Digital Sanskrit Buddhist Canon

2 अथ दुःखसत्यस्कन्धः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

2 atha duḥkhasatyaskandhaḥ

अथ दुःखसत्यस्कन्धः।
३६ दुःखसत्यस्कन्धे रूपाधिकारे
रूपलक्षणवर्गः

(पृ) पूर्वमवादीः सत्यसिद्धिशास्त्रं प्रवक्ष्यामीति। इदानीं वक्तव्यं किं तत् सत्यमिति। (उ) सत्यं नाम चत्वारि [आर्य] सत्यानि यदुत दुःखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी पतिपत्। पञ्चोपादानस्कन्धा दुःखम्। कर्मक्लेशाश्च दुःखसमुदयः। दुःखक्षयो दुःखनिरोधः। अष्टाङ्गिकमार्गो दुःखनिरोधगामिनी प्रतिपत्। इतीमं धर्मं साधयितुमिदं शास्त्रं निबध्यते। तथागतः स्वयमिमं धर्मं साधयन्नपि सत्त्वानां तारणाय तत्र तत्र विप्रकीर्णं देशितवान्। चतुरशीतिसहस्रात्मकं धर्मपिटकं स संक्षिप्योवाच। तत्र चत्वारि प्रतिशरणानि अष्टौ हेतव [इत्यादि]। तेषामर्थं केचिदुपेक्ष्य नावोचन्। केचित् संक्षिप्यावोचन्। अथेदानीं तेषामर्थविनिश्चयाय अनुसंकलय्य विवक्षामि।

(पृ) यद्भवानाह-पञ्चोपादानस्कन्धा दुःखसत्यमिति। के ते पञ्च। (उ) रूपस्कन्धः, विज्ञानस्कन्धः, संज्ञावेदनासंस्कारस्कन्धाः। रूपस्कन्धो यदुत चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय धर्माश्च। चत्वारि महाभूतानि तान्युपादाय धर्माश्चाभिसंक्षिप्य रूपमित्युच्यते। चत्वारि महाभूतानि पृथिव्यप्तेजोवायवः। रूपरसगन्धस्पर्शानुपादाय सिध्यन्ति चत्वारि महाभूतानि। तान्युपादाय सिध्यन्ति चक्षुरादीनि पञ्चेन्द्रियाणि। तेषां मिथः संस्पर्शाच्छब्दः।

पृथिवीति। रूपादिसमवायः काठिन्यबहुलः पृथिवीत्युच्यते। तथा स्नेहबहुलः अब्धातुः। ऊष्मबहुलस्तेजोधातुः। लध्वीरणबहुलो वायुधातुः। चक्षुरिन्द्रियमिति रूपाणि प्रतीत्य [उत्पन्नस्य] चक्षुर्विज्ञानस्याश्रय एव। [यस्तु] तत्सभागः अनाश्रयः [तदपि] चक्षुरिन्द्रियं [तत्साजात्यात्]। तथान्यानीन्द्रियाण्यपि। रूपमिति। चक्षुर्विज्ञानस्यालम्बनमेव। तत्सभागोऽनालम्बनं तु [तत्साजात्यात्] रूपम्। रसगन्धस्पर्शा अप्येवम्। एषां मिथः संस्पर्शाच्छब्दो भवति॥

रूपलक्षणवर्गः षट्‍त्रिंशः।

३७ रूपनामवर्गः

(पृ) उक्तं खलु सूत्रे-यत्किञ्चन रूपं सर्वं तत् चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति। कस्मादुक्तं यत्किञ्चन रूपं तत्सर्वमिति। (उ) यत्किञ्चित् तत्सर्वमिति वदन् रूपलक्षणं निर्धारयति नान्यदस्तीति। तीर्थिका हि वदन्ति पञ्च महाभूतानीति। तत्प्रत्याख्यानायाह चत्वारि [एव] महाभूतानि चत्वारि महाभूतान्युपादाय [रूपम्] इति। चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति। व्यापित्वात् महदित्युच्यते। अरूपधर्मोऽमूर्तः। अमूर्तत्वात् अप्रदेशः। अप्रदेशत्वात् न महान्। औदारिकत्वाच्च महदित्युच्यते। चित्तचैत्तानाञ्चादृष्टत्वात् न महत्त्वम्।

(पृ) कस्मात् पृथिव्यादय एव रूपं न शब्दः। (उ) सप्रतिघा धर्मा रूपमित्युच्यन्ते। शब्दादयोऽपि सप्रतिघत्वात् रूपम्। न चित्तधर्मादिवत् साकारत्वात् रूपम्। शब्दादयोऽपि साकारत्वात् रूपमित्युच्येरन्। यत्किञ्चन् प्रदेशावरणं हि आकारः। (पृ) रूपादय अपरिक्षीयमाणाकाराः। शब्दादिनान्तु नास्ति [तादृश] आकारः। (उ) शब्दादयः सर्वे साकाराः। साकारत्वेन सप्रतिघाः सावरणाः। अतो भित्त्यावरणे न श्रूयते।

(पृ) शब्दादयो यदि सप्रतिघाः। तदा नान्यवस्तून्यादद्युः। यथा भित्त्यावरणे न कस्यचिदवकाशो लभ्यते। (उ) शब्दस्यातिसूक्ष्मत्वात् उपादेयास्तिता शक्यते। यथा गन्धरसादयः सौक्ष्म्यात् एकमाकारं युगपदाश्रयन्ते न मिथः प्रतिघ्नन्ति। अतः शब्दादयः सावरणाः सप्रतिघा इत्यतो रूपमित्युच्यन्ते। रूप्यत इति रूपलक्षणम्। यत् छिद्यते भिद्यते विहिंस्यत इत्यादि तत् सर्वं रूपाश्रितम्। एतद्विपरीतमरूपमिति निर्धारितम्।

पूर्वनिवासस्थकुशलाकुशलकर्माणि निरूपयतीति रूपम्। चित्तचैत्तान् निरूपयतीति च रूपम्। वर्णात्मकञ्च रूपम्।

रूपनामवर्गः सप्तत्रिंशः।

३८ चतुर्महाभूतप्रज्ञप्तिवर्गः

(पृ) चत्वारि महाभूतानि प्रज्ञप्तिसन्तीत्ययमर्थोऽसिद्धः। केचिद्धि वदन्ति तानि द्रव्यसन्तीति। (उ) चत्वारि महाभूतानि प्रज्ञप्तितः सन्ति। कस्मात्। भगवान् तीर्थिकेभ्योऽवोचत्-चत्वारि महाभूतानि इति। तीर्थिकाः केचिद्वदन्ति रूपादिरेव महाभूतं भवतीति यथा सांख्यादीनाम्। केचिद्वदन्ति रूपादि विहायास्ति महाभूतम् इति यथा वैशेषिकादीनाम्। अत इदं सूत्रमवधारयति रूपाद्युपादाय पृथिव्यादि महाभूतं सिध्यतीति। अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति।

किञ्चाह सूत्रम्-खक्खटः खरगतः पृथिवीधातुः इति। अतो न खरमात्रं पृथिवी। लौकिकाश्च सर्वे श्रद्दधन्ते महाभूतानि प्रज्ञप्तिसन्तीति। कस्मात्। ते हि वदन्ति पृथिवीं पश्यामि पृथिवीं जिघ्रेमि (धर्मि) पृथिवीं रसयामि पृथिवीं स्पृशामि इति। सूत्रे चोक्तं यथा स्पर्शवती पृथिवी द्रष्टव्या। पृथिव्यादिसर्वायत नगतोऽयं पुरुषः पश्यति रूपं न कठिन्यादि। किञ्च पुरुषो निरूपयति [इदं] पृथिवीरूपम्, पृथिवीगन्धः, पृथिवीरसः पृथिवीस्पर्श इति। न द्रव्यसतः पृथङ् निरूपणमुपलभ्यते। व्यापित्वात् महदित्यर्थः। इदं लक्षणं प्रज्ञप्तिसत उच्यते। न कठिन्यमात्रलक्षणस्य। किञ्चाह-पृथिवी अब्‌मण्डले प्रतिष्ठिता इति। प्रज्ञप्तिसती पृथिवी प्रतितिष्ठति। न काठिन्यमात्रम। किञ्चाह-अहमिमां महापृथिवीं दग्ध्वा विधूमं भस्मसात्करिष्यामीति। अत्र प्रज्ञप्तिसतीं पृथिवीं दहति न काठिन्यमात्रं दहति। रूपादिभ्यः श्रद्दधन्ते अस्ति पृथिवी इत्यादि। न काठिन्यमात्रात्।

कूपोपमे चोक्तम्-आपो दृश्यन्ते च स्पृश्यन्ते चेति। यदि स्नेह एवापः। तदा न द्विधा वर्तेरन्। कस्मात्। भगवानाह-पञ्चेमानीन्द्रियाणि [नानाविषयाणि] नान्योन्यस्य विषयं प्रत्यनुभवन्ति। इति। किञ्चाह भगवान्-अष्टगुणा आपःसुसंस्थितं शीतलं मृदु मधुरं शुचि अदुर्गन्धं पातुः प्रह्लादनं परिदाहनिवारणमिति। तत्र यत् सुसंस्थितं शीतलं सुकुमारं तत् सर्वं स्पर्शान्तर्गतम्। मधुरं रसान्तर्गतम्। शुचि रूपान्तर्गतम्। अदुर्गन्धं गन्धान्तर्गतम्। प्रह्लादनं परिदाहनिवारणञ्च तत्प्रभावः। एषामष्टानां कलापः सामान्यमाप इत्युच्यते। अतो ज्ञायते महाभूतानि प्रज्ञप्तिसन्तीति। उपादाय धर्माः सर्वे प्रज्ञप्तिसन्तः न द्रव्यसन्तः। यथोक्तं गाथायाम्-

यथा ह्यङ्गसम्भाराद्भवति शब्दो रथेति च।
एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः॥ इति।

आह चानन्दः-प्रत्ययमया धर्माः। आत्मा चाविनिश्चयस्थानं भवति इति। ये वदन्ति कर्कशादीनि महाभूतानीति। ते कर्कशादीनि रूपादीनामाश्रया इति मन्यन्ते। तत्तु साश्रययं साधिष्ठानकमिति न तथागतशासनं भवेत्। अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति।

धर्माणां सौक्ष्म्यसोकुमार्यश्लक्ष्णत्वादीनि सर्वाणि स्पर्शायतनसंगृहीतानि। खक्खटादयश्चत्वारो धर्माः किमर्था भवन्ति‍इति केवलं महाभूतार्था भवति इति प्राप्यते। एकादिचतुर्ग्रहाः सावद्याः। अतो ज्ञायते चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि इति। वस्तुधर्मः सलक्षणः प्रज्ञप्तिधर्मश्च सलक्षणः। प्रज्ञप्तेश्च कोऽतिशय इति पश्चाद्वक्ष्यते। अतश्चत्वारि महाभूतानि न द्रव्यसन्ति॥

चतुर्महाभूतप्रज्ञप्तिवर्गोऽष्टत्रिंशः

३९ चतुर्महाभूतद्रव्यसत्तावर्गः

(पृ) चत्वारि महाभूतानि द्रव्यसन्ति। कस्मात्। अभिधर्म उक्तम्। खक्खटलक्षणः पृथिवीधातुः स्नेहलक्षणोऽब्‌धातुः ऊष्मलक्षणस्तेजोधातुः ईरणलक्षणो वायुधातुरिति। अतश्चत्वारि महाभूतानि द्रव्यसन्ति। रूपादि भौतिकं रूपं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यते। न प्रज्ञप्तिसन् धर्मं जनयति। खक्खटादिना च चत्वारि महाभूतानि निरुच्यन्ते यत् खक्खटं खरगतं सा पृथिवीति। तस्मात् खक्खटादीनि द्रव्यमहाभूतानि। किञ्च सूत्रे द्वाभ्यामाकाराभ्यामुच्यते खक्खटं खरगतं, स्नेहः स्नेहगतम् इत्यादि। अतो ज्ञायते खक्खटं वस्तुधर्मः खरगतं प्रज्ञप्तिधर्म इति। एवमन्यान्यपि महाभूतानि। तस्मात् खक्खटादीनि द्रव्यमहाभूतानि। खरगतधर्मस्तु व्यवहारतो महाभूतम्। अतोऽस्ति द्विधा महाभूतं द्रव्यरूपं प्रज्ञप्तिरूपमिति। किञ्चोक्तमभिधर्मे-संस्थानायतनं पृथिवी, खक्खटलक्षणः पृथिवीधातुरिति। तथान्यान्यपि महाभूतानि।

सूत्रे चाह भगवान्-यच्चक्षुषि [मांस] पिण्डे खक्खटं खरगतं इयं पृथिवी। यत् स्नेहः स्नेहगतं इमा आपः। यत् ऊष्म ऊष्मगतं इदं तेजः। मांसपिण्डं पृथिवी इति। अस्मिन् मांसपिण्डे भगवानाह सन्ति चत्वारि महाभूतानि इति। खक्खटादीनि द्रव्यमहाभूतानि। तत्संस्थानानि प्रज्ञप्तिमहाभूतानीति ज्ञातव्यम्। किञ्च भगवान्नावोचत् वायोराश्रयोऽस्तीति। अतो ज्ञायते वायुर्द्रव्यमहाभूतमिति।

यदि कश्चित् ब्रूयात् चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति। तदा महाभूतलक्षणानि विनिर्भक्तानि स्युः। यदि खरगतं पृथिवीति आपः खरगता इति ता अपि पृथिवी स्युः। मृत्पिण्डः स्नेहगत इति सोऽपि आपः स्यात्। यथा ज्वरपीडितस्य काय उत्कम्प्यते। तप्तः काय एव तेजः स्यात्। तन्न युज्यते। अतो न वक्तुं शक्यते खरगतं पृथिवी, खक्खटमात्रं पृथिवीधातुरिति। तथान्यानि महाभूतान्यपि।

सहजातत्वात् चत्वारि महाभूतानि अविनिर्भक्तानि। यथोक्तं सूत्रे यत्किञ्चिद्रूपं सर्वं तत् चतुर्महाभूतकृतमिति। चत्वारि महाभूतानि द्रव्यसन्तीति वक्तुस्तान्यविनिर्भक्तानि भवन्ति। चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुस्तानि विनिर्भक्तानि स्युः। कस्मात्। खररूपाद्याश्रयाः स्नेहाद्याश्रयेभ्यो विनिर्भक्ताः। तथा च सति चक्षुर्मासपिण्डे चत्वारि महाभूतानि न स्युः। तथा च सूत्रविरोधः। सूत्रस्याविरोधं कामयानस्य भवतः चत्वारि महाभूतानि द्रव्याणि भवन्ति।

यद्भवता पूर्वमुक्तम्-तीर्थिकेभ्यश्चत्वारि महाभूतान्यवोचदिति। तदयुक्तम्। कस्मात्। सर्वे हि तीर्थिका वदन्ति चत्वारि महाभूतानि रूपादिभिरेकानि यदि वोनकानीति। वयन्तु वदामः स्प्रष्टव्यायतनैकदेश श्चत्वारि महाभूतानीति। अतोऽनवद्यम्। किञ्च वयं वदामः प्रत्यक्षदृष्टानि खक्खटादीनि चतुर्महाभूतानि न तु वैशेषिकाणामिव तान्यप्रत्यक्षदृष्टान्यपि।

यदुक्तं भवता खक्खटं खरगतमिति। तत्र अस्ति द्विधाश्रयार्थः। यथोक्तं सूत्रे-रूपं रूपाधिकरणम् इति। आह च चित्तं महतां धर्माणामाश्रय इति। अस्मिन्नर्थ उक्तम् खक्खटमेव स्वरगतं न पुनर्धमान्तरमिति। तथा च को दोषः।

लौकिकाः सर्वे श्रद्दधन्ते यावदष्टगुणा आप इति यद्भवतो वचनं तत् व्यवहारानुवर्तनमात्रतो वदन्ति न द्रव्यमहाभूता [नुवर्तन]तः। किञ्चोक्तं भवता-उपादायधर्माः सर्वे प्रज्ञप्त्यात्मका इति। नेदं युज्यते। कस्मात्। उक्तं हि सूत्रे-यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय धर्मा इति। कश्चिद्भिक्षुर्भगवन्तं पृच्छति-क तत् चक्षुरिति। भगवान् प्रत्याह-चक्षु[र्भिक्षो] चत्वारि महामूतान्युपादाय रूपप्रसाद इति। एवं दशायतनान्यपि। यत्तु साश्रयं साधिष्ठानकं इति। न तथा वदामः। धर्मे धर्मो वर्तत इति मात्रं वदामः।

यद्भवानाह-खक्खटादयः किमर्था भवन्तीति केवलं महाभूतार्था इति भवन्ति इति प्राप्यते इति। खक्खटादयः सार्थका यदुत खक्खट लक्षणं सन्धत्त इति। अब्लक्षणं स्नेहयतीति। तेजोलक्षणं परिपाचयतीति। वायुलक्षणम् अभिनिर्वर्तयतीति। अतश्चत्वारि महाभूतानि द्रव्याणि सन्ति॥

चतुर्महाभूतद्रव्यसत्तावर्ग एकोनचत्वारिंशः

४० तदप्रामाणवर्गः

अत्र प्रतिब्रूमः। तदयुक्तम्। चत्वारि महाभूतानि प्रज्ञप्तिमात्राणि। यद्यप्युक्तं भवता अभिधर्म उक्तं-खक्खटलक्षणः पृथिवीधातुः। इत्यादि। न तद्युज्यते। कस्मात्। भगवान् हि स्वयमाह-खक्खटः खरगतश्च पृथिवी इति। न खक्खटमात्र[माह]। अतो नायं सम्यग् हेतुः।

रूपादिकं चतुर्भ्यो महाभूतेभ्यः समुत्पद्यत इति भवदुक्तं न युज्यते। कस्मात्। रूपादिः कर्मक्लेशान्नपानमैथुनरागादिभ्यः समुत्पद्यते। यथोक्तं सूत्रे-चक्षुः किमुपादाय भवति। कर्मोपादाय भवति। इति। किञ्चाह-सुखासङ्गसमुदयाद्रूपसमुदय इति। यथा चानन्दो भिक्षुणीशिक्षणाय भगिनीमाह-अयं कायः आहारसम्भूतः तृष्णासम्भूतो मानसम्भूतो मैथुनसम्भूत इति। अतो ज्ञायते रूपादि र्न चतुर्महाभूतसम्भूत् इति। (पृ) यद्यपि रूपादि कर्मसम्भूतम्। तथापि चत्वारि महाभूतानि च अंशेन हेतवः स्युः। यथा कर्मवशात् व्रीहिर्भवति। स ब्रीहिर्बीजाद्यपेक्ष्य च प्रादुर्भवति। तथा चक्षुरादीनां कर्मसम्भूतत्वेऽपि चत्वारि महाभूतानि अंशतो हेतवो भवन्ति। (उ) कदाचित् किञ्चिद्वस्तु विनापि हेतुप्रत्ययान् उत्पद्यते। यथा कल्पावसाने कल्पादौ च महती वृष्टिः। ता आपः कस्मात्सम्भवन्ति। देवानामभीप्सितमनुस्मरणमात्राल्लभ्येत। यथा ध्याननिषण्णस्य भदन्तस्य चाभीप्सितं छन्दमनुवर्तते। अस्य के प्रत्ययाः। न[नु] कर्ममात्रम्। यथा च रूपसन्तानः व्युच्छिद्य पुनः प्रतिसन्धीयते। योऽरूपधातावुपपद्य पुना रूपधातावुपपद्यते। रूपस्यास्य किं मूलम्।

(पृ) कस्मात् किञ्चित् कर्ममात्रादुत्पद्यते किञ्चित्तु बाह्यप्रत्ययमपेक्ष्योत्पद्यते। (उ) यः सत्त्वोऽवरकर्मबलो भवति। स बीजसामग्रीसाहाय्यतः साधयति। उत्कटकर्मबलस्तु न बाह्यप्रत्ययमपेक्षते तथा धर्मा अपि स्युः। केचित् सकर्मकाः। केचित् सधर्मकाः। केषाञ्चिदुपपत्त्यायतनं कर्मबलमात्राल्लभ्यते। न बाह्यप्रत्ययमपेक्ष्य। हेतुप्रत्ययापेक्षी वदेत् बीजमङ्‍कुरादीनां हेतुरिति।

कस्मादुच्यते खक्खटादिमुपादाय [रूपादि]रुत्पद्यते। केनार्थेन खक्खटादितो रूपादिरुत्पद्यते न रूपादितः खक्खटादिः। तयोश्च सहजातत्वात् कथमुच्यते खक्खटादिमुपादाय रूपादिर्भवति। न रूपादिमुपादाय खक्खटादिरिति। नह्येककालीनर्योर्धर्मयोरन्योन्यहेतुत्वं भवति। यथा शृङ्गद्वयं युगपज्जायमानम्। न वक्तुं शक्यं वामदक्षिणे हेतू इति।

(पृ) यथा प्रदीपप्रकाशयोरेककालिकयोरपि प्रदीपमुपादाय प्रकाश इत्युच्यते। न प्रकाशमुपादाय प्रदीप इति। तथेदमपि। (उ) प्रदीपो न प्रकाशादन्यः। प्रदीपो हि रूपं प्रकाश इति धर्मद्वयसमवायात्मकः। रूपमेव प्रकाश इति न प्रदीपः पृथग्भवति। एवमस्य दृष्टान्तस्य तथ्यं न चिन्तितवानसि। (पृ) प्रकाशः प्रदिपादन्यत्र गच्छतीति अन्यः स्यात्। (उ) नान्यत्र गच्छति। इदं प्रकाशरूपं प्रदीप एव प्रत्यक्षमुपलभ्यते। यद्यन्यत्र गच्छति। प्रदीपं विहायाप्युपलभ्येत। न तूपलभ्यते वस्तुतः। तद्रूपं न प्रदीपादन्यदिति ज्ञातव्यम्।

(पृ) युगपज्जायमानयोरपि धर्मयोर्हेतुफलभावोऽस्ति। यथा सप्रतिधे विज्ञानस्य चक्षूरूपं हेतुप्रत्ययो भवति। न तु चक्षूरूपस्य विज्ञानम्। (उ) न युज्यते। चक्षुर्विज्ञानस्य पूर्वचित्तं हेतुः चक्षूरूपं प्रत्ययः। पूर्वनिरुद्धं चित्तं हेतुः इति कथं युगपज्जायमानं भवति। यो धर्मो यं हेतुमनुवर्त्योत्पद्यते स तस्य हेतुः। यच्चित्तं यदिन्द्रियाण्युपादाय भवति स तदुपादाय धर्मः।

अथ चत्वारि महाभूतान्येव [न] रूपकराणि। [सरूप] हेतुसम्भूतत्वात्। प्रत्यक्षमुपलभामः खलु लोके वस्तूनि सरूपहेतोर्जायमानानि। यथा सालेश्शालिर्भवति, यवाद्यवः। एवं पृथिवीतः पृथिवी भवति नाबादयः। एवं रूपाद्रूपं भवति इत्येवमादि।

(पृ) दृश्यते स किञ्चिद्वस्तु असरूपहेतोर्जायत इति। यथा व्याकीर्णगोपुरीषकूटे कृमिर्जायते। शृङ्गकूटे तृणं प्ररोहति। (उ) न वयं वदामः असरूपहेतोर्न जायत इति। किन्तु सरूपहेतौ च सति जायत इति वदामः। तस्मादुच्यते रूपादिभ्यो रूपादयो जायन्ते न चतुर्महाभूतेभ्य एव जायन्त इति। अतो नाबधारणं भवति रूपादयश्चतुर्महाभूतेभ्य एव जायन्त इति।

खक्खटादिना चत्वारि महाभूतानि निरूप्यन्त इति यदवोचद्भवान्। तदयुक्तम्। कस्मात्। नियतैः खक्खाटादिलक्षणैः चत्वारः सङ्घाता विभक्तव्याः। सौकुमार्यादेस्तु अनियतः कदाचित् खक्खटबहुले सङ्घाते वर्तते। कदाचित्स्नेहबहुले सङ्घाते वर्तते। अतो नानेन [सौकुमार्यादिना] सङ्घाता विभक्तव्याः। तथान्यैरपि। खक्खटादीनां स्पर्शविशेषाः सौकुमार्यादय उच्यन्ते। किमिति। यदि स्नेहेन उत्पत्तिस्वभावेनापि सुकुमारसूक्ष्मश्लक्ष्णानि भवन्ति। खक्खटलक्षणबहुलत्वात् खक्खटं खरमौदारिकं कर्कशमित्येवमादि भवति। अतः खक्खटादिमात्रेण चत्वारः सङ्घाता विभज्यन्ते। यथोक्तं सूत्रे-खक्खटा [दि]गतानीति चतुर्णां महाभूतानां विभागा निर्दिश्यन्त इति। अतो ज्ञायते खक्खटगतधर्मः पृथिवीधातुः न तु खक्खटमात्रलक्षण इति। तस्मात् खक्खटलक्षणं पृथिवीप्रसाधनहेतुरित्युच्यते। पृथिवीप्रसाधने च खक्खटत्वं प्रधानहेतुः। अतः पृथक्कृत्योच्यते। तथान्यानि लक्षणान्यपि [वक्तव्यानि]। संज्ञाक्रियायै यत् किञ्चन् खक्खटं खरगतं सर्वं तत् पृथिविधातुः। केचिद्वदन्ति केवलं खक्खटलक्षणं पृथिवीधातुरिति। तत्प्रत्याख्यानाय भगवानाह-खक्खटं खरगतं पृथिवीधातुरिति। अन्यदप्येवम्। खक्खटलक्षणसङ्घाते खक्खटस्य बाहुल्यात् द्विधाऽस्ति व्यवहारः। सर्वेषु सङ्घातेषु खक्खटादिस्पर्शाः सन्ति। यत् खक्खटं खरगतं स पृथिवीधातुः। यत् स्निग्धं स्निग्धगतं स आपोधातुः। यत् उष्णं उष्णगतं स तेजोधातुः। खक्खटं पृथिवीप्रसाधनस्य प्रधानहेतुरित्यतस्तत्र पृथिवीति नाम। प्रज्ञप्तितः प्रसिद्धे हेतौ प्रज्ञप्तितः संज्ञा भवति यथा वदन्ति-पश्याम्यहं वृक्षस्य छेत्तारं पुरुषमिति।

द्वाभ्यामाकाराभ्यामिति यदवोचः। तदयुक्तम्। यदि व्यवहारभङ्गीमनुसृत्य तत्त्वं भवति। तदा द्वादशायतनादीनि तत्त्वानि न स्युः। अतश्चक्षुः प्रतीत्य रूपञ्चोत्पद्यते चक्षुर्विज्ञानमितीदमतत्त्वं स्यात्। व्यवहारभङ्गया अभावात्। इदञ्च मिथ्याशास्त्रं स्यात्। किञ्च तथागते तेजोवती समाधिमुपसम्पन्ने तत्काया द्विविधानि ज्वालारूपाणि निश्चरन्ति। तत्र किमित्ति तेजो धातुर्न भवति। रूपादीना तेजः सिध्यति नतूष्ममात्रलक्षणतः। किञ्चाह भगवान्-कायोऽयं करण्डक इति। तत्र नखलोमकेशादयः समृद्धाः सन्ति। यथोक्तं सूत्रे-सन्ति कायेऽस्मिन् नखलोमकेशादय इति। अतो नखलोमकेशादयः पृथिवीधातुः। न हि धतुवादोऽस्तीति द्रव्यधर्मो भवति। उक्तञ्चबीज सूत्रे यतः पृथिवीधातुः स्यात् नाब्धातुः न बीजानि वृद्धिं [विरूढिं विपुलता] मापद्यन्त इति। तत्र किं पृथिवीधातुः यदुत प्रज्ञप्तितः क्षेत्रम्, न तु खक्खटमात्रलक्षणम्। आपोऽपि प्रज्ञप्तितः न स्नेहमात्रलक्षणम्। एकस्य धर्मस्य द्रव्यत्वं प्रज्ञप्तित्वमिति द्विप्रकारोऽपि नोपलभ्यते। कस्मात्, रूपादीनि द्रव्याणि। चक्षुरादीनि प्रज्ञप्तितः सन्ति। महाभूतानि तु द्रव्यतश्च प्रज्ञप्तितश्च सन्तीदं मिथ्याशास्त्रम्। षड्‍धातु सूत्रे च भगवानाह-केशलोमनखादीनि पृथिवीधातुरिति। हस्तिपदोपमसूत्रे चोक्तम्-केशा लोमा नखा इत्यादीनि अयमुच्यते पृथिवीधातुरिति। केनार्थेन धातुर्द्रव्यं न प्रज्ञप्तिरित्युच्यते। न च सोऽर्थः सूत्रारूढः।

यदवादीः भगवानाह-यच्चक्षुर्मासपिण्डे खक्खटं खरगतं इयं पृथिवी इत्यादि। वचनेनानेन भगवान् प्रदर्शयति पञ्चेन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्ति इति। केचिद्वदन्ति अहङ्कारसम्भूतमिन्द्रियमिति। केचिद्वदन्ति महाभूतव्यतिरिक्तमिन्द्रियमस्तीति। केचिद्वदन्ति इन्द्रियाणि नानास्वभावजानि यदुत पृथिवीमहाभूतात् सम्भूतं घ्राणमित्यादि। तत्प्रत्याख्यानाय भगवानाह-चक्षुरादीन्द्रियाणि चतुर्महाभूतसमवायात्मकानि शून्यान्यवस्तूनि इति। विकल्पः प्रज्ञप्तेर्हेतुं प्रत्ययं साधयति। [सा] प्रज्ञप्तिरपि नास्ति। अस्मिन् मांसपिण्डे सन्ति चत्वारो भागाः खक्खटं खरगतमित्यादि वचनेन भगवान् प्रदर्शयति सर्वपदार्थाः चतुर्महाभूतसम्भूता इति।

भगवान्नावोचत्-द्वयोराश्रयोऽस्तीत्यतो द्रव्यमहाभूतं [वायु]रिति यदवोचः। तदयुक्तम्। कस्मात्। वायोर्लघुत्वं विशिष्टं लक्षणं न लघुगतधर्मः। पृथिव्यादीनां खक्खटगतधर्मादयो विशिष्टाः वायोस्तु न तथा। लघुगतधर्मश्चाल्प इति नावोचत्। यदवादीः चत्वारि महाभूतानि प्रज्ञप्तिसन्तीति वक्तुः तन्महाभूतलक्षणानि विनिर्भक्तानि स्युरिति। तदयुक्तम्। यत् खक्खटं खरगतं चतुर्महाभूतसम्भूतं [स] पृथिवीधातुः। न तूच्यतेऽन्यद्वस्तु लक्षणस्याश्रय इति। यो धर्मो लक्षणादन्य न स आश्रयः। अयमेव लक्षणस्य [अ]विनिर्भागः। (पृ) यदुत्पद्यमानं न स आश्रयो भवति। आश्रयो हि [यत्]अन्यद्वस्तु [तत्] आश्रयतामुपयाति। (उ) आश्रय इति संज्ञायते नान्यद्वस्तु लक्षणस्याश्रय इति। उत्पद्यमानस्य प्रविभागात्। यथा वदन्ति आकाशं सर्वगामीति। वस्तुतस्तु नास्ति तत् यद्गच्छति।

यदुक्तं भवता चत्वारि महाभूतानि सहजातानीति। तदयुक्तम्। यथा आतपे केवलं रूपयुक्तः स्पर्श उपलभ्यते नान्ये धर्मः। चन्द्रिकायां केवलं रूपयुक्तः शीतस्पर्श उपलभ्यते नान्ये धर्माः। तस्मान्न सर्वेषु पदार्थेषु चतुर्महाभूतानि सन्ति। तद्यथा किञ्चिद्वस्तु नीरसं यथा सुवर्णवज्रादि। किञ्चिद्वस्तु निर्गन्धं यथा सुवर्णरजतादि। किञ्चिद्वस्तु नीरूपं यथा गृह[प्रासाद]धर्म। किञ्चिद्वस्तु निरूष्म यथा चन्द्र[कान्त]आदि। किञ्चिद्वस्तु निश्शीतम् यथा तेज आदि। किञ्चिद्वस्तु ईरणलक्षणं यथा वाय्वादि। किञ्चिद्वस्तु निरीरणं यथा पाषाणघण्डः। एवं किञ्चिद्वस्तु निष्कर्कशम्। किञ्चिन्निस्नेहम्। किञ्चिन्निरूष्म। किञ्चिन्निरीरणम्। अतश्चत्वारि महाभूतानि नाविनिर्भागवर्तीनि।

(पृ) बाह्यैः कारणैर्महाभूतानां स्वभाव आविर्भवति। यथा सुवर्णपाषाणादौ द्रवलक्षणं तेज अपेक्ष्याविर्भवति। अप्सु काठिन्यलक्षण अतिशैत्यमुपादायोद्भवति। वायौ शीतोष्मलक्षण अप्तेजसी उपादायोद्भवति। तृणवृक्षेषु ईरणलक्षणं वायुं प्राप्योद्भवति। तस्मात् पूर्ववर्तिनः स्वभावाः प्रत्ययमपेक्षोद्भवन्ति। अतश्चत्वारि महाभूतानि न विनिर्भागलाभिन इति ज्ञायते। यदि पुर्वमसन् [स] स्वभावः। कथमुद्भवेत्। (उ) तथा चेत् वायौ कदाचिद्गन्धोऽस्तीति गन्धो वायुगतः स्यात्। यथा वासिततैलगन्धस्तैलगतः। नत्विदं युज्यते। न हि महाभूतेभ्यो भौतिकं रूपमुत्पद्यते। यथा स्नेहात् स्नेहो भवति। तथा रूपाद्रूपं भवति। यदि [तानि] अविनिर्भागवर्तीनि। तदा सत्कार्यं स्यात्। यथा कन्यायां पुत्रः अन्नेऽमेध्यादिः। न वयं ब्रूमः सत्कार्यम्। यद्यपि नास्ति पयसि दधि। तथापि दधि पयस उत्पद्यते। एवं किं संज्ञानुस्मरणविकल्पेन यदुत चत्वारि महाभूतानि सहजातानि अपृथग्भागवर्तीनीति॥

तदप्रमाणवर्गश्चत्वारिंशः

४१ पूर्वतनसिद्धान्तप्रकाशनवर्गः

पूर्वं यदवादीः-न वयं ब्रूमः चत्वारि महाभूतानि रूपादिभिरेकानि यदि वानेकानि इत्यतोऽनवद्यम् इति। तदयुक्तम्। कस्मात्। तीर्थिकाः सर्वे सिषाधयिषन्तीत्यत श्चतुर्णां महाभूतानामेकत्वनानात्वे उदाहरन्ति। अतो भगवान् प्रज्ञप्तौ चतर्णां महाभूतानामुदाहृतत्वात् तेषामर्थमुपदिशति। तथा नो चेत् न ब्रूयात्। लौकिकाः स्वभावतः पृथिव्यादिमहाभूतानि जानन्तोऽपि न विदन्ति [तेषां] वस्तुभावम्। अत उपदेशं करोति। नोपदिशति हस्तादि। यदि खक्खटादिभिश्चत्वारि महाभूतानि भवन्ति इति। क उपकारो भवेत्।

अस्ति द्विधा आश्रयार्थ इत्युक्त्वा महाभूतानि द्रव्याणीति यदवोचः। तत्र न प्रतीमो-अयमाश्रयार्थः, [त]दन्यो यः स प्रज्ञप्तिसन् इति। [अष्टगुणा आप इति] व्यवहारानुवर्तनतो वदन्ति न तु द्रव्यमहाभूता[नुवर्तन]त इति यद्वचनं तदयुक्तम्। कस्मात्। यदि वा प्रवचने यदि वा लोके न हेतुप्रत्ययैर्विना रूपादिषु चतुर्महाभूत संज्ञां कुर्वन्ति। यथा लोके वदन्ति पश्याम्यहं पुरुषमिति। रूपादिषु हि पुरुष इति संज्ञा न हेतुप्रत्ययैर्विना भवति। यो विनापि सुदृढहेतुप्रत्ययैः संज्ञां करोति सोऽश्वं दृष्ट्वा पुरुष इत्याह्वयेत्। वस्तुतस्तु न तथा। कस्माच्छब्दे पृथिवीति न वदन्ति। लौकिकाः सदा [पृथग्] वदन्ति पृथिवीति शब्द इति। न कदाचिदपि वदन्ति शब्दः पृथिवीति। यो विना सुदृढहेतुप्रत्ययैः संज्ञां करोति। स शब्दं पृथिवीति आह्वयेत्। वस्तुतस्तु न तथा। तस्माद्रूपादयश्चत्वारो धर्मा [एव] पृथिवी। पृथिवीभागे[ऽपि] पृथिवीति संज्ञा भवति। यथारूपमिदं प्रज्ञप्तेर्हेतुं साधयति तत्र पुरुष इति संज्ञा। वृक्षेषु वनमिति संज्ञा। भिक्षुषु सङ्घ इति संज्ञा। एवं रूपादिषु धर्मेषु चत्वारि महाभूतानीति संज्ञां वदन्ति।

यदवोचः-यदि वा षट् स्पर्शायतनानि यदि वा षट् स्पर्शायतनान्युपादाय सिद्धा [धर्मा] इति। नेदं सूत्रं युक्तम्। यथा भवतां शासने भौतिकं रूपं न कस्यचिज्जनकम्। तथा मम शासनेऽपि प्रज्ञप्तौ न [तत्]कस्यचित् जन्यम्। अत इदं सूत्रं न भवेत्। अस्ति चेत्तस्यार्थोऽन्यथयितव्यः। यदवादीः-चत्वारि महाभूतान्युपादाय भौतिको रूपप्रसादः चक्षुरिति। तदयुक्तम्। चतुर्णां महाभूतानां समवायः प्रज्ञप्तौ चक्षुरित्युच्यते। प्रज्ञप्तिसन्ति चत्वारि महाभूतानि रूपम्। तद्रूपप्रसादश्चक्षुः। यद्युप्युक्तं भवता धर्मे धर्मो वर्तते निराश्रयो निरधिष्ठाता चेति। [तत्र यो धर्मः] स एवाश्रयः अधिष्ठाता च। येन वर्तते स आश्रयः। यस्मिन् धर्मे तिष्ठति सोऽधिष्ठाता। यदवोचः-खक्खटलक्षणं “संघत्त” इत्यादि। नेदं युज्यते। न खक्खटलक्षणं केवलं धत्ते। अपि तु हेतुप्रत्ययसामग्रीञ्चापेक्षते। तथान्यान्यपि। तस्माच्चत्वारि महाभूतानि प्रज्ञप्तिसन्ति॥

पूर्वतनसिद्धान्तप्रकाशनवर्गं एकचत्वारिंशः।

४२ खक्खटलक्षणासत्तावर्गः

(पृ) यदाह भवान्-खक्खटबहुलो रूपादि [समवायः] पृथिवीमहाभूतमित्यतः पृथिव्यादयः प्रज्ञप्तिसन्त इति। नेदं युज्यते। कस्मात्। खक्खटधर्म एव नास्ति। किं पुनः प्रज्ञप्तिसती पृथिवी। (१) यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुः। अतो ज्ञायते खक्खटलक्षणमनियतमिति। (२) अल्पतरकारणेन च खक्खटबुद्धिर्भवति। अणूनां विश्लिष्टसमवाये मृदुरिति बुद्धिर्भवति। संश्लिष्टसमवाये खक्खटमिति। अतोऽनियतम्। (३) नह्येकस्मिन् धर्मे स्पर्शद्वयं भवति। येन खक्खटः कायः मृदुः काय इति बुद्धिर्भवेत्। अतोऽनियतं खक्खटलक्षणम्। (४) अनियता खक्खटता मृदुता चान्योन्यमपेक्ष्यास्ति। यथा कम्बलमपेक्ष्य पटं मृदु भवति। पटमपेक्ष्य कम्बलं कर्कशं भवति। न हि [तात्त्विकः] स्पर्शधर्मः अन्योन्यमपेक्ष्यास्ति। (५) सुवर्णपाषाणे चक्षुषा द्रष्टुर्ज्ञायते इदं खक्खटमिति। न हि स्पर्शश्चक्षुषोपलभ्यते। अतो नास्ति खक्खटता। अनेनैव कारणेन मृद्वादयः स्पर्शा अपि न सन्ति॥

खक्खटलक्षणासत्तावर्गो द्विपंञ्चाशः।

४३ खक्खटलक्षणसत्तावर्गः

अत्रोच्यते। द्रव्यसत् खक्खटलक्षणम्। यद्यप्याह भवान्-यो मृत्पिण्डः खक्खटः स एव [कदाचित्] मृदुरिति (१)। तदयुक्तम्। कस्मात्। नह्यस्त्यस्माकं द्रव्यतो मृत्पिण्डः। बहूनां धर्माणां कलापः प्रज्ञप्त्या मृत्पिण्ड इत्युच्यते। अल्पतरकारणेन च खक्खटबुद्धिर्भवतीति यदवोचः (२)। न तद्युज्यते। मम संश्लिष्टसंङ्घाताणुषु इदं खक्खटलक्षणं लभ्यत इति अस्ति खक्खटता। असंश्लिष्टेषु तन्मृदुलक्षणं लभ्यते, इत्यतो नास्ति दोषः। यो धर्म उपलभ्यते। स एवास्तीत्युच्यते। यदप्युक्तं-नह्येकस्मिन् धर्मे स्पर्शद्वयमस्तीति (३)। तदयुक्तम्। उपलभ्यन्ते किलास्माभिः एकस्मिन्नेव धर्मे बहवः स्पर्शाः खक्खटोऽपि मृदुरपीति। यदप्युक्तम्-खक्खटता मृदुता चान्योन्यमपेक्षत इति नास्ति नियतेति (४) तन्नयुज्यते। यथा ह्रस्वदीर्घत्वादि अन्योन्यमपेक्ष्याप्यस्ति। यथा सितोपलारसमास्वादयितुरसितोपलारसः कटुर्भवति। हरीतकीरसमास्वादयितुरसितोपलारसो मधुरो भवति। यद्यन्योन्यापेक्षणान्नास्ति। तदा रस एव न स्यात्। (पृ) असितोपलायां द्विविधोऽस्ति रसः मधुरः कटुरिति। (उ) [तर्हि]पटेऽपि द्वौ स्पर्शौ स्तः खक्खटो मृदुश्चेति।

पाषाणदर्शने खक्खटता ज्ञायत इति यदुक्तम्। तदयुक्तम्। न हि चक्षुषा ज्ञेया खक्खटता। स्पर्शपूर्वकमनुमीयते। यथाग्निं दृष्ट्वा ऊष्म ज्ञायते इति नोष्म दृश्यं भवति। यथा पुरुषः कम्बलं दृष्ट्वा संशेते किमिदं कठिनं किं वा मृदु इति। अतः स्पर्शो न चक्षुषा दृश्यः। अतः सन्ति खक्खटादयः स्पर्शाः।

अथ खक्खटादयो द्रव्यसन्तः। कस्मात्। विकल्पचित्तस्योत्पादकत्वात्। यदि नास्ति खक्खटता। तदा किं विकल्प्येत। खक्खटः [स्व] चित्तस्य प्रत्ययं करोति। यत्र तक्ष्णादि कर्मान्तरं क्रियते। मृदुस्निद्घलक्षणविरुद्धं यत् तत् खक्खटमित्युच्यते। सन्धारणस्य प्रत्ययत्वात् खक्खटम्। करादीन् प्रतिहन्तीति खक्खटम्। प्रत्यक्षतः खलु जानीम इदं खक्खटमिति। प्रत्यक्षपरिज्ञाते च वस्तुनि न हेतुप्रत्ययापेक्षास्ति। लोके तद्वस्तु खक्खटमित्याख्यायते। तथान्यान्यपि। अतो ज्ञायतेऽस्ति खक्खटमिति॥

खक्खटलक्षणसत्तावर्गस्त्रिचत्वारिंशः।

४४ चतुर्महाभूतलक्षणवर्गः

(पृ) अस्ति खक्खटधर्म इति ज्ञातमेवास्माभिः। परन्तु पश्यामस्तप्ते सुवर्णे द्रवत्वम्। आपो घनीभूताः करकाः। किमिदं सुवर्णं खक्खटत्वात् पार्थिवम्। किं वा द्रवत्वादाप्यम्। (उ) अस्ति प्रत्येकं स्वलक्षणम्। यो धर्मः खक्खटः खरगतः स पृथिवीधातुः। यः स्निग्धः स्निग्धगतः सोऽब्धातुः। (पृ) सुवर्णं खक्खटं सत् [तेजसो योगात्] द्रवीभवति। आपः स्निग्धा अतिशैत्यात् करका भावन्ति इति कथं महाभूतानि न स्वलक्षणं जहति। यथाह सूत्रम्-चतुर्णां महाभूतानां लक्षणं कदाचित् विकार्यं चत्वारः श्राद्धा नान्यथोपलभ्यन्ते। इति। (उ) नास्माकं खक्खटतो द्रवो भवति। स्निग्धं वा खक्खटं भवति। किन्तु खक्खटो द्रवस्य हेतुं करोति। स्निग्धञ्च खक्खटस्य हेतुं करोति। अतो न जहाति स्वलक्षणम्।

(पृ) अभिधर्म उक्तम्-अपां लक्षणं स्नेह इति। केचिद्वदन्ति द्रव अपां लक्षणमिति। उक्तं सूत्रे-स्यन्दनमपां लक्षणमिति। किं पारमार्थिकं तत्त्वम्। (उ) द्रवस्नेहस्यन्दनानि अपां नामान्तराणि। (पृ) अपां कर्म द्रवश्चक्षुषा दृश्यमानो धर्मः। अतो द्रव एव [लक्षणम्] न तु स्नेहः स्यन्दनं वा। (उ) स्नेहस्यन्दनाभ्यां द्रवो भवति। स्निग्धं हि अधोमुखं याति। अतो द्रवः स्यन्दः। स्नेहस्यन्दौ चापां लक्षणम्। द्रवस्तु अपां कर्म।

(पृ) लघुसमुदीरणत्वं वायोर्लक्षणमुक्तम्। [तत्र] लघुत्वमन्यत् समुदीरणत्वमन्यत्। लघुत्वं स्पर्शायतनसङ्‍गृहीतम्। समुदीरणत्वं रूपायतनसङ्‍गृहीतम्। किमिदानीं वायुर्धर्मद्वयात्मकः सम्भवति। (उ) लघुत्वं वायोर्लक्षणम्। समुदीरणत्वं वायोः कर्म। कर्मणा संयुज्य [लक्षण]मुक्तम्। (पृ) नास्ति समुदीरणलक्षणम्। सर्वधर्माणां क्षणिकत्वात्। नान्यत्र प्राप्तिरस्ति। अन्यत्र प्राप्तिर्हि समुदीरणमुच्यते। प्राप्तिगमनसमुदीरणानामेकार्थत्वात्। (उ) कर्मेति केवलं लोकसत्यतो वदामः न तु परमार्थतः लघुधर्ममुपादाय देशान्तरे जननधर्मः कर्मेति संज्ञां लभते। तस्मिन्नेव समये गच्छतीत्युच्यते। (पृ) लघुत्वमनियतलक्षणम्। कस्मात्। अन्योन्यमपेक्ष्य सत्वात्। यथा दशपलं वस्तु विंशतिपलवस्त्वपेक्ष्य लघु पञ्चपलवस्त्वपेक्ष तु गुरु। (उ) गुरुत्वपरिमाणधर्मश्चित्तादि धर्ममुपादाय अन्योन्यमपेक्ष्य चास्ति। यथा कश्चिद्धर्मः अन्यमपेक्ष्य दीर्घः। कश्चित्तु धर्मोऽन्यमपेक्ष्य ह्रस्वः। सामान्यलक्षणन्तु [यत्] चित्तमुपादायास्ति तदेव लक्षणम्। यदि लघुत्वधर्मोऽन्योन्यापेक्षितत्वान्नास्ति। एतदाद्यपि न स्यात्। न तु तद्युज्यते। अतोऽन्योन्यापेक्षिकत्वं न सम्यग्धेतुः।

किञ्च लघुत्वं नान्योन्यापेक्षणादस्ति। किन्तु अतुल्यमस्ति। अतुल्यं वस्तु यथा दृतिमध्यगतो वायुः। अतो नापेक्ष्यास्ति। केवलं गुरुत्वधर्म आपेक्षिकः। विगतगुरुकं वस्तु अतुल्यम्। (पृ) यद्यतुल्यं वस्तु लघु इत्युच्यते। गुरुत्ववर्जिता अन्ये रूपादयो धर्मा अतुल्यत्वात् लघवः स्युः। तत्तु न युज्यते। अतो भवदुक्तं न लघुलक्षणम। (उ) न वयमङ्गीकुर्मो रूपादीन् विहाय धर्मान्तरं गुरु भवतीति। रूपादय एव धर्माः केचित् तुल्यस्वभावा उत्पद्यन्ते। यथा खक्खटमखक्खटं बलमबलं नवं पुराणमुपचितमनुचितं क्षीणमक्षीणं स्थूलं सूक्ष्मम् इत्यादयः। तेऽपि न रूपादीन् विहाय सन्ति। एवं गुरुलक्षणमपि। अयं रूपादिसङ्घातो यदि पार्थिव आप्यो वा। तदा तुल्यो भवेत्। यदि वायवीयस्तैजसो वा। तदा न तुल्यः स्यात्।

(पृ) यदि गुरुत्वधर्मो न रूपादीन् विहायास्ति। लघत्वमपि रूपादीन् विहायन स्यात्। (उ) सत्यमेवम्। रूपादीन् विहाय नास्ति पृथग् लघुत्वम्। किन्तु रूपादिगणकलापो लघुर्भवति। (पृ) मैवम्। गुरुलघुत्वविकल्पोऽवश्यं कायेन्द्रियेणेष्यत इत्यतो न गुरुर्लघुः रूपादिसङ्घातः। (उ) ते च खक्खटादयः कदाचित् चक्षुषा कदाचित् श्रोत्रादीना विकल्प्यन्ते। ते च खक्खटादयः पदार्था न रूपादीन् विहाय सन्ति। तथा गुरुर्लघुरपि। [तत्र] यद्यपि कायेन्द्रियं व्याप्रियते। न [तावता] पुनस्तत् लक्षणान्तरं भवति। न च कायेन्द्रियमस्पृश्य कायविज्ञप्तिमुत्पादयति। इदं गुरुत्वलक्षणं कायेनास्पृष्टमपि [तस्य] विज्ञप्तिमुत्पादयति। यथा गुरुद्रव्ये द्रव्यान्तर्गतापेक्षयापि तद्‍गुरुत्वं ज्ञायते। (पृ) न तस्मिन् समये ज्ञायत इदं गुरुलक्षणमिति। (उ) यथा परिहितवस्त्रः पुरुषोऽस्पृष्टोऽपि ज्ञायते [अयं] बलवान् अबलवान् इति। तथा गुरुर्लघुरपि। कस्मात्। विविधेभ्यः स्पर्शेभ्यो विविधाः कायविज्ञप्तयो भवन्ति। यथा कदाचिदावेधपीडनाभ्यां कठिनसुकुमार [स्पर्श] विज्ञप्तिर्जायते। कदाचिदुत्क्षेपणकम्पनाभ्यां गुरुलघुविज्ञप्तिर्जायते। कदाचिदादानसंस्पर्शाभ्यां दृढबल्बजविज्ञप्तिर्भवति। कदाचित् संस्पर्शप्रतिघाताभ्यां शीतोष्णविज्ञप्तिर्भवति। कदाचिन्मार्जनपरामर्शाभ्यां कर्कशश्लक्ष्णविज्ञप्तिर्भवति। कदाचिदभिषवसंमर्दाभ्यां बलीयस्तुन्दिलविज्ञप्तिर्भवति। छेदनवेधनाभ्यां दण्डाघातेन वा धात्वन्तरविज्ञप्तिर्भवति। केचित्स्पर्शाः सदाकायगताः न शीतोष्णादिवत् बाह्यमपेक्ष्यागामिनः यदुत प्रश्रब्धिसुखं स्त्यानप्रकर्षः अस्त्यानप्रकर्षः रोगो विशेषोवा कायतैक्ष्ण्यं कायमान्द्यम् आलस्यगुरुता मूर्छा उन्मादः पक्षवायुजृम्भणबुभुक्षापरितर्षणपरितर्पणसुखासुखलोलुपताजडतादयः स्पर्शाः। [ते] प्रत्येकं पृथक् पृथग्विज्ञप्तिजनकाः।

(पृ) यत् गुरुलघुलक्षणं स रूपादिसङ्घात एव। कथं तद्रूपादीनां कायविज्ञप्तिं प्रति प्रत्ययत्वम्। (उ) न रूपादिसङ्घातस्य कायविज्ञप्तिं प्रति प्रत्ययनव्यापारः। केवलं तदवयवस्पर्शः कायविज्ञप्तिं प्रति प्रत्ययः। यथा खक्खटाखक्खटत्वादयो रूपादिसङ्घातवर्तिनोऽपि चक्षुषा दृष्ट्वा ज्ञातुं शक्यन्ते। यथा च प्रश्रब्धिसुखादयो रूपादिसङ्घातात्मककायेनापि विज्ञाय विकल्प्यन्ते। तथेदमपि।

यदि गुरुर्लघुः स्पर्शमात्रम् [इत्यभ्युपगम्यते] को दोषः किमनया रूपादिसङ्घातविकल्पक्रियया। (उ) यथा लौकिका वदन्ति प्रत्नधान्यं पूतिधान्यमिति। इदं प्रत्नपूतिल क्षणं रूपादिभ्योऽन्यत् स्यात्। वस्तुतस्तु न तथा। रूपादीनां प्राथमिक उत्पादः प्रत्नमित्युच्यते। यदीदं प्रत्नलक्षणं रूपादिसङ्घात एव। कथं गुरुलक्षणं न तथा। (पृ) यदि लघुगुर्वादयो रूपादिसङ्घाता एव। लघुलक्षणञ्च वायौ तेजसि च वर्तते। तदा लघुत्वबहुलो रूपादिसङ्घातो वायुः स्यात्। तथा चेत्तेज एव वायुः स्यात्। (उ) यत्न [य]ल्लक्षणबाहुल्यं [तस्य] तन्महाभूतमिति नाम। तेजसि लघूष्मलक्षणञ्चास्ति। ऊष्मबहुलमित्यतस्तेज इत्युच्यते। न तु लघुत्वबाहुल्याद्वायुर्भवति। वायौ लघुत्वमात्रमस्ति। न तूष्म। अतो लघुमात्रेणाख्या भवति। नास्माकं लघुमात्रेण वायुर्भवति। किंन्तु यो लघुः सन् समुदीरणस्य हेतुं करोति। स वायुरित्युच्यते। यथोक्तं सूत्रे-लघुसमुदीरणलक्षणो वायुरिति। तत्र लघुत्वं वायोर्लक्षणं समुदीरणत्वं वायोः कर्म।

(पृ) वायुः पर्वतमपि अवमूर्धयति। यदि। लघुद्रव्यम्। कथं तथा कुर्यात्। (उ) वायुः स्थूलः सन् बलिष्ठो भवति। तथा प्रभावक्षमो भवति। यथा कदाचिद्वायुरल्पकं तृणं कम्पयति। कदाचित्पर्वतमुन्मूलयति। ईदृशं वायोः कर्मेति ज्ञातव्यम्।

(पृ) पृथिव्यादिमहाभूतानि किमविशेषेण रूपरसगन्धस्पर्शसङ्घाताः। (उ) नास्ति नियमः। यथा पृथिव्यां सन्ति रूपरसगन्धस्पर्शाः। कदाचित् केवलं रूपस्पर्शौ स्तः यथा सुवर्णजतादिषु। अप्सु कदाचित् रूपरसगन्धस्पर्शाः सन्ति। कदाचित् त्रयो रूपरसस्पर्शाः सन्ति तेजसि कदाचित् रूपरसगन्धस्पर्शाः सन्ति। कदाचित् त्रयो रूपगन्धस्पर्शाः सन्ति। कदाचित्केवलं रूपस्पर्शौ स्तः। अतो नास्ति नियमः।

(पृ) वायोः स्पर्शः कीदृशः। (उ) शीतोष्णकठिनसुकुमारादयः स्पर्शाः यन्महाभूतसन्ततावविनिर्भागवर्तिनः तस्य महाभूतस्य स्पर्शा इति ज्ञातव्यम्। (पृ) भिषजो वदन्ति वायुरूपं कृष्णमिति। किं पारमार्थिकम्। (उ) वायुः कृष्णरूपस्य हेतुः। यथा वातरोगिणो मुखे तिक्तरसोऽस्तीति न स भिषग्ववति वायौ रसोऽस्तीति। तदा वायू रसस्य हेतुरिति भवति। (पृ) केचिद्वदन्ति वायुः शीतो न तु लघुरिति। किं परमार्थिकम्। (उ) नास्ति यः शीतः स वायुरिति। यथा हिमं शीतं सत् न वायुर्भवति। वायुशैत्यञ्चान्यत्। कस्मात्। यथोष्णवायुरनुष्णाशीतवायुश्च वायुरित्याख्यायते। अतो लघुत्वाश्रयः सङ्घातो वायुर्भवति। किञ्च रूपरहितस्पर्शादिधर्मजननो वायुः। न तु [यत्] शीतं [स] वायुः।

(पृ) वायु रूपरसवत्त्वे को दोषः। (उ) वायौ रूपरसौ नोपलभ्येते। सत्त्वेऽपि सौक्ष्म्यान्नोपलभ्यत इति वक्तुश्चित्त एव संज्ञानुस्मरणविकल्पः स्यात् यदुत वायौ रूपरसौ स्त इति। नत्विदं युज्यते। न हि वयं वदामः सत्कार्यम्। तस्मात् यत्फल उपलभ्यते नावश्यं तद्धेतौ पूर्वमस्ति। अयं चतुर्णां महाभूतानां परमार्थः सिद्धः॥

चतुर्महाभूतलक्षणवर्गश्चतुश्चत्वारिंशः।

४५ इन्द्रियप्रज्ञप्तिवर्गः

(पृ) चक्षुरादीनीन्द्रियाणि किं चतुर्महाभूतैः सहैकानि उतान्यानि। (उ) कर्मतश्चत्वारि महाभूतानि प्रतीत्य चक्षुरादीनीन्द्रियाणि भवन्ति। अतश्चतुर्महाभूतेभ्यो नान्यानि। चक्षुर्विकल्पयन् भगवानेवं वचनमाह यच्चक्षुषि मांसपिण्डे खक्खटं खरगतं स पृथिवीधातुरिति। कस्मात्। खक्खटादिविकल्पमात्रं, न पुनरन्यदस्ति चक्षुः। भगवान् चक्षुः शून्यमिति जनानां जिज्ञापयिषयैवेदृशं वचनमाह। तथा नो चेत् चक्षुषि खक्खटादिकमन्यदस्ति खक्खटादौ वा अन्यदास्ति चक्षुः [इति]खक्खटादीनां विकल्पेऽपि नास्ति कश्चनोपकारः। अतः सर्वाणीन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानि। षड्‍धातुसूत्रे चोक्तं-षड्‍धातुरयं पुरुष इति। यदीन्द्रियाणि [न] चतुर्महाभूतेभ्योऽन्यानि। तदा चक्षुरादीनि न पुरुषप्रत्यया इति सिध्यति। रूपादीनुपादाय चत्वारि महाभूतानि भवन्ति। तथा शब्दोऽपि पुरुषप्रत्यय इति सिध्येत्। षड्‍धातुमात्रे पुरुष इति प्रज्ञप्यते। अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानीति।

कश्चिद्भिक्षुर्भगवन्तं पृच्छति कतमच्चक्षुरिति। भगवान् प्रत्याह-चत्वारि महाभूतान्युपादाय रूपि अनिदर्शनं सप्रतिघं चक्षुः इति। अतो न चतुर्महाभूतेभ्योऽन्यदिति ज्ञायते। अयं भिक्षुस्तीक्ष्णेन्द्रियः प्राज्ञः। तस्य चक्षुरादिषु कांक्षा समपद्यत। लौकिकाः सर्वे प्रजानन्ति रूपदर्शनं चक्षुर्यावत् स्पर्शनं काय इति। तस्य भिक्षोश्चक्षुरादीन्द्रियेषु नास्तीति शङ्कोदपादि। कस्मात् केचिदाचार्या वदन्ति पञ्चस्वभावाः पञ्चेन्द्रियाणीति। अन्ये केचिद्वदन्ति एकस्वभावा इति। [अतो]ऽयं भिक्षुर्भगवतः शासनमिमांसया भगवन्तं पप्रच्छ। पञ्चेन्द्रियाणि चतुर्महाभूतमयानीति परिदिदृक्षया भगवान् प्रत्याह-चक्षुर्भिक्षो [आध्यात्मिकमायतन] चत्वारि महाभूतान्युपादाय रूपमनिदर्शनं सप्रतिघमिति। यो धर्मो द्रव्यसन् न स उपादायास्ति। प्रज्ञप्तिमुपादाय धर्मः प्रज्ञप्तिरेव। यथा वृक्षानुपादाय वनम्।

(पृ) केचिद्वदन्ति रूपप्रसाधनं चक्षुरिति। कतमत्पारमार्थिकम्। (उ) यत्प्रसाधनं तदप्रसाधमेव। कर्महेतुजानि चत्वारि महाभूतानि चक्षुरादीन्द्रियाणीत्याख्यायन्ते। तथा नोचेत् अस्य भिक्षोश्चक्षुरादिषु इन्द्रियेषु शङ्का नैवोच्छिद्येत। कस्मात्। भगवान् प्राह-चक्षुरादीनिन्द्रियाणि चत्वारि महाभूतान्युपादाय भवन्तीत्यतोऽयं भिक्षुर्जानाति अद्रव्यसन् चक्षुर्धर्म इति। अतो ज्ञायते चक्षुरादीनि न चतुर्महाभूतेभ्योऽन्यानीति। भगवान् चक्षुषः शून्यत्वप्रदर्शनाय तत्र चत्वारि महाभूतानि विकल्पयति। यथा प्रज्ञया अप्रपञ्चयिता वदति-अयं कायः षट्‍सु धातुषु विभक्तः यत् खक्खटं खरगतं स पृथिवीधातुरित्यादि प्रत्यवेक्षेतेति। एवं पञ्चधातुभ्यो विरक्तस्य एकं विज्ञानमात्रमस्ति। तद्यथापि गोधातकस्य। हस्तिपदोपमसूत्रे चत्वारि महाभूतानि विकल्पितानि न पुनश्चक्षुः। यद्यस्ति पृथक् चक्षुः, विकल्प्येत। वात्सपुत्रीयादय अभिधर्मिका अपि ईदृशं वचनं कुर्वन्ति। अदुष्टत्वात् श्रद्धातव्यं स्यात्।

(पृ) पञ्चेन्द्रियाणि चतुर्महाभूतेभ्योऽन्यानि। कस्मात्। चक्षुरादीनि चक्षुराद्यायतनसंगृहीतानि। चत्वारि महाभूतानि स्प्रष्टव्यायतनसंगृहीतानि। चक्षुरादीन्याध्यात्मिकायतनानि। चत्वारि महाभूतानि बाह्यायतनानि। चक्षुरादीनीन्द्रियाणि, चत्वारि महाभूतानि अनिन्द्रियाणि। चक्षुरादीनि भौतिकरूपप्रसाधनानि। न तथा चत्वारि महाभूतानि। अतो ज्ञायत इन्द्रियाणि न चतुर्महाभूतानि।

(उ) एकमेव वस्तु प्रत्ययवशान्नानोच्यते। यथा श्रद्धादीनि पञ्चेन्द्रियाण्यपि संस्कारस्कन्ध इत्याख्यायन्ते। यानि चत्वारि महाभूतानि कर्मजानि चक्षुरादिसङ्‍गृहीतानि [तानि] आध्यात्मिकमायातनम् इन्द्रियम् इति च कथ्यन्ते। तान्येव [इन्द्रिय]प्रसाधनानि। यथा चक्रादयश्शकटसाधनानि। चक्रमेव हि शकटम्। तथेदमपि।

(पृ) मैवम्। यथा श्रद्धा नाम चित्तप्रसादः। अन्या च श्रद्धा अन्यत् चित्तम्। तथेदमपि। (उ) न युज्यत [इदम्] यथा प्रसादमुपादाय आपः स्फटिकम्। आप एव प्रसन्ना आप इति प्रसाद आप एव। एवं प्रतिलब्धश्रद्धास्फटिकं चित्तस्त्रोतः प्रसादः। अयं चित्तप्रसादश्च चित्तमेव। न वयमस्मिन् शास्त्रे वदामश्चित्तादन्यदस्ति श्रद्धेति। अतो नायं दृष्टान्तः सम्भवति। इन्द्रियाणि च प्रज्ञप्तयः। न च प्रज्ञप्तिः तत्साधनहेतोरन्येति वक्तुं शक्यते।

(पृ) एकमित्यपि न वक्तुं शक्यते। (उ) चतुर्महाभूतप्रसाधित इन्द्रियमिति प्रज्ञप्यते। न चतुर्महाभूतमात्रमिद्रियम्। अतो ज्ञायते इन्द्रियाणि न चतुर्महाभूतेभ्योऽन्यानीति॥

इन्द्रियप्रज्ञप्तिवर्गः पञ्चचत्वारिंशः।

४६ इन्द्रियविकल्पवर्गः

(पृ) इन्द्रियेषु किं महाभूतं न्यूनं किमधिकम्। (उ) न किञ्चित् न्यूनमधिकं वा। (पृ) यदि सर्वाणि भूत [मया] नि। कस्मात्किञ्चिद्रूपं पश्यति। किञ्चिन्न पश्यति। (उ) सर्वं कर्मजम्। कर्मजचाक्षुषचतुर्महाभूतबलं रूपं पश्यति तथान्यान्यपीन्द्रियाणि। (पृ) यदि कर्मजम्। कस्मान्नैकेन्द्रियेण सर्वान् विषयान् जानाति। (उ) इदं कर्म पञ्चधा विभक्तम्। किञ्चित्कर्म दर्शनस्य हेतुं करोति। यथा प्रदीपदानं चक्षुरिन्द्रियविपाकम्। तथा शब्दादीनामपि। कर्मविशेषात् इन्द्रियबलं भिद्यते। (पृ) यदीदं कर्मबलम्। इन्द्रियाणां कापेक्षा। कर्मजं विज्ञानमात्रं सर्वविषयान् गृह्णीयात्। (उ) मैवम्। प्रत्यक्षं पश्यामः खलु अनिन्द्रियाणां विज्ञानं नोत्पद्यत इति। तथा हि यथान्धो न पश्यति। न बधिरः शृणोति। प्रत्यक्षदृष्टे वस्तुनि निरर्थिका प्रत्ययता स्यात्। नैतद्‍दूषणं भवति। धर्मता च तथा-य इन्द्रियविरहिताः तेषां विज्ञानं नोत्पद्यत इति। न बाह्यानि चत्वारि महाभूतानि अनिन्द्रियाणि जनयन्ति इति धर्मता तदपेक्षेत। इन्द्रियालङ्‍कृताः सत्त्वानां काया इत्यतः कर्मजम्। यथा धान्यकारणकर्मप्रतिलम्भात् धान्यं बीजाङ्‍कुरकाण्डनालपत्राण्यपेक्ष्यापि क्रमशो जायते। एवमिदमपि।

(पृ) कस्मान्न तथा चित्तम्। यथा चक्षुर्विज्ञानं चक्षुरिन्द्रियकं समनन्तरनिरुद्धचित्तमुपादाय च भवति। चित्तन्तु समनन्तरनिरुद्धचित्तमात्रेन्द्रियकम्। न पुनरस्ति चक्षुरादीनामिव इन्द्रियायतनम्। वक्तव्यश्च प्रत्ययः। (उ) नियतानां पञ्चविषयाणां नियतानि पञ्चविज्ञानानि सन्ति। नैवं चित्तस्य। चित्तधर्मश्च तथा स्यात्-यत् समनन्तरनिरुद्धचित्तेन्द्रियकं भवति नान्यत्किञ्चिदपेक्षत इति। यथातीतानागतधर्मा असन्तोऽपि मनस आलम्बनानि भवन्ति। चित्तचैत्ता अप्येवमितीदमपि युज्यते। इदञ्च भवतां सिद्धान्तेन समम्। भवतां सिद्धान्तश्च-रूपादिविषयेषु विज्ञानमिन्द्रियमपेक्ष्योत्पद्यते। समनन्तरनिरुद्धचित्तमपेक्ष्य मनोविज्ञानमुत्पद्यत इति।

(पृ) यदि मनोविज्ञानस्य न पुनरिन्द्रियमस्ति। कुत्राश्रित्य भवति। (उ) चतुर्महाभूतकायमाश्रित्य भवति। (पृ) आरूप्यधातौ क आश्रयः। (उ) आरूप्यधातुविज्ञानस्य न कश्चनाश्रयोऽस्ति। धर्मतेयं यन्निराश्रयं तिष्ठतीति। कस्मात्। लक्षणविशेषात्। मनोविज्ञानमेव जानाति अस्ति नास्तीति। रूपिण आश्रयो भवति। अरूपमपि तिष्ठतीति आरूप्यधातावपि निराश्रयं तिष्ठति। प्रत्ययसामग्र्या विज्ञानमुत्पद्यते। यथोक्तं सूत्रे-मनः प्रतीत्य धर्मांश्च मनोविज्ञानमुत्पद्यत इति। अस्य क आश्रयः। नास्ति तु पुरुषाणामिव भित्त्यादिः। सर्वे धर्माः प्रकृतिप्रतिष्ठाः॥

इन्द्रियविकल्पवर्गः षट्‍चत्वारिंशः।

४७ इन्द्रियाणां समभूततावर्गः

(पृ) तीर्थिका वदन्ति-पञ्चेन्द्रियाणि पञ्चभूतेभ्यो जातानीति। किं परमार्थिकम्। (उ) न [तेभ्यो जातानि]। कस्मात्। आकाशस्याभावात्। इदञ्च दीपितमेव। तस्मान्न पञ्चभूतेभ्यो जातानि।

(पृ) तीर्थिका वदन्ति-चक्षुषि तेजोमहाभूतं बहुलम्। कस्मात्। कर्मसारूप्यहेतोः। प्रदीपदानमुपादाय चक्षुर्लभते। यथोक्त सूत्रे-पटं दत्वा रूपं लभते। अन्नं दत्वा रूपं लभते। अन्नं दत्वा बलं लभते। यानं दत्वा सुखं लभते। प्रदीपं दत्वा चक्षुर्लभते। इति। अतश्चक्षुषि तेजोमहाभूतं बहुलम्। चक्षुश्चालोकमपेक्ष्य पश्यति। आलोकविगतं न पश्यति। अतो ज्ञायते तेजोमहाभूतं बहुलमिति। तेजश्च सुदूरं प्रकाशयति। सप्रभत्वात् चक्षुः सुदूरं रूपं प्रतिहन्ति। वदन्ति च म्रियमाणस्य चक्षुः सूर्यं प्रतिगच्छतीति। अतो ज्ञायते सूर्यो मूलप्रकृतिरिति। चक्षुर्नियमेन रूपमेव पश्यति। रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यति। एवमाकाशपृथिव्यब्‌वायव इन्द्रियतो न्यूनाधिकाः। म्रियमाणस्य श्रोत्रमाकाशं प्रतिगच्छति। श्रोत्रं नियमेन शब्दं शृणोति। शब्दश्चाकाश[गतः]। एवन्यान्यान्यपि। अत इन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्ति। [न समानि]। इति।

अत्रोच्यते। यद्भवानवोचत्-कर्मसारूप्यहेतोरिति। तदयुक्तम्। कस्मात्। किञ्चिद्दर्शनं सफलं विना कर्मसारूप्यहेतोः। यथा वदन्ति-अन्नं दत्वा पञ्चवस्तु-विपाकान् लभत इति। यदि चक्षुषि तेजो बहुलम्। प्रदीपादिबाह्यालोकमनपेक्ष्य [पश्येत्]। यदि बाह्यालोकापेक्षिणोऽपि चक्षुषस्तेजो बहुलम्। तदा श्रोत्रादीन्द्रियेष्वपि आकाशादयो बहुलाः स्युः। न बाह्याकाशादीनपेक्षेरन्। वस्तुतस्तु बाह्यानपेक्षन्ते। अतोऽहेतुः। आपश्चक्षुष उपकुर्वन्ति। यथा क्षालितचक्षुष्कस्य पुरुषस्य चक्षुः स्फुटमेव प्रत्येति। तदा अब्बहुलं स्यात्। तेजश्च चक्षुर्विनाशयति यथा सूर्यप्रभादयः। यदीमे स्वप्रकृतयः, नात्मानं विघटयेयुः। अतो ज्ञायते न तेजो[बहुलम्] इति। दिव्यं चक्षुरालोकमन्तरापि रूपं पश्यति। अतो न तैजसं चक्षुः। चन्द्रिकायाञ्च रूपं द्रष्टुं शक्नोति। चन्द्रश्च न तेजःप्रकृतिकः। तथा चक्षुषो धर्मशक्तिरपि। किञ्चिच्चक्षुरालोकमपेक्ष्य पश्यति। किञ्चिदनपेक्ष्यापि पश्यति। यथा चक्षुराकाशादिप्रत्ययं लब्ध्वा रूपमप्राप्यापि सुदूरं पश्यति। ईदृशी चक्षुषो धर्मता। अतो न कार्यः संज्ञानुस्मरणविकल्पो यदुत तेजोबहुलं [चक्षु]रिति।

यद्भवानवोचत्-आलोकमन्तरा न पश्यतीति। यद्याकाशं मनस्कारं रूपञ्चान्तरा न पश्यति। तदा आकाशादयोऽपि बहुलाः स्युः। न हि सर्वं चक्षुर्बाह्यालोकमपेक्षते। यथा उलूकादयः पक्षिणो विडालसृगालादयस्तीर्यञ्च बाह्यामालोकमनपेक्ष्यापि द्रष्टुं शक्नुवन्ति। अतो न तेजोबहुलम्। तेजः प्रज्वलत् सदोष्मलक्षणम्। चक्षुस्तु न तथा।

यद्भवानवादीः-चक्षुः सप्रभत्वात् सुदूरं रूपं पतिहन्तीति। तद् दूषितमेव। निष्प्रभत्वाच्चक्षुषः। यदुक्तं सूर्यं प्रतिगच्छतीति। चक्षुस्तदा नित्यं स्यात्। सूर्यादयश्च नेन्द्रियाणि। चक्षुः कस्मात् प्रतिगच्छति। यदि सूर्यो म्रियते। सूर्येन्द्रियं सूर्यश्च कुत्र पुनः प्रतिगच्छति। अतोऽयुक्तम्। उपरि देवानां म्रियमाणानां चक्षुः कुत्र प्रतिगच्छति। तत उपरि सूर्याभावात्। आकाशमक्रियं सत् अप्रतिशरणं भवति। इन्द्रियाणि न प्रतिगच्छन्ति। संस्कृतधर्माणां क्षणिकत्वात्।

यद्भवतोक्तं-चक्षुर्नियमेन रूपमेव पश्यति। रूपञ्च तैजसमित्यतः पुनरात्मभावमेव पश्यतीति। नेदं युक्तम्। निरुपयोगहेतुत्वात्। शब्द आकाशगत इत्यादिरपि एवं [वाच्यः]। तस्मादिन्द्रियेषु महाभूतानि न्यूनाधिकानि भवन्तीति भवद्वचनं दूषितमेव।

(पृ) केचिदाचार्या आहुः-एकमिन्द्रियमेकस्वभावम्। इति। पृथिव्यां [केवलं] गुणबहुत्वात् गन्धोऽस्ति गन्धज्ञानोत्पादकः। अब्तेजोवायुषु रूपरसस्पर्शाः सन्ति इति रूपरसस्पर्शज्ञानोत्पादका भवन्ति। किं पारमार्थिकम्। (उ) उक्तपूर्वं मया नास्ति नियम इति। पृथिव्यां गन्धोऽन्येऽपि सन्ति। अतोऽहेतुः। महाभूतानि च सम्भूय सम्भवन्ति। न हि दृश्यते काचित्पृथिवी अबादिवियुक्ता। यदि गन्धवत्त्वात् पृथिवी गन्धज्ञानोत्पादिनी। रूपादिज्ञानोपादिन्यपि स्यात्। गुणचतुष्टयोपेतत्वात्पृथिव्याः।

(पृ) गन्धमात्रं पृथिव्यामस्ति। घ्राणं पार्थिवमित्यतो गन्धमात्रं ज्ञापयति। (उ) पृथिवीगुणः पृथिवीमात्रेऽस्ति। घ्राणं क्षीण[गन्ध]ज्ञानं स्यात्। अपां शीतस्पर्शमात्रं तेजस उष्णस्पर्शमात्रं जिव्हाचक्षुर्भ्यां ज्ञातुं शक्नुयात्। न तु युज्यते वस्तुतः। द्रव्यं नास्तीति इन्द्रियं नास्ति। इन्द्रियाणां बलवृत्तिर्विषयसंयोगात् ज्ञानं जनयतीति। संयोगे च भग्ने नेन्द्रियवृत्तिः। तस्मानैकस्वभावमिन्द्रियम्॥

इन्द्रियाणां समभूततावर्गः सप्तचत्वारिंशः।

४८ न विजानातीन्द्रियवर्गः

(पृ) इन्द्रियाणि विषयान् किं प्राप्य विजानन्ति उताप्राप्य विजानन्ति। (उ) नेन्द्रियं विजानाति। कस्मात्। यदीन्द्रियं विषयं विजानाति। तदा सर्वान् विषयानेककालं विजानीयात्। वस्तुतस्तु न विजानाति। अतो विज्ञानं विजानाति। भवतो हृदयम्-यत्केचिद्वदन्ति इन्द्रियं विज्ञानमपेक्ष्य सह विजानाति न तु विज्ञानवियुक्तं विजानातीति। तदयुक्तम्। न कश्चिद्धर्मोऽन्यं धर्ममपेक्ष्य किञ्चित्कर्तुं समर्थः। यदीन्द्रियं विजानाति। का विज्ञानस्यापेक्षा। यदीन्द्रियं विजानाति इदमिन्द्रियकर्म इदं विज्ञानकर्म इति विवेक्तव्यम्।

(पृ) प्रकाशनमिन्द्रियकर्म। विज्ञापनं विज्ञप्तिकर्म। (उ) नायं विवेको [युक्तः]। कतमत् प्रकाशनम्। भवतां शासने श्रोत्रादीनीन्द्रियाणि न तेजःप्रकृतिकानि इति न प्रकाशयेयुः। यदीन्द्रियाणि विज्ञानस्य प्रदीपकल्पानि। तदेन्द्रियाणि पुनः प्रकाशकानि स्युः। यथा प्रदीपः। तदा प्रकाशकस्य पुनः प्रकाशक इत्येवमनवस्था स्यात्। यदि पुनः प्रकाशकं विनापि इन्द्रियमात्रं प्रकाशयति। [तदा] विनेन्द्रियामपि विज्ञानमात्रं विजानीयात्। अतः प्रकाशनं नेन्द्रियकर्म। किञ्चेन्द्रियं न विजानाति। यथा प्रदीपः प्रकाशयन्नपि न विजानाति। अतोऽवश्यं विज्ञानस्याश्रयकृत्यं करोतीदमिन्द्रियकर्म। अतो विज्ञानमात्रं विजानाति। नेन्द्रियाणि। सति विज्ञाने ज्ञानं नासति। यथा सति तेजसि ऊष्म नासति इति।

(पृ) सूत्र उक्तं-चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही स्यादिति। तथा श्रोत्रादीन्यपि। अतो ज्ञायते चक्षूरूपं गृह्णातीति। चक्षुरादीनीन्द्रियाणि यदि न विजानन्ति। केनेन्द्रियत्वम्। उक्तञ्च सूत्रे-वयं माणवकाः सुसूक्ष्ममषि वस्तु जानीमः। तद्यथा चक्षुर्भ्यां दृश्यत इति। यदि चक्षुर्न पश्यति। तदा जिनौरसा न किञ्चन पश्येयुः। नेदं संभवति। अत इन्द्रियाणि नियमेन विषयान् गृह्णन्ति। इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इत्ययमेवेन्द्रियविज्ञानयोर्भेदः।

(उ) सूत्रे भगवान् स्वयमाह-चक्षु[ब्राह्मण]द्वारं[यावदेव] रूपाणां दर्शनाय इति। अतश्चक्षुर्न पश्यति। चक्षुषा द्वारीभूतेन तत्रस्थं विज्ञानं पश्यति। अत उच्यते चक्षुः पश्यतीति। (पृ) आह च-मनो द्वारं [यावदेव] धर्माणां विज्ञानाये ति। किं सम्भवति मनसा द्वारीभूतेन विजानातीति। (उ) मनो [विज्ञानस्या]पि समनन्तरनिरुद्धं चित्तं द्वारम्। अतो न मनो विजानाति। मनोविज्ञानन्तु विजानाति। सूत्रे भगवानाह-चक्षुः प्रियरूपाणि काम्यति। इति। चक्षुर्हि रूपप्रकृतिकमविवेकि। अतो न वस्तुतः काम्यति। तद्विज्ञानमेव काम्यति। किञ्चाह भगवान्-चक्षुर्विज्ञेयानि रुपाणि इति। विज्ञानं रूपं विजानाति। न चक्षुः। किञ्च लौकिका व्यवहरन्ति-चक्षुः पश्यति श्रोत्रं शृणोति इति। तद्भगवानप्यनुवदति। किमिति रूपमात्रं द्रष्टव्यं नान्यत्। आह च भगवान्-पश्यामि रागादीन् दोषान् इति। चन्द्रः क्षीण इति लौकिकानां वचनं भगवानप्यनुवदति। यथा दरिद्रः पुरुषः प्रभुरिति निगद्यते। तथा भगवानप्यनुवदति। नहि तथागतो लोकैः सह विवदितुमभिलषति। यथा मृगारमाता इत्यादि। अतो ज्ञातव्यं व्यवहारानुवर्तनाद्भगवानाह चक्षुः पश्यतीति।

(पृ) लोके कस्मादेवं व्यवहरति। (उ) चक्षुषो विज्ञानाश्रयहेतुतामनुसृत्य तस्मिन् हेतौ पश्यतीति वदन्ति। यथा वदन्ति स पुरुषः पश्यति अयं पुरुषः पश्यतीति। यथा च वदन्ति जनाः पुण्यपापादीनि कुर्वन्ति। तथागता देवा ऋषयश्च पश्यन्तीति। यथा च वदन्ति वामचक्षुषा पश्यति दक्षिणचक्षुषा पश्यतीति। वदन्ति च सूर्याचन्द्रमसाभ्यां पश्यति सूर्याचन्द्रमसौ पश्यतः। कदाचिदकाशं पश्यति। कदाचिन्मध्यं पश्यति यत् द्वारमध्यं [तत्] पश्यति इति। दग्धे पदार्थे वदन्ति अयं दहति। स दहति इति। कदाचिद्वदन्ति तृणेन्धनं दहति। गोपुरीषं दहति। तैलं दहति। धृतं दहति। तेजो दहति। सूर्यो दहति इति। वस्तुतस्तु अग्निरेव हहति। अन्यानि दहतीति प्रज्ञप्त्या व्यवह्रियन्ते। स व्यवहारो न पार्यन्तिकः। वक्तव्यञ्च चक्षुषा द्वारेण रूपं पश्यतीति। चक्षुः पुरुषाणामुपभोगोपकरणम्। पुरुषाः प्रज्ञप्तिकारिण इति उपभोगोपकरणेन भवितव्यम्। चक्षुरुपादाय विज्ञाने पश्यति चक्षुः पश्यतीति व्यवहारः। यथा मञ्चस्थेषु पुरुषेषु क्रोशत्सु मञ्चाः क्रोशन्तीति व्यवहारः। चक्षुःप्रतिसंयुक्तं विज्ञानकर्म इत्यतस्तत्र चक्षुषि विज्ञानकर्म व्यवहरन्ति। यथा हस्तपादप्रतिसंयुक्ते पुरुषे वर्तमानं पुरुषकर्म हस्तकर्मेति व्यवहरन्ति। चक्षुर्विज्ञानस्य हेतुश्चक्षुः। कारणे कार्योपचारः। यथा वदन्ति अमुकः पुरुषोऽमुकं ग्रामं दहतीति। यथा च वदन्ति सुवर्ण मत्तीति। सुवर्ण मायुः। तृणानि गोपशव इति। इदं सर्वं कारणे कार्योपचारः। एवं चक्षुर्भ्योमुत्पन्नं विज्ञानं रूपं पश्यतीत्यतश्चक्षुः पश्यतीति व्यवहरन्ति। चक्षुःसन्निकृष्टे विज्ञाने रूपं पश्यति चक्षुः पश्यतीति व्यवहारः। यथा गङ्गासन्निकृष्टे घोषे गङ्गायां [घोष] इति [वदन्ति]। चक्षुषा चाक्षुषं विज्ञानं विविच्यत इत्यतश्चक्षुषि चाक्षुषविज्ञानकर्मारोप्यते। यथा दण्डी ब्राह्मण इति। चक्षुश्चाक्षुषविज्ञानं साधयतीत्यतस्तत्र चक्षुर्विज्ञानकर्मोच्यते। यथा धने प्रहीणे पुरुषः प्रहीण इति वदन्ति। प्रविवृद्धे च धने प्रविवृद्धः पुरुष इति। चक्षुर्विज्ञाने चक्षुषा संयुज्य पश्यति सति चक्षुः पश्यतीति वदन्ति। यथा वृक्षे पुरुषेण संयुज्य छिद्यमाने सति पुरुषो वृक्षं छिन्नत्तीति व्यवहारः। यथा वा कृष्णवर्णसंयुक्ते पटे कृष्णः पट इति व्यवहारः। सर्वे च धर्मा मिथः संकीर्य व्यवह्रियन्ते। यथा प्रज्ञाकर्म वेदनादिषूच्यते। चक्षूषा रूपं पश्यतीति वक्तव्ये संक्षिप्य व्यवहरन्तः केवलमाहुः चक्षुः पश्यतीति। यथा च पाषाणमौषधमिति एकवेदनावशा व्यवहारः।

यद्भवनाह अपश्यतः कथमिन्द्रियत्वमिति। भवानिदं प्रतिवक्तव्यः चक्षुरादयः पञ्चधर्मा स्तदन्यरूपादीनतिशेरत इत्यत इन्द्रियमिति व्यवह्रियन्ते। (पृ) चक्षुरादयः पञ्चधर्मास्तदन्यरूपादिभिर्मिलिताः। दशेमे धर्मा न युगपद्विषयान् विजानन्ति। यथा चक्षुरादीनां वियोगे विज्ञानं नोत्पद्यते, तथा यदि रूपादीनां वियोगेऽपि विज्ञानं नोत्पद्यते। तदा केन [तेषा] मतिशयः। (उ) इन्द्रियैर्विज्ञानं विशेष्यते चक्षुर्विज्ञानं श्रोत्रविज्ञानमिति। यथा भेरिदण्डसंयोगे शब्दो भवति। [तत्र] भेर्याः प्राधान्यात् भेरीशब्द इति वदन्ति। पृथिवीयवादिसंयोगे अङ्‍कुरो जायते। [तत्र] यवस्य प्राधान्यात् यवाङ्‍कुर इति वदन्ति। तथा विज्ञानान्यपि। आश्रयतो व्यवहारो विशेष्यते न प्रत्ययतः। रूपविज्ञानमित्युक्ते संशयः प्रसज्यते किमिदं चक्षुर्विज्ञानं किं वा रूपं प्रतीत्य मनोविज्ञानमिति। इन्द्रियेऽस्ति विज्ञानं न विषये। चक्षुरादिषु आत्मसंमोहनं चित्तं भवति। विज्ञानस्याश्रय आयतनमिन्द्रियं न विषयः। स्वकायसंख्याते स्थितमिन्द्रियं न विषये। पुरुषस्योपभोगोपकरणमिन्द्रियं न विषयः। इन्द्रियं सत्त्वसंख्यातं न विषयः। इन्द्रियेऽप्रतीक्ष्णे विज्ञानं न स्फुटं भवति। प्रसन्ने तु इन्द्रिये विज्ञानं विशदं भवति। इन्द्रियाणामुत्तममध्यमाधमत्वात् विज्ञानमनुविभज्यते। एभिः कारणैः प्राधान्यं कथ्यते। इन्द्रियमसाधारणम्। एको विषयो बहूनां पुरुषाणां साधारण उपलभ्यते। इन्द्रियं विज्ञानेन सहैककर्मविपाकः। विषयस्तु नैवम्। इन्द्रियं हेतुः विषयः प्रत्ययः। कस्मात्। इन्द्रियभेदात् विज्ञानं विशेष्यते न विषयः। यथा बीजं हेतुः पृथिव्यादयः प्रत्ययाः। बीजभेदात्परस्परं भेदः। प्रत्ययातिशयिहेतुत्वादिन्द्रियमित्याख्यायते।

यद्भवानवादीः-वयं माणवकाः सुसूक्ष्ममपि वस्तु जानीमः तद्यथा चक्षुर्म्यां दृश्यते इति। इदं संवृतितः। लौकिकाश्चक्षुः पश्यतीति वदन्तीत्यत आहुः तद्यथा चक्षुर्भ्यां दृश्यत इति। यथा ह भगवान्-

मुहूर्तमपि चेद्विज्ञः पण्डितं पर्युपासते।
[क्षिप्रं धर्मं विजानाति] जिह्वा [सूप]रसं यथा।
अचेतनापि जिह्वा तु न दर्वीभाजनोपमा॥ इति।

जिह्वाश्रितं मनो जिह्वाविज्ञानं जनयतीत्यत आह जिह्वा [सूप] रसं वेत्तीति। तथा चक्षुराश्रित्य समुत्पन्ने विज्ञाने चक्षुः पश्यतीति वदन्ति। अत आह-जिनौरसाः पश्यन्ति तद्यथा चक्षुर्भ्यां दृश्यत इति।

यद्भवानवादीः-इन्द्रियेण विषयो गृह्यते विज्ञानेन विकल्प्यते इति। इदं प्रत्युक्तम्। इन्द्रियस्याविज्ञातृत्वात्। न च यूयं ब्रवीथ इन्द्रियस्यैवं भवति अहं विशिष्टलक्षण इति। अत इन्द्रियाणि न विषयान् गृह्णन्ति। भवतां ज्ञानानि नेन्द्रियमपेक्ष्य जायन्ते। कस्मात्। महदहङ्कारादीनि हि इन्द्रियेभ्यः पूर्वमुत्पद्यन्ते। भवतां महदादीनि तत्त्वानि न सन्ति। मूलप्रकृत्यभावात्। भवतां शासनं-मूलप्रकृतिविकारा महदादीनीति। मूलप्रकृतिश्च नास्तीत्युक्तमेव। न तु नेन्द्रियमिति॥

न विजानातीन्द्रियवर्गोऽष्टचत्वारिंशः।

४९ विषयेन्द्रियसंयोगवियोगवर्गः

(पृ) यद्भवानवोचत्-विज्ञानं विजानाति नेन्द्रियमिति। तत्प्रसाधितम्। इदानीं किं विषयेन्द्रियसंयोगाद्विज्ञानमुत्पद्यते किं वा तद्वियोगात्। (उ) चक्षुर्विज्ञानं न प्राप्तिमपेक्ष्य विषयान् विजानाति। कस्मात्। चन्द्रादयो विप्रकृष्टपदार्था अपि दृश्यन्ते। चन्द्ररूपं न गन्धविनिर्मुक्तमागच्छेत्। आकाशालोकावपेक्ष्य रूपं पश्यति। यदि चक्षूरूपं प्राप्नोति। तदा नान्तराकाशालोकौ स्याताम्। यथा चक्षुषि प्रच्छादिते चक्षुर्न पश्यति। अतो ज्ञातव्यं चक्षुर्विज्ञानं न प्राप्य विजानाति। इति।

श्रोत्रादिविज्ञानं द्विविधम्-किञ्चित्प्राप्य विजानाति किञ्चिदप्राप्य विजानाति। श्रोत्रं रुदितं प्राप्य विजानाति। घनगर्जितमप्राप्य विजानाति। अन्यानि त्रीणि विज्ञानानि इन्द्रियप्राप्तं विजानन्ति। कस्मात्। दृष्टं खलु त्रयाणामेषामिन्द्रियाणां विषयैः संयोगात् विज्ञानं लभ्यत इति। मन‍इन्द्रियमरूपि। अतोऽप्राप्तविषयम्। [विषयं] न प्राप्नोति।

(पृ)चक्षूरूपमप्राप्य विजानाति इति भवद्वचनमयुक्तम्। कस्मात्। अस्ति चक्षुषि रश्मिः। अयं रश्मी रूपदर्शनाय गच्छति। रश्मिश्चायं तैजसं द्रव्यम्। चक्षुश्च तेजःसमुत्पन्नम्। तेजसः सरश्मित्वात् यद्यप्राप्य पश्यति। कस्मात्सर्वाणि रूपाणि न पश्यति। चक्षूरश्मिर्हि सप्रतिघेऽपि गच्छति। अविभुत्वात् न सर्वाणि पश्यति। यथोक्तं सूत्रे-त्रयाणां सन्निपातः स्पर्श इति। यद्यप्राप्नोति। कथं सन्निपातः। पञ्चेन्द्रियाणि सप्रतिघानि। विषयेषु प्रतिहन्यन्त इति सप्रतिघानि। घ्राणं गन्धे जिह्वा रसे कायः स्प्रष्टव्ये चक्षूरूपे श्रोत्रं शब्दे यद्यप्राप्तम्। तदा अप्रतिघम्। प्रत्युत्पन्नेषु पञ्चविषयेषु ज्ञानमुत्पद्यते। अतः पञ्च विज्ञानानि प्राप्य विजानन्ति। यद्यप्राप्य विजानन्ति अतीतमनागतं रूपमपि विजानीयुः। न विजानन्ति वस्तुतः। बहुप्रत्ययसामग्र्या च ज्ञानमुत्पद्यते इति चक्षूरश्मिर्विषयसंयोगाय गच्छति। रूपे रश्मिप्राप्तिर्हि सन्निपातः।

शब्दोऽपि श्रोत्रं प्राप्य श्रूयते। कस्मात्। विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न श्रूयते। यदि शब्दं रूपवदप्राप्यापि विजानाति। मन्दमपि शब्दं शृणुयात्। न तु शृणोति। अतो ज्ञायते प्राप्य शृणोतीति। शब्दो दूरतोऽपि श्रूयते। यद्यप्राप्य श्रूयते। आवरणे सत्यपि श्रूयेत। दूरतः श्रूयमाणः शब्दो न प्रत्याययति। सन्निकृष्टं श्रूयमाणस्सु प्रत्याययति। अप्राप्य श्रवणे तु स विभागो न स्यात्। अतो ज्ञायते शब्दः प्राप्य श्रूयत इति। किञ्चानुकूलवायौ शब्दः प्रत्याययति। न प्रतिकूलवायौ। अतोऽपि प्राप्य श्रूयते। शब्दः साकल्येन श्रूयते। अप्राप्य श्रवणे तु न साकल्येन श्रूयेत। यथा रूपस्याप्राप्त्या दर्शानात् न साकल्येन दर्शनम्। अतो ज्ञायते न रूपसमः शब्द इति। अप्राप्य श्रवणे तु रूपसमः स्यात्। यथा रूपस्येकदेशं दृष्ट्वा अवशिष्टमपि आलोकमपेक्ष्य पश्यति। तथा शब्दोऽपि स्यात्। न वस्तुतस्तथा भवति। अतोऽप्राप्य न श्रूयते।

यद्भवानाह-श्रोत्रादीनीन्द्रियाणि विषयमप्राप्य विजानन्तीति। तदयुक्तम्। शब्दगन्धरूपरसस्पर्शा इन्द्रियमागच्छेयुः। यदिदानीमिन्द्रियं गच्छतीति। तद्‍युक्तम्। श्रोत्रादीनामिन्द्रियाणां नीरश्मिकत्वात्। तेजो महाभूतमेकमेव सरश्मिकम्। अतो न गच्छति। शब्दं यदि घननिबिडं जलाद्यावृतमपि श्रोत्रं श्रोतुं शक्नोति। यदि सरश्मि, तदिन्द्रियम्। नैवं शक्नुयात्। अतो ज्ञायते श्रोत्रेन्द्रियं नीरश्मिकमिति। श्रोत्रमन्धकारेऽपि विषयं विजानाति। यदि सरश्मिकम्, नान्धकारे विजानीयात्। सरश्मिकमिन्द्रियञ्च दिशमपेक्ष्य विजानाति। एकां दिशं द्रष्टुं शक्नोति नैकस्मिन् समये सर्वा दिशो द्रष्टुं शक्नोति। यथा पूर्वाभिमुखः पुरुषः पूर्वां दिशं रूपञ्च पश्यति नान्या दिशः।

वदन्ति च मनो गच्छतीति। अतः प्राप्य विषयं विजानाति। यथोक्तं सूत्रे-

दूरङ्गममेकचरमशरीरं गुहाशयम्
सूर्यस्य रश्मिरिव चित्तं चरति विप्रकीर्णतः।
मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः।]
परिस्पन्दतीदं चित्तं स्वाभीष्टञ्च यथा चरत्यदः॥ इति।

अतः षड्विषयान् प्राप्य विजानन्ति।

अत्रोच्यते। रश्मिर्गच्छतीति भवद्वचनमयुक्तम्। कस्मात्। यथा पुरुषो दूरतः स्थाणुं दृष्ट्वा संशेते किमयं पुरुष इति। यदि रश्मिर्गर्च्छति। कस्मात् संशयो भवेत्। अतिसन्निकृष्टञ्च चक्षुर्न पश्यति। यथा चक्षुस्संसक्तं तृणरोम न पश्यति। अतो रश्मिर्गच्छन्नपि अतिसन्निकर्षान्न पश्यति। यदि रश्मिस्तत्र गच्छति। कस्मात् स्थूलं पश्यति न सूक्ष्मं विवेचयति। रूपदर्शनेऽस्ति द्विभागः यदुत पूर्वस्यां पश्चिमायां वा दिशि रूपमिति। सन्निकृष्टविप्रकृष्टविभागोऽप्यस्ति। यदि चक्षुः प्राप्य विजानाति। तादृशविभागो न स्यात्। कस्मात्। गन्धरसस्पर्शेषु नायं विभागोऽस्ति। अतो नयनरश्मिरप्राप्य विजानाति। नयनरश्मिर्यदि पूर्वमेव दृष्टवान्। किमर्थं पुनर्गच्छति। यदि पूर्वमदृष्ट्वा गच्छति। कुत्र गच्छति। यदि सन्निकृष्टरूपं विप्रकृष्टरूपञ्च एकदा युगपत्पश्यति। न तथा गमनधर्मः। अतो नयनरश्मिर्न गच्छति। यदि स गच्छति। मध्ये मार्गं रूपाणि पश्येत्। वस्तुतस्तु न पश्यति। अतो ज्ञायते न गच्छतीति। रश्मिर्गच्छतीति रश्मिः कायब्दहिर्गतो नेन्द्रियं भवेत्। यथाङ्‍गुलौ कायात्समुच्छिद्य वियुज्यमानायां नास्ति कायबुद्धिः। न चक्षुः स्वाश्रयं त्यजत् पश्यामः। सपक्षाभावे नास्ति हेतुः। तस्य नयनरश्मे रसति द्रष्टरि स न स्यात्।

(पृ) अस्तीयं नायनरश्मिः सूर्यरश्मितिरस्कृता न दृश्यते। यथा सूर्यरश्मौ नक्षत्राणि न प्रत्यक्षाणि। (उ) तथा चेद्रात्नौ दृश्येत। (पृ) रूप धर्मा अवश्यं बाह्यं प्रकाशमपेक्ष्य दृश्यन्ते। रात्रौ च बाह्यप्रकाशो नास्ति। येन न दृश्यन्ते। (उ) यदीयं रश्मिर्दिवानिशमुभयत्न नोपलभ्यते। तदास्या अत्यन्तानुपलब्धिः। (पृ) बिडालसृगालमूषिकादीनां सर्वेषां रात्रिञ्चराणां नायनो रश्मिरुपलभ्यते। (उ) इदं दृश्यरूपं विडालादीनां चक्षुषि वर्तते। यथा खद्योतस्य प्रकाशात्मकं रूपं तत्कायवर्ति। नायं रश्मिः। यथा च रात्रिञ्चरा जन्तवोऽन्धकारे पश्यन्ति। मनुष्याश्च न पश्यन्ति। तथा च तेषामेव रश्मिः स्यात्। नान्येषाम्। तथैव धर्मता स्यात्।

यदवादीः-यद्यप्राप्य पश्यति। सर्वाणि रूपाणि पश्येदिति। यत् रूपं ज्ञानस्य गोचरं तत् दृश्यम्। यथोक्तं सूत्रे-चक्षुरनुपहतं भवति। विषय आभासगतो भवति। तदा स दृश्यो भवति। इति। (पृ) को नामाभासगतः। (उ) यदा रूपचक्षुषोः सन्निपातः। स आभासगतः। (पृ) यदि चक्षुर्न प्राप्नोति कः सन्निपातः। (उ) समानमिदम्, यथा भवतश्चक्षू रूपं प्राप्यापि कदाचित्पश्यति कदाचिन्न पश्यति। तद्यथा चक्षुः सूर्यं प्राप्य सूर्यमण्डलं पश्यति न तु सूर्यकर्म। एवं ममापि चक्षुरगत्वापि यद्रूपमाभासगतं भवति। तत् पश्यति। यदाभासगतं न भवति न तत्पश्यति। (पृ) नयनरश्मिः सुदूरं गच्छति। वेगप्रकर्षात्तु सूर्यकर्म न पश्यति। (उ) यदि वेगप्रकर्षात्सूक्ष्मं कर्म न पश्यति, स्थूलं सूर्यमण्डलपरिमाणं कस्मान्न पश्यति। न हीदं युज्यते। यदि रश्मिमस्तत्र गत्वा पश्यतीति। कस्माद् दूरस्थं सूर्यमण्डलं दृष्ट्‍वापि कर्म न पश्यति तत् पाटलिपुत्रादि आसन्नं जनपदनगरम्। यदि भवान् मन्यते पाटलिपुत्रादि न आभासगतमित्यतो न पश्यतीति। मम चक्षुरप्राप्यापि रूपं नाभासागतमित्यतो न पश्यति।

(पृ) सर्वाणि रूपाणि आभासगतानि दृश्यानीति ज्ञातमेव। इदानीं किं दृश्यं किमदृश्यम्। (उ) अध्वावरणान्न दृश्यते यथातीतमनागतम्। रूपस्याभिभावकविशेषान्न दृश्यते यथा रात्रौ तेजो दृश्यमन्यददृश्यम्। भूमिविशेषान्न दृश्यते यथा प्रथमध्यानगतचक्षुषा द्वितीयध्यानगतं रूपं न दृश्यते। तम आवावरणान्न दृश्यते यथा तमसि घटः। ऋद्धिबलान्न दृश्यते यथा भूतादीनां देहः। अतिघनमालावृतत्वान्न दृश्यते। यथा पर्वतस्य बाह्यं रूपम्। अतिदूरान्न दृश्यते यथान्ये लोकधातवः। अतिसामीप्यान्न दृश्यते यथा चक्षुप्यञ्जनम्। अप्राप्त्या न दृश्यते यथा प्रभागता अणवोः दृश्याः प्रभाबाह्यास्तु अदृश्याः। सौक्ष्म्यान्न दृश्यते यथा पुरुषाकारः स्थाणुर्न विवेक्तुं शक्यः। समानाभिहारान्न दृश्यते यथा महाराशिगतमेकं शालिधान्यम्। यथा च काकवृन्दगत एकः काकः। पूवोक्तविपरीतमाभासगतमित्युच्यते।

(पृ) कश्चक्षुष उपघातः। (उ) वातोष्मशीतादिभिर्व्याधिभिः प्रतिघातः। यत् वातोपहतं चक्षुः तत् विपर्यस्तं नीलकृष्णादिरूपं पश्येत्। यदूष्मोपहतं तत् पीतरक्ताग्निज्वालादि पश्यति। यच्छीतोपहतं तत् भूयसावदातह्रदजलादिरूपं पश्यति। यत् जागरणोपहतं चक्षुः तत् कम्पितवृक्षादिरूपं प्रायः पश्यति। यत् परिखेदोपहतं चक्षुः तत् रूपं दृष्ट्वा न बुध्यते। भागशः प्रणुदितमेकं चक्षुश्चन्द्रद्वयं पश्यति। भूताद्याविष्टं विकृतं पश्यति। पापकर्मवशात्कुरूपं पश्यति। पुण्यकर्मवशात्सुरूपं पश्यति। पित्तोपहतं चक्षुर्ज्वालादिरूपं पश्यति। सत्त्वा अपरिनिष्पन्नचक्षुस्त्वाद्विकलं पश्यन्ति। घनतिमिरावृतचक्षुष्का न पश्यन्ति। यदुपहतं चक्षुरिन्द्रियं न पश्यति। स चक्षुष उपघातः। तल्लक्षणविपरितोऽनुपाघातः। श्रोत्रादीनीन्द्रियाण्यपि [तथा]र्थवशाद्विवेक्तव्यानि।

(पृ) पञ्च विषयाः ज्ञानाभासगतत्वात् ज्ञेया भवन्तीति ज्ञातमेव। कतमे धर्मा ज्ञानस्याभासगता न भवन्ति। (उ) ऊर्ध्वभूमिकत्वान्न ज्ञायते यथा प्रथमध्यानचित्तं द्वितीयध्यानतदूर्ध्वधर्मान् न विजानाति। इन्द्रियविशेषान्न ज्ञायते यथा मन्देन्द्रियस्य चित्तं तीक्ष्णेन्द्रियस्य चित्तगतधर्मान् न विजानाति। पुरुषविशेषान्न ज्ञायते यथा श्रोत्रआपन्नः सकृदागामिनश्चित्तगतधर्मान् न विजानाति। बलप्रभेदान्न ज्ञायते यथा यन्मनोविज्ञानं यस्मिन् धर्मे बलविहीनं न तेन मनोविज्ञानेन स धर्मो ज्ञायते। तद्यथा समाहितचित्त(स्य) मनोविज्ञानविज्ञेयधर्मो न विक्षिप्तचित्तकमनोविज्ञानेन विज्ञातुं शक्यो भवति। यथा प्रत्येकबुद्धमनोविज्ञानबलविज्ञेयधर्मो न श्रावकमनो[विज्ञान]बलेन विज्ञातुं शक्यो भवति। यथोर्ध्वपक्षिकधर्मो नावरपक्षिकमनोविज्ञानेन विज्ञातुं शक्यः। अतिसूक्ष्मा धर्मा न ज्ञातुं शक्याः। यथोक्तमभिधर्मे केन चित्तेन स्मर्यते। यदुत प्रतीतिप्रत्यायकं पूर्वानुभवितृ, तेन स्मर्यते नाननुभवित्रा। यथा जनाः संसारे पूर्वानुभूतं धर्मं स्मरन्ति। अननुभूतं न स्मरन्ति। आर्यास्तु यदि वानुभूतं यदिवाननुभूतं सर्वं तदार्यज्ञानबलाद्विजानन्ति। विशिष्टविषयत्वात् ज्ञायते यथा रूपधातुकचित्तमनुभूय कामधातुकधर्मान् विजानान्ति। विपर्ययावृतत्वान्न ज्ञायते यथा सत्कायदृष्टिकचित्तं पञ्चस्कन्धालम्बनं नैरात्म्यं पश्यति। तथा अनित्यं दुःखमपि। बलावृतत्वान्न ज्ञायते यथा मृद्विन्द्रियः पुरुषस्तीक्ष्णेन्द्रियस्य चित्तमावृततया न विजानाति। [यत्] पूर्वोक्तलक्षणविपरीतं तदाभासगतमित्युच्यते।

(पृ) को नाम मनस उपघातः। (उ) विक्षेपविपर्ययभूतावेशा मानमदचित्तप्रमोषा मद्येन वा औषधव्यामोहेन वा चित्तविभ्रमः, कदाचित् राग्रिक्रुद्धतादिक्लेशपरिपुष्ट प्रमादप्रनष्टचित्तता यथा श्वपाककैवर्तादीनाम्। सन्निपातेन वा चित्तप्त्योपघातो भवति। जराव्याधिमरणान्यपि चित्तस्योपघाताः। यच्चित्तं कुशलधर्मगतं यदव्याकृतधर्मनिमग्नम्। तदनुपहतं नाम। एवमादिभिः कारणैः सत्त्वो विषयान् विजानाति। तस्माद्यद्यप्राप्य पश्यति कस्मान्न सर्वाणि रूपाणि पश्यतीति भवद्वचनमयुक्तम्।

यदवोचः-त्रयाणां सन्निपातः स्पर्श इति। इन्द्रियविषयविज्ञानानुगमनकालः स्पर्शः नावश्यं प्राप्तिलक्षणः। कस्मात्। मन‍इन्द्रियस्याप्युक्तं त्रयाणां सन्निपात इति। न तत्र प्राप्तिलक्षणोऽस्ति स्पर्शः। [स्पर्शस्य] प्राप्तिलक्षणत्वात् [इन्द्रियाणि] सप्रतिघानीति भवद्वचनमयुक्तम्। न ह्यस्ति प्रतिहन्तिलक्षणम् इत्युक्तत्वात्। प्रत्युत्पन्नेषु ज्ञानमुत्पद्यत इति यदवादीः तत्र षष्ठं विज्ञानमपि प्रत्युत्पन्नमात्रं ज्ञापयेत् परचित्तज्ञानवत्। बहुप्रत्ययसामग्र्या ज्ञानमुत्पद्यत इति यदवादीः। तत् षष्ठमन‍इन्द्रियेण प्रत्युक्तमेव यदुत इन्द्रियविषयविज्ञानानुगमकालः सन्निपात इति। प्रतीत्य मनो धर्मांश्च मनोविज्ञानमुत्पद्यत इतीदं वचनञ्च तदा व्यर्थं स्यात् प्राप्त्यभावात्। प्रतिनियतनियमो हि सन्निपातो नाम। चक्षुर्विज्ञानं चक्षुर्मात्रं नान्यदाश्रित्य नानाश्रित्य भवति। [तथा] रूपमात्रं प्रतीत्य नान्यत्प्रतीत्य नाप्रतीत्य भवति। एवं यावन्मनोविज्ञानमपि।

विषयेन्द्रियसंयोगवियोगवर्ग एकोनपञ्चाशः।

५० शब्दश्रवणवर्गः

यदवादीः विप्रकृष्टदेशवर्तिनि पुरुषे मन्दं भाषमाणे न शब्दः श्रूयते। अतो ज्ञायते शब्दः श्रोत्रं प्राप्नोतीति। तदयुक्तम्। कस्मात्। यथा भवानाह विप्रकृष्टदेशवर्तिनि पुरुषे भाषमाणे शब्दात् शब्दसन्तत्या तनुर्भूत्वा न पुनरुद्भवतीत्यतो न श्रूयत इति। एवं ममापि स्यात्। शब्दोऽप्राप्यापि सोऽल्पीयानिति न श्रूयते। यथा भवतो नयनरश्मिर्गत्वापि सूर्यमण्डलमात्रं पश्यति न सूर्यस्य कर्म। एवं ममापि। श्रोत्रमप्राप्यापि शब्द औदारिकः सन् श्रूयते सूक्ष्मस्तु न श्रूयते। यथा भवतो नयनरश्मिः सुदूरं गच्छन्नपि न शतसहस्रायुतयोजनानि प्राप्नोति। प्रसन्नसलिलाद्यावृतं सुष्ठु पश्यन्नपि भित्त्याद्यावृतं तु न पश्यति। सूर्यमण्डलं दृष्ट्वापि न पश्यति सूर्यकर्म। तथा ममापि श्रोत्रमप्राप्यापि शब्दमौदारिकं शृणोति। न तु शक्नोति सूक्ष्मं विवेचयितुम्।

यदवादीः-अनुकूलवायौ प्रत्याययति इति। तदयुक्तम्। कस्मात्। तदा तु न कश्चित्प्रतिकूले वायौ शृणोतीति स्यात्। यथा गन्धः प्रतिकूलवायौ न जिघ्रयते। तदा शब्दोऽपि प्रतिकूलवायौ न किञ्चिदपि न श्रोतव्यः स्यात्। वस्तुतस्तु श्रूयते। अतो ज्ञायते शब्दोऽप्राप्य श्रूयत इति। यदल्पं शब्दः श्रूयते तत् वाय्‍वावरणात्। किञ्च शब्दो गन्धवत् प्रवाह्यः। किमनुकूलप्रतिकूल वायुविकल्पनया।

यदवोचः शब्दः साकल्येन श्रूयत इत्यतः प्राप्तिपक्षे न रूपसम इति। न युक्तमिदम्। शब्दधर्मो यत् साकल्येन श्रूयत इति। न तथा रूपधर्मः। पदार्थाः सलक्षणविलक्षणा भवन्ति। ज्ञेयविषयत्वेन समाः। साकल्यासाकल्यज्ञानत्वेन विषमाः। घण्टाशब्दो घण्टायां श्रूयते। केनेदं ज्ञायते। तद्यथा पुरुषः घण्टानादशुश्रूषया कर्णेन घण्टामुपेति। शब्दश्च गुणत्वान्न गच्छति। गुणानामकर्मकारित्वात्।

(पृ) शब्दपरम्परयोत्पद्यमाने शब्दगुणे वीचीतरङ्गवच्छब्दो गच्छतीत्युच्यते। (उ) शब्दतरङ्गस्य केन सह दृष्टान्तः। अब्लक्षणे भेरीचर्मणि सति तरङ्ग उत्पद्येत। इदानीं शब्दे कः पुनः शब्दः यः शब्दान्तरं जनयति। यदि मन्यसे शब्दः शब्दान्तरं जनयतीति। कस्मान्न मूलप्रदेशे जनयति नान्यत्र। अपामब्लक्षणविरुद्धत्वात् तरङ्गो जायते। यो वदति-पुरुषः शब्दं करोतीति। [तस्य] कर्णमेव वक्तृ स्यात्। वस्तुतस्तु न सम्भवति। अतो ज्ञायते शब्दो नोच्चरितो गच्छतीति। यदि घण्टातः शब्दसन्ततिरुत्पद्यते, तर्हि घण्टा शब्दविहीना न स्यात्। यदि शब्दस्तरङ्गवत्सन्तत्या प्रवर्तते इति। नियतमापो निस्तरङ्गाः स्युः। एवं घण्टातः शब्द [उद्गते] सति घण्टा निश्शब्दा स्यात्। न वस्तुत इदं युज्यते। अतो ज्ञायते शब्दो घण्टायां वर्तत इति। घण्टायां गृहीतायां शब्द उपरमति। अतो ज्ञायते शब्दःसदा घण्टामाश्रयत इति। यदि शब्दो घण्टामाश्रितो घण्टातश्चापि वियुज्यत इति। घण्टायां गृहीतायां घण्टामाश्रितः शब्दोऽनिरुद्धः स्यात्। घण्टावियुक्तः शब्दोऽनुवर्तेत। दृष्टे व्यवहारे च नास्ति किञ्चित् यथा घण्टासन्ततिरुत्पद्यत इति। शब्दस्य चास्ति दिग्भागभेदो यदुत प्राचीशब्दः कर्णदेशं प्राप्नोति तदा न स्यात् अयं विभागः। यदि शब्द आगच्छति। तदा दिव्यश्रोत्रं निष्प्रयोजनं स्यात्। कस्मात्। शतसहस्रलोकधातून् शब्दः कथमागच्छति। यथा विद्धशब्दः शब्ददेशं लक्षयति। तथा यदि शब्दः श्रोत्रमागच्छति। स्वयमेव श्रोत्रं विध्यात्। तथा नो चेत् विद्धशब्द इति नोच्येत। यः शब्दो विप्रकृष्टः सन्निकृष्टश्च तौ युगपत् श्रूयेताम्।

शब्दश्च क्षणिकत्वान्न शब्दान्तरमुत्पादयति। न हि पश्यामः क्षणिकधर्मः कस्यचिज्जनक इति। अतो न शब्दः शब्दान्तरं जनयति। यथा क्षणिकं कर्म न कर्मान्तरमुत्पादयति। यदि शब्दः शब्दान्तरमुत्पादयति। कर्मापि कर्मान्तरमुत्पादयेत्। एकञ्च न कर्म कर्मोत्पादकमिति वचनं प्रणष्टं स्यात्। भवतां शासने शब्दः शब्दान्तरेण विरुद्धः पृथक्, नैकस्थानिकः। यदि शब्दः शब्दन्तरेणैकस्थानिकः, न स विरुद्धो नाम। यदि नैकस्थानिकः। तदा पूर्वशब्दे निरुद्धेऽनन्तरशब्दः स्वयमुत्पद्यते। अतो न शब्दः शब्दान्तरमुत्पादयति। शब्दश्चैको धर्मः, कथं शब्दान्तरमुत्पादयति। नह्येकं वस्तूत्पादकं पश्यामः। (पृ) यथा संयोग एकः सन् वस्तुनामुत्पादकः। एवं शब्दोऽपि एकधर्मः सन्नपि शब्दान्तरस्योत्पादकः। (उ) पश्यसि खलु संयोग एकः सन् यं शब्दमुत्पादयति [सो]ऽपि तथा स्यात्। रूपमपि एकं सत् रूपान्तरमुत्पादयेत्। तथा गन्धरसस्पर्शा अपि। एवञ्च द्रव्यं पञ्चस्वभावं त्रिस्वभावं द्विस्वभावं न स्यात्।

कर्मसाम्याच्च। शब्दः कर्मणा तुल्यलक्षणः। यथा वदन्ति शब्दो गुणोऽपि कर्मणा तुल्यो निरुध्यते। यथाङ्‍गुलिस्फोटस्वङ्गस्पन्दकर्माणि शब्दवन्ति। न हि स्पन्दः खड्गगाद्वियुज्यते। एवं शब्दोऽपि करगृहीते खड्गे शब्दः स्पन्देन सहोपरमति। अतो ज्ञायते कर्म न कर्मान्तरस्योत्पादकम्। शब्दोऽपि न पुनः शब्दानन्तरस्योत्पादक इति। यथा कल्पयसि आद्यकर्मणः संस्कार उत्तरोत्तरकर्मोत्पादक इति। तथा आद्यशब्दात्संस्कार उत्पद्यते। संस्कारादुत्तरोत्तरकर्माणि समुत्पद्यन्त इति। तत्र नास्ति संस्कारादुत्पद्यमानं संस्कारान्तरम्। कारणकर्म संस्कारमुत्पादयति। न शब्दः। कर्मनिरोधाच्च न कारणद्रव्यं भवति। कस्मात्। पूर्वं कर्मणि निरुद्धे हि तदनन्तरं द्रव्यमुत्पद्यते। एवं शब्दोऽपि। पूर्वशब्दे निरुद्धेऽनन्तरं शब्दः स्वयमुत्पद्यते। इत्यनन्तरशब्दो न कारणवान् स्यात्। अथापि यदि वदसि पूर्वशब्दः शब्दानन्तरमुत्पादयतीति। तदा शब्दोऽक्षणिकः स्यात्। कस्मात्। शब्दोत्पत्तिकाल प्रथमः क्षणः। शब्दान्तरोत्पत्तिकालो द्वितीयः क्षणः। उत्पन्नशब्दान्तर [कालः] तृतीयः क्षणः। पूर्वशब्दनिरोधकालश्चतुर्थ इत्यक्षणिकः स्यात्।

शब्दः कथं शब्दान्तरेण विरुद्धः। किं यथा खलु विषं विषौषधेन विरुद्धम्। औषधं वा व्याध्या विरुद्धम्। तथा नो चेत् घण्टा न शब्दद्वयवतीति [न] स्यात्। यद्येकस्मिन् क्षणे घण्टा शब्दद्वयवती, तदा क्षणसहस्रेऽपि शब्दद्वयवती स्यात्। यथा गुणेऽसति द्र्व्यस्याग्निसंयोगाद् गुण उत्पद्यते। पूर्वकृष्णरूपे निरुद्धे रक्तरूपमुत्पद्यते। एवं शब्दोऽपि- पूर्वशब्दे निरुद्धे शब्दान्तरमुत्पद्यते। तथा नो चेत् एकस्मिन्नेव क्षणे घण्टा शब्दद्वयवती स्यात्। वस्तुतस्तु न द्वयवती। अतोऽयुक्तम्। यदि शब्दात् शब्दान्तरमुत्पद्यते तदा न हेतुमनुवर्तेत। वस्तुतस्तु घण्टातः शब्द उत्पद्यते। स तु हेतुमनुवर्तते। इदञ्च शब्दान्तरमखण्टाशब्दः स्यात्। तच्च शब्दान्तरं नैवं समुच्छिद्येत। हेतुसमुच्छेदाभावात्।

(पृ) आद्यशब्दात् सूक्ष्मशब्दः परिणमत इत्यतोऽस्ति समुच्छेदः। (उ) कस्मात्सूक्ष्मशब्दः परिणमते। यथाभिघातं संस्काराभिव्यक्तिः। यथाभिव्यक्ति आद्यशब्दः। द्वितीयशब्दतदवयवादयोऽपि यथाभिव्यक्तिविशेषं भवन्ति। ताडनहेत्वभावात् संस्काराभिव्यक्तिस्तु भज्यते। संस्काराभिव्यक्तिभङ्गात्तु शब्दः सूक्ष्मः परिणमते। यस्य शब्दहेतुकं शब्दान्तरमुत्पद्यत इति। तस्य रूपमुपादाय जल आदर्शे रूपमुत्पन्नं स्यात्। एवं जले चन्द्र आदर्शे प्रतिबिम्बमेव रूपं भवेत्। तथा च वैशेषिकसूत्रं सर्वं नष्टं स्यात्।

यद्वदसि विभागाच्छब्दो निष्पद्यत इति। तदपि न युक्तम्। कस्मात्। न हि हस्तविभागाच्छब्द उत्पद्यते। संयोगात्तु शब्दो भवति। खड्गवंशादीनामवयवेषु मिथः संश्लिष्टेषु विभज्यमानेषु च मिथो नोदनाच्छब्दो भवति। न च वयं वदामः संयोगाच्छब्दो भवतीति। कस्मात्। नह्यङ्‍गुल्याकाशसंयोगे शब्द उत्पद्यते। अङ्‍गुलीषु मिथोऽनुन्नासु न शब्द उत्पद्यते। अतः संयोगान्नोत्पद्यते। केवलं चतुर्षु महाभूतेषु संयुक्तेषु वियुक्तेषु वा शब्द उत्पद्यते। यथा महाभूतानां कर्म नित्यस्थायि, न तानि विहाय गच्छति।

शब्दश्रवणवर्गः पञ्चाशः।

५१ गन्धाघ्राणवर्गः

(पृ) यद्याह भवान्-गन्धो नासिकां प्राप्तो जिघ्र्यत इति। तदप्ययुक्तम्। कस्मात्। यथा शब्दो दूराच्छ्रूयते। तथा गन्धो विप्रकृष्टदेशस्थोऽपि घ्रातुं शक्यते। यदि मन्यसे यत् अस्माद्गन्धात् सन्तत्या गन्धकारणमुत्पद्यत इति। तत् शब्दसन्तान उक्त एव तद्दोषः। (उ) गन्धः कथं [तर्हि] घ्रातव्यः। (पृ) कुसुमावयवान् सूक्ष्मान् गच्छतो गन्धोऽप्याश्रित्य गच्छति। (उ) मैवम्। यदि कुसुमावयवा गच्छन्ति कुसुमावयवस्य रूपमपि द्रष्टव्यं स्यात्। न तु दृश्यते। अतो ज्ञायते न गच्छन्तीति। (पृ) कुसुमावयवरूपमतिसूक्ष्मत्वात् न दृश्यते। (उ) गन्धोऽप्यतिसूक्ष्मो न जिघ्रयेत्। (पृ) प्रभावमहत्वाद्गन्धो जिघ्न्यते। यथा चोष्यस्य हिङ्गावदृष्टरूपेऽपि तद्गन्धमात्रं जिघ्रामः। (उ) यत्र सूक्ष्मावयवरूपं [तत्र] तद्गन्धो जिघ्रयत इति प्रत्यक्षदृष्टम्। सूक्ष्मावयवस्य रूपं कस्मान्न दृश्यते। यदि कुसुमं दह्यते। तद्गन्धो वर्धते। रूपं परं निरुध्यते। अतो न कुसुमावयवो गन्धः। यदि गन्ध कुसुमावयवः, अल्पं घ्रातव्यः स्यात्। न तथा वस्तुतः। यदि कुसुमावयवा गच्छन्ति, कुसुममपचीयमानं स्यात्। नत्वपचीयते वस्तुतः। केनेदं ज्ञायते। यथा एकपलं कुङ्‍कुम[कुसुमं] सदा सगन्धं गत्वापि सदैकपलम्। (पृ) अपचीयमानमतिसूक्ष्मत्वान्न ज्ञातुं शक्यते। यथा जलघट एकबिन्द्वपगमे तत्क्षयो न बुध्यते। (उ) यदि सदापचीयते। कुसुमवेवासत्स्यात्। किं पुनरपचीयमानं न बुध्यत इति। यदि कुसुमं सदापचीयते। तदा [तद्गन्धस्य] आघ्राणं नोपलभ्येत। सदापचीयमानत्वात्प्रतिक्षणमुत्पन्नविनाशि स्यात्। प्रतिक्षणविनाशित्वाद् द्रव्यान्तरमुत्पन्नं स्यात्। किं पुनर्न गुणान्तरमुत्पन्नमिति। वस्तुतस्तु कुसुमस्याघ्राणमुपलभ्यते। अतो ज्ञायते कुसुमावयवा न गच्छन्तीति।

(पृ) यदि गन्धमात्रं गच्छति गन्धोऽपि [तर्हि] क्षीयेत। सदापचीरमानत्वात्। गन्धस्य निरवयत्वाच्चैकान्तिकपरिक्षय एव स्यात्। (उ) न वयं [स्वी] कुर्मः कुसुमावयवा वायुमनुवर्तन्त इति। नापि वायुः कुसुमस्य गन्धं बोढ्वा गमयतीति। कुसुमगन्धमात्रमुपादाय गन्धान्तरमुग्‌पद्यते। तदुपादाय गन्धवायुः ततः समुत्पन्नो गन्धवायुर्नासिकां प्राप्य जिघ्र्यते। अतो नास्ति तद्दोषः। केनेदं ज्ञायते। यथा जिघ्रन्ति तिले गन्धं, न तु कुसुमावयवगन्धम्। कुसुमेन वासितत्वात्। यद्ययं कुसुमावयवीयः। किं वासयति। तिलम्। अतो ज्ञायतेऽयं गन्धो न कुसुमावयवर्तीति। स कुसुमगन्धः कुसुमे निष्पीडिते वा निष्पिष्टे वा संपरितापिते वा क्षीयते। यः तिलवर्ती, न स क्षीयते। स कुसुमगन्धश्च तैलमात्रे वर्तते। न तु कल्के। अतो न कुसुमावयवीयः। स च गन्धो दीर्घकालं तिले वर्तते। न तु कुसुमे। अतो न कुसुमावयवीयः। (पृ) यदि न कुसुमावयवीयः। अयं कस्य गन्धः। (उ) अयं तिलगन्धः कुसुममुपादाय समुत्पन्नो न तिलाद्वियुज्यते। एवं कुसुमगन्धमुपादाय वायुर्गन्धान्तरमुत्पादयति। इदञ्च प्रदर्शितमेव।

अथ कदाचिदुष्णवायुश्शीतवायुश्चानुभूयते। न तत्रापामग्नेर्वा रूपमुपलभ्यते। अतो ज्ञातव्यं वायौ पुनः स्पर्शान्तरमुत्पद्यते। न त्वाहृतस्य जलस्याग्नेर्वायवा गच्छन्तीति। यदि वायावुष्णस्पर्शस्तैजसः, शीतस्पर्शश्च जलीयः तदानुष्णाशीतस्पर्शेन पार्थिवेन भवितव्यम्। यथा जलस्य तेजसश्च रूपं नोपलभ्यते, पार्थिवरूपमपि सौक्ष्मान्नोपलभ्येत। तथा चेत् वायुरस्पर्शः स्यात्। इदं दोषायैव भवेत्।

अन्यस्यापि कस्यचिद्वचनमुपलभ्यते-यथा वायोरुदकतेजःसंयोगाच्छीतोष्णस्पर्शः, तथा वयोः पृथिवीसंयोगादनुष्णाशीतस्पर्शोऽस्ति इति। तत्र नास्ति विनिगमकं यदुदकावयवा स्तेजोवयवा एव वा वायुमनुगच्छन्ति, न तु पृथिव्यवयवा इति। यथा भवतां सूत्रम्-त्रयः स्पर्शा स्पर्शकाया वा न पृथिव्युदकतेजसामित्यदृष्टलिङ्गो वायुरिति ज्ञायते। अनेन वचनेन त्रिविधाः स्पर्शा वायौ कदाचिदागन्तुका वाऽनागन्तुका वा स्युः। कस्मात्। त्रिविधाः स्पर्शा यद्यदृष्टलिङ्गाः, तदा वायवीयाः। भवतो मतं यत् दृष्ट उदके तेजसि शीतोष्णस्पशौ स्तः। न तौ वायवीयौ। इति। एवं दृष्टपृथिव्यामनुष्णाशीतस्पर्शोऽस्तीति सोऽपि वाय्‍वयवीयो न स्यात्। यदि पूर्वमेवास्ति पृथग्वायुस्पर्शो न पृथिवीसंयोगात्। तर्हि वक्तव्यमयं स्पर्शो वायवीयः। आदौ तु न दृश्यत इति। कथं ज्ञातव्यं वायुस्पर्शमात्र मनुष्णाशीतं न तु पृथिव्यवयव इति। वयमपि वदामो रूपरसगन्धस्पर्शाः पृथिव्यामेव सन्ति नाबादिषु इति।

यत् भवतां मतम्-यत् दृष्टेषु अबादिषु रूपादिकमस्तीति। तत् पृथिवीयोगाद् दृश्यते न तु तत् तत्रास्ति। अप्सु उष्णलिङ्गवत्। तत्र नास्ति विनिगमकं यदपामुष्णलक्षणं तत्तेजोयोगादेवास्ति। न तु रूपादिलक्षणं पृथिवीयोगादिति। आदौ [यत्] पृथगस्तित्वेनादृष्टमबादीनां न तत् पृथिवियोगाद्भवति। यद्यादौ दृष्टम्। तदा सम्भवति वक्तुम् इदं रूपमबीयं न पार्थिवमिति। एवमबादीनां विवेचनं स्यात्।

(पृ) वायौ गन्धान्तरमुत्पद्यत इति यद्वचनम्। तदयुक्तम्, कस्मात्। निर्वाते केष्ठे दुराद्गन्धो जिघ्र्यते। गन्धस्तु वातं प्रति घ्रातव्यः। यथा पारिजाततरोः। अतो ज्ञायते न वायौ गन्धान्तरमुत्पद्यते। अपि तु गन्धमुपादाय गन्धान्तरमुत्पद्यते। इति। (उ) द्विविधः प्रत्ययो गन्धस्य। यत्र वायुरस्ति। तत्र गन्धवायुरुत्पद्यते। यत्र नास्ति तत्र गन्धमुपादाय गन्ध उत्पद्यते इत्यस्य को दोषः।

यदवादीः पूर्वं गन्धो दूरात् जिघ्र्यत इत्यप्राप्त्या स्यादिति। तदयुक्तम्। कस्मात्। रूपसाम्याभावात्। यद्यप्राप्य जिघ्र्यते। तदा रूपेण समं सदप्राप्य जिघ्र्येत। दूराद्‍दृष्टधूमगन्धो न जिघ्र्यते। प्राप्तौ तु जिघ्र्यते। अतो ज्ञायते अप्राप्य न जिघ्र्यत इति। दिव्यनासिकाभावाच्च प्राप्य जिघ्र्यते। यद्यप्राप्य जिघ्र्यते। दिव्यनासिका स्यात्। दिव्यचक्षुःश्रोतवत्॥

गन्धाघ्राणवर्ग एकपञ्चाशः।

५२ स्पर्शबुद्धिवर्गः

(पृ) स्पर्शोऽपि अप्राप्य ज्ञेयः। कस्मात्। सूर्यस्पर्शस्य दूरे वर्तमानत्वात्। (उ) सूर्यस्पर्शः कथं ज्ञेयः। (पृ) तेजोभागः सूर्यसकाशादागत्य कायं प्राप्तो ज्ञायते। (उ) यदि सूर्यात्तेजोभागा आगच्छन्ति। सूर्येऽस्तमिते तेजोभागो वर्तेत। न तु वर्तते वस्तुतः। अतो ज्ञायते नागच्छतीति। (पृ) सूर्यो यद्यपि अस्तमितः। तथापि तत्तेजो वर्तते इति स्पर्शात्त् ज्ञायते। (उ) तथा चेत्तेजोऽरूपं स्यात्। भवतां सूत्रे नास्त्यरूपं तेज इत्ययमेव दोषः। (पृ) तत्रास्ति सूक्ष्मं रूपम्। (उ) तेजो रूपबहुलमल्पस्पर्शकम्। यथा प्रदीरूपम् तत्स्पर्शमप्रतिबुध्यापि पश्यामः।

(पृ) स्पर्शः किं नियमेन प्राप्य ज्ञायते। (उ) नियमेन प्राप्य ज्ञायते। कस्मात्। यथा गन्धमुपादाय वायौ गन्धान्तरमुत्पद्यते। तथा सूर्यमुपादाय तेज उत्पद्यते। (पृ) सूर्येऽस्तमिते तेजोरूपं कस्मान्न दृश्यते। (उ) कस्यचित् तेजसः स्पर्शमात्रमस्ति न रूपम्। यथा सूर्येऽस्तमिते धर्म। यथा वा ज्वरार्तस्य पुरुषस्य तेजः कायनिश्रितमस्ति। धर्मगृहेऽग्न्यपगमेऽपि धर्मावशिष्यते। यथा वा यवा ग्वामौष्ण्यादि। तत् सर्वं स्पर्शवदरूपम्। तस्मात्तेजः किञ्चित्सरूपं किञ्चिदरूपमिति श्रद्धातव्यं भवति॥

स्पर्शबुद्धिवर्गो द्विपञ्चाशः।

५३ मनोवर्गः

यदवादीः-मनःसञ्चरतीति। षदयुक्तम्। कस्मात्। मनःप्रतिक्षणमुत्पन्नविनाशि वायुवत् कर्मवद्वा। प्रतिक्षणोत्पन्नविनाशिधर्मस्य नास्ति गतिलक्षणम्। किञ्च मनो गच्छतीति किं ज्ञात्वा गच्छेत्। उताज्ञात्वा गच्छेत्। तदुभयमयुक्तन्। यदि पूर्वमेव ज्ञातवत् किं गमनेन। यद्यज्ञातवत्, किमर्थं गमनम्। यदि चित्तं चक्षुषि वर्तते। कथं कर्णं प्राप्नोति। यत् चित्तं मन्यते श्रोत्रं गमिष्यामीति तच्छ्रोतस्मरणम्। या शब्दशुश्रूषा सैव शब्दस्मृतिः। यदि चक्षुषि वर्तमानं चित्तम्, न तदा [श्रोत्र]स्मरणं भवति। एवमिन्द्रियान्तरेऽपि। अतो न मनो गच्छति। यः पुमान् पूर्वं नगरादीन् दृष्टवान् स इदानीं पूर्वमनुरुध्य स्मरति न जानाति प्रत्युत्पन्नान्। अतो न मनो गच्छति। यदि [मनो-] धर्मो गच्छति, पूर्वसंन्निकृष्टं पश्चाद्विप्रकृष्टं [गच्छेत्]। इदानीन्तु सन्निकृष्टं विप्रकृष्ट ञ्च युगपत्स्मरति। अतो ज्ञायते न गच्छतीति। यो धर्मो गच्छति सोन्तराले सर्वान् विषयान् जानीयात्। यथा कश्चित्सञ्चरन् मध्येमार्गं रूपादीन् पदार्थान् जानाति। न तथा मनः। यथा चित्तमसदपि जानाति यदुतातीतमनागतं शगशृङ्गं कूर्मरोमाहिपादं वायुरूपं लोहितलवणगन्धमित्यादीनि [सर्वाण्य] पिजानाति। सर्वेषामप्राप्तत्वात्। अतो ज्ञायते न[मनो] गच्छतीति।

यदि चित्तमालम्बनं प्राप्नोति। तदा अज्ञानसंशयज्ञानमिथ्याज्ञानानि न स्युः। वस्ततस्तु सन्ति तानि। अतो ज्ञायते न गच्छतीति। चित्तस्यालम्बनं निर्वाणं चित्तं यदि प्राप्नोति। संस्कृतेनासंस्कृतं प्राप्यते। तत्तु न युक्तम्। पुनरावृत्तिनिस्सरण[लक्षण] मसस्कृतं संस्कृते प्रविशतीदमप्ययुक्तम्। यदि परलोकोऽस्तीति स्मरति। तदा चित्तं परलोकं प्राप्नोति। तत्कायो मृतो भवेत्। न पुनरुज्जीवेत्। अतो न गच्छति। चित्तमनागतं स्मरदनागतं प्राप्नोति। न हि प्रत्युत्पन्नो धर्मोऽनागतो भवेत्। अतीतं स्मरच्चित मतीते वर्तते। नह्यतीतगतो धर्मः प्रत्युत्पन्नः स्यात्। अतो ज्ञायते न गच्छतीति, रागचित्तान्मुखे रूपान्तरमुत्पद्यते। तथा द्वेषादिभ्योऽपि। यदि चित्तं देशान्तरं प्राप्नोति। तदा रूपभेदो न स्यात्। अतो ज्ञायते न गच्छतीति।

किञ्चालम्बनस्थं चित्तं वेदनेत्युच्यते। ता वेदना स्तिस्त्रः-दुःखाः वा सुखा वा अदुःखासुखा वेति। यदि चित्तं प्रदेशान्तरं प्राप्नोति। तदा ता वेदना न स्युः। अतो न गच्छति। चित्तञ्च कायनिश्रितम्। यथोक्तं सूत्रे-नामरूपाश्रितं विज्ञानमिति। अतः कायं विहाय नान्यत्र गच्छति। कायश्च विज्ञानसंयुक्तः सन् काय इत्युच्यते। यदि चित्तं देशान्तरे वर्तते। कायो निर्विज्ञानः स्यात्। आलम्बनं विज्ञानसंयुक्तं पुनः स विज्ञानमित्युच्यते अतो न गच्छति।

(पृ) स्वप्ने चित्तमन्या दिशो गच्छति। (उ) मैवम्। स्वप्ने शुक्रस्खलनादि चेष्टितानि सर्वाणि कायगतानि। चित्तविपर्ययादन्यत्र दिशि वर्तते इति वदन्ति। न तु वस्तुतो गच्छति। स्वप्ने च क्रियाः सर्वास्ता मिथ्या। यथा कश्चित्स्वप्ने पिबति नैब तत् तृष्णामपनयति। स्वप्ने च [पाप]कर्मचर्यादि न पातकं भवति। अतः मनोऽपि न गच्छति। चित्तं दृष्टे श्रुते मते ज्ञाते धर्ममात्रे वर्तते। न धर्मान्तरं चरति। यदि गमनेन प्राप्नोति तदा धर्मान्तरमपि जानीयात्। (पृ) ऋद्धिप्रभावितं मनो गच्छति। अन्या दिशश्च प्राप्नोति। इदञ्च पश्चादृद्धिखण्डनवर्गे वक्ष्यते। अतो न मनो गच्छति॥

मनोवर्गस्त्रिपञ्चाशः।

५४ इन्द्रियानियमवर्गः

(पृ) इन्द्रियाणि किं प्रतिनियतानि उताप्रतिनियतानि। (उ) किं नाम प्रतिनियतं किं नामाप्रतिनियतम्। (पृ) [यः] चक्षुरादीनामिन्द्रियाणां ज्ञेयो हेतुश्च। इदं प्रतिनियतं नाम। (उ) तथा चेदिन्द्रियमनियतम्। कस्मात्। नेन्द्रियाणि चक्षुरादीनां ज्ञेयानि हेतवश्च। (पृ) अक्षितारकाजिह्वाकाय ञ्च जक्षुषा दृश्यम्। श्रोत्रनासिक ञ्चान्तर्वर्तत इत्यतो नोपलभ्यते। (उ) मृतपुरुषस्यापि तानि सन्ति। नत्विन्द्रियाणि तानि। (पृ) अक्षितारका द्विविधा सेन्द्रिया निरिन्द्रियेति। मृतपुरुषस्येन्द्रियतारका क्षीणा। अनिन्द्रियतारका तु वर्तते। (उ) नेन्द्रियतारका द्रष्ट्री। अतो न चक्षुरादिभिरुपलभ्यते। उक्तञ्च सूत्रे-पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि सप्रतिघानीति। यदि तत् सनिदर्शनम्। तदा विभज्येत इयमक्षितारका सेन्द्रिया इयमनिन्द्रियेति।

(पृ) यद्युक्तं सूत्रे-चत्वारि महाभूतान्युपादाय रूपप्रसादाः पञ्चेन्द्रियाणीति। कस्मात्पुनरुच्यते-पञ्चेन्द्रियाणि रूपीण्यनिदर्शनानि। सप्रतिघानीति। (उ) अत एव शङ्क्यते तदचिन्त्यकर्मवलमिति। कर्मबलाद्धि चत्वारि महाभूतानीन्द्रियाणि परिणमन्ति। भगवान् कांक्षावतः स्वशिष्यान् प्रत्याह-कर्मजानि पञ्चेन्द्रियाणीति। अत उच्यते रूपीति। तीर्थिका वदन्ति-पञ्चेन्द्रियाणि अहङ्कारजातानि अहङ्कारश्चारूपीति। किञ्चाहुः-पञ्चेन्द्रियाणि बृहद्विजानन्ति अल्पञ्च विजानन्ति। अतोऽप्रतिनियतानीति। तेऽपि मन्यन्ते इन्द्रियमरूपीति। अतो भगवानाह-इन्द्रियाणि रूपीणि रूपादीनुपादाय सिद्धानीति। कदाचिद्यानि रूपादीनुपादाय भवन्ति तानि सनिदर्शनानीति ब्रूयात्। अत आह-अनिदर्शनानीति। नापि श्रोत्रादीनां तदुपलभ्यते। तथा चेदप्रतिघानीति कश्चिद्‍बूयात्। अत आह-सप्रतिघानीति। विषयान् प्रतिहन्तीति कृत्वा। यद्रूपं साकारं सप्रतिघम्, तदौदारिकं चक्षुर्मात्रेण दृश्यं भवति। तीर्थिका वदन्ति-संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म सामान्यं विशेषाश्च [रूपि] द्रव्यसमवायादरूपिणोऽपि चाक्षुषाणीति। अतो भगवानाह-एषां रूपमात्रं सनिदर्शनम् नान्ये धर्मा इति।

हस्तादौ प्रतिहन्यत इति सप्रतिघम्। (पृ) तथा चेत् [त-]त्स्पर्शमनुभवेत्। (उ) यद्यपि सर्वं प्रतिहन्ति। तथापि न सर्वत्रोत्पद्यते [तत्स्पर्शः]। कायविज्ञानं [त] द्विज्ञानमनुजायत इति इन्द्रियाणि विभक्तानि। अथेन्द्रियाणि वस्तुतोऽप्रतिनियतानि। कस्मात्। धर्मो यदि प्रतिनियतः। हस्तेन वस्तुग्रहणवदेकमेव वस्तु गृह्णीयात्। चक्षुस्तु महदल्पञ्च पश्यतीत्यतोऽनियतम्। यस्य प्रतिनियतो वस्तुस्पर्शः तस्य कारित्रमस्ति। यथा तेजःस्पर्शे दाहः खड्गस्पर्शे छेदः। चक्षुस्तु सुदूरमपि पश्यतीत्यतोऽप्रतिनियतम्। यो धर्मः प्रतिनियतः स प्रतिनियतं धर्मं प्रतिहन्ति। यथा हस्तो हस्तं प्रतिहन्ति। चक्षुस्तु उदककाचाभ्रपटलादिभिर्न प्रतिहन्यते। अतोऽप्रतिनियतम्। किञ्चेन्द्रियं यदि प्रतिनियतम्। कायस्यान्तरेव वर्तेत। कायस्यान्तर्वर्तित्वान्मनोयुक्तमपि न बाह्यविषयान् पश्येत्। वस्तुतस्तु पश्यति। अतोऽप्रतिनियतम्। धर्मो यदि प्रतिनियतः तदा [न] संख्येयानि पञ्चेन्द्रियाणि। किन्तु चक्षुरादीनि द्वैकायजिह्वाभ्यः सहाष्टौ स्युः। अतोऽप्रतिनियतम्। अधिष्ठानमात्रं प्रतिनियतम्। नेन्द्रियम्। वामचक्षुः पश्यति दक्षिणचक्षुरपि विजानाति। नह्यन्यत्पश्यति अन्यद्विजानातीति स्यात्। इन्द्रियाणां वामदक्षिणलक्षणाभावान्न प्रतिनियतानीमानि।

(पृ) चक्षुषो रश्मिर्महदल्पं पश्यति सुदूरं गत्वापि रूपमप्रतिहतं पश्यति। यथा सूर्यरश्मिः कायविनिर्मुक्तः पश्यति। रश्मिरयं द्वे चक्षुष्युपादायैकत्र मिलित्वा एकीभूतो रूपं पश्यति। चक्षुरेकं श्रोत्रं नासिका च कायस्यान्तर्वर्तमाना न विभक्तुं शक्यते। अतो भवद्वचनम् अन्यत्पश्यति अन्यद्विजानाति इदं निरस्तम्। आत्मनो ज्ञानं नेन्द्रियस्य इन्द्रियन्तु प्रयोज्यन्। धर्मसन्निकर्षो नोपलभ्यत इति यद्भवद्वचनम् तत्प्रयुक्तम्। यदादित्यप्रकशेनाभिभूत इत्यादि। श्रोत्रादीनामिन्द्रियाणां सन्निकर्षो गूढ इत्यतोऽपि नोपलभ्यते। यथा वृक्षसंयोगस्य निगूढा कोटिर्न ज्ञायते। आत्मानमुपादाय चैतन्यम्। नेन्द्रियाण्युपादाय। इन्द्रियं मौतिकम्। महाभूतमचेतनमित्यत इन्द्रियमप्यचेतनम्। घटः परमाणुहेतुकः। यथा परमाणुरचेतनः। घटोऽप्यचेतनः। स विषयान्तरं न जानातीत्यतोऽचेतनमिति ज्ञायते।

अत्रोच्यते। भवानाह-रश्मिर्गच्छति इन्द्रियमेकत्र स्थितमिति। भवतो रश्मिरिन्द्रियं भवति। रश्मेरव्यवस्थितत्वादिन्द्रियमप्यव्यवस्थितम्। स च रश्मिर्नास्तीति पूर्वमेव निरस्तम्। यदवादीरेकमिन्द्रियमिति। नेदं युज्यते। एकं चक्षुः किञ्चित्पश्यति द्वितीयं चक्षुरन्यत्पश्यति। यद्येकं चक्षुर्विनश्यति तदा नास्ति रश्मिः। इन्द्रियाणां सव्यदक्षिणत्वञ्च पूर्वमेव प्रत्युक्तम्। (पृ) यद्येकं चक्षुर्विज्ञानजनकम्। तदा द्वे चक्षुषी एकमिन्द्रियं स्यात्। किं द्वितीयं चक्षुः करोति। (उ) नासिका [विवरस्य] भेदान्नैकं भवति। असंवृतापि पृथग्भवतीति नैकं भवति। कराङ्‍गुल्यादिवत्। यदवोचद्भवान्-आत्मप्रयोग्य[मिन्द्रिय]मिति। तन्निरस्तपूर्वम्। आत्मा न प्रयोजयति। आदित्यप्रकाशेनाभिभूत इत्यपि दूषितपूर्वम्। यदवादीः सन्निकर्षो निगूढ इत्यतो न दृश्यत इति। इदमयुक्तम्। कस्मात्। [इन्द्रिय] धर्मो यदि व्यवस्थितः। तदा सन्निकर्षो न भवेत्। स्वरूपतो बैलक्षण्यात्। यथा वृक्षसंयोगो निगूढोऽपि तदवसाने दृश्यते। नैवं विषयेन्द्रियसन्निकर्षो दृश्यते। यदुक्तम्-आत्मवशाच्चैतन्यमिति। अत्रात्मा नास्तीति वक्ष्यते। यब्द्रवीषि-भौतिकानीन्द्रियाणीति। तदयुक्तम्। कर्मबलेन परिणमितानि महाभूतानीन्द्रियाणि भूत्वा विभक्तानि सन्ति।

(पृ) इन्द्रियाणि नियतानि। कस्मात्। तानि च भौतिकानि। चत्वारि महाभूतानि नियतानीति इन्द्रियमपि नियतम्। यस्माच्चक्षुरादीनीन्द्रियाणि नियतानि तस्मान्महाभूतादीन्युपकुर्वन्ति। महाभूतञ्चेन्द्रियं परिणम्यते। महाभूतस्य नियतत्वात् तद्विकृतधर्मोऽपि नियतः स्यात्। इन्द्रियेण स्वविषयवता भाव्यम्। विषयेण च स्वेन्द्रियवता भाव्यम्। यद्यनियतम्। मिथो भाव्यता न स्यात्। मनोवत् स्यात्। अतो ज्ञायते नियतमिति। लौकि कास्तारकादिषु नियतान् धर्मान् विजानन्ति। न मन आदिवत् [अनियतान्]। अतो नियतानि। इन्द्रियञ्च पुरोवर्तिनं विषयं विजानाति। अन्यत्रानुमानेन। अतो नियतम्। विद्यमानमालम्बनं विजनातीन्द्रियम्। मनस्त्वविद्यमानमालम्बनम्। तद्यथातीतादि। इन्द्रियार्थसन्निकर्षादिन्द्रियज्ञानमुत्पद्यते। यस्मान्नियतेनेन्द्रियेण नियतो विषयः प्रतिहन्यते। तस्मात् ज्ञायते नियतमिति।

अत्रोच्यते। यदुक्तं भवता-इन्द्रियाणि भौतिकानि नियतानीति। सर्वं भौतिकमपि किञ्चिदिन्द्रियं भवति किञ्चिन्नेन्द्रियम्। एवं किञ्चिन्नियतं किञ्चिदनियतम्। यदवोचः-उपकुर्वन्तीति। ज्ञानस्योपकुर्वन्ति न इन्द्रियस्य। महाभूतविकृतमिन्द्रियमिति चोक्तम्। विकारोऽपि ज्ञानार्थो नेन्द्रियोपकारकः। चतुर्णां महाभूतानां प्रसाद इत्यतोऽनियतम्। यब्द्रवीषि-इन्द्रियार्थयोर्मिथो भाव्यतेति। अयमपि मनस एव नियमः। इन्द्रियस्याज्ञत्वात्। तदन्ये सर्वे मनोबलविशेषाः। षड् विज्ञानानि इत्युक्तिरपि मनोविज्ञानमपेक्ष्येति निश्चीयते। यथा चतुस्सत्याभिसमये धर्मान् साक्षात्कृत्य [त]द्धर्मतां सम्यक् भावयतीति सर्वमिदं मनोविज्ञानेनैव। यथा चालातचक्रमायमरीचिनिर्मितगन्धर्वनगराणि सर्वाण्यसत्यभूतानि पश्यति। तथा रूपाण्यपि पश्यति। अतश्चक्षुरादीनि सर्वाणि मिथ्यालम्बनानि भवन्ति। यदवादीः-इन्द्रियार्थसन्निकर्षात् ज्ञानमुत्पद्यत इति। किं प्राप्य विजानाति किमप्राप्येति सर्वं प्रत्युक्तम्।

इन्द्रियानियमवर्गश्चतुःपञ्चाशः।

५५ रूपायतनलक्षणवर्गः

नीलपीतादिरूपं रूपायतनमित्युच्यते। यथोक्तं सूत्रे- [यत्] चक्षुरायतनमतीतरूपविप्रयुक्तम्। इदमायतनं ज्ञातव्यमिति। (पृ) केचिदाहुः कर्म परिमाणञ्च रूपायतनमिति। कस्मात्। यथोक्तं सूत्रे-कृष्णावदातह्रस्वदीर्घौदारिकसूक्ष्माणि रूपाणीति। (उ) संस्थानादयो रूपस्य प्रभेदा एव। केनेदं ज्ञायते। रूपवियुक्तं परिमाणादिचित्तं नोपलभ्यते। यदि संस्थानादि रूपादन्यत्। रूपवियुक्त [संस्थान]चित्तमप्युत्पद्येत न वस्तुत उत्पद्यते। अतो ज्ञायते नान्यदिति। (पृ) पूर्वं रूपबुद्धिर्भवति पश्चात्संस्थानबुद्धिः। कस्मात्। कृष्णावदातवर्तुलपरिमण्डलबुद्धयो न युगपद्भवन्ति (उ) ह्रस्वदीर्घादिलक्षणं सर्वं रूपं प्रतीत्य मनोविज्ञाने समुत्पद्यते। यथा रूपदर्शनपूर्वकं मनोविज्ञानमुत्पद्यते। संस्कृतधर्माणां क्षणिकत्वात् स्त्रीपुंनिमित्तकर्मापि नास्ति, विज्ञानधर्मो न गतिः। अतीतं हि कर्मेत्युच्यते।

(पृ) अतीतं कायिकं कर्म। यदि नास्त्यतीतं। न तदास्ति कायिकं कर्म। (उ) संवृतिसंज्ञायास्ति कायिकं कर्म। न परमार्थतः। (पृ) यदि परमार्थतो नास्ति कायिकं कर्म। न स्यात्पुण्यपापमपि परमार्थतः। पुण्यपापाभावाद्विपाकोऽपि नास्ति। (उ) [कस्मिंश्चित्] धर्मे स्थानान्तर उद्धिते यदि परस्योपकारो हिंसा वा भवति। तदा सिध्यति पुण्यपापम्॥

रूपायतनलक्षणवर्गः पञ्चपञ्चाशः।

५६ शब्दलक्षणवर्गः

(पृ) कस्मान्नोच्यते शब्दमुपादाय महाभूतानि भवन्तीति। (उ) शब्दो रूपादिविनिर्मुक्तः। रूपादयश्च [शब्दा] संप्रयुक्ताः। अतो नोच्यते। शब्दश्च न रूपादिवन्नित्यसन्तानः। नापि च रूपादिभि सहजातः। रूपादिभ्यश्चान्यथा जातः। कस्मात्। रूपादीनि सहजातानि क्रमशो मूलाङ्‍कुरक्रमेण भवन्ति। शब्दस्तु न तथा भवति। शब्दश्च पदार्थाल्लब्धनामकः। यथा वदन्ति घटशब्द इति। न तु वदन्ति घटे शब्द इति। कदाचिद्वदन्ति घटं पश्यामीति। कदाचिद्वदन्ति घटरूपं पश्यामीति। न तु वदन्ति घटं शृणोमीति। केवलं वदन्ति घटशब्दं शृणोमीति। सत्त्वानां पूर्वाक्षिप्तकर्मवासनत्वाद्यदि पदार्था नित्यं सशब्दाः स्युः तदा न तात्कालिकः [शब्दः]। तस्माच्छब्दो न महाभूतानां साधनहेतुः।

(पृ) पदार्थाः सशब्दा इति केनेदं ज्ञायते। सम्मर्दे शब्द उदेति। महाभूतानां सदा मिथः सम्मर्दात् सर्वं सशब्दं स्यात्। (उ) न पदार्थानां मिथः सम्मर्दः सर्वः शब्दहेतुः। कस्मात्। चक्षुषा पश्यामः खलु नाङ्‍गुलिद्वयसम्मर्दश्शब्दजनक इति। (पृ) तत्र शब्द उत्पद्यते। सौक्ष्म्यान्न ज्ञायते। (उ) नोत्पद्यते [तत्र शब्दः] यावत्सूक्ष्मशब्दस्याप्यश्रवणात्। यो वदति अस्ति शब्द इति। तस्य प्रत्यक्षे श्रद्धा न स्यात्। परोऽपि वदेत्-अस्त्युदके गन्धः। सौक्ष्म्यान्न जिघ्र्यते। अस्ति तेजसि रसः। सन्ति वायावाकाशे च रूपादय इति। न सन्ति वस्तुतः। अतो न सर्वः सम्मर्दः शब्दजनकः।

(पृ) संवृतितः सदा वदन्ति शब्द आकाशगुण इति। केनेदानीं ज्ञायते चतुर्महाभूतज इति। (उ) प्रत्यक्षं पश्यामः खलु शब्दं चतुर्महाभूतजम्। अस्मद्दर्शनस्य प्रत्यक्षपूर्वकत्वात्। वदन्ति च घण्टाशब्दो भेरीशब्द इति। अतो ज्ञायते घण्टाभेर्योरयं शब्द इति। चतुर्महाभूतेभ्योऽन्यत्वात् शब्दो विशिष्यते यथा घण्टाभेरीशब्दावन्यौ। ताम्रभाजनवेधे कम्पितशब्दः सह भवति। गृहीते च सह शाम्यति। कम्पितभाजनशब्दोऽप्येवमिति ज्ञेयम्। शब्दं करिष्यन् अवश्यं चातुर्भौतिकं बिम्बमाकांक्षते। अतो ज्ञायते चतुर्महाभूतजः शब्द इति।

कर्मकारणश्च शब्दो विशिष्यते। यथा सत्त्वानां ध्वनिः कदाचित्कर्कशः कदाचिन्मधुरः। न कर्मकारणेनाकाशे गुण उत्पद्येत। अतो न [स आकाशगुणः]। हेतुलक्षणत्वाच्च। हेतुलक्षणञ्च-यो धर्मो यस्माद्भवति। स [तभ्य] हेतुः। एवं कारणमहाभूतेषु सत्सु शब्दो भवति। असत्सु न शब्दः। यथा तेजसि सत्यौष्ण्यं नासति। इति ज्ञातव्यं तेजस औष्ण्यं भवतीति। महाभूतजः शब्दोऽप्येवम्। यथाकाशौष्ण्ययोः सत्ता। आकाशे वर्तमानेऽपि औष्ण्यमस्ति कदाचित् कदाचिन्नेत्याकाशो नौष्ण्यकारणमिति ज्ञेयम्। तदा शब्दोऽपि। यथाकाशभावे शब्दभावः। आकाशे वर्तमानेऽपि शब्दः कदाचिदस्ति कदाचिन्नास्ति। अतो ज्ञायतेऽकारणमिति। शब्द आकाशगुण इतीदं न श्रद्धेयम्। दृष्टे तावन्न पश्यामः शब्दः आकाशमुपादत्त इति। नाप्यनुमानम्। तत्र केनानुमानं भवेत्। सूत्रग्रन्थे च बहूनि विरुद्धानि। एवं नास्त्येकमपि श्रेद्धेयम्। अतोऽयुक्तमिति ज्ञायते।

शब्दलक्षणवर्गः षट्‍पञ्चाशः।

५७ गन्धलक्षणवर्गः

(पृ) तमालपत्रादिनानागन्धसमवायात् तद्गन्धो मौल-[गन्धा] दन्यः। किं तेषामेव गन्धो गन्धान्तरमुत्पादयति ?। (उ) गन्धकलापहेतुकं गन्धान्तरमुत्पद्यते। यथा नीलपीतरूपसङ्करे हरितरूपमुत्पद्यते। विभिन्नकर्मप्रत्ययाच्च विभिन्नगन्ध उत्पद्यते।

औलूक्या वदन्ति पृथिवीमात्रगुणो गन्ध इति। कथमिदम्। (उ) नास्ति द्रव्यमितीदं प्रदर्शितमेव। अतोऽयुक्तमिति ज्ञायते।

वैशेषिकाः पुनराहुः-कांस्यत्रपुसीस [लोह] सुवर्णरजतताम्रादयस्तैजसा इति। तत्रापि गन्धोऽस्तीत्यतो ज्ञायते न पृथिवीमात्रेऽस्तीति। (पृ)कांस्यादौ पृथिवीयोगाद्गन्धः। (उ) नायमागन्तुको गन्धः। कस्मात्। पूर्वमन्यस्मिन् द्रव्येऽनाघ्रातोऽयं गन्धः। यो घ्रातपूर्वः स आगन्तुको वक्तव्यः। यथा पूर्वं कुसुमे गन्धमाघ्राय पश्चाद्वस्त्रे जिघ्रतः अयमागन्तुकः संभवति। नैवं भवति कांस्यादीनां गन्धः। अतोऽहेतुः। कांस्यादीनामसति निर्गन्धसमये न वक्तव्यमागन्तुक इति। ममापि सम्भवति नोदकादादौ रूपादीनि सन्ति। पृथिवीयोगात्तु केवलमुपलभ्यन्त इति। यदि ब्रवीषि जलादावस्ति रूपं स्वत इति। वयमपि वदेम कांस्यादौ स्वत एव गन्धोऽस्तीति। यो धर्मो यस्य वस्तुनोऽविनिर्भागवर्ती स तस्यास्ति। अतो यो गन्धो यत्राविनिर्भागवर्ती स तस्यैव द्रव्यस्य गन्धः। जलादौ च यद्यस्ति गन्धः सौक्ष्म्यान्नोपलभ्यते। तदा को दोषः। यथा वदन्ति-अस्ति चन्द्रमसि तेजः तेजसः प्रतिनियतोष्णता इति। वदन्ति च घर्मगृहेऽग्न्यपगमेऽपि शिष्यमाणस्य धर्मणोऽस्ति सूक्ष्मं रूपमिति। यवागावस्ति सूक्ष्मं शीतलक्षणमिति च। तथा जलेऽपि गन्धोऽस्ति। न तत्रास्ति नियमहेतुर्यज्जलेगन्धो नास्तीति वक्तम्।

किञ्च भवतो द्रव्याण्यनियतलक्षणानि भवत्नि। कस्मात्। भवता प्रतिज्ञातम् “व्यवस्थितः पृथिव्यां गन्ध” इति। वज्रस्फटिकादीनान्तूज्वलविकृतत्वात् पार्थिवत्वेऽपि नास्ति गन्धः। ब्रवीषि च “अप्सु शीतता” इति। क्षीरादीनां नियतशीतत्वेऽपि घृतादीनां गन्धवत्त्वात् पार्थिवत्वमुच्यते। आह च “तेजस उष्णता” इति। कांस्यादीनां तैजसत्वेऽपि नोष्णता। चन्द्रादयः शीता अपि तैजसा इति ब्रवीषि। इत्येवमादिभिर्द्रव्याणि न नियतलक्षणानि भवन्ति॥ तस्माद्गन्धः पृथिवीमात्रे विद्यत इतीदमयुक्तम्। कांस्यादयस्तैजसा इति यद्भवतो मतम्। तदप्ययुक्तम्। कस्मात्। उष्णतानियमाभावात्। औलुक्या वदन्ति-तेजस उष्णता व्यवस्थितेति। कांस्यादयस्त्वनुष्णाः। (पृ) कांस्यादीनामुष्णता कार्ये वर्तते। न तु स्पर्शे। (उ) घृतं कार्यतः शीतमिति आप्यं स्यात्। भवतस्तु मतम् गन्धवत्त्वात्पार्थिवमिति। अतः कार्यत इति वचनं न हेतुः कल्पते। हरीतकीफलमात्रे उष्णता नियतेति तैजसद्रव्यं स्यात्। वस्तुतस्तु गन्धवती पञ्चरसवतीति न तैजसद्रव्यमित्युच्यते। कार्यत इति वचनस्याहेतुत्वात्। कांस्यादीनि न तैजसद्रव्याणि। तेजसो लक्षणं लघुत्वं कांस्यादीनां गुरुत्वं, तेजसो रूपं भास्करं शुक्लम् कांस्यादीनान्तु अभास्वरम्। कांस्यांदीनां तेजसा वैलक्षण्येऽपि तानि तैजसद्रव्याणीति ज्ञाप्यन्ते। तानि च तेजसो विरुद्धानि। कस्मात्। अग्निसंयोगेऽपचयात्। यदि तैजसानि, अग्निसंयोगे विवर्धेत। न तु विवर्धते। अतो न तैजसद्रव्याणि। असम्यक्चिन्तनात् ब्रवीथ यूयं-गन्धः पृथिवीमात्रे विद्यत इति। परन्तु स गन्धश्चतुर्षु सङ्घातेषु वर्तते।

गन्धलक्षणवर्गः सप्तपञ्चाशः।

५८ रसलक्षणवर्गः

रसो नाम मथुराम्ललवणकटुतिक्तकषायादयाः। इमे षड्रसाः पदार्थवशाद्विशिष्टा भवन्ति। न तु चतुर्षु महाभूतेषु तारतम्येन भवन्ति। यथा वदन्ति पृथिव्या अपां बाहुल्येन मधुर इति। तदयुक्तम्। मधुरस्याप्रमाणा विशेषा भवन्ति। अतो ज्ञातव्यम् -पदार्थात् पृथक् [पृथक्] स्वभावो रसो जायत इति।

चिकित्सकावदन्ति-षडेव रसा इति। कथमिदम्। षडिति नातिसीमा। कस्मात्। कदाचिद्वयो रसयोः समवायः, कदाचित् त्रयाणाम्, कदाचिच्चतुर्णामित्येवमप्रमाणाः। न तु मधुराम्लसमवायान्मधुराम्लौ भवतः। मधुराम्लसमवाये पुनारसान्तरमुत्पद्यत इत्येवमप्रमाणाः। संवृत्या रसा विभक्ताः यथा जना मन्यन्ते मधुरं मधुरमेव भवतीति। रसानां पाककालः पृथक् पृथग्‌लक्षणस्य हेतुः। मधुररसः पाककालेऽमृतमेव भवति विक्रियते वा। तथान्येऽपि रसाः। अतो धर्माणामस्तीदृशः प्रभावः। न तु षण्मात्रा [रसा] इति॥

रसलक्षणवर्गोऽष्टपञ्चाशः।

५९ स्पर्शलक्षणवर्गः

स्पर्शो नाम कठिनं मृदु गुरु लघु प्रबलं दुर्बलं शीतमुष्णं कर्कशं श्लक्ष्णं कृशं श्थूलं प्रश्रब्धिः क्लमथमक्लमथं रोगो विशेषो वा कायतैक्ष्ण्यं कायमान्द्यमालस्यं गौरवं सम्मूर्छनं सम्मोहः स्तम्भर्न व्यथा शूलं विजृम्भिका जिघत्सा पिपासा सन्तृप्तिः सातं विसातं मौरर्व्यम् इत्यादयः।

(पृ) केचिदाहुः-त्रयः स्पर्शाः शीत उष्णोऽनुष्णाशीत इति। कथमिदम्। (उ) काठन्यादिषु ज्ञानमुत्पद्यते। काठिन्यादीन् विहाय नास्ति शीतोष्णज्ञानम्। (पृ) औलूक्या वदन्ति-पृथिव्या अनुष्णाशीतस्पर्शस्तथा वायोरपि स्पर्शः। अपां शीतस्पर्शः तेजस उष्णस्पर्श इति। कथमिदम्। [तादृश] नियमो नास्तीति पूर्वमेवोक्तम्-यदुत सर्पिरादीनां नियता शीतता कांस्यादीनामनुष्णतेति। किञ्चोक्तं पूर्वं त्रिषु स्पर्शेषु यदि वायवीय आगन्तुकः तदा स्पर्शान्तराभावाद्वायुरनियतलक्षणः स्यात्। इति। यवागौ शीलक्षणानुपलम्भादपामनियतं शीतलक्षणं स्यात्त्।

(पृ) यवागावस्ति सूक्ष्मं शीतलक्षणम्। तेजसाभिभूतत्वान्न ज्ञायते। केनेदं ज्ञायते। तेजःशक्तौ क्षीणायां पुनःशीतस्योदयात्। (उ) कांस्यादीनि सर्पिरादीनि च कठिनद्रव्याणि अग्निसंयोगाद्रवी भवन्ति। यदि काठिन्येऽविनष्ट एव द्रवत्वमस्ति। तदा काठिन्यमेव द्रवत्वं स्यात्। यदि काठिन्ये विनष्टे द्रवत्वं भवति। तदा शीतस्पर्शे निरुद्धे पुनश्शीतस्पर्श उत्पद्येत। यथानुष्णाशीतः पृथिवीस्पर्शः। अग्निसंयोगे स स्पर्शो यदि न विनष्टः। तदा न पाको भवेत्। यदि विनष्टः। तदा स एव स्पर्शः स्पर्शान्तरमुत्पादयेत्। एवञ्च शीतस्पर्शे विनष्टे पुनश्शीतस्पर्श उत्पद्येत। तथा चेदपां गुणा अपि पच्येरन्। भवांस्तु विपर्ययं दुष्टं ब्रवीति। विरोधिधर्मसन्निपाते सर्वाण्यनित्यानि। यथाग्निसंयोगात्तृणादीनि नश्यन्ति। यद्याह-उष्णस्पर्शः शीतस्पर्श [तया] परावर्तत इति। [तदा] परोऽपि ब्रूयात् पयोलक्षणमनिरुध्य केवलं दधिलक्षणं परावर्तत इति। तत्तु नोपलभ्यते। यदि ब्रवीषि न पश्यामः पयः पुनः पयोरूपेणेति। एवञ्च न पाकवत् स्यात्। कस्मात्। अनादौ संसारे किं द्रव्यं नाग्निना दग्धं भवति। दृष्टा च भूमौ सध्रूममृत् उपलभ्यमाना। ज्ञातव्याञ्च पाकात् व्यावृत्तेति। अतो ज्ञायते पाको न नित्योऽपरावृत्त इति। एवञ्च शीतस्पर्शे विनष्टे पुनः शीतस्पर्श उत्पद्यते। कदाचिदग्निसंयोगात्कृष्णरूपे विनष्टे पुनः कृष्णरूपमुत्पद्यते। रक्तरूपे विनष्टे पुनारक्तरूपमुत्पद्यते। एवं शीतस्पर्शो विनष्टः सन्नग्निवियोगे पुनरुत्पद्यते। तत्र को दोषः।

वैशेषिका वदन्ति-पृथिवीमात्रे पाको भवति नाप्सु इति। भिषजस्तु वदन्ति-यस्तप्तां यवागूं पाति स विजातीयं फलं लभत इति। यदि यवागौ रूपादीनां नास्ति [पाकः]। विजातीयफलवत्तानिष्ठाभङ्गः। अतो ज्ञायतेऽबादयोऽपि पाकवन्त इति। यथाग्निपक्वद्रव्यस्य पूर्वगुणविनाशात्पुर्नर्गुणान्तरवत्त्वात् ज्ञायते द्रव्यं विजातीयगुणवदिति। एवमापोऽपि। लक्षणानां विरोधाच्चानित्यता। यथापोग्निं निर्वापयन्ति। अग्निरापः परिपाचयति। नाद्रव्यं परिपाचयति तेजोबलम्। अपि चाग्निसंयोगेन शीतस्पर्शोऽपगच्छति। तस्माद्वैशेषिकसूत्रम्-शीतस्पर्शवत्य आप इतिदमयुक्तम्॥

स्पर्शलक्षणवर्ग एकोनषष्टितमः।

६० अथ दुःखसत्यस्कन्धे विज्ञानाधिकारे
अचैतसिकस्थापनम्

चित्तं मनोविज्ञानमित्येकस्यैव विभिन्नानि नामानि। यत् धर्मालम्बनं तच्चित्तमित्युच्यते। (पृ) तथा चेद्वेदनासंज्ञासंस्कारादयश्चैतसिका अपि चित्तानि स्युः। सर्वेषामालम्बकत्वात्। (उ) वेदनासंज्ञासंस्कारादयश्चित्तविशेषस्याख्या भवन्ति। यथा मार्गवर्गे स्मृतेरेकस्या एव पञ्च नामान्यु[च्यन्ते] स्मृत्युपस्थानं स्मृतीन्द्रियं स्मृतिबलं स्मृतिसम्बोध्यङ्गं सम्यक्‌स्मृतिरिति। तथा वीर्यादयोऽपि। यथा चैकस्या अनास्रवप्रज्ञाया दुःखभावना, सम्बोधिरित्यादीनि नाना पृथक् पृथङ् नामानि भवन्ति। एक एव समाधिः ध्यानं विमुक्तिः निस्सृतिः समापत्तिरित्युच्यते। एवमेकमेव चित्तं यथाकालं विशेषाख्यां लभते। अतो ज्ञायत एकमेव चित्तमिति। कस्मात्। यथोक्तं सूत्रे-तस्य कामास्रवाच्चित्तं विमुच्यते अविद्यास्रवच्चित्तं विमुच्यत इति। यद्यस्ति पृथक् चैतसिकम्। चैतसिकाच्चित्तं विमुच्यत इति ब्रूयात्। अपि चोक्तं सूत्रे-यदा भगवान् सत्त्वानां कल्लचित्तं मृदुचित्तं दान्तचित्तं विमुक्तिलाभप्रवणताञ्च प्रजानाति। ततश्चतुस्सत्यान्युपदिशति इति। तत्र न चैतसिकमुक्तमस्ति। अपि चोक्तं सूत्रे-चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ति चित्तव्यवदानात्सत्त्वा विशुध्यन्ति। इति। किञ्चाह-यो भिक्षुश्चत्वारि ध्यानान्युपसम्पद्य विशुद्धाकोप्यचित्तो भवति। स दुःखं समुदयं निरोधं मार्गमार्यसत्यञ्च यथाभूतं प्रजानाति इति। द्वादशनिदानेषु च संस्कारप्रत्ययं विज्ञानमित्युच्यते। आह च षड्‍धातुरयं पुरुष इति। किञ्चाह-चपलता न चित्तादत्येति। इति। अपि चोक्तं सूत्रे राष्ट्रपालमाहूयावदत् इदं वस्तु पुनः पुनराजवज्जवं महाराज चित्तं वदामि इति। आह च आध्यात्मिको विज्ञानकायो बाह्यं नापरूपमिति द्विधा भवति। इति। विज्ञानकायोऽस्तीति मात्रमाह न चैतसिकमस्तीति। किञ्चाह-त्रयाणां सन्निपातः स्पर्श इति। यदि चैतसिकमस्ति न ब्रूयात् “त्रयाणाम्” इति। उच्यते तु वस्तुत स्त्रयाणामिति। अतो ज्ञायते चित्तमात्रमस्ति न चैतसिकमस्ति पृथगिति॥

दुःखसत्यस्कन्धे विज्ञानाधिकारेऽचैतसिकस्थापनवर्गः षष्टितमः।

६१ चैतसिकस्थापनवर्गः

(पृ) चित्तमन्यत् चैतसिकधर्मा अन्ये। कस्मात्। चित्तचैतसिकानां सम्प्रयोगात्। यदि न सन्ति चैतसिकधर्माः। तदा सम्प्रयोगो न स्यात्। अस्ति तु सम्प्रयोगः। अतो ज्ञायते सन्ति चैतसिकधर्मा इति। यद्भवतां मतं-चित्तमन्येन चित्तेन सम्प्रयुज्यत इति। तदयुक्तम्। कस्मात्। उक्तं हि सूत्रे-दूरङ्गममेकचरमशरीरं गुहाशयम् इति। तत्र सधर्मतामात्रं प्रतिषिध्यते। चैतसिकसहचरत्वेऽपि एकचरमित्युच्यते। यथा भिक्षुरेकाकी सन् सत्स्वपि मशका[दि] प्राणिषु सजातीयो नास्तीति एकाकीत्युच्यते। अतो ज्ञायते नान्यचित्तेन चित्तं सम्प्रयुज्यत इति। अस्ति तु सम्प्रयोग इत्यतोऽस्ति चैतसिक [धर्मः]। चित्तञ्च सप्तधातुभिरेकायतनेन एकस्कन्धेन च सङ्‍गृहीतम्। चैतसिकास्तु एकेन धातुना एकेनायतनेन त्रिभिः स्कन्धैश्च सङ्‍गृहीताः। चित्तमाश्रयः चैतसिका आश्रिताः। यथोक्तं सूत्रे-चैतसिकाश्चित्तं निश्रित्य समुदराचरन्ति। इति। यदि न सन्ति चैतसिकाः। तदा न स्युः पञ्चस्कन्धाः। न तु तत्सम्भवति। तयोश्च द्वयोरुत्पत्तिर्भिद्यते। द्वाभ्यां चित्तमुत्पद्यते। त्रिभिश्चैतसिकाः। यथोक्तं सूत्रे-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। त्रयाणां सन्निपातः स्पर्शः। स्पर्शप्रत्यया वेदना इति। आह च-नामरूपसमुदयाद्विज्ञानसमुदयः। स्पर्शप्रत्ययाद्वेदनासमुदय इति। चैतसिका आश्रयसंप्रयुक्ताः। सममेकालम्बना एकाध्ववर्तिनश्च। नैवं चित्तं भवति। तादृशविभागात् ज्ञायते चित्तमन्यत् चैतसिका अन्य इति। चतुर्षु प्रतिशरणेषु ज्ञानप्रतिशरणं [विशिष्ट] मुच्यते। न विज्ञानप्रतिशरणम्। यदि ज्ञानमेव विज्ञानम्। कथमिदं प्रतिशरणवचनं स्यात्। अतो ज्ञायते ज्ञानं न विज्ञानमिति।

भगवान् स्वयमाह-ये चित्तजाश्चित्तनिश्रितास्ते चैतसिका इति। न चाह भगवान् चित्तमात्रमस्ति। न चैतसिका इतीममर्थम्। परोऽपि वदेत्-चैतसिकाः सन्ति न चित्तमिति। संज्ञामात्रमिति चैतासिकान् दूषयसि। चित्तमपि संज्ञामात्रमिति दूषयिष्यामि। कारित्रभेदाद्धर्माणां लक्षणं भिद्यते। यथापः स्नेहयन्ति। तेजः परिदहति। एवं वेदनादीनां कारित्रभेदात् ज्ञायते विभिन्नलक्षणमिति। उक्तञ्च सूत्रेषु-चित्ते वितर्क उदभूदिति। अतश्चित्तादन्ये चैतसिका इति ज्ञायते। न हि चित्ते स्वचित्तमुत्पद्येत। यथोक्तं-चित्तसंक्लेशात् सत्त्वाः क्लिश्यन्ति। चित्तव्यवदानात्सत्त्वा विशुध्यन्ति। इति। यदि चित्तमात्रमस्ति। तदा संक्लेशो व्यवदानञ्च निर्हेतुकं स्यात्। पुरुषस्याविद्यया संक्लेशः प्रज्ञया व्यवदानमिति न भवेत्। आत्मैव संक्लेश आत्मैव व्यवदानमिति स्यात्। तत्तु न सम्भवति। अतः सन्ति चैतसिकाः॥

चैतासिकस्थापनवर्ग एकषष्टितमः।

६२ नाचैतसिकवर्गः

भवता यद्यप्युक्तं धर्मालम्बनं चित्तं चित्तविशेषाश्चैतसिका मार्गवर्गोक्तवत् इति। तदयुक्तम्। कस्मात्। सूत्रे चित्तलक्षणं पृथक् चैतसिकलक्षणञ्च पृथगुच्यते। विजानातीति विज्ञानक्षणम्। सुखदुःखानुभवो वेदनालक्षणम। [नीलपीतादि] संज्ञानं संज्ञालक्षणम्। अभिसंस्करणं संस्कारलक्षणम। अतश्चित्तमन्यत् चैतसिका अन्य इति। यदुक्तं-चित्तं विमुच्यत इति। तदयुक्तम्। उक्तमन्यस्मिन् सूत्रे-अविद्याविसंयोगात्प्रज्ञा विमुच्यत इति। न चित्तमात्रं विमुच्यत इति। चित्तस्य प्राधान्याच्चित्तमात्रमुक्तम्। लौकिकाः सर्वे भूयसा चित्तमेव विजानन्ति। न चैतसिकान्। अतो भगवानेकदेशमाह। सूत्रे भगवान् न परिनिष्ठितं वक्ति इदमस्याधिवचनमिति। यथाह सूत्रम्-एकं धर्मं प्रजहीथ अहमाजानामि अनागामिमार्गं प्रतिलभध्वे यदिदं कामच्छन्दम्। इति। वस्तुतस्तु नैकदेशप्रहाणेन तद्भवति। तथेदमपि। अनेन कल्लचित्ताद्यपि प्रत्युक्तम्। यदुक्तं बाह्यमाध्यात्मिकमिति धर्मो द्विधा भवतीति। तदप्ययुक्तम्। यदुक्तं बाह्यं नामरूपमिति स एव चैतसिक [धर्म] इत्युच्यते। बाह्यायतनसङ्‍गृहीतत्वाद्वाह्यमित्याख्या।

तत्र भगवान् त्रीणी वस्तून्याह। य आध्यात्मिकोऽस्ति विज्ञानकायः। तदेवेन्द्रियेण सह विज्ञानमित्युच्यते। यत् बाह्यं स एव विषय इत्युच्यते। यदुक्तं विज्ञानकायमात्रमस्तीति। तदप्ययुक्तम्। तस्मिन् सूत्र उक्तं बाह्यलक्षणं चैतसिकमेव। यदुक्तं त्रयाणां सन्निपातः स्पर्श इति। अयुक्तमिदमपि। स्पर्शो हि वेदनादीनां चैतसिकानां हेतूक्रियते। अतः स्पर्श उच्यते॥

न चैतसिकनास्तितावर्गो द्विषष्टितमः।

६३ न चैतसिकसत्तावर्गः

अत्र ब्रूमः। यदवादीः सम्प्रयोगात्सन्ति चैतसिका इति। तदयुक्तम्। कस्मात्। सर्वेषां धर्माणामेकचरत्वं पश्चात्सविस्तरं वक्ष्यते। अतः सम्प्रयोगो नास्ति। अनेन चित्तमिदमेकचरमित्याद्यपि प्रत्युक्तम्। न तत्र सधर्मता प्रतिषिध्यते। चैतसिका एव प्रतिषिध्यन्ते। यदवोचः सङ्‍गृहीतभेदात्सन्ति चैतसिका इति। तत् सूत्रकर्ता स्वीयां संज्ञा व्यवस्थापयामास। न भगवतः सूत्रे लक्षणसङ्‍ग्रह उच्यते। अतो न सन्ति। यदब्रवीः आश्रयाश्रायिभाव इति। यथा भवतो मनोविज्ञानं चित्तमाश्रयते। आश्रयत्वान्न चैतसिकमित्युच्यते। एवं चित्तं चित्तमाश्रयत इति न नामान्तरं लभते। यदुक्तम्-पञ्चस्कन्धा न स्युरिति। तदयुक्तम्। मम [मते] चित्तविशेषा एव वेदनासंज्ञादय इत्युच्यन्ते। [यथा] भवतश्चैतसिकाः पृथक् त्रयः स्कन्धा भवन्ति। यदवादीः उत्पत्तिर्भिद्यत इति। तदयुक्तम्। यदि चित्तं चैतसिकाश्च सहोत्पद्यन्ते। कस्मादुच्यते द्वाभ्यां चित्तमुत्पद्यते त्रिभिश्चैत्ता इति। यश्चित्तमात्रं ब्रवीति। तस्यायमेव न्यायः। कस्मात्। स हि ब्रवीति-पूर्वं विज्ञानस्य कालः पश्चात्संज्ञादीनाम् इति। यदुक्तं सम्प्रयोगालम्बनाध्वभिज्ञानं भिद्यत इति। तत् पूर्वमेव दूषितम्। सम्प्रयोगस्याभावात्। यदब्रवीः-ज्ञानप्रतिशरणं न विज्ञानप्रतिशरणमिति। चित्तमेव द्विधा वदामि एकं ज्ञानमपरं विज्ञानमिति। अतो ज्ञानप्रतिशरणं चित्त[माश्रयणीयं] न विज्ञानप्रतिशरणम्।

यदाह भवान्-भगवान् स्वयमाह ये चित्तनिश्रितास्ते चैतसिका इति। चित्तोत्पन्नो धर्मश्चैतसिक इत्युच्यते। चित्तं चित्तादुत्पन्नमिति चैतसिकमित्याख्यायते। भवानाह-भगवान्नावोचन्न सन्ति चैतसिका इति। किन्तु वदामि चित्तविशेषा एव चैतसिका इति। यस्य युक्तिरस्ति [तस्य] अनुक्ताप्युक्ता भवति। एवं [यस्य] युक्तिर्नास्ति। [तस्य] उक्तापि अनुक्तेव। न तेन हेतुर्वक्तव्यः। वक्ष्यामश्च चित्तचैतासिकाः संज्ञार्था इति।

सञ्चिनोतीति चित्तम्। वेदनादयोऽपि सञ्चयनसभागत्वात् चित्तमेव। चित्तञ्च चैतसिकैः सह चित्तादुत्पद्यत इति चैतसिकमित्युच्यते। चैतसिकमात्रमस्तीति यो वदति स वदेत् चैतसिकधर्मा अर्थाख्या इति। न वक्तव्यमिदं वस्तुतः। अतोऽहेतुः। यदुक्तं भवता कारित्रभेदादिति। चित्ते वितर्क उदभूदिति च। तदनेन प्रत्युक्तम्। कस्मात्। मम चित्तविशेषत्वादेव कारित्रं भिद्यते। चित्त उत्पन्नं चित्तमेव चित्ते वितर्क उदभूदित्युच्यते। यदवादीः संक्लेशो व्यवदानञ्च निर्हेतुकं स्यादिति। तदप्ययुक्तम्। असत्यपि चैतसिकेऽस्ति संक्लेशव्यवदानम्। अनन्यलक्षणत्वाच्च न सन्ति चैतसिकाः। कस्मात्। भवतश्चित्तसम्प्रयुक्तत्वात् चैतसिका भवन्ति। सम्प्रयोगश्च नास्तीति पश्चाद्वक्ष्यते। अतो न सन्ति चित्तादन्ये चैतसिकाः।

न चैतसिकसत्तावर्गस्त्रिषष्ठितमः।

६४ चैतसिकनास्तिताप्रदर्शनवर्गः

यदवोचः-लक्षणभेदात् सन्ति चैतसिका इति। तदयुक्तम्। कस्मात्। विज्ञानस्य बुद्धेर्वा [अन्येषां] सर्वेषां लक्षणादिषु नास्ति विशेषः। यच्चित्तं रूपं विजानाति सैव बुद्धिरित्युच्यते, संज्ञा इत्याद्यपि। यथा लौकिका वदन्ति यद्भवान् विजानातीमं पुरुषमिति तत् ज्ञानमेव वेदना संज्ञा इति ज्ञेयम्। यद्येषां धर्माणां प्रतिनियतं वैलक्षण्यमस्ति। [तद्] अभिधातव्यं स्यात्। वस्तुतस्तु नभिहितमित्यतो नास्ति वैलक्षण्यम्। यदुक्तं प्रज्ञा विमुच्यत इति। तदप्ययुक्तम्। हेत्वभावात्। चित्तवशात् संक्लेशोऽविद्या चास्ति। अस्मिन् चित्तस्कन्धे संक्लेशोऽविद्या च सर्वथा संप्रयुक्ता। यदुत अविद्यामलिना प्रज्ञा संक्लेशमलिनं चित्तमिति। तन्निर्हेतुकम्। एवमविद्याविसंयोगात्प्रज्ञा विमुच्यते। संक्लेशविसंयोगाच्चित्तं विमुच्यते इत्यपि निर्हेतुकम्। अपि चेदं सूत्रं नेयार्थकम्। यथोक्तं सूत्रे-त्रिविधास्त्रवेभ्यश्चित्तं विमुच्यत इति। अतो ज्ञायते अविद्यातोऽपि चित्तमेव विमुच्यत इति। यदुच्यते संक्लेशेभ्यश्चित्तविमुक्तिर्विहानम्। अविद्यातः प्रज्ञाविमुक्तिः प्रहाणमिति। यदि च संक्लेशेभ्यश्चित्तं विमुच्यते अविद्यातः प्रज्ञा विमुच्यत इति। व्यापादिभ्यः किं विमुच्यत इति प्रतिवक्तव्यम्। अतश्चित्तं विना न किञ्चिद्विमुच्यत इति ज्ञातव्यम्। अतश्चित्तमात्रमस्ति।

यदाह भवान् चित्तस्य प्राधान्याच्चित्तमात्रमुक्तमिति। चित्तस्य कः प्रधानभावो यन्नास्ति प्रज्ञादीनाम्। यदुक्तं लौकिका भूयसा चित्तमेव विजानन्ति। अतश्चित्तमात्रमुक्तमिति। लौकिका भूयसा सुखं दुःखमपि विजानन्तीति वेदनादयो [पि] वक्तव्याः। यदवादीः-अन्यार्थवचनं सूत्रमिति। कस्माच्चैतसिकाननुक्त्‌वा चित्तमात्रं वक्ति। यदवादीः-एकधर्मं प्रजहीथ [इत्यादि]। वचनस्यास्य कारणमस्ति। भगवान् सत्त्वानां क्लेशतारतम्यवशात्सदा विषादाक्रान्तचित्तः सन् वदति अयमेको धर्म इति। अस्य प्रहाणादन्येऽपि स्वयं प्रहीयन्ते। इति। अतोऽहेतुः। यदवोचः-यदुक्तं नामलक्षणं तदेव चैतसिकमिति। तत् भवतः स्वसंज्ञानुस्मरणविकल्प[मात्रम्]। नेममर्थं सूत्रं प्रतिपादयति। यदि स्वसंज्ञानुस्मरणविकल्पं करोषि। किं नात्थ नामलक्षणेन चित्तस्यालम्बनमुक्तमिति। [यस्य तु] न्यायः सम्भवति। यदुक्तं स्पर्शो वेदनादिचैतसिकानां हेतूक्रियत इति। वचनमिदं बहुधा दुष्टम्। धर्माणां ससम्प्रयोगत्वेऽपि स्पर्श एव वेदनादीनां हेतुः न वेदनादयः स्पर्शस्य। इतीदृशा दोषाः सन्ति। अतो ज्ञायते चित्तमात्रमस्ति। न पृथक् चैतसिका इति॥

चैतसिकनास्तितावर्गश्चतुष्षष्टितमः।

६५ सम्प्रयोगनास्तितावर्गः

नास्ति सम्प्रयोगः। कस्मात्। चैतसिकधर्माणामभावात् केन चित्तं सम्प्रयुज्यते। वेदनादिलक्षणानां नैककाल्यं शक्यते। न च कार्यकारणयोर्यौगपद्यमस्ति। विज्ञानं संज्ञादीनां हेतुः। नैषां धर्माणामैककाल्यं यौगपद्यं वास्ति। अतो नास्ति सम्प्रयोगः गम्भीरे प्रतीत्यसमुत्पाद[सूत्रे]भगवानाह-अस्योत्पादादिदमुत्पद्यत इति। यथा च बीजाङ्‍कुरकाण्डनालपत्रपुष्पादीनि हेतुफलाभ्यां क्रमिकानि दृष्टानि। अतो भवविज्ञादीन्यपि क्रमिकाण्युत्पद्येरन्। यद्भवान् मन्यते कामादयः क्लेशा रूपस्य सह[भू]हेतवः सहजाः स्युरिति। तदयुक्तम्। न हि रूपं प्रत्येति। अनालम्बनत्वात्। चित्तचैतसिकानामालम्बनमस्ति प्रतीतिश्चास्ति। अतस्ते नैकस्मिन् काले स्युः सहभुवः। बहुप्रतीत्यभावात्। एककायश्चैकसत्त्व इत्याख्यायते। एकप्रतीतेः। यद्येकस्मिन् क्षणे बहवश्चैतसिकाः स्युः। तदा बह्‍व्यः प्रतीतयः स्युः। बहुप्रतीतिसत्त्वात् बहुपुरुषात्मकः स्यात्। स तु न सम्भवति। अतो नैकस्मिन् क्षणे वेदनादयो भवन्ति।

कस्मात्पुनः षड्‍विज्ञानानि नैककालमुत्पद्यन्ते। (पृ) विज्ञानानि क्रमिकमालम्बनमपेक्ष्य भवन्ति। अतो नैककालिकानि। (उ) कस्य प्रतिबन्धादेकं क्रमिकमालम्बनं न क्रमशः षड्विज्ञानान्युत्पादयति। ज्ञातव्यं पूर्वं हेतुः पश्चात्कार्यमिति क्रमश उत्पादहेतुरिति। सूत्रे चोक्तम्-चक्षुषा रूपं दृष्ट्वा न निमित्तग्राही भवतीति। यन्निमित्तोद्ग्रहणं तदेव संज्ञाकर्म। अतो भगवान् विज्ञानकर्मानूद्य संज्ञाकर्म प्रतिषेधति। अतो ज्ञातव्यं कस्यचिद्विज्ञानमस्ति न संज्ञेति। यो निमित्तं गृह्णाति स दृष्ट्वा गृह्णाति न दर्शनकाले। अतो ज्ञायते विज्ञानादीनि क्रमिकानीति। किञ्चोक्तं सूत्रे- चक्षुषा रूपं दृष्ट्वानुप्रहृष्टचेतनो भवति इति। अत्रापि पूर्वं विज्ञानकर्मोक्तं पश्चाद्वेदनादीनि। किञ्चोक्तं सूत्रे-दृष्टिर्दर्शनमिति। अतो ज्ञायते न सर्वं चित्तं वेदनादिसमन्वितमिति। पञ्चविज्ञानानां लक्षणेन चेदं स्पष्टं भवति। कस्मात्। यश्चक्षुर्विज्ञेये प्रियाप्रियनिमित्तं साम्यनिमित्तञ्च न गृह्णाति। तस्य नास्ति संज्ञा नापि दौर्मनस्यं वा। विकल्पाभावात्। केचिदाहुः तस्यापि कामादयः क्लेशा न सन्तीति। अतो ज्ञायते नास्ति वितर्क इति। पर्येषकानन्तरभावी वितर्क इत्युच्यते। तच्च पश्चाद्वक्ष्यते। अतो ज्ञायते पञ्चविज्ञानामपि वितर्को नास्तीति। किञ्च भवतः पञ्च विज्ञानानि न विकल्पकानि। तत्र कथं वितर्कविचाराभ्यां भाव्यम्। चेतनाविकल्पः पूर्वर्भौदारिकः सन् पञ्चात्सूक्ष्मो भवतीत्यतो वितर्कविचारौस्तः। यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः। तद्यथा वदसि मयि तव ज्ञापनाय प्रथमत एवाभ्यूहाधीनो वितर्क उत्पद्यत इति। तदा वितर्ककालः। असत्यां विज्ञापनेच्छायां कथमस्ति वितर्कः।

केचिदाहुः-पञ्चविज्ञानेषु संज्ञास्ति वितर्क इति। स च वितर्कः संज्ञामुपादायोत्पद्यते। कथञ्च संज्ञाकाले वितर्को भवति। अतोऽभ्युपेयं पञ्च विज्ञानानि असंज्ञानि अवितर्कानि अविचाराणीति। कस्मात्। न हि पञ्चविज्ञानेषु स्त्री पुरुष इति विकल्पोऽस्ति। नापि वेदनादिविकल्पः। केन तत्र विकल्प्यते। पञ्चविज्ञानानां निर्विकल्पकत्वात् तदनन्तरं मनोविज्ञानमुत्पद्यत इति युष्माभिरुक्तम्। यदि पञ्चविज्ञानेषु विकल्पोऽस्ति। किमनन्तरोत्पद्यमानेन मनोविज्ञानेन। वितर्कविचारौ च नैकस्मिन् क्षणे स्याताम्। औदारकसूक्ष्मयोर्विरोधात्। घण्टाभिघातवत्। आद्यशब्दो वितर्क [कल्पः]। अन्त्यशब्दो विचार [कल्पः]। स दार्ष्टान्तिकोऽप्येवम्। यदि पञ्चविज्ञानेषु वितर्कविचारौ स्तः। तयोः कर्म वक्तव्यम्। न वक्तुं वस्तुतः सम्भवति। [अतो] ज्ञातव्यं चित्तचैतसिकाः क्रमिका इति। अविद्या प्रज्ञा च विरुद्धे न युगपत्स्याताम्। कथमेकस्मिन् क्षणे ज्ञानमज्ञानञ्च भवेत्। नह्येकस्मिन् चित्ते संशयस्य प्रसङ्गोऽस्ति। कस्मात्। स्थाणुर्वा पुरुषो वेति नैकस्मिन् चित्ते समुदाचरति। चित्तव्यापारस्येदृशसामर्थ्याभावात्।

कश्चिदाह-चैतसिके स्मरणमतीताध्वसञ्चरणम् इति। प्रत्युत्पन्नालम्बनं चित्तं कथं [तथा] भविष्यति। अयं पुरुषो मम ज्ञातो मामुपकृतवानिति यत् स्मरणम्, स्मृत्वा च प्रीतिजननम् तत कथमेकस्मिन् चित्ते स्यात्। इच्छानिच्छा च कथमेकस्मिन् चित्ते भवेत्। यथोक्तं सूत्रे-यो भिक्षव आत्मधर्माभिरतः, तस्य धर्मो वर्धते। योऽनभिरतः तस्य धर्मो हीयत इति। तत् कथमेकस्मिन् चित्ते भविष्यति। यद्येकस्मिन् चित्ते चैतसिकोऽस्ति। तदा धर्मो व्यामोहः स्यात्। कस्मात्। एकस्मिन्नेव हि चित्तेऽस्ति ज्ञानमज्ञानं संशयो निश्चयः श्रद्धाऽश्रद्धा वीर्यं कौसीद्यमित्येवमाद्या दोषाः। सर्वे च चैतसिका एकस्मिन चित्ते परिनिष्ठिताः स्युः। कस्य प्रतिबन्धात् सुखं दुखं रागो द्वेष इत्यादयो न भवन्त्येकस्मिन् चित्ते। यद्याह भवान् सुखदुःखादयो विरोधान्नैकस्मिन् चित्ते वर्तन्त इति। ज्ञानाज्ञानादयोऽपि मिथो विरोधान्नैकस्मिन् चित्ते वर्तेरन्। अतो नास्ति सम्प्रयोगः।

सप्तसम्बोध्यङ्गसूत्रे च भगवता चैतसिकधर्माणां क्रमिकत्वमुक्तम्। “यो भिक्षुश्चतुर्षु स्मृत्युपस्थानेषु चरति च स्मृतिसम्बोध्यङ्गं भावयति। स्मृतौ चित्तं धर्मान् प्रविचिनोति। धर्माणां प्रविचयाद्विर्यमारभते। वीर्यबलात्कुशलधर्मान् सञ्चिनोति। चित्तस्य विमला प्रीतिर्भवति। प्रीत्या चित्तं प्रश्रभ्यति। प्रश्रब्ध्या चित्तं परिगृह्णाति। चित्तपरिग्रहात्समादधाति। समाहितत्वात् रागदौर्मनस्याभ्यामुपेक्षते। उपेक्षायां प्रजानाति” इति चैतसिकाः क्रमिका भवन्ति। अष्टाङ्गिकमार्गसूत्रेऽपि क्रम उक्तः। यः सम्यक् दृष्टिं लभते। स सम्यक् दृष्ट्या सम्यक् सङ्कल्पमुत्पादयति। यावत्सम्यक् समाधिम्। अनुक्रमसूत्रे च भगवानाहानन्दम्। शीलधरः पुरुषो न कौकृत्यभावाय चित्तं प्रणिदधाति। शीलधरस्य पुरुषस्य चित्तधर्मः कौकृत्यविरतिः। कौकृत्यविहीनो न तुष्टिलाभाय चित्तं प्रणिदधीत। कौकृत्यविहीनस्य चित्तस्य धर्मस्तुष्टिः स्यात्। तुष्टस्य चित्तं प्रीणाति। प्रीतमनसः कायः प्रश्रभ्यति। कायप्रश्रब्धौ सुखं वेदयते। सुखवेदनायां चित्तं समादधाति। चित्तसमाधाने तत्त्वं प्रजानाति। तत्त्वविन्निर्विद्यते। निर्विण्णो विमुच्यते। इति। अतो ज्ञायते चैतसिकाः क्रमिका इति। अष्टमहापुरुषवितर्केऽपि क्रम उक्तः। यो भिक्षुरल्पेच्छो विहरति स सन्तुष्टो भवति। सन्तुष्टः प्रविविक्तो भवति। प्रविविक्तो वीर्यमारभते। वीर्यमारभमाणः सम्यक्‌स्मृतो भवति। सम्यक्‌स्मृतः समाहितो भवति। समाहितः प्रज्ञावान् निष्प्रपञ्चो भवति। इति। सप्तविशुद्धावपि क्रम उक्तः। शीलविशुद्धिर्यावदेव चित्तविशुद्ध्यर्था। चित्तविशुद्धिर्यावदेव दृष्टिविशुद्ध्यर्था। दृष्टिविशुद्धिर्यावदेव कांक्षावितरणविशुद्ध्यर्था। कांक्षावितरणविशुद्धिर्यावदेव मार्गामार्गज्ञानदर्शनविशुद्ध्यर्था। मार्गामार्गज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाज्ञानदर्शनविशुद्धयर्था। प्रतिपदाज्ञानदर्शनविशुद्धिर्यावदेव प्रतिपदाप्रहाणज्ञानदर्शनविशुद्धयर्था इति। निदानसूत्रेऽपि क्रम उक्तः। चक्षुः प्रतीत्य रूपञ्च मोहभागीयाविला स्मृतिर्भवति। तत्र मोहोऽविद्यैव। मूढस्य या प्रार्थना सा तृष्णा। तृष्णार्तस्य यदभिसंस्करणं तत्कर्म। इत्येवमादि। महानिदानसूत्रेऽपि क्रम उच्यते। तृष्णाशिरस्का नव धर्मा [उक्ताः]। तृष्णां प्रतीत्य पर्येषणा। पर्येषणां प्रतीत्य लाभः। लाभं प्रतीत्य विनिश्चयः। विनिश्चयं प्रतीत्य छन्दरागः। छन्दरागं प्रतीत्य अध्यवसानम्। अध्यवसानं प्रतीत्य परिग्रहः। परिग्रहं प्रतीत्य मात्सर्यम्। मात्सर्यं प्रतीत्य आरक्षा। आरक्षां प्रतीत्य दण्डादानशस्रादानकलहविग्रहविवादाः सर्वे दुःखोपायासादयः सम्भवन्ति। इति। स्त्रोत आपन्नधर्मेऽपि क्रम उक्तः। सत्पुरुषं सेवमानः सद्धर्मं शृणोति। सद्धर्मं शृण्वन् सम्यक्‌स्मृतिमुत्पादयति। सम्यक्‌स्मृतिप्रत्ययां मार्गप्रतिपत्तिमभ्यस्यति। इति। उक्तञ्च सूत्रे-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। त्रयाणां सन्निपातः स्पर्श इति। चित्तचैत्ता एककालिका इति वदतस्त्रयाणां सन्निपातो नास्ति। एकैकश उत्पद्यन्त इति वदतस्तु अस्ति त्रयाणां सन्निपातः। इत्यादिकारणै र्नास्ति सम्प्रयोगः।

सम्प्रयोगनास्तितावर्गः पञ्चषष्टितमः।

६६ सम्प्रयोगास्तितावर्गः

(पृ) अस्ति सम्प्रयोगः। कस्मात् यः पश्यति स वेदयत अयमात्मेति। विज्ञानचित्तं तमाश्रयते। तेन सम्प्रयुक्तत्वात्। तथा संज्ञास्कन्धादयोऽपि। यदि नास्ति सम्प्रयोगः किमधीनोऽयं स्यात्। पुरुषसूत्र उक्तम्-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते। त्रयाणां सन्निपातः स्पर्शः। तत्सहजा वेदनासंज्ञासंस्कारादय इति। अस्मिन् मते विविधं नामास्ति यदुत सत्त्वो देवो मनुष्यः स्त्री पुरुषो महानल्प इति। एवमादीनि नामानि सर्वाणि स्कन्धान् प्रतीत्य भवन्ति। यदि चित्तचैतसिकाः क्रमिकाः तदा स्कन्धद्वयं प्रतीत्य पुरुषो भवेत् न स्कन्धपञ्चकम्। कस्मात्। नातीतानागतस्कन्धान् प्रति पुरुषः सम्भवति। भवानाह-प्रत्युत्पन्ने न सन्ति पञ्चस्कन्धाः इति। कथमुच्येत पञ्चस्कन्धान् प्रतीत्य देवमनुष्यादयो भवन्तीति। उच्यते तु सर्वस्कन्धान् प्रतीत्य न स्कन्धद्वयमात्रम्। अतः पञ्चस्कन्धान् प्रतीत्य सत्त्व इत्याख्या।

अस्ति च सूत्रे सम्प्रयोगो यदुतेन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति। अपि चोक्तं सूत्रे-स्पर्शो वेदनासंज्ञावितर्कैः सहज इति। अपि चोक्तं-पञ्चाङ्गिकं प्रथमध्यानमिति। आह च-वेदनादयो विज्ञानस्थितय इति। यदि विज्ञानसम्प्रयुक्तम्। कथं विज्ञानस्थितिषु वेदनादिषु स्थितमिदं निश्रयते तिष्ठतीति। कस्मात्। नह्युच्यते विज्ञानमेव विज्ञानस्थितिरिति। किञ्चोक्तं सूत्रे-चैतसिकधर्माश्चित्तजाश्चित्तनिश्रिता इति। आह च-सत्त्वानां चित्तं दीर्घरात्रं रागद्वेषादिसंक्लिष्टमिति। यदि सम्प्रयोगो नास्ति। किं संक्लेशयति चित्तम्। चैतसिकाश्च प्रकृतितो दन्धा अन्योन्याश्रयमवलम्बन्ते नडकलापवत्। अपि चोक्तं सूत्रे-यस्मिन् समये चित्तमुद्धतं भवति। अकालस्त्रयाणां बोध्यङ्गानाम् यदुत धर्मप्रविचयबोध्यङ्गस्य वीर्यबोध्यङ्गस्य प्रीतिबोध्यङ्गस्य। [तत्कस्य हेतोः।] उद्धतं चित्तं दुरुपशमं भवति। [यस्मिन् समये चित्तमुद्धतं भवति] कालस्त्रयाणां बोध्यङ्गानां भावनायै यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य। [तत्कस्य हेतोः उद्धतं चित्तमेभिर्धर्मैः] सूपशमं भवति। यस्मिन् समये चित्तं लीनं भवति। अकाल[स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत प्रश्रब्धिसम्बोध्यङ्गस्य समाधिसम्बोध्यङ्गस्य उपेक्षासम्बोध्यङ्गस्य। [तत्कस्य हेतोः। लीनं चित्तं तदेभिर्धर्मै] र्दुस्समुत्थाप्यं भवति। [यस्मिन् समये चित्तं लीनं भवति।] काल [स्तस्मिन् समये] त्रयाणां सम्बोध्यङ्गानां यदुत धर्मप्रविचयसम्बोध्यङ्गस्य वीर्यसंम्बोध्यङ्गस्य प्रीतिसम्बोध्यङ्गस्य। [तत्कस्य हेतोः। लीनं चित्तं तदेभिर्धर्मैः] सुसमुद्धाप्यं भवति। इति। आभिधर्मिका आहुः-एककालं भावनानुयोगमनुयुक्तस्य बोधि[पक्षिका] धर्मा न वियुज्यन्त इति। अतो ज्ञायतेऽस्ति सम्प्रयोग इति॥

सम्प्रयोगास्तितावर्गः षट्‍षष्ठितमः।

६७ नास्तिसम्प्रयोगवर्गः

यदुक्तं भवता-यः पश्यति स वेदयते स आत्मेति। तदयुक्तम्। पृथग्जना मूढा मृषादृष्टिमिमामुत्पादयन्ति। न विभजन्ति वेदनेयमिदं विज्ञानं निश्रयत इति। यदि ते विभजन्ति प्रवेशयेयुरपि शून्यताम्। ते चित्तसन्ततिं दृष्ट्वा अविभजन्तो व्यवहारमात्रासङ्गा त्तथा वदन्ति। मूढानां व्यवहारो न श्रद्धेयः। यदवोचः-सर्वान् स्कन्धान् प्रतीत्य पुरुषो भवतीति। तत्र पञ्चस्कन्धानां सन्ततिं प्रतीत्य पुरुष इत्यतः सर्वेषां स्कन्धानां वचनम्। यथा लोके वदन्ति-सुखी दुःखी अदुःखासुखीति। नैकस्मिन् काले सम्भवन्ति तिस्रो वेदनाः। तथा स्कन्धा अपि। यब्द्रवीषि-इन्द्रियज्ञानसम्प्रयुक्ता श्रद्धा इति। सूत्रे चोक्तम्-अन्यैः सम्प्रयुक्तमिति। यथोच्यते-द्वौ भिक्षावेकत्र सम्प्रयुक्तौ। इति। आहुश्च द्वेषसम्प्रयुक्तं दुःखम्। स्नेहवियुक्तं दुःखमिति। भवतां [मते] रूपं विप्रयुक्तमपि संवृत्त्या सम्प्रयुक्तमित्युच्यते। ज्ञानश्रद्धे अप्येवम्। श्रद्धा या अनित्यतादि श्रद्दधते। ज्ञानञ्च यथाप्रतीति ज्ञानम्। उभयमेकं साधयतीति सम्प्रयुक्तमित्युच्यते। यद्भवानाह-स्पर्शाद्वेदनादयः सहजा इति। तदयुक्तम्। लोके हि किञ्चिद्वस्तु अल्पविरुद्धमपि सहचरमित्युच्यते। यथा वदन्ति शिष्येण सह चरतीति। यथा च वदन्ति राजा मान्थाता स्मृतिमात्रेण स्वर्गमारुरोहेति। तन्नैव युज्यते। पृथग्जनानां विज्ञानस्यालम्बनक्रियायां चत्वारो धर्माः क्रमिका भवन्ति-विज्ञानानन्तरजा संज्ञा, संज्ञानन्तरजा वेदना, वेदनानन्तरजा चेतना, चेतना[नन्तरजाः] सौमनस्यदौर्मनस्यादयः। तत उत्पद्यन्ते रागद्वेषमोहाः। अत उच्यते सहैवोत्पद्यन्त इति।

यदुक्तं भवता-पञ्चाङ्गिकं प्रथमं ध्यानमिति। अस्यां ध्यानभूमौ सन्ति तानि पञ्चाङ्गानि। नत्वैककालिकानि। यथा कामधातौ तिस्रो वेदनाः। कस्मात्। पूर्वोक्त धर्माणामेव पश्चाद्‍भूमिः कथ्यते। वितर्कविचारौ च न संप्रयुक्ताविति पूर्वमेव प्रत्युक्तम्। यदवोचः-विज्ञानस्थितय इति। तत्सूत्र उक्ता विज्ञानस्य प्रत्यय[रूपा] स्थितिः न निश्रयरूपा। केनेदं ज्ञायते। तस्मिन्नेव हि सूत्र उक्तम्-विज्ञानं रूपं प्रतीत्य स्नेहप्रमोदाभ्यां तिष्ठति। इति। यद्युप्युक्तं भवता- यदि विज्ञानं विज्ञानं प्रतीत्य तिष्ठति। तदा पञ्च विज्ञानानि स्थितयः स्युरिति। तदयुक्तम्। कस्मात्। विज्ञप्तिकाले किञ्चिद्विजानाति। विज्ञातस्य चित्ते वेदनादय उत्पद्यन्ते। तत्र तृष्णोद्भवति उद्‍भूततृष्णाप्रत्ययं विज्ञानं विज्ञानस्थिति रित्युच्यते। अतो नोच्यते विज्ञानमेव विज्ञानस्थितिरिति। सप्तविज्ञानस्थितिसूत्रमिदं चिन्त्यम्। मास्तु यथारुतग्रहणमिति। श्रद्धयोघं तरति इति यथा वदन्ति। तदपरिनिवष्ठितं चनम्। वस्तुतस्तु प्रज्ञयोघं तरति। इदमपि तथा स्यात्।

यदुक्तं भवता-चैत्ताश्चित्तानिश्रिता इति। तदयुक्त्म। पूर्वं हि चित्तं विजानाति। अथ संज्ञादयो भवन्ति। उक्तं हि सूत्रे-वेदनादयश्चित्तनिश्रिता इति। न कुड्या श्रितचित्रवदिमे चैतसिकाश्चित्तनिश्रिता इत्युच्यन्ते। यदवोचः-चैतसिका अन्योन्यनिश्रिता नडकलापवदिति। तदन्यसूत्रविरुद्धम्॥ यदि समं प्रयोगः, कस्मात् चैतसिकाश्चित्तनिश्रिताः। न तु चित्तं चैतसिकनिश्रितम्। यदि ब्रवीषि चित्तं पूर्वमुत्पद्यते तन्महिम्ना चैतसिकानामाश्रय इति। तदा सिध्येदस्मदर्थः। नहि चित्त उत्पद्यमाने चैतसिकधर्माः सन्ति। यद्ब्रवीषि चित्तं क्लेशसंक्लिष्टमित्यतो ज्ञायतेऽस्मि सम्प्रयोग इति। नेयं मार्गनीतिः। यदि चित्तं प्राक् परिशुद्धं रागादिभिरागन्तुकैर्दूषितम्। तदा स एव परिशुद्धधर्मा दूष्यो भवतीति धर्मलक्षणं बाध्येत।

यथा च पूर्वमुक्तम्-चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपक्लिष्टमिति। तदिदं प्रतिवक्तव्यम्। यदि चित्तं प्रकृतिपरिशुद्धम्। रागादिभिः किं क्रियते। यथोक्तम्-चित्त-संक्लेशात् सत्त्वाः सक्लिश्यन्ति। चित्तव्यवदानात्सत्त्वा विशुध्यन्ति इति। तथा च सत्त्वा अपि सम्प्रयुक्ताः स्युः। यदि सत्त्वा अपि सम्प्रयुक्ताः स्युः। यदि सत्त्वा असम्प्रयोज्याः। रागादयोऽपि असम्प्रयोज्याः स्युः। सन्तत्या धावति चित्ते संक्लिष्टादिचित्तमुत्पद्यते। सन्तानानां दूषणमेव संक्लिष्टचित्तमित्युच्यते। यदुच्यते संक्लेशाच्चित्तं विमुच्यत इति। तत् चित्तसन्ततौ यद्विशुद्धचित्तमुत्पद्यते। तद्विमुक्तमित्युच्यते। इदमेव युक्तम्। यथाभ्रतुषारादयश्चन्द्रसूर्याभ्यामसम्प्रयुक्ता अपि पिधानं कुर्वन्तीति [प्रवादः]। तथा रागादयोऽपि चित्तेनासम्प्रयुक्ता अपि संक्लेशयन्तीति [वदन्ति]। धूमाभ्रमिहिकादयश्चन्द्रसूर्यौ पिदधतीति पिधानं कथ्यते। तथा रागादयोऽपि विशुद्धचित्तमावृण्वन्तीति आवरणं भवति।

(पृ) अभ्रतुषारौ चन्द्रसूर्यौ चैककालिकौ। संक्लेशचित्ते तु नैवम्। अतो नायं दृष्टान्तः। (उ) आवरणसाम्यादयं सिद्ध इत्यतोऽनवद्यम्। संक्लेशोऽयं चित्तसन्तानं संक्लेशयतीति संक्लेश इत्युच्यते। चैतसिकाश्चित्तजाश्चित्तनिश्रिता इति यत् भवतो वचनं तत्पूर्वमेव प्रत्युक्तम्। यदवोचः-चित्तचैतसिकाः प्रकृतिदन्धा इति। तत्प्रतिक्षणविनाशित्वात् दन्ध इत्युच्यते। न तु साहाय्याय मिथ आलम्बने समुदाचरन्तीति। ये परस्परसहकारिणः ते कञ्चित्कालं तिष्ठेयुः। न तु वस्तुतो दृश्यते परस्परसहकारिताबलम्। [अतः]किं सम्प्रयोगेण।

भवतो यब्दोध्यङ्गकालवचनम्। तत् त्रीणि बोध्यङ्गानि यथाकालं भावयेदित्युक्तम्। नत्वेकस्मिन्नेव क्षणे। यथाह शारिपुत्रः सप्तसम्बोध्यङ्गेषु अहं स्वतन्त्रविहारी। यस्मिन् चित्तमुद्धतं भवति। तस्मिन् समये प्रश्रब्ध्यादीनि त्रीणि बोध्यङ्गानि भावयामीति। भगवानपि सम्बोध्यङ्गानामनुक्रममबोचत्। यदाह भवान्-ऐककालिकी सम्बोध्यङ्गानां भावनेति। तदयुक्तम्। यद्यैककालिकी, सप्तत्रिंशब्दोधिपक्षिकाणां भावना। तदेककालं भावयेत् द्वे श्रद्धे पञ्चस्मृत्यादीन्। यन्मन्यसे यथाप्राप्तिस्थानं [किञ्चित्] भावयतीति। स एवा[न्यस्य] भावनावियोगः। द्वयो ध्यानादिवदन्यलब्धवशात्तु अवियोग उच्यते। यत् सप्तत्रिंशब्दोधिपक्षिकाणामेककालं भावनेति। न स मार्गनयः। कस्मात्। नह्येकदा बहवो धर्मा भावयितुं शक्यन्ते।

नास्ति सम्प्रयोगवर्गः सप्तषष्टितमः।

६८ चित्तबहुत्ववर्गः

(पृ) आज्ञातं न सन्ति पृथक् चैतसिकाः नास्ति च सम्प्रयोग इति। तच्चित्तमिदानीं किमेकम् उत बहु। केचिद्वदन्ति-एकमेव चित्तमुत्पत्तिवशाद्बहु इति। (उ) चित्तं बहु। कस्मात्। विज्ञानमेव चित्तमित्युच्यते। रूपविज्ञानमन्यत् गन्धादिविज्ञानञ्चान्यत्। अतो बहूनि चित्तानि। चक्षुर्विज्ञानमालोकाकाशादिप्रत्ययानपेक्ष्य अन्यदेवोत्पद्यते। न तथा श्रोत्रविज्ञानम्। त्रयाणां विज्ञानं विज्ञानविषयाणां प्राप्त्योत्पद्यते। मनोविज्ञानन्तु बहुप्रत्ययेभ्य उत्पद्यते। अतो ज्ञायते नैकमिति। यद्विज्ञानं नित्यमित्येवं लक्षणं विषयं विजानाति। तत् कथं विषयान्तरं विजानीयात्। यदि बहूनि चित्तान्युत्पद्यन्ते। तदा ज्ञातुं शक्नुवन्ति। यथा ज्ञानं सम्यक् मिथ्या चान्यत्। ज्ञानञ्च निश्चितं सन्दिग्धं, कुशलमकुशलमव्याकृतं वा सर्वमन्यदेव। कुशले च ध्यानसमाधिविमुक्तयः चत्वार्यप्रमाणानि ऋद्धयभिज्ञादयोऽन्ये [धर्माः]। अकुशले च रागद्वेषमोहादयोऽन्ये। अव्याकृते चातीतानागतादयोऽन्ये। किञ्चिद्विज्ञानं कायिकवाचिककर्मसमुत्थापकम्। किञ्चिच्चेर्यापथसमुत्थापकम्। संयोगतो वियोगतो वा हेतुसमनन्तरालम्बनाधिपतीनां प्रत्येकं विशेषाच्चित्तानि भिद्यन्ते। विशुद्धाविशुद्धादिवेदनानां विशेषाच्च चित्तं भिद्यते। कारित्रविशेषाच्च चित्तं भिद्यते। विशुद्धमविशुद्धञ्च चित्तं प्रकृतितः प्रत्येकं भिद्यते। यच्चित्तं प्रकृतितः परिशुद्धं न तत्संक्लिष्टम्। यथा सूर्यरश्मिः प्रकृतितो विशुद्धा न कदाचिद्दूष्या भवति। यत् प्रकृतितोऽविशुद्धं न तत् विशोधयितुं शक्यते। यथा रोम प्रकृतितः कृष्णं नावदातं कर्तुमर्हति। दानादौ वस्तुतो विशुद्धं चित्तमस्ति। हिंसादौ चाविशुद्धं चित्तम्। अतो नैकं भवेत्। सुखदुःखादिवेदनानां विभागवशाच्च चित्तमपि नैकम्। यथोच्यते भिक्षुर्विज्ञानमुपभुङ्क्ते केषां विज्ञानं यदुत सुखदुःखादुःखासुखानां विज्ञानम्। यदि चित्तमेकम्, एकमेव विज्ञानं सर्वविषयान् गृह्णीयात्। बहुचित्तवादिनस्तु यथेन्द्रियं विज्ञानमुत्पद्यते। अतो न सर्वविषयान् गृह्णीयात्। यदि चित्तमेकम्। कस्य प्रतिबन्धान्न सर्वविषयान् गृह्णाति। अतो ज्ञायते चित्तं बहु इति।

ग्राह्यभेदाद्ग्राहकमपि भिद्यते। यथा कश्चित्कदाचित्स्वचित्तं वेदयते। कथं स्वं रूपमात्मानं वेदयते। यथा चक्षुर्नात्मानं पश्यति। असिर्नात्मानं छिनत्ति। अङ्‍गुलिर्नात्मानं स्पृशति। अतश्चित्तं नैकम्। यथा मर्कटोपसूत्र उक्तम्-यथा मर्कटः [अरण्य उपवने चरमाणः] शाखां गृह्णाति। ता मुक्त्‌वाऽन्यां गृह्णाति। एवमेव चित्तं [रात्र्या दिवसस्य च] अत्ययेन अन्यदेवोत्पद्यत अन्यन्निरुध्यते। इति। यदि चित्तमेकम्। षड्विज्ञानकाया इति वचनं प्रणष्टं स्यात्। सूत्रेऽप्युक्तम्-कायः कदाचिद्दशवर्षाण्यपि तिष्ठते। यत् चित्त-[मित्युच्यते तत् रात्र्याश्च दिवसस्य] अत्ययेन अन्यदेवोत्पद्यतेऽन्यन्निरुध्यत इति। आह च-चित्तमनित्यस्थायीति भवितव्यम्। तच्चित्तं सन्तत्या वर्तते। न प्रतिक्षणं छिद्यते। यथा चैकं कर्म [कृतं] न पुनरादेयं भवति। एवं विज्ञानमपि नालम्बने सादरं वर्तते। तृणाग्निर्नेन्धने सङ्क्रामति। तथा चक्षुर्विज्ञानं न श्रोत्रं प्राप्नोति। अतो चित्तं बहु इति॥

चित्तबहुत्ववर्गः अष्टषष्टितमः।

६९ चित्तैकत्ववर्गः

कश्चिच्चोदयति-चित्तमेकम्। कस्मात्। यथोक्तं सूत्रे-चित्तमिदं दीर्घरात्रं कामादिभिरुपक्लिष्टमिति। यदि चित्तं नाना, न सदोपक्लिष्टं स्यात्। रत्नहारसूत्र उक्तम्-यश्चित्तं सदा श्रद्धया शीलेन त्यागेन श्रुतेन प्रज्ञया च भावयति स मृतो देवेषूत्पद्यते इति। ध्यानसूत्रे चोक्तम्-प्रथमध्यानलाभी चित्तस्य परिदमनाय प्रथमध्यानाद्वितीयध्यानमुपसम्पद्य विहरति। इति। चित्तवर्गे चोक्तम्-

मत्स्यो यथा स्थले क्षिप्त [ओकमोकत उद्धृतः]।
परिस्पन्दतीदं चित्तं मारधेयं प्रहापयेत्॥ इति।

अतो ज्ञायते चित्तमेकं चञ्चलमितस्ततो धावतीति। संयुक्तपिटके च भिक्षुराह-

मर्कटः पञ्चद्वारायां कुटिकायां पसक्किय।
द्वारेणानुपरीयाति घटयंश्च मुहुर्मुहुः।
तिष्ठ मर्कट मा [धावी] र्न हि ते तत् यथा पुरा।
निगृहीतोऽसि प्रज्ञया नेतो दूरं [गमिष्यसी]ति॥

अतो ज्ञायते-चित्तमेकं पञ्चेन्द्रियद्वारेषु कायकुटिकायां परिभ्रमति। सैव तत्प्रकृतिः। अत आह “मा [धावी]र्न हि ते तत् यथापुरा”। इति। आह च-

चित्तमेतत्सर्वकालं यथा दिनकरप्रभा।
प्रज्ञावान् दमयत्येव यथा हस्तिनमङ्‍कुशम्॥ इति।

अतो ज्ञायते चित्तमेकमेवालम्बनेष्वटतीति। किञ्चात्माभावाच्चित्तमेव कर्मकृत्स्यात्। एकमेव हि चित्तं कर्माण्यभिनिर्वृत्त्य पुनर्विपाकं वेदयते। चित्तं म्रियते चित्तमुत्पद्यते चित्तं बध्यते चित्तं मुच्यते। पूर्वानुभूतं चित्तं स्मरति। अतो ज्ञायते चित्तमेकमिति। चित्तमेकं सत् सञ्चिनोति [वासनाम्]। क्षणिकस्य चित्तस्य नास्ति सञ्चयबलम्। भगवतः शासने नास्त्यात्मा। चित्तमेकं सत् सत्त्वलक्षणं भवति। यस्य चित्तं बहु। न तस्य सत्त्बलक्षणं भवति। दक्षिणेन चक्षुषा दृष्ट्‍वा वामेन विजानाति। नह्यन्यत् पश्यति अन्यद्विजानाति। अतो ज्ञायते। चित्तमेकमात्मना पश्यति आत्मना विजानाति इति।

चित्तैकत्ववर्ग एकोनसप्ततितमः।

७० न चित्तबहुत्ववर्गः

यद्यप्युक्तं भवता-रूपादीनां विज्ञानमन्यदिति। न युक्तमिदम्। कस्मात्। यदेकं चित्तं तदेव रूपशब्दादिग्रहणरूपाणि नानाकर्माणि करोति। यथैकः पुरुषः पञ्चछिद्रके गृहे स्थितः तत्र तत्र गतान् विषयान् गृह्णाति। तदेव चित्तं चक्षुषि लग्नमालोकदिप्रत्ययमपेक्ष्य रूपं पश्यति। यथा स एव पुरुष अन्यत्र सहायमपेक्ष्य [अपरं] कार्यं करोति। तस्यैव चित्तस्य विज्ञेयं विभक्तं भवति। यथा स एव पूर्वं ज्ञानी सन् पश्चादज्ञानी भवति। एवं मिथ्याज्ञानं पुनः सम्यक् ज्ञानं भवति। यथा स एव पुरुषः पूर्वं विशुद्धः पश्चादविशुद्धो भवति। एवं यत् सन्दिग्धं ज्ञानं तदेव निश्चितं ज्ञानं भवति। यथा स एव पुरुषः पूर्वं संशयितः पुनर्निश्चितो भवति। यदकुशलं चित्तं तदेव पुनः कुशलमव्याकृतञ्च भवति। यथा स एव पुरुषः कदाचित्कुशलं स्मरति। कदाचिदकुशलं कदाचिदव्याकृतञ्च स्मरति। तदेव चित्तमतीतानागामीर्यापथप्रभेदञ्च करोति। यथा स एव पुरुषोऽतीतानागतादौ नानेर्यापथान् करोति। एवं विशुद्धं चित्तमेवाविशुद्धं भवति। अविशुद्धमेव विशुद्धं भवति। यथा स एव पुरुषः पूर्वं प्रसन्नः पश्चादप्रसन्नो भवति। तदेव चित्तं सुखसम्प्रयुक्तं पश्चाद्दुःखसम्प्रयुक्तं भवति। यथा स एव पुरुषः पूर्वमन्यं सुखयति पश्चात्पुनर्दुःखयति। अत उच्यते चित्तमेकं बहुकर्मणे प्रभवतीति।

यदवादीः-एकमेव विज्ञानं न षड्विवषयान् गृह्णातीति। नैकं चित्तमिति। तदयुक्तम्। मम तु इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यते। यत् विज्ञानं चक्षुषि लग्नं तत् रूपमात्रं गृह्णाति। नान्यविषयान्। अन्यदप्येवम्। यदवोचः-ग्राह्यभेदाद्ग्राहकभेद इति। तदयुक्तम्। चित्तधर्मता यदात्मानं विजानातीति। यथा प्रदीप आत्मानं प्रकाशयति अन्यानपि प्रकाशयति। यथा गणक आत्मानं गणयति अन्यानपि गणयति। एवमेकमेव चित्तमात्मानं विजानाति अन्यानपि विजानाति। भवतोक्तो मर्कटदृष्टान्तोऽयुक्तः। यथा मर्कटः शाखां गृह्णाति तां मुत्त्काऽपरां गृह्णाति। तथा चित्तमपि एकमालम्बनं गृह्णाति। तदुत्सृज्यापरं गृह्णाति। अतोऽन्यदुक्तमेव [यत्] स्वयमेव कर्माभिनिर्वर्तयति, स्वयमेव पुनर्विपाकं वेदयते इति संक्षिप्य प्रत्यवोचम्। कस्मात्। यदि चित्तमन्यत्, तदा अन्यत्करोति, अन्यद्वेदयते अन्यन्मृन्म्रियते अन्यज्जायत इत्यादयो दोषाः स्युः। अतो ज्ञायते चित्तमेकमिति॥

न चित्तबहुत्ववर्गः सप्ततितमः।

७१ न चित्तैकत्ववर्गः

अत्रोच्यते। यदब्रवीः-चित्तमेकं कामादिना चिरमुपक्लिष्टम् इति। तदयुक्तम्। सन्तन्यमानचित्तस्यैकं लक्षणं दृश्यते। यथा वदन्ति सन्ध्यावात् एव प्रभातवातः। अद्यतननद्येव पूर्वनदी। [अद्य] राजसभाप्रदीप एव ह्यस्तनप्रदीप इति। यथा दन्तः पुनर्जात इत्युच्यते। वस्तुतस्तु पूर्वदन्तो न पुर्नजातः। लक्षणसाम्येन जातः पुनर्जात इत्युच्यते। एवं चित्तमन्यदपि सन्तत्या चित्तमेकमित्युच्यते। यदवोचः- [पूर्वानुभूतं चित्तं] स्मरतीति। पुरुषः कदाचिदात्मनैव पूर्वचित्तं स्मरति। यत् पूर्वचित्तं तदिदानीमागतमिति किं स्मृतेन। तेनैव चित्तेन तदेव स्मर्यत इति कथं भविष्यति। नह्यस्ति स्वात्मवेदकं ज्ञानमेकम्। अतो नैकं चित्तम्।

यब्द्रवीषि-[चित्तं] सञ्चिनोतीति। यदि चित्तं नित्यमेकम्। कः सञ्चयेनोपकारः। यदि चित्तं बहु। तदा अधरमध्योत्तमक्रमसन्तत्योत्पद्यमानत्वादस्ति सञ्चयः। भवतोक्तं चित्तं सत्त्वलक्षणमिति। यदि चित्तमेकम्। तदेव नित्यं भवेत्। यन्नित्यम्। स एवात्मा स्यात्। कस्मात्। इदानीं कुर्वन् पश्चात्करिष्यन् नित्य एकोऽविकारीत्यत आत्मा भवति। चित्तविशेषलक्षणानभिज्ञस्य चित्तमेकं भवति। प्रवाहवच्चित्तं सन्तन्यमानमेकमिति वदन्ति। यथा तैमिरिकः केशकलापमेकं पश्यति। तद्विवेचकस्तु तद्भेदं विजानाति। यस्तु प्रज्ञावान् स चित्तभेदं विजानाति। कस्मात्। ब्रह्मादयो व्यामोहगता एवं मन्यन्ते कायोऽयमनित्यः चित्तं विज्ञानन्तु नित्यम् इति। यदि ब्रह्मादीनामेव व्यामोहः। कः पुनर्वादोऽन्येषां नित्येष्वासक्तानाम्। अतः कुशलचेतनाप्रत्ययसामग्रीसमुत्पन्नो धर्मो नित्यः स्यात्। तद्विपरीतस्तु क्षयी।

यदुक्तं भवता-दक्षिणेन दृष्ट्‍वा वामेन विजानीयादिति। तत् ज्ञानबलादन्यत्पश्यति अन्यद्विजानाति। यथायं पुरुषो ग्रन्थं रचयति। अन्यः पुरुषो विजानाति। अनागतमजातमसद्‍भूतञ्चार्यज्ञानबलेन विजानाति। अतीतं वस्तु असदपि स्मृत्वा विजानन्ति अनागतमसदपि [आर्य] ज्ञानबलाद्विजानन्ति। इदं पश्चात् सविस्तरं वक्ष्यते॥

न चित्तैकत्ववर्ग एकसप्ततितमः।

७२ चित्तबहुत्वप्रदर्शनवर्गः

यदवोचः-चित्तमेकं बहुकर्मणे प्रभवतीति। तदयुक्तम। कस्मात्। सम्यक् प्रत्यायकात्मकं हि चित्तम्, रूपप्रत्यायनं शब्दप्रत्यायनादन्यत्। कथं चित्तमेकं भवति। यथा घटं धत्ते हस्तकर्म। न तदेव कर्मान्यद्वस्तु धत्ते। तथा येन चित्तेन रूपं गृह्यते। न तेनैव शब्दः श्रूयते। चक्षुर्विज्ञानमिदञ्च चक्षुराश्रयीकृत्य रूपमालम्बनीकृत्य भवति। तदुभयमनित्यं क्षणिकम्। चक्षुर्विज्ञानं कथमक्षणिकम्। यथा विना वृक्षं न च्छायान्वास्ते। एवं चक्षूरूपयोः क्षणिकत्वात् तदाश्रित्योत्पन्नं विज्ञानमपि क्षणिकम्। क्षणिकधर्मस्य नास्ति गमनशक्तिः। मनोवर्गे च पूर्वं बहुधा प्रत्युक्तमेव। अतो न मनो गच्छतीति।

यदवादिः-विज्ञानं चक्षुषि लग्नं सत् आलोकमपेक्ष्य पश्यति। यथा स एव पुरुषः पश्यति शृणोति इत्यादि। तदयुक्तम्। कस्मात्। शास्त्रेऽस्मिन् धर्मणां वस्तुतत्त्वमन्विष्यते। पुरुषः प्रज्ञप्तिसन् न दृष्टान्तो भवितुमर्हति। पुरुषलक्षणञ्चान्वेष्टव्यम्। पञ्चस्कन्धाः पुरुषात्मका इति वदामः। संशयज्ञानादीनि निश्चयज्ञानादिभ्योऽन्यानि न संशयज्ञानादीन्येव निश्चयज्ञानादीनि इत्यपि वदामः। तथा सर्वं [वक्तव्यम्]।

यदवोचः-इन्द्रियप्रविभागाद्विज्ञानं प्रविभज्यत इति। तदयुक्तम्। इन्द्रियं विज्ञानजननस्य हेतुप्रत्ययः। यदि विज्ञानमेकम्। इन्द्रियं किं करोति। [यत्] प्रदीपं दृष्टान्तत्वेन कल्पयसि। नायं दृष्टान्तो युक्तः। यथा अप्रकाशितस्य प्रकाशनं करोति प्रदीपः। न प्रदीपस्वरूपं प्रकाशयति। अतो नात्मानं प्रकाशयति। प्रदीपेनान्धकारे विनष्टे [विषयेषु] चक्षुर्विज्ञानमुत्पद्यते। तदुत्पन्नं सत् प्रदीपमपि पश्यति। घटादि द्रव्यमपि [पश्यति] गणकस्तु आत्मरूपमपि जानाति पररूपमपि जानाति। तदुच्यते लक्षणज्ञानम्।

यदवोचः कर्मादि। तत् कर्मादिदूषणे प्रत्युक्तम्। अतो नास्ति स दोषः। यदि चित्तमेकं नित्यम्। तदास्ति कर्म नास्ति विपाकः। कस्मात्। साक्षाच्चित्तं तदाश्रित ञ्च कर्म भवति। यदि चित्तमेकम्। कः कर्मविपाकः। तथा बन्धमोक्षादिरपि यदवादीः- अन्यत् करोति अन्यद्वेदयत इति। तदप्ययुक्तम्। स्कन्धानां सन्तानो नैको नान्यः। अन्तद्वयपातापत्तेः। संवृतिसंज्ञया कर्मादीनां वचनं न तु परमार्थतः। अतः स्कन्धसन्ताने सोऽयम् इत्यादिसंज्ञाव्यवहार इत्यनवद्यम्। अतो ज्ञायते चित्तं बह्विति॥

चित्तबहुत्वप्रदर्शनवर्गो द्विसप्ततितमः।

७३ किञ्चित्कालस्थायिविज्ञानवर्गः

(पृ) चित्तं बह्विति निरूपितम्। इदानीं तानि चित्तानि किं क्षणिकानि। उत किञ्चित्कालस्थायीनि। केचिदाहुः-किञ्चित्कालस्थायीनीति। कस्मात्। रूपादीनां प्रत्यायनात्। यत् क्षणिकं न तत् प्रत्याययेत्। अतो नास्थायि भवति। यदि क्षणिकं [चित्तम्] तदा रूपादीनि न कदापि प्रतीयेरन्। कस्मात्। यथा विद्युत्प्रभा किञ्चित्स्थायिन्यपि न पुनः सुज्ञेया भवति। कः पुनर्वादः। क्षणिकं प्रत्याययतीति। वस्तुतस्तु प्रत्याययति। अतो ज्ञायते विज्ञानानि न क्षणिकानीति। चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञान [मुत्पद्यते] इत्यनयोरभेदे विज्ञानमप्यभिन्नम्। चित्तञ्च युगपदेव नीलादीनि रूपाणि गृह्णाति। अतो ज्ञायतेऽक्षणिकमिति।

यन्मन्यसे-सन्तानतोऽध्यवस्यतीति। तदपि न युक्तम्। यद्यैकैकं चित्तं नाध्यवस्यति। सन्तानोऽपि नाध्यवस्येत्। यथैकस्मिन्नन्धे रूपमपश्यति बहवोऽपि न पश्येयुः। यदि ब्रवीषि-यथैकस्तन्तुर्न हस्तिनं प्रतिरुन्धे। बहवस्तु सञ्चिताः प्रभवन्ति। तथैकं चित्तं नाध्यवस्यति। तत्सन्तानस्तु अध्यवस्यति। इति। इदमप्ययुक्तम्। एकैकस्मिन् तन्तौ प्रत्येकमस्ति किञ्चिद्वलम् इति तत्समवायः प्रभवति। चित्तस्यैकस्मिन् क्षणे नास्ति किञ्चित्प्रत्यायकबलम्। तस्मात्सन्तानोऽपि न प्रत्याययेत्। वस्तुतस्तु प्रत्याययति। अतो ज्ञायतेऽक्षणिकमिति। यदि चित्तं क्षणिकमिति। अतीतानागतादिकर्माणि निष्प्रयोजनानि स्युः। किञ्चित्कालस्थायि तु सप्रयोजनानि करोति। अतो ज्ञायतेऽक्षणिकमिति। अनित्यमपि किञ्चित्कालमवश्यं तिष्ठति॥

किञ्चित्कालस्थायिविज्ञानवर्गस्त्रिसप्ततितमः।

७४ अस्थायिविज्ञानवर्गः

अत्र प्रतिब्रूमः। यदुक्तं भवता-चित्तं प्रत्यायकमित्यतोऽक्षणिकमिति। तदयुक्तम्। चित्तगतनिमित्तानां बलात् [चित्तं] प्रत्याययति। न स्थायिबलात्। तथा नो चेत् शब्दकर्मणो न स्यात्प्रत्यायनम्। कस्मात्। प्रत्यक्षं पश्यामः खल्विदं क्षणिकमथ च प्रत्यायकमिति। अतो ज्ञायते न स्थायित्वात्प्रत्यायतीति। सम्यक् प्रत्ययात्मकं हि चित्तम्। यन्नीलं प्रत्याययति। न तदेव पीतं प्रत्याययति। तस्मान्नीलप्रत्यायकं किञ्चित्कालस्थाय्यपि न पीतं प्रत्याययति। नीलप्रत्यायनकालोऽन्यः। अनीलप्रत्यायनकालश्चान्यः। नैको धर्मो द्वयोः कालयोः स्यात्। धर्मः कालसमन्वितः। कालश्च धर्मसमन्वितः। ग्रहो द्विविधः अध्यवसायात्मकः अनध्यवसायत्मक इति। यदि विज्ञानमक्षणिकम्। सर्वं ग्राह्यं साकल्येनाध्यवस्येत्। मम तु बहुविज्ञानसन्तानवशादुत्पन्नो ग्रहोऽध्यवस्यति। अल्पसन्ताने तु नाध्यवस्यति। विज्ञानञ्च विषयं गृह्णाति मन्दं वा क्षिप्रं वा इति चित्तस्य नास्ति नियमः।

यदुक्तं भवता-आश्रयालम्बनयोर्नास्ति भेद इति। क्षणिकत्वात् रूपमाश्रयालम्बनमपि भिन्नमेवेत्यर्थः साधितः। यदवादीः-युगपद् गृह्णातीति। विज्ञानं सर्वकायावयवग्राहकमित्यतो युगपग्द्रह इत्युच्यते। अतो नास्त्येकं विज्ञानं सर्वग्राहकम्। कस्मात्। अपरिनिष्पन्नग्रहमेव चित्तमनुनिरुध्यते। [अतः] केन लभ्यते सर्वग्राहकं चित्तमस्तीति। यद्ब्रवीषि-कर्मक्रिया निष्प्रयोजनेति। तदयुक्तम्। यथा प्रदीपः क्षणिकोऽपि प्रकाशनोपयोगी। वायुगतकर्माणि क्षणविनाशीन्यपि पदार्थान् कम्पयन्ति। तथा विज्ञानमपि। यथा प्रदीपादयः क्षणिका अपि [पदार्थ-] ग्रहणसमर्था भवन्ति। तथा विज्ञानं क्षणिकमपि [विषय] ग्रहणसमर्थं भवति।

अथ चित्तमनोविज्ञानानि क्षणिकानि। कस्मात्। नीलादीरूपसङ्घातः पुरोवर्ती सन् विज्ञानमाशूत्पादयति। अतोऽस्थायीति ज्ञायते। पुरुषस्य कदाचिच्चित्तं भवति यदहमेककालं सर्वानलम्बनान् गृह्णामीति। अतो विज्ञानमस्थायि। यदि विज्ञानं किञ्चित्कालं तिष्ठति। तदा पुरुषस्य न तद्भान्तिचित्तमुत्पद्येत। कस्मात्। बीजसन्तानवत् किञ्चित्कालावस्थायित्वात्। न तत्र पुरुषस्य भ्रान्तिचित्तमुत्पद्यते। यदङ्‍कुरकाण्डादीन्यैकालिकानीति। अतो विज्ञानं क्षणिकमिति ज्ञायते। यो घटं पश्यति तश्यैव घटस्मृतिर्भवति। दर्शनानन्तरं स्मृतिर्भवतीत्यतः क्षणिकम्। यो वदति विज्ञानमक्षणिकमिति। तस्यैकमेव ज्ञानं सम्यङ् मिथ्या च सम्भवेत्। अयं पुरुष इति ग्रह एव अयं न पुरुष इति ग्रह इति यथा दर्शनं भवति। एवं संशयग्रह एव निश्चयग्रहः स्यात्। तत्तु न सम्भवति। अतो ज्ञायते क्षणिकमिति। विकल्पाद्यनेकप्रत्ययग्रहणात् क्षणिकमिति ज्ञायते। शब्दकर्मसन्तानश्च क्षणिकः सन् तत्र ज्ञानमुत्पादयति। अतो ज्ञायते चित्तं क्षणिकमिति॥

अस्थायिविज्ञानवर्गश्चतुःसप्ततितमः।

७५ विज्ञानयौगपद्यवर्गः

कश्चिच्चोदयति। चित्तं क्षणिकमिति प्रतिपादितम्। इदानीं विज्ञानानि किमैककालिकानि। उत क्रमिकाणि। केचिदाभिधर्मिका वदन्ति-विज्ञानान्यैककालिकानीति। कस्मात्। कश्चित् सर्वान् विषयानेककालं गृह्णाति। यथैको घटं पश्यन् सङ्गीतध्वनिमपि शृणोति। घ्राणेन कुसुमगन्धं जिघ्रति। मुखेन सगन्धरसं कवलयति। व्यजनवायुः कायं स्पृशति। चेतना च समीकरोत्यपशब्दम्। अतो ज्ञायते सर्वान् विषयानेककालं गृह्णातीति।

यद्येकमेव विज्ञानं काये सर्वसुखदुःखे विजानाति। तदा चाक्षुषविज्ञानेनैकेन सर्वान् वृक्षान् गृह्णीयात्। तत्तु न सम्भवति। कथ[मेकेन] विज्ञानेन मूलशाखापत्रपुष्पाणि सर्वाणि ज्ञायन्ते। अतो ज्ञायते बहूनि विज्ञानानि युगपदेककालमुत्पन्नानि सर्वान् स्प्रष्टव्यान् गृह्णन्ति इति। नानारूपाणां ज्ञानमेककालमुत्पद्यते। न तु [यत्] नीलज्ञानम्। तदेव पीतज्ञानम्। अतो ज्ञायते एककालं युगपदुत्पद्यन्ते। वहूनि विज्ञानानीति कायावयवेषु च शीघ्रतरं ज्ञानमुत्पद्यते। एकावयवग्रहणकाल एव सर्वान् गृह्णाति। भगवतः शासने च नास्त्यवयवी। न हि सम्भवत्येकमेव विज्ञानं सर्वानवयवान् गृह्णातीति। अतो एककालमुत्पन्नानि बहूनि विज्ञानानि सर्वानवयवान् गृह्णन्तीति॥

विज्ञानयौगपद्यवर्गः पञ्चसप्ततितमः।

७६ विज्ञानायौगपद्यवर्गः

अत्रोच्यते। यदुच्यते भवता-बहूनि विज्ञानानि युगपदेककालमुत्पद्यन्त इति। तदयुक्तम्। कस्मात्। विज्ञानं मनस्कारमपेक्ष्योत्पद्यते। यथोक्तं सूत्रे-चक्षुरनुपहतं भवति। रूपमाभासगतं भवति। विज्ञानोत्पादको मनस्कारश्च यदि न भवति। तदा न चक्षुर्विज्ञानमुत्पद्यत इति। अतो ज्ञायते विज्ञानानि मनस्कारमपेक्ष्य भवन्ति नैककालिकानीति। सर्वे चोत्पत्तिधर्माणः कर्मकारणाधीनाः। चित्तस्यैकैकश उत्पत्तेः। न हि पृथिवीनरकादिविपाक एककालं वेद्यते। यदि बहूनि चित्तानि युगदुत्पद्यन्ते। तदा युगपद्वेदना स्यात्। न वस्तुतः सम्भवति। अतो ज्ञायते विज्ञानानि नैककालिकानीति। विज्ञानञ्च शीघ्रतरमालम्बनं गृह्णाति। यथालातचक्रस्य प्रवृत्तिशैघ्र्यान्नदृश्यते तद्विच्छेदः। तथा विज्ञानान्यपि काललवस्थायित्वान्न विभज्यन्ते। यद्यैककालिकानि विज्ञानानि। सर्वेषामुत्पत्तिधर्माणामेककालमेकलक्षणं युगपदुत्पत्तिः सम्भवेत्। कः प्रतिबन्धोऽस्ति। तथा च सर्वधर्माणामुत्पत्तये नावश्यं यत्नं कुर्यात्। कर्माकुर्वन्नपि मुच्येत। न तु तत्सम्भवति। अतो ज्ञायते विज्ञानानि नैककालिकानीति। कायश्चित्तानुचरः। यदि सर्वाणि चित्तानि युगपद्भवन्ति। तदा कायो विक्षिप्येत। अतीतानागतादिचित्तानामेककालमुत्पत्तेः। वस्तुतस्तु कायो न विक्षिप्यते। अतो ज्ञायते न युगपद्भवन्ति सर्वचित्तानीति। चक्षुषा पश्यामः खलु बाह्यान् बीजाङ्‍कुरादीन् कलमांसपेश्यादिरूपाणि कौमारयौवनजराकारान् क्रमिकान्। तथा चित्तमपि स्यात्।

उक्तञ्च सूत्रे-यदा सुखा वेदना भवति। तदा [अन्ये] द्वे वेदने निरुद्धे यदुत दुःखा वेदना अदुःखासुखा वेदना इत्यादि। यदि विज्ञानानां युगपदुत्पादः तदा तिस्रो वेदना एककालं वेद्येरन्। न तु तद्युज्यन्ते वस्तुतः। अतो ज्ञायते विज्ञानानि नैककाल मुत्पद्यन्त इति। एकस्मिन् काय एकचित्तोत्पत्त्या एकः पुरुष इत्युच्यते। विज्ञानानां यौगपद्य एकस्मिन् काये बहवः पुरुषाः स्युः। नत्विदं युज्यते। अत एकस्मिन् काये विज्ञानानां यौगपद्यं न सम्भवति। यौगपद्ये हि एककालं सर्वान् धर्मान् जानीयुः। कस्मात्। चक्षुषि तावदप्रमाणशतसहस्राणि विज्ञानानि भवन्ति। एवं यावन्मनस्यपि। तथा च [तानि] सर्वान् धर्मान् विजानीयुः। न तु तद्युज्यते। अतो विज्ञानानि नैककालिकानीति ज्ञायते।

(पृ) कस्माद्विज्ञानान्यवश्यं क्रमिकाणि भवन्ति। (उ) एकः समनन्तरप्रत्यय इत्यतो विज्ञानमेकैकमुत्पद्यते। (पृ) एकः समनन्तरप्रत्यय इति कस्मात् सम्यक्। ईदृशी धर्मता स्यात्। तथा भवतामे कस्यात्मन एकं मनः। तथा ममापि एकस्य मनस एकः समनन्तरप्रत्ययः। यथा बीजसम्बन्धी अङ्‍कुरस्तत्समनन्तरमुत्पद्येत। न काण्डाद्युत्पाद्य अङ्‍कुरः। एवं चित्तसम्बन्धी धर्मश्चित्तक्रमेणोत्पद्येत। नान्यधर्मोत्पत्ति [क्रमतः]। विज्ञानलक्षणं तथा नियतं [यत्] एकैकोदयव्ययक्रमलक्षणाधीनम् अग्निलक्षणदाहवत्। तस्माद्विज्ञानान्यवश्यं क्रमेण भवन्ति॥

विज्ञानायौगपद्यवर्गः षट्‍सप्ततितमः।

७७ दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः

(पृ) को धर्मः संज्ञा। (उ) प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा। कस्मात्। यथोक्तं सूत्रे-केचित्परीत्तसंज्ञाः केचिद्बहुसंज्ञाः केचिदप्रमाणसंज्ञाः केचिदकिञ्चनसंज्ञा इति। वस्तुतस्तु ते बहु किञ्चिदादिधर्मा न सन्ति। अतो ज्ञायते संज्ञा प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपेति। ताः संज्ञाः भूयसा विपर्यासगता इष्यन्ते। यथोक्तम्-अनित्ये नित्यमिति संज्ञाविपर्यासः। दुःखे सुखमिति संज्ञाविपर्यासः। अनात्मनि आत्मेति संज्ञाविपर्यासः। अशुभे शुभमिति संज्ञाविपर्यासः। इति। एवं श्रद्धाधिमुक्तिविपश्यना कृत्स्नायतनेष्वपि उच्यन्ते।

संज्ञा त्रिधा विभक्ता ग्रहालम्बना यदुत प्रियद्वेप्योदासीनाः। तत्र तिस्रो वेदनाः क्रमशः समुद्भवन्ति। ता वेदनाश्च त्रिविषजनन्यः। अतः संज्ञा दुष्टा। दुष्टत्वात् भगवानाह-संज्ञा प्रहातव्येति। यथोक्तम्-चक्षुषा रूपाणि दृष्ट्‍वा मा निमित्तं गृह्वीत इति। अतो ज्ञायते प्रज्ञप्तिसद्धर्मनिमित्तग्रहणरूपा संज्ञेति।

(पृ) प्रज्ञप्तिसद्धर्मग्रहणरूपा संज्ञेति नायमर्थो युज्यते। कस्मात्। तथा संज्ञया हि सर्वान् क्लेशान् प्रजहाति। यथोक्तं सूत्रे-अनित्यसंज्ञा साधु भाविता सर्वं कामरागं पर्यादापयति। सर्वं रूपरागं पर्यादापयति। सर्वं भवरागं पर्यादापयति। सर्वमौद्धत्यं पर्यादापयति। सर्वामविद्यां पर्यादापयति। सममस्मिमानं पर्यादापयति। इति। अतो ज्ञायते न प्रज्ञप्तिसद्धर्मग्रहणमात्रा संज्ञेति। प्रज्ञप्तिधर्मग्रहणरूपा [चेत्] संज्ञा। तदा न स्यात्क्लेशानां प्रहाणम्।

उच्यते। वस्तुतः प्रज्ञेयं संज्ञेति नाम्नोच्यते। यथा वदन्ति वेदकः सर्वस्माद्विमुच्यते। मनसा सर्वे क्लेशाः प्रहीयन्त इति। यथा च वदन्ति अकृष्णाशुक्लकर्मणा सर्वाणि कर्माणि क्षपयतीति। वदन्ति च-

श्रद्धया वितरत्योघमप्रमादेन चार्णवम्।
वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति। इति।

वस्तुतस्तु प्रज्ञया तरति न तु श्रद्धादिना। एवं प्रज्ञैव संज्ञाख्ययोच्यते। उक्तञ्च सूत्रे-प्रज्ञया बलं भवतीति। यथोक्तम्-आर्यास्तदन्तेवासिनो वा प्रज्ञाबलेन सर्वान् क्लेशान् प्रजहतीति। अतः प्रज्ञैव सर्वसंयोजनसमुच्छेदिनी। न तु संज्ञा। सप्तत्रिंशदार्यमार्गाङ्गेषु नोक्ता संज्ञा। अतो न [सा] संयोजनसमुच्छेदिनी। उक्तञ्च सूत्रे-जानन् पश्यन् आस्रवक्षयं प्रतिलभते नाजानन् नापश्यन् इति। त्रिष्वनास्रवेन्द्रियेषूक्तं अनाज्ञातमास्यामिन्द्रियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति सर्वं ज्ञानाख्यं भवति। आह च भगवान्-प्रज्ञास्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो भवति इति। किञ्चाह-ध्यानव्यतिरिक्ता नास्ति सम्बोधिः। साम्यव्यतिरिक्तं नास्ति ध्यानमिति। अनुक्रमसूत्रे चोक्तम्-विशुद्धशीलधारिणो न चित्तं परितपति यावद्यथाभूतज्ञानाय चित्तं समादधाति इति। धर्मज्ञानादयः सर्वे प्रज्ञाख्याः। तिसृषु च शिक्षासु अधिप्रज्ञाशिक्षोत्तमा। आह च-प्रज्ञासम्पत् विमुक्तिज्ञानदर्शनसम्पत् इति। सप्तविशुद्धिषु चोक्तम्-प्रतिपदाज्ञान-दर्शनविमुक्तिरित्। आह च भगवान्-सर्वधर्माणां यथाभूतज्ञानमनुत्तरा प्रज्ञा इत्युच्यते। संज्ञा तु नैवंविधोच्यते।

प्रज्ञैव सर्वक्लेशानां समुच्छेदिनि न तु संज्ञेति योगो न्यान्याः। कस्मात्। यथाह महानिदानसूत्रम्-यच्च सूत्रेऽवतरति विनये च सन्दृश्यते धर्मताञ्च न विलोमयति तत् ग्राह्यम् इति। अपि चाह-सम्यगर्थे स्थापना यथार्थ [ग्रहणम्] सम्यक् रुते स्थापना यथारूत [ग्रहणम्] इति। अतः सूत्रे यद्यप्युक्तम् अनित्यसंज्ञादयः क्लेशानां समुच्छेदका इति। तथापि सा प्रज्ञैवेपि। न्यायतो भवति। आह च-अविद्या सर्वक्लेशानां मूलम्। विसंयोगात्मज्ञा विमुच्यत इति। अतो ज्ञायते प्रज्ञया सर्वे क्लेशाः प्रहीयन्त इति।

(पृ) भवतोक्तं प्रज्ञप्तिसद्धर्मनिमित्तग्रहणात्मिका संज्ञा इति। किं तन्निमित्तम्। (उ) केचिन्मन्यन्ते-प्रज्ञप्तिधर्मो निमित्तम्। प्रज्ञप्तिधर्माः पञ्च अतीतः अनागतः सङ्केतः संयोगः पुद्गल इति। तदयुक्तम्। कस्मात्। पुद्गलः पञ्चस्कन्धानुपादाय सिद्धः। निमित्तस्यासिद्ध्या नास्ति प्रज्ञप्तिः। (पृ) निमित्तस्यार्थः कः। (उ) यदालम्बनं तन्निमित्तम्। केनेदं ज्ञायते। यथोक्तम्-सिंहो मृगराज इह नदीतीरे स्थितस्त्रत्र तीरे निमित्तं गृहीत्वा ओघं तीर्त्वा निष्क्रामति। तत्र यदि निमित्तं नास्ति तदा इदं तीरं प्रतिनिवृत्य [तन्निमित्त] मामरणं न मुञ्चति इति। सूत्रेऽस्मिन् वक्ष [मृगा] दि निमित्तं भवति। आह च-भिक्षुर्निमित्तं प्रदर्शयतीति। अत्र चीवरादिर्निमित्तम्। किञ्चाह-भगवान्-ईदृशं निमित्तं ख्यापयतीति। अपि चाह-[पशु] वधको राजभोजनायाभिलषितं निमित्तमुपादत्त इति। आहुश्च-प्रभातं सूर्योदयस्य निमित्तमिति। किञ्चाह- त्रीणि निमित्तानि यदुत समाधिनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तमिति। तत्र समाध्यादय एव निमित्तानि भवन्ति। यं धर्मं मनसिकृत्य चित्तमालम्बने बध्यते। तत् समाधिनिमित्तम्। च्यवनधर्मिणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति। तत्र पञ्च धर्मा एव निमित्तानि भवन्ति। अतो ज्ञायते न प्रज्ञप्तिधर्मो निमित्तमिति। नापि संस्कारस्कन्धसङ्‍गृहीतम्। शारिपुत्रः पूर्णमैत्रायणीपुत्रान्मुखनिमित्तं गृह्णाति। उक्तञ्च सूत्रे-चक्षुषा रूपाणि दृष्ट्‍वा मा निमित्तं गृह्णीतेति। धर्ममुद्रायाञ्चोक्तम्-यो भिक्षुः रूपशब्दादिनिमित्तं प्रहीणं पश्यति। नाहं वदामि स विशुद्धज्ञानदर्शनस्य लाभीति। अनेन ज्ञायते आलम्बनमेव निमित्तम्। न प्रज्ञप्तिधर्म इति।

(पृ) नालम्बनं तिमित्तम्। कस्मात्। अनिमित्तसमाधेरपि सालम्बनत्वात्। आह च रूपाणि दृष्ट्वा मा निमित्तं गृह्णीतेति। यद्यालम्बनं निमित्तम्। कथं रूपं दृष्ट्वा न निमित्तं गृह्णाति। (उ) निमित्तं द्विविधं दुष्टमदुष्टमिति। दुष्टनिमित्तनिषेधार्थमाह-रूपं दृष्ट्‍वा न निमित्तं गृह्णातीति। अनिमित्त[समाधे]रालम्बनमपि दुष्टमिति पश्चान्निरोधसत्य [वर्गे]वक्ष्यते यत् त्रिविध चित्तनिरोधी अनिमित्तमादावुपसम्पद्य विहरतीति। न तु सर्वनिमित्तग्रहो दुष्टः। यः समाधिप्रग्रहोपेक्षानिमित्तादि गृह्णाति। न तस्य दोषोऽस्ति। निर्वाणञ्चासद्धर्मः। अतो न दुषणकृत् स्यात्। यथोक्तं-धर्मनिमित्तस्य ग्राही न दुष्यति इति। प्रज्ञप्तिनिमित्तग्राहिणस्तु क्लेशाः समुद्भवन्ति। कस्मात्। प्रियाप्रियादिविभक्तनिमित्तग्रहात् सौमनस्यदौर्मनस्यादयः समुद्भवन्ति। ततो रागद्वेषादयो दोषा भवन्ति। अतो ज्ञायते प्रज्ञप्तिधर्मनिमित्तग्रहणरूपा संज्ञेत्युच्यत इति॥

दुःखसत्यस्कन्धे संज्ञास्कन्धवर्गः सप्तसप्ततितमः।

७८ दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गः

(पृ) वेदना कतमा। (उ) सुखा दुःखा अदुःखासुखा च। (पृ) सुखा कतमा। दुःखा कतमा। अदुःखासुखा च कतमा। (उ) कायचित्तयोर्विकासो सुखेत्युच्यते। तयोरेव ह्रासे दुःखा। उभयलक्षणयो विरुद्धा अदुःखासुखा। (पृ) इमास्तिस्रो वेदना अनियतलक्षणाः। कस्मात्। यथा वस्त्वेकमेव कदाचित्कायचित्ते विकासयति। कदाचित् ह्रासयति। कदाचिदुभयविलक्षणं भवति। (उ) तदालम्बनमनियतम्। न तु वेदना। कस्मात्। यथैक एवाग्निः कस्याञ्चिदृतौ सुखमुत्पादयति। कस्याञ्चिदृतौ दुःखम्। कस्याञ्चिच्चादुःखासुखम्। आलम्बनजा वेदना तु नियतैव। तदेव वस्त्वेकमृतुवशात् सुखस्य वा हेतुर्भवति। अदुःखासुखस्य वा हेतुर्भवति।

तदालम्बनं केन कालेन सुखदुःखादीनां हेतुर्भवति। (उ) यत्न दुःखविघातकमस्ति। तस्मिन् समये सुखलक्षणमुत्पद्यते। यथा कश्चित् यदा शीतार्तः तदोष्णस्पर्शः सुखमुत्पादयति। (पृ) ननु स एवोष्णस्पर्शः उत्कटः सन् दुःखकरो भवति। न तु सुखकरः। अतो ज्ञायते सुखवेदनापि नास्तीति। (उ) संवृतिनामतोऽस्ति सुखवेदना। न तु परमार्थतः। उष्णस्पर्शप्रियस्य कस्यचित् हितकरोऽपि भवति। [यस्य यदा] पूर्वदुःखस्य प्रतिबन्धः। तस्मिन् समये तस्य सुखमुत्पद्यते। यदि पूर्वमेव दुःखवियोगः तदोष्णस्पर्शो न सुखकरः। अतो नास्ति परमार्थतः।

(पृ) यदुक्तं भवता-[संवृति] नामतः सुखमस्ति इति। तन्न युक्तम्। कस्मात्। सूत्रे भगवानाह-तिस्रो वेदना इति। यदि नास्ति सुखं परमार्थतः। कथं ब्रूयात् तिस्रो वेदना इति। आह च-रूपं यदि दुःखनियतम्। सत्त्वा न तत्रासङ्गमुत्पादयेयुरिति। किञ्चाह-रूपस्य क आस्वादाः ये रूपमुपादाय प्रीतिसुखजनना इति। किञ्चाह-सुखवेदनाया उत्पद्यमानायाः सुखे स्थिते सुखम्। निरुद्धे दुःखम्। दुःखवेदनाया उत्पद्यमानाया न दुःखे स्थिते दुःखम्। निरुद्धे सुखम्। अदुःखासुखवेदनाया न दुःखं ज्ञायते न सुखं ज्ञायते इति। सुखा वेदना पुण्यविपाकः। दुःखा वेदना च पापविपाकः। यदि नास्ति परमार्थतः सुखा वेदना। पुण्यपापयोर्दुःखफलमात्रं स्यात्। न तद्युक्तं वस्तुतः। कामधातावपि सुखा वेदनास्ति। यदि नास्ति परमार्थतः सा, रूपारूप्यधातू न [सुख] वेदनावन्तौ स्याताम्। न तु युज्यते वस्तुतः। किञ्चाह-सुखायां वेदनायां रागोऽनुशेत इति। यदि नास्ति सुखा वेदना, कुत्र रागोऽनुशयीत। न वक्तव्यं दुःखायां वेदनायां रागोऽनुशेत इति। अतो ज्ञायतेऽस्ति परमार्थतः सुखा वेदनेति।

अत्रोच्यते। यद्यस्ति परमार्थतः सुखा वेदना। किं सुखमिति तस्य लक्षणं वक्तव्यम्। न तूच्यते वस्तुत। ज्ञातव्यं दुःखविशेषस्यैव सुखनिमित्तव्यवहार इति। सर्वो लोकधातु आ महानरकमा च भवाग्रं सर्वं दुःखलक्षणम्। बहुदुःखसम्पीडितस्य मृदुनि दुःखे सुखनिमित्तमुत्पद्यते। यथा कश्चित् धर्मतप्तः शीतस्पर्शं सुखं मन्यते। तस्मात् सूत्राणि तथावचनान्यविरुद्धानि। (पृ) लोके सर्वं सुखमिति वक्तुं सम्भवति। मृदुनि सुखे दुःखसंज्ञोत्पद्यते। तथा नो चेत् दुःखाल्पत्वे सुखसंज्ञोत्पद्यत इत्यपि न वक्तुं शक्यते। (उ) दुःखवेदनालक्षणस्यौदारिकत्वात् सूक्ष्मसुखं दुःखमिति न सम्भवति। सुखं सूक्ष्ममपि नोपघातलक्षणं भवति। कस्मात्। न हि पश्यामः कथमपि सूक्ष्मं सुखमनुभवन्तं पुरुषं बाहुमुद्यम्य सुदीर्घमुच्छ्वसन्तम्। सुखा च वेदना सूक्ष्मा प्रवृत्ता उपशमलक्षणमित्युच्यते। तद्यथोर्ध्वभूमौ प्रवृत्त उपशमः। अतो यदुक्तं सूक्ष्मे सुखे दुःखसंज्ञोत्पद्यत इति तत् वचनमात्रम्। बालपृथग्जनानामल्पदुःखे सुखसंज्ञा मिथ्या प्रादुर्भवति इति तु न्याय्यम्॥

दुःखसत्यस्कन्धे वेदनाधिकारे वेदनालक्षणवर्गोऽष्टसप्ततितमः।

७९ संस्कारदुःखतावर्गः

सर्वा वेदना दुःखम्। कस्मात्। चीवरभोजनादयो हि सर्वे दूःखहेतवः न सुखहेतवः। केनेदं ज्ञायते। अन्नवस्त्रादिषूत्कटेषु दुःखमपि वर्धत इति प्रत्यक्षं खलु। अतो दुःखहेतवः। हस्तव्यथादिदुःखं लक्षणतो निदर्शयितुं शक्यते। न तथा सुखम्। अन्नवस्त्रादि व्याधिप्रशमनम्। यथा तर्षितस्य पानं न सुखजनकम्। कश्चिद्दुःखपीडितः दुःखभेदे सुखसंज्ञां जनयति। यथा जना मरणभीताः [अन्यं] दण्डं सुखं मन्यन्ते। दण्डादानशस्त्रादानक्षुरशक्तयो दुःखहेतुतया नियताः न तथा सुखहेतुतया। सर्वेषामवश्यमात्यन्तिकदुःखत्वात् ज्ञातव्यं पूर्वं [दुःखं] सदेवोर्ध्वकालं बुध्यते पादुकाक्षयवत्। स्त्रीरूपादौ च पूर्वमुत्पद्यते सुखसंज्ञा। पश्चाद्भवति विद्वेषः। अतो ज्ञायते मिथ्यासंज्ञानुस्मरणेन सुखसंज्ञोत्पद्यत इति। मिथ्यसंज्ञानुस्मरणव्यावृत्तौ तस्य दोषं पश्यति। स्त्रीरूपादीनि उच्छोषणशिरोव्याध्यादिहेतवः। न सुखं भवति। वैराग्ये सति तदालम्बनं त्यज्यते। यद्यस्ति वस्तुतः सुखम्। कस्मात् त्यज्यते। यस्य यत्र सुखमभूत् तस्य तदेव पश्चाद्दुःखचित्तजनकमित्यतो ज्ञायते नास्ति सुखमिति।

किञ्च कायो दुःखहेतुः न सुखहेतुः। यथारण्यभूमौ सुसस्येषु दुष्प्ररोहेष्वपि तृणवीरणानि सूद्भवन्ति। एवं कायभूमौ दुःखस्कन्धाः सुसमुद्यन्ति। मृषासुखन्तु दुरुद्भवं भवति। किञ्च जना दुःखे सुखविपर्यासमुत्पाद्य पश्चात्तत्राभिष्वजन्ते सुखं यदि किञ्चिदस्ति। नोच्येत विपर्यास इति। यथा नित्य आत्मा विशुद्धः किमपि वस्तु नास्ति। एवं सुखमपि। उभयोर्विपर्यस्तत्वात्। जनानां कटुके दुःखे सुखचित्तमुत्पद्यते। यथा भारवाही स्कन्धं सुखयति। अतो ज्ञायते नास्ति सुखमिति। सूत्रे च भगवतोक्तम्-सुखा भिक्षवो वेदना दुःखतो द्रष्टव्या। दुःखा वेदना शल्यतो द्रष्टव्या। अदुःखासुखा वेदना अनित्यतो द्रष्टव्या। इति। यद्यस्ति नियतं सुखम्। सुखं दुःखतो न द्रष्टव्यं स्यात्। ज्ञातव्यं पृथग्जना दुःखं सुखतो गृह्णन्तीति। अतो भगवानाह-यत्र पृथग्जनानां सुखसंज्ञोत्पद्यते तत् दुःखतो द्रष्टव्यमिति।

इमास्तिस्रो वेदनाश्च दुःखसत्यसङ्‍गृहीताः। यदि वस्तुतोऽस्ति सुखम्। कथं दुःखसत्यसङ्‍गृहीतं स्यात्। दुःखमेव वस्तुतोऽस्ति। सुखलक्षणन्तु मृषा। केनेदं ज्ञायते। दुःखचित्तभावनया हि सर्वसंयोजनानि प्रजहजाति। नतु सुखचित्तभावनया। अतो ज्ञायते सर्वं दुःखमिति। सर्वे पदार्था दुःखहेतवः। द्वेष्यवत्। द्वेष्यो द्विविधः-एकः दुःखमेव करोति। अपर आदौ मृदुरपि अन्ते पुरुषं हिनस्ति। तद्वत्पदार्था अपि केचिदादौ सुभकरा अन्ते तु हिंस्राः। अतो ज्ञायते सर्वं दुःखमिति। सत्त्वानां लब्धकामानामपि नास्ति तृप्तिः। लवणाम्भः पानेनातृप्तिवत् इत्यतो दुःखम्। कामप्रार्थनाविरहः सुखमित्युच्यते। प्रार्थना तु दुःखम्। न पश्यामः कमपि लोकमप्रार्थयमानम्। अतः सुखविहीनं जानीमः। सर्वे सत्त्वाः कायिकदुःखेन वा चैतसिकदुःखेन वा सदानुगम्यन्त इत्यतः कायो दुःखमिति ज्ञायते।

कायः कारागृहवत्सदा बन्धनः। केनेदं ज्ञायते। एतत्कायनिरोधाद्विमुक्त‍इत्युच्यते। [अतो] बन्धनं दुःखम्। सर्वेऽपि पदार्थाः क्रमशः कुत्सनीयाः। यथा नारकादिकायाः ग्रीष्महेमन्ताद्यृतवः बालादीनामिन्द्रियाणि। शीतधर्मादि परस्परसापेक्ष मवसाने विद्वेप्यं ज्ञायते। [अतः] सर्वं दुःखमिति ज्ञेयम्। कायस्य च बहवः शत्रवो यदुताशीविषकारण्डः पञ्चोत्क्षिप्तासिका वधकाः कल्याणमित्रवञ्चनाश्चोराः शून्यग्रामे ग्रामघातकाश्चोरा महानद्या अवरतीरम् इति। [इमानि]नानादुःखानि सदानुचरन्ति [कायम्]। अतो ज्ञायते सर्वं दुःखमिति। किञ्च जानीमः सत्त्वानां कायः सर्वदुःखैरनुगम्यते यदुत जातिदुःखं, जरादुःखं व्याधिदुःखं मरणदुःखं विप्रियसमागमदुःखं प्रियवियोगदुःखं प्रार्थितादिविघातदुःखम् इत्यादिभिः। अतो ज्ञायते कायो दुःखकलाप इति। आत्मनि सति आत्मीयाभिष्वङ्गाद्युपद्रवाणां समुदयोऽस्ति। अतो ज्ञायते कायो दुःखनिदानमिति।

पञ्च सत्त्वगतयश्चत्वार इर्यापथाश्च सुखविरहिताः। कस्मात्। यथोक्तं सूत्रे-रूपं दुःखं वेदना संज्ञा संस्कारां विज्ञानञ्च दुःखं इति। रूप उत्पद्यमाने जराव्याधिमरणादयः सर्व उपद्रवा उत्पद्येरन्। एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि। कायः सदा व्याप्रियते कायवङ्‍मनोभिः कृत्यान्यभिसंस्क्रियन्ते। कृत्यानामभिसंस्करणं दुःखमित्युच्यते। आर्याः कायक्षयेण हृष्टा भवन्ति। यद्यस्ति वस्तुतः सुखम्। कथं सुखाद्भ्रष्टाः प्रमोद्येरन्। अतो ज्ञायते सर्वं दुःखमिति॥

संस्कारदुःखतावर्ग एकोनाशीतितमः।
८० दुःखप्रहाणवर्गः

(पृ) बहुभिः कारणैर्भवता दुःखं प्रतिपादितम्। अथापि जनाः सुखं कामयन्ते। यत्र कामना तत् सुखमिति मन्यामहे। (उ) पूर्वमेव प्रत्युक्तमिदम्। पृथग्जना विपर्ययात् दुःखमेव सुखतो गृह्णन्ति। मुग्धैरुक्तं कथं श्रद्धेयम्। प्रार्थितं लब्ध्वापि दुःखतो भावयेत्। कस्मात्। सर्वमनित्यं विपरिणामे दुःखजनकम्। यथोक्तं भगवता सूत्रे-रूपारामा[भिक्षवो] देवमनुष्या रूपरता रूपमुदिता रूपविपरिणामविरागनिरोधात् दुःखं [भिक्षवो] देवमनुष्या विहरन्ति। इति। एवं वेदनासंस्कारविज्ञानेष्वपि। विपरिणामित्वात् ज्ञातव्यं दुःखमिति। जना अभूतसुखमनुभूय तत्रासङ्गमुत्पादयन्ति। आसङ्गप्रत्यया रक्षणपालनादयो दोषाः समुद्भवन्ति। अतः सुखं दुःखतो भावयेत्। सुखञ्च दुःखस्य द्वारम्। सुखरागात् त्रिभ्यो विषेभ्यः सम्भवन्त्यकुशलकर्माणि। [ततो]नरकादौ पतितो दुःखोपद्रवाननुभवति। अतो ज्ञातव्यं सर्वं सुखमूलकमिति। सर्वः संयोगो विप्रयोगान्तः। विप्रयोगे गाढं दुःखमनुभवति। नैतावता प्रियः पुनर्भवति। अतः सुखं दुःखान्तं भवतीति ज्ञेयम्। सुखोपकरणामुत्पादः सत्त्वानां प्रमोषणाय भवति। दुःखेषु च पातयति। यथा वन्यपक्षिणामाहारः मत्स्यानां भक्षणप्रस्कन्दनञ्च सर्वं ग्रहणाय भवति। तथा सुखमपि दुःखतो द्रष्टव्यम्। सुखवेदनाया अल्पास्वादलभायपरिमितान् दोषान् प्राप्नोति। यथा पशुमत्स्यानामास्वादितमत्यल्पम्। तदापदस्वतिबहुलाः। अतो दुःखतो द्रष्टव्यम्। सुखवेदना च क्लेशानामुत्पत्तिस्थानम्। कस्मात्। कायरागाद्धि कामा अपेक्ष्यन्ते। कामप्रत्यया व्यापादादयः क्लेशाः क्रमेण सम्भवन्ति। सुखवेदना संसारस्य मूलम्। कस्मात्। सुखमुपादाय हि तृष्णा जायते। यथोक्तं सूत्रे-तृष्णा दुःखस्य मूलम् इति। सर्वेषां सत्त्वानामभिसंस्कृतानि न सुखाय भवन्ति। अतो दुःखमूलमित्युच्यते।

सुखवेदना शृङ्खलातो दुस्त्यजतरा। संसारे च सुखकामनया बध्यते। कस्मात्। सुखरागाद्धि संसारं न मुञ्चति। सुखा वेदना चेयं सदा दुःखजननी। अन्वेषणकाले कामना दुःखम्। विघातकालेऽनुस्मरणं दुःखम्। लाभकाले न तृप्यति स्त्रोतः कबलयन् सागर इव। इदमपि दुःखम्। सुख वेदना अतन्द्रीहेतुः। कस्मात्। सत्त्वाः सुखसाधनान्वेषणकाले प्रपातचङ्क्रमणा[दि] दोषमपि सुखतो मत्वा न चित्ते परिखिद्यन्ते। तस्मात्प्रज्ञावता दुःखमिति भावयेत्। सुखा वेदना कर्मणां प्रवृत्तिहेतुरित्युच्यते। कस्मात्। सुखरागाद्धि कुशलकर्मसु प्रवर्तते। सर्वमपीदं कायानुभवस्य हेतुः। कस्मात्। सुखमुपादाय हि तृष्णोत्पद्यते। तृष्णाहेतुना कायोऽनुभूयते। सुखवेदना च निर्वाणस्य विरोधिनी भवति। कस्मात्। सत्त्वाः संसारे सुखाध्यवसानेन निर्वाणं नाभिलषन्ति। अविरक्तः सुखवेदनामिमां तृष्यति। तृष्णा च दुःखस्य जनकहेतुः। अतः सुखवेदना दुःखस्कन्धस्य मूलमिति ज्ञायते। उक्तञ्च सूत्रे-द्वे इमे भिक्षव आशे दुष्प्रजहे। [कतमे द्वे] लाभस्य जीवितस्य च इति। कामानामनुचिन्तनी आशा लाभस्याशेत्युच्यते। एषां कामानामुपभोगाय या जीवित प्रतिलाभायाशा सा जीवितस्याशा। इमे द्वे आशे सुखवेदनामूलिके। अतः प्रज्ञावता यथाभूतं सुखवेदनालक्षणं भावयता दुष्प्रहजा [पि] प्रहेया।

सुखवेदनास्वादोऽप्रतिलब्धवैराग्यस्य महाप्राज्ञस्यापि चित्तं कलुषयति। दुष्प्रजहत्वात् सुखवेदनाऽतः प्रगाढा भवति। सुखवेदनास्वादः रागादीनां हेतुः। सुखवेदनायामसत्यां न किञ्चिद्रज्यते। सुखवेदनास्वादेन तत्त्वज्ञानं प्रजहाति। कस्मात्। लोके हि प्राज्ञा अवश्यमुत्तमभूम्यास्वादमुपादायाधरां भूमिं त्यजन्ति। अतो ज्ञायते सुखा वेदना दुःखवेदनामतिक्रान्तेति। सत्त्वानां चित्तमुपपत्त्यायतनेऽनुबध्यते। यावद्‍गृह्य जन्तुरपि काये साभिलाषो भवति। इति ज्ञातव्यं सर्वं सुखवेदनास्वादादिति। अतः सुखां वेदनां दुःखतो भावयेत्॥

दुःखप्रहाणवर्गोऽशितितमः।

८१ त्रिवेदनाविचारवर्गः

(पृ) सर्वं दुःखमिति परिज्ञातम्। इदानीं केन विभङ्गेन सन्ति तिस्रो वेदना इति। (उ) एकस्या एव दुःखवेदनाया कालभेदेन त्रयः प्रकारा भवन्ति यत् विहेठकं तत् दुःखमित्युच्यते। विहेठितः पूर्वदूःखधारणाय पुनदुःखान्तरं पर्येषते। पर्येषितप्रणिधानेन महादुःखस्य मुहूर्तमुपशमे तस्मिन् (समये) सुसुखमित्युच्यते। प्रीतिदौर्मनस्ययोरवेदने न [किञ्चित्] प्रणिदधाति, न पर्येषते। तस्मिन् समये अदुःखासुखा वेदना इत्युच्यते।

(पृ) अदुःखासुखा वेदना नास्ति। कस्मात् सुखदुःख एव ह्यनुभाव्ये स्तः। अदुःखासुखा तु नानुभूयते। (उ) पुरुषोऽयं त्रिभिः स्पर्शैः स्पृष्टः यदुत दुःखस्पर्शः सुखस्पर्श अदुःखासुखस्पर्श इति। हेतौ सति फलमस्तीति ज्ञातव्यम्। यथा कश्चित् उत्कटतापलब्धः शीतस्पर्शं सुखतोऽनुभवति। ऊर्ष्णस्पर्शं दुःखतः। अशितानुष्णस्पर्शञ्च अदुःखासुखतोऽनुभवति। अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति। यद्भवतो मतम्-अदुःखासुखस्पर्शे न वेदनोत्पद्यत इति। तदयुक्तम्। कस्मात्। पुरुष इममशीतानुष्णस्पर्शनमनुभवति। अनुभवज्ञानालम्बनैव वेदना भवति। कथमाह नास्तीति। पुरुषं प्रति आलम्बनं त्रिधा विभक्तं प्रियं द्वेष्यमुदासीनमिति। प्रियात्सौमनस्यं भवति। द्वेप्याद्दौर्मनस्यम्। उदासीनादुपेक्षा। अतो ज्ञायते संज्ञाभेदादिमास्तिस्रो वेदना भवन्ति। आलम्बनास्वादादिमास्तिस्रः संज्ञा उद्यन्तीति। आलम्बनं त्रिविधम्। किञ्चिदुपकारकं किञ्चिदपकारकम्। तच्चोभयं मिथो विरुद्धम्। ससुखमसुखं युगपद्विरुद्धम्। रागद्वेषमोहस्थानानि [विरुद्धानि] सप्रीतिक मप्रीतिकञ्च विरुद्धम्। पुण्यापुण्यानेञ्ज्यफलरूपेष्वालम्बनेषु तिस्रो वेदना अनुप्रवर्तन्ते। अतो ज्ञायते अस्तीयमदुःखासुखा वेदनेति। यत्र चित्तमनुकूलं तत्र सुखा वेदना। प्रतिकूलं यत्र चित्तं तत्र दुःखा वेदना। यत्र न प्रतिकूलं नानुकूलं तत्रादुःखासुखा वेदना। लोकधर्माश्चाष्टौ लाभोऽलाभो निन्दा प्रशंसा यशोऽयशः सुखं दुःखमिति। पृथग्जना अलाभादिषु चतुर्धर्मेषु प्रतिकूलचित्ता भवन्ति। लाभादिषु चतुर्धर्मेषु तु अनुकूलचित्ताः। वीतरागा आर्यास्तूभयत्रावश्यमुपेक्षका भवेयुः। उपेक्षैवासुखादुःखा वेदना। अतो न सा नास्तीति।

(पृ) यदि स्पर्शादिप्रत्ययत्वात् तिस्रो वेदनाः सन्तीति। तदा सर्वेऽपि चित्तोपविचारा वेदनाः स्युः। कस्मात्। ये चित्तोपविचाराः कायवर्तिनः ते सर्वेऽपि सुखा दुःखा अदुःखासुखा वा भवन्ति। (उ) [सत्यम्] सर्वेपि चित्तोपविचारा वेदना भवन्ति। कस्मात्। उक्तं हि सूत्रे-अष्टादश मन‍उपविचाराः इति तत्र केवलमेकं मनः अष्टादशधाविभक्तं यदुत षट् सौमनस्योपविचाराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचारा इति। संज्ञाविकल्पात्किञ्चिद्दुःखाङ्गं किञ्चित्सुखाङ्गं किञ्चिदुपेक्षाङ्गम्। अतो ज्ञायते सर्वेऽपि चित्तोपविचारा नावेदना भवन्तीति। किञ्चोक्तं सूत्रे-सर्वा वेदना दुःखम् इति। अतो ज्ञायते चित्तोपविचारेषु देहगतेषु सर्वं दुःखमित्युच्यते। आह च यो रूपस्योत्पादः स दुःखस्योत्पाद इति। कथं रूपं दुःखमित्युच्यते। दुःखहेतुत्वात्। अतो ज्ञायते आलम्बनमिन्द्रियाणि च दुःखजनकानीति। अतः सर्वेऽपि चित्तोपविचारा वेदना इत्युच्यन्त इति।

संस्काराणां दुःखत्वात् संस्कारान् दुःखतो भावयेत्। विपरिणामे दुःखत्वात् सुखां वेदनां दुःखतो भावयेत्। दुःखदुःखन्तु दुःखमेव। इतीमास्तिस्रो वेदना दुःखाः प्रत्ययसामग्र्यां समुत्पन्नाः क्षणिकाः। अत आर्या दुःखतः पश्यन्ति। अतः सर्वेऽपि चित्तस्योपविचारा वेदना इत्युच्यन्ते।

(पृ) किमनास्रवा वेदना अपि दुःखम्। (उ) दुःखमेव। कस्मात्। अनास्रवा वेदना अपि आर्या अनन्तरं त्यजन्ति। प्रथमध्यानादारभ्य यावत्सर्वनिरोधसमापत्तिम्। अतो दुःखमेव। सास्रवध्यानसुखस्यानास्रवध्यानसुखस्य च को भेदः। सास्रवध्यानानुयायिन आत्महेतुना दुःखम्। अनास्रवध्यानानि च तेनैव दुःखम्। य आर्या अनास्रवचित्तविहारिणः ते सर्वत्र परं निर्विद्यन्ते। अतोऽनास्रवचित्त उत्पन्ने परमो निर्वेद उत्पद्यते। अक्षिगतरजोवत्। प्राकृता अज्ञा दुःखं सुखतो मन्यन्ते। आर्यास्तु गभीरज्ञा भवाग्रान्निर्विण्णाः कामधातुनिर्विण्णेभ्योऽन्येभ्योऽप्यतिमात्राः। अतोऽनास्रवदुखं सास्रव [दुःखा]दतिक्रान्तम्। आर्या अनास्रवचित्तं लब्ध्वा निर्वाणमात्रोन्मुखा भवन्ति। कस्मात्। ते तस्मिन् समये सर्वे संस्कृता दुःखमिति व्यक्तं पश्यन्ति। यद्यनास्रवा वेदना सुखा तदा सुखे प्रामोद्येरन् न निर्वाणोन्मुखचित्ता भवेयुः।

(पृ) यदि चित्तस्योपविचारा वेदनेति। कथं चित्तादिधर्मः पृथक् [न]सन्ति। (उ) एकैव वेदना आलम्बने नानोपविचरतीति विभक्ता भवति। चित्तादिधर्मा अपि नानालम्बन उपविचरन्ति। किन्तु विज्ञानालम्बने सति अयं समुदाचारश्चित्तमित्युच्यते। ईदृशं पूर्ववत् वक्तव्यम्। इमेषु सर्वधर्मेषु कायगतेषु सन्ति हितादयो विशेषा इत्यतो वेदनेत्याख्यायन्ते। बहुभिश्चित्तैः क्लेशा अभिनिर्वर्त्यन्ते। तस्मिन् समये च वेदनेत्युच्यते। यथोक्तं सूत्रे-सुखायां वेदनायां रागोऽनुशेते। दुःखायां वेदनायां द्वेषोऽनुशेते। अदुःखासुखायां वेदनायां मोहोऽनुशेते इति तस्मात्संज्ञाविकल्पिता आलम्बने सौमनस्यादयो धर्मा वेदना इत्युच्यन्ते। कस्मात्। तस्मिन् समये हि क्लेशाः समुद्भवन्ति।

(पृ) एकैकस्यां वेदनायां त्रयः क्लेशानुशया भवन्ति। कस्मान्नियम्यन्ते सुखायां वेदनायां रागोऽनुशेत इति। (उ) न दुःखायां वेदनां रागोऽनुशयः स्यात्। मोहस्सर्वत्रानुशयः। मोहबलाद्धि दुःखे सुखसंज्ञोत्पद्यते। वस्तुनो ज्ञानदर्शनाभावात् दुःखलाभे द्वेष उत्पद्यते। अदुःखासुखा वेदनायास्सूक्ष्मत्वात् रागस्य द्वेषस्य वानुभवः। कस्मात्। पुरुषस्य तत्र सुखदुःखसंज्ञानुत्पादाद्वस्तुनो ज्ञानदर्शनाभावाच्च केवलं मोहानुशयः सम्भवति। उपेक्षालम्बने यदि रागद्वेषौ न समुदाचरतः पृथग्जनास्तदुत्कृष्टालम्बनमिति वदन्ति। अतो भगवानाह-न भवतामिदमालम्बनमुत्कृष्टम्। अननुभवान्न रागद्वेषौ समुदाचारतः। यथोक्तं सूत्रे-प्राकृतानां यद्रुपे भवत्युपेक्षा स सर्वा रूपनिश्चिता। यस्येदमालम्बनमुत्कृष्टं तस्याहङ्कारोऽधिको भवति। यो निकृष्टं करोति तस्य पुना रागद्वेषौ समुद्भवत इति। अतो ज्ञायतेऽनुत्कृष्टमिति। अदुःखासुखा वेदना चोपशमलक्षण, आरूप्यसमाधिवत्। उपशान्तत्वात्क्लेशाः सूक्ष्मं समुदाचरन्ति। प्राकृतास्तत्र विमुक्तिसंज्ञामुत्पादयन्ति। अतो भगवानाह-तत्रास्त्यविद्यानुशय इति। आलम्बनाननुभवात्सुखदुःखयोरप्रतीतिः। यो जानाति तदालम्बनं तस्य सुखदुःखे स्पष्टं प्रतीयेते। तस्मिन् समये रागद्वेषौ सम्भवतः।

(पृ) यस्तत्रालम्बनं वेदयते तस्य सुखदुःखसंज्ञोत्पद्येत। अतः सुखदुःखवेदनामात्रमस्ति। (उ) पुरुषस्यास्य तदा तदालम्बने न सुखचित्तमुत्पद्यते न च दुःखचित्तम्। अतो न सुखदुःखमात्रमस्ति। पूर्वोक्तवत् सर्वमपि दुःखं त्रिधा विभक्तमस्ति। (पृ) यद्भवतोक्तं-तदालम्बनस्यानुभवज्ञाने पुनः सुखसंज्ञोत्पद्यत इति। कथं तदनुभवज्ञानं न सम्भवति। अविद्यया अनुभवज्ञानम्। (उ) पुरुषस्यास्य तस्मिन् आलम्बने पूर्वं निमित्तग्रहात् तत्रालम्बने यद्यविद्यानुशयो यदि वा रागद्वेषानुशयोऽस्ति। (पृ) सुखदुःख एव मोह उत्पद्यते। यथोक्तं सूत्रे-स तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतं न प्रजानाति। तस्य तासां वेदनानां समुदयञ्चास्तगमञ्चास्वादञ्चादीनवञ्च निस्सरणञ्च यथाभूतमप्रजानतो योऽदुःखासुखस्यावेदनाया अविद्यानुशयः सोऽनुशेत इति। अतः सुखदुःख एवाविद्यानुशय उदेति। नादुःखासुखायां [वेदनायाम्]। (उ) सूत्रमिदं स्वयमाह-वेदनानां समुदयास्तगमादीनवादीन् यथाभूतमप्रजानतोऽदुःखासुखायामविद्यानुशयोऽनुशेत इति। (पृ) वचनस्य सत्त्वेऽपि नायमर्थो युज्यते। कथं सुखदुःखयोः समुदयास्तगमादीनवानप्रजानतोऽदुःखासुखायां वेदनायामविद्यानुशयोऽनुशेत इति। कस्मात् अन्यवस्तुनोऽज्ञानमन्यवस्तुन्यनुशयः। अत इदं सूत्रमेवं वक्तव्यम्-अदुःखासुखायाः समुदयाद्यप्रजानतोऽदुःखासुखायां वेदनायामविद्यानुशयोऽनुशेत इति। यदि वा तत्राविद्यानुशयो नानुशेत इति। (उ) तस्यादुःखासुखायां वेदनायां त्रिधा चित्तं भवति। शान्तसंज्ञा अदुःखासुखसंज्ञा तज्जादुःखासुखबुद्धिः। मिथ्याज्ञानेन निमित्तग्राहिणः सुखबुद्धिरुत्पद्यते। उत्तमभूमिसुखास्वादग्राहिणो दुःखबुद्धिरुत्पद्यते। अतः सूत्रे वेदनानामिति बहुवचनमुक्तम्। कस्मात्। सर्वा वेदना अविद्यानुशयिताः। अदुःखासुखा वेदना यथाकालं त्रिधा विभक्ता भवति। यदा दुःखायाः समुदयाद्यप्रज्ञानम्, तस्मिन् समये दुःखायां वेदनायां सुखसंज्ञोत्पद्यते अदुःखासुखसंज्ञा चोत्पद्यते। अत उच्यते वेदनानां समुदयाद्यप्रजानतोऽविद्यानुशयोऽनुशेते। अदुःखासुखायां वेदनायां तु भूयसाऽविद्यानुशयोऽनुशेत इति॥

त्रिविधवेदनाविचारवर्ग एकशीतितमः।

८२ वेदनाप्रश्नवर्गः

(पृ) उक्तं हि सूत्रे-तस्य चेत् सुखा वेदनोत्पद्यते। स एवं प्रजानाति-उत्पन्ना खलु म इयं सुखा वेदना इति। को वेदनां यथाभूतं प्रजानाति। अतीतानागता च वेदना नोपलभ्यते। प्रत्युत्पन्ना वेदना तु नात्मानं प्रजानाति। (उ) सूत्रस्यास्य पुरुषो वेदयत इत्याभिप्रायिकं वचनं इत्यदोषः। सुखादिवेदना काय आगम्य मन आलम्बते इत्यतोऽप्यनवद्यम्। सुखोपकरणे सुखमिति वदन्ति। लोकेऽपि कारणे कार्योपचारात्। स सुखां वेदनामनुभूय निमित्तं गृह्णाति। अत उच्यते सुखा वेदनोत्पद्यते चेत् स यथाभूतं प्रजानाति इति।

(पृ) यद्वेदयति सा वेदना। वेद्यत इति वा वेदना। यदा वेदयतीति तदा वेदना सुखादिभिन्ना। सूत्रे तूक्तम्-सुखा वेदना दुःखा वेदना अदुःखासुखा वेदना इति। यदि वेद्यत इति वेदना। केन तद्वेद्यत इति वेदयतीति वेदना भवति। (उ) [सुख] कारणे सुखमित्युच्यते। यथा तेजो दुःखं तेजः सुखमिति। अतः कारणानुभवज्ञानं सुखा वेदनेत्युच्यते। सत्त्वा इमां वेदनां वेदयन्ति। अतो वेदयतीति वेदना भवति (पृ) न सत्त्वानां वेदना। उक्तञ्च सूत्रे-वेदयतीति वेदना इति। (उ) अयं पदस्यार्थः यत् सनिमित्तं तत् सकारित्रम्। प्रज्ञप्तौ सनिमित्तामिमां सुखां दुःखामदुःखासुखां [वेदनां] कायगतां चित्तमनुभवति। अत उच्यते वेदयतीति।

(पृ) सूत्रे वेदनानामनुभवदर्शनमुक्तम्। योगिनस्तस्मिन् समये कथमुत्पद्यते सुखदुःखादुःखासुखानां निमित्तम्। किं तस्य तस्मिन् समये दुःखसंज्ञा नोत्पद्यते। (उ) सर्वं दुःखमित्यलब्ध्वा स तिस्रो वेदना अनुस्मरति। (पृ) यदि मनोविज्ञानवृत्त्या चत्वारि स्मृत्युपस्थानानि भवन्ति। कथमुच्यते कायिकं सुखमिति। (उ) सर्वासु वेदनासु एवं स्मृत्युनुबन्धात् स्यात् इदं कायिकं सुखम् इदं चैतसिकं सुखमिति। स्मृत्युपस्थानभावनाकाले काये सुखसंज्ञोत्पद्यते। तत्र स्मृत्युनुबन्धात् कायिकं सुखमित्युच्यते।

(पृ) यदि सर्वा वेदनाश्चैतसिकाः। कस्मात् कायिकी वेदनेत्युच्यते। (उ) तीर्थिकानां कृत उच्यते। तीर्थिका हि वदन्ति वेदना आत्मनिश्रिता इति। अतो भगवानाह-वेदनाः कायं चित्तञ्च निश्रिता इति। (पृ) कतमा कायिकी वेदना। (उ) पञ्चेन्द्रियाण्युपादायोत्पद्यमाना वेदना कायिकी वेदना। षष्ठमिन्द्रियमुपादायोत्पद्यमाना वेदना चैतसिकी (पृ) आसां कतमा सामिषा कतमा निरामिषा। (उ) क्लेशा आमिषाः। क्लेशानुशयिता वेदना सामिषा। क्लेशाननुशयिता वेदना निरामिषा। (पृ) कतमा दुःखा वेदना निरामिषा। (उ) प्रहीणामिषस्य या दुःखा वेदना सा निरामिषा। आमिषाणां विरुद्धा दुःखा वेदना इतीयं निरामिषेत्युच्यते। (पृ) सामिषां निरामिषामुक्त्‌वा कस्मात्पुनरुच्यते कामनिश्रिता नैष्क्रम्यनिश्रितेति। काम एव आमिषः। नैष्क्रम्यमेव निरामिषता। (उ) पूर्वं सामान्यत उक्तमामिषमिति। इदानीं पुनःकाम आमिषहेतुरिति प्रविभज्योच्यते। यथोच्यते सूत्रे-अस्ति सामिषा प्रीतिः अस्ति निरामिषा प्रीतिः। अस्ति निरामिषतो निरामिषतरा प्रीतिरिति। सामिषा प्रीतिरिति पञ्चकाम गुणान् प्रतीत्योत्पद्यते प्रीतिः। निरामिषा प्रीतिरिति यदुत प्रथमध्यान[जा]प्रीतिः। निरामिषतो निरामिषतराप्रीतिरिति यदुत द्वितीयध्यानजा प्रीतिः। या वेदना निर्वाणमात्रार्था सा नैष्क्रम्यनिश्चितेत्युच्यते। अतः पुनरुच्यते।

(पृ) पञ्चस्विन्द्रियेषु कस्माद्दुःखा वेदना सुखा वेदनेति प्रत्यङ्गं द्विधा विभक्ता। किं नास्त्युपेक्षा वेदना। (उ) दौर्मनस्यं सौमनस्यञ्चावश्यं संज्ञाविकल्पेनोत्पन्नम्। सुखा दुःखा तु नावश्यं संज्ञाविकल्पाधीना। उपेक्षावेदनायां संज्ञाविकल्पस्यातिसूक्ष्मत्वान्नास्ति द्वैधम्। तृतीयध्याने मनोविज्ञानं वेद्यते। कस्मात्सुखमस्ति न प्रीतिः। (उ) सुस्रं सर्वकायचित्तं गहनमापूरयतीति सुखमुच्यते। प्रीतिस्तु चित्तमात्रमापूरयति न कायम्। अतस्तृतीयध्याने प्रीतिविशेषं निश्रित्योच्यते कायेन सुखं प्रतिसंवेदयतीति।

(पृ) तिसृषु वेदनासु का घनिष्ठक्लेशजननी। (उ) आभिधर्मिकाः केचिद्वदन्ति सुखा वेदनेति। कस्मात्। पूर्वोक्त [वेदना] प्रत्ययवेदनाया दुःखतरत्वात्। [अन्ये] आभिधर्मिका वदन्ति दुःखा वेदनेति। कस्मात्। सत्त्वाः दुःखाभिहताः सुखार्थित्वात् घनिष्ठं क्लेशमुत्पादयन्ति इति। विविधसुखेभ्योऽत्यल्पं दुःखमतिरिच्यते। यथा पञ्चकामगुणसम्पन्नस्य पुरुषस्य मशकपतङ्गदंशे यो दुःखानुभवो भवति। न तादृशं रूषादिपञ्चकामगुणानां सुखम्। यादृशञ्च जीवतां पुत्राणां शतेन सुखम्, न तदेकपुत्रमृतितुल्यम्। संसारे च दुःखा वेदना बहुला। न तथा सुखा वेदना। कस्मात्। बहवः सत्त्वाः तिसृषु दुर्गतिषूपपन्ना देवमनुष्येभ्यो निकृष्टाः। नावश्यं स्वभावमधिष्ठाय दुःखस्य लाभः। सुखार्थितामधिष्ठाय लाभो बालाभो वास्ति। यथा क्षेत्रे तृणवीरणानि स्वयं प्ररोहन्ति न सस्यानि। दुःखां वेदनां प्रतीत्य गुरुके पापकर्मणि प्रवर्तते। कस्मात्। दुःखायां वेदनायां प्रतिघानुशयोऽस्ति। यथोक्तम्-प्रतिघो गुरतरं पापम् इति।

आभिधर्मिकाः केचिदाहुः-अदुःखासुखोत्पद्यते। कस्मात्। अत्रास्ति मोहानुशयः। सर्वक्लेशानां मूलं मोहः। सा च वेदना सूक्ष्मा। तत्र क्लेशानां ज्ञानस्य दुरनुभावत्वात्। सा च वेदना सत्त्वानां प्रकृतिः। सुखदुःखे चागन्तुके। सा च वेदना त्रिषु धातुषु व्याप्ता। न तथान्ये द्वे। वेदनेयं चिरजीविनी। तद्वेदनारागं प्रतीत्य जीवति अशीति महाकल्पसहस्राणि दुःखलक्षणान् स्कन्धाननुभवति। सा च निर्वाणविरोधिनी। कस्मात्। तत्र ह्युत्पद्यते शान्तलक्षणं निर्वाणलक्षणम्। न पुनः पारमार्थिकं निर्वाणं लभ्यते। किञ्च सा आर्यमार्गदोषकरणी। यथोक्तं-विसंयोगस्वभावं प्रतीत्य विमुक्तिर्लभ्यत इति। सुखा वेदना दुःखा वेदना तु लौकिकमार्गस्यापि दोषप्रापिणी। सा च वेदना आसंसारं व्यवतिष्ठते। सन्तानसमुच्छेदे समुच्छिद्यते। अतो घनिष्ठक्लेशजननी॥

वेदनाप्रश्नवर्गो द्वयशीतितमः।

८३ पञ्चवेदनेन्द्रियवर्गः

(पृ) सुखेन्द्रियं यावदुपेक्षेन्द्रियं कुत्र वर्तते। (उ) सुखेन्द्रियं दुःखेन्द्रियञ्च कायगतम्। यथाकायलाभं यावच्चत्वारि ध्यानानि भवन्ति। अन्यानि त्रीणि चित्तगतानि। यथाचित्तलाभं यावद्भवाग्रं भवति। (पृ) यथोक्तं सूत्रे दौर्मनस्येन्द्रियं प्रथमध्याने निरुध्यते। सौमनस्येन्द्रियं तृतीयध्याने निरुध्यते। सुखेन्द्रियं चतुर्थध्याने निरुध्यते उपेक्षेन्द्रियं निरोधसमापत्तौ निरुध्यते। इति। अतो भवदुक्तमयुक्तम्। (उ) भवदुक्तसूत्रेण दुःखेन्द्रियं प्रथमध्याने वर्तते। भवतां शासने तु प्रथमध्यानं वस्तुतोऽदुःखेन्द्रियम्। अतो न श्रद्धेयं स्यादिदं सूत्रम्।

(पृ) रूपारूप्यधातौ कुशलधर्मान् सम्यक् भावयतो दुःखं दौर्मनस्यं नस्यात्। (उ) त्रैधातुकं सर्वं दुःखम्। द्वयोरूर्ध्वधात्वारौदारिके दुःखेऽसत्यपि सूक्ष्मं दुःखमस्त्येव। केनेदं ज्ञायते। चतुर्षु ध्यानेषूच्यन्ते चत्वारि इर्यापथानि। यत्रास्तीर्यापथम्। तत्र सर्वं दुःखः स्यात्। रूपधातौ च सन्ति चक्षुः श्रोत्रकायविज्ञानानि। एषां विज्ञानानां या काचिद्वेदना सा दुःखा वा सुखा वा भवति। एकस्मादिर्यापथादपरमिर्यापथमर्थ्यत इत्यतो ज्ञायते दुःखमस्तीति। सूत्रे पृच्छति-रूपाणां क आस्वादः। यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम्। कश्च रूपाणामादीनवः। यत्किञ्चनरूपं [सर्वं तत्] अनित्यं दुःखं विपरिणामधर्म इति रूपधातोः सरूपत्वात् अस्त्यास्वादचित्तं, अस्त्यादीनवचित्तम्। अतोऽस्ति सुखं दुःखम्। योगी ध्यानसमाधिषु रज्यते चोपेक्षते च। सुखवेदनाप्रत्ययत्वादवश्यं रज्यते। दुःखवेदनाप्रत्ययत्वादुपेक्षते। अतो ज्ञायतेऽस्ति सुखं दुःखमिति।

भगवानाह-वागादयः प्रथमध्यानस्य शल्यम्। वितर्कचारौ द्वितीयध्यानस्य शल्यम्। यावन्नैवसंज्ञानासंज्ञायतनस्य संज्ञा वेदना च शल्यम् इति। शल्यमिति दुःखमित्यर्थः। अतो ज्ञायते दुःखमिति। सर्वेऽपि पञ्चस्कन्धा दुःखं विहिंसनदुःखम्। यथा कामधातुकवेदना विहिंसकत्वात् दुःखम्। ऊर्ध्वधातुकवेदनाया अपि विहिंसनमस्तीति कस्मान्न दुःखम्। यथा कामधातौ व्याध्यादयोऽष्ट संस्कारा उच्यन्ते। रूपारूप्यधात्वोरपि तथाष्टसंस्काराः समानमुक्ता इति कस्मान्नास्ति दुःखम्। रूपधातावाभाया न्यूनता वातिशयो वोच्यते। अतो ज्ञायते रूपधातुककर्मापि विभक्तम् इति। कर्मविभागादवश्यं दुःखविपाककर्मलाभिना भवितव्यम्। आह च सूत्रम्-अत्र सन्तीर्ष्यामात्सर्यादयः क्लेशा इति। यथा ब्रह्मा ब्रह्माणमामन्त्याह-ध्रूवमिदं स्थानम् मा भवन्तः श्रमणं गौतममुपसङ्‍क्रमत इति। आगत्यापि महाब्रह्मा भवन्तमनुयोगमापृच्छति। उक्तञ्च सूत्रे-चतुर्थध्यानमुपसम्पन्नोऽकुशलान् धर्मान् प्रजहातीति। अपि चोक्तं सूत्रे-तत्रास्ति मिथ्यादृष्टिः क्लेश इति। ईदृशाः क्लेशा एवाकुशला दुःखविपाकप्रापकाः स्युः। कस्मान्नास्ति दुःखम्। आभिधर्मिका आहुः-सर्वे क्लेशा अकुशला इति। तत्र कथं नास्ति दुःखा वेदना।

उक्तञ्च सूत्रे-रूपारामा [भिक्षवो] देवमनुष्याः रूपरता रूपसमुदिताः। रूपविपरिणामविरागनिरोधात् दुःखा [भिक्षवो] देवमनुष्या विहरन्ति। इति। एवं यावद्विज्ञानेऽपि। अतो ज्ञायते सर्वेषामवीतरागाणामस्ति दौर्मनस्यं सौमनस्यमिति। प्रिय [योग] प्रत्ययं सौमनस्यं भवति। तत्प्रियवियोगप्रत्ययं दौर्मनस्यं भवति। प्राकृतानामज्ञानां कस्य शक्तिबलेन प्रियप्राप्तिप्रत्ययं सौमनस्यं न भवति। हानौ च न दौर्मनस्यम्। यथोक्तं सूत्रे-मार्गं प्रतिपन्नस्यैवायुषोऽन्ते रूपे सौमनस्यं दौर्मनस्य ञ्च नास्ति इति। अतो ज्ञायते सर्वेषां प्राकृतानां सौमनस्यं दौर्मनस्यं सदानुवर्तते इति।

भगवान् स्वयमाह-दौर्मनस्यविगतं सौमनस्यविगतञ्चैकं चित्तमुपेक्षायामुपविचरतीत्ययमर्हतो गुण इति। षडुपेक्षोपविचाराश्चार्यचरितान्येव न प्राकृतानाम्। प्राकृताः कदाचिदुपेक्षायामुपविचरन्ति। न तत् ज्ञानप्रत्ययतथा। यथोक्तं सूत्रे-प्राकृतानां यदुपेक्षाचित्तं सर्वं तत् रूपनिश्रितं न रूपरागविमुक्तम् इति। अतो ज्ञायते प्राकृतानां नास्त्युपेक्षाचित्तमिति। यथोक्तं सूत्रे-सुखायां वेदनायां रागानुशयः इति। यदि नास्ति तस्य सुखा वेदना। कुत्र रागोऽनुशयीत।

यद्भवतो मतं-कदाचिददुःखासुखायां [वेदनायां] रागानुशयोऽनुशेत इति। तत् सूत्रे नास्ति वचनस्थानम्। उत्तमभूमौ च प्रवृत्ते कायचित्ते शान्तसुखे न महदनुगृहीते स्तः। यथोक्तम्-देवाः कल्पसहस्रमेकत्र निषीदन्ति इति। यदि [ते] दुःखोपविचारिणः न ते तदिर्यापथेषु दीर्घकालं स्थातुं शक्नुवन्ति। यथोक्तं सूत्रे-सप्तदिनानि समाविश्य विमुक्तिसुखं वेदयत इति। तत्र च प्रश्रब्धिसुखं परमम्। यथोक्तं सूत्रे प्रश्रब्धिरिति सुखा वेदना इति। अतो ज्ञायते सर्वासु भूमिषु अस्ति सुखा वेदनेति। यद्भवतो मतम्-कदाचित्प्रश्रब्धिसुखं सुखवेदनातो भिन्नमिति। तदयुक्तम्। यत्किञ्चिदनुग्राहकं कायगतं तत् सुखमित्युच्यते। अतः प्रश्रब्धिसुखं न सुखवेदनातो भिन्नम्।

(पृ) यद्यूर्ध्वधातुकसमाधिषु सुखदुःखसौमनस्यदौर्मनस्यानि सन्ति। कथं ध्यानसूत्रानुगुण्यं भवेत्। (उ) सूत्रमिदं धर्मतालक्षणविलोमकम्। यद्युपेक्ष्यते को दोषः। तत्र च सुखविहारः शान्तोऽनासङ्गरूपः। नोद्भवति औदारिको रागः प्रतिघो वा। तस्मात् उच्यते [तत्र] नास्ति सुखं नास्ति दुःखमिति। तत्र च सुखदुःखे सूक्ष्मे न प्रतीते स्तः। असिशस्त्रादि दुःखं बन्धमरणादि दौर्मनस्यञ्च नास्तीत्यतो नास्ति दुःखमिति। यथोच्यते रूपधातुरनुष्णाशीत इति। तत्रापि सन्ति चत्वारि महाभूतानि। कथं वक्तव्यम् अनुष्णाशीत इति। यदुच्यते त्रिषु ध्यानेषु सत्त्वा एककाया एकनिमित्ता इति। तत्राप्यस्ति आभाप्रविभागः। यथा वदन्ति-यो ध्यानविहारी न सम्यक् स्त्यानमिद्धौद्धत्यान्यपनयति सोऽविशुद्धाभ इति। यथाल्पज्ञः पुरुषोऽज्ञ इत्युच्यते। यथा च लौकिका वदन्ति अल्पलवणे भोजने अलवणमिति। एवं तत्र सौमनल्यं दौर्मनस्य ञ्च न प्रतीतमितो नास्तीत्युच्यते।

यद्भवद्भिरूक्तं नास्ति तत्र वितर्क इति। उक्तञ्च सूत्रे भगवता संज्ञाप्रत्ययो वितर्क इति। अत्र संज्ञायां सत्यां कथं नास्ति वितर्कः। अतो ज्ञायते यावद्भवाग्रमस्ति वितर्कधर्म इति। [चित्तस्य] औदारिकता वितर्क इति ध्यानद्वये निरुद्ध इत्युच्यते। तस्मादूर्ध्वधातुद्वयेऽपि सन्ति सुखदुःखादयः॥

इति वेदनास्कन्धः समाप्तः।

पञ्चवेदनेन्द्रियवर्गस्त्र्यशीतितमः।

८४ दुःखसत्यस्कन्धे संस्काराधिकारे चेतनावर्गः

सूत्र उक्तम्-षट् चेतनाकायाः संस्कारस्कन्ध इति। (पृ) का पुनश्चेतना। प्रार्थना प्राणिधानं चेतना। यथोक्तं सूत्रे-अवरचेतना अवरप्रार्थना अवरप्रणिधानम्। इति। (पृ) कस्मात् ज्ञायते प्रार्थना चेतना इति। (उ) उक्तं सूत्रे-अभिसंस्कुर्वन्तीति संस्काराः इति। स्कन्धाभिसंस्कारतृष्णा प्रार्थना। यथोक्तं सूत्रे अभिसंस्काराः तृष्णानिश्रिता इति। किञ्चोक्तं सूत्रे-यथापि [भिक्षवः] यवकलापी चतुर्महापथे विक्षिप्ता स्यात्। [अथ] षट् पुरुषा आगच्छेयुः। [व्याभङ्गिहस्तास्ते तां यवकलपी षडिभर्व्याभाङ्गभि] र्हन्युः। अथ सप्तमः पुरुष आगच्छेत्। [व्याभङ्गिहस्तः स यवकलापीं सप्तम्या व्यभङ्गया] हन्यात्। किं पुनरिदं भिक्षवो भवतां मनसि विपच्यते न वा। विपच्यते भगवान्। भगवानाह-एवमेवाश्रुतवान् पृथग्जनो नित्यं षट्‍स्पर्शैराहन्यते। एवं हन्यमानः पुनरायतिभवाय चेतयते। एवं हि स मोघपुरुषः सुहततरो भवति। इति। ज्ञातव्यं प्रार्थनैव चेतना इति। किञ्चाह-मनःसञ्चेतनाहारः अङ्गारकर्षवत् द्रष्टव्य इति। अङ्गारः कस्य दृष्टान्तः। आयतिभवाय चेतयत इत्यस्य। आयतिभवश्चाङ्गारकल्पः। सदा दुःखानां जनकत्वात्। किञ्चोक्तं सूत्रे-अस्मीति [भिक्षव] इञ्जितम्। अस्मीति [भिक्षवः] प्रपञ्चितं स्पन्दितं रागगत इति। यत्रास्मीति तत्रेञ्जितं मनस्कृतं प्रपञ्जितं स्पन्दितं रागगतम् इति। योऽभिसंस्कृतो धर्मः स रागगत इत्युच्यते। [अतो] ज्ञातव्यं प्रार्थनैव चेतना इति। किञ्चाह-यो बालो जन्मप्रभृति मैत्रीमभ्यस्यति सोऽकुशलं कर्म करोति चेतयते न वा। नो भगवन् इति। कामप्रार्थनयाकुशलं करोतीति तदर्थः। आह च चेतना कर्म चेतयित्वा चेति। तत्र चेतना मानसं कर्म। चेतयित्वा कर्म कायिकं वाचिकम्। चेतयित्वेति प्रार्थयित्वा। उपालिसूत्रे उक्तम्-निघण्टो नाथपुत्रः शीतोदकप्रतिक्षिप्त उष्णोदकप्रतिसेवी। स शीतोदकं प्रार्थयमानोऽलभमानः कालं कुर्यात्। मनस्सक्तदेवेषूपपद्यते। अयं शीतचेतनत्वात्तत्रोपपद्यत इति। अतो ज्ञायते प्रार्थनैव चेतना इति।

(पृ) यद्भवनाह-प्रार्थना चेतनेति। सा [प्रार्थना] तृष्णालक्षणा न चेतना। कस्मात्। सहेतुसप्रत्ययसूत्र उक्तम्-अश्रुतवतः पृथग्जनस्य यत्प्रार्थितं तृष्णैव सा इति। महानिदानसूत्र उक्तम्-तृष्णां प्रतीत्य पर्येषणा इत्यादि। किञ्चोक्तं सूत्रे-दुःखी भूयसा सुखार्थी किं न प्रार्थयते इति। आह च-यदा पुरुषः पञ्चकामगुणेषु रज्यते स राग एव प्रार्थना इति। अपि चाह-तृष्णाप्रत्ययमुपादानमिति पर्येषणं पूर्वं भवति पश्चादुपादानम् इति। पर्येषणमेव तृष्णा। तस्मात् प्रार्थना चेतनात्मिकेति भवतां मतमयुक्तम्। यदुक्तं भवता-प्रणिधानं चेतनेति। तदयुक्तम्। कस्मात् उपालिसूत्र उक्तम्-असञ्चेतनिकं कर्म न महासावद्यम्। असञ्चेतनिकमज्ञानपुरस्सरम्। लोकेऽपि ज्ञानं चेतनं मन्यते। यथा वदन्ति को ज्ञानी इदं कुर्यात्। कः सचेतन इदं कुर्यादिति। बुद्धिमानितीममर्थं व्यवहरन्ति। अतो ज्ञायते ज्ञानमेव चेतनेति।

अत्र ब्रूमः। प्रणिधानं समुदय इत्युच्यते। कर्माङ्गं प्रणिधानं चेतना। यथा कञ्चित्प्रणिदधन्नाह-अहमनागतेऽध्वनि ईदृशं कायं प्रतिलप्स्य इति। (पृ) यदि कर्माङ्गं प्रणिधानं चेतनेति। तदा नानास्रवा चेतना स्यात्। चेतना च तृष्णाहेतुः। यथोक्तंसूत्रे-मनःसञ्चेतनाया [भिक्षवः] आहारे परिज्ञाते तिस्रस्तृष्णाः परिज्ञाता भवन्ति। इति। अतो ज्ञायते चेतना तृष्णाहेतुरिति। (उ) यद्ब्रवीषि नानास्रवा चेतनेति। तदहमपि न ब्रवीमि अस्त्यनास्रवा चेतनेति। कस्मात्। अभिसंस्करोतीति संस्कार इति लक्षणात् चेतनेत्युच्यते। अनास्रवधर्मस्य अनभिसंस्कारलक्षणत्वात्। चेतनाह्यभिसंस्कारिणी न निरोधधर्मिणी। यदवोचः चेतना तृष्णाहेतुरिति। तदयुक्तम्। कस्मात्। सा हि तृष्णाकार्यं तृष्णाङ्गञ्च। न तृष्णाहेतुः। कार्यप्रहाणाद्धेतुप्रहाणमुक्तं यदुत मनःसञ्चेतनाहारप्रहाणात् तिसृणां तृष्णानां प्रहाणमिति। संस्कारादिप्रत्ययाश्चानेन प्रत्युक्ताः। अतो ज्ञायते तृष्णाङ्गं चेतनेति। तृष्णा हि द्विविधा हेतुभूता फलभूता चेति। हेतुः तृष्णा भवति फलं प्रार्थना। प्रार्थनैव च चेतना।

चोदयति। यदि हेत्ववस्थायां तृष्णा फलावस्थायां चेतना। तदा न चेतना तृष्णाङ्गं स्यात्। कस्मात्। यो धर्मो हेत्ववस्थः सोऽन्यः फलावस्थ श्चान्यः इत्यतो ज्ञायते चेतना न तृष्णाङ्गमिति। यथोक्तं सहेतुसप्रत्यय सूत्रे मूढस्य यत्प्रार्थितं तृष्णैव सा। तृष्णावतो यत्किञ्चिच्चेष्ठितं तत् कर्म इति। अतश्चेतना कर्मलक्षणानुगतेति तृष्णतोऽन्या। यस्य यस्मिन् वस्तुनि रागः तस्य तस्मिन् वस्तुनि प्रार्थना। अतो रागात् जायते प्रार्थना। प्रार्थनैव चेतना अतो रागश्चेतनाहेतुः।

अत्रोच्यते। पूर्वमुक्तं मया तृष्णाङ्गं चेतनेति। तृष्णायाः केवलमाद्यारम्भो रागः। रक्तस्या [रम्भः] प्रार्थना। यदवोचः प्रणिधानं [न चेतने] ति। न तद्युक्तम्। कस्मात्। प्रणिधानं चेतनाङ्गम्। पूर्व प्रणिधानाख्यं कर्म। पश्चात् कर्मणि प्रवृत्तिः। (पृ) चेतना मनसोऽन्या उतानन्या। (उ) मन एव चेतना। यथोक्तं धर्मपदे-

मनसा चेत् प्रदुष्ठेन भाषते वा करोति वा।
तत एनं दुःखमन्वेति। इति

प्रसन्नमनसाऽप्येवम्। अतो ज्ञायते मन एव चेतनेति। यदि चेतना न मनः। किं मानसं कर्म भवेत्। मानसं कर्म यन्मन आलम्बन उपविचरति। अतश्चेतना मन एव। सामान्यलक्षणतो मन‍उपविचारश्चेतनेत्युक्ताऽपि सा बाहुल्येन कुशलाकशलधर्मगतेत्युच्यते। तस्याश्चेतनाया बहवः प्रकारा भवन्ति। यदा पुरुषः परसत्त्वानां कुशलमकुशलं वा प्रार्थयते। तदा चेतनेत्याख्यायतो। यदाऽलब्धं वस्तु प्रार्थयते। तदा प्रार्थना। यदाऽऽयतिभवं प्रार्थयते। तदा प्रणिधानम्। अतो ज्ञायते एकैव चेतना नानानामभिरुच्यत इति।

दुःखसत्ये संस्काराधिकारे चेतनावर्गश्चतुरशीतितमः।

८५ स्पर्शवर्गः

अलम्बनगतं विज्ञानं स्पर्श इत्युच्यते। त्रयाणां सन्निपात इतीदं न स्पर्शलक्षणम्। कस्मात्। न हीन्द्रियमालम्बनं प्राप्नोति। अत इन्द्रियालम्बनयोर्न स्यात् सन्निपातः। तैस्त्रिभिरालम्बनं गृह्णातीति सन्निपात इत्युच्यते।

पृच्छति। अस्त्यन्यश्चैतसिकधर्मः स्पर्शाख्यः। कस्मात्। द्वादशनिदानसूत्रे ह्युक्तंस्पर्शप्रत्यया वेदनेति। आह च-स्पर्शो वेदनासंज्ञासंस्काराणां हेतुरिति। यदि नास्ति स धर्मः। को हेतुः स्यात्। अतो ज्ञायते अस्ति च चैतसिक धर्मः स्पर्शाख्य इति। षट् षट्‍कसूत्र उक्तं-षट स्पर्शकाया इति। किञ्चोक्तं सूत्रे अविद्यादीनां स्पर्शो [हेतु] र्द्रष्टव्य इति। यद्युच्यते हेतवः प्रज्ञप्तिधर्मा इति। न पुनः पृथक् वक्तव्यं स प्रज्ञप्तिधर्म इति। सूत्रे चास्ति द्विविधः स्पर्शः एक त्रयाणां सन्निपातः स्पर्श इति। अपरः त्रयाणां सन्निपातात् स्पर्श इति। अतो ज्ञायते द्विविधयोः स्पर्शयोरेकः स्वरूपसन् अपरः प्रज्ञप्तिसन्निति। यथा दिनकरमणिगोमेदकानां त्रयाणां विभिन्नं तेजः। चन्द्रकान्तयोश्चापो विभिन्नाः। पृथिव्यादीनामङ्‍कुरा विभिन्नाः। एवं स्पर्शश्चक्षुरादीनां विभिन्न इति किमस्त्यवद्यम्। यथा च भिक्षूणां समवायो न भिक्षुभ्योऽन्यः। स्कन्धानां समवायो न स्कन्धेभ्योऽन्यः। न वृक्षद्वयसंयोगो वृक्षद्वयाद्भिद्यते। न हस्तद्वयसंयोगो हस्तद्वयाद्भिद्यते। न बहुग्लानसमवायो बहुग्लानेभ्यो भिद्यते। एवं स्पर्शोऽपि न चक्षुरादिभ्यो भिद्यत इति नास्त्यवद्यम्।

अत्र ब्रूमः। प्रागुक्तं मया [यदा] चित्तमालम्बनं गृहाति तस्मिन् समये स्पर्श इति। अतश्चित्तं [यस्मिन्] काले विज्ञानोत्पत्तिहेतुर्भवति। तदनन्तरं वेदनादयो धर्मा उत्पद्यन्ते। षठ्‍षट्‍कसूत्रेऽप्युक्तं तस्मिन् समये स्पर्शं इति। इदमेव युक्तम्। न वयं स्वीकुर्मः स्पर्शोऽयं द्विविध इति। सर्वत्रोक्तं त्रयाणां सन्निपातः स्पर्श इति। स्पर्शद्वेविध्यसूत्रं सदपि धर्मलक्षणविरोधादुपेक्ष्यम्। अत उदाहृतसूत्रमहेतुः। यदि स्पर्शो भिद्यते जलतेजोवत्। तदा कारित्रमपि भिद्येत। न तु दृश्यते प्रत्येकं कारित्रभेदः। अतो ज्ञायते स स्पर्शो न त्रिभ्यो भिद्यत इति।

किञ्च यदि स्पर्शश्चैतसिकधर्मः तदा अन्येभ्यश्चैतसिकेभ्यो भिद्येत। कस्मात्। स्पर्शश्चैतसिकानां प्रत्ययः। नहि स्पर्शः स्पर्शस्य प्रत्ययो भवति। उत्पत्तिभेदान्न चैतसिक धर्मः। (पृ) स्पर्शविशेषात् स्पर्शप्रत्यया श्चैतसिका इति। न स्पर्शप्रत्ययः स्पर्शः। यथा वेदनाप्रत्यया तृष्णा न तृष्णाप्रत्यया वेदना। (उ) स्पर्शस्य किं विशेषलक्षणं यदन्यचैतसिकानां नोक्तं स्यात्। न वस्तुतोऽभिधीयमानमस्ति। अतोऽहेतुः। वेदनाऽऽद्यकालीना तृष्णाऽनन्तरकालीना इति वेदनाप्रत्यया तृष्णा न तु तृष्णाप्रत्यया वेदना। यदि स्पर्शो व्यतिरिक्तधर्मः। तल्लक्षणं वक्तव्यम्। न तूच्यत इति ज्ञातव्यं नास्ति विभिन्नः [स्पर्श] इति। भगवान् वैधर्म्येऽपि स्पर्शाख्यामाह। यथाह यो दुःखोपघातः स आगत्य जनकायं स्पृशतीति। आह च सुखवेदनास्पृष्टेन न प्रमत्तव्यम्। न दुःखवेदनास्पृष्टेन विद्वेष्टव्यम्। अस्यां वेदनायां स्पर्श इति संज्ञामाह। भगवान् सूचीलोमं यक्षमाह-तव संस्पर्शः पापक इति कायमपनयामि इति। यथा लोके वदन्ति सुख उष्णसंस्पर्श इति। तथा स्पर्शाहारमप्याहुः। पाणिस्पर्श इति च वदन्ति। अतः सर्वत्र कायविज्ञानविज्ञेये वस्तुनि स्पर्शसंज्ञोच्यते।

अन्यत्रचोक्तं-अन्धो न रूपं स्पृशति। रूपाद्यालम्बनेषु स्पर्शसंज्ञाञ्च वक्ति। इति। तत्स्पर्शव्यवहारस्यानियतत्वान्नास्ति च चैतसिकधर्मः पृथक्। यदुच्यते चैतसिकं, तत्स्पर्शलक्षणविरुद्धम्। कस्मात्। भगवानाह-त्रयाणां सन्निपातः स्पर्श इति। अतो ज्ञायते नास्ति पारमार्थिकः पृथक् चैतसिकधर्म इति। यो धर्मः कायगतः स स्पर्श इत्युच्यते। यत् वेदनादीनां चैतसिकानां हेतुक्रियां प्रयच्छति तस्मिन् समये स्पर्श इति नाम प्रदीयते॥

स्पर्शवर्गः पञ्चाशीतितमः।

८६ मनस्कारवर्गः

चित्तस्याभोगो मनस्कारः। स मनस्कार आभोगलक्षणः। अतः प्रतिमनस्कारं विभिन्नं चित्तमुत्पद्यते। वदन्ति च मनस्कारलक्षणं वस्तवधारणकृदिति। यथोक्तं सूत्रेयदि चक्षुराध्यात्मिकमायतनमनुपहतं भवति। रूपं नाह्यमायतनं पुरोवर्ति भवति। चित्तान्तरोत्पादकमनस्कारश्च नास्ति। तदा न चक्षुर्विज्ञानमुत्पद्यत इति।

(पृ) किं विज्ञानानां ज्ञानं सर्वं मनस्कारबलेनोत्पद्यते किं वा न। (उ) न। कस्मात्। विज्ञानानां ज्ञानोत्पादो नैकान्तिकः। कदाचिदाभोगबलेनोत्पद्यते यथा प्रबलरागादिवर्जितानाम्। कदाचिदिन्द्रियबलादुत्पद्यते यथालोकचक्षुष्कः कणमृजु परीक्षते। कदाचिदालम्बनबलादुत्पद्यते यथा दूरतः प्रदीपं पश्यन् तस्य कम्पं पश्यति। कदाचित्कुशलमभ्यासादुत्पद्यते यथा शिल्पकर्मादि। कदाचित्सत्यग्रहलक्षणेनोत्पद्यते। यथा रूपाध्यवसायः। कदाचिद्धर्मस्वरूपत उत्पद्यते यथा कल्पावसाने ध्यानम्। यदाचित्कालेनोत्पद्यते यथाल्पायुष्कानां सत्वानामकुशलं चित्तम्। कदाचिदुपपत्त्यायतनत उत्पद्यते यथा गवाजादीनां चित्तम्। कदाचित्कायबलात् उत्पद्यते यथा स्त्रीपुरुषादीनां चित्तम्। कदाचिद्वयोविशेषादुत्पद्यते यथा बालादीनां चित्तम्। कदाचित्क्लमथतन्द्रिभ्यामुत्पद्यते। कदाचित्कर्मबलादुत्पद्यते यथा कामानां वेदना। कदाचित्समाधिबलादुत्पद्यते यथैकत्र प्रतिबद्धचित्तो विज्ञाने प्रकर्षं प्रजानाति। कदाचित्समाधिनियमादुत्पद्यते यथाऽनावरणमार्गानन्तरं विमुच्यते। कदाचिच्चिरनिर्वेदादुत्पद्यते यथा कटुरसनिर्विण्णो मधुरसमभिलषति। कदाचिदभिरुचिवशादुत्पद्यते यथा रूपादीन् प्रति। कदाचिद्रूपदर्शनाभिलषितस्य न शब्दश्रवणे तृप्तिर्भवति। तथा नीलादावपि। सौकुमार्यादुत्पद्यते यथा लोमाक्षिगतं सत् चित्तस्य दुःखजनकं नान्यत्र गतम्। कदाचिद्दुःखमनादुत्पद्यते यथापगताक्षिरुजाऽन्नमास्वाद्यते। कदाचिदावरणापगमादुत्पद्यते यथा कामाद्यपगमे तद्दोषान् प्रजानाति। कदाचित्क्रमश उत्पद्यते। यथा अवरं प्रतीत्य मध्यममुत्पद्यते। मध्यमं प्रतीत्योत्तमम्। कदाचित्सर्वत-उत्पद्यते।

(पृ) यदि सर्वविज्ञानानां ज्ञानं क्रमलक्षणम्। कस्मादुच्यते चित्तान्तरजनकमनस्कारो नास्ति [पृथक] इति। (उ) तीर्थिकानां कृत [उच्यते]। तीर्थिका हि वदन्ति आत्ममनोयोगाद्विज्ञानज्ञानमुत्पद्यत इति। तद्व्‍यवहारदूषणाय प्रदर्शयति विज्ञानज्ञानानि समनन्तरप्रत्ययानुबन्धीनीति। अत एवमाह-कस्यचित् चित्तान्तरजनकमनस्कारेऽसति विज्ञानं नोत्पद्यत इति। कस्मात्। समनन्तरप्रत्ययत्वात्तु विज्ञानज्ञानमेकैकं प्रतीत्योत्पद्यते। तद्यथा वृक्षं छित्त्वाऽथ पातयति। पूर्वमुक्तं-विज्ञानानि नैककालिकानीति। हेतुप्रत्ययवशाद्विज्ञानानां ज्ञानमैकैकं क्रमेणोद्यते। विज्ञानधर्माः क्रमिकाः स्युः। नात्ममनोयोगापेक्षिणः। यथा बाह्यवस्तूनि अङ्कुरकाण्डनालपत्रपुष्पफलानि क्रमिकानि भवन्ति। तथाऽऽध्यात्मिकधर्मा अपि। विज्ञानज्ञानमैकैकं क्रमिकं भवति।

सम्यक् मिथ्येति मनस्कारो द्विविधः। सम्यगिति यत् योनिशो [मनस्कारः]। यथा वदन्ति सम्यक् प्रश्नः सम्यग् दूषणं, दूषणप्रश्नयोरिदं सयुक्ति समाधानमिति। धर्माणामनित्यतादि पारमार्थिकप्रश्नः सम्यगित्युच्यते। साध्यसाधनानुविधानञ्च सम्यगित्युच्यते। अतो ज्ञायते युक्तयनुयायिमनस्कारः तत्त्वमनस्कार इत्यादयः सम्यङ् मनस्काराः। यथापुद्गलं यथाकालं मनस्कारश्च सम्यङ् मनस्कारः। यथा कामबहुलस्याशुभभावना सम्यङ्‍मनस्कारः। चित्तेऽबलीने व्युत्थानलक्षणं स्मयङ्‍मनस्कारः। एतद्विपरीतं मिथ्यामनस्कारः। सम्यङ्‍मनस्कारः सर्वगुणान् सम्पादयति। मिथ्यामनस्कारः सर्वक्लेशानुत्थापयति।

मनस्कारवर्गः षडशीतितमः।

८७ छन्दवर्गः

साभिलाषं चित्तं छन्द‍इत्युच्यते। कस्मात्। सूत्रमाह कामच्छन्द इति। कामान् छन्दयतीति कामच्छन्दः। उक्तञ्च सूत्रे-छन्दो धर्ममूलम् इति। छन्द-प्रार्थनया सर्वधर्मानाप्नोतीति धर्ममूलमित्युच्यते। किञ्चाह-यदि भिक्षवो मम शासने तीव्रच्छन्दा [वर्तध्वे]। तद मम शासनं सुचिरं तिष्ठेत् इति। यच्चित्तैकतानत्वेनाभिलष्यते। तत्तीव्रच्छन्द इत्युच्यते। ऋद्धिपादे चोक्तम्-छन्दसमाधिः वीर्यसमाधिः चित्तसमाधिर्मीमांसासमाधिरिति। यच्चित्तेनाभिलष्यते स छन्दः। अयं वीर्यसहकारिणा प्रज्ञासमाधिं सञ्चिनोतीत्येभ्यश्चतुर्भ्योऽभिलषितमृद्ध्यङ्गमिति नामभाग् भवति। आह च-त्वं विहायसा गमनं छन्दयसि इति। तेनखलु समयेन स भिक्षुः पूर्वं स्वाध्यायबहुलो विहरति। सोऽपरेण समयेनाल्पोत्सुकस्तूष्णींभूतः कषाययति। अथ खलु तस्मिन्वनषण्डे अधिवसन्ती देवता तस्य भिक्षोर्धर्मशृण्वन्ती येन स भिक्षुः तेनोपसङ्‍क्रान्तः। उपसङ्‍क्रम्य तं भिक्षुं गाथयाऽध्यभाषत।

कस्मात् धर्मपदानि त्वं भिक्षुर्नाध्येपि भिक्षुभिः सुखं वसन्।
श्रुत्वा च धर्मं लभते प्रसादं दृष्टे च धर्मे लभते प्रशंसाम्॥ इति।
अभुत् पूर्वं धर्मपदेषु छन्दो यावद्विरागेण समागतोऽस्मि।
यतो विरागेण समागतोऽस्मि यत्किञ्चिदृष्टं श्रुतं वा मतं वा।
आज्ञाय निक्षेपणमाहुः सन्त इति।
अतो ज्ञायतेऽभिलषितं छन्द इति। अभिलषितं प्रतीत्य कामेषुछन्द इति कामच्छन्दः।

छन्दवर्गः सप्ताशीतितमः।

८८ प्रीतिवर्गः

अभीप्सिते चित्ताभिरतिः प्रीतिः। यथोक्तं-सत्त्वा धातुलक्षणेनाकुशलप्रीत्या अकुशलानुयायिनः। कुशलेन कुशलप्रियाः इतीयं प्रीतिरित्युच्यते। (पृ) न धातुः प्रीतिर्भवति। कस्मात्। भगवान् यत् सत्त्वानां नानाधातून् प्रजानाति तत् धातुज्ञानबलम्। यत् नानाधिमुक्तीः प्रजानाति तदधिमुक्तिज्ञानबलम्। अतो धातुः प्रीतिश्च (अधिमुक्तिः) विभिन्नेतिः। (उ) चिरकालाभ्यासोपचितं चित्तं धातुरित्युच्यते। यथाधातुच प्रीतिरुत्पद्यते। अतश्चिरकालमुपचितं चित्तज्ञानं धातुज्ञानबलम्। यथाधातुसमुत्पन्ना प्रीतिरिति ज्ञानम् अधिमुक्तिज्ञानबलमिति। अत आह-सत्त्वानां यथाधातु सन्तानमनुवर्तत इति। चिरसञ्चिताकुशलचित्तस्याकुशले परा प्रीतिर्भवति। चिरसञ्चितकुशलचित्तस्य कुशले प्रीतिसुखम्। शीतार्तस्योष्णे प्रीतिर्भवतीदं दृष्टहेतुकं न धातुजम्। इत्ययं धातोः प्रीतेः प्रविभागः॥

प्रितिवर्गोऽष्टाशीतितमः।

८९ श्रद्धावर्गः

[चित्तस्य] विषयसमाधिः श्रद्धालक्षणम्। (पृ) ननु नियतसमाधिरयं प्रज्ञालक्षणम्। नियतसमाधिः प्रहीणविचिकित्सस्य भवतीति प्रज्ञालक्षणम्। (उ) धर्मं स्वयमदृष्ट्वा आर्योपदेशवशाल्लब्धश्चेतसः प्रसादः श्रद्धेत्युच्यते। (पृ) तथा चेत् स्वयं धर्मदर्शिनः श्रद्धा न स्यात्। (उ) सत्यमेवम्। अर्हन्नश्रद्धावान् भवति। यथोक्तं धर्मपदे-

अश्रद्धश्चाकृतज्ञश्च सन्धिच्छेदश्च यो नरः।
[हतावकाशो वान्ताशः] स वै उत्तमपूरुषः॥ इति।

किञ्चोक्तं सूत्रे- अहं भगवन् अस्मिन् वस्तुनि यथा भगवद्वचनं श्रद्धध इति। यत् स्वयं धरदर्शिनश्चित्तं प्रसीदति। सा [ऽपि] श्रद्धेत्युच्यते। पूर्वं धर्मं श्रुत्वा पश्चात्कायेन साक्षात्करोति। तस्येयं चिन्ता भवति स धर्मः परमार्थसत्यो न मृषेति, चित्तञ्च प्रसीदति। सा श्रद्धा चतुर्षुवेत्यप्रसादेष्वन्तर्गता। तद्यथा रोगी पूर्वं भिषग्वचने श्रद्दधान औषधमुपसेव्य रोगान्मुक्तः पश्चात्तस्मिन् भिषजि प्रसन्नचित्तो भवति। सा श्रद्धेत्युच्यते।

श्रद्धेयं द्विविधा मोहजा ज्ञानजेति। मोहजा यत् कुशलाकुशलमचिन्तयतः पूरणाद्यसदाचार्येषूत्पद्यमानश्चित्तप्रसादः। ज्ञानजा यथा चतुर्षु [अवेत्य] प्रसादेषु बुद्धादिषु चित्तप्रसादः। सा त्रिधा विभक्ता कुशला अकुशला अव्याकृता चेति। (पृ) अकुशला श्रद्धा क्लेशमहाभूमिगतैव आश्राद्ध्य धर्मः। नेयं श्रद्धा भवति। (उ) नायमाश्राद्ध्यधर्मः। श्रद्धा च प्रसादलक्षणा। अकुशला श्रद्धाऽपि प्रसादलक्षणैव। तथा नो चेत् अकुशला वेदना वेदना न स्यात्। न च तद्युज्यते वस्तुतः। ततस्त्रिधैव विभक्ता। या श्रद्धा इन्द्रियेषु गणिता विमुक्त्यनुगामिनी सप्तत्रिंशब्दोधिपक्षिकेषु गता सा नियमेन कुशलैव।

श्रद्धावर्ग एकोननवतितमः।

९० व्यवसायवर्गः

चेतसोऽभ्युत्साहो व्यवसाय इत्युच्यते। सदान्यधर्मान्निश्रयते मनस्कारं वा समाधिं वा। तत्राम्युत्साहः सदा चित्तैकाग्रतासमुदाचारः स व्यवसाय इत्युच्यते। त्रिविधो व्यवसायः कुशलोऽकुशलोऽव्याकृत इति। यत् चतुर्षु सम्यक्‌प्रधानेषु अन्तर्गतः स कुशलः। अन्योऽकुशलः। योगी योऽकुशलानामादीनवे कुशलानामनिशंसे च श्रद्धधते। तस्य पश्चादुत्पद्यते व्यवसायोऽकुशलानां प्रहाणाय कुशलानां समादानाय। अतः श्रद्धेन्द्रियसमनन्तरं वीर्येन्द्रियमुच्यते। कुशधर्मगतो व्यवसायो वीर्यमित्याख्यायते। सर्वहितानां मूलं करोति। तद्व्‍यवसायसहकारतया मनस्कारादयो धर्मा महाफलप्रापका भवन्ति। यथा दहनः समीरणप्रतिलब्धः सर्वान् दहति॥

व्यवसायवर्गो नवतितमः।

९१ स्मृतिवर्गः

अनुभूतपूर्वस्य ज्ञानं स्मृतिः। यथोक्तं सूत्रे- यत् चिरविप्रकृष्टानुभूतं स्मरति न प्रमुषति सा स्मृतिरित्युच्यते।

(पृ) सा स्मृतिस्त्रयध्वर्तिनी। कस्मात्। उक्तं हिसूत्रे स्मृतिं सर्वार्थिकां [वदामी] ति। सा स्मृतिः चतुःस्मृत्युपस्थानगता। चत्वारि स्मृत्युपस्थानानि त्रयध्वालम्बनानि च। कस्मात्पुनरतीतमात्रालम्बनेति। (उ) तद्वचनं सर्वकालेन भवति। न तु त्र्यध्वा भवति। यस्मिन् समये चित्तमुद्धतं भवति। तदा स्मृतिरुभयत्रानुगा। सा सर्वत्रगेत्युच्यते। यदुक्तं भवता चत्वारि स्मृत्युपस्थानानि त्र्यध्वालम्बनानीति। तत्र प्रत्युत्पन्ना प्रज्ञैव न तु स्मृतिः। अतस्तथागतो [यदा] पूर्वं स्मृतिनाम्ना विमुक्तिमुक्तवान् तदा तामेव प्रज्ञेत्यवोचत्।



(पू) कथं विज्ञानान्तरेणानुभूतं विज्ञानान्तरं स्मरति। (उ) स्मृतेर्धर्मं एवं यत् स्वसन्ताने यो धर्मः [पूर्व] मुत्पन्ननिरुद्धः तमेव [स्वसन्तानिकं] विप्रकृष्टं विज्ञानान्तरमालम्बत इति। ज्ञानानां विज्ञानधर्मश्च तथा यत् विज्ञानान्तरानुमूतं विज्ञानान्तरं विजानातीति। यथा चक्षुर्विज्ञानेन विज्ञातं रूपं मनोविज्ञानं विजानाति। अन्यपुद्गलेनानुभूतमन्यः पुद्गलो विजानाति। यथार्यपुद्गला यावत्पूर्वनिवासे देहान्तरानुभूतं स्मृतिबलाद्विजानान्ति। (पू) यदि पूर्वानुभूतस्य ज्ञानं स्मृतिरिति। आधुनिकविज्ञप्त्यादिधर्माः स्मृतयः स्युः। कस्मात्। तद्धर्माणामपि पूर्वानुभूतोपविचाररूपत्वात्। (उ) विज्ञप्त्यादिधर्मा अपि स्मृतय इत्युच्यन्ते। यथा भगवान् सल्यकं नाथपुत्रमवोचत् पूर्वं मनसि कृत्वा व्याकुरुष्व इति। आह च पूर्वानुभुक्तसुखस्मरणे क्लेश आविर्भवतीति। अतो विज्ञप्त्यादिधर्मा अपि पूर्ववस्त्वनुस्मरणरूपा स्मृतय इत्युच्यन्ते। स्मृतिरियं गृहीतलक्षणाज्जाता। यस्मिन् धर्मे गृहीतलक्षणमस्ति। तत्र स्मृतिर्भवति नान्यथा।

समाधिः प्रज्ञा च समाधिवर्गे प्रज्ञावर्गे च वक्ष्यते॥

स्मृतिवर्ग एकनवतितमः।

९२ वितर्कविचारवर्गः

यत् चित्तं व्यग्रं मुहर्मुहुरालम्भकं स वितर्कः। समाहितचित्तस्याप्यस्ति औदारिकता सूक्ष्मता। [तत्र यत्] औदारिकं स वितर्कः। सूक्ष्मसमाधानाभावादौदारिकं चित्तमित्युच्यते। यथोक्तं सूत्रे-भगवानाह-सवितर्कं सविचारं प्रथमध्यानमुपसम्पद्य विहरामीति। अतः प्रथमध्यानमसूक्ष्मसमाहितमिति सवितर्कं भवति। या चित्तस्य व्यग्रता किञ्चित्सूक्ष्मता स विचारः। इमौ द्वौ त्रैधातुकौ। चित्तस्यौदारिकसूक्ष्मलक्षणत्वात्। व्यग्रं विक्षिप्तं चित्तं वितर्कविचारौ भवतः। तल्लक्षणत्वात् सर्वत्र स्याताम्। अप्रत्यक्षं वस्तु अनुमित्या ज्ञायते। एवं स्यान्नैवं स्यादित्यभ्यूहो वितर्कः। अतोऽप्रत्यक्षवस्तुनोऽनुवितर्कः सम्यग्वितर्को वा मिथ्यावितर्को वा इति तं कथयामः। निर्विकल्पानुवितर्कः सम्यक् दृष्टिरित्याख्यायते। अयं त्रिधाज्ञातः। मिथ्यावितर्को विपरीतमनस्कारः यदनित्ये नित्यमित्यादिः। सम्यग्वितर्कः यदप्रतिलब्धं तत्त्वज्ञानमनुमितिलक्षणेन ज्ञानेन लब्ध्वा योगी निर्वेधभागीयकुशलमूले वर्तते। इयं क्षान्तिरित्युच्यते। एवमन्यमार्गेणानुयायि अनुमितिज्ञानं सम्यग्वितर्कः। तत्र यत् संज़्ञानुस्मरणविकल्पापोढं तत् प्रत्यक्षमित्युच्यते। तस्मिन्नेव वितर्के अनेन हेतुना एवं भवति अनेन हेतुना नैवं भवति इति चिन्तना विचारणा वा स विचारः।

(पृ) केचिदाहुः-वितर्कविचारावेकाग्रतान्तर्गताविति। कथमिदम्। (उ) मैवम्। कस्मात्। उक्तं खलु भवद्भिर्घण्टाताडनदृष्टान्तः। आद्यशब्द [समो] वितर्कः। अन्यशब्द [समो] विचारः। तरङ्गदृष्टान्तश्च [उक्तः]। य औदारिकः [तत्समो] वितर्कः। यः सूक्ष्मः [तत्समो] विचारः। कालदेशभेदान्न चित्तैकाग्रता स्यात्। निर्विकल्पकत्वात्पञ्च विज्ञानानि न सवितर्कविचारलक्षणानि भवन्ति॥

वितर्कविचारवर्गो द्विनवतितमः।

९३ अन्यचैतसिकवर्गः

यत् कुशलस्यानाचरणं मिथ्याचरणं वा स प्रमादः। न प्रमादाख्योऽन्य एकधर्मोऽस्ति। तस्मिन् समये चित्तसमुदाचारः प्रमादः इत्युच्यते। तद्विपरीतोऽप्रमादः। यः कुशलश्चित्तसमुदाचारोऽप्रमादादन्यः सोऽपि धर्मान्तरम्। अकुशलानुगतं चित्तं प्रमादः। कुशलानुगतन्तु अप्रमादः।

कुशलमूलमिति अलोभोऽद्वेषोऽमोहः। योनिशोमनस्काराशिरस्काऽनासक्तिरलोभः। मैत्रीकरुणाशिरस्कः क्रोधानुत्पादोऽद्वेषः। सम्यद्गर्शनशिरस्कोऽभ्रान्तोऽविपर्ययः अमोहः। अलोभो नाम नास्त्येकं धर्मान्तरम्।

केचिदाहुः लोभाभावोऽलोभ इति। न युक्तमिदम्। कस्मात्। लोभाभावोऽभावधर्मः। कथमभावो धर्मस्य हेतुः। अद्वेषामोहावप्येवम्। तत्रायाणामकुशलमूलानां विपरीतानि त्रीणि कुशलमूलान्युच्यन्ते। मदमानादयोऽप्यकुशलमूलानि स्युः। संक्षेपतस्त्रीण्येवाकुशलमूलान्युक्तानि। वक्ष्यन्ते चाकुशलवर्गे।

अव्याकृतमूलमिति। केचिद्वदन्ति-चत्वार्यव्याकृतमूलानि-तृष्णा दृष्टिः मानमविद्येति। [अन्ये] केचिदाहुः त्रीणि तृष्णा अविद्या प्रज्ञा इति। नैतद्भगवतोक्तम्। अव्याकृतानुगं चित्तं यद्धेतुजं स हेतुरव्याकृतमूलं भवति। कायवाक्कर्मणी प्रायोऽव्याकृतानुगे इति चित्तमुत्पद्यते। अव्याकृतचित्तमव्याकृतमूलमित्युच्यते।

चित्तसमाचरणकाले यत् कायश्चित्तं दौष्ठल्यविगतं प्रशान्तं भवति। तस्मिन् समये प्रश्रब्धिरित्युच्यते।

नानावस्तुषु चित्त [समाचरण] काले उपेक्षेत्युच्यते। यत् वेदनासु अनभिज्ञा चित्तसमाचरणं सोपेक्षा। ध्यानेषु यत् सुखदुःखविविक्तं विमुक्तिपरायणं चित्तसमाचरणं सोपेक्षा। सप्तबोध्यङ्गेषु अलीनमकम्पसमतादि यच्चित्तसमाचरणं सोपेक्षा। प्रीतिदौर्मनस्यविनिर्मुक्तं समतादिप्रतिलब्धं चित्तमुपेक्षा। चतुर्षु अप्रमाणेषु वैरमैत्रविगतं चित्तमुपेक्षा। एवं नानाधर्माणां विरोधाच्चैतसिकानां विशेषोऽप्रमाणः॥

अन्यचैतसिकवर्गस्त्रिनवतितमः।

९४ विप्रयुक्तसंस्कारवर्गः

चित्तविप्रयुक्तसंस्काराः यदुत प्राप्तिः, अप्राप्तिः असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकं जीवितेन्द्रियं जातिः व्ययः स्थितिः अन्यथात्वं जरा मरणं नामकायः पदकायो व्यञ्जनकायः पृथग्जनत्वं इत्यादयः।

प्राप्तिरिति। सत्त्वानां कृते धर्माणां समन्वागमः प्राप्तिः। प्रत्युत्पन्नाध्वनि पञ्चस्कन्धसमन्वागतः सत्त्वः प्राप्त इत्युच्यते। अतीताध्वनि यानि कुशलाकुशलकर्माणि अननुभूतविपाकानि। तद्धर्मसमन्वागतः सत्त्वः। यथोक्तं सूत्रे-कुशलधर्मसमन्वागतोऽकुशलधर्मसमन्वागतश्च पुद्‍गल इति। (पृ) केचिदाहुः-अतीतकुशलाकुशलकायवाक्कर्मसमन्वागतः। यथा प्रव्रजितः अतीतशीलसंवरसमन्वागत इति। कथमिदम्। (उ) सर्वेषां समन्वागमः। कस्मात्। उक्तं हि सूत्रे यः पुण्यं पापञ्च करोति। तस्य तद्विद्यमानमेव। तत् द्वयं तत्कायमनुपतति रूपानुपातिच्छायावत् इति। किञ्चोक्तं सूत्रे-मृतस्य पुण्यं न प्रणश्यति यदुत फलप्रापकमेव। यदसमन्वागतं पुण्यपापं कर्म न तत्फलप्रापकम्। तानि कर्माणि नश्यन्ति। इति।

(पृ) अतीतसंवरस्य न समन्वागमः स्यात्। कस्मात्। भवतोक्तम् अतीतधर्मो निरुद्धः। अनागतोऽविद्यमान इति। प्रत्युत्पन्नश्च न सदा कुशलचित्तवत्त्वे क्षमः। कथं शीलसंवरसमन्वागतः स्यात्। (उ) पुरुषः प्रत्युत्पन्नेन संवरेण समन्वागतो नातीतेन। यथा प्रत्युत्पन्नक्लिष्टात् क्लिष्टम्, तथा प्रत्युत्पन्नशीलात् शीलं भवति। नातीतात्। [यः] पूर्वं स्वीकृत्यापरित्यक्तवान् [सः] अतीतसमन्वागत इत्युच्यते।

(पृ) आभिधर्मिका आहुः सत्त्वा अनागताध्वनीनकुशलाकुशलचित्तसमन्वागता इति। तत्कथमिदम्। (उ) न समन्वागताः। कस्मात्। अकृताभ्यागमात्। अतोऽनागतासमन्वागमः प्राप्तिरित्युच्यते। न चास्ति प्राप्त्याख्यः पृथक्‌‍चित्तविप्रयुक्तधर्मः। तद्विपरिताऽप्राप्तिरपि नास्ति पृथक्‌‍चित्तविप्रयुक्तधर्मः।

असंज्ञिसमापत्तिरित्ययं समापत्तिधर्मो नास्ति। कस्मात्। न हि निरुध्यन्ते पृथग्जनानां चित्तचैतसिकधर्मा इति पश्चाद्वक्ष्यते। चित्तचैतसिकानां सूक्ष्मतया दुरवबोधात् असंज्ञीति नाम। आसंज्ञिकमप्येवम्। निरोधसमापत्तिरिति। चित्तनिरोधे समुदाचाराभावान्निरोधसमापत्तिरिति नाम। स च नास्ति धर्मान्तरम्। निर्वाणवत्। जीवितेन्द्रियमिति। कर्मप्रत्ययः पञ्चस्कन्धसन्तानो जीवितमित्युच्यते। जीवितञ्च कर्मणो मूलमिति जीवितेन्द्रियमित्युच्यते। जातिरिति। पञ्चस्कन्धानां प्रत्युत्पन्नाध्वा जातिः। प्रत्युत्पन्नाध्वपरित्यागो व्ययः। सन्तन्यमानत्वं स्थितिः। स्थितिपरिणामोऽन्यथात्वम्। न सन्ति पृथक्‌जातिव्ययादयो धर्माः। भगवतः शासनं गभीरं यत्प्रत्ययानां सामग्र्या धर्मा उत्पद्यन्त इति। अतो नास्ति कश्चिद्धर्मो धर्मान्तरस्योत्पादकः। उक्तं हि-चक्षूरूपादयश्चक्षुर्विज्ञानस्य प्रत्यया इति। न तत्रोक्तं जातिरस्तीति। अतो नास्ति जातिरित्यनवद्यम्।

किञ्च वदन्ति जात्यादयो धर्मा एककालीना इति। य एककालीनः स निरुद्ध एव। तत्र जात्यादयः किमर्था इति विचारयितव्यम्। द्वादशनिदाने च भगवान् स्वयमाह जातेरर्थम्। या तेषां तेषां सत्त्वानां तस्मिन् तस्मिन् [सत्त्वनिकाये] जातिः स्कन्धानां प्रतिलाभः....... [सा जातिः] इति। अतः प्रत्युत्पन्नाध्वनि स्कन्धानामाद्यलाभो जातिः। आह च-स्कन्धानां च्युतिरन्तहाणिर्मरणमिति। आह च-स्कन्धानां जीर्णता भुग्नता जरेति। [अतो] न पृथक् स्तो जरामरणधर्मौ।

नामकाय इति। व्यञ्जनेभ्य उत्पन्नं नाम यथा वदन्ति देवदत्त इति। यथाव्यञ्जनमर्थसाधनं पदम्। व्यञ्जनानि अक्षराणि। केचिदाहुः-नामपदव्यञ्जनकायाश्चितविप्रयुक्तसंस्कारा इति। तदयुक्तम्। धर्मा इमे वाक्‌स्वभावा धर्मायतनसंगृहीताः।

(पृ) अस्ति पृथकग्जनत्वं नाम चित्तविप्रयुक्तसंस्कार इति। [केचिद्वदन्ति]। कथमिदम्। (उ) न पृथग्जनत्वं पुथग्जनादन्यत्। यद्यस्ति तदन्यत्। अन्ये घटत्वादयोऽप्यनुभूयेरन्। संख्यापरिणामैकत्वपृथक्‌त्वसंयोगविभागपरत्वापरत्वादयो धर्माः पृथक् स्युः। तीर्थिकानां हि सूत्रेषूक्तं-अन्यो घटोऽन्यत् घटत्वम्। घटत्वं प्रतीत्य ज्ञायतेऽयं घट इति। रूपमन्यत् रूपत्वमन्यत् इति। तदयुक्तम्। कस्मात्। तत्त्वं तत्स्वभावः। यदि ब्रवीषि पृथग्जनत्वमन्यदिति। तदा रूपं स्वभावं विना स्यात्, रूपत्वापेक्षित्वात्। तत्तु न युज्यते। अतो गभीरमननुविचिन्त्य ववीषि-अस्ति पृथग्जनत्वं पृथगिति।

आभिधर्मिकास्तीर्थिकग्रन्थानभ्यस्याभिधर्मशास्त्रमारचयन्तो वदन्ति सन्ति पृथकग्जनत्वादयो धर्माः पृथगिति। अन्य आभिधर्मिका अपि वदन्ति। सन्ति पृथक् तथताभूतकोटिप्रतीत्यसमुत्पादादयोऽसंस्कृतधर्मा इति। अतो गभीरमिमं नयमनुविचिन्त्यमा रुतमनुवर्तध्वम्॥

विप्रयुक्तसंस्कारवर्गश्चतुर्नवतितमः

[इति] दुःखसत्यस्कन्धः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project