पुनर्भवं वेदयते। अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति। कायोऽयमाहारप्रत्ययात्तिष्ठति। कबलीकाराहारासक्त्‌या न कामधातुमतिवर्तते। यथोक्तं कर्मस्कन्धे-गन्धरसासक्त्‌या वर्चःकुट्यादिषूत्पद्यते। स्प्रष्टव्यासक्त्‌या गर्भावास उत्पद्यते। शीतोष्णस्पर्शासक्त्‌या अण्डजः स्वेदजो वा भवति। इति सर्वे न कामधातुमतिक्रामन्ति। धातुस्पर्शमुपादाय तिस्रो वेदना भवन्ति। अतः स्पर्शप्रत्यया वेदनेत्युच्यते। मनःसञ्चेतनाहारोऽप्येवम्। पुनर्भवसमुत्थानाय प्रणिदधाति इदमहं करिष्यामीति। ज्ञादर्शनविहीनं विज्ञानं पुनर्भवप्रापककामतृष्णामूलं भवति। एवं चत्वार आहाराः कामतृष्णाधीनाः। सर्वे हि सत्त्वा आहारेण जीवन्ति। अतो ज्ञायते तृष्णाप्रत्यया जातिरिति।

चतस्रो जातयः-अण्डजो जरायुजः संस्वेदज उपपादुक इति। मैथुनकामतृष्णया अण्डजो जरायुजश्च। गन्धरसाद्यासङ्गात् संस्वेदजोपपत्तिं वेदयते। यथाभिलषितं गुरुकर्मोपचीय उपपादुकजन्म वेदयते। अतो ज्ञायते चत्वारो जातिविभागाः कामतृष्णाधीना इति। चतस्रः कायवेदनाः-कश्चिदात्मघातको न परघातक इत्यादयश्चतस्रः। ताः सर्वाः कामतृष्णाविशेषा भवन्ति। अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति। चतस्रो विज्ञानस्थितयः-रूपोपगं विज्ञानं तिष्ठत् रूपप्रतिष्ठितं रूपारम्बणं नन्द्युपसेवनम्। वेदनासंज्ञासंस्कारेष्वप्येवम्। न तूच्यते विज्ञानमेव विज्ञानस्थितिरिति। विज्ञानकाले क्लेशाभावात्। अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति।

द्वादशनिदानानि चाविद्याधीनानि। कस्मात्। प्रज्ञप्त्यनुयायिचित्तमविद्या। तामविद्यामुपादाय प्रवर्तते [कर्म] पुण्योपगमपुण्योपगमानेञ्ज्योपगम्। कामसंलालितं पुण्योपगम्। दुःखसम्पीडितमपुण्योपगम्। मैत्रीकरुणादिचित्तसङ्‍गृहीतमानेञ्ज्योपगम्। तेषां कर्मणामनुगामिविज्ञानं पुनर्भवे तिष्ठति। विज्ञानं निश्रित्य भवन्ति नामरूपषडायतनस्पर्शवेदनाः। इमानि चत्वारि पूर्वाध्वनीनकर्मक्लेशविपाकाः। पुनरिमां वेदनामुपादाय प्रवर्तते तृष्णोपादानं भवः। इमे कर्मक्लेशा आयत्यां जातिजरामरणादीन्युत्पादयन्ति। एवं द्वादशाङ्गभवसन्ततिरविद्यामूलिका। अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति।

संसारोऽनादिः। केनेदं ज्ञायते। उक्तं हि सूत्रे-कर्मप्रत्ययानि चक्षुरादीनीन्द्रियाणि। कर्म तृष्णाहेतुकम्। तृष्णा अविद्याहेतुका। अविद्या अयोनिशोमनस्कारहेतुका। अयोनिशोमनस्कारश्चक्षुर्हेतुको रूपप्रत्ययो मोहात्प्रवृत्त इति। अतो ज्ञायते संसारचक्रमनादीति। ईश्वरादयः कारणमिति वदतो न भवत्यनादिः। तत्तु न सम्भवति। अतो ज्ञायते क्लेशप्रत्ययः काय इति। क्लेशानामात्यन्तिकनिरोधे विमुक्तिर्लभ्यते। सत्त्वानां देहा नाना विजातीयाः। ईश्वरादीकारणत्वे वैजात्यं न स्यात्। क्लेशकर्मणां बहुविधत्वात् देहा अपि नैके।

द्वाविंशताविन्द्रियेषु षडिन्द्रियाण्युपादाय षड्विज्ञानानि भवन्ति। तत्रास्ति स्त्रीपुरुषेन्द्रियम्। सर्वधर्माणामेषां सन्तत्यविच्छेदात् जीवितमित्युच्यते। जीवितं कस्येन्द्रियं भवति, यदुत कर्मणः। कर्मेदं क्लेशानां हेतुः। क्लेशा वेदनानिश्रिता इत्यतः पञ्च वेदना इन्द्रियाणि भवन्ति। एवमन्योन्य[हेतु] प्रवृत्ता संसारसन्ततिः। श्रद्धादीनीन्द्रियाणि निश्रित्य सन्ततिं विच्छेदयति। एवं द्वाविंशतीन्द्रियैः संसारे यात्यायाति च। अतो ज्ञायते क्लेशैः कायो भवतीति।

किञ्च विमुक्त्‌यर्थी शीलसमाधिप्रज्ञा विमुक्तिज्ञानदर्शनस्कन्धानुत्पादयति। एषां क उपयोगः। [ते] सर्वे क्लेशानां निरोधाय भवन्ति ज्ञानी तद्धितं दृष्ट्वा तान् स्कन्धानुपाश्रयते। अतो ज्ञायते क्लेशप्रत्ययः काय इति। क्लेशाश्च क्रमेण निरुध्यन्ते। प्रहीणत्रिविधसंयोजनः स्त्रोत‍आपत्तिफलभाग् भवति। तनुकामच्छन्दादिकः सकृदागामिफलभाक्। प्रक्षीणकामधातुसंयोजनोऽनागामिफलभाक्। ध्यानसमाधिष्वपि अयं क्रमः। अत्यन्तक्षीणसर्व[संयोजनः] अर्हत्फलभाग् भवति। एवं क्लेशानां क्रमशो निरोधात्कायोऽपि क्रमशो निरुध्यते। ईश्वरादिकारणत्वे न स्यात्क्रमनिरोधः। अतो ज्ञायते क्लेशप्रत्ययः काय इति। सुजना रागादीनां क्लेशानां प्रहाणं प्रार्थयन्ते। द्रष्टव्यमवश्यं रागादिप्रत्ययमिदानीमायत्याञ्च ग्लान्युपायासान् लभन्त इत्यतोऽवश्यं [तेषां] प्रहाणं प्रार्थयन्ते। तथा नो चेन्न प्रहाणप्रार्थना स्यात्। ये वदन्ति ईश्वरादयः कायस्य हेतुरिति। तेऽपि प्रार्थयन्ते कामच्छन्दादीनां प्रहाणम्। अतो ज्ञायते कामच्छन्दादिप्रत्ययः काय इति। विद्वान् प्रज्ञया विमुक्तिं लभन्ते। [अतो] अज्ञानाद्वध्यत इति ज्ञेयं भवति। तस्मात् ज्ञायते क्लेशप्रत्ययः कायो भवतीति।

भगवानाह-तत्र तत्र सूत्रे नन्दिरागक्षयात्सम्यग्विमुक्तिं लभत इति। कस्मात्। चक्षूरूपादयो हि न बन्धा इत्युच्यन्ते। नन्दिरागादयस्तु बन्धाः। नन्दिरागभङ्गात् चित्तं सम्यग्विमुच्यते। सम्यग्विमुक्तं चित्तं निर्वाणेऽवतरति। अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति। अनिमित्तानाकारशून्यतया हि विमुक्तिं प्रतिलभते। अतो ज्ञायते क्लेशप्रत्ययः काय इति। कस्मात्। धर्माणां शून्यतादर्शनमेवानिमित्तप्रतिलाभः। निमित्तनिरोधान्न पुनर्भवं प्रणिदधाति। अतः शून्यता विमोक्षमुखमित्युच्यते। तद्विपर्यये बन्धः। इत्यादिना क्लेशाधीनः कायो भवतीति प्रदर्शितम्॥

विद्याहेतुवर्गश्चत्वारिंशदुत्तरशततमः।

[इति] समुदयसत्यस्कन्धः समाप्तः
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project