Digital Sanskrit Buddhist Canon

1 अथ प्रस्थानस्कन्धः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1 atha prasthānaskandhaḥ
श्रीरस्तु
सत्यसिद्धिशास्त्रम्


श्रीमदाचार्यहरिवर्मणः कृतिः
१ प्रस्थानस्कन्धे बुद्धरत्नाधिकारे
आद्यसम्पद्वर्ग
१. अभिवन्द्याभिवन्द्यं प्राक् सम्यक् सम्बुद्धमात्मना।
सर्वज्ञमर्हच्छास्तारं महान्तं लोकसंहितम्॥

२. सुविशुद्धञ्च सद्धर्मं आर्यश्रावकमण्डलम्।
व्याचिकीर्षामि लोकानां हिताय जिनभाषणम्॥

३. शास्त्रं सूत्रान्वितं सम्यक् धर्मताऽप्रविलोमकम्।
शमोपगामि वै सम्यक् ज्ञानशास्त्रमितीर्यते॥

४. न दृष्टौ चन्द्रसूर्यौ च प्रकृत्यातिप्रभास्वरौ।
धूमाभ्रधूलीमिहिकामुखैः व्योम्नि यथाऽऽवृत्तौ॥

५. मिथ्याशास्त्रपरीतः सत्सूत्रार्थो न प्रकाशते।
सदर्थस्यास्फुटीभावात् कुज्ञानस्योद्धाटितं मुखम्॥

६. आपत्तिदुर्यशश्चित्तकौकृत्यक्कमथादयः।
चित्तंविक्षेपकायासाः कुज्ञानोद्धाटिता इमे॥

७. आपत्तिमुख्यानायासान् योऽपोहितुमिच्छति।
सम्यक् शास्त्रेच्छया गच्छेत् गभीरज्ञानिनं स च॥

८. निषेवणञ्च तस्यैव सम्यक् छास्त्रस्य मूलकम्।
सच्छास्त्रहेतोरुत्कृष्टपुण्याद्याः प्रभवन्ति हि॥

९. शतसाहस्रदुःशास्त्रेष्वधीती तीक्ष्णधीरपि।
प्रतिभानञ्च कीर्तिञ्च लाभान्नाप्नोति संसदि॥

१०. बुद्धधर्मवरं ज्ञात्वा भाषणं सुखवाहि च।
चिरकालञ्च धर्मस्य स्थितये न तु कीर्तये॥

११. निषेव्य भिन्नवादांश्च प्रज्ञया विबुधाशयान्।
तत्त्वशास्त्रं चिकीर्षामि सर्वज्ञज्ञानमात्रकम्॥

१२. अश्रौषीत्सर्वशो बुद्धो भिन्नवादांश्च भिक्षुकान्।
अतस्त्रिपिटकस्यार्थं समीकर्तुं समारभे॥

अत्र विचार्यते। (पृ) ननु भवता सत्यसिद्धिशास्त्रं वक्ष्यत इति ज्ञात्‌मस्माभिः। आदौ भवतोक्तं अभिवद्याभिवन्द्यं प्रागिति। स च बुदो [भगवान्]। कस्मात् तस्य बुद्ध इत्याख्या। केन गुणेनाभिवन्द्यः। (उ) भगवान् प्रकृत्या मनुष्यभूतः सर्वाकारज्ञानेन सर्वधर्माणां स्वलक्षणविभागान् प्रजानाति। सर्वाकुशलविनिर्मुक्तः सञ्चितसर्वकुशलः सर्वसत्त्वानां हितैषी चेत्यतो बुद्ध इत्युच्यते। [सत्त्वान्] शिक्षयितुमुपदिष्टं धर्म इत्युच्यते। तं धर्मं ये प्रतिपद्यन्ते ते सङ्घ इत्युच्यन्ते। इत्येतेषां त्रिरत्नानामभिवन्दननिदानं वक्ष्ये। भगवान् पञ्च[धर्म]स्कन्धसंपन्नः इत्यतो देवमनुष्याणां पूज्यः।

(पृ) अन्येऽपि आर्यपुग्दलाः पञ्चधर्मस्कन्धसमन्विताः। तथागतस्य को विशेषः। (उ) तथागतस्य पञ्चगुणस्कन्धसंपदः परिशुद्धाः। तत्कस्य हेतोः। कायिकादिषु कर्मसु अप्रमत्तत्वात् शीलस्कन्धसंपत् [परिशुद्धा]। भगवान् शीलसंवर एवाविपन्नः। किमुत वक्तव्यं मूलापत्तौ। किञ्च चिरसञ्चितमैत्रीकस्य नाकुशलचित्तमुदेति। यथोक्तं सूत्रे-भगवानवोचदानन्दम्। आजन्म यो मैत्रीमभ्यस्यति तस्याकुशलचित्तमुदेति न वा। नो भगवन् इति। तथागतश्चिरसञ्चितकुशलस्वभावः, नात्मत्राणार्थं किन्तु अपकीर्तिभीरुतया संवरशीलं धत्ते। अप्रमाणबुद्धेषु दीर्घाभ्यस्तशीलचर्यः उन्मूलितत्रिविषमूलात्यन्तनिश्शेषवासनः। इत्यादिभिः प्रत्ययैः शीलस्कन्धसम्पन्नः।

समाधिस्कन्धसम्पन्नः। तथागत इमं समाधिं निश्रित्य सर्वज्ञज्ञानं लब्धवान्। अतः समाधिस्कन्धसम्पन्न इति ज्ञायते। यथा घृततैलबहुलः प्रदीपः वर्तिकामहिम्ना महान् प्रकाशते। तथागतः सुनिरूढस्तम्भवत् दृढसमाधिकः। अन्ये तु जलरूढस्तम्भवत् अप्रतिलब्धचिरसमाधिकाः। तथागतस्य ध्यानसमाधिरप्रमाणकल्पेषु क्रमशः संसिद्धः। अत स्तं परिपूरयति। तथागतस्य समाधिः पुरुषं स्थानं धर्मोपदेशं वा इत्यादिप्रत्ययगणान् नोपक्षते। न तथाऽन्येषाम्। तथागतः सदा गभीरभावितसमाधिर्भवति। यथा कश्चित् आत्मानं संरक्षन् सदा स्मरति न विस्मरति। तथागतः ध्यानसमाधिमुपसम्पद्य न चित्तबलमधितिष्ठति। तद्यथा कश्चित् स्वावसंथं प्राप्य वदति क्षेमप्राप्तः अखिन्न इति। न समाधिस्थस्तथागतः पुनरेवम्। अत उच्यते तथागतः नित्यसमाधिस्थित इति। ध्यानसमाधिप्रकम्पिनो महाप्रामोद्यादयो धर्माः तथागतस्य सर्वे प्रहीणाः। चिरसमाधिविपाकप्रतिलब्धैश्वर्यदिव्याभिज्ञानां परमोऽग्रणीः। ऋद्धिविधिना एकस्मिन्नेव क्षणे दशदिक्षु अप्रमाणधातुषु परिक्रामति। सर्वाणि कृत्यानि यथेष्टं करोति। सर्वनिर्मितेषु अप्रतिहतं प्रभवति। अन्ये सत्त्वा माऽऽगच्छन्त्विति सर्वधर्मानुगचित्तो भवति।

तथागतस्य आर्यवशितासमन्वितस्य सुखे असुखसंज्ञोत्पद्यते। असुखे च सुखसंज्ञोत्पद्यते सुखासुखे च उपेक्षासंज्ञोत्पद्यते। (पृ)असुखे उपेक्षा जायेत। कथं सुखसंज्ञा जायेत। (उ) सुभावितचित्तत्वात् वाक्पारुष्याद्यसुखधर्मेषु न प्रतिबन्धं मन्यते। अन्यासु दिव्याभिज्ञासु दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिषु अप्रतिहतो भवति। समाधिबलेन अप्रतिहतदिव्याभिज्ञो भवति। ध्यानसमाधिषु सुव्यक्ताभिसमयः। तानन्ये सत्त्वा न शृण्वन्ति। तथागत एवाप्रतिहतं प्रविशति व्युत्तिष्ठते च। तथागतस्य ध्यानसमाधि र्बलमित्याख्यायते। यथा दशबलवर्गे वक्ष्यते। अन्येषां पुग्दलानां नास्ति [तादृशं] किञ्चित्। अतः तथागत समाधिस्कन्धसम्पन्नः।

प्रज्ञास्कन्धसम्पन्न इति। ध्यानावरणं क्लेशोत्पाद इति द्विविधाऽविद्या तथागतस्य सर्वथा प्रहीणा। विरुद्धस्य प्रहाणात् प्रज्ञास्कन्धसम्पन्नः। स्वतो धर्मलाभी [तथागतः] न परतः श्रुत्वा। निरुक्तिकुशलः अर्थगतिज्ञानसुज्ञानकुशलः अनवसन्नप्रतिभानः अक्षीणप्रज्ञश्च। अन्ये सत्त्वा स्तेषु कौशलं न संपादयांबभूवुः। भगवानेन अनपकृष्टक्षयज्ञानः। अतस्तथागतः प्रज्ञास्कन्धसम्पन्नः।

भगवद्भाषितो धर्मः अर्थगतौ कुशलः। नान्यैरल्पज्ञै र्भाषितः समर्थः निरवद्यः। तथागत भाषित एवानवद्यः। अतस्तथागत प्रज्ञास्कन्धसम्पन्नः। अप्रमाणगुणसाधनीया प्रज्ञेति [तां] सम्पादयति। धर्मं प्रणीतमविपरीतञ्च भाषितवान्। यथा अशुभभावना कामरागभेदिनीत्यादयः। प्रज्ञाप्रकर्षात् प्रकृष्टेर्यापथश्च भवति इत्यादिभिः प्रत्ययैः प्रज्ञास्कन्धसम्पन्नः।

विमुक्तिस्कन्धसम्पन्न इति। अविद्याद्वयाच्चित्तं विमुक्तम्। नान्यास्ति वासना, सर्वथाऽनिवृता इत्यादिना विमुक्तिसम्पन्नः।

विमुक्तिज्ञानदर्शनसम्पन्न इति। सर्वस्मिन् संयोजनप्रहाणमार्गे प्रतिक्षणं स्मृतिज्ञानकुशलः। यथा कश्चित् वृक्षं छेत्तुं हस्ते धृतकुठारः पार्यन्तिकं जानानः प्रजानाति शाखाः प्रशाखाः। तथा भगवानपि संयोजनप्रहाणज्ञानस्य प्रतिक्षणं क्षीयमाणं सर्वमवयवशः प्रजानाति। सत्त्वानामाशयं ज्ञात्वा यथायोगं धर्ममुपदिशति। येन [ते] विमुच्यन्ते। अतः सत्त्वानां सर्वविमुक्तिमार्गे ज्ञानदर्शनसम्पन्नः।

कि ञ्च भगवान् कालं ज्ञात्वा धर्ममुपदिशति यथा तिम्बुरुकब्राह्मणादिनाम्। तथागतः धर्माणां विभागज्ञानकुशलः। अयं पुद्गलः अस्य धर्मस्यार्ह इति। यथा भगवानानन्दमामन्त्र्य छन्दकस्य योग्यं भावाभावव्यावर्तकं सूत्रमुपदिशति। अतस्तथागतो विमुक्तिज्ञानकुशलः। किञ्चोपायकुशलः सत्त्वमलं हापयति यथा नन्दस्य कामप्रजिहीर्षायै [धर्म]मुपदिशति। सत्त्वानाञ्च श्रद्धेन्द्रियादिपरिपाकं ज्ञात्वा पश्चात् धर्ममुपदिशति यथा राहुलस्य। केचित् सत्त्वाः कर्मविपाकावृताः न विमुक्तिं लभन्ते। भगवान् [तं]नाशयित्वा धर्ममुपदिशति। केचित् सत्त्वाः कालपक्ष्ये क्षीणास्रवा भवन्ति यथा जायापतिसूत्र उपदिष्टम्। केचित् सत्त्वाः पुरुषविशेषमपेक्ष्य क्षीणास्रवाः भवन्ति यथा शारिपुत्र अश्वजितमपेक्ष्य। केचित् सत्त्वा देशमपेक्ष्य क्षीणास्रवाः यथा राजा पुक्कसातिः। केचित् सत्त्वा सतीर्थ्यमपेक्ष्य क्षीणास्रवाः यथा गोपाल नन्दः अजितग्रामीणादीनपेक्ष्य। केचित् सत्त्वा भगवतः तात्त्विककायमपेक्ष्य निर्मितकाय ञ्चापेक्ष्य क्षीणास्रवा भवन्ति। भगवान् प्रतिपतिं ज्ञात्वा धर्ममुपदिशति [अथ]विमोचयति। किञ्च भगवान् विविधान् सद्धर्मानुपदिय सर्वान् विमुक्त्यावरणधर्मान् परिभेदयति अतो विमुक्तिज्ञानदर्शनसम्पन्न इत्युच्यते।

भगवान् धर्मार्थगतिकुशलो धर्ममुपदिशति नानर्थमविपाकम्। भगवान् संख्यागणनवत् क्रमशो विमुक्तिमार्गमुपदिशति। अतः सुविमोको भवति। भगवान् सत्वानां पूर्वनिवासं कुशलमूल ञ्च ज्ञात्वा क्रमशो धर्ममुपदिशति। भगवान् विमुक्तिं प्रत्यक्षीकृत्य परस्योपशति न परतःश्रत्वा। जिनशासनं वह्वीभिः कलाभिः सम्पन्नम्। यथा भैषज्यकलासम्पन्नो व्याधीन् शमयति। तथा जिनशासनमपि प्रतिपक्षकलापमुखेन सर्वान् क्लेशान् व्यावर्तयति। यथा नवसंज्ञादीन् महत्योऽल्पा वा संयोजना न पुनः क्षपयन्ति। अतः कौशलसम्पन्न एव क्लेशान् परिभेदयति। अनुत्तमोपायैः सत्त्वान् सन्तारयति, कदाचित् सुकुमारवचनैः कदाचित् कटुवचनैः कदाचित् पुनः सुकुमारकटुवचनैश्च। तदर्थमेव तथागतो विमुक्तिज्ञानदर्शनसम्पन्नः इति।

प्रस्थानस्कन्धे बुद्धरत्नाधिकारे आद्यसम्पद्वर्गः प्रथमः।

२ दशबलवर्गः

अथ भगवान् दश बलसमन्वागमात् प्रज्ञासम्पन्नः। हेतुप्रत्ययप्रतिलोमकतयोक्तानि दशबलानि। तलाद्यं स्थानास्थानज्ञानबलम्। इदं कार्यकारणनैयत्यज्ञानम्। अस्मात् ईदृशं फलं भवति न तादृशम्। अयमाचारः अकुशलोऽवयं दुःखविपाकः न सुखविपाक इति ज्ञानम्। स्थानं नाम भाववस्तु। अस्थानमभाववस्तु। आद्यं बलमिदं सर्वबलानां मूलम्।

(पृ) [ननु]लौकिका अपि जानन्ति हेतुफलयोः स्थानास्थानम्। यथा यवाद्यव एव जायते न ब्रीह्यादय इति। (उ) स्थानास्थानबलेन कर्मादीनां ज्ञानात् इदं बलमतिगहनं परमं देवमनुष्याणां न प्राप्तुं शक्यम्। जातधर्मस्य हेतुसमनन्तराधिपतिप्रत्ययान् प्रत्याययतीत्यत इदं बलं प्रणीतम्।

(२) यत् अतितानागतप्रत्युत्पन्नानि कर्माणि सर्वधर्मसमादानानि च प्रजानाति। तेषां स्थानं प्रजानाति वस्तु प्रजानाति हेतुं प्रजानाति विपाकञ्च प्रजानाति। अत इदं ज्ञानं बलमाख्यायते। त्रिषु अध्वसु स्थानवस्तुहेतुविपाकप्रज्ञापकत्वात् गहनम्। कस्मात्। केचिद्वदन्ति अतीतानागता अभावधर्मा इति। अतो भगवतः तेषां कथनं बलं भवति। अतीतानागताध्वगतान् धर्मान् अदृष्टाकारानपि भगवान् साक्षात्प्रजानाति।

अथ कर्म द्विविधं कुशलमकुशलमिति। केचित् कुशलकर्मवन्तो दृष्टे दुःखवेदनाः यथा शीलं धृत्वा क्लेशाननुभवन्ति। केचित्पापकर्माणः दृष्टे सुखवेदनाः यथा शीलं भित्वा स्वैरं चरन्ति। अतः केचित् संशेरते अनागताध्वाऽपि प्रत्युत्पन्नसम इति। अतस्तथागतः कर्मक्रमेण वेदनामुपदिशति।

चत्वारि धर्मसमादानानि प्रत्युत्पन्नं दुःखं आयत्यां सुखविपाकम्, प्रत्युत्पन्नं सुखमायत्यां दुःखविपाकम्, प्रत्युत्पन्नं सुखम् आयत्यां सुखविपाकम्, प्रत्युत्पन्नं दुःखमायत्यां दुःखविपाकम् इति। भगवान् संप्रति आयत्याञ्च [तेषां] स्थानं, वस्तु, हेतुं विपाकञ्च प्रजानाति। स्थानं नाम वेदकः। वस्तु देयपदार्थः। हेतुर्दानचित्तम्। यथोक्तं सूत्रे पूर्वञ्च प्रमुदितचित्तः दानकाले च विशुद्धचित्तो दत्त्वा च यन्न विप्रतिसरति। तत् फलप्रापकं कर्म विपाक माख्यायते। भगवानेव प्रजानाति तरतमं कर्म यदि नियतमनियतं वा दृष्टविपाकम् उपपद्यविपाकं तदूर्ध्वविपाकं वा इत्यादि। नान्यः। अतो बलमित्युच्यते।

(३) भगवान् सर्वध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशं प्रजानाति स्थितिं प्रजानाति उपचयं प्रजानाति व्यवदानञ्च प्रजानाति। तत्र ध्यानं नाम चत्वारि ध्यानानि चत्वार आरूप्यसमाधयश्च। तदेव रूपारूप्यधातुकं कर्म। विमोक्षो नाम यदुताष्टौ विमोक्षाः तक्तर्मक्षेपकाः। ध्यानानि आरूप्यसमाधयोऽष्टविमोक्षाश्च समाधयो भवन्ति। एषां समाधीनां वृत्तेराभिमुख्यलाभः समापत्तिः। समापत्तयश्चतुर्धा विभक्ताः संक्लेशतः स्थितित उपचयतो व्यवदानतश्चेति। संक्लेशज्ञानिनः संक्लेशतः समाधिः। स्थितिज्ञानिनः स्थित्या समाधिः। उपचयज्ञानिन उपचयतः समाधिः। व्यवदानज्ञानिनः प्रतिवेधतः समाधिः। प्रतिवेधतः समाधिकस्य ऊष्ममूर्धक्षान्त्यादयश्चतुर्धर्मा भवन्ति। तथागतस्यैव तेषु सर्वेषु ज्ञानं भवति। नान्येषाम् इति बलं भवति।

(४) तथागतः सत्त्वानामिन्द्रियाणि तीक्ष्णानि मन्दानि [यथाभूतं] प्रजानानि। श्रेद्धेन्द्रियादीनां प्राधान्यात् तीक्ष्णता यथा तथागतादीनाम्। मन्दता तदप्राप्तिः यथा नागदासकादीनाम्। मध्येन्द्रियस्य तु नास्ति अनियतत्वात्। तीक्ष्णेन्द्रियस्यास्ति काष्ठा यथा तथागताः। मृद्विन्द्रियस्यास्ति काष्ठ यथा नागदासकः। मध्यमस्य नास्ति काष्ठेति मध्येन्द्रियस्य नोच्यते। अथ श्रद्धाप्रतिपत् धर्मप्रतिपत् इति द्विविधो मार्गः। पुनरपि द्विविधः दुर्मार्गः सुमार्ग इति। अस्मात् मार्गद्वयादन्यो मध्यमः। तीक्ष्णमन्दपुद्गलौ प्रतीक्ष्य मध्यमो भवति। अधिमुक्तितश्चेन्द्रियाणि भिद्यन्ते। श्रद्धेन्द्रियाधिमुक्तिकाः श्रद्धाबहुलाः। प्राज्ञजना विशिष्टेन्द्रिया अधिमुक्तित उपकृता श्रेद्धेन्द्रियप्रधानाश्च भवन्ति। इमानीन्द्रियाणि सर्वाणि [तथागतः] प्रजानाति। नान्ये। इत्यतस्तद्वलम्।

(५) तथागतो नानाधिमुक्तिकं लोकं [यथाभूतं] प्रजानाति। अधिमुक्तिर्नाम इच्छा। तद्यथा सुरायामधिमुक्तः सुरामिच्छति। तथागतो यथाधिमुक्ति प्रतिपत्तिं प्रजानाति यदुतायं सत्त्वः पञ्चकामनास्वधिमुक्तः भावनामार्गे बाधिमुक्त इत्येवं विदित्वा यथार्हं धर्ममुपदिशति। अतः सर्वसत्त्वाश्च सन्तारयति।

(६) तथागतो नानाधातुकानप्रमाणलोकांश्च [यथाभूतं] प्रजानाति। सत्त्वानां यत् दीर्घकालमभ्यस्य अभिरोचते स धातुः सिध्यति। यथा देवदत्तादयस्तथागतमध्वन्यध्वनि दुषयन्तोऽकुशलचित्तप्रवृत्तगहनानुशयधातुका भवन्ति। तथा कुशलस्वभावा अपि। केचित् सत्त्वाः स्वभावतः प्रवृत्तरागाः केचित् दृष्टं प्रतीत्य प्रवृत्तरागाः। तथागतोऽधिमुक्तिं धातुञ्च सर्वं [तेषां] प्रजानातीत्यत[स्तत्]बलमुच्यते।

(७) तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति। इमां प्रतिपदं प्रतिपन्नो नरक उत्पद्यते यावत्स्वर्गे इति च प्रजानाति। इमां प्रतिपदं प्रतिपन्नो यावन्निर्वाणमनुप्राप्नोति। इदं कर्म इन्द्रियरागस्वभावप्रवृत्तम्, सास्रवकर्मकः पञ्चगतिषूत्पद्यते। अनास्रवकर्मको निर्वाणमनुप्राप्नोति इति प्रजानाति।

पूर्वमुक्तं मार्गः। इदानीमुक्तन्तु मार्गफलम्। पूर्वं सामान्यत उक्तम्। इदानीं विविच्योच्यते ईदृशकर्मणा नरकं याति, ईदृशकर्मणा निर्वाणं प्राप्नोति इति। नरकप्रतितस्यापि प्रविभागोऽस्ति अनेन कर्मणा सञ्जीवनरके पतिष्यति, अनेन कर्मणा कालसूत्रनरके पतिष्यति इति। अतस्तथागतः सप्तमबले स्थितः सुक्ष्मं कर्म प्रजानाति। अन्ये सत्त्वा जानन्तोऽपि न विवेचयन्ति। अतस्तत् बलमुच्यते।

(८) एवं तथागतस्य अतीतकर्मणां फलज्ञानं पूर्वनिवासानुस्मृतिज्ञानबलमित्युच्यते। तथागतः सत्त्वानां पूर्वमाचरितां प्रतिपदं ज्ञात्वा धर्ममुपदिशति। अतः पूर्वनिवासव्याकरणेऽस्ति ज्ञानबलम। तथागतोऽतीतं सर्वमुपपत्तिस्थानं रूपधातौ वा आरुप्यधातौ वा इत्यनुस्मरति। आत्मनोऽपि प्रजानाति। अन्येषामपि सत्वानां प्रजानाति। अत [स्तत्] बलमुच्यते।

(९) तथागतो दिव्येन चक्षुषा पश्यति अनागताध्वनि त्रिभवसन्तानान् त्रिविधानि कर्माणि चतुर्धर्मसमादानानि च ज्ञात्वा व्याकरोति। तत्राप्रतिघप्रत्यायनं बलमुच्यते।

(१०) आस्रवक्षय[ज्ञान] बलेन सन्ताननिवृत्तिं प्रजानाति। सत्त्वा आयुषोन्ते केचित् ससन्ताना भवन्ति, केचित् निवृत्तसन्ताना भवन्ति। इदं बलं सर्वसत्त्वगामिस्थानमार्गबलं भवति। सामान्यतो निर्वाणमार्ग इत्युच्यते। अस्य बलस्य सविस्तरविभागो वक्ष्यते। तथागतः संक्लेशव्यवदानहेतोर्दशबलसमन्वागतः। नवबललाभित्वात् ज्ञानसमन्वितः। दशमबललाभित्वात् प्रहाणसमन्वितः। ज्ञानप्रहाणसम्पन्नत्वात् भगवान् देवमनुष्यैरभिवन्द्यः।

दशबलवर्गो द्वितीयः।

३ चतुर्वैशारद्यवर्गः

तथागतश्चतुर्वैशारद्यसमन्वितत्वाच्चाभिवन्द्यः। तथागतप्रतिलब्धानि चत्वारि वैशारद्यानि-सर्व[धर्मा]भिसम्बोधि[वैशारद्यम्], सर्वास्रवक्षय [ज्ञानवैशारद्यं], मार्गान्तरायिकव्याकरण [वैशारद्यं], दुःखनैर्याणिकप्रतिप[द्वैशारद्यम्]। एषु चतुर्षु यदि कश्चिदागत्य यथा धर्मं चोदयेत्। तत्राहं वैशाद्य[प्राप्त] इति।

आद्यं वैशारद्यं सर्व[धर्मा]भिसम्बोधिः नवबलात्मकम्। द्वितीयमास्रवक्षयो दशमबलमेव। क्षयज्ञानसम्पन्नत्वात् तथागत आत्मगुणसम्पन्नः। अन्त्ये द्वे वैशारद्ये परसम्पदं कुरुतः। तथागतो व्याकरोति आन्तरायिकमान्तरायिकमार्गधर्मान् यदुताकुशलं सास्रवं कुशलञ्च। विमुक्त्यन्तरायत्वात् आन्तरायिकधर्म इत्युच्यते। अन्तरायविसंयोगितया नैर्याणिकप्रतिपदित्युच्यते।

(पृ) ननु भवदुक्तरीत्या बलान्येव वैशाद्यानि। अतः को भेदो बलवैशारद्ययोः। (उ) अभिसम्बोधिर्बलं भवति। तेन बलेनोपादेयं वैशारद्यमित्याख्यायते। केचिन्मूढा निरपत्रपा बहूपाददते। तथागतस्योपादानन्तु प्रज्ञासम्भूतम्। अभिसम्बुध्य परेभ्योऽभयप्राप्त इति वैशारद्यम्। कस्मात्। सत्यप्यभिसम्बोधे [परेभ्यः] परित्राससम्भवात्। अभिसम्बोधो बलात्मकः। तदभिसम्बोधव्याकरणं वैशारद्यमित्याख्यायते। कस्मात्। केषाञ्चित्पुरुषाणां ज्ञाने सत्यपि व्याकरणकौशलाभावात् परपुरुषाणां विजयो वैशारद्यम्। कस्मात्। सत्यपि ज्ञाने केषाञ्चित् परविजयासम्भवात्। अक्षीणोऽभिसम्बोधो बलम्। अक्षीणं प्रतिभानं वैशारद्यम्। अथ पुनर्भवगतिव्याकरणं बलम्। व्याकरणे वशिता वैशारद्यम्। हेतुर्बलम्। फलं वैशारद्यम्। अभिसम्बोधाद्वैशारद्यसम्भवात्। य आजन्म परित्रस्तः स पश्चात् किञ्चित् ज्ञानं लब्ध्वा विशारदो भवति। किं पुनर्भगवान् सुदूरकालात् महोदारचित्तः सर्वाकाराभिसम्बोधिञ्च लब्ध्वा बिभेष्यति। कश्चित् परविजयाशक्तत्वात् सभीतिको भवति। तत्र न कश्चिदस्ति यं तथागतो न विजितवान्। अतो विशारदः।

यो वादी वचनकुशलः अर्थकुशलश्च स विशारदः। तथागत एवायम्। सर्वज्ञतालाभात् अर्थकुशलः। अप्रतिघप्रतिभानलाभात् वचनकुशलः। केचित्पुनर्वस्तुषु [ज्ञान]बलविहीनाः सन्तः सञ्जातभीतिका भवन्ति। तथागतस्तु सर्वज्ञानलाभित्वात् सर्ववस्तुषु न बलविहीनः, सर्वसूत्राणि सर्वशास्त्राणि च प्रतिविध्य प्रश्नविसर्जनं परिदीपयतीति विशारदः। केचित्पुनः कुले गोत्रे रूपे शीलबाहुश्रुत्यज्ञानादिषु वा विकला इत्यतः सावद्यं शास्त्रमधिगच्छन्ति। तथागतस्तु तत्र सर्वत्राविकलः। अतो विशारदः।

यो यथाभूतधर्मवादी स न कम्प्यः। स च तथागत एव। यथाऽवोचत् असुरब्राह्मणो भगवन्तम्-यथाभूतधर्मवादी दुर्जयो दुष्प्रकम्पः। तथैवानुलोममार्गवादी तर्कवादी सहेतुवादी च। इति। यः पुनश्चतुर्भिर्वाद धर्मैः समन्वितः सोऽपि दुर्जयः दुष्प्रकम्पः। [चत्वारो वादधर्मा यदुत] सम्यक् प्रतिज्ञाप्रतिष्ठापनम्, हेत्वहेतूपादानम्, दृष्टान्तोपादानम् वादधर्मप्रतिष्ठापनमिति। तथागत एभिश्चतुर्भिः सम्पन्नः। देवमनुष्या अपि तं न जेतुं शक्नुवन्ति इत्यतो विशारदः। यश्च कल्याणमित्रमनुपसेव्य वादं करोति स सुकम्पः। तथागतस्तु दीपङ्करादिषु अप्रमाणबुद्धेषु पूर्वमेवाभ्यस्तवादधर्मा इत्यतो न प्रकम्प्यः। भगवानुपदिशति सत्यद्वयं यदुत लोकसत्यं परमार्थसत्यमिति। अतः प्राज्ञो न कम्पयितुं शक्यः। प्राकृतैरज्ञैश्च सह न विवदते। तथागतश्च लोकेन सह न विवदते। लोकेऽस्ति तथागतः [परं मरणात्] इति वदति। भगवानपि वदति अस्तीति। नास्तीति वदति लोके नास्तीति वदति। अतो नास्ति विवादः। तेन सह विवादाभावात् अप्रकम्प्यः।

शास्त्रं पुन द्विविधं तत्त्वशास्त्रं शठशास्त्रम् इति। तीर्थिकानां भूयसा शठशास्त्रम्। तथागतस्य तु तत्त्वशास्त्रम्। अतोऽपि न प्रकम्प्यः। जिनशासने सुचरितपरिशुद्धत्वात् उपदेशोऽपि परिशुद्धः। सुचरितपरिशुद्धिर्नाम दुःखहेतुक्षयः। तीर्थिकानां शास्त्राणि सहेत्वाभासानि न सहेतुकानि इति न विजयसमर्थानि भवन्ति। भगवतः सूत्राणि परिशुद्धप्रवचनार्थगतिकानि तत्त्वलक्षणाविलोमकानि न तीर्थिकीयसमानानि। भगवदुपदिष्टो मार्गो न यथारुतग्रहणर्थः। अपि तु आध्यात्मिकज्ञानचित्तकः। यथोक्तं सूत्रे-भगवान् भिक्षूनामन्त्याह मा भिक्षवो मम वचनाधिमुक्तिका भवत। किन्तु भवद्भिराध्यात्मिकज्ञानस्य कायेन साक्षात्कारिभिर्भवितव्यम्। इति। किञ्चाह-अशठा यूयमागच्छत। प्रातर्वो धर्मं भाषमाणे मयि सायं मार्ग लभेध्वम्। सायं धर्मं भाषमाणे प्रातर्मार्गं लभेध्वम्। इति। यः कश्मिंश्चिद्धर्मेऽप्रबुद्धः स [तूष्णी]तिष्ठेत्। न प्रवचनं कुर्यात्। यत्किञ्चित्प्रवदन्नपि अवश्यं प्रकम्प्यः। तथागतस्तु नाप्रबुद्ध इति वैशारद्यसमर्थः। किञ्च तथागतः प्रतिलब्धाप्रतिघाभिसम्बोधः। न सर्वधर्मेष्वप्रतिबुद्ध इति विशारदः। अल्पज्ञा न जानन्ति महापुरुषाणां यदधिगतम्। महापुरुषास्तु जानन्ति अल्पज्ञानामधिगतम्। भगवान् सत्त्वानामुत्तमो महान् इति अल्पज्ञानां शास्त्रं जानाति। अतो विशारदः। तीर्थिकानां शास्त्रं यां काञ्चित् दृष्टिमुपादाय प्रवृत्तम्। भगवांस्तु प्रजानाति दृष्टिरियं प्रतीत्य समुत्पन्नेति। तत्समुदयं प्रजानाति, निरोधं प्रजानाति, आस्वादं प्रजानाति, आदीनवं प्रजानाति, नैर्याणिकञ्च प्रजानाति। तीर्थिकादयो न क्षयज्ञानसमर्था इति [मिथो] विवदन्ते। तथागतस्तु सर्वाकारज्ञः सर्वधर्मज्ञः सर्वपरशास्त्राणां दारको न परशास्त्रैर्दार्यो भवति। अतो विशारदः। इत्यादयः प्रत्यया बलवैशारद्यप्रविभागार्था भवन्ति।

(पृ) तथागतः सर्वधर्मेषु विशारदः। कस्मादुच्यन्ते। चत्वार्येव वैशारद्यानि। (उ)यान्युक्तानि तानि सर्ववैशारद्यानां सामान्यवचनानि। कस्मात्। आद्यं वैशारद्यद्वयमात्मनः क्षयज्ञानाभिधायकम्। अन्तिमद्वयं परस्य मार्गान्तरायिकधर्माभिधायकम्। दुःखक्षयमार्गाभिधायकं [सत्] क्षयज्ञानमित्युच्यते। स श्रावकः शास्ता क्षयज्ञानसम्पन्न इत्यतः सर्वाणि वैशारद्यानि सामान्यत उक्तानि।

(पृ) सत्त्वाः कस्मात् संशेरते तथागतोऽसर्वज्ञः पुरुष इति। (उ) भगवतोक्तं वचनं कदाचिदसर्वज्ञ[वचन]कल्पमस्ति। तद्यथा भगवान् प्रत्याह-कुतो यूयमागच्छथ इत्यादि। यथोक्तं सूत्रे-यः कश्चित् नगरं प्रविश्य तन्नाम नागरिकान् पृच्छति। नाहं वदामि तं सर्वज्ञम् इति। श्रोताऽस्य सूत्रस्य संशेते तथागतोऽसर्वज्ञः पुरुष इति। भगवद्वचनं सरागवचनकल्पमस्ति। यथोक्तं सूत्रे-भगवानाह स्वागतं वो भिक्षवः अनेन कायेन महार्थलाभाय मम शासनमनुवर्तध्वम्। तदा प्रमुदितः स्याम् इति। द्वेषिकल्पमप्यस्ति वचनम्। यथोक्तम्-त्वं खलु देवदत्त शवभूतः खेटाशनोऽसि। इति। आभिमानिककल्पोऽप्यस्ति व्यवहारः। यथात्मानमधिकृत्याह अहं परिषदि सिंहकल्पो दशबलैश्चतुर्भिर्वैशारद्यैश्च समन्वितः महापरिषदि सिंहनादं नदामि इति। मिथ्यादृष्टिककल्पोऽप्यस्ति व्यवहारः। सन्धारयाम्यात्मधर्म यथा तैलपात्नम्। आह च देवदत्तम्-नाहं ददामि सङ्घं शारिपुत्रमौग्दल्यायनादिभ्योऽपि किं पुनर्दास्यामि तुभ्यम्। इति। अल्पज्ञा इमानि वचनानि श्रुत्वा वदन्ति तथागतस्यस्रवा अक्षीणा इति।

किञ्चाह भगवान्-कामा मार्गान्तरायिका धर्मः। केचित्तु [कामान्] वेदयन्तोऽपि मार्गं लभन्ते। इति। विनयेऽप्युक्तम्-विरमणधर्माभ्द्रष्टोऽपि मार्गं स्पृशति। इति। अतोऽल्पज्ञाः संशेरते तथागत आवरणधर्मानभिज्ञ इति। केचिन्मार्गं भावयन्तोऽपि संयोजनैरनुशयवन्तः। अतोऽल्पज्ञाः संशेरते आर्यमार्गः संयोजनानां न क्षयकृत इति। संयोजनानि अप्रहाय को दुःखं वियोजयेत्। अतस्तथागतस्तेषु चतुर्षु धर्मेषु विशारदः।

(पृ) कथं यथोद्दिष्टाः संशया परिहीष्यन्ते। (उ) भगवान् संवृतिमनुवर्तते। यथा लौकिका जानन्तोऽपि प्रष्टारो न दुष्यन्ति। तथा भगवानपि लोकवर्तित्वात् संवृतिमनुवर्त्य पृच्छति। लौकिका अनासङ्गचित्ता अपि आसङ्गिकल्पं वदन्ति ईदृशमिति। तथा भगवानपि सत्त्वानां हितायदृष्टे व्यवहरति। कामा नान्तरायिकधर्मा इति सति वचने तत्र तथागत उपदिशति कामा वस्तुत आन्तरायिकधर्मा इति। यस्य कामाश्चित्तगताः स न मार्गं भावयति। अतोऽवश्यं कामान् पूर्वं परित्यज्य पश्चान्मार्गं स्पृशति। आपत्तिधर्मे सत्यपि मार्गःप्राप्यत इति ब्रूवतोऽवश्यं परिभिन्नेऽप्यापत्तिधर्मे मार्गो न प्राप्यते। यस्य वस्तुतो नास्त्यापत्तिः। तस्य गुरुप्रत्ययत्वात् भगवान् पुनःखयमाश्रावयेत् नास्त्यापत्तिधर्मो विनाशयितुम् इति। यन्मार्गं भावयतामपि संयोजनमस्तीति। अयं मार्गः सर्वसंयोजनानुशयानां विनाशकः, असम्पन्नत्वात्तु न विनाशयितुं प्रभवति। तद्यथा प्रकृतितो दधि तापशमनम्। किन्तु [पुरुषस्य] अल्पवसनत्वे न तत्परिपाचनं भवति। तथा मार्गभावनाऽपीति अनवद्यम्। तथागत श्चतुर्वैशारद्यसमन्वित इत्यतोऽभिवन्द्यः।

चतुर्वैशारद्यवर्गस्तृतीयः

४ दशनावर्गः

अथ सूत्र उक्तं-तथागतादीनां दश गुणाः यदुत तथागतः अर्हन् सम्यक् सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकवित् अनुत्तरपुरुषदौम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् इति।

तथागत इति यथाभूतमार्गयानेन संसाधितसम्यक्‌सम्बोधित्वात् तथागत इत्युच्यते। यद्यदुपदिशति सर्वं तत्त्वमेव भवति न मृषा। यथा भगवानानन्दमामन्त्र्याह-तथागतप्रोक्तमुभयकोटिकं न वा। नो भगवन इति। अतस्तथावादीत्युच्यते।

अथ पुनस्तथागतो यां रात्रिमभिसम्बुद्धः। याञ्च रात्रिं परिनिर्वृतः। अत्रान्तराले यत् भाषते तत् सत्यमेव भवति नान्यथा। तस्माद्यथार्थवादीत्युच्यते। सर्वाकारसर्वज्ञज्ञानेन पूर्वापरं परीक्ष्य पश्चादुपदिशतीत्यत उपदिष्टं सत्यमेव भवति। किञ्च बुद्धानां भगवतां स्मृतिर्दृढा भवति न मुषिता। केचिदनुमाय यदुपदिशंति तत् कदाचित् सूत्रानुयायि भवति। केचित्तु प्रत्यक्षतो दृष्ट्वैवोपदिशन्ति। तैरुपदिष्ठं लाभाय वा भवति हानाय वा। यथोक्तं सूत्रे-अनुमातुर्वचनं लाभाय कदाचित् भवति हानाय वा कदाचित्। तथागतस्तु धर्मानभिसम्बुध्योपदिशति। इति। तस्मादकम्प्यवचनस्तत्त्वोपदेष्टेत्युच्यते। भगवतोपदिष्टं तत्त्ववचनं भवति नान्येषामिव सतत्त्वमतत्त्वञ्चेत्यतोऽकम्प्यम्।

कालानुरूपञ्चोपदिष्टम्। यथोक्तं सूत्रे-भगवान् सत्त्वानां चित्तप्रामोद्यमधिमुक्ति ञ्च प्रज्ञाय मार्गमुपदिशति इति। यथार्थवक्ता भवति। यदुपदेशार्हं तदेवोपदिश्यते। यथोक्तं किंशुकशिर्षक सूत्रे यो धर्म उपदेशार्हः तमुपदिशति संक्षेपतो विस्तरतो वा स्कन्धायतनादिमुखेन इति। अत उपदिष्टं नैव मृषा भवति।

अथ पुनर्धर्माववादो द्विविधः संवृतितः परमार्थत इति। तथागत इदं सत्यद्वयं निश्रित्योपदिशतीत्यत उपदिष्टं सर्वं तत्त्वं भवति। भगवान् नोपदिशति यत् संवृतिसत्यं तत् परमार्थसत्यमिति। न च यत् परमार्थसत्यं तत् संवृतिसत्यमिति। अतो वचनद्वयं न विरुध्यते। अथ तथागतेन यदि वा संव्रियते यदि वा विव्रियते तदुभयमप्यविरुद्धम्। यत् संवरणाय भवति न तत् विब्रियते। यत् विवरणाय भवति न तत् संव्रियते। अतो यत्किमपि वचनमविरुद्धम्।

किञ्च त्रिविधा अववादधर्मा दृष्टिजोऽभिमानजः प्रज्ञप्तिजश्चेति। भगवतो नास्ति आद्याववादद्वयम्। तृतीयोऽववादस्तु परिशुद्धोऽमलः। सन्ति च चतुर्विधा अववादाः दर्शनश्रवणमननिध्यप्तिधर्मा इति। भगवानेषु चतुर्षु धर्मेषु यद्यदुपदिशति तत् सर्वं चित्तव्यवदानाय भवति नासङ्गाय। पञ्चविधा अपि अववादधर्माः अतीतानागतप्रत्युत्पन्नासंस्कृतावक्तव्या इति। एषु पञ्चसु भगवान् सम्बुद्धः सन् व्यक्तरमभिज्ञायोपदिशति। अतो यथार्थवादीत्युच्यते। यथाभूतवचने नैपुण्यात् तथागत इत्युच्यते।

क्षीणक्लेशत्वात् इमं धर्म लब्धवान्। रागद्वेषमोहादयो मृषावादस्य मूलम्। तानि संयोजनानि निरुद्धवान् इति अर्हन्। अथ तथागतस्योपदेशोऽर्हन्। संयोजननिरोधः सम्यक्‌सम्बोधात् भवति। अनित्यतादिना धर्मान् सम्यक् भावयतः क्लेशाः क्षीयन्ते। अतः सम्यक्‌सम्बोधिमुपादाय अर्हद्धर्मः प्रवर्तते। सम्यक्‌सम्बोधिरियं विद्याचरणजनिता। पूर्वान्तापरान्तयोश्च नास्ति सन्ततिरिति सम्यक् प्रतिसम्बुध्यत इति सम्यक् सम्बुद्ध इति नाम। दानादिपारमिताः समाचरतीति विद्याचरणसम्पन्नः। अन्येऽपि पुरुषा अनादिसंसारे दानादीन् धर्मानाचरन्ति न सम्यगाचरन्तीति न सुगत इत्युच्यन्ते। भगवान् पुनर्दानादिचर्याः सम्यङ्मार्गेण चरितवानिति सुगत इत्युच्यते। दानादिपञ्चधर्माणां लाभी तथागतः स्वार्थगुणसम्पन्नः। सम्यक्‌सम्बोधिमनुप्राप्य लोकानां मनसि चिन्तितं प्रजानाति। [अतो लोकवित्]। चिन्तितञ्च प्रज्ञाय धर्ममुपदिशतीति अनुत्तरः पुरुषदौम्यसारथिः। विनेतव्या नाविनीता भवन्ति। विनीताश्च न भ्रश्यन्ति। विनेतव्याश्च देवमनुष्याः। अतो देवमनुष्याणां शास्ता। केचित् विचिकित्सन्ते कथं मनुष्येण देवा अववदितुं शक्यन्त इति। अत आह-अहं देवमनुष्याणां शास्ता इति। बुद्ध इति अतीतानागतप्रत्युत्पन्नानां संस्कृता-संस्कृतसक्षयाक्षयाणां स्थूलसूक्ष्मादीनां वा सर्वेषां धर्माणाम्। बोधिमूले निषद्य अविद्यामिद्धमविध्य सर्वज्ञानोज्वलितां महाबोधिं लब्धवानिति बुद्धः। एवं नवभिर्गुणैः सम्पन्न त्रिषु अध्वसु दशसु दिक्षु सर्वलोकधातुषु च पूज्य इति भगवान्। भगवान् दशनामसम्पन्नः स्वात्मसम्पदा परसम्पदा च आत्मानमुपकरोति परांश्चोपकरोतीत्यतोऽभिवन्द्यः॥

दशनामवर्गश्चतुर्थः।

५ त्रिविधारक्षावर्गः

तथागतस्य कायिकवाचिकमानसिककर्माणि अरक्ष्याणि। कुतः। न हि सन्ति तथागतस्य कायिकवाचिकमानसिकदुश्चरितानि यानि[तथागतो रक्षितु]मिच्छेत् मा परो द्रक्ष्यात् मा च ज्ञासीत् इति। अन्येषां पुरुषाणां सन्ति कदाचिदव्याकृताभासानि कायिकवाचिकमानसिकदुश्चरितानि विद्वद्गर्हणीयानि। तथागतस्य तु न सन्ति। कस्मात्। तथागतस्य सर्वाणि कर्माणि प्रज्ञासम्यक्‌स्मृतिभ्यामुत्पद्यन्ते। ये मुषितस्मृतिका दुष्प्रज्ञाः। न त ईदृशकर्माणो भवन्ति। लौकिकाः कदाचित् व्यतिवृत्तभ्रान्तवादिनो भवन्ति। तथागतस्तु न तत्समः। तथागतः कायेन सुभावितवान् शीलसमाधिप्रज्ञा स्तत्तुल्यान् धर्माश्च। अतः सर्वाण्यकुशलानि अकुशलाभासानि च कर्माणि सर्वथा परिक्षीणानि। भगवान् दिर्घकालादारभ्य सद्धर्मचर्यां भावितवान् नेदानीमेव। अतस्तत्कर्माणि विशुद्धस्वभावानि नारक्ष्याणि। तथागतः सदा शीलमाचरति अधिमुक्तितो न दुर्गतिपतनभयादिना। तथागतस्य च सर्वाणि कायिकवाचिकमानसिककर्माणि परोपकाराय भवन्ति इति नाकुशलानि। अकुशलाभावान्नारक्ष्याणि। विशुद्धत्वादरक्ष्यं कर्म इत्यतोऽभिवन्द्यः। तथागतस्त्रिविधस्मृत्युपस्थानसमन्वितः येनाभिवन्दनीये भवति।

धर्म उपदिश्यमाने यदि श्रोता एकाग्रचित्तो भवति। नानेन [तथागतस्य] सौमनस्यं भवति। यदि नैकाग्रचित्तो भवति। नानेन दौर्मनस्यं भवति। सर्वदा तु उपेक्षाचित्तमाचरति। कस्मात्। तथागते रागद्वेषवासनाया अवशेषितत्वात्। सर्वधर्माणामत्यन्तशून्यतां ज्ञातवानिति न दौर्मनस्यं न वा सौमनस्यम्। सुसञ्चितमहाकरुणाचित्तत्वात् तथागतः कुशले अकुशले च विना सौमनस्यदौर्मनस्यादि महाकरुणामेवोत्पादयति। तथागतः सत्त्वानां पृथक् पृथक् स्वभावमतिगहनं परिज्ञातवानित्यतो यदि कश्चित् कुशलचित्तः शृणोति नानेन सुमनस्को भवति। यदि अकुशचित्तः शृणोति नानेन दुर्मनस्को भवति। प्रकृतितः सर्वदा उपेक्षाचित्तमाचरति। किञ्च तथागतो महापृथिवीवत् ध्रुवचित्तो भवति। गुरुवस्तुन्यपगते नोन्नतो भवति। तस्मिन् प्रक्षिप्तेऽपि न पुनरवनतो भवति। अन्ये प्राकृता जनास्तु यथोदितचित्ता भवन्ति। किञ्चिदारोपेऽवनता भवन्ति। किञ्चिदवरोपे उन्नता भवन्ति। बुद्धो भगवान् महाकारुणिक इत्यतो देवमनुष्याणामभिवन्दनीयः।

परमं ध्यानसमाधिसुखमुपेक्ष्य जनानां धर्ममुपदिशति। अन्येषां करुणाचित्तं न कृत्यकृत्। भगवतस्तु महाकरुणा सत्त्वानामुपकारिणीति फलवती भवति। महाकरुणया संसाधितोऽनुत्तरो मार्गो न पुनरन्यैः कारणैः। अथ पुनस्तथागतस्य नास्ति कापीच्छा-मम परमा सन्तुष्टिरिति। महाकारुणिकत्वात् स्वात्मानं क्लेशयति। तथागतः प्रकृत्या सूरतः। महाकारुणिकत्वात् भवदुःखहृद्वचनेन महोपाये न सत्त्वानामुद्धरणाय व्यवसायदुःखान्युपादत्ते। तथागतो महाकरुणया सत्त्वानामुद्धरणाय लोकेऽस्मिन् तप्तायःपिण्डवत् क्षणमप्यसह्यं पञ्चस्कन्धात्मकं कायमुपादाय विहरति। भगवान् बुद्धः सुभावितोपाक्षाचित्तः तदुपेक्षाचित्तमुपेक्ष्य सदा महाकरुणाचित्तमाचरति। अतः पूजनीयः।

तथागतः सुजनानां सुजनतमः। कस्मात्। आत्मनो महाहितं प्रापयति परांश्च महाहितं प्रापयति। स्वपरहितकृद्धि सुजनः। तथागतः सत्त्वानां चित्तपरिज्ञाने परमकुशलः यथोक्तं सूत्रे-अहं सत्त्वपरमार्थस्य सुविज्ञः कृपावान् हितकारी इत्यादि। किञ्च बुद्धस्य भगवतो वीर्यादिगुणस्कन्धाः सन्ति। यथा उपालिः शतगाथाभिस्तथागतं स्तुतवान्। तादृशगुणसमन्वितत्वात् अभिवन्द्यः। तथागतस्य गुणाः स्वयमुक्ताः। यथोक्तमेकोत्तरागमे तथागतवर्गे-स्वयमाह-अहं पुरुषसारथिः पुरुषावतंसः पुरुषहस्ती श्रमणानां परमो ब्राह्मणानामप्युत्तमः आर्याणामधिपोऽप्रमत्तचारी, न सुखदुःखनुयायी मम काय इति।

(पृ) तथागतः कस्मात् आत्मानं आत्मभावञ्च प्रशंसति। आत्मप्रशंसनं हि सम्मूढलक्षणम्। (उ) भगवान् न ख्यातिलाभमाकांक्षते। परार्थमेवात्मभावं स्तौति। तथागतस्य नास्त्यात्ममतिः। परहितार्थमेवात्मानं स्तौतीत्यनवद्यम्। बहुभिरल्पैर्वा प्रत्ययैरात्मनः प्रशंसा भवति। तथागतस्य गुणानामन्तो न वक्तुं शक्यते। अतो न सम्मूढलक्षणे पतति। आत्मन औद्धल्याभावात्। यथा व्यवदान सूत्रे शारिपुत्रस्तथागतस्याभिमुखं तथागतगुणान् स्तौति। अतोऽभिवन्द्यः। अल्पेच्छतातुष्ट्यादयोऽप्रमाणगुणा स्तथागतकाये वर्तन्ते। कस्मात्। तथागतेन सर्वगुणानां सञ्चितत्वात्। इत्यादिभिः प्रत्ययैरभिवन्द्यस्तथागतः।

त्रिविधारक्षावर्गः पञ्चमः

६ धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः

(पृ) भवता पूर्वमुक्तं-धर्मोऽभिवन्द्यः इति। केन गुणेनाभिवन्द्यः। (उ) तथागतः स्वयं प्रवचनं प्रशंसति-मया भाषितो धर्म आदौ मध्येऽवसाने च कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातमनुलोमकं ब्रह्मचर्यमिति। आदौ मध्येऽवसाने च कल्याणमिति। जिनशासनमकालिकं कल्याणञ्च बाल्ये यौवने वार्धक्ये च कल्याणम्। प्रवेशे प्रयोगे निर्याणे च कल्याणम्। आदावकुशलं शमयति। मध्ये पुण्यविपाकं हापयति। अवसाने सर्वं हापयति। इदं त्रिधा कल्याणमित्युच्यते। तथागतो नित्यं कालत्रये सद्धर्ममुपदिशति। न तीर्थिका इवासद्धर्मं व्यामिश्रयति। आदौ मध्येऽवसाने च सर्वदा विदुषां कमनीयम्, कालत्रये सर्वदा गभीरम्। नान्यसूत्रवत् र्‍आदौ महत् मध्ये सूक्ष्ममवसाने सूक्ष्मतरम्। इत्यादिप्रत्ययैः त्रिधा कल्याणम्।

स्वर्थमिति। जिनशासनस्यार्थः परमहितकरः। ऐहिकलाभस्य आमुष्मिकलाभस्य लोकोत्तरमार्गलाभस्य च प्रापकम्। नाधिदेवताप्रार्थनारूपबाह्यग्रन्थसमानम्।

सुव्यञ्जनमिति। प्रादेशिकप्राकृतभाषया सम्यगर्थं प्रकाशयतीति सुव्यञ्जनम्। कस्मात्। भाषणफलं ह्यर्थप्रकाशनम्। अतो भाषितानि अर्थनयं विवेचयन्तीति सुव्यञ्जनम्। जिनशासनं यथावदाचरणयोपदिष्टम्। न तु पठनाय। अतः प्रादेशिकभाषया मार्गं प्रापयतीति सुव्यञ्जनम्। न बाह्यतीर्थकग्रन्थवत् केवलं जपार्हं भवति। [तद्यथा] यो दुष्टः शब्दः यो वा दुष्टस्वरः शब्दः स यजमानं हिनस्ति इति। परमार्थवचनकुशलत्वाद्वा स्वर्थम्। लोकसत्यवचनकुशलत्वात् सुव्यञ्जनम्।

केवलमिति। तथागतः सद्धर्मं केवलमुपदिशति। न तु प्राग्वृत्तवस्तुप्रपञ्चं करोति। नापि धर्ममधर्मञ्च संकीर्योपदिशति। निरुपधिशेषनिर्वाणार्थत्वात् केवलम्। केवलं तथागत उपदिशतीति वा केवलम्। (पृ) श्रावकनिकायसूत्रं श्रावकभाषितम्। सन्ति कानिचन अन्यानि सूत्राणि च देव[पुत्र]भाषितानि। कस्मादुच्यते केवलं तथागत उपदिशतीति। (उ) धर्मस्यास्य मूलं तथागतसम्भूतम्। श्रावकदेवपुत्रादिभिः सर्वै स्तथागतादववादः प्राप्तः। यथोक्तं विनये-धर्मो नाम यत् बुद्धभाषितं, श्रावकभाषितं निर्मितभाषितं देवभाषितं वा संक्षिप्य यानि लोके सुभाषितानि तानि सर्वाणि बुद्धभाषितानि। तस्मात्केवलधर्म इत्याख्यायते।

परिपूर्णमिति। तथागतभाषितो धर्मो न किञ्चिद्वीयते। यथा रूद्रकसूत्र उक्तं परिपूर्णलक्षणम्। जिनशासने नान्यसूत्राण्यपेक्ष्य सिद्धिर्भवति। यथा व्याकरणसूत्रे पञ्चसूत्राण्यपेक्ष्यैव सिद्धिर्भवति। न तथा जिनशासने। एकस्यामेव गाथायामर्थः परिपूर्णः। यथाभाषत-

सर्वपापस्याकरणं कशलस्योपसम्पदा।
स्वचित्तपर्यवदपनमेतब्दुद्धानुशासनम्॥ इति।

तस्मात्परिपूर्णम्।
परिशुद्धं पर्यवदातमिति। द्विधा परिशुद्धत्वात् परिशुद्धं पर्यवदातम्। वचनपरिशुद्धत्वात् परिशुद्धम्। अर्थपरिशुद्धत्वात् पर्यवदातम्। तथागतात् श्रुतस्तु सम्यगर्थे निक्षिप्तं यथार्थं वचनं भवति। सम्यग्वचने च निक्षिप्तो यथावचनमर्थो भवति। न तीर्थिकानामिव यथासूत्रं गृह्यते। जिनशासने धर्म आश्रीयते न पुरुषः। धर्मोऽपि नीतार्थसूत्रं निश्रित्य निर्दिश्यते। न नेयार्थसूत्रं निश्रित्य। अयं पर्यवदातधर्म उच्यते [यो]न सूत्रमात्रानुयायी भवति। सन्ति च जिनशासनस्य तिस्रो धर्ममुद्राः-सर्वमनात्मा, सर्वे संस्कृतधर्माः क्षणिका अनित्याः-शान्तं निरोधो निर्वाणम् इति। इमा स्तिस्रो धर्ममुद्राः सर्वैरपि वादिभिर्न शक्याः खण्डयितुम्। परमार्थिकत्वाच्च परिशुद्धं पर्यवदातम्।

ब्रह्मचर्यमिति। आर्याष्टाङ्गिकमार्गो ब्रह्मचर्यम्। निर्वाणाख्यमिदमयं मार्गः प्रापयतीति ब्रह्मचर्यम्।

ईदृशगुणसम्पन्नत्वाद्धर्मरत्नमभिबन्द्यम्॥

धर्मरत्नाधिकारे त्रिधाकल्याणवर्गः षष्ठः।

७ धर्मगुणस्कन्धवर्गः

अथ तथागतः स्वयं स्वधर्मं स्तौति-मम धर्मो निरोधो निर्वाणगामी सम्यक् सम्बोधिजनक औपनायिक इति।

रागद्वेषादीन् क्लेशाग्नीन निरोधयतीति निरोधः। यथा अशुभभावना कामाग्निं निरोधयति। यथा वा मैत्रीभावना व्यापादं निरोधयति। न तीर्थिकानामिव आहारादिप्रहाणान्निरोधः।

निर्वाण[गामी]ति। तथागतधर्मोऽत्यन्तनिर्वाणगामी। न तीर्थिकानामिव भवाङ्गे स्थित्वा ध्यानसमाधिष्वासञ्जयति। बुद्धागम उच्यते सर्वे संस्कृताः सादीनवा नानिशंसास्थानम् इति। न तु यथा ब्राह्मणाः ब्रह्मलोकादीन् प्रशंसन्ति। अतस्तथागतधर्मो निर्वाणगामी।

सम्यक्‌सम्बोधिजनक इति। तथागतस्य सन् धर्मो निर्वाणाय भवति इत्यतः सम्यक्‌सम्बोधिजनकः। तथागतधर्मेऽस्ति तत्त्वज्ञानं फलम्। यथा श्रुतमयप्रज्ञातश्चिन्तामयी प्रज्ञा भवति। ततो भावनामयी प्रज्ञा भवति। अतो बुद्धधर्मः सम्यक्‌सम्बोधिजनक इत्युच्यते।

औपनायिक इति। बुद्धधर्मः पूर्वमात्मनः कल्याणं साधयति। पश्चात् परान् सद्धर्मे स्थापयतीति औपनायिकः।

बुद्ध धर्मः षडिवधः-स्वाख्यातो [भगवता] सान्दृष्टिकः अकालिकः औपनायिक एहिपश्यकः प्रत्यात्मं वेदयितव्यो विज्ञैः। स्वाख्यात इति। तथागतो धर्मान् यथाधर्मलक्षणमुपदिशति। अकुशलधर्मान् अकुशललक्षणानिति उपदिशति। कुशलान् कुशललक्षणानिति। अतः स्वाख्यातः।

सान्दृष्टिक इति। बुद्धधर्मो दृष्ट एव लोके विपाकं प्रापयति। यथोक्तं सूत्रे-प्रातर्विनीतः सायं मार्गमनुप्राप्नोति। सायमुपदिष्टः प्रातर्मार्गमनुप्राप्नोति इति। सान्दृष्टिकं यथा सान्दृष्टिकश्रामण्यफलसूत्र उक्तम्। सान्दृष्टिकाः खलु ख्यातिपूजासत्कारध्यानसमाध्यभिज्ञादीनां लाभाः इति। बुद्धधर्मोऽर्थनययुक्तः। अतः सान्दृष्टिकं पूजासत्कारं प्रापयन् और्ध्वविपाकं निर्वाणश्च प्रापयति। तीर्थिकधर्माणामर्थनयाभावात् सान्दृष्टिकविपाक‍एव नास्ति। किंपुनरौर्ध्वलौकिकं निर्वाणमिति सान्दृष्टिक इत्युच्यते।

अकालिक इति। बुद्धधर्मो न कञ्चन दिवसं मासं वत्सरं नक्षत्रं वापेक्ष्य मार्गो भाव्यते। अस्मिन् दिवसे मासे वत्सरे व मार्गो न भाव्यत इति। न ब्राह्मणधर्मवत् वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्य इत्यादि। पुनरुदिते जुहोति अनुदिते जुहोति। यथा पश्यामः पञ्च धान्यानि कालमपेक्ष्योप्यन्ते। तथा बुद्धधर्मोऽपि भविष्यतीति कश्चित् वदेत्। अत आह अकालिक इति। यथोक्तं सूत्रे बुद्धधर्मः स्वाचारश्चर्यास्थितिनिषादनशयनेष्वकालिक इति।

औपनायिक इति। सम्यक् चर्यया सत्त्वान् विमुक्तिमुपनयतीति औपनायिकः।

एहिपश्यक इति। बद्धधर्मः स्वकायेन साक्षात्कर्तव्यो भविष्यति न परानुवर्तनेन। यथावोचद्भगवान्-मा भिक्षवः केवलं मम प्रवचनाधिमुक्तिका भवत। स्वयमेव परीक्षध्वम् अयं धर्म आचारितव्यः अयमनाचरितव्य इति। न यथा तीर्थिका वदन्ति स्वशिष्यान्-प्रश्नप्रतिवचनं मा कुरुध्वम्। यथावत् शुचिस्नाता भवत, मा मलिनाभिरुचिकाः। बधिरमूकवत् मम वचनमात्रमनुसरत इति। अत आह एहिपश्यक इति।

प्रत्यात्मं वेदयितव्यो विज्ञैरिति। बुद्धधर्मो विज्ञानामधिमुक्तिकानाञ्च हितकरः। उपवासादौ परममुग्धाः श्रद्दधन्ते विज्ञैः सुखं न वेद्यत इति। क्लेशसमूहननसम्यक् ज्ञानादिभिर्धर्मै र्विज्ञो मुच्यते। आहारभरितेऽपि स्वदेहे चित्तैकाग्रतावीर्यरागद्वेषसपीडनादीनि विज्ञो दृष्ट एव वेदयते। यथा कश्चित् रोगान्मुक्तः अध्यात्मं प्रविवेकं वेदयते। यथा वा शीतलक्षणं वेदयते जलपायी। केचित् सदोषं धर्मं वदन्ति यथा खक्कटलक्षणा पृथिवी इति। किं खक्कटलक्षणम् इत्यस्य स्पृष्ट्वा वेदयितव्यम् इति प्रतिवचनं न विन्दते। यथा जात्यन्धो नीलपीतलोहितावदातान् न व्यवहर्तुं शक्नोति। [तथा] यो बुद्धधर्मरसस्याप्रतिलाभी, न स बुद्धधर्मस्य परमार्थं व्यवहर्तुं शन्कोति। उपशमात्मकत्वात्।

अथ बुद्धधर्म अध्यात्ममधिगन्तव्यः न धनादिवत् स्वयमधिगम्य परस्मै प्रदातव्यः। यथा पारायण सूत्रे भगवानाह-नाहं [भिक्षव] उच्छेत्स्यामि वः कांक्षाम्। मम धर्ममधिगच्छन्तः स्वयमुच्छेत्स्यथ कांक्षाम्। इति। नायं धर्मः परगामी सन् उपलभ्यते, तेजः संक्रमादिवत्। पृथग्जना अविद्यापर्वतप्रतिच्छन्ना न श्रद्धधन्त इमं धर्मम्। यथा अचिरवत श्रामणेरमुपादाय महापर्वतदृष्टान्तमवोचत्। अत आह प्रत्यात्मं वेदयितव्यो विज्ञैरिति।

बुद्धधर्मो गहनः। विव्रियमाणः सन् सुलभो भवति। सन्त्रस्यतां देवमनुष्याणां मायामपनयति। गहन इति बुद्धधर्मस्य गहनत्वम्। कारणज्ञानात्। लौकिका हि बहवो दृष्टफलं पश्र्यन्तो न जानन्ति तत्कारणम्। अतो वदन्ति ईश्वरादीनि मिथ्याकारणानि। द्वादशाङ्गः प्रतीत्यसमुत्पादो दुर्बोधः, गभीरत्वात्। उत्तानचेतना लौकिका बुद्धधर्मे न गभीरसंज्ञां कुर्वन्ति। न प्रतिबुध्यन्ते प्रतीत्यसमुत्पादधर्मम्। तृणमपि हेतुप्रत्ययैः सञ्चितं परीक्षयितुः तल्लक्षणं गभीरं विवर्तते। यथा भगवता भाषितः प्रतीत्यसमुत्पादधर्मो गहनं वस्तु। [तथा] तृष्णायाः क्षयो वियोगो निरोधो निर्वाणम्, इदं पदं दुर्दर्शम्।

(पृ) यदि प्रतीत्यसमुत्पादो गभीरः। कुत आनन्द उत्तानक संज्ञामुत्पादितवान्। (उ) केचिद्वा दिनो वदन्ति-नेदं वचनं युक्तम्। आनन्दो महान् श्रावको धर्मलक्षणप्रतिसंवेदी कथं वदिष्यति प्रतीत्यसमुत्पादधर्म उत्तानक इति। सामान्यलक्षणेन प्रतीत्यसमुत्पादं पश्यत उत्तानकसंज्ञोत्पद्यते। कस्मात्। न हि स कर्मक्लेशान् सुविविच्य पश्यति। आदितः शिक्षितस्य वस्तुनः पर्यन्तं लब्धवतो [वा] उत्तानकसंज्ञोत्पद्यते। यथा प्रतिलब्धाभिसम्बोधः पुनः प्राथमिकवाक्यमीक्षते। केचित् पुनः गभीरधर्मेऽनिष्पन्नचेतनाः सन्त उत्तानकसंज्ञामुत्पादयन्ति। केचित्तु सत्त्वा उत्तानकसंज्ञामुत्पादयन्ति। तथागतेन धर्मस्य स्वाख्यातत्वात्।

अथ बुद्धधर्मः शून्यता [देशनः]। शून्यतेयं गभीरा। तथागते नानाहेतुप्रत्ययदृष्टान्तैरर्थं प्रकाशयति सति सुबोधा भवति। बाला अपि जानन्ति यथा सुदा य श्रामणेरादयः। बुद्धधर्मः सारवान् सर्वप्रवचनेषु तत्त्वार्थः प्रधानो भवति। न यथा भारतरामायणादीनि तत्त्वार्थं विना केवलाख्यानरूपाणि। यथा वा राघब्राह्मण आह-भगवान् भिक्षून् अर्थधर्मे परमार्थधर्मे योगं शिक्षापयति यदुतास्रवक्षये। इति।

बुद्धधर्मः सर्वलोकानामर्थायोपदिष्टः, न ब्राह्मणा इव ब्राह्मणधर्मं वदन्त आत्मन एव बोधिमनुप्राप्नुवन्ति; नान्येषाम् बुद्धधर्मः सत्कार्यः। पञ्चकामेषु आत्मारामा देवमनुष्या अपि श्रद्धधन्ते; इत्यादिभिः प्रत्ययैर्धर्मोऽभिवन्द्यः।

धर्मगुणस्कन्धवर्गः सप्तमः।

८ द्वादशाङ्गप्रवचनवर्गः

अथ तथागतशासनं द्वादशधा विभक्तम्-सूत्रं, गेयं, व्याकरणं, गाथा, उदानं, निदानं, अपदानं, इतिवृत्तकं, जातकं, वैपुल्यं, अद्भुतधर्म उपदेशश्चेति।

सूत्रं स्वकण्ठोक्तं प्रवचनम्।
गेयं गाथयोद्दिष्टं सूत्रं गाथाभाषितं [तथागत] श्रावकभाषितं वा। (पृ) कस्य हेतोर्गाथया सूत्रोद्देशः। (उ) अर्थस्य दार्ढ्यचिकीर्षया। यथा रज्जुनिबद्धानि कुसुमानि दृढानि भवन्ति। पुरुषाणां संप्रहर्षणाय शब्दालङ्कारेच्छया च। यथा अलङ्करणाय पुष्पाणि विकीर्यन्ते माला वा ध्रियते। गाथानिबद्धोऽर्थः संक्षिप्तः सुगमो भवति। केचित् सत्त्वा गद्यवचनाधिमुक्तिकाः। केचित्तु गाथाधिमुक्तिकाः। पूर्वं कण्ठोक्तस्य धर्मस्य पश्चाद्गाथयोपदिष्टस्यार्थः स्पष्टप्रतीतः श्रद्धादार्ढ्यकृद्भवति। गाथानिबद्धोऽर्थः सासक्ति क्रमशः सुपाठ्यो भवति। अतो गाथामाह।

केचिदाहु-शास्तुः शासनं न काव्यप्रतिरूपया गाथया रचयितव्यमिति। तदयुक्तम्। गाथया रचयितव्यमेव। कस्मात्। भगवता अर्थानां गाथया भाषितत्वात्। यथाह सूत्रम्-सर्वे लोकाः सुप्रणीतवचननिरूक्तिका मम प्रव्रजिताः। इति। तस्माद्गाथा सुप्रणीतवचना भवति।

व्याकरणम्। अर्थविभङ्गसूत्राणि व्याकरणमित्युच्यन्ते। यत् सूत्रमप्रतिवचनमविभङ्गं यथा चतुःप्रतिसं विदादिसूत्रम् तत् सूत्रमित्युच्यते सप्रश्नप्रतिवचनं सूत्रन्तुयथोच्यते-चत्वारः पुद्गलाः। [कतमे चत्वारः]। तमस्तमःपरायणः, तमोज्योतिःपरायणः, ज्योतिर्ज्योतिःपरायणः, ज्योतिस्तमःपरायणः। तमस्तमःपरायणः कतमः। यथा कश्चित् दरिद्रो विविधान्यकुशलकर्माणि कृत्वा दुर्गतौ पतति। इत्यादि सूत्रं व्याकरणम्। (पृ) कस्य हेतोर्भगवानुपदिशति अप्रश्नप्रतिवचनमविभङ्गञ्च सूत्रम्। (उ) कानिचन सूत्राणि गभीरगुर्वर्थनयानि। तेषां सूत्राणामर्थोऽभिधर्मे विविच्य वक्तव्य इत्यतोऽविभङ्गमुपदिशति।

केचिदाहुः-तथागतभाषितानि सर्वाणि सूत्राणि सार्थविभङ्गानि। किन्तु सङ्गीति कारा गभीरसूत्रार्थान् सङ्गृह्याभिधर्मे प्राक्षिपन्। यथा बाह्याभ्यन्तरसंयोजनिकः पुरुषः सदा रात्रावर्थं विभजते। इत्यनेन हेतुना अयमर्थः संयोजनस्कन्धे निवेशितव्य इति।

गाथा-द्वितीयमङ्गं गेयमित्युच्यते। गेयमेव गाथा। द्विविधा गाथा। गाथा च श्लोकः। श्लोकश्च द्विविधः क्लेशभागीयोऽक्लेशभागीय इति। अक्लेशभागीय गेय उच्यमानो गाथेत्युच्यते।

द्विविधां गाथां विहायान्यत् गाथारहितं सूत्रम् उदानमित्युच्यते।

निदानं सूत्रनिदानम्। कस्मात्। तथागतैरार्यैश्चोपदिश्यमानानि सूत्राणि अवश्यं सनिदानानि भवन्ति। तानि सूत्रनिदानानि कदाचित् सूत्र एव वर्तन्ते अन्यत्र वा वर्तन्ते। तस्मान्निदानमित्याख्या।

अपदानम्-पौर्वापर्यक्रमकथनमिदम्। यथोक्तं सूत्रे-विदुषां भाषणं सक्रमं सार्थं सविभङ्गमविक्षेपकम्। इति। इदमपदानम्।

इतिवृत्तकम्-इदं सूत्रस्य निदानं भवति, सूत्रस्यानन्तरञ्च भवति। यदि द्वितयमिदं सूत्रस्यातीताध्ववृत्तिकं भवति। तत् इतिवृत्तकमित्युच्यते।

जातकम्-प्रत्युत्पन्नं वस्तूणदाय तदतीतवस्तुवर्णनम्। तथागतोऽनागतं वस्तु कथयन्नपि अतीतं प्रत्युत्पन्नमुपादायैव कथयतीत्यतः पृथङ् नोच्यते।

वैपुल्यम्-भगवतो विपुल उपदेशो वैपुल्यम्। केचिन्न श्रद्दधन्ते यन्महामुनय उपशमाभिरता न विक्षेपविघाते सुप्रीतिका लौकिकसंभिन्नप्रलापान्निर्विण्णाः समुल्लुञ्छितेन्द्रियग्रामारामाश्च सन्तो न विपुलोपदेशायाभिरोचन्त इति। यथोक्तं सूत्रे-मार्गस्य प्रतिलाभी पुरुषो द्वौ मासावतीत्य एकमक्षरमुच्चारयति। इति। तद्व्यावर्तानयोच्यते अस्ति वैपुल्यसूत्रं परार्थाय। यथोक्तं-तथागतो वैपुल्यतः संक्षेपतश्च द्विधा धर्ममुपदिशति। तत्र वैपुल्यं संक्षेपात् प्रकृष्टम् इति।

अद्भुतधर्मः-अद्भुतसूत्रम्। यथाह कल्पान्ते भूतानि विकृतवृत्तानि, देवकाया महाप्रमाणाः पृथिवी च सम्प्रकम्पन्ते। इति। केचिन्न श्रद्दधन्त ईदृशानि वस्तूनि। अत उच्यत इदमद्भुतसूत्रम्। कर्मविपाकधर्माणामचिन्त्यशक्तेर्दर्शनात्।

उपदेशः-महाकात्यायनादयो महाज्ञानिनो भगवद्भाषितं सुविस्तृतं व्यभजन्त। केचिन्न श्रद्दधन्ते नेदं बुद्धभाषितमिति। तदर्थं भगवानाह-अस्ति शास्त्रात्मकसूत्रम् इति। सूत्रस्य शास्त्रप्रतिरूपत्वादर्थः सुगमो भवति।

इमानि द्वादशाङ्गानि सूत्राणि शास्तुःप्रवचनम्। धर्मरत्नमीदृशगुणसम्पन्नमित्यतोऽभिवन्द्यम्॥

द्वादशाङ्गप्रवचनवर्गोऽष्टमः।

९ सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गः

(पृ) भवता पूर्वमुक्तम्-सङ्घोऽभिवन्द्य इति। कस्मादभिवन्द्यः। (उ) तथागतः सर्वत्न सङ्घं प्रशंसति-सङ्घरत्नमिदं शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धविशुद्धम्, आह्वनीयं, प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमनुत्तरं पुण्यक्षेत्रं दायकानां हितकरम् इति।

शीलस्कन्धविशुद्धमिति। तथागत श्रावकसङ्घः अनेडकं शीलं धारयन् यावदल्पापराधेऽपि परमत्रासशङ्की भवति। जिनौरसाः पुण्यविपाकाय न देवमनुष्यादिषूत्पद्यन्ते। नरकादिभ्योऽप्यभीताः शीलं सप्रयत्नं धारयन्तः केवलं सद्धर्माभिरता भवन्ति। कस्माद्विशुद्धं शीलम्। विशुद्धशीलधारणञ्च न कालपरिच्छिन्नम्। न ब्राह्मणानामिव षाण्मासिकं शीलधारणम्। [अपितु] दीर्घरात्रं यावदन्तमुपादीयते। अतो विशुद्धम्। विशुद्धं शीलमन्तद्वयविमुक्तं पञ्चकामगुणविमुक्तं दुःखकायविसुक्तञ्च दधते। अत आर्याणां कान्तशीला भवन्ति। तच्छीलं विज्ञानाञ्च प्रियं भवति। चित्तं विशुद्धमित्यतः शीलमपि विशुद्धम्। प्रशमिताध्याशयदोषा न केवलं शीलं रक्षन्ति। परलोकादपि बिभ्यन्ति। अतः सङ्घरत्नं शीलस्कन्धविशुद्धम्।

समाधिस्कन्धविशुद्धमिति। यः समाधिस्तत्त्वज्ञानमुत्पादयति स विशुद्ध इत्युच्यते।
प्रज्ञास्कन्धविशुद्धमिति। प्रज्ञा क्लेशान् क्षपयतीत्यतो विशुद्धा।
विमुक्तिविशुद्धमिति। या सर्वक्लेशानां क्षयं प्रापयति न केवलं विघ्नयति। अतो विमुक्तिर्विशुद्धा।

विमुक्तिज्ञानदर्शनविशुद्धमिति। क्षीणक्लेशानां ज्ञानं भवति यदुत क्षीणा मे जातिरिति। नाक्षीणक्लेशानाम्। इदं विमुक्तिज्ञानदर्शनं विशुद्धम्।

आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयमिति। ईदृशगुणसम्पन्नत्वात् आह्वनीयं प्रह्वनीयं दक्षिणेयमञ्जलिकरणीयम्।

[अनुत्तरं] पुण्यक्षेत्रमिति। तत्र रोपितेन पुण्येन अप्रमाणविपाकं प्रतिलभते। तत् यावन्निर्वाणञ्च न क्षीयते।

दायकानां हितकरमिति। दायकानां गुणान् वर्धयति। यथा अष्टाङ्ग समन्वितं क्षेत्रं पञ्चविधधान्यान्यतिशयेन संवर्धयति न विनाशं गमयति। तथा सङ्घक्षेत्रमपि अष्टाङ्गसमन्वितमित्यतो दायकानां गुणान् वर्धयति। अतोऽभिवन्द्यम्॥

सङ्घरत्नाधिकारे आद्यविशुद्धिवर्गो नवमः।

१० आर्यविभागवर्गः

[पृ] केन धर्मेण सङ्घ इत्याख्यायते। (उ) चतुर्विधाः प्रतिपत्तयञ्चतुर्विधाः प्रतिपन्नकाः शीलसमाधिप्रज्ञादिगुणाश्च परिशुद्धा इत्यतः सङ्घ इत्याख्यायते।

चतुर्विधाः प्रतिपत्तयःस्त्रोत आपत्ति सकृदागिप्रतिपत्ति-अनागामिप्रतिपत्ति अर्हत्प्रतिपत्तयः। चतुर्विधाः फलस्थिताः स्त्रोत-आपन्नसकृदागाम्यनागाम्यर्हन्तः। स्त्रोत-आपत्ति-प्रतिपत्तौ त्रयः पुद्गलाः श्रद्धानुसारिप्रतिपन्नको धर्मानुसारिप्रतिपन्नकोऽनिमित्तानुसारिप्रतिपन्नक इति। श्रद्धानुसारिप्रतिपन्नक इति। योऽलब्धानात्मशून्यताज्ञानो भगवच्छासने श्रद्दधानो भगवद्वचनमनुसृत्य प्रतिपन्नो भवति। स श्रद्दानुसारिप्रतिपन्नक इत्युच्यते। यथोक्तं सूत्रे अहमस्मिन् वस्तुनि श्रद्धया प्रतिपन्नः। इति। लब्धे तु तत्त्वज्ञाने न श्रद्धामात्रमनुसृत्य प्रतिपद्यते। यथोक्तं सूत्रे-नास्ति कारको नास्ति श्रद्धालुरित्यादि प्रजानन् उत्तमपुद्गलो भवति। इति। अतो ज्ञायते अलब्धतत्त्वज्ञानः श्रद्धानुसारिप्रतिपन्नक इति। यथोक्तं सूत्रे-यो धर्मे क्षान्तिसुखं प्रज्ञया भावयति स श्रद्धाप्रतिपन्नकः [यः] पृथग्जनभूमिमतिक्रान्तः स्त्रोत-आपत्तिफलञ्च नालभत। अत्रान्तरे जीवितान्तं नालभत। स श्रद्धाप्रतिपन्नकः। इति। अयं श्रुतचिन्तामयप्रज्ञायां स्थितो धर्मणां क्षान्तिकामसुखचित्तं सम्यक् भावयन् अनात्मशून्यताज्ञानमलभमानोऽपि लौकिकं धर्मक्षान्त्याभासचित्तमुत्पादयति। अयं स्वयमागत इति अतिक्रान्तपृथग्जनभूमिरितित्युच्यते। कस्मादिति पश्चाद्वक्ष्यते। यः श्रद्धादि पञ्चेन्द्रियविरहितः स बाह्यपृथग्जनेषुवर्तते। स क्रमेण उष्मादिधर्मेषु स्थितौ भावनामयीं प्रज्ञां लभमानोऽपि मौलनाम्नैव श्रद्धानुसारीत्युच्यते। धर्मप्रतिपन्नकभावानुगामित्वात्। अस्मात् सूत्रात् वक्तव्यमवश्यं स्त्रोत आपत्तिफलं लप्स्यत इति। न वक्तव्यं जीवितान्ते न लप्स्यत इति। कस्मात्। श्रद्धाप्रतिपन्नकस्यास्य विप्रकृष्टत्वात्। यथोग्रेण सङ्घे निमन्त्रिते देवता उपसंगम्यारोचयन्ति-अमुकोऽर्हन् अमुकोऽर्हत्प्रतिपन्नको यावदमुकः श्रोतआपन्नः अमुकः स्त्रोतआपत्तिप्रतिपन्नक इति। यद्ययं पञ्चदशचित्तक्षणवर्ती नारोचनं लब्धुं शक्यते। इति ज्ञातव्यं स्त्रोतआपत्तिप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च। अयं श्रद्धाप्रतिपन्नक इत्युच्यते।

धर्मानुसारिप्रतिपन्नक इति। अयं लब्धानात्मज्ञान ऊष्ममूर्धक्षान्त्यग्रधर्मेषुस्थितो धर्ममनुसृत्य प्रतिपद्यते यदनात्मशून्यादि। अयं धर्मप्रतिपन्नक इत्युच्यते। इमौ द्वौ प्रतिपन्नकौ सत्यदर्शनमार्गमवतार्य निरोधसत्यं पश्यत इत्यतोऽनिमित्तप्रतिपन्नक इत्युच्यते। इमे त्रयः पुद्गलाः स्त्रोत‍आपत्तिप्रतिपन्नका भवन्ति। लौकिकमार्गे संयोजनप्रहाणात् फलत्रयप्रतिपन्न इति न प्रथां लभन्ते। इदं पश्चाद्वक्ष्यते।

स्त्रोत‍आपन्न इति। यथोक्तं भगवता सुत्रम्-सत्कायदृष्टिदृष्टिविचिकित्साशीलव्रतपरामर्शानां त्रयाणां सयोजाननां परिक्षयात् स्त्रोतआपन्नो भवति अविनिपातधर्मा नियतः सम्बोधिपरायणः सप्तकृत्‌भवपरम इति। (पृ) यः स्त्रोतआपन्नः स सत्यदर्शनप्रहीणक्लेशोऽत्यन्तपरिक्षीणाप्रमाणदुःखः पृथिवीसम इति औपम्यसूत्रमाह। कस्मादुच्यते केवलं त्रयाणां संयोजनानां परिक्षयादिति। (उ) इदमुत्तरत्र वक्ष्यते यदुत सत्यदृष्टिक्षयादन्ये क्षीणा इति। अविनिपातधर्मेति। इदमपि पश्चाद्वक्ष्यते कर्मस्कन्धे। नियतः सम्बोधिपरायण इति। धर्मस्त्रोतस्यवतरन् नियतं निर्वाणमनुप्राप्नोति। यथा गङ्घौघवर्ती दारुस्कन्धो विनाष्टप्रत्ययान् नियतं महासमुद्रमनुप्राप्नोति। सप्तकृद्भवपरम इति। स सप्तसु अध्वस्वनास्रवज्ञानं परिपाचयति। यथा [गर्भः] कललादिना सप्तसु दिनेषु परिणमति। यथा च नवनीतादि सप्तदिनपरमं सेवमानस्य ध्रुवा ग्लानिरपि जर्जरिता भवति। यथा च ज्ञातिसम्बन्धः सप्तसन्तानान् याति। यथा च सप्तफणसर्पदष्टः पुद्गलकायश्चतुर्भूतबलात् सप्तपदानि गच्छति नाष्टमं विषबलाद्गच्छति। यथा च शाठ्यधर्मः सप्ताध्वपरमो याति। यथा वा सप्तदिनेप्वतीतेषु कल्पाग्निः शाम्यति। एवं सप्तजन्मसु सञ्चितानास्रवप्रज्ञाग्निना क्लेशाः क्षीयन्ते। धर्मस्य सप्तभवाः स्युः। स्त्रोत-आपन्नोऽस्मिन्नध्वनि निर्वाणेऽवतरति। द्वितीयं तृतीयं सप्तपरमं वा याति। अयं स्त्रोतआपन्न इत्युच्यते।

सकृदागामिप्रतिपन्नक इति। भावनाहेयसंयोजनस्य नवस्कन्धा भवन्ति। य एकं द्वौ वा प्रहाय त्रीन् चतुरः पञ्च वा याति। स सकृदागा मिप्रतिपन्नकः।

केचिदाहुः-एकेनानावरणमार्गेण प्रजहाति इति। तदयुक्तम्। भगवतोक्तम् अप्रमाणचित्तैः प्रजहाति। यथा वाशीजटा इति औपम्यसूत्र उक्तम्। सकृदागामिप्रतिपन्नकः कुलंकुल इत्यपि आख्यायते। स द्वे वा त्रीणि वा कुलानि सन्धावति संसरति। दृष्ट एव वा काये निर्वाणेऽवतरति। अयं सकृदागामिप्रतिपन्नकः।

सकृदागामी इमं लोकं सकृदागत्य दुःखस्यान्तं करोति। स भावनापरिक्षीणतनुसंयोजनः। संयोजनानां तनुत्वे स्थितः सकृदागामीत्युच्यते। अयं सकृदागामी इहैव वा जन्मनि दुःखस्यान्तं करोति।

अनागामिप्रतिपन्नक इति। यः परिक्षीणसप्तमाष्टमसंयोजनस्कन्धः सोऽनागामिप्रतिपन्नकः। परिक्षीणाष्टमसंयोजनोऽयमेकबीजी अनागामिप्रतिपन्नकः। स इहैव वा जन्मनि दुःखस्यान्तं करोति। अत्यन्तपरिक्षीणकामावचरनव संयोजनस्कन्धोऽनागामी। अनागामिनोऽष्टप्रभेदाः-यदुत अन्तरा परिनिर्वायी, उपपद्यपरिनिर्वायी, अनभिसंस्कारपरिनिर्वायी, साभीसंस्कारपरिनिर्वायी, ऊर्ध्वस्त्रोतः अकनिष्ठगामी, आरूप्यायतनगामी, परावृत्तजन्मा, दृष्टधर्मनिर्वायी इति। उत्तममध्याधमेन्द्रियत्वात् प्रभेदाः।

अन्तरापरिनिर्वाय्यपि उत्तममध्याधमेन्द्रियत्वेन त्रिधाभिद्यते। कश्चिदनागामी भवान्निर्विद्यते, अल्पनीवरणो न दृष्टे निर्वाणमनुप्राप्नोति। सोऽन्तरापरिनिर्वाति।

उपपद्यपरिनिर्वायी त्रिधा भिद्यते उपपद्यनिर्वायी, साभिसंस्कारपरिनिर्वायी, अनभिसंस्करपरिनिर्वायीति। उपपद्यपरिनिर्वायीति। य उत्पद्यमान एव भवान्निर्विद्य परिनिर्वाति। स उपपद्यपरिनिर्वायी। इन्द्रियतैक्ष्ण्यात्। कश्चिदुत्पन्नः सन् अनास्रवमार्गेषु प्रकृत्या स्थितोऽभिसंस्कारमप्रयुज्य परिनिर्वाति। सोऽनभिसंस्कारपरिनिर्वायी। मध्यमेन्द्रियत्वात्। कश्चिदुत्पन्नः सन् कायोपादानेऽतिभीरुरभिसंस्कारमार्गं प्रयुज्य परिनिर्वाति। स साभिसंस्कार परिनिर्वायी। इन्द्रियमान्द्यात्।

ऊर्ध्वस्त्रोता [अकनिष्ठगा] म्यपि त्रिविधः। य एकस्मादायतनात् च्युतोऽपरस्मिन्नायतन उत्पद्य परिनिर्वाति। स तीक्ष्णेन्द्रियः। यो द्वयोस्त्रिषु वायतनेषु उत्पद्य[परिनिर्वाति] स मध्यमेन्द्रियः। यः सर्वस्मादायतनाच्च्युतः सर्वायतनेषूत्पद्य परिनिर्वाति। स मृद्विन्द्रियः। प्रथमध्यानात् [यो] बृहत्फलदेवगामी स निस्तीर्णो नाम। प्राप्तबृहत्फलो यदि शुद्धावास उत्पद्यते। स न पुनरारूप्यायतनं गच्छति। प्रज्ञाधिमुक्तत्वात् [आरूप्यगो] य आरूप्यायतनं गच्छति। स नैव शुद्धावास उत्पद्यते। समाध्यधिमुक्तत्वात्।

परावृत्तजन्मेति। यः पूर्वभवे स्त्रोत‍आपत्तिफलसकृदागामिफलप्राप्तः पश्चात्प्रवृत्तकायेन अनागामिफलं प्राप्नोति। स न रूपारूप्यधाताववतरति।

दृष्टधर्मपरिनिर्वायी ति परमतीक्ष्णेन्द्रियो दृष्ट एव काये निर्वाणं प्राप्नोति।

अथ पुद्गलो द्विविधः श्रद्धाविमुक्तो दृष्टिप्राप्त इति। इन्द्रियभेदात् पुद्गलद्वैविध्यम्। मृद्विन्द्रियः शैक्षो भावनामार्गे स्थितः श्रद्धाविमुक्तः। तीक्ष्णस्तु दृष्टिप्राप्तः।

योऽनागामि अविकलाष्टविमोक्षः स कायसाक्षी। इमे सर्वे अर्हत्फलप्रतिपन्नकाः संयोजनप्रहाणसाम्यात्।

यः परिक्षीणसर्वक्लेशः सोऽर्हन। नवविधोऽर्हन-परिहाणलक्षणः, अनुरक्षणलक्षणः मृतलक्षणः, स्थितलक्षणः, प्रतिवेधनलक्षणः, अकोप्यलक्षणः, प्रज्ञाविमुक्तलक्षणः, उभयतोभागविमुक्तलक्षणः, अपरिहाणलक्षण इति। श्रद्धेन्द्रियादिप्राप्त्या अर्हन्तः प्रभिन्नाः।

परममृद्विन्द्रियः परिहाणलक्षणः, समाधेः परिहाणदुष्टः। समाधिपरिहाण्या अनास्रवं ज्ञानं नाभिमुखीभवति। अनुरक्षणलक्षण इति किञ्चिद्विशिष्टेन्द्रियत्वात् यः समाधिमनुरक्षति स न परिहीयते। अरक्षंस्तु परिहीयते। पूर्वपरिहाणलक्षणस्तु [समाधिं] रक्षन्नपि ततः परिहीयते॥ मृतलक्षणः ततोऽपि किञ्चिद्विशिष्टेन्द्रियो भवेषु परमं निर्विण्णः। स न समाधिं लब्धवानित्यतोऽनास्रवज्ञानस्याभिमुखीभावो दुर्लभः। लब्ध्वापि प्रीतिर्विनश्यति। अतो मरणार्थी भवति॥ स्थितलक्षण इति यः समाधिं लब्ध्वा न पराक्रमते न च परिहीयते स स्थितलक्षणः। पुर्वे त्रयः समाधिपरिहाणभागे वर्तन्ते। स्थितलक्षणस्तु समाधिस्थितिभागे वर्तते॥ प्रतिवेधलक्षण इति। यः समाधिं लब्ध्वा भूयोऽधिकमभिवर्धयति। स समाध्यभिवर्धनभागे वर्तते॥ अकोप्यलक्षण इति। यः समाधिं लब्ध्वा नानाप्रत्ययैर्न विक्षेपयति। स समाधिप्रतिवेधभागे वर्तते। परमतीक्ष्णप्रज्ञत्वात्। समाधिसमापत्तिस्थितिव्युत्थानलक्षणानां सुगृहीतत्वादकोप्यो भवति। निरोधसमापत्तिमुपादाय द्विविधः पुद्गलः-तत्समाध्यलाभी प्रज्ञाविमुक्तः, तत्समाधिलाभी तु उभयतोभागविमुक्त इति॥ अपरिहाणलक्षण इति। यः कृतात् क्षयगुणादपरिहीणः। यथोक्तं सूत्रे-भगवानाह-यो भिक्षवो मच्छ्रावकः शयने पर्यङ्के वा अहमहमिकया प्रतिलब्धात् [आस्रव]क्षयान्न परिहीयते। इति। एवं नवविधा अशैक्षाः। पूर्वोक्ता अष्टादश शैक्षा नवाशैक्षाश्च [मिलित्वा] सप्तविंशति [पुद्गलाः] लौकिकं सर्वपुण्यक्षेत्रम्। ते सङ्घे समन्विताः। अतोऽभिवन्द्यं [सङ्घरत्नम्]॥

आर्यविभागवर्गो नाम दशमः।

११ पुण्यक्षेत्रवर्गः

(पृ) कस्मादार्यास्ते पुण्यक्षेत्रमित्युच्यन्ते। (उ) लोभक्रोधादीनां क्लेशानां परिक्षीणत्वात् पुण्यक्षेत्रमित्युच्यते। यथा तृणानाहतः सुबिजाङ्कुर इत्युच्यते। अतो वीतरागाणां दानं महाहितविपाकप्रापकम्। शून्यताचित्ता इत्यतश्च पुण्यक्षेत्रमित्युच्यन्ते। कस्मात्। शून्यलक्षणत्वात् सर्वे रागद्वेषादयः क्लेशा अनुत्पन्ना नाकुशलं कर्मोत्पादयन्ति। आर्या अकृतकधर्मलाभिन इति पुण्यक्षेत्रं भवन्ति। तैर्लब्ध्वा ध्यानसमाधयः सर्वे परिशुद्धाः महाल्पैः क्लेशैर्विशंयुक्तत्वात्। सौमनस्यदौर्मनस्ययोर्निराकृतत्त्वाच्च पुण्यक्षेत्रम्। पञ्च चेतोखिलानि प्रहाय प्रतिलब्धविशुद्धचित्तत्वाच्च पुण्यक्षेत्रम्। अष्टक्षेत्रगुणसमन्वित्वात् सप्तविध समाधिपरिष्कारैः सुरक्षितत्वात् सप्तास्रव सन्निरोधित्वात् आस्रवैरदुष्टम्। शीलादिसप्तपरिशुद्धधर्मसम्पन्नत्वात् अल्पेच्छासन्तुष्ट्याद्यष्टगुणसमन्वितत्वात्। तत् पारं सन्तीर्य आकांक्षावितरणव्यवसायित्वाच्च पुण्यक्षेत्रम्। उक्तं च सूत्रे प्रस्थानचितमात्र एव कुशलधर्ममाचरितुमभिलषति। किं पुनर्बह्वर्थं प्रयोगम्। इति। ते आर्याः सदा कुशलधर्मानाचरन्तीत्यतः पुण्यक्षेत्रम्। किञ्चोक्तं सूत्रे यस्माद्दायकाद् गृहपतेः शीलवतो भिक्षुः सत्कारमादाय अप्रमाणसमाधिमुपसम्पद्य विहरति। स दायक्तो गृहपतिरप्रमाणं पुण्यं लभत इति। सङ्घे सन्ति केचिदप्रमाणसमाधिसमापन्नाः, केचिदनिमित्तसमाधिसमापन्नाः, केचिदचलसमाधिसमापन्नाः। तेन दानपतिरप्रमाणविपाकं लभते अतोऽपि पुण्यक्षेत्रम्। किञ्चोक्तं सूत्रे-त्रयाणां सन्निपातान्महतः पुण्यस्य प्रतिलाभः। श्रद्धा देयं पुण्यक्षेत्रमिति। सन्ति च सङ्घे बहवो भदन्ताः। भदन्तेषु श्रद्धाचित्तं बाढमुत्पद्यते। सङ्घस्य दानं नवप्रत्ययसंयुक्तमित्यतो महाफलप्रापकम्। सङ्घदानस्य प्रतिग्रहीता परिशुद्ध इत्यतस्तद्दानमपि अवश्यं परिशुद्धम्।



दानञ्चाष्टविधम्। (१) परिशुद्धचित्तोऽल्पं देयवस्तु भिन्नशीलस्याल्पशो ददाति। (२) परिशुद्धचित्तोऽल्पं देयं भिन्नशीलस्य बहुशो ददाति। (३) परिशुद्धचित्तो देयमल्पं धृतशीलस्याल्पशो ददाति। (४) परिशुद्धचित्तोऽल्पं देयं धृतशीलस्य बहुशो ददाति। (५) परिशुद्धचित्तो बहुशो[ऽल्पशो वा] ददाति तथा देयं चतुर्विधम्। सङ्घस्य दानमवश्यं द्वे त्रीणि वा प्रसाधयेत्। सर्वे सुजनाः सङ्घमुपादाय गुणान् वर्धन्ते। यथेष्टं बोधये परिणमन्ति। सङ्घस्य दीयमानं सर्वं विमुक्तिं प्रापयिष्यति। नैव च संसारे पातयति। सङ्घस्य दीयमानं सर्वं चित्तप्रसाधनाय भवति। यद्येकस्मिन् पुरुषे उत्पन्ना श्रद्धा चित्तं कदाचित् परिशोधयेत् कदाचिद्वा प्रकम्पेत। सङ्घे तु [समुत्पन्ना] श्रद्धा चित्तं परिशोधयेदेव। न पुनः प्रकम्पेत। कस्मिंश्चिदुत्पन्नः स्नेहः चित्तं न गुरुकुर्यात् न प्रचीयेत। सङ्घे तूत्पन्ना भक्तिः चित्तं गुरुकुर्यात् अप्रमाणालम्बनत्वात् चित्तं प्रचीयेत। सङ्घगणितानां सर्वेषां पुद्गलानां दद्यात्। चित्तमहिम्ना विपाकोऽपि महान् भवति। इत्यादिभिः प्रत्ययैः आर्यपुद्गलाः पुण्यक्षेत्रमित्याख्यायन्ते। अतोऽभिवन्द्यम्॥

पुण्यक्षेत्रवर्गः एकादशः।

१२ मङ्गलवर्गः

रत्नत्रयमिदं गुणसम्पन्नमित्यतः सूत्रस्यादावुक्तम्, इदं रत्नत्रयं सर्वस्य लोकस्य प्रथमं मङ्गलम्। यथोक्तं मङ्गलगाथायाम्-बुद्धो धर्मश्च सङ्गश्च एतन्मङ्गलमुत्तमम् इति। अथ कानिचित्सूत्राणि मङ्गलादीनि शैक्षाणामायुर्यशःप्रसरवर्धनानि इति सूत्रकर्तारोऽभिप्रयन्ति। यथा अथेत्यादिपदं सूत्रारम्भगतमिति। न तन्मङ्गललक्षणमिति पश्चाद्वक्ष्यते। उत्तममङ्गलप्रार्थिना इदं रत्नत्रयमेव शरणीकर्तव्यम्। यथोक्तं मङ्गलगाथायाम्-

देवेषु च मनुष्येषु शास्ताऽनुत्तमनायकः।
महामतिश्च सम्बुद्ध एतन्मङ्गलमुत्तमम्॥
यश्च बुद्धे सुविहितश्रद्धाचित्तो न कम्पते।
विशुद्धशीलसम्पन्न एतन्मङ्गलमुत्तमम्॥
असेवना च बालानां पण्डितानाञ्च सेवना।
पूजा च पूजनीयानामेतन्मङ्गलमुत्तमम्॥इति।
अतोऽभिवन्द्यं रत्नत्रयम्। उत्तममङ्गलत्वान्मया सूत्रादावुक्तम्॥

मङ्गलवर्गो द्वादशः।

१३ शास्त्रस्थापनवर्गः

अधुना लोकानां हितकरो जिनधर्मो जिज्ञास्यते। भगवतो महाकरुणाचित्तेन सर्वलोकानां हितकरत्वात् तद्धर्मोऽपार्यन्तिकबाध इत्युच्यते। तद्यथा केचित् ब्राह्मणानामेव मोक्षशास्त्रमुपदिशन्ति। भगवदुपदिष्टं शास्त्रन्तु चातुर्वर्गीयाणां सत्त्वानामातिर्यग्जन्तूनाञ्च सन्तारकं भवति इति नास्ति पार्यन्तिकबाधा।

(पृ) न कर्तव्यो बुद्धप्रवचनविचारः। कस्मात्। यदि भगवता स्वयमेव विचारितम्। किमस्ति विचाराय। यदि भगवता न विचारितम्। अन्येऽपि न विचारयितुं शक्‌नुयुः। कस्मात्। सर्वज्ञाभिप्रायो हि दुरवगाहः। किमर्थमिदमुक्तमिति न ज्ञायते। भगवदभिसन्धिमजानतामुपदिष्टं वृथेति तत् आत्मनः क्लेशायैव भवति। यथोक्तं सूत्रे-द्वौ पुरुषौ भगवन्तं निन्दतः एकोऽश्रद्धाद्वेषाभ्यां निन्दति, अपरस्तदुपदिष्टे सश्रद्धोऽपि सत्यसमादानासमर्थः। सैव बुद्धनिन्दा। विद्वानपि बुद्धाभिसन्धिमनवबुध्य बुद्धभाषितं न विचारयितुं शक्नोति। किं पुनस्तदलाभी बुद्धाभिसन्धेः कथासम्प्रयोगं चिकीर्षति। कस्मात्। यथा परप्रवादसूत्रे भगवता प्रतिपत्त्यर्थमिदमुक्तम्। सर्वे भिक्षवो नानाविधाः परप्रवादिनो नालभन्त तथागताशयम्। यथा च स्थविरमहाकात्यायनो भिक्षूनवोचत्। यथा च कश्चित् महान्तं वृक्षं छित्वा अतिक्रम्यैव मूलमतिक्रम्यैव स्कन्धं शाखापलाशानि पर्येषयन्ति। तथा यूयमपि तथागतमतिक्रम्यस्मानर्थ पृच्छथ, इति। यदि महाकात्यायन एवार्थविवेचने शाखापलाशान्युदाहरति। किं पुनरन्ये बुद्धप्रवचनं प्रतिपद्येरन्। किञ्च भगवान् शरिपुत्रमपृच्छत् के शैक्षाः के च साङ्‍ख्या इति। एवं त्रिः पृष्टो नोत्तरमवादीत्। तथागतमूलाः सर्वधर्माः। तथागत एव प्रतिपद्यते नान्ये। इति आनन्द स्तथागतमामन्त्याह-अभिसम्बोधिसमधिगमात् प्रतिलब्धे मार्गे हितं भवतीत्यतदपि युज्यते। कस्मात्। द्वाभ्यां प्रत्ययाभ्यां सम्यक् दृष्टिर्भवति परतो घोषात् योनिशश्च मनस्कारात्। भगवानानन्दमवोचत्-अभिसम्बोधिमात्रान्मार्गलाभहितं सम्पन्नं भवति। इति। यथा चाह भगवान्-यदि मया कस्यचित् धर्म उपदिष्टः सोऽप्रतिलब्धमदभिसन्धित्वात् कलहायते। इति।

अधुना वादिनः पृथक् पृथगभिनिविष्टाः। केचिद्वदन्ति सन्ति अतीतानागतधर्मा इति। केचिद्वदन्ति न सन्ति इति। अतो ज्ञातव्यमेव वादिनः तथागतमप्रतिपद्यमाना यथारुतमनुवर्तमानाः कलहायन्त इति। यथा आनन्दः समाध्यर्थं सर्वाण्युपादानानि दुःखमित्यवोचत्। तदा भगवान् भिक्षूनब्रवीत्-भावयथेममर्थ नानन्दोपमिताकारम् इति।

सर्वे वादिन आहुः-अर्हन् अग्रदक्षिणीय इति। भिक्षवोऽज्ञात्वा तथागतमुपेत्याप्राक्षुः। भगवानवोचत्-मम शासने अग्रप्रव्रजितोऽग्रदक्षिणीय इति। [एवम्] अन्नपाने स्थूलवस्तुन्येव न जानन्ति [यथावत्] कः पुनर्वादस्तथागतेनभिसन्धाय भाषिते सूक्ष्मधर्मे। इत्यादिना हेतुना न कर्तव्यो विचारः।

अत्रोच्यते। न युक्तमिदम्। कस्मात्। कारणसत्त्वात् परामिसन्धिर्ज्ञातुं शक्यते। यथोक्तं गाथायाम्-

जानन्ति वक्तुः सन्धानं[परमं] यत्परायणम्।
जानन्त्यपि च वक्तुश्च विवक्षा यस्य वस्तुनः॥ इति।

तत्रास्ति द्विधा मार्ग आर्यमार्गो लौकिकमार्ग इति। इदं पश्चाद्वक्ष्यते। अनेन मार्गेण वक्तुराशयो ज्ञायते। अथ परप्रवाद सूत्रेऽपि भगवान् संश्रावयति स्म। [आर्य] कात्यायनादिभिर्महावादिभिर्भगवदाशयः प्रतिलब्ध इत्यतो भगवान् साधुप्रशशंस। उदायिभिक्षुधर्मदिन्नादिभिभिक्षुणीभिः कृतं भगवच्छासनं भगवान् श्रुत्वा [तदेव पुनः] श्रावयति स्म।

गभीरं तथागतशासनं विवृण्वता शास्त्रं विरच्यते। अविवरणे सन्तिष्ठेत्। एवमन्यः “तथागतमूलाः सर्वधर्मा” इत्यादि प्रश्नः सर्वः प्रत्युक्तः। किञ्च शास्त्रं विरचयितव्यम्। कस्मात्। शास्त्रे विरचित्ते हि अर्थः सुगमः स्यात्। धर्मश्च चिरस्थितिकः स्यात्। भगवांश्च शास्त्रप्रणयनं संश्रावयति स्म। यथोक्तं सूत्रे-भगवानवोचद्भिक्षून्-यथाप्रणीतं शास्त्रं सम्यग्धारयत। इति। अतः सूत्रादर्थमादाय शास्त्रं निकायान्त रात्मना पृथक् स्थाप्यते। अतः शास्त्रं रचयितव्यम्।

किञ्च भगवान् नानासत्त्वानां सन्तरणीयानां कृते लोकादीनि शास्त्रमुखान्युक्तवान्। यथा स्वात्यादयोऽप्रतिपद्यमाना भ्रान्तमतयोऽभूवन्। स्वात्यादयो भिक्षव आहुः-तदेवेदं विज्ञानं सन्धावति संसरति। अनन्यदिति।

भगवानेवमादिना नानाधर्ममुपदिष्टवान्। विना शास्त्रं कथमर्थः प्रतिपद्येत। इत्यादिभिः कारणैः शास्त्रं विरचयितव्यम्॥

शास्त्रस्थापनवर्गस्त्रयोदशः।

१४ शास्त्रमुखवर्गः

लोकमुखं परमार्थमुखमिति द्विमुखं। लोकमुखतः अस्त्यात्मा इत्युच्यते। यथोक्तं सूत्रे-

आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत्।
आत्मनैव कृतं पुण्यं आत्मनैव विशुध्यते।
आत्मनैव कृतं पापमात्मना संक्लिश्यते॥ इति।

किञ्चोक्तं सूत्रे-शाश्वतं मनोविज्ञानम्। इति। आह च-दीर्घरात्रं भावितचित्तो मृत ऊर्ध्वजन्मभाक् भवति। इति। किञ्चाह कारकः कर्म करोति, कारकः स्वयमनुभवति। इति। अमुकः सत्त्वोऽत्रोत्पद्यते इत्यादि सर्वं लोकमुखेनोक्तम्, परमार्थमुखतस्तूच्यते सर्वं शून्यमसत् इति। यथोक्तं सूत्रे एषु पञ्चसु स्कन्धेषु नास्त्यात्मा वा आत्मीयं वा। चित्तञ्च समीरणज्वलनवत् प्रतिक्षणविनाशि। अस्ति कर्म अस्ति कर्मफलम्, कारकस्तु नोपलभ्यते। इति। यथा भगवान् आह-स्कन्धानां सन्तत्याऽस्ति संसार इति।

(२) अन्यदस्ति द्विविधं शास्त्रमुखम् व्यवहारमुखमार्यमुखम् इति। व्यवहारमुखमिति। व्यवहारत उच्यमानम्, [यथा] चन्द्रः क्षीयत इति। वस्तुतस्तु चन्द्रो न क्षीयते। [यथा वा] मृगा रमातेति स्नुषां मातेति वदन्ति। न वस्तुतः सा माता। यथोक्तं सूत्रे-जिह्वा रसं विजानाति इति। जिह्वाविज्ञानं रसं विजानाति न तु जिह्वा। यथा शक्तिप्रतिहतं पुरुषं प्रति वदन्ति पुरुषोऽयं दुःखं विजानातीति। विज्ञानन्तु दुःखं विजानाति, न तु पुरुषः। यथा वा दरिद्रः पुरुषः प्रभुरिति व्यपदिश्यते। बुद्धोऽपि पुरुषवशात् प्रभुरिति ख्यापयति। किञ्च भगवान् तीर्थिकानाकारयति ब्राह्मणानिति श्रमणानिति च। क्षत्रियब्राह्मणादय इव बुद्धोऽपि व्यवहारतः पूज्यो भवति। एकमेव यथा भाजनं देशवशात् विभिन्ननामकम्, बुद्धोऽपि नामानुयाति। यथा भगवानाह-अहं वैशालीं पश्चिमा [वलोक]मवलोकयामीति। एवमादिवचनं व्यवहारमनुवर्तत इति व्यवहारमुखमित्युच्यते।

आर्यमुखमिति। यथोक्तं सूत्रे-प्रतीत्यसमुत्पन्नं विज्ञानं चक्षुरादीनामिन्द्रियाणां मूलं महासमुद्रवत्। यथाह सूत्रम्-स्कन्धायतनधातूनां प्रत्ययाः सामग्रीमात्रम् न कारकः नापि वेदकः इति। सर्वं दुःखमिति चाह। यथोक्तं सूत्रे-यत् लौकिका वदन्ति सुखमिति [तत्] आर्या दुःखं वदन्ति। यत् आर्या दुःखं वदन्ति [तत्]लौकिकाः सुखं वदन्ति। इति। अभिधेयाः शून्या अनिमित्ता इत्यादि च। तत् आर्यमुखमित्युच्यते।

(३) त्रैकालिक शास्त्रमुखम्। यत्र रूपमित्याख्यायते तत्र यदतीतं यदनागतं वर्तमानम् सर्वं तत् रूपमित्युच्यते। इदं लौकिकं शास्त्रमुखम्।

(४) अस्ति चेदिति शास्त्रमुखम्। [यथा] स्पर्शोऽस्ति चेत्, सोऽवश्यं षडायतनमुपादाय भवति। न तु सर्वं षडायतनं स्पर्शस्य हेतूक्रियते। तृष्णस्ति चेत् अवश्यं सा वेदनामुपादायं भवति। न तु सर्वा वेदना तृष्णाया हेतूक्रियते। कदाचित् समग्रहेतुरुच्यते यथा स्पर्शप्रत्यया वेदना इति। कदाचिदसमग्र हेतुरुच्यते यथा वेदनाप्रत्यया तृष्णा इति। न तूच्यते अविद्येति। कदाचिदन्यथोच्यते। यथोक्तं सूत्रे-प्रीतमनसः कायः प्रश्रभ्यते। अप्रीतस्यापि त्रिभिर्ध्यानैःकायः प्रश्रभ्यते। प्रश्रब्ध[कायः] सुखं वेदयते। इति च चतुर्भिर्ध्यानैः प्रस्रब्धिमानपि न सुखं वेदयते। इतीदमन्यथा वचनम्।

(५) उत्सर्गोऽपवाद इति द्विविधं शास्त्रमुखम्। यथोक्तं सूत्रे-यश्चै-त्यवन्दनाय पादावुत्क्षिपति स आयुषोऽन्ते देवेषूत्पद्यते इति। अयमुत्सर्गः। सूत्रान्तरमाह-अनन्तर्यस्य कर्ता न देवेषूत्पद्यत इति। अयमपवादः। उक्तञ्च सूत्रे-कामानामनुभविता नापापकं करोति इति। अयमुत्सर्गः। स्त्रोत आपन्नः पुरुषः कामानुपभुञ्जानोऽपि न दुर्गतिपतनीयं कर्म करोति इति। अयमपवादः। अपि चोक्तं सूत्रे-चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते इति। अयमुत्सर्गः। यदि तदैव सर्वाणि रूपाणि प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत इति वदेत्। तदयुक्तम्। अथ चोक्तं सूत्रे-श्रोत्रं प्रतीत्य शब्दञ्च श्रोत्रविज्ञानमुत्पद्यते न चक्षुर्विज्ञानम्। इति। अयमपवादः। उत्सर्गोऽपवादश्च सर्वः सयुक्तिको न धर्मलक्षणविलोमकः।

(६) अपरमस्ति द्विविधं शास्त्रमुखम्-विनिश्चितमविनिश्चितमिति। विनिश्चितम्-यथोच्यते-बुद्धः सर्वज्ञः पुरुष इति। भगवतो भाषितः परमार्थो धर्मः। भगवतः श्रावकाः सम्यगाचारशीला इति। किञ्चाह-सर्वे संस्कृतधर्मा अनित्या दुःखाः शून्या अनात्मानः [तेषां]निरोधो निर्वाणम् इत्यादि मुखं विनिश्चितम्। अविनिश्चितम्-यद्युच्यते म्रियमाणो जायत इति। तदविनिश्चितम्। सत्यां तृष्णायां जायते। तृष्णाक्षये निरुध्यते। किञ्चोक्तं सूत्रे-समाहितस्य तत्त्वज्ञानमुत्पद्यत इति। इदमपि अविनिश्चितम्। आर्याणां समाधिलाभिनां तत्त्वज्ञानमुत्पद्यते। न तु तीर्थिकानां लब्धसमाधिकानामपि। यथाह सूत्रम्-यदभिलषितं तल्लभ्यते इति। इदमपि अविनिश्चितम्। कदाचित्तु न लभ्यते। यदाह-षडायतनं स्पर्शजनकम् इति। इदमपि अविनिश्चितम्। किञ्चिज्जनकं किञ्चिन्न जनकम्। एवमाद्यविनिश्चितमुखम्।

(७) अथ कृतकाकृतकशास्त्रमुखम्। यथोच्यते-अद्‍भुत मूलिका सुरभिपुष्पञ्च न वातरोगप्रतिकूलम् इति। आह-कोविदारपुष्पं वातरोगप्रतिकूलम् इति। आद्यस्य मनुष्यपुष्पत्वात् न वातरोगप्रतिकूलमित्युच्यते। द्वितीयस्य दिव्यपुष्पत्वात् वातरोगप्रतिकूलमित्युच्यते। किञ्च वदन्ति तिस्रो वेदना-दुःखा वेदना सुखा वेदना अदुःखासुखा वेदना इति। सूत्रान्तरमाह-विद्यमानाः सर्वा वेदना दुःखमिति। त्रिविधं दुःखं-दुःख-दुःखं, विपरिणामदुःखं संस्कार दुःखमिति। तदर्थमाह-विद्यमानाः सर्वा वेदना दुःखमिति। आह च-दुःखमिदं त्रिविधं नवं पुराणं मध्यमिति। अचिरवेदनायां सुखम्। चिरनिर्वेदे दुःखम्। मध्यमे उपेक्षा।

किञ्चाह-अभिसम्बुद्धत्वात् परिव्राट् इति। अनभिसम्बुद्धोऽषि परिव्राट् भवति। एवमादिलक्षणानां हेतुत आख्या भवति।

(८) प्रत्यासत्तिः शास्त्रमुखम्। यथा भगवानवोचभ्दिक्षून्-प्रजहत प्रपञ्चम्, तदा निर्वाणं लभध्वे इति। अलब्धेऽपि प्रत्यासत्त्या लभध्वे इत्युच्यते।

(९) लक्षणसाम्यं शास्त्रमुखम्। यथा एकवस्तुकथने अन्यदपि वस्तु समलक्षणमुक्तं भवति। यथा चाह भगवान्-लघुपरिवृत्तं चित्तम्। तदा अन्येऽपि चैत्तधर्मा उक्ता भवन्ति।

(१०) भूयोऽनुवर्तनं शास्त्रमुखम्। यथा भगवाना ह-य उदयव्ययलक्षणदृष्टिद्वयं न प्रजानाति स सर्वः सरागी भवति। यस्तु प्रजानाति स वीतरागो भवति। इति। स्त्रोत‍आपन्न उदयव्ययलक्षणद्वितयदृष्टिं जानन्नपि सरागो भवति। तत्प्रजानानां भूयस्त्वेन परं वीतरागा भवन्ति।

(११) कारणे कार्योपचारः शास्त्रमुखम्। यथोच्यते-अन्नदानं प्रयच्छति पञ्च गुणान्-आयुः वर्णं बलं सुखं प्रतिभानम् इति। वस्तुतस्तु नायुरादीन् पञ्च गुणान् प्रयच्छति। अपि तु तद्धेतून् प्रयच्छति। किञ्चाहुः कार्षापणमद्यत इति। कार्षापणं नादनीयम्। अपि तु कार्षापणमुपादाय लब्धमद्यते इत्यतः कार्षापणमद्यत इत्युच्यते। यथाह सूत्रम्-स्त्रीपुरुषौ मलम् इति। न वस्तुतो मलम्। आसङ्गादिक्लेशमलहेतुत्वात्। मलमित्युच्यते। किञ्चाह-पञ्च विषयाः कामा इति। न वस्तुतः कामाः। कामजनकत्वात्। कामा इत्युच्यन्ते। सुखकारणं सुखमित्युच्यते। यथा वदन्ति-उपचितधर्माणं पुरुषं अयं पुरुषः सुख इति। दुःखकारणं दुःखमित्युच्यते। यथा वदन्ति-मूढैः सह संवासो दुःखमिति। यथा वदन्ति सुखोऽग्निः दुःखोऽग्निरिति। आहुश्च-आयुर्हेतुरायुरिति। यथोक्तं गाथायाम्-

जन्मोपकरणसम्पच्च बाह्यं जीवितमस्ति हि।
धनहारी यथा नॄणां जीवितापहृदुच्यते॥ इति।

आहुश्चास्रवहेतुरास्रव इति। यथाह सप्तास्रवसूत्रम्-तत्र द्वौ वस्तुत आस्रवौ, अम्यानि पच्च वस्तूनि आस्रवकारणानि।

कार्ये कारणोपचारश्चास्ति। यथा भगवानाह-मया पूर्वकर्मानुभवितव्यमिति। कर्मफलमनुभवितव्यमित्यर्थः।

एवमादीनि बहूनि शास्त्रमुखानि परिज्ञातव्यानि॥

शास्त्रमुखवर्गश्चतुर्दशः।

१५ शास्त्रप्रशंसावर्गः

शास्त्रमिदमभ्यसितव्यम् कस्मात्। शास्त्रमभ्यसन् पुरुषधर्मज्ञानं लभते। यथोक्तं सूस्रे-द्वौ पुरुषौ स्तः ज्ञोऽज्ञश्च। यः स्कन्धधात्वायतनद्वादशनिदानकारणकार्यादिधर्मविवेकाकुशलः सोऽज्ञः। यस्तु कुशलः, स ज्ञ इति। शास्त्रे चास्मिन् स्कन्धधात्वायतनादीनि सम्यग्विविच्यन्ते। अत इदं शास्त्रमुपादाय पुरुषधर्मज्ञानं लभ्यते। इतीदमभ्यसितव्यम्।

एतच्छास्त्राभ्यासादप्राकृतो भवति। प्राकृतोऽप्राकृत इति द्वौ पुरुषौ स्तः। यथा वदन्ति-कश्चिन्मुण्डितकेशश्मश्रुको धर्मपटं परिदधानः परिगृहीतबुद्धेर्यापथोऽपि भगवच्छासनाद् दूरीभूतः। श्रद्धेन्द्रियाद्यसमन्वागमात्। यस्तु श्रद्धेन्द्रियादिसमन्वागतः स गृहस्थोऽपि अप्राकृत इत्युच्यते। यथोक्तं सूत्रे-चतुर्विधाः पुरुषाः कश्चित् सङ्घस्येर्यापथेऽवतीर्णः न सङ्घगणितः। कश्चित् सङ्घगणितो न सङ्घस्येर्यापथेऽवतीर्णः। कश्चित् सङ्घेर्यापथे सङ्घगणनायाञ्चावतीर्णः। कश्चिन्न सङ्घेर्यापथेऽवतीर्णो नापि सङ्घगणनायाम्। आद्यः प्रव्रजितः प्राकृतः। अनन्तरो गृहस्थ आर्यः। तृतीयः प्रव्रजितः आर्यः। चतुर्थो गृहस्थ प्राकृतः। इति। अनेन हेतुना श्रद्धेन्द्रियादिविरहितो न सङ्घगणानायामवतरति। अतः श्रद्वेन्द्रियादीनां कृत उद्योगः कार्यः। श्रद्धेन्द्रियलिप्सुना भगवच्छासनं श्रुत्वा उद्दिष्टं प्रातिमोक्षमादाय यथावच्चरितव्यम्। अतोऽभ्यसितव्यमिदं बुद्धधर्मशास्त्रम्।

किञ्चानेन शास्त्रेण द्विविधं हितं भवति आत्महितं परहितमिति। यथोक्तं सूत्रे-चतुर्विधाः पुरुषाः। कश्चिदात्महिताय प्रतिपन्नो न परहिताय। कश्चित् परहिताय प्रतिपन्नो नात्महिताय। कश्चिदात्महिताय च प्रतिपन्नः परहिताय च। कश्चिन्नैवात्महिताप प्रतिपन्नो न परहिताय इति। य आत्मना शीलादीन् सम्पादयति न परान् शीलादिषु स्थापयति। स आत्महिताय प्रतिपन्नः। एवं चतुर्धा। यत् कश्चिदात्महिताय प्रतिपन्नोऽपि परेषाञ्च दानादिमहाफलं सम्पादयति। तदपि परहितम्। तत्र बुद्धानुस्मृते र्नेदं हितमुच्यते। यदि कश्चित् परस्य धर्मोपदेशाय प्रतिपन्नः। तत् परहितम्। स आत्मना धर्मचर्यामनुवर्तमानोऽपि परार्थमुपदेशात् आत्मनोऽपि हितमनुप्राप्नोति। यथोक्तं सूत्रे-परस्यधर्ममुपदिशन् पञ्चविधं हितं लभते इति। तत्र बुद्धानुस्मृतेरपि नेदमुच्यते। तत्र प्रवचनमात्रस्योत्तमं हितं भवति यद्यथोक्तमाचरत आस्रवाः क्षीयन्ते इति। अतो धर्मस्य प्रक्क्ता परहिताय प्रतिपन्नः। स सहितत्वाच्च पुरुषेषूत्तमः। तद्यथा रसेषु मण्डम्।

अथ स पुरुष इदानीं ज्योतिषि स्थितः पश्चादपि ज्योतिः परायणो भवति। लौकिकाः सर्वे भूयसा तमस्तमः परायणाः ज्योतिषो ज्योतिः परायणा वा। यः कश्चिद् बुद्धशासनमाचरति स तमसो ज्योतिः परायणः ज्योतिषो ज्योतिः परायणो वा भवति। कस्मात्। दानादीनाचरन् न [तादृशं] हितं विन्दते यादृशं बुद्धधर्मं शृण्वन् [विन्दते]। यश्चाल्प[मपि] बुद्धप्रवचनं शृणोति स प्रतिवेधज्ञानलाभी सन् सर्वक्लेशान् भङ्क्त्वा अप्रमाणहितं प्रसवति। यक्तोक्तं सूत्रे-चत्वारः पुद्गलाः-तमस्तमःपरायणः तमोज्योतिःपरायणः ज्योतिर्ज्योतिः परायणः ज्योतिस्तमःपरायणः इति। किञ्च चतुर्विधाः परायणाः अनुस्स्रोतोगामी प्रतिस्रोतोगामी स्थितात्मा, तीर्णः पारङ्गत इति। यश्चित्तैकाग्र्येण भगवद्धर्मं शृणोति स एव पञ्च नीवरणानि प्रहाय सप्तबोध्यङ्गानि भावयति। अतः स प्रतिरुद्धसंसारस्रोताः प्रतीकूल इत्युच्यते। स च स्थितात्मा पारङ्गतश्च भवति।

पुनश्चतुर्विधाः पुरुषाः-सदाभवनिमग्नः कञ्चित् कालं भवान्निर्गत्य पुनर्निमग्नः, भवनिर्गमपरीक्षकः भवपारङ्गत इति। यो निर्वाणगामिश्रद्धादिगुणान्नोत्पादयति। स सदा भवनिमग्नः। कश्चित् लौकिकश्रद्धादीनुत्पाद्य न दृढयति पनः परिहीयते। स कञ्चित् कालं निर्गत्य पुनर्निमग्नः। यः श्रद्धादीनुत्पाद्य शुभाशुभं विवेचयति स निर्गमपरीक्षकः। यः निर्वाणगामिश्रद्धादीनुपसम्पाद्य भावयति स पारङ्गतः। यो भगवद्धर्मस्य सम्यगर्थं वेत्ति स नैव सदा निमग्नो भवति। स मुहूर्तं परिहीनोऽपि नात्यन्तं परिहीयते।

स च गुणाभावयितेत्युच्यते यः कायेन शीलं मनसा प्रज्ञां च भावयति स किञ्चिद् दुष्कर्म कुर्वन्नपि दुर्गतौ पतति। यस्तु भावयति कायेन शीलं मनसा प्रज्ञां स बहु दुष्कर्म कुर्वन्नपि न दुर्गतौ पतति। कायस्य भावयिता श्रुतप्रज्ञाभ्यां कायवेदनाचैत्तान् भावयति। कायं भावयन् क्रमेण शीलसमाधिप्रज्ञास्कन्धानुत्पाद्य कर्माणि प्रजहाति। कर्मणां प्रहाणात् संसारोऽपि निरुध्यते। -उक्तञ्च सूत्रे चतुर्विधाः पुरुषाः-केचित् अगम्भीरतीक्ष्णानुयाः, केचित् अतीक्ष्णगम्भीरानुशयाः, केचिद्गम्भीरतीक्ष्णानुशया, केचिदगम्भीरातीक्ष्णानुशयाः। आद्यः अधिमात्रानुशयः काले काल आगच्छति। समनन्तरो यो मृदुमध्यानुशयः स सदागत्य चित्तनिविष्टो भवति। तृतीयो योऽधिमात्रानुशयः सोऽपि आगत्य चित्तनिविष्टः। चतुर्थो यो मृदुमध्यानुशयः स कश्मिंञ्चित्काल आगच्छति। स यदि भगवतः शासने सम्यच्छास्रं शृणोति। स तीक्ष्णगभीराख्यद्विविधाननुशयान् प्रजहाति।

भगवद्धर्मस्य सम्यगर्थं यो वेत्ति। तस्य नात्मव्याबाधा न परव्याबाधा भवति। तीर्थिकाःशीलमात्रधारिणः स्वकायमेव व्याबाधन्ते। नास्ति पुण्यपापं [नास्ति] कर्मफलमिति मिथ्यादृष्टौ यः पतति सपरानेव व्याबाधते। यद्दानमाचरति स आत्मानमपि व्याबाधते परानपि व्याबाधते। यथाध्वरे बहवः पशवो हन्यन्ते। यस्तु भगवद्धर्मस्यार्थं वेत्ति। स हितमेव कुर्वन् नात्मानं ब्याबाधते। नापि परान्। यथा ध्यानसमाधिमैत्रीकरुणानां लाभी। अतोऽभ्यसितव्यमिदं भगवच्छासनशास्त्रम्।

एतच्छास्राभ्यासी सम्यगर्थवेदित्वात् कथ्यो भवति। यथोक्तं सुत्रे कथासम्प्रयोगेण [पुद्गलो] वेदितव्यो यदि वा कथ्यो यदि वाऽकथ्य इति। यो विदुषां धर्मं पृष्ठः स्थानास्थाने न सन्तिष्ठति। परिकल्पे न सन्तिष्ठति। प्रतिपदायां न सन्तिष्ठति। अयमकथ्यो भवति। तद्विपरीतः कथ्य इति। विदुषां धर्मे न तिष्ठतीति। वादी सम्यक् प्रज्ञानेनार्थगतिं ज्ञात्वा पश्चात्प्रयोगमादत्ते। सोऽस्याज्ञत्वात् न ग्राह्यः। यथा नाथपुत्रादयः स्वयं वदन्ति अस्माकं शास्ता आप्तः तद्वचनमेवानुवर्तामह इति। स्थानास्थाने न सन्तिष्ठतीति। हेतुप्रयोगे न तिष्ठति। तीर्थिकादीनां द्विधा हेतुः साधारणहेतुः विशेषहेतुरिति। परेण साधारणहेतावुक्ते असाधारणहेतुना प्रतिवदन्ति। असाधारणहेतावुक्ते साधारणहेतुना प्रतिवदन्ति। एवं द्विविधहेतावपि न तिष्ठन्ति। परिकल्पे न सन्तिष्ठति इति। दृष्टान्ते न तिष्ठति। प्रतिपदायां न सन्तिष्ठतीति। वादपद्धतौ न तिष्ठति। यथा ह-मा परुषवचनमुच्चारय। मा त्यज प्रतिज्ञार्थम्। यत्नेनोपायं शिक्षय संविल्लाभाय। आत्मनो वा मानसिकी तुष्ठिः आर्यप्रवचनधर्मः इति। तत्र यो भगवद्धर्म सम्यक् ज्ञात्वा प्रवक्ति स कथ्यो भवति। नान्ये।

अकथ्य इति। य [एकांश] व्याकरणीयं प्रश्नं नै [कांशेन] व्याकरोति। विभज्य व्याकरणीयं प्रश्नं न विभज्य व्याकरोति। प्रतिपृच्छाव्याकरणीयं प्रश्नं न पतिपृच्छ्य व्याकरोति स्थपनीयं प्रश्नं न स्थपयित्वा व्याकरोति। तद्विपरीतः कथ्यः। एकांश व्याकरणीयः प्रश्न इति। [तत्र] एक एव हेतुरस्ति। [तेन] यथा बुद्धो भगवान् [तथा] लोके नास्ति तत्सम इतीदृशमनुमानं भवति। विभज्यव्याकरणीयः प्रश्न इति। पुनरस्ति कारणं [विभज्य व्याकरणस्य]। यथा मृतसन्तानादयः [पुनरुत्पत्स्यन्त्] इति। परिपृच्छाव्याकरणीयः प्रश्न इति। यथा कश्चित्पृच्छति। अन्यः पुनः परिपृच्छय व्याकरोति। स्थपनीयः प्रश्न इति यो धर्मोऽभूतरूपः किन्तु प्रज्ञप्तिसन्। स धर्मः किमेकः उत नाना, किं शाश्वतः उताशाश्वत इत्यादि यदि कश्चित् पृच्छति। नायमर्थो व्याकरणीयः। भगवच्छासनस्य वेत्ता केवलं तत् वेत्ति। तस्मादभ्यसितव्यमिदं भगवच्छासनशास्रम्।

किञ्च सन्ति चतुर्विधाः पुरुषाः-सावद्यः बद्यबहुलः अल्पावद्यः अनवद्य इति। सावद्य इति यस्य केवलमकुशलं नैकोऽपि कुशलधर्मोऽस्ति। वद्यबहुल इति। यस्याकुशलं बहु कुशलमल्पम्। अल्पवद्य इति। यस्य कुशलं बहु अकुशलमल्पम्। अनवद्य इति। यस्य कुशलधर्ममात्रं नाकुशलम्। भगवच्छासनस्य सम्यगर्थवेदी द्वैविध्यं भजते अल्पवद्योऽनवद्य इति।

अथ यो भगवच्छासनस्यार्थं वेत्ति। तस्य दुःखवेदना परिमिता। स हि निर्वाणमवश्यं प्राप्स्यति॥

शास्त्रप्रशंसावर्गः पञ्चदशः।

१६ चतुर्धर्मवर्गः

अथैतच्छास्राभ्यासी उत्तमं सङ्‍ग्रहधर्मं विन्दते। यथोक्तं सूत्रे-चत्वारि सङ्‍ग्रहवस्तूनि-दानं प्रियवचनमर्थचर्या समानार्थता इति। दानम् अन्नवस्त्रादीनाम्। धनदानेन संगृहीताः सत्त्वाः पुनर्विकम्प्या भवन्ति। प्रियवचनम् यथाप्रिप्रायं भाषणम्। इदमपि दुष्टमेव। तस्याभिप्रायस्य [स्वीयतया] ग्रहणात्। अर्थचर्चा परार्थं हिताकांक्षणम्। यत् सहेतुप्रत्ययमन्यस्य कार्यसिद्धिं करोति। इदमपि प्रकम्प्यं भवति। समानार्थता। यथा शोके मोदे च [परेण] सहैकीभवनम्। इयं समानार्थता। इदं कदाचित्प्रकम्प्यम्। यदि कश्चित् धर्मदानप्रियवचनार्थचर्यासमानार्थताभिः सत्त्वान् सङ्गृह्णाति। तदा ते सत्त्वा न प्रकम्प्या भवन्ति। धर्मेण सङ्ग्रहो यदुतैतच्छास्त्राभ्यासः। अतो यत्नेन शिक्षितव्यम्।

एतच्छास्त्रमभ्यसन् उत्तमं शरणं लभते। यथोक्तं सूत्रे-धर्मप्रतिशरणेन भवितव्यम् न पुद्गलप्रतिशरणेनेति। यद्यपि कश्चिदेवं वदेत् मया भगवतः सम्मुखात् श्रुतं भदन्तश्च सम्मुखाद्वा पूर्वान्ते श्रुतमिति। तस्याश्रद्धेयत्वात् न तद्ववचनमादेयम्। यद्वचनन्तु सूत्रेऽवतीर्णं धर्मलक्षणाविरुद्धं विनयानुलोमितञ्च तत्पुनरादेयं स्यात् इति। सूत्रेऽवतीर्णमिति यत् नीतार्थसूत्रेऽवतीर्णम्। नीतार्थसूत्रञ्च यस्यार्थगतिर्धर्मलक्षणाविरुद्धा। धर्मलक्षणञ्च यद्विनयानुलोमकम्। विनयश्च संवरः। तद्यथा कश्चित् संस्कृतधर्माः शाश्वताः सुखाः सात्मान इति भावयति। स न कामादीन् प्रजहाति। अनित्या दुःखा अनात्मान इति यो भावयति। स कामादीन् प्रजहाति। अनित्यतादिज्ञानमेव धर्मलक्षणम् धर्मोऽयं शरणीकर्तव्यो न पुद्गलाः।

धर्मप्रतिशरणं वदता सर्वे धर्माः सङ्गृहीता भवन्ति। अतः पुनरुच्यते नितार्थसूत्रप्रतिशरणेन भवितव्यं न नेयार्थसूत्रप्रतिशरणेनेति। नीतार्थसूत्रमेव तृतीयं प्रतिशरणम्। यदुच्यते अर्थप्रतिशरणेन भवितव्यं न व्यञ्जनप्रतिशरेण इति। योऽयं व्यञ्जनार्थः सूत्रेऽवतीर्णो धर्मलक्षणाविरोधी विनयानुलोमकश्च तत्प्रतिशरणेन भवितव्यम्। ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति। [विज्ञानं] यत् रूपादिविज्ञानम्। यथोक्तं सूत्रे विजानातीति विज्ञानम्। इति। ज्ञानं नाम यथाभूतधर्माभिसमयः। यथोक्तं-रूपवेदनासंज्ञासंस्कारविज्ञानानि यथाभूतं प्रजानातीति ज्ञानम्। शून्यतैव यथाभूतम्। अतो यद्विज्ञानप्रतिलब्धम्, न तत्प्रतिशरणेन भवितव्यम्। या ज्ञानप्रतिशरणता सैव शून्यताप्रतिशरणता। तामुत्तमप्रतिशरणतां प्रतिवेधितुकामेन इदं शास्त्रमभ्यसितव्यम्।

उक्तञ्च सूत्रे-चत्वारि देवमनुष्याणां चक्राणि शुभवर्धकानि। प्रतिरूपदेशवासः सत्परुषोपाश्रयः आत्मनः सम्यक्‌प्रणिधानं पूर्वे च कृतपुण्यता। इति। प्रतिरूपदेशवासो नाम यत् पञ्चदूषणविविक्तो मध्यदेशः। सत्पुरुषोपाश्रयो यत् बुद्धाध्वनि जन्मना सङ्गमः। पूर्वे च कृतपुण्यता नाम यत् बाधिर्यमूकताद्यभावः। आत्मनः सम्यक् प्रणिधानं नाम सम्यक् दर्शनमिदम्। सम्यक् दर्शनञ्चावश्र्यंभगवच्छासनश्रवणादुत्पद्यते इत्यत इदं सम्यच्छासनशास्त्रमभ्यसितव्यम्।

अस्य शास्त्रस्याध्येता चास्मिन्नेवायुषि सत्यप्रतिवेधाख्यं महासारार्थं लभते। यथोक्तं सुत्रे-चत्वारः सारधर्माः वचनसारः समाधिसारो दर्शनसारो विमुक्तिसार इति। वचनसार इति। सर्वे संस्कृता अनित्या दुःखाः, सर्वे अनात्मानः शान्तं निरोधो निर्वाणमिति यद्वचनम्। अयं वचनसारः श्रुतमयप्रज्ञापरिपूरणमित्याख्यायते। इममुपादाय प्रतिलब्धः समाधिश्चिन्तामयप्रज्ञापरिपूरणमित्युच्यते। इमं समाधिमुपादाय संस्कृतधर्मा अनित्या दुःखाः इत्यादि भावना सम्यग्दर्शनप्रापिणी भावनामयप्रज्ञापरिपूरणमित्युच्यते। प्रज्ञात्रित्तयप्रतिलब्धं फलं विमुक्तिसार इत्याख्यायते।

अथ यः शृणोति भगवच्छासनस्य सम्यच्छास्रम्, स महान्तमर्थं लभते। यथोक्तं सूत्रे-चत्वारो महार्थधर्माः सत्पुरुषसंसेवा, सद्धर्मश्रवणं, योनिशो मनस्कारः धर्मानुधर्मप्रतिपत्तिरिति। यः सत्पुरुषमुपास्ते स सद्धर्मं शृणोति। अस्य सद्धर्मस्य सत्पुरुषवर्तित्वात्। श्रुतसद्धर्मा सन् योनिशो मनस्कारमुत्पाद्य अनित्यादिना धर्मान् सम्यग्भावयति। अनया भावनया धर्मानुधर्मं प्रतिपद्यते यदुतानास्रवं दर्शनम्।

एतच्छास्त्रं शृण्वतश्चत्वारि गुणाधिष्ठानानि भवन्ति-प्रज्ञाधिष्ठानं, सत्याधिष्ठानं, त्यागाधिष्ठानं, उपशमाधिष्ठानमिति। धर्मश्रवणात्प्रज्ञा भवतीति प्रज्ञाधिष्ठानम्। अनया प्रज्ञया परमार्थशून्यतां पश्यतीति सत्याधिष्ठानम्। शून्यतादर्शनेन क्लेशानां वियोगं लभत इति त्यागाधिष्ठानम्। क्लेशानां क्षयाचित्तमुपशाम्यतीदमुपशमाधिष्ठानम्।

किञ्च भगवच्छासनस्य सम्यच्छास्त्रं श्रुतवतश्चत्वारि निर्वाणगामिनि कुशलमूलानि अङ्‍कुरीभवन्ति यदुत ऊष्मधर्मो मूर्धधर्मः क्षान्तिधर्मो लौकिकाग्रधर्म इति। अनित्याद्याकारेण पञ्चस्कन्धान् भावयतोऽवरं मृदु निर्वाणगामि कुशलमूलं चित्तस्योष्मकरमुत्पद्यते। अयमूष्मधर्म इत्युच्यते। उष्मधर्मसंवर्धितं मध्यं कुशलमूलं मूर्धधर्म इत्याख्यायते। मूर्धधर्मसंवर्धितमुत्तमं कुशलमूलं क्षान्तिधर्म इत्युच्यते। क्षान्तिसंवर्धितमुत्तमोत्तमं कुशलमूलं लौकिकाग्रधर्म इत्यभिधीयते।

सन्ति च चत्वारि कुशलमूलानि-हानभागीयं, स्थितिभागीयं, विशेषभागीयं निर्वेधभागीयमिति। ध्यानसमाधिपूजनवन्दनस्तोत्रादिकुशलमूलानां हानं हानभागीयम्। ध्यानसमाध्यादिकुशलमूलानां प्रतिलाभः स्थितिभागीयम्। श्रवणचिन्तनादिभ्य उत्पन्नानि कुशलमूलानि विशेषभागीयम्। अनास्रवं कुशलमूलं निर्वेधभागीयम्। यस्तथागतस्य धर्मं शृणोति स हानभागीयं विसंयुज्य त्रीणि कुशलमूलानि प्रतिलभते॥

चतुर्धर्मवर्गः षोडशः।

१७ चतुस्सत्यवर्गः

अथ यस्ताथागतधर्मं शृणोति स चतुस्सत्यानि सविभङ्गानि सम्प्रजानाति दुःखसत्यं, समुदयसत्यं, निरोधसत्यं मार्गसत्यमिति। दुःखसत्यमिति यत् त्रैधातुकम्, कामधातुः अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान्। रूपधातुः आब्रह्मलोकात् आचाकनिष्ठात् देवलोकात्। आरूप्यधातुश्चत्वारि अरूपध्यानानि।

सन्ति च चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारा इति। तीर्थिकाः केचिद्वदन्ति विज्ञानम् आत्मोपगा स्थितिरिति। अतो भगवानाह चतु [स्कन्धो]पगा विज्ञानस्थितयः इति। सन्ति च चतस्रो जातयः-अण्डजो जरायुजः संस्वेदेज औपपादुक इति। देवा नारकाः सर्व औपपादुकाः। प्रेता उभयथा जरायुजा औपपादुकाश्च। अन्ये चतसृषु जातिषु [अन्तर्भूताः]। चत्वार आहाराः-कवडीकार आहारः औदारिकः सूक्ष्मो वा। ओदनादिरौदारिक इत्युच्यते। घृततैलगन्धबाष्पपानादयः सूक्ष्माः। स्पर्शाहारः शीतोष्णवातादिः। मनःसञ्चेतनाहारो यत् कदाचित् पुरुषाः सञ्चेतनाप्रणिधानेन जीवति। विज्ञानाहारः अन्तराभविकनारकारूप्या निरोधसमापत्तिप्रविष्ठाः सत्वा अदृष्टविज्ञाना अपि विज्ञानप्रतिलम्भे वर्तन्त इत्यतो विज्ञानाहारा इत्युच्यन्ते।

षङ्गतयः-उत्तमपापं नरकम्। मध्यमपापास्तिर्यञ्चः। अधमपापाः प्रेताः। उत्तमपुण्या देवगतिः। मध्यमपुण्या मनुष्यगतिः। अधमपुण्या असुरगतिः। किञ्च षट् [भूत]प्रकाराः-पृथिव्यप्तेजोवाव्याकाशविज्ञानानीति। चतुर्भिर्महाभूतैः परिवृतं विज्ञानमध्यकमाकाशं पुरुष इति संख्यां गच्छति। षट् स्पर्शायतनानि चक्षुरादीनि षडिन्द्रियाणि विज्ञानसङ्गतानि स्पर्शायतनमित्याख्यायन्ते।

सप्तविज्ञानस्थितयः। आसु स्थितिषु विपर्ययबलात् विज्ञानं साभिरामं तिष्ठति।

अष्टौ लोकधर्माः-लाभोऽलाभो यशोऽयशो निन्दा प्रशंसा सुखं दुःखमिति। पुरुषा लोके स्थिता अवश्यभिमानुपाददते। इत्यतो लोकधर्मा इत्युच्यन्ते।

नव सत्त्वावासाः। सत्त्वाः सर्वे विषयबलादेषु वसन्ति।

सर्वे च धर्माः पञ्चधा विकल्प्यन्ते-पञ्च स्कन्धाः द्वादशायतनानि अष्टादश धातवो द्वादश निदानानि द्वाविंशतिरिन्द्रियाणि इति। चक्षुर्विज्ञप्तिरूपं रूपस्कन्धः। तत्प्रतीत्योप्तन्नं विज्ञानं यत्पुरोवर्तिरूपग्राहकं स विज्ञानस्कन्धः। यत् चित्तं स्त्री पुरुषः शत्रुबन्धुरित्यादिसंज्ञां जनयति। स संज्ञास्कन्धः। शत्रुर्बन्धुर्मध्यस्थ इति यत् पुरुषं विकल्पयति तत् तिस्रो वेदना जनयति। अयं वेदनास्कन्धः। आसु तिसृषु वेदनासु यत् त्रिविधाः क्लेशा उत्पद्यन्ते। स संस्कारस्कन्धः। एषां प्रवृत्त्या कायोपादानान्युपादत्त इति पञ्चोपादानस्कन्धा इत्युच्यन्ते।

चतुर्भिः प्रत्ययै विज्ञानमुत्पद्यते यदुत हेतुप्रत्ययः समनन्तरप्रत्यय आलम्बनप्रत्ययोऽधिपतिप्रत्ययश्चेति। कर्म हेतुप्रत्ययः। विज्ञानं समनन्तरप्रत्ययः। विज्ञानसमनन्तरं विज्ञानस्य जायमानत्वात्। रूपमालम्बनप्रत्ययः। चक्षु[रादि]रधिपतिप्रत्ययः। तत्र विज्ञानं द्वाभ्यां कारणाभ्यामुत्पद्यते यत् चक्षुःरूपं यावन्मनो धर्मान्। इमानि द्वादशायतनानि भवन्ति। तत्र विज्ञानयोजनया अष्टादश धातवो भवन्ति। चक्षुर्धातुः रूपधातुश्चक्षुविज्ञानधातुः इत्यादि।

स्कन्धादयो धर्माः कथमुत्पद्येरन्। द्वादशसु पर्वसु वर्तित्वात् द्वादश निदानानि भवन्ति। तत्राविद्या क्लेशाः। संस्कारः कर्म। इमौ द्वावुपादाय क्रमश उत्पद्यन्ते-विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च। तृष्णोपादानाख्यौ द्वौ धर्मौ क्लेशौ। भवः कर्म। अनागतेऽध्वनि कायोपादानस्याद्यं विज्ञानं जातिरित्युच्यते। अन्यत् जरामरणम्। इमानि द्वादश निदानानि अतीतानागतवर्तमानसन्दर्शनानि केवलमुपादनप्रत्ययरूपाणि अनात्मकानि।

उपपत्तिमरणपुनः सन्धिनिवृत्यर्थकानि द्वाविंशतिरिन्द्रियाण्युच्यन्ते। सर्वसत्त्वानामाद्यशरीरानुभवो विज्ञानमूलकः। तद्विज्ञानं चक्षुरादिभ्यः षोढा समुत्पद्यते इति षडिन्द्रियाण्युच्यन्ते यत् चक्षुरिन्द्रियं यावन्मन‍इन्द्रियमिति। षड्विवज्ञानजनकत्वादिन्द्रियाणि षडेव। येन स्त्रीपुरुषलक्षणं विकल्प्यते तत् स्त्रीपुरुषेन्द्रियम्। केचिद्वदन्ति-अयं कायेन्द्रियैकदेश इति। तानि षडिन्द्रियाणि कदाचित् षडायतनानीत्युच्यन्ते। एभ्यः षड्‍भ्य उत्पद्यमानं षोढा विज्ञानं जीवितमित्युच्यते। कस्मात्। इमानि षडायतनानीति षड्विज्ञानानीति सन्तानप्रवृत्तिं लभन्तो इत्यतो जीवितमित्युच्यते। अत एषां जीवितमित्याख्या। तत्र किमिन्द्रिम्। यदुच्यते कर्म। कर्महेतुतया षडायतनषड्विज्ञानानि सन्तानेन प्रवर्तन्ते। जीविते चास्मिन् कर्म जीवितेन्द्रियामित्याख्यायते। कर्मेदं वेदनाभ्य उत्पद्यते। वेदना एव सुखादीनि पञ्चेन्द्रियाणि। तेभ्यः पञ्चेन्द्रियेभ्यः कामतृष्णादयः सर्वे क्लेशाः कायिकवाचिककर्माणि च प्रादुर्भवन्ति। तत्कर्मप्रत्ययं पुनर्जातिमरणमुपादीयते। अयं संक्लेशधर्मो जातिमरणप्रत्ययं सन्तानं करोति।

किंप्रत्ययं व्यवदानं भवति। नियमेन श्रद्धादीनुपादाय। श्रद्धादिचतुर्धर्मप्रत्यया प्रज्ञा भवति। प्रज्ञा च त्रैकालिकी यत् अनाज्ञातमाज्ञास्यामि, आज्ञा, आज्ञातावी ति। भावनायां क्रियमाणायां तानीन्द्रियाणि ज्ञान[रूप] प्रज्ञाविशेषभूतानि। तथागतः संसारस्थितिप्रवृत्तिनिवृत्तित्र्यवदानार्थकत्वेन द्वाविंशतीन्द्रियाण्यवोचत्। एवमादयो धर्मा दुःखसत्यसङ्‍गृहीताः। तत्परिज्ञाता दुःखसत्यज्ञानकुशल इत्युच्यते।

समुदयसत्यमिति। कर्म क्लेशाः। कर्म कर्मस्कन्धे वक्ष्यते। क्लेशाः क्लेशस्कन्धे। कर्मक्लेशाः पूनर्भवनिदानत्वात्समुदयसत्यमित्याख्यायते।

निरोधसत्यमिति। पश्चाद्विस्तरेण निरोधस्कन्धे वक्ष्यते। यत् प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तमित्येषां त्रयाणां चित्तानां निरोधो निरोधसत्यमित्युच्यते।

मार्गसत्यमिति। यत्सप्तत्रिंशद्वोधिपक्षिका धर्माः चत्वारि स्मृत्युपस्थानानि चत्वारि प्रधानानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गानि अष्टावार्यमार्गाङ्गानि इति। चत्वारि सम्यक् स्मृत्युपस्थानानि इति। कायवेदनाचित्तधर्मेषु सम्यक् स्मृतिस्थापनम्। स्मृतिश्च प्रज्ञा भवति। कायोऽनित्य इत्यादि भावनया तदालम्बने विहरणं कायस्मृत्युपस्थानम्। इयं स्मृतिः प्रज्ञया सह क्रमशो भूयो विवृद्धा वेदनां विकल्पयतीति वेदनास्मृत्युपस्थानम्। भूयश्च परिशुद्धा चित्तं विकल्पयतीति चित्तस्मृत्युपस्थानम्। सम्यक् चर्यया धर्मान् विकल्पयतीति धर्मस्मृत्युपस्थानम्।

चत्वारि सम्यक् प्रधानानीति। उत्पन्नानां पापकानामकुशलानां धर्माणामादीनवं पश्यन् तत्प्रहाणाय छन्दं जनयति वीर्यमारभते। तत्प्रहाणोपायो यत् तत्प्रत्ययज्ञानदर्शनप्रत्ययः। अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयति वीर्यमारभते। अनुत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति वीर्यमारभते। उत्पादोपायो यत् ज्ञानदर्शनप्रत्ययः। उत्पन्नानां कुशलानां धर्मणां वैपुल्याय छन्दं जनयति वीर्यमारभते। उत्तममध्यमाधमक्रमेणोपायः। अविनिवर्तनीयत्वात् [तस्य]।

चत्वार ऋद्धिपादा इति। छन्दसमाधि संस्कारसमन्वागतर्द्धिपादभावना। छन्दमुपादायोत्पन्नः समाधिश्चन्दसमाधिः। छन्दवीर्यश्रद्धाप्रश्रब्धिस्मृतिसम्प्रजन्यचेतनोपेक्षादिधर्मसहगतः संस्कारसमन्वागतो नाम। गुणानां विवृद्धयर्थत्वेन ऋद्धिपादः। छन्द्रविवृद्धये वीर्यकरणम्। अयं द्वितीय [ऋद्धिपादः]। योगी सच्छन्दः सवीर्यश्च चित्तसमाधिं प्रज्ञाञ्च भावयति। चित्तसमाधिप्रतिलम्भ एव समाधिरित्युच्यते। मीमांसासमाधिरेव प्रज्ञा।

पञ्चेन्द्रियाणीति। धर्मश्रवणजा श्रद्धा श्रद्वेन्द्रियम्। सश्रद्धः सन् संक्लेशधर्माणां प्रहाणाय व्यवदानधर्माणामधिगमाय च वीर्यमारभते। इदं वीर्येन्द्रियम्। चतुर्णां स्मृत्युपस्थानानामभ्यासः स्मृतीन्द्रियम्। स्मृतिमुपादाय समाधिनिर्वर्तनं समाधीन्द्रियम्। समाधिमुपादाय समुत्पन्ना प्रज्ञा प्रज्ञेन्द्रियम्। इमानि पञ्चेन्द्रियाणि विवृद्धानि बलवन्तीति पञ्चबलानीत्युच्यन्ते।

अष्टावार्यमार्गाङ्गानीति। श्रुतमयप्रज्ञः श्रद्दधते पञ्चस्कन्धा अनित्या दुःखा इत्यादि। इयं सम्यक् दृष्टिः। प्रज्ञेयं यदि चिन्तामयी भवति। तदा सम्यक् सङ्कल्पः। सम्यक् सङ्कल्पेनाकुशलानां प्रहाणाय कुशलानां कर्मणा भावनायै च यत् वीर्यमाचरति स सम्यक् व्यायामः। ततः क्रमेण प्रव्रजितः शीलमुपादाय सम्यग्वाचं सम्यक् कर्मान्तं सम्यगाजीवञ्च त्रीणि मार्गाङ्गान्यनुप्राप्नोति। अस्मात् सम्यक् संवरात्क्रमशः स्मृत्युपस्थानानि ध्यानसमाधयश्च संसिध्यन्ति। तांश्च स्मृतिसमाधीनुपादाय यथाभूतज्ञानमनुप्राप्नोति। इत्येवमार्याष्टमार्गाङ्गानां क्रमः। अथ मार्गाङ्गेषु शीलं प्राथमिकं स्यात्। कस्मात्। शीलसमाधिप्रज्ञास्कन्धानामार्थिकक्रमत्वात्। सम्यक्‌स्मृतिः सम्यक्‌समाधिश्च समाधिस्कन्धः। व्यायामः सर्वत्र समुदाचरति। प्रज्ञास्कन्धो मार्गप्रत्यासन्न इत्यत आदावुक्तः। सा च प्रज्ञा द्विविधा औदारिकी सूक्ष्मा चेति। औदारिकीति या श्रुतमयी चिन्तामयी च प्रज्ञा। अयं सम्यक् सङ्कल्प इत्युच्यते। सूक्ष्मेति भावनामयी प्रज्ञा या ऊष्मादिधर्मगता प्रज्ञप्तिसत्पञ्चस्कन्धान् विदारयति। इयं सम्यक् दृष्टिः। अनया सम्यग्दृष्टया यः पञ्चस्कन्धानां निरोधं पश्यति। अयं प्रथमाभिसम्बुद्ध इत्युच्यते। तदुपादाय सप्तबोध्यङ्गान्यनुप्राप्नोति।

स्मृतिसम्बोध्यङ्गम्-शैक्षः पुरुषः स्मृतिप्रमोषे क्लेशा उत्तिष्ठन्तीत्यतः सम्यक् स्मृत्युपस्थानं बध्नाति। बद्धस्मृतिः सन् पूर्वागमलब्धां सम्यक् दृष्टिं लभते। अयं धर्मप्रविचयः। धर्मप्रविचयापरित्यागो वीर्यम्। वीर्यमाचरतः क्लेशानां तनुत्वे चित्ते प्रीतिर्जायते। इयं प्रीतिः। प्रीत्या कायः प्रश्रम्यते। इयं प्रश्रब्धिः। प्रश्रब्ध्या सुखी भवति। सुखित्वे चित्तं समाधीयते। अयं समाधिः दुर्लभो वज्रोपम इत्याख्यायते। फलेऽनासज्य प्रीतिदौर्मनस्यादीनां प्रहाणमुपेक्षा। इयमुत्तमा चर्या। उपेक्षा च नोन्मज्जनं ननिमज्जनं, किन्तु तयोश्चित्तसमता। सम्बोधिर्नामाशैक्षज्ञानम्। इमानि सप्त भावयन् सम्बोधिं लभत इति सम्बोध्यङ्गमित्युच्यते।

एभिः सप्तत्रिंशब्दोधिपक्षिकैश्चत्वारि श्रामण्यफलानि लभते। स्त्रोत‍आपत्तिफलमिति यः शून्यताभि समयः। अनेन शून्यताज्ञानेन त्रीणि संयोजनानि प्रजहाति। सकृदागामिफलमिति यत् इममेव मार्गं भावयन् क्लेशान् तनूकृत्य कामधातौ सकृदुत्पद्यते। अनागामिफलमिति कामधातुकसर्वक्लेशानां प्रहाणम्। अर्हत्फलमिति सर्वक्लेशानां प्रहाणम्। य इदं तथागतधर्मशास्त्रमध्येति स चत्वारि सत्यानि अभिसमेत्य चत्वारि श्रामण्यफलानि प्रतिलभते। अत इदं तथागतशासनशास्त्रमभ्यसितव्यम्॥

चतुस्सत्यवर्गः सप्तदशः।

१८ धर्मस्कन्धवर्गः

अथैतच्छास्राभ्यासी ज्ञेयादिधर्मस्कन्धानभिसमेति। अभिसमयात् तीर्थिकमिथ्याशास्त्रानभिभूतः क्षिप्रं क्लेशानुपशमयति। आत्मनो दुःखपरिहारकुशलः परानपि त्रायति।

ज्ञेयादिधर्मस्कन्ध इति यदुत ज्ञेयधर्मा विज्ञेयधर्मा रूपधर्मा आरूप्यधर्माः सनिदर्शनधर्मा अनिदर्शनधर्माः सप्रतिघधर्मा अप्रतिघधर्माः सास्रवधर्मा अनास्रवधर्माः संस्कृत धर्मा असंस्कृतधर्माश्चित्तधर्मा अचित्तधर्माश्चैतसिकधर्मा अचैतसिकधर्माश्चित्तसंप्रयुक्त धर्माश्चित्तविप्रयुक्तधर्माश्चित्तसहभूधर्माश्चित्तासहभूधर्माश्चित्तानुचरधर्माश्चित्ताननुचरधर्मा आध्यात्मिकधर्मा बाह्यधर्मा औदारिकधर्माः सूक्ष्मधर्मा उत्तमधर्मा अवरधर्माः सन्निकृष्टधर्मा विप्रकृष्टधर्मा उपादानधर्मा अनुपादानधर्मा नैर्याणिकधर्मा अनैर्याणिकधर्माः प्राकृतधर्मा अप्राकृतधर्माः समनन्तरधर्मा असमनन्तरधर्माः क्रमिकधर्मा अक्रमिकधर्मा इत्येवमादयो द्विधा धर्माः।

त्रिधा च सन्ति धर्माः-रूपधर्माश्चित्तधर्माश्चित्तविप्रयुक्तधर्मा इति। अतीतधर्मा अनागतधर्माः प्रत्युत्पन्नधर्माः। कुशलधर्मा अकुशलधर्मा अव्याकृतधर्माः। शैक्षधर्मा अशैक्षधर्मा नैवशैक्षनाशैक्षधर्माः। सत्यदर्शनहेयधर्मा भावनाहेयधर्मा अहेयधर्मा इत्येवमादयस्त्रिधा धर्माः।

चतुविर्धाश्च सन्ति धर्माः कामधातुप्रतिसंयुक्तधर्मा रूपधातुप्रतिसंयुक्तधर्मा आरूप्यधातुप्रतिसंयुक्तधर्मा अप्रतिसंयुक्तधर्मा इति। चतस्रः प्रतिपदः दुश्चरा दुःखप्रतिपत् सुचरा दुःखप्रतिपत् दुश्चरा सुखप्रतिपत् सुचरा सुखप्रतिपत् इति। चत्वार आस्वादाः-प्रव्रज्यास्वादो विसंयोगास्वाद उपशमास्वादः सम्यक्‌सम्बोधास्वाद् इति। चत्वारः साक्षात्कृतधर्माः-कायसाक्षात्कृतधर्माः स्मृतिसाक्षात्कृतधर्मा इन्द्रियसाक्षात्कृतधर्माः प्रज्ञासाक्षात्कृतधर्मा इति। चत्वार उपादानकायाः चतस्रो गर्भावक्रान्तयः, चत्वारः प्रत्ययाः, चतस्रः श्रद्धाः, चत्वारि आर्यगोत्राणि, चत्वारि दुश्चरितानि इत्येवमादयश्चत्वारो धर्माः।

पञ्च स्कन्धाः। षड् धातवः षडाध्यात्मिकायतनानि, षड् बाह्यायतनानि, षड् जातिस्वभावाः, षड् सौमनस्योपविचारा षड् दौर्मनस्योपविचारा षडुपेक्षोपविचाराः षड् सुचरितानि। सप्त विशुद्धयः। अष्ट पुण्यजन्मानि। नवानुपूर्वसमापत्तयः। दशार्यावासाः। द्वादश निदानानि। इत्येवमादयो धर्मस्कन्धा अप्रमाणा अनन्ता इति नावसानं वक्तुं शक्यते।

तेषु प्राधान्यतः संक्षिपामि। ज्ञेयधर्म इति पारमार्थिकं सत्यम्। विज्ञेयधर्म इति यत् लौकिकं सत्यम्। रूपधर्मा इति रूपरसगन्धस्पर्शाः। अरूपधर्मा इति चित्तासंस्कृतधर्माः। सनिदर्शनधर्मा इति यानि रूपायतनानि सप्रतिधधर्मा इति रूपधर्माः। सास्रवधर्मा इति य आस्रवाणामुत्पादका यथा अनर्हतां प्रज्ञप्तिधर्मेषु चित्तम्। तद्विपरीता अनास्रवधर्माः। संस्कृतधर्मा इति प्रतीत्यसमुत्पन्नाः पञ्च स्कन्धाः। असंस्कृतधर्मा इति पञ्चस्कन्धानां निरोधोऽयम्। चित्तधर्मा इति आलम्बकं चित्तम्। चैतसिकधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजाताः संज्ञादयः। चित्तसंप्रयुक्तधर्मा इति यद्विज्ञानमालम्बते तत्समनन्तरजातम्। यथा संज्ञादयः। चित्तसहभूधर्मा इति ये धर्माश्चित्तेन सहभुवः। यथा रूपं चित्तविप्रयुक्तं गोचरीभवति। चित्तानुचरधर्मा इति ये धर्माश्चित्ते सति उत्पद्यन्ते नासति यथा कायवाग्भ्यामकृतं कर्म। आध्यात्मिकधर्मा इति स्वकायस्यान्तःस्थितानि षडायतनानि। औदारिकसूक्ष्मधर्मा इति परस्परमपेक्ष्यभाविनः। यथा पञ्च कामानपेक्ष्य रूपध्यानं सूक्ष्मम्। आरूप्यध्यानमपेक्ष्य रूपध्यानमौदारिकम्। उत्तमावरधर्मा अप्येवम्। सन्निकृष्टविप्रकृष्टधर्मा इति केचिद्देशभेदाद्विप्रकृष्टाः। केचिदसारूप्याद्विप्रकृष्टाः। उपादानधर्मा इति कायिकाधर्माः। नैर्याणिकधर्मा इति ये कुशलधर्मा। प्राकृतधर्मा इति सास्रवधर्माः। समनन्तर धर्मा इति अन्यस्मात् समनन्तरजाताः। क्रमिकधर्मा इति [ये] क्रमजनकाः।

रूपधर्मा इति रूपादयः पञ्चधर्माः। चित्तधर्मा इति यथोपरिष्टादुक्ताः। चित्तविप्रयुक्तधर्मा इति अविज्ञप्तिकर्म। अतीतधर्मा इति निरुद्धा धर्माः। अनागतधर्मा इति उत्पत्स्यमाना धर्माः। प्रत्युत्पन्नधर्मा इति उप्तद्यमाना अनिरुद्धाश्च धर्माः। कुशलधर्मा इति परसत्त्वानां हितकृद्धर्माः पदार्थाभिसम्बोधश्च। तद्वपरीता अकुशलधर्माः। उभाभ्यां विरुद्धा अव्याकृतधर्माः। शैक्षधर्मा इति शैक्षाणामनास्रवचित्तधर्माः। अशैक्षधर्मा इति अशैक्षाणां परमार्थगतं चित्तम्। अन्ये नैवशैक्षानाशैक्षा धर्माः। सत्यदर्शनहेयधर्मा इति यत् स्त्रोत‍आपन्नानां हेया निमित्तसन्दर्शनास्मिमानतज्जा धर्माः। भावनाहेयधर्मा इति यत् स्त्रोत‍आपन्नसकृदागाम्यनागामिनां हेया अनिमित्तसन्दर्शनास्मिमानतज्जा धर्माः। अहेयधर्मा इति येऽनास्रवाः।

कामधातुप्रतिसंयुक्तधर्मा इति ये धर्मा विपाकलब्धा अवीचिनरकात् यावत्परनिर्मितवशवर्तिनो देवान्। रूपधातुप्रतिसंयुक्तधर्मा इति आब्रह्मलोकात् आचाकनिष्ठदेवेभ्यः। आरूप्यधातुप्रतिसंयुक्तधर्मा इति चत्वार्यारूप्याणि। अप्रतिसंयुक्तधर्मा इति अनास्रवधर्माः। दुश्चरा दुःखप्रतिपत् इति मृद्विन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः। सुचरा दुःखप्रतिपत् इति तीक्ष्णेन्द्रियस्य समाधिं लब्ध्वा मार्गचारिणः। दुश्चरा सुखप्रतिपत् इति मृद्विन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः। सुचरा सुखप्रतिपत् इति तीक्ष्णेन्द्रियस्य प्रज्ञां लब्ध्वा मार्गचारिणः॥ प्रव्रज्यास्वाद इति गृहात्प्रव्रज्य मार्गपर्येषणम्। विसंयोगास्वाद इति कायचित्तप्रविवेकः। उपशमास्वाद इति ध्यानसमाधिप्रतिलम्भः। सम्यक्‌सम्बोधास्वाद इति चतुस्सत्याभिसमयः॥ स्मृतिसाक्षात्कृतधर्मा इति चत्वारि स्मृत्युपस्थानानि। तान्युपादाय चत्वारि ध्यानान्युत्पद्यन्ते। चतुर्णां सत्यानामभिसमयः प्रज्ञासाक्षात्कृत इत्युच्यते। चत्वार उपादानकाया इति कश्चिदात्मानं हिनस्ति न परान्॥ कश्चित्परान् हिनस्ति नात्मानम्। कश्चिदात्मनं हिनस्ति परांश्च हिनस्ति। कश्चिन्नात्मानं हिनस्ति न परान्। चतस्रो गर्भावक्रान्तय इति कश्चिदसम्प्रजानन्नेव मातुः कुक्षाववतरति। असम्प्रजानंश्च [मातुःकुक्षौ]तिष्ठति। असम्प्रजानंश्च मातुःकुक्षेर्निष्क्रमति। कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति। असंप्रजानन् मातुः कुक्षौ तिष्ठति। असम्प्रजानन् मातुः कुक्षेर्निष्क्रमति। कश्चित्सम्प्रजानन् मातुः कुक्षाववतरति। सम्प्रजानान् मातुः कुक्षौ तिष्ठति। सम्प्रजानन् मातुः कुक्षेर्निष्क्रमति विपर्यस्तमतिविक्षेपान्नात्मानं सम्प्रजानाति। चित्तार्जवेनाविक्षेपादात्मानं सम्प्रजानाति॥ चत्वारः प्रत्यया इति हेतुप्रत्ययो यो जनकहेतुः वासनाहेतुराश्रयहेतुः। जनकहेतु यो धर्मो जायमानस्य हेतुकृत्यं करोति। यथा विपाकात्मकं कर्म। वासनाहेतुः कामरागवासनायां कामरागोऽभिवर्धते। आश्रयहेतुः यथा चित्तचैत्तानां रूपगन्धादय आश्रयाः। इमे हेतुप्रत्यया इत्युच्यन्ते। समनन्तरप्रत्यय इति यथा पूर्वचित्तनिरोधात्समनन्तरचित्तमुत्पद्यते। आलम्बनप्रत्यय इति यदालम्ब्य धर्म उत्पद्यते। यथा चक्षुर्विज्ञानस्य जनकं रूपम्। अधिपतिप्रत्यय इति यज्जायमानस्य धर्मस्यान्ये प्रत्ययाः॥ चतस्रः श्रद्धा इति। (१) तथागतश्रद्धा यत् तत्त्वज्ञानं लब्धा तथागते प्रसन्नचित्तो निश्चिनोति तथागतः सत्त्वेषु श्रेष्ठ इति। (२) अस्मिन् तत्त्वज्ञाने श्रद्धैव धर्मश्रद्धा। (३) एतत्तत्त्वज्ञानलाभी सर्वसङ्घेषु परमोत्तम इतीयं सङ्घश्रद्धा। (४) आर्याणां प्रियं संवरं लब्ध्वा अध्याशयेनापि नाहमकुशलानि करोमि अहमिमं संवरमुपादाय त्रिषु रत्नेषु च श्रद्धावानिति च प्रजानाति इति यदियं श्रद्धा संवरबलादिति संवरश्रद्धेत्युच्यते॥ चतुरार्यगोत्रत्वात् न चीवरार्थतृष्णया क्लिश्यते। नान्नपानशयनासनार्थं कायिकतृष्णया क्लिश्यते। इति चत्वार्यार्यगोत्राणि॥ चत्वारि दुश्चरितानीति। रागद्वेषमोहसन्त्रासैर्दुर्गतौ पतति।

रूपस्कन्ध इति रूपादयः पञ्च। वेदनास्कन्ध इति आलम्बकधर्माः। संज्ञास्कन्ध इति प्रज्ञप्तिविकल्पा धर्माः। संस्कारस्कन्ध इति पुनर्भवजनका धर्माः। विज्ञानस्कन्ध इति विषयमात्रविज्ञानधर्माः॥ पृथिवीधातुरिति रूपसगन्धस्पर्शसमवायः खट्‍कलक्षणबहुलः पृथिवीधातुरिति व्यपदिश्यते। स्नेहबहुलोऽब्‌धातुः। उष्णलक्षणबहुलस्तेजोधातुः। लघिमलक्षणबहुलो वायुधातुः। रूपलक्षणविरहित आकाशधातुः। आलम्बमानो धर्मो विज्ञानधातुः। चक्षुरायतनमिति चातुर्मौतिकं चक्षुर्विज्ञानाश्रयश्चक्षुर्धातुरित्युच्यते। श्रोत्रघ्राणजिह्वाकायायतनान्यप्येवम्। मन आयतनमिति यदुत चित्तम्॥ रूपायतनमिति चक्षुर्विज्ञानस्यालम्ब्यधर्मः। तथा शब्दगन्धरसस्पृष्टव्या अपि॥ षड् जातिस्वभावा इति यत् कृष्णस्वभावः पुरुषः कृष्णं धर्मं निषेवते। शुक्लं धर्मं कृष्णशुक्लं धर्मञ्च निषेवते। तथा शुक्लस्वभावः पुरुषोऽपि॥ षट् सौमनस्योपविचारा इति रागचित्ताश्रिताः॥ षड् दौर्मनस्योपविचारा इति द्वेषचित्ताश्रिताः। षडुपेक्षोपविचारा इति मोहचित्ताश्रिताः। षट् सुचरितानीति तत्त्वज्ञानाश्रितानि।

सप्त विशुद्ध यः। शीलविशुद्धिरिति शीलसंवरणम्। चित्तविशुद्धिरिति ध्यानसमाधीनामुपसम्पत्। दृष्टिविशुद्धिरिति सत्कायदृष्टिसमुच्छेदः। काङ्क्षावितरणविशुद्धिरिति। काङ्क्षासंयोजनसमुच्छेदः। मार्गामार्गज्ञानदर्शनविशुद्धिरिति। शीलव्रतपरामर्शसमुच्छेदः। प्रतिपदाज्ञानदर्शनविशुद्धिरिति भावनामार्गः। ज्ञानदर्शनविशुद्धिरिति अशैक्षमार्गः।

अष्टौ पुण्य सर्गा इति मनुष्येष्वाढ्य आब्रह्मलोकात्। पुण्यविपाकसुखनामेषु अतिबहुलत्वात् इमेऽष्टावुच्यन्ते॥

नवानुपूर्वसमापत्तय इति प्रथमध्यानमुपसम्पद्यमानो वाचं नियच्छति। द्वितीयध्यानमुपसम्पद्यमानो वितर्कविचारान्। तृतीयध्यानमुपसंपद्यमानः प्रीतिम्। चतुर्थध्याने आनापानम्। आकाशानन्त्यायतने रूपलक्षणम्। विज्ञानानन्त्यायतन आकाशलक्षणम्। आकिञ्चन्यायतने विज्ञानलक्षणम्। नैवसंज्ञानासंज्ञायतन आकिञ्चन्यायतनलक्षणम्। निरोधसमापत्तिमुपसम्पद्यमानः संज्ञावेदितं नियच्छतिः॥

दशार्यावासा इति। आर्यः पुद्गलः (१) पञ्चाङ्गविप्रहीनो भवति। (२) षडङ्गसमन्वागतः। (३) एकारक्षः। (४) चतुरपाश्रयः। (५) प्रणुन्नप्रत्येकसत्यः। (६) समवसृष्टेषणः। (७) अनाविलसङ्कल्पः। (८) प्रश्रब्धकायसंस्कारः। (९) सुविविक्तचित्तः। (१०) सुविमुक्तप्रज्ञः कृतकृत्यः सन् केवलोऽसहायी भवति। (१) पञ्चाङ्गविप्रहीनो भवतीति। ऊर्ध्वभागीयानि पञ्चसंयोजनानि प्रहाय सर्वसंयोजनक्षयरूपार्हत्वलाभी भवति। (२) षडङ्गसमन्वागत इति। यतश्चक्षुरादिभिः रूपादि दृष्ट्‍वा नैवा सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतः संप्रजानन्। (३) एकारक्ष इति। स्मृत्यारक्षेण चेतसा समन्वागतो भवति। (४) चतुरपाश्रय इति। भिक्षादींश्चतुरो धर्मानाश्रयते। केचित्पुनराहुः-चतुरपाश्रय इति आर्य [एकं] धर्मं परिवर्जयति। [एकं] धर्म प्रतिसेवते। एकं धर्मं विनोदयति। एकं धर्ममधिवासयति॥ (५) विशुद्धशीलधारणात् तत्त्वलक्षणं प्रतिबुध्यन् प्रणुन्नप्रत्येकसत्य इत्युच्यते। समुच्छिन्नसर्वदृष्टिक आद्यफलस्य लाभी भवति। (६) समवसृष्टेषण इति कामेषणा [प्रहीणा] भवति। भवेषणा प्रहीणा भवति। ब्रह्मचर्येषणा प्रतिप्रश्रब्धा। आद्यफललाभित्वात् प्रजानाति संस्कृतधर्मा मृषेति। ईषणात्रयप्रहाणं वज्रोपमसमाधिं लप्स्य इतीच्छया शैक्षमार्गं प्रजहाति। तदा क्षयकुशलः समसृष्टेषणा इत्युच्यते। (७) अनाविलसङ्कल्प इति। प्रहीणषड्वितर्कः विशुद्धचित्तस्त्रीणि विषाणि तनूकृत्य द्वितीयफलं लभते। प्रशमितकामशोकः सन् तृतीयफलमनुप्राप्नुवन् अनाविलसङ्कल्प इत्युच्यते। (८) प्रश्रब्धकायसंस्कार इति। कामधातुकसंयोजनानि विहाय चत्वारि ध्यानान्युपसम्पद्य विहरतीत्यतः प्रश्रब्धकायसंस्कारो भवति। क्षयज्ञानलाभा (९) त्सुविविक्तचित्तो भवति इत्युच्यते। अनुत्पादज्ञानलाभात् (१०) सुविमुक्तप्रज्ञोभवति। आर्याणां चित्तमेषु दशसु स्थानेषु आवसतीति आर्यावासः। कृततथागतधर्मोऽवश्यं दुःखस्यान्तं कुर्यादित्यतः कृतकृत्य इति कथ्यते। पृथग्जनैः शैक्षजनैश्च विविक्त इत्यतोऽसहायीति। तच्चितं सर्वधर्मान् विधूय अत्यन्तशून्यताप्रतिष्ठितमित्यतः केवल इत्याख्यायते॥

द्वादशनिदानानि। तत्राविद्येति यत् प्रज्ञप्त्यनुयायिचित्तम्। तद्विपर्ययचित्तमुपादाय कर्माणि सञ्चिनोतीति अविद्याप्रत्ययाः संस्कारा इत्युच्यन्ते। विज्ञानं कर्मानुयायि इति सत्कायमुपादत्ते। अतः संस्कारप्रत्ययं विज्ञानम् इति। सत्कायमुपादाय नामरूपषडायतनस्पर्शवेदना भवन्ति। इमानि अङ्गानि कालक्रमेण वर्धन्ते। सर्वा अपि वेदना अनुभवन् प्रज्ञप्तिमाश्रयते इत्यतस्तत्र तृष्णां जनयति। तृष्णामुपादायान्ये क्लेशा भवन्तीति त उपादानमित्युच्यन्ते। तृष्णोपादानप्रत्ययो भवः। स च त्रिकाण्डः। एभ्यः कर्मक्लेशप्रत्ययेभ्य और्ध्वकालिकी जातिः। जातिप्रत्ययाज्जरामरणादयो भवन्ति।

तत्र यदुच्यते अविद्या प्रत्ययाः संस्कारा इति तदतीताध्वप्रकाशनं शाश्वतदृष्टिसमुच्छेदकम्। ज्ञायते हि अनादिसंसारे आजवञ्जविभावे कर्मक्लेशप्रत्ययेभ्यः कायो वेद्यत इति। यदुच्यते जातिमरणमिति। तदनागताध्वप्रकाशनमुच्छेददृष्टि समुच्छेकदम्। यस्य तत्त्वज्ञानं न भवति। तस्य जातिमरणयोर्नास्त्यन्तो दुःखफलमात्रमस्ति। यदुच्यन्ते मध्येऽष्टावङ्गानि। तत्प्रत्युत्पन्नधर्मप्रकाशनम्, प्रत्ययकलापमात्रात् सन्तत्या प्रवर्तते, नास्ति तत्त्वज्ञानमिति। तत्राविद्या संस्काराश्च पूर्वाध्वप्रत्ययाः। तत्प्रत्ययं फलं यदुत विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना च। एभ्यः पञ्चभ्य उत्पद्यते तृष्णोपादानं भवश्च। इमेऽनागताध्वहेतवः। तत्प्रत्ययं फलं यत् जातिजरामरणम्। वेदना वेदयतः पुनस्तृष्णोपादानञ्च भवति। अत इदं द्वादशाङ्गं[भव]चक्रमनवस्थं प्रवर्तते। तत्त्वज्ञानं लभमानः कर्माणि न सञ्चिनोति। कर्मणामसञ्चये न भवति जातिः। जातिर्हि प्रवृत्तिसाधनी॥

य इदं सम्यच्छास्त्रं निषेवते स धर्माः स्वलक्षणशून्या इति प्रज्ञाय न कर्माणि सञ्चिनोति। कर्मणामसञ्चये न भवति जातिः। जात्यभावाज्जरामरणशोकपरिदेवदुःखोपायासाः सर्वे निरुध्यन्ते। अत आत्महितं सत्वहितञ्च कामयमानः क्रमशस्तथागतमार्गं प्रसाध्य स्वधर्ममादीपयन् परधर्मं यो निराकरोति तेनेदं शास्त्रं निषेवितव्यम्॥

१९ दशसु वादेषु आद्यं सत्तालक्षणम्

(पृ) शास्त्रारम्भ उक्तं भवता-निषेव्य भिन्नवादांश्चेति तथागतधर्मविचारयिषया। के ते विभिन्ना वादाः। (उ) त्रिपिटके सन्ति बहवो विभिन्ना वादाः। पुरुषाणां भूयसा प्रमोदाय परं विवादशास्त्रप्रवर्तकैरभिहितम्-यदुत (१) अस्त्यध्वद्वयं नास्त्यध्वद्वयम्, (२) सर्वमस्ति सर्वं नास्ति, (३) अस्त्यन्तरा भवो नास्त्यन्तरा भवः, (४) चतुस्सत्यानामानुपूर्वेण लाभः एकक्षणेन लाभः (५) अस्ति परिहाणिः नास्ति परिहाणिः (६) अनुशयाश्चित्तसम्प्रयुक्ताः चित्तविप्रयुक्ताः, (७) चित्तं प्रकृतिपरिशुद्धम्, न प्रकृतिपरिशुद्धम्, (८) उपात्तविपाकं कर्म किञ्चिदस्ति किञ्चिन्नास्ति, (९) तथागतः सङ्घगणितः, न सङ्घगणितः, (१०) अस्ति पुद्गलो नास्ति पुद्गल इति।

केचिदाहुः-अस्ति अध्वयधर्म इति। केचिदाहुः नास्तीति। केन प्रत्ययेन अस्तीति वदन्ति केन प्रत्ययेन नास्तीति। (उ) अस्तीति यः सन् धर्मः तत्र चित्तमुत्पद्यते। त्र्यध्वधर्मे चित्तमुत्पद्यत इत्यतो ज्ञातव्यं तदस्तीति॥

(पृ) प्रथममुच्यतां सत्तालक्षणम्। (उ) ज्ञानं यत्र प्रचरति[तत्]सत्तालक्षणम्।

दूषणम्-ज्ञानमविद्यमानेऽपि प्रचरति। कस्मात्। यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकं पश्यति। कृतकं मायावस्तु असदपि सत् पश्यति। अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनसमाधिमुपसम्पन्नो भवति। अङ्गुल्या च निर्दिश्य [वदति] चन्द्रद्वयमहं पश्यामीति। सूत्रे चोक्तम्-अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति। उक्तञ्च सूत्रे-यथा यो रूपे छन्दरागः तं प्रजहीत्। एवंवस्तद्रूपं प्रहीणं भवति इति। यथा च स्वप्ने असदपि मिथ्या [सत्] पश्यति। इत्यादिभिः कारणैर्ज्ञानमविद्यमानेऽपि प्रचरति। ज्ञानप्रचरास्पदत्वादस्तीति न सम्भवति।

उच्यते। अविद्यमानेऽपि ज्ञानं प्रचरतीति न भवति। कस्मात्। आश्रयालम्बनात्मक धर्मद्वयं प्रतीत्य हि विज्ञानमुत्पद्यते। यद्यनालम्बनं विज्ञानमुदेश्यति। अनाश्रयमपि विज्ञानमुत्पन्नं स्यात्। तथा च धर्मद्वयं निष्प्रयोजनं स्यात्। एवं विनाऽपि विमुक्तिं तद्विज्ञानं सदोत्पद्यते। अतो ज्ञायते विज्ञानं नाविद्यमाने प्रचरतीति। अथ यत् किञ्चन विजानातीति विज्ञानम्। यत् न किञ्चन विजानाति न तत् विज्ञानम्। विज्ञानं विषयं विजानाति वचनं चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इत्येतस्याभिधानम्। यदि मतम् अनालम्बनं विज्ञानमस्तीति। तद्विज्ञानं कस्य विज्ञानं भवेत्। किञ्च अनालम्बनं विज्ञानमस्तीति वादिनस्तत् भ्रान्तं स्यात्। यथा केचिद्वदन्ति भ्रान्तविक्षिप्तचित्तोऽहं लोकेऽविद्यमानमप्यात्मानं पश्यामीति। यदि किञ्चिदविद्यमानं जानीयात्। संशयो न स्यात्। किञ्चित्तु ज्ञातुः संशय उत्पद्यते। उक्तञ्च सूत्रे-योऽयं लोकतोऽविद्यमान आत्मा, तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यते इति।

भवद्ववचनं स्वतो विरूद्धम्। यद्यसत्, कस्य ज्ञानं स्यात्। उक्तञ्च सूत्रे-चित्तचैत्ता आलम्बमानधर्माः इति। किञ्चाह-सर्वे धर्मा आलम्ब्या इति। नतु तत्रोक्तम् अविद्यमानो धर्म आलम्ब्व्यं भवतीति। अथ सर्वे विषयधर्मा विज्ञानोत्पादहेतवः। यद्यविद्यमानः को हेतुर्भवति। उक्तञ्च सूत्रे-त्रयाणां सन्निपातः स्पर्श इति। अविद्यमानानां धर्माणां कः सन्निपातः। अथासदालम्बनं ज्ञानं कथमुपलभ्येत। यस्य ज्ञानं न तदसत्। यन्नास्ति न तस्य ज्ञानम्। अतो नास्त्यसदालम्बनं ज्ञानम्।

यदुक्तं भवता ज्ञानमविद्यमानेऽपि प्रचरति। यथाधिमुक्ति अविनीलकं दृष्ट्वा विनीलकमिति पश्यतीति नेदं स्थानं विद्यते। कस्मात्। अविनीलकेऽपि तत्त्वतोऽस्ति विनीलकस्वभावः। यथोक्तं सूत्रे-अस्त्यस्मिन् वृक्षे विशुद्धता इति।

नीललक्षणग्राहीचित्तबलात् सर्वं नीलं परिणमते नत्वनीललक्षणमिति। मायाजालसूत्रञ्चाह-अस्ति माया मायावस्तु। असति सत्त्वे सत्त्वाभासं पश्यन्तीति माया इति। भवतोक्तम् अकिञ्चनस्य ज्ञानादाकिञ्चन्यायतनमुपसम्पन्न इति। समाधिबलात् तदसल्लक्षणं भवति न तु असत्तद्भवति। यथा वस्तुतः सदपिरूपमपोह्यते शून्यरूपमिति। समाधिमुपसम्पन्नेनाल्पं दृश्यत इत्यतोऽसदिच्यते। यथाल्पलवणमलवणमित्युच्यते। अल्पज्ञोऽज्ञ इति। यथा च नैवसंज्ञानासंज्ञायतनमुच्यते। तत्र वस्तुतः संज्ञायां सत्यामपि नैवास्ति न नास्तीति व्यपदिश्यते। उक्तञ्च भवता-अङ्‍गुल्या निदिश्यात्मानं चन्द्रद्वयं पश्यामीति। अनिभृतत्वात् एकं द्विधा पश्यति। य एकाग्रचक्षुष्कः स न पश्यति। अहं प्रजानामि नाध्यात्ममस्ति छन्दराग इति यद्भवतोक्तम्। स पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति-अहं प्रजानामि अन्तश्छन्दाभावमिति। न तु [एकान्ततो] नास्तीति प्रजानाति। किञ्चोक्तं भवता-यत् रूपे छन्दरागं प्रहीणं प्रजानाति। तद्रूपप्रहाणमिति। परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधित्वात् छन्दरागप्रहाणमित्युच्यते। स्वप्नेऽसदपि पश्यतीति यत् भवानाह। तत्र पूर्वं दृष्टश्रुतस्मृतविकल्पित भावितान्युपादाय हि स्वप्नदर्शनम्। वातपित्तश्लेष्मणां वशाच्च स्वप्नदर्शनमनुयाति। कदाचित् कर्मप्रत्ययाच्च स्वप्नो भवति। यथा पुरा बोधिसत्त्वस्य महास्वप्ना अभूवन्। कदाचित् देवा आगम्य स्वप्नमुपदर्शयन्ति। अतः स्वप्नदर्शने नासतो ज्ञानं भवति।

दूषणम्-यत् भवानवोचत्-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। इदमयुक्तम्। तथागतः पुद्गलदूषणयाह-द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति। न तु तन्निष्ठया। भवतोक्तम्-विज्ञेयसत्त्वाद्विज्ञानमस्तीति। विज्ञेयधर्मे सति अस्तीति ज्ञानम्। असति नास्तीति ज्ञानम्। यदीदं वस्तु नास्ति। तद्वस्तु नास्तीति शून्यं पश्यति। किञ्च त्रिविधनिरोधो निरोधसत्यमित्युच्यते। यदि नास्ति शून्यचित्तम् किं निरूध्यते। [यत्]भवानवोचत् चक्षुर्विज्ञानं रूपं विजानाति यावन्मनोविज्ञानं धर्मान् विजानाति इति। तत् विज्ञानं विषयमात्रं विजानाति न विचिनोति सन् वा असन् वा इति। यदपि भवानाह-यद्यनालम्बनं विज्ञानमस्ति। तद्भ्रान्तमिति। तदा अस्ति असज्ज्ञानस्य ज्ञानम्। यथा मदमत्तः पुरुषः पश्यति अविद्यमानमपि। भवानवोचत्-यदि असज्जानीयात्, संशयो न भवेदिति। किमस्ति किं वा नास्तीति यदि संशयः, तदा अनालम्बनं ज्ञानमस्ति। आह च भवान्-यथोक्तं सूत्रे यल्लोकतोऽविद्यमान आत्मा तस्य ज्ञानं दर्शनं वेति नेदं स्थानं विद्यत इति। इदं सूत्रं न धर्मलक्षणानुगतम् अबुद्धवचनं तदाभासं वा। समाधिर्वा एवम्। तत्समाधिमुपसम्पन्नेन यत्किञ्चित् दृश्यते सर्वं सदेव। तत्समाधित्वादेवमुच्यते। [मम वचनं प्रति] स्वतो विरुद्धमिति भवानवोचत्। अस्ति असदालम्बनं ज्ञानमिति मम वचनं न स्वतो विरुद्धम्। अवोचच्च भवान्-चित्तचैत्ता आलम्बमानाः। सर्वे धर्मा आलम्ब्या इति। सन्ति च चित्तचैत्ता अनालम्बमानाः। चित्तचैत्ता न परमायार्थालम्बनाः। अतोऽनालम्बमाना भवन्ति। धर्माणां यत्परमार्थलक्षणं तल्लक्षणैर्वियुक्तत्वात् चित्तचैत्ता नालम्बमाना भवन्ति। यत् भवान् ब्रवीति विषया विज्ञानजनकहेतवः। तेषामसत्त्वे को हेतुः स्यादिति। तद्विज्ञानं सद्धेतुकमेव। त्रयाणां सन्निपातः स्पर्श इति। यत्र त्रीण्युपलभ्यन्ते तत्र तेषां सन्निपातः। न तु सर्वत्र त्रीणि सन्ति। अब्रवीच्च भवान्-यस्य ज्ञानं, न तदसद्भवति। यन्नास्ति, न तस्य ज्ञानमिति। यदि सदालम्बनं ज्ञानमिति। तत्रापि समो दोषः। यत् भवानाह-यथा वृक्षेऽस्ति विशुद्धतेति। नेदं युज्यते। सत्कार्यदोषात्। यद्भवतोक्तं [नील]लक्षणग्राहिचित्तं विपुलं परिणमत इति। तदपि न युक्तम्। नीललक्षणाल्पमूलं सर्वां महापृथिवीं यत् नीलं पश्यति। तदभूतदर्शनम्। तथा अल्पनीलभावनया तु सर्वं जम्बूद्वीपं यत् नीलं पश्यति न तदभूतदर्शनम्। भवान् ब्रवीति-मायाजालसूत्रमाह-अस्ति माया मायावस्तु इति। असति सत्त्वे सत्त्वाभासं सत्त्व इति पश्यति। तद्वस्तु परमार्थतोऽसत्पश्यति। तदा अनालम्बनं ज्ञानं भवति। आह च भवान्-समाधिबलात्तल्लक्षणं भवति यथा वस्तुतः सदपि रूपं शून्यतयापोह्यत इति। यदि रूपं वस्तुसदपोह्यते शून्यरूपमिति। तदा विपर्ययः। अल्पस्य सतोऽसत्तावचनमपि विपर्यय एव। अनिभृतत्वादेकं द्विधा पश्यतीति यद्वचनम्। तदपि न युज्यते। यथा तिमिरोपहतचक्षुष्क आकाशे केशान् पश्यति। तेऽवस्तुसन्तः। आह च भवान् पञ्चनीवरणविरुद्धानि सप्तबोध्यङ्गानि दृष्ट्वा मनस्कारं जनयति अहमसत् प्रजानामीति। सप्तबोध्याङ्गानि भिन्नानि। छन्दरागाभावश्च भिन्नः। कथमेकः स्यात्। भवान् ब्रवीति-परमार्थप्रज्ञादर्शनस्य मिथ्याधिमुक्तिं प्रति विरोधितैव छन्दरागप्रहाणमिति। मिथ्याधिमुक्तिर्हि अभूतभावना। अत उच्यते छन्दरागप्रहाणं प्रज्ञाय रूपप्रहाणं भवतीति। परमार्थप्रज्ञा तु अनित्यभावना। यत् भवान् कथयति-स्वप्ने वस्तुसन् दृश्यत इति। तदयुक्तम्। यथा स्वप्ने [पश्यति] कुट्यां पततीव। न वस्तुतः पतति। अतोऽस्ति असज्ज्ञानस्य ज्ञानम्। न तु यत्न ज्ञानं प्रचरतीति सत्तालक्षणम्॥

दशसु वादेषु आद्यसत्तालक्षणवर्ग एकोनविंशः

२० असत्तालक्षणम्

(पृ) यदि नास्तीदं सल्लक्षणम्। स्कन्धधात्वायतनसङ्‍गृहीतैर्धर्मैः भवितव्यमस्तीति। (उ) तदपि न युक्तम्। कस्मात्। अयं वादी वदति-स्कन्धधात्वायतनसङ्‍गृहीतं वस्तु पृथग्जनधर्मो न धर्मलक्षणानुगतम्। तथा चेत् तथतादयोऽसंस्कृतधर्मा अपि सन्तः स्युः। इति केचिद्वदेयुः। वस्तुतस्तु असन्तस्ते। अतो ज्ञायते स्कन्धधात्वायतनसङ्‍गृहीता धर्मा न सल्लक्षणा इति।

(पृ) यत् पुरुषस्य प्रत्यक्षज्ञानादिना अस्त्युपलभ्यमिति श्रद्धा भवति तत्सल्लक्षणम्। (उ) तदपि न सल्लक्षणम्। अयं श्रद्धेयधर्मो नियतविकल्परूपो नोलपभ्यवचनः। आह च सूत्रम्-ज्ञानप्रतिशरणेन भवितव्यं न विज्ञानप्रतिशरणेन इति। स्वभावलब्धत्वात् रूपादयो विषया नोपलम्भनीया इति पश्चाद्वक्ष्यते। इमेऽसल्लक्षणाः सन्तो [वस्तुतो] नापोह्यन्ते। अस्तितयोपलम्भलक्षणं कथं स्थाप्येत। (पृ) भावधर्मयोगादस्तीत्युच्यते। (उ) भावश्च पश्चाद्‍दूषयिष्यते। नह्यस्ति भावे भावः। कथं भावधर्मयोगादस्तीति। प्रतीत्यसमुत्पन्नत्वाद्धावलक्षणं नियतविकल्परूपं नोपलभ्यवचनम्। लोकसत्यमात्रतोऽस्ति न परमार्थतः।

(पृ) यदि लोकसत्यतोऽस्ति। तदा पुनर्वक्तव्यं लोकसत्यतोऽतीतोऽनागतश्च किमस्ति उत नास्ति इति। (उ) नास्ति। कस्मात्। ये रूपादयः स्कन्धा वर्तमानाध्वगताः, ते सकारित्रा उपलभ्यज्ञानदर्शनाः। यथोक्तं सूत्रे-रूप्यत इति रूपलक्षणम् इति। यद्वर्तमानाध्वगतं तत् रूप्यते नातीतमनागतं वा। तथा वेदनादयोऽपि। अतो ज्ञायते वर्तमानमात्रे सन्ति पञ्च स्कन्धाः। नाध्वद्वये सन्ति। अथ यो धर्मः कारित्रविहीनः स स्वलक्षणविहीनः। यद्यतीतो वह्निर्न दहति। न स वह्निरित्याख्यायते। तथा विज्ञानमपि, यद्यतीतं न विजानाति न तद्विज्ञानमित्युच्यते। यन्निर्हेतुकं तदस्तीति न युज्यते। अतीतो धर्मो निर्हेतुकः, सोऽस्तीति न युज्यते। अथ प्राकृताः सन्तो धर्माः प्रतीत्यसमुत्पन्नाः। यथा अस्ति पृथिवी, सन्ति बीजसलिलादयः प्रत्ययाः, तदा अङ्‍कुरादिकमुत्पद्यते। पत्रलेखिनीपुरुषकारेषु सत्सु सिध्यत्यक्षरम्। द्वयोर्धर्मयोः समवाये विज्ञानमुत्पद्यते। अनागतेऽध्वनि अङ्‍कुराक्षरविज्ञानादीनां कारणानि असमवेतानि। कथं सन्तीति लभ्यन्ते। अतोऽध्वद्वयमसत्स्यात्।

अथ यद्यनागतधर्मोऽस्ति। तदा नित्यः स्यात्। अनागताद्वर्तमानं प्रत्यनुप्राप्तेः। यथा कुटीतः कुटीमनुप्राप्नोति। तदा नानित्यः स्यात्। न चैतत्सम्भवति। यथोक्तं सूत्रे-चक्षुर्विज्ञानमुत्पद्यमानं न कुतश्चिदागच्छति। निरुध्यमानं न क्वचिद्गच्छति। इति। अतोऽतीतानागतधर्मौ न कल्पयितव्यौ। अथ यद्यनागतं सत् चक्षू रूपं पश्यति तदा सकारित्रं स्यात्। तथातीतमपि। न तु वस्तुतो युज्यते। अतो ज्ञायते अतीतानागतधर्मोऽसन्निति। [यदि]अतीतानागतरूपमस्ति, तदा सप्रतिघं सावरणञ्च स्यात्। न वस्तुतो युज्यते। अतो नास्ति। अथ यदि घटादयः पदार्थाः अनागताः सन्ति। तदा कुलालादयः सव्यापारा न भवेयुः। दृश्यन्ते तु सव्यापाराः। अतो नास्त्यनागतः। किञ्च भगवानाहसंस्कृतधर्मा उत्पादव्ययस्थित्यन्यथात्वै स्त्रिलक्षणा उपलभ्यन्ते इति। उत्पाद इति यो धर्मः पूर्वमभूत्वा इदानीं सव्यापारो दृश्यते। व्यय इति कृतः पुनरसन् भवति। स्थित्यन्यथात्वम् इति सन्तत्या स्थिते विकरोऽन्यथात्वम्। इमानि त्रीणि संस्कृतलक्षणानि वर्तमानगतानि नातीतानागतानि॥

असत्तालक्षणवर्गो विंशः।

२१ अध्व द्वयसत्तावर्गः

(पृ) वस्तुसदतीमनागतम्। कस्मात्। यो धर्मोऽस्ति तत्र चित्तं भवति। यथा वर्तमानधर्मोऽसंस्कृतधर्माश्च। भगवान् रूपलक्षणमुक्त्‌वा पुनराह- अतीतमनागतञ्च रूपमिति। अपिचाह-यत्किञ्चन रूपमाध्यात्मिकं बाह्यं वा औदारिकं सूक्ष्मं वा अतीतमनागतं प्रत्युत्पन्नं वा [सर्व] मभिसंक्षिप्य रूपस्कन्ध इति। किञ्चाह-[रूप] मनित्यमतीतमनागतम्, कः पुनर्वादः प्रत्युत्पन्नं इति। अनित्यं हि संस्कृतलक्षणम्। अतोऽस्तीति वक्तव्यम्। दृष्टे ज्ञानात् ज्ञानमुत्पद्यते इति परिभावितत्वात्। यथा शालेः शालिर्भवति। अतोऽतीतमस्तीति स्यात्। यदि नास्त्यतीतं, फलं निर्हेतुकं स्यात्। उक्तञ्च सूत्रे-यदतीतं वस्तुसत् हितकरं तद्भगवानुपदिशति। इति। किञ्चाह-अतीतमनागतं सर्वमनात्मानं भावयेत्। इति। अनागतालम्बनं मनोविज्ञानं अतीतं मन आश्रयते। यदातीतं विज्ञानमसत्, किमाश्रयेत्। अतीतकर्मत अनागतं फलमिति ज्ञानं सम्यग्दृष्टिः। तथागतस्य दशबलान्यतीतानागतकर्माणि जनयन्ति। तथागतः स्वयमेव वदति-यस्य नास्त्यतीतं कृतं पापकर्म स पुरुषो नैव दुर्गतौ पतिष्यति इति। सास्रवचित्तवर्तिनां शैक्षाणां श्रद्धादिन्यनास्रवेन्द्रियाणि न स्युः। आर्याश्चानागतं वस्तु न व्यवस्थया व्याकुर्यः। स्मृतिर्यदि नास्ति अतीतानागतयोः तदा पुरुषो नानुस्मरेत्पञ्चविषयान्। कस्मात्। नहि मनोविज्ञानं दृष्टे पञ्च विषयान् प्रजानाति। किञ्चाष्टादश मन‍उपविचारा अतीतालम्बना इत्युच्यन्ते। यद्यतीतमनागतं नास्ति, तदा अर्हन् न कीर्तयेत्-अहं ध्यानसमाधिमुपसम्पन्न इति। नहि समाधिस्थितो वचनं वक्ति। चतुर्षु स्मृत्युपस्थानेषु अधिचित्तमधिवेदनञ्च भावना न भवेत्। कुतः। नहि प्रत्युत्पन्नेऽतीतं भावयतीति लभ्यते। चत्वारि सम्यक् प्रधानानि च नाभ्यस्येत्। कुतः। नह्यनागताध्वगता अकुशला धर्माः सन्ति। तथान्यानि त्रीण्यपि। यद्यतीतमनागतं नास्ति, तदा तथागतोऽसन् स्यात्। दीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादित्यतो न युज्यते॥

अध्वद्वयसत्तावर्ग एकविंशः।

२२ अध्वद्वयनास्तितावर्गः

अत्रोच्यते। अतीतमनागतञ्च नास्ति। भवता यद्यप्युक्तं सति धर्मे चित्तमुत्पद्यत इति। तत्पूर्वमेव प्रत्युक्तम्। असन् धर्मोऽपि चित्तमुत्पादयतीति। यदुच्यते भवता-रूपलक्षणेन रूपसंज्ञया [अतीतं] रूपं लक्ष्यत इति। तदपि न युक्तम्। यदतीतमनागतम्, तद्रूपं न स्यात्। रूपणाभावात्। अनित्यलक्षणमित्यपि न वक्तव्यम्। भगवान् सत्त्वानां केवलमिथ्यासंज्ञाविकल्पानुवर्तनात्तन्नाम व्यवहरति। भवानाह-ज्ञानात् ज्ञानं भवतीति। हेतुः फलस्य हेतुक्रियां कृत्वा निरुध्यते।यथा बीजमङ्‍कुरस्य हेतुं कृत्वा निरुध्यते। भगवानप्याह-अस्योत्पादादिदमुत्पद्यत इति। भवतोक्तं-यत् वस्तु सत् हितकरं तद्भगवानुपदिशतीति। भगवदुक्तं वस्त्विदं प्रकृतितः प्रत्युत्पन्नकालेऽनुक्तमप्यस्ति। यदि मतम्-अतीतं निरुद्धमिति। तदा नास्तीति ज्ञायते। भवानाह-सर्वमनात्म भावयेत् इति। यस्मात्सत्त्वा अतीताननागतान् धर्मान् सात्मनो मन्यन्ते तस्मात् भगवानेवमवोचत्। भवतोक्तम् [इति ज्ञानं] सम्यक् दृष्टिरिति। यस्मात् कायोऽयं कर्मसमुत्पादकः। तच्च कर्म फलस्य हेतुं कृत्वा निरुद्धम्। पश्चाच्च तत्फलं पुनरात्मनानुभूयते। तस्मादुक्तम्-अस्ति फलमिति। तथागतशासने अस्ति वा नास्ति वा इति सर्वमुपाय इत्युच्यते। पुण्यपापकर्मप्रत्ययत्वप्रदर्शनार्थम्, नतु परमार्थतः। यथा प्रतीत्यास्ति सत्त्व इत्युच्यते। तथाऽतीतमनागतमपि। अतीतं मन आश्रयत इतीदमपि उपायाश्रयणम्। न तु यथा पुरुषेण भित्त्याद्याश्रीयते। चित्तस्योत्पादो नात्मनि निश्रयत इति च विशदम्। पूर्वचित्तमुपादायानन्तरचित्तमुत्पद्यते। तथा कर्मबलमपि। तथागतः प्रजानाति-कर्मनिरुद्धमपि फलस्य हेतुं करोतीति। न वदति एकान्ततः प्रजानामीति। यथर्णपत्नस्थमक्षरम्। तथा पापकर्माऽपि। अनेन कायेन कर्म क्रियते। तस्य च कर्मणो निरोधेऽपि विपाको न प्रणश्यति।

भवानाह-श्रद्धादीन्यनास्रवेन्द्रियाणि न स्युरिति। यदि शैक्षोऽनास्रवेन्द्रियं लब्धवान्। प्रत्युत्पन्नस्थमेव लब्धवान्। अतीतं निरुद्धमनागतञ्चाप्राप्तम्। [प्रत्युत्पन्नन्तु] समन्वागतमित्यतो नास्तीति न वक्तुं शक्यते। भवानाह-आर्या अनागतं न व्याकुर्युरिति। आर्यज्ञानबलेन हि तथा। असन्तं धर्ममपि व्याकुर्वन्ति। यथा अतीतं धर्मं निरुद्धमपि स्मृतिबलात्प्रजानाति। भवानाह-नानुस्मरेत्पञ्च विषयानिति। प्राकृतो जनो मोहादभूतस्मृत्या पूर्वगृहीतं नियतलक्षणं पश्चान्निरुद्धमपि उत्पद्यमान[मिवा]नुस्मरति। स्मृतिधर्मश्च तथैव स्यात्। न तु शशशृङ्गादिसमाना स्यात्। अष्टादशम‍उपविचाराः पुनरेवम्। प्रत्युत्पन्नगृहीतं रूपं निरुद्धातीतमपि तत्स्मृतिरनुवर्तते। भवानाह-न कीर्तयेत्-अहं ध्यानसमाधिं लब्धवानिति। तं समाधिं [पूर्वं] प्रत्युत्पन्नेऽलभत। अनुस्मरणबलाद्वदति-अहं लब्धवानिति। भवान् ब्रवीति-अधिचित्तमधिवेदनञ्च भावना न भवेत् इति। चित्तं द्विधाक्षणिकमानुबन्धिकमिति। प्रत्युत्पन्नं चित्तं प्रयुज्यानुबन्धिकं चित्तं भावयति। न त्वनुस्मृतो वर्तते। भवानवोचत्-चत्वारि सम्यक्‌प्रधानानि नाभ्यस्येदिति। अनागताकुशलधर्माणां निदानमपसारयति। अनागतकुशलधर्माणां निदानमुत्पादयति। भवानाह-तदा तथागतोऽसन् स्यादिति। तथागतः परिनिर्वृतलक्षणः। [अतीते]ऽध्वनि दृष्टोऽपि[प्रत्युत्पन्ने] अस्ति नास्तीति न परिगृह्यते। स परिनिर्वाय पारगतः खलु। सत्त्वाश्च शरणीकुर्वन्ति यथा लौकिकाः पितरावाराधयन्ति। उक्तञ्च भवता-सूदीर्घमल्पकालं वा शीलाभ्यासश्च न स्यादिति। न हि कालतः शीलं विशिष्यते। कस्मात्। न हि कालो द्रव्यम्। धर्माणामुत्पत्तिव्ययसमवायमात्रं कालोऽस्तीत्युच्यते। तस्माद्भवतोक्ता हेतवः सर्वेऽयुक्ताः॥

अध्वद्वयनास्तितावर्गो द्वाविंशः।

२३ सर्वधर्मसदसत्तावर्गः

शास्त्रमाह-केचिद्वदन्ति सर्वे धर्माः सन्तीति। केचिद्वदन्ति-सर्वे धर्मा न सन्तीति।

(पृ) केन कारणेन अस्तीति वदन्ति। केन कारणेन नास्तीति। (उ) अस्तीति। भगवानाह-सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशायतनानि। सर्वमस्ति [ब्राह्मण] इति। पृथिव्यादीनि द्रव्याणि संख्यादयो गुणाः उत्क्षेपणावक्षेपणादिकं कर्म। सामान्यविशेषसमवायादयो धर्माः। मूलप्रकृत्यादयः। लोके च शशविषाणकूर्मरोमाहिपादलवणगन्धवायुरूपादयो न सन्ति। उक्तं हि भगवता सूत्रे-

आकाशे [च] पदं नास्ति श्रमणो नास्ति बाह्यतः।
प्रपञ्चाभिरता लोका निष्प्रपञ्चास्तथागताः॥ इति

अनुभववशाद्धर्माः सन्तीत्युच्यन्ते। यथा द्रव्यादयः षट्‍पदार्थास्सन्ति औलूक्यानाम्। पञ्चविंशतितत्त्वानि सन्ति सांख्यानाम्। षोडश पदार्थाः सन्ति नयसोमानाम्।

यदि वस्तुसाधनी युक्तिरस्ति। तदा अस्तीत्युच्यते। यथा द्वादशायतनानि। भगवतः शासन उपायतया सर्वमस्तीति वा सर्वं नास्तीति वोच्यते। न तु परमार्थतः। कस्मात्। अस्तीति व्यवस्थायां शाश्वतान्तपातः। नास्तीति व्यवस्थायामुच्छेदान्तपातः। अनयोरन्तयोर्वर्जनमेवार्या मध्यमा पतिपत्॥

सर्वधर्मसदसत्तावर्गस्त्रयोविंशः।

२४ अन्तराभवास्तितावर्गः

शास्त्रमाह-केचिद्वदन्ति-अस्त्यन्तराभव इति। केचिद्वदन्ति नास्तीति। (पृ) केन कारणेनास्तीति वदन्ति। केन कारणेन नास्तीति। (उ) अस्त्यन्तराभवः। आश्वलायनसूत्रे हि भगवानाह-यदा पितरौ सन्निपतितौ भवतः। गन्धर्वश्च प्रत्युपस्थितो भवति इति। अतो ज्ञायते अस्त्यन्तराभव इति। वत्ससूत्रञ्चाह-यस्मिन् समये सत्त्व इमं कायं निक्षिपति पुनश्चित्तोत्पादनकायमनुपादानो भवति। अस्मिन्नन्तराले [भवं] उपादानप्रत्ययं वदामि। अयमन्तरा भव इति। सप्तसत्पुरुषेषु अस्त्यन्तरापरिनिर्वायी। उक्तञ्चसूत्रे-व्यवकीर्णं कर्माभिसंस्कृत्य व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यते। ज्ञातव्यमस्त्यन्तराभव इति। किञ्चोक्तं सूत्रे-चत्वारो भवाः पूर्वकालभवो मरणभवोऽन्तराभव उपपत्तिभव इति। आह च-सप्तभवाः-पञ्चगतयः कर्मभवोऽन्तराभव इति। आह च-यमराजोऽन्तराभवे पापिनः सन्तर्ज्य व्यत्यस्तं पातयन्ति। इति। तथागतोऽन्तराभवमुपादाय सत्त्वानां पूर्वनिवासं प्रजानाति अयं सत्त्वोऽस्मिन् उपपत्तिस्थान उत्पद्यते स सत्त्वस्तस्मिन्नुपपत्तिस्थान इति। उक्तञ्च सूत्रे-दिव्येन चक्षुषा पश्यति सत्त्वान् च्यवमानानुपपद्यमानांश्चेति। किञ्चाह-सत्त्वो [अन्तरा]भवसन्तत्या अस्माल्लोकात्परलोकं सङ्‍क्रामति। इति। लौकिका अपि अस्त्यन्तराभव इति श्रद्धधाना वदन्तिम्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि अस्माद्भवात् [भवान्तरं] क्रामन्ति इति। सत्यन्तराभवे परलोकः। असत्यन्तराभवे नास्ति परलोकः। यदि नास्त्यन्तराभवः, इमं कायं विसृज्य परकायमनुपादानस्यान्तरा व्युच्छेदः स्यात्। अतो ज्ञायतेऽस्त्यन्तराभव इति॥

अन्तराभवास्तितावर्गश्चतुर्विंशः।

२५ अन्तराभवनास्तितावर्ग

केचिद्वदन्ति-नास्त्यन्तराभव इति। यद्यप्युक्तं भवता-आश्वलायनसूत्र उक्तम् अस्त्यन्तराभव इति। तन्न युक्तम्। कस्मात्। यद्यार्या न जानन्ति-अयं कः कुत आगत इति। तदा नास्त्यन्तराभवः। यद्यस्ति कस्मान्न जानन्ति। भवानाह-वत्ससूत्र उक्तमिति। इदमयुक्तम्। कुतः। सूत्रेऽस्मिन् प्रश्नोऽन्यः प्रतिवचनञ्चान्यत्। अनेन ब्राह्मणेन कल्पितम्-अन्यः कायोऽन्यो जीव इति। अत एवं प्रतिवक्ति-सन्त्यन्तराभवे पञ्चस्कन्धा इति। भवानाह-अस्त्यन्तरापरिनिर्वायीति। स कामरूपधात्वोरन्तरा कायमुपादाय तत्र परिनिर्वृत इति अन्तरापरिनिर्वायी। कस्मात्। यथोक्तं सूत्रे-कश्चिन्म्रियमाणः कुत्र गच्छति कुत्रोत्पद्यते कुत्र तिष्ठति इतीदमेकार्थकम्। भवानाह-व्यवकीर्णं कायमुपादाय व्यवकीर्णे लोक उत्पद्यत इति। कायमुपादायेति वचनं लोक उत्पद्यत इति चेदमेकार्थकम्। चत्वारो भवाः सप्त भवा इति च भवदुक्तं सूत्रमयुक्तम्। धर्मलक्षणाननुगमात्। भवदुक्तं यमराजसन्तर्जनमुपपत्तिभवे भवति नान्तराभवे। भवानाह-तथागतोऽन्तराभवमुपादाय पूर्वनिवासं प्रजानातीति। तदयुक्तम्। आर्यज्ञानबलं हि तत्। असन्तमनागतमपि स्मृत्या प्रजानाति। भवानाह-दिव्येन चक्षुषा पश्यति म्रियमाणानुपपद्यमानानिति। उत्पित्सुः स उपपद्यमान इत्युच्यते। मरणोन्मुखश्च च्यवमानः। नत्वन्तराभवगतः। भवानाह-सत्त्वो भवसन्तत्या अस्माल्लोकात्परलोकं सङ्‍क्रामतीति। परलोकास्तित्वप्रदर्शनाय तादृशं वचनं न त्वन्तराभवास्तित्वप्रकाशनाय। भवानाह-म्रियमाणस्य सूक्ष्माणि चत्वारि महाभूतानि भवान्तरं क्रामन्तीति। कौकिकानामुपलभ्यमश्रद्धेयम्। न तद्धेतुरुपयुज्यते। भवानाह-यदि नास्त्यन्तराभवः अन्तराव्युच्छेदः स्यादिति। कर्मबलादयमत्रोत्पद्यते यथा अतीतमनागतमननुवृत्तमपि संस्मरति। अतो नास्त्यन्तराभवः।

पूर्वनिवासज्ञान उक्तं जानाति अयं पुरुषोऽस्मिँल्लोके मृतस्तस्मिँल्लोक उत्पद्यत इति न तूक्तम् अन्तराभवे तिष्ठतीति। तथागत आह-त्रिविधं कर्म दृष्टविपाकमुपपत्तिविपाकमूर्ध्वविपाकमिति। न त्वाह-अन्तराभवविपाकं कर्मेति। यद्यन्तराभवे स्पर्शोऽस्ति। स एवोपपत्तिभव इत्युच्यते। यदि न स्पृशति, स्पर्शविहीनः। स्पर्शविहीनत्वाद्वेदनादयोऽपि न सन्ति। तादृशं पुनः कुत्रास्ति। यः सत्त्वोऽन्तराभवरूपमुपादत्ते स एवोपपत्तिं वेदयते। यथोक्तं सूत्रे-यदिमं कायं निक्षिपन् कायान्तरमुपादत्ते तदहं वदामि उपपत्तिरिति। यदि न कायमुपादत्ते। तदा नास्त्यन्तराभवः। यद्यन्तराभवे च्युतिः। उपपत्तिरेव सा। कुतः। पूर्वमुत्पद्यन्नस्य पश्चादवश्यं च्युतेः। यदि नास्ति च्युतिः। नित्यो भवेत्। कर्मबलाच्चोपपत्तिरिति किमन्तराभवेन। यद्यन्तराभव कर्मतः सिद्धः। स एवोपपत्तिभवः। यथोच्यते-कर्मप्रत्यया जातिरिति। यन्न कर्मतः सिद्धम्। केन भवोऽस्ति। तत्प्रतिवक्तव्यम्।

उच्यते। उपपत्तिविशेषमेवान्तराभवं वदामः। अतो नास्ति यथोक्तदोषः। अन्तराभव उत्पन्नस्याप्यस्य उपपत्तिभवान्तरयोगो भवति। यतः कलले विज्ञानमुपसङ्‍क्रामति। अयमन्तराभव इत्युच्यते।

अत्र दूषणमाह। कर्मबलादुपसङ्‍क्रामति। किमन्तराभवविकल्पेन। चित्तं न कुत्रचिदुपसङ्‍क्रामति। कर्मप्रत्ययात्तु अस्मिँल्लोके निरुद्धं तत्रोत्पद्यते। नहि प्रत्यक्षं दृश्यते चित्तं सन्तत्योत्पद्यत इति। यथा पादे विद्धस्य शिरसि वेदनानुभूयते। न तत्र पादे स्थितं विज्ञानं भवप्रत्ययं शिरसि सङ्‍क्रामति। अतो सन्निकृष्टविप्रकृष्टप्रत्ययगणसामग्र्य तु चिततुत्पद्यते। अतोऽस्त्यन्तराभव इति न कल्पना कार्या॥

अन्तराभवनास्तित्ववर्गः पञ्चविंशः।

२६ अनुपूर्ववर्गः

शास्त्रमाह। केचिद्वदन्ति चतुर्णां सत्यानामनुपूर्वेणाभिसमय इति। केचिद्वदन्ति एकक्षणेनेति। (पृ) केन कारणेनोच्यते अनुपूर्वेणाभिसमयः, केन कारणेन एकक्षणेनाभिसमय इति। (उ) अनुपूर्वेणाभिसमयः। यथोक्तं सूत्रे लोकस्य समुदयं पश्यतो नास्तितादृष्टिर्न भवति। लोकस्य निरोधं पश्यतोऽस्तितादृष्टिर्न भवति इति। अतो ज्ञातव्यं निरोधसमुदययोर्लक्षणं प्रत्येकं पृथगिति। यः प्रजानाति-यत्समुदयलक्षणं तत्सर्वं निरोधलक्षणमिति। तस्य विरजं वीतमलं धर्मचक्षुर्भवति। आह च-

अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे।
कर्मारो रेजतस्येव निर्धमेन्मलमात्मनः॥ इति॥

आस्रवक्षयसूत्रमाह जानतः पश्यतः आस्रवाणां क्षयो भवति इति। प्रतिपत्तुप्रतिदिनं क्षीयमाणं स्वयमजानतोऽपि सदा भावितत्वात् आस्रवाणां क्षयो भवति। भगवानाह सत्येषु उदपद्यत चक्षुः ज्ञानं विद्या प्रज्ञा इति। कामधातुकदुःखे द्वौ [क्षणौ] रूपारूप्यधातक [दुःखे] च द्वौ। तथा समुदायदावपि। सूत्रे च भगवान् कण्ठत आह अनुपूर्वेण सत्याभिसमय इति। यथा पुरुषः श्रेणिमारुह्य उपर्यारोहति। इत्यादिसूत्रात् ज्ञायते चतुस्सत्यानि नैककालिकानि इति। क्लेशानाञ्च चतुस्सत्येषु चतुर्धा मिथ्याचारा भवन्ति यदुत नास्ति दुखं, नास्ति समुदयः, नास्ति निरोधः, नास्ति मार्गः इति। अनास्रवज्ञानस्यापि अनुपूर्वेण चतुर्धा सम्यगाचाराः स्युः। योगी च चित्तं समाधाय इदं दुःखं अयं दुःखनिरोध इयं दुःखनिगामिनी पतिपत् इति विकल्पयेत्। यद्येकस्मिन् चित्ते स्यात् कथमेवमनुपूर्वेण समाधिविकल्पो भवेत्। अतो ज्ञायते अनुपूर्वेणाभिसमयो नैकक्षणेनेति।

अनुपूर्ववर्गः षड्विंशः।

२७ एकक्षणवर्गः

केचिदाहुः चतुर्णां सत्यानामभिसमयो नानुपूर्वेणेति। भवानाह लोकस्य समुदयं पश्यतो नस्तितादृष्टिर्न भवति। लोकस्य निरोधं पश्यतो अस्तितादृष्टिर्न भवतीति। तदा स्वमतं विनश्येत्। तथा चेत् षोडशभिः चित्तक्षणैः द्वादशभिराकारैश्च मार्गो लभ्यत इति न स्यात्। भवतोक्तं यत्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति प्रजानतो धर्मचक्षुर्भवतीति। तथा चेत् चित्तद्वयेन मार्गलाभः स्यात्-अद्यं समुदयचित्तं द्वितीयं निरोधचित्तं इति। न त्वैतद्युक्तम्। भवानाह अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे। ....निर्धमेन्मलमात्मन इति [अनेनापि] न स्यात् षोडशमात्रैश्चित्तक्षणैरिति। भवतोक्तं आस्रवक्षयसूत्रमाह रूपादीन् जानतः पश्यतः आस्रवानां क्षयो भवतीति। एवञ्चाप्रमाणचित्तानि स्युः न तु षोडशचित्तमात्राणि। भवतोक्तं-चक्षुर्ज्ञानं विद्या प्रज्ञेति। भगवान् स्वयं ब्रवीति चतुर्षु सत्येषु ज्ञानं चक्षुर्विद्या प्रज्ञोदपद्यतेति न ब्रवीति अनुपूर्वेण षोडशचित्तक्षणानि भवन्तीति। भवतोक्तं भगवान् कण्ठेनाह-अनुपूर्वेण सत्यभिसमयः श्रेण्यारोहणवत् इति। नाधीतमिदं सूत्रमस्माभिः। सत्त्वेऽपि निराकर्तव्यमेव। धर्मलक्षणाननुगमात्। भवतोक्तं चतुर्धा मिथ्याचारा भवन्तीति। पञ्चस्कन्धादावपि मिथ्याचाराः स्युः। यान् मिथ्याचाराननुसृत्य सर्वं ज्ञानमुत्पद्येत। एवं च षोडशभिरेव चित्तक्षणैर्मार्गलाभ इति न स्यात्। भवानाह समाध्या विकल्पयेदिति। रूपादावपि तथा विकल्पयेत्। अतो न षोडशैव चित्तक्षणाः स्युः।

[योगिनो] न [नाना] सत्यानि भवन्ति किन्तु एकमेव सत्यं भवति यदुत दुःखनिरोधदर्शनमाद्याभिसम्बोधि नामकम्। दृश्यधर्मादीनां प्रतीत्यसमुत्पन्नत्वात् योगी ऊष्मगतादिधर्मानुपूर्वेण चरमनिरोधसत्यरूपं सत्यं पश्यति। निरोधसत्यदर्शनान्मार्गलाभ‍इत्याख्यायते।

एकक्षण सप्तविंशः।

२८ परिहाणवर्गः

शास्त्रमाह-केचिद्वदन्ति अर्हन् परिहीयते। केचिद्वदन्ति न परिहीयत इति। (पृ) केन कारणेन परिहीयते केन कारणेन न परिहीयते। (उ) परिहीयत इति। यथोक्तं सूत्रे-पञ्च हेतवः पञ्च प्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तन्ते। कतमे पञ्च। कर्मप्रसृतो भवति। भाष्यप्रसृतो भवति। अधिकरणप्रसृतो भवति। दीर्घचारिकायोगमनुयुक्तो भवति। दीर्घेण रोगजातेन स्पृष्टो भवति। इति। आह च सूत्रम् द्विविधोऽर्हन् परिहाणलक्षणोऽपरिहाणलक्षण इति। अपि चोक्तं सूत्रे यद्यमुको भिक्षुः विमुक्तिमुखात् परिहीयते तदिदं स्थानं विद्यते इति। अपि चोक्तं सूत्रे-

कुम्भोपमं कायमिदं विदित्वा नगरोपमं चित्तमिदं स्थापयेत्।
युध्येत मारं प्रज्ञायुधेन जितञ्च रक्षेदनिवेशनः स्यात्॥ इति।

अपरिहीनस्य जितरक्षणं न स्यात्। ज्ञानञ्च द्विविधं-क्षयज्ञानमनुत्पादज्ञानमिति। क्षयज्ञानवान् न पुनरुत्पद्यते। किमनुत्पादज्ञानेन। उदायिनो या निरोधसमापत्ति दुर्लभा। स एव परिहाणहेतुः। स परिहीनोऽपि रूपधाताव(वु)दपद्यत इत्यादिभिः कारणैः ज्ञातव्यं परिहीयत इति।

परिहाणवर्ग अष्टाविंशः।

२९ अपरिहाणवर्गः

केचिद्वदन्ति आर्यमार्गान्न परिहीयते ध्यानसमाधेः परं परिहीयत इति। (पृ) तथा चेत् अर्हन् द्विविधो न स्यात्। अस्ति खलु परिहाणलक्षणः। सर्वेषामर्हतां ध्यानसमाधिभ्यः परिहाणमस्त्येव। (उ) ध्यानसमाधिपरिहीणस्य वशिताबलमस्ति न तु सर्वेषामर्हताम्। (पृ) न युज्यते। यथा गौधिको भिक्षुः षड्‍वारं [चेतोविमुक्तेः] परिहीणः असिना आत्मानं जघान। यदि ध्यानसमाधेः प्रहीणः, नात्मानं हन्यात्। तथागताशासने हि विमुक्तिः प्रधाना न समाधिः। (उ) स इमं ध्यानसमाधिमवलम्ब्यार्हन्मार्गं स्पृशेत्। तस्मात् समाधेः च्युतस्यानास्रवं च्यवते न तु अनास्रवात्परिहीयते। कस्मात्। यथाह गाथा-क्षीणं पुराणं न नवोऽस्ति सम्भवो विरक्तचित्ता आयतिके भवे च।

ते क्षीणबीजा अविरुढच्छन्दा निर्वान्ति धीरा यथायं प्रदीपः॥ इति।

किञ्चाह-शैलो यथा चैकघनो वातेन न समीर्यते।
एवं निन्दाप्रशंसासु न समिञ्जन्ति पण्डिताः। इति।

अपि चोक्तं सूत्रे-तृष्णा तृष्णाजननीत्यादि। तृष्णामूलमर्हतोऽत्यन्तमुन्मूलितम्। कुतः प्रवर्तेत संयोजनम्। आह च-आर्योऽत्यन्तपरिक्षीणान्तः कृतकरणीय इति। किञ्चाह-आर्यस्य क्षीयमाणः समुदयो न पुनर्भवति। प्रदलितं विज्ञानं न [पुनः] भवति इत्यादि। उक्तञ्च सूत्रे-अविद्याप्रत्ययाः कामद्वेषमोहाः प्रवर्तन्ते। अर्हतोऽत्यन्तपरिक्षीणाऽविद्या। [तस्य] कथं संयोजनानि प्रवर्तन्ते। इति। किञ्चोक्तं सूत्रे-ये शैक्षा निर्वाणमार्गं पर्येषन्ते। अहं वदामि तैरप्रमत्तैर्भवितव्यमिति। येषामास्रवाः क्षीणाः न तेषां पुनरास्रवा भवन्ति। अतो नास्ति परिहाणिः। किञ्चाह-विद्वान कुशलभावनः कुशलवाक् कुशलकायकर्मान्तः करणीयान्न च्यवत इति।

अपि चाह-अप्रमादरतो भिक्षुः प्रमादे भयकोविदः।
अभव्यः परिहाणाय निर्वाणस्यैव सन्तिके॥ इति।

उक्तञ्च सूत्रे-मृगा वनाश्रया एव विहगा गगनाश्रयाः।
प्रविवेकपरो धर्मः सज्जनाः शमनिश्रिताः॥ इति

त्रीणि निदानानि संयोजनानां समुत्पादाय अप्रहीणच्छन्दरागः, छन्दरागस्थानीयस्योपस्थानं, तत्र मिथ्यामनस्कारसमुत्पादः। अर्हतः छन्दरागः प्रहीणः। छन्दरागस्थानीयस्यो [पस्थिता]वपि न मिथ्यामनस्कारः समुद्यते। अतः संयोजनानि नोत्पादयति। आह च-धर्मान् मिथ्याभावयतो भिक्षोस्त्रय आस्रवाः प्रादुर्भवन्ति इति। अर्हन् पुनर्न मिथ्याभावयतीति न त आस्रवाः प्रादुर्भवन्ति इति। किञ्चोक्तं सूत्रे-य आर्यप्रज्ञया प्रजानाति न स परिहीयते। यथा स्त्रोत‍आपत्तिफलमपरिहीणम् इति। कीञ्चार्हन् तिस्रो वेदनाः सम्यक् प्रजानाति [तासा]मुत्पादलक्षणं निरोधलक्षणमास्वादलक्षणं मार्गलक्षणं निस्सरणलक्षणञ्चेत्यतो नोत्पादयति संयोजनम्। किञ्चाह-यो भिक्षुः शीलसमाधिप्रज्ञाख्यै स्त्रिभिर्धर्मैः समन्वागतः स न परिहीयते। इति। अर्हत उत्पन्नं संयोजनं प्रहीणम्। अनागतञ्च नोत्पादयति। यथोक्तं सूत्रे-सत्यविहारी आर्यो नैव परिहीयत इति। अर्हन् साक्षात्कृतचतुस्सत्यः क्षीणास्रव इत्यतः सत्यविहारीत्युच्यते। किञ्चाह-सप्तबोध्यङ्गानि अपरिहाणीया धर्मा इति। अर्हतः सप्तबोध्यङ्गसम्पन्नत्वात् न परिहाणिर्भवति। किञ्चार्हन् अकोप्यां [चेतो] विमुक्तिं साक्षात्कृतत्वान् इत्यतो न परिहीयते। अर्हन् तथागतशासने सारमर्थं प्रतिलब्धवान् यदुताकोप्या चेतोविमुक्तिः। कस्यचित् करच्छेदवत् तत्स्मरणेऽस्मरणे च सदा करच्छेदोऽस्त्येव। तथा अर्हतः प्रहीणं संयोजनम्। तत्समरणेऽस्मरणे च सदा प्रहाणमस्त्येव। किञ्चोक्तं सूत्रे-श्रद्धादिनामिन्द्रियाणां तीक्ष्णत्वात् अर्हन् भवति इति। तीक्ष्णेन्द्रियः कदापि न परिहीयते। अनुत्तमतृष्णाप्रहाणधर्मकुशलस्यार्हतश्चित्तं सम्यग्विमुच्यतेऽत्यन्तं क्षीयते। तद्यथा दहनोऽदग्धं दहति दग्ध्वा च नपुनस्तत्र प्रत्यावर्तते। एवं भिक्षुः एका दशभिर्धर्मैः समन्वागत इत्यतो न कदापि परिहीयते।

(पृ) द्विविधोऽर्हन् इति भवतोदाहृतसूत्रमाह-अस्ति अपरिहाण[लक्षण] इति। (उ) इदं सामान्यत उक्तम्। शैक्षेरप्रमत्तैर्भवितव्यमिति अर्हन्तमनपेक्ष्य, न तु विशेषत उक्तम् अपरिहाणलक्षणोऽस्तीति। भगवनाह गाथाम्-

जिनश्चेत् पुनरुत्पन्नः स्यात् उच्यते न तु सो जिनः
जिनो भूत्वा न जायेत् तात्विकः स जिनो मतः॥ इति।

योऽर्हन् पुनः क्लेशानुत्पादयति न स जिनो भवेत्। अर्हतः क्षीणजातित्वात् न पुनः कायो वेद्यते। भवतः सूत्रं यद्यप्याह-अर्हन् परिहाणधर्मा पुनः परिहीयेत इति। तथा चेत् अपरिहाणधर्माऽपि स्यात्। यो भिक्षुस्तथेन्द्रियाणि करोति यथा नोत्पद्यते, सोऽर्हन् भवति। अतो न परिहीयते।

अपरिहाणवर्ग एकोनत्रिंशः।

३० चित्तस्वभाववर्गः

शास्त्रमाह-केचिद्वदन्ति चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैरपरिशुद्धमिति। केचिद्वदन्ति न तथेति।

(पृ) केन कारणेन वदन्ति प्रकृतिपरिशुद्धमिति। केन कारणेन वदन्ति न तथेति। (उ) न तथेति। न चित्तं प्रकृतिपरिशुद्धमागन्तुकमलैपरिशुद्धम्। कुतः। क्लेशा हि सदा चित्तेन सह संप्रयोगजाः। नागन्तुकलक्षणाः। चित्तञ्च त्रिविधम्-कुशलमकुशलमव्याकृतमिति। कुशलमव्याकृतञ्च चित्तममलम्। अकुशलचित्तं प्रकृतितोऽपरिशुद्धम्। नागन्तुकतया। इदञ्च चित्तं प्रतिक्षणमुत्पन्नविनाशि क्लेशानपेक्षम्। यः क्लेशः सहजो भवति न स आगन्तुक इत्युच्यते।

(पृ) चित्तं रूपादिमात्रमनुभूय ततो निमित्तं गृह्णाति। निमित्तजाः क्लेशाः चित्तस्य मलं कुर्वन्ति। अतः प्रकृतिपरिशुद्धमित्युच्यते। (उ) न युक्तमिदम्। चित्तमिदं तत्काल एव निरुद्धं न मलनिमित्तवत् भवति। चित्तं तत्काल एव विनष्टं केन मलेन लिप्यते। (पृ) न प्रतिक्षणविनाशि चित्तमित्यत एवं वदामि। [किन्तु] सन्तन्यमानं चित्तमित्यतो मलिनमिति वदामि। (उ) चित्तसन्तानोऽयं लोकसत्यतोऽस्ति न परमार्थतः। [परमार्थतस्तु] अयमनिर्वाच्यः।

लोकसत्यतोऽपि सन्ति बहवो दोषाः। चित्तमुत्पन्नविनाशि। अनुत्पन्नस्यानभिनिर्वृत्तस्य कथं सन्ततिः। अतो न चित्तं प्रकृतितः परिशुद्धमागन्तुकमलैपरिशुद्धकम्। किन्तु तथागतः चित्तं नित्यं स्थायीति वदतां सत्त्वानां कृत आह आगन्तुकमलक्लिष्टं सत् चित्तमपरिशुद्धमिति। किञ्च कुसीदसत्त्वा ये शृण्वन्ति चित्तं प्रकृतितोऽपरिशुद्धमिति। ते वदेयुः प्रकृतिः न प्रतिकार्येति। न ते चित्तव्यवदानमारभेरन् इत्यतः तथागत आह प्रकृतिपरिशुद्धमिति॥

चित्तस्वभाववर्गस्त्रिंशः।

३१ सम्प्रयोगासम्प्रयोगवर्गः

शास्त्रमाह-केचिद्वदन्ति अनुशयाश्चित्तसम्प्रयुक्ता इति। केचिद्वदन्ति चित्तविप्रयुक्ता इति।

(पृ) केन कारणेन वदन्ति चित्तसंप्रयुक्ता इति। केन कारणेन वदन्ति चित्तविप्रयुक्ता इति। (उ) चित्तसम्प्रयुक्ता इति। [इदं] पश्चादनुशयवर्गे वक्ष्यते। छन्दरागादिः क्लेशानां कर्म। तच्च कर्म अनुशयैः सम्प्रयुक्तम्। भवतां शासने यद्यप्युच्यते चित्तविप्रयुक्तोऽनुशयः चित्तसम्प्रयुक्तसंयोजनपर्यवस्थानस्य हेतुं करोतीति। न युक्तमिदम्। कस्मात्। उक्तं हि सूत्रे-अविद्याऽयोनिशोमनस्कारमिथ्यासङ्कल्पादिभ्यो रागादीनि संयोजननि प्रादुर्भवन्ति इति। न तु सूत्रमाह-अनुयादुत्पद्यत इति। यद्यपि भवतां शासन उक्तं-चिराभ्यस्तसंयोजनपर्यवस्थापकोऽनुशयो नाम इति। न युक्तमिदम्। कस्मात्। कायिकवचिकादि कर्माऽपि चिराभ्यस्तलक्षणम्। तदपि अनुशयाभासः चित्तविप्रयुक्तसंस्कारः स्यात्। न वस्तुतो युज्यते। युज्यत इति चेत् सर्वेऽपि धर्माः प्रत्युत्पन्न हेतोरुपद्येरन् नातीतहेतोः। तथा च न कर्मजो विपाकः स्यात्। मनोविज्ञानञ्च मनसो जातं न स्यात्। अनुशयानामेषां क्षणिकत्वात् कथं पुनस्ते जनकहेतवः स्युः।

(पृ) सहलक्षणो जनकहेतुः। (उ) तदपि न युक्तम्। हेतुफलयोरयौगपद्यात्। तच्च पश्चात् प्रदीपदृष्टान्ते वक्ष्यते। अतो न वक्तव्यमनुशयाश्चित्तविप्रयुक्ता इति॥

सम्प्रयोगसम्प्रयोगवर्ग एकत्रिंशः।

३२ अतीतकर्मवर्गः

शास्त्रमाह-काश्यपीया वदन्ति अननुभूतविपाकं कर्म अतीतेऽध्वनि अस्ति। अन्यदतीते नास्ति इति। उच्यते। तत्कर्म यदि विनष्टं तदा [तत्] अतीतमतीतमेव। यदि अविनष्टम्। तदा नित्यं भवेत्। विनष्टमिति अतीतस्य नामान्तरम्। तदा विनष्टं सत् पुनर्विनश्येत्। तत्कर्म विपाकस्य हेतुकृत्यं कृत्वा निरुद्धम्। विपाकः पुनरूर्ध्वजन्मवर्ती। यथोक्तं सूत्रे-अस्मिन् सतीदमुत्पद्यत इति। यथा पयो निरोधे दघ्नो हेतुकृत्यं करोति। किमतीतकर्मविकल्पेन। युक्तमिति यदि मतम्। अन्यो हेतावस्ति दोषः। कथं विना कारणं विज्ञानमुत्पद्यते। यथा पयसोऽभावे किं दधि भवति। चातुर्भौतिककायवा गादीनामभावे कर्म किमाश्रित्य भवेत्। इत्येवमादयः। यन्मया पूर्वमुक्तोऽतीतस्य दोषः। स इदं प्रतिब्रूयात्॥

अतीतकर्मवर्गो द्वाविंशः।

३३ रत्नद्वयविवादवर्गः

शास्त्रमाह-महीशासका वदन्ति तथागत सङ्घवर्ती इति। उच्यते। यदि मतं तथागतः चतसृषु परिषत्सु अन्तर्गतः यदुत सत्त्वपरिषत् प्राणिपरिषत् मनुष्यपरिषत् आर्यपरिषत् इति। तदा न दोषः। यदि मतं तथागतः श्रावकपरिषदि अन्तर्गत इति। तदाऽस्ति दोषः। धर्मं श्रुत्वा संविल्लाभिनः श्रावका इत्युच्यन्ते। तथागतस्तु विभिन्नलक्षण इत्यतस्तत्र नान्तर्गतः।

(पृ) सङ्घारामाग्रगस्य तथागतस्य दायकः पुरुषः सङ्घदायक इत्युच्यते। (उ) दानमिदं केषां सङ्घसम्बन्धि। सूत्रमिदं किञ्चिद्भ्रष्टम्। इदं वक्तव्यं स्यात् बुद्धसङ्घसम्बन्धीति।

(पृ) भगवान् गौतमीमवोचत्- इमं चीवरं सङ्घे देहि। तदा अहमपि पूजितो भविष्यामि सङ्घोऽपि च। इति। (उ) अहं पूजितो भविष्यामीति सङ्घपूजाभिप्रायेण भगवानवोचत्। यथोक्तं सूत्रे यो रोगप्रेक्षी स मां पश्यति। इति। (पृ) केचिदार्यगुणसमन्विताः शारिपुत्रादयः सङ्घान्तर्गताः, लक्षणसाम्यात् भगवानप्येवम्। (उ) यदि लक्षणसाम्यादिति। सर्वे पृथग्जनाः असत्वाख्याश्च सङ्घप्रविष्टाः स्युः। न युज्यतो वस्तुतः। अतो ज्ञायते न भगवान् सङ्गान्तर्गत इति। किञ्च भगवान् न सङ्घकर्मप्रविष्टः नापि अन्यसङ्घवस्तुसमः। रत्नत्रयविशेषात् न भगवान् सङ्घान्तर्गतः॥

रत्नद्वयविवादवर्गस्त्रयस्त्रिंशः।

३४ नास्तिपुद्गलवर्गः

शास्त्रमाह-वात्सीपुत्रीया वदन्ति अस्ति पुद्गल इति। अन्ये वदन्ति नास्तीति। (पृ) किं तत्त्वम्। (उ) नास्ति पुद्गलधर्म इति तत्त्वम्। कस्मात्। यथा बहुषु सूत्रेषु तथागतो भिक्षूनाह-नाममात्रतः प्रज्ञप्तिमात्रत उपयोगमात्रतः पुद्गल इत्युच्यते। इति। नाममात्रत इत्यादिना ज्ञायते न परमार्थ इति। किञ्चोक्तं सूत्रे-

यो न पश्यति दुःखञ्च स आत्मानन्तु पश्यति।
दुःखदर्शी यथाभूतं स आत्मानं न पश्यति॥ इति।

यदि वस्तु सन् आत्मा, दुःखदर्श्यपि आत्मानं पश्येत्। आर्याः पुनः संवृतिमात्रतो वदन्ति अस्त्यात्मेति। अपि च सूत्रे भगवानवोचत्-यत्रास्मीति तत्रेञ्जितम् इति। यद्वस्तु सत् न तत्रेञ्जितं भवति यथा चक्षुः, तस्य वस्तुसत्त्वात् न [तत्र] इञ्जितमस्ति। तत्र तत्र सूत्रे च आत्मवादः प्रतिषिद्धः। यथा आर्या भिक्षुणी मारमवोचत्-

किं नु सत्वेति प्रत्येषि मारदृष्टिगतं नु ते।
शुद्धसंस्कारपुञ्जोऽयं नेह सत्त्व उपलभ्यते॥ इति।

किञ्चाह-संस्काराणां कलापो हि सन्तानेन प्रवर्तते।
मायानिर्मितमेवेदं प्रकृतानाञ्च वञ्चनम्।
हृद्गतेन सदृशं शल्येनेदं सपत्नकम्।
नैवास्ति सारवद्वस्तु................। इति

किञ्चाह- नास्त्यात्मा न चात्मीयं न सत्त्वो नापि मानवः।
पञ्चस्कन्धाः शून्यमात्रा उत्पादव्ययलक्षणाः।
अस्ति कर्म विपाकश्च कारको नोपलभ्यते॥

इत्येवमादिना भगवान् नानासूत्रेषु आत्मवादं प्रतिषिद्धवान्। अतो नास्त्यात्मा। सूत्रे च विज्ञानार्था विभक्ताः। कस्मात् विज्ञानमिति। यदुत रूपं विजानाति यावद्धर्मान् विजानातीति। न चोक्तं आत्मानं विजानातीति। अतो नास्त्यात्मा।

चुन्दभिक्षु र्भगवन्तमपृच्छत्-को नु खलु विज्ञानाहारमाहारयति। भगवान् प्रत्यवदत्। न कल्यः प्रश्नः। विज्ञानाहारमाहारयतीति नाहं वदामि। इति। यद्यस्ति आत्मा। आत्मा विज्ञानाहारमाहारयतीति वदेत्। अतो ज्ञातव्यं नास्त्यात्मेति। बिम्बिसारप्रत्युद्गमनसूत्रे भगवान् भिक्षूनामन्त्र्याह-विभावयत यूयं भिक्षवः प्राकृतानां प्रज्ञप्तिमनुरुध्य वदामि अस्त्यात्मेति। परमार्थस्तु नास्ति पञ्चस्कन्धेषु आत्माऽऽत्मीयं वा। इति। किञ्चाह-पञ्चस्कन्धानुपादायास्ति नानाविधं नाम यदुत आत्मा सत्त्वो मानवो देव इति। एवंप्रमाणानि नामानि पञ्चस्कन्धानुपादाय सन्ति। यद्यात्माऽस्ति। आत्मानमुपादायेति वदेत्। स्थविरपूर्णकः कश्चित् तीर्थिकः आह-यदि पुरुषो मिथ्यादृष्टया असन्तमस्तीति वदति। भगवान् प्रहीणैतन्मिथ्याभिमानः अप्रहीणसत्त्व इत्यतो नास्त्यात्मा। यमकसूत्रे शारिपुत्रो यमकमवोचत्-किं यमक समनुपश्यसि रूपस्कन्धोऽर्हन् इति। उत्तरमाह-नो हीदमायुष्मन् इति। किं समनुपश्यसि वेदना संज्ञा संस्कारा विज्ञानमर्हन् इति। नोहीद [मायुष्मन्]। किं समनुपश्यसि पञ्चस्कन्धकलापोऽर्हन् इति। नोहीदमायुष्मन्। किं समनुपश्यसि पञ्चस्कन्धादन्यत्र अर्हन् इति। नोहीदमायुष्मन् शारिपुत्रोऽवोचत्। यदेवं परिमृग्य [दृष्ट एव धर्मे सत्यतः स्थिरतः] नोपलभ्यते। तत्कल्यं नु ते व्याकरणं अर्हन् [कायस्य भेदादुच्छिद्यते विनश्यति] न भवति परं मरणादिति। अभूत्खलु मे [आयुष्मन्] शारिपुत्र पूर्वं पापकं दृष्टिगतम्, इदं पुनरायुष्मतः शारिपुत्रस्य धर्मदेशनां श्रुत्वा तच्च पापकं दृष्टिगतं प्रहीणम्। इति। यद्यस्ति आत्मा, पापकं दृष्टिगतं इति न वदेत्।

चतुर्षूपादानेषु उक्तमात्मवादोपादानमिति। यद्यस्त्यात्मा आत्मोपादानमिति ब्रूयात् यथा कामोपादानमित्यादि। न ब्रूयादात्मवादोपादानमिति। उक्तञ्चश्रेणिकसूत्रे-त्रयाणां शास्तॄणां यो नोपलभते प्रत्युत्पन्नमात्मानमूर्ध्वभाविनं वात्मानं तमहं शास्तारं बुद्धं वदामि इति। भगवताऽनुपलब्धत्वात् नास्त्यात्मेति ज्ञायते। अनात्मनि आत्मेति संज्ञा विपर्ययः। यदि मतं सत्यात्मनि आत्मेति संज्ञा न विपर्यास इति। न युक्तमिदम्। कस्मात्। भगवानाह-यत्सत्त्वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति। इमानेव पञ्चस्कन्धान् [आत्मत आत्मीतयतश्च] समनुपश्यन्ति। इति। अतो नास्त्यात्मा। किञ्चाह-सत्त्वाः विविधान् पूर्वनिवासाननुस्मरन्तः पञ्चस्कन्धाननुस्मरन्ति। इति। यद्यस्त्यात्मा, तमप्यनुस्मरेयुः। अननुस्मरणान्नास्तीति ज्ञातव्यम्। यदि मन्यसे-किञ्चित्सूत्रमाह सत्त्वानुस्मरणमपि। यथा अमुकः सत्त्वः तत्राहममुकनामक इति। तदयुक्तम्। तद्धि लोकसत्यविकल्पादुक्तम्। परमार्थतस्तु पञ्चस्कन्धानेवानुस्मरति न सत्त्वम्। कुतः। मनोविज्ञानेन हि स्मरति। मनोविज्ञानञ्च धर्ममात्रालम्बनम्। तस्मान्नास्ति किञ्चित्स्मरणं सत्त्वानुस्मरणं नाम। अस्त्येकान्तत आत्मेति यो वदति स षण्णां मिथ्यादृष्टीनीमन्यतमस्यामनुपतति। यदि मन्यसे नास्त्यात्मेति वचनमपि मिथ्यादृष्टिरिति। तदयुक्तम्। कस्मात्। सत्यद्वयस्य सत्त्वात्। लोकसत्यतो नास्त्यात्मा। परमार्थतस्तु अस्त्यात्मेति ब्रूवतो हि दोषो भवति। अहन्तु वदामि परमार्थतो नास्त्यात्मा। लोकसत्यतस्तु अस्तीति। अतोऽनवद्यम्।

अपि चात्मदृष्टिमूलोद्धरणायाह भगवान् यथा मोघराज [माणव]पृच्छायां भगवान् मोघराजं प्रत्याह-

शून्यतो लोकमवेक्षस्व मोघराज सदा स्मृतः।
आत्मानुदृष्टिमुद्धत्य [एवं मृत्युतरः स्याः।
एवं लोकमवेक्षन्तं] मृत्युराजो न पश्यति॥ इति

आत्मास्तिवादानां कारणानि प्रीतिदौर्मनस्यादीनि सर्वाणि पञ्चस्कन्धवर्तीनि। तीर्थिकानामात्मदृष्टिकारणखण्डनान्नास्त्यात्मा॥

नास्ति पुद्गलवर्गश्चतुस्त्रिंशः।

३५ पुद्गलास्तिनास्तितावर्गः

(पृ) नास्त्यात्मेति भवतो वचनमयुक्तम्। कस्मात् चतुर्षु व्याकरणेषु चतुर्थ स्थपनीयं व्याकरणं यदुत भवति पुरुषः परं मरणात् न भवति [पुरुषः परं मरणात्] भवति च न भवति च [पुरुषः परं मरणात्], नैव भवति न न भवति [पुरुषः परं मरणात्]। यदि परमार्थतो नास्त्यात्मा, न स्यादिदं स्थपनीयं व्याकरणम्। ऊर्ध्वकायवेदकः सत्त्वो नास्तीति यत् केषाञ्चित् वचनम्। मिथ्यादृष्टिरियम्। द्वादशाङ्गप्रवचने चास्ति जातकम्। तत्र भगवानेवमाह-तस्मिन् समये अहमेव महासुदर्शनो राजा एवंकाय इत्यादि। पूर्वकेभ्य उत्पन्ना इदानीन्तनाः पञ्चस्कन्धाः न तु पुराणा एव। तस्मादस्त्यात्मा [यः] पूर्वकेभ्योऽद्य यावत् भवति। किञ्चाह भगवान्-

इह नन्दति प्रेत्य नन्दति
कृतपुण्यो उभयन्न नन्दति। इति।

यदि पञ्चस्कन्धमात्रमस्ति, उभयत्र नन्दिर्न स्यात्। उक्तञ्चसूत्रे-चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते। चित्तव्यवदानात् सत्त्वा विशुध्यन्ति। इति। एकत्यः पुद्गल उत्पद्यते लोके बहूनां विपत्त्यनुतापाय। एकत्यः पुद्गल उत्पद्यते लोके बहूनां लाभाय। यत् कुशलाकुशलकर्मणां समुदाचरणं सर्वं तत् सत्त्वोपगम्। तत्र तत्र च सूत्रे भगवान् स्वयमाह-अहं वदामि सत्त्वा ऊर्ध्वकायं वेदयन्ते इति। आत्महिते कुशलः न परहित इत्यादि। एवमादिकारणैर्ज्ञायते अस्त्यात्मेति।

भवता यद्यपि पूर्वमुक्तं नाममात्रत इत्यादि। न युक्तमिदम्। कस्मात्। पञ्चस्कन्धव्यतिरिक्तो नित्योऽविनाशिलक्षणोऽस्त्यात्मेति तीर्थिकाः परिकल्पयन्ति। तेषां मिथ्यादृष्टिव्यवच्छेदाय भगवानाह नास्त्यात्मेति। वयन्तु वदामः पञ्चस्कन्धसमवाय आत्मेति। अतोऽनवद्यम्। यद्यप्याह आत्मा नाममात्रमिति। तद्वचनं प्रगाढं चिन्तनीयम्। यदि सत्त्वो नाममात्रमिति। यथा मृण्मयगोहनने नास्ति पापम्। तथा वास्तविकगोहननेऽपि पापं न भवेत्। यथा बालकानां नाममात्रेण वस्तुदानं सविपाकं स्यात्। तथा महतां दानव्रतमपि विपाकं प्राप्नुयात्। वस्तुतस्तु न युज्यते। नाममात्रतोऽसदपि अस्तीति वादिन आर्या मृषावादिनः स्युः। सत्यवादिनः खल्वार्याः। अतो ज्ञायते अस्त्यात्मेति। यद्यार्याः परमार्थतो नैरात्म्यदर्शिनः व्यवहारतोऽस्त्यत्मेति वदन्ति। तदा विपर्ययदर्शिनः स्युः। [अन्यथा दृष्टस्य] अन्यथा वचनात्। यदि व्यवहारतोऽसदपि अस्तीति वदतां पुनः सूत्रगतानि पारमार्थिकानि द्वादशनिदानानि त्रीणि विमोक्षमुखानि अनात्मानः सर्वधर्मा इत्यादि वचनं न स्यात्। अस्ति परलोक इति वादिनमनुसृत्य वदन्ति अस्तीति। नास्तीति वादिनमनुसृत्य वदन्ति नास्तीति। वदन्ति च लोके अयुतानि वस्तूनि ईश्वरादुत्पन्ननि। इति। ततादृशा विविधमिथ्यादृष्टिसूत्रमन्यास्तद्ववतानुसारिणः स्युः। ततु न सम्भवति। अतो भवतोदाहृतं सूत्रं सर्वं सामान्यतो दूषितमेव। अतो नास्ति नैरात्म्यम्।

अत्रोच्यते। यद्भवता पूर्वमुक्तं स्थपनीयव्याकरणात् अस्त्यात्मेति ज्ञायत इति। तदयुक्तम्। कस्मात्। सोऽवक्तव्यधर्म इति पश्चात् निरोधसत्यस्कन्धे विवेक्ष्यते। अतो नास्ति परमार्थत आत्मा अवक्तव्य इति। प्रज्ञप्तिमात्रमित्युच्यते न परमार्थसन् इति। भवतां शासने आत्मा षद्भिर्विज्ञानैर्विज्ञायते। यथाह भवतामागमः चक्षुषा दृश्यमानं रूपमुपादायेत्यतो विनाश्यात्मा। तदा त्वयं चक्षुर्विज्ञानविज्ञेयः। तदा न वक्तव्यं न रूपं नारूपमिति। एवं शब्दादयोऽपीति।

अथ यद्यात्मा षड्विज्ञानविज्ञेयः। तदा सूत्रैर्विरुच्यते। सूत्रे ह्युक्तम्-पञ्चेन्द्रियाणि नान्योप्यस्य विषयान् प्रत्यनुभवन्ति। इति। प्रत्यध्ववसायस्य वैषम्यात्। यद्यात्मा षड्विज्ञानविज्ञेयः स्यात्। तदा षडिन्द्रियाणि अन्योन्यवृत्तीनी स्युः। किञ्च भवदुक्तं पूर्वापरविरुद्धम्। यत् चक्षुर्विज्ञानविज्ञेयं न तत् रूपमिति ब्रवीषि। भवानाह-नास्त्यात्मा इतीयं मिथ्यादृष्टिरिति। सूत्रे भगवान् स्वयं भिक्षूनामन्त्र्याह-असत्यप्यात्मनि संस्काराणां सन्तानमुपादाय जननमरणमस्तीति वदामि। पश्यामि च दिव्येन चक्षुषा सत्त्वानुत्पद्यमानान् म्रियमाणांश्च। अथापि न वदामि अस्त्यात्मेति।

किञ्च भवतां शासनेऽस्ति दोषः। भवतां शासने ह्युच्यते आत्मा न जायत इति। योऽजातः स मातापितृभ्यां विहीनः। मातापितृभ्यां विहीनस्य नास्त्यानन्तर्यम्। अन्यान्यपि पापकर्माणि न सन्ति इत्यतो भवतां शासनमेव मिथ्यादर्शनम्।

भवानाह भवस्य पूर्वस्मादुत्पाद इति। पञ्चस्कन्धानुपादाय सुदर्शनो नाम राजा। त एव पञ्चस्कन्धाः सन्तत्या बुद्धो भवति। तस्मादाह-अहमेव स राजा इति। भवतां शासने आत्मन एकत्वात् विशेषो न स्यात्।

भवानाह- कृतपुण्य उभयत्र नन्दतीति। सूत्रे भगवान् इदं वस्तु प्रतिषिध्याह-नाहं वदामि कश्चिदिमान् पञ्चस्कन्धान् परित्यज्य तान् स्कन्धानुपादत्त इति। किन्तु तत्पञ्चस्कन्धानां सन्तत्या भेदाभावादाह-उभयत्न नन्दतीति। यद्भवानाह-चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति। ततो नास्त्यात्मा परमार्थत इति। यद्यस्त्यात्मा, चित्ताभिन्नः स्यात्। नोच्यते सत्त्वसंक्लेशात् सत्त्वाः संक्लिश्यन्त इति। कस्मात्। न हि सम्भवति तस्य संक्लेशसमयं [सत्त्व] उपादत्त इति। किन्तु प्रज्ञप्त्या हेतुप्रत्ययानां संक्लिष्टत्वात् आह-सत्त्वाः संक्लिश्यन्त इति। अतः प्रज्ञप्त्यास्त्यात्मा। न परमार्थतः। भवतां शासने चोच्यते न पञ्चस्कन्धा एवात्मेति। तदा सोऽजातोऽनिरुद्धोऽपुण्यपाप इत्येवमादयो दोषा भवन्ति। वयन्तु वदामः पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मेति। इममात्मानमुपादाय अस्ति जन्म अस्ति निरोधः पुण्यपापमित्यादि। न च प्रज्ञप्तिसन्नास्तीति। वस्तुमात्रं न भवति। भवता पूर्वमुक्तं-तीर्थिकानामाशयखण्डनाय भगवानाह-नास्त्यात्मेति। अभूतसंज्ञया भवानेवं कल्पयति न तथा भगवदाशयः। विविधा आत्मवादाः सर्वे दुष्टाः यथा भवान् ब्रवीति-पञ्चस्कन्धान् विहाय अन्योऽस्त्यात्मेति तीर्थिका मन्यन्त इति। तथा भवानपि [मन्यते]। कस्मात्। अनित्या हि पञ्चस्कन्धाः। आत्मात्ववक्तव्यो यदि नित्योऽनित्यो वेति। [सो]ऽयं स्कन्धविनिर्मुक्त एव।

अथ स्कन्धस्य सन्ति त्रयो भेदाः-शीलसमाधिप्रज्ञाः, कुशलाकुशलाव्याकृताः, कामधातुप्रतिसंयुक्तरूपधातुप्रतिसंयुक्तारूप्यधातुप्रतिसंयुक्ताः इत्येवं विभागाः। आत्मानस्तु तथा विभक्ता न भवन्ति। अतः पञ्चस्कन्धेभ्योऽन्यः। आत्मा च पुद्गलः। पञ्चस्कन्धा न पुद्गलः। तदा त्वयमन्यो भवति। स्कन्धाः पञ्च। आत्मात्वेकः। इत्यतो नात्मा स्कन्धाः। अस्ति चेदात्मा। स एभिः कारणैः पञ्चस्कन्धेभ्योऽन्यः स्यात्। लोके च नास्ति कोऽपि धर्म एक इत्यवक्तव्यः। अतो नास्ति कश्चिदवक्तव्यो धर्मः।

(पृ) यथा अग्निरिन्धनञ्च न वक्तुं शक्यत एवं वा नाना वेति। तथात्मापि स्यात्। (उ) इदं सन्दिग्धसमम्। किमग्निः किमिन्धनमिति। यदि तेजोधातुरग्निः अन्ये धातव इन्धनम्। तदा अग्निरिन्धनात्पृथक् स्यात्। यदि तेजोधातुरेवेन्धनम्। कथमुच्यते नैकमिति। यदिन्धनं स एव तेजोधातुः। तेजोधातुं विनापि [दहेत्] इत्युभयमयुक्तम्। अतः सन्दिग्धसमम्। यस्याग्निरिन्धनवान् यथा आत्मा रूपवान् इति। तस्य सत्कायदृष्टिपातः। आत्मबहुत्वञ्च स्यात्। यथा काष्ठाग्निरन्यः गोमयाग्निश्चान्यः। एवात्मापि। मनुष्यस्कन्धेष्वन्य आत्मा। देवस्कन्धेष्वन्य आत्मा इतीदमात्मबहुत्वम्। यथाग्निरिन्धनञ्च त्रिषु अध्वसु वर्तते। एवमात्मापि पञ्चस्कन्धैः सह त्रिषु अध्वसु वर्तमानं स्यात्। यथा चाग्निरिन्धनंञ्च संस्कृतम्, आत्माऽपि पञ्चस्कन्धैः सह संस्कृतं स्यात्। यद्यपि भवानाह-अग्निरिन्धनेन नैको न नाना इति। तथापि चक्षुषा पश्यामः खलु नानालक्षणे। आत्मापि पञ्चस्कन्धाश्चान्ये स्युः। किञ्च पञ्चस्कन्धा नश्यन्ति। आत्मा तु न नश्यति। अस्मात् लोकात् च्युतः परलोक उत्पद्यते। उभयत्र नन्दियुक्तत्वात्। यः पञ्चस्कन्धाननुसृत्य सविनाशः सोत्पादश्च। स पञ्चस्कन्धसमो नोभयत्र नन्दिको भवति। भवांस्तु अभूतसंज्ञया इममात्मानं विकल्प्य केषां हितं प्रापयति।

विषयेषु न कोऽप्यस्ति षड्विज्ञानविज्ञेयः। षड्विज्ञानविज्ञेय इति भवतोक्त आत्मा न षड्विषयरूपो भवति। यो द्वादशायतनेष्वसङ्गृहीतः। न स आयतनेषु भवति। चतुर्षु सत्येषु असङ्ग्रप्रहीतश्च न सत्येषु भवति। तस्मादस्त्यात्मेति यद्वचनं स मृषावादः।

भवतां शासन उच्यते ज्ञेयधर्मा यदुत पञ्चधर्मकोशाः-अतीता अनागताः प्रत्युत्पन्ना असंस्कृता अवक्तव्या इति। आत्मा पञ्चमधर्मान्तर्गतः। तदा चतुर्भ्यो धर्मेभ्योऽन्यः। स चतुर्भ्यो धर्मेभ्योऽन्य इतीच्छन्ति खलु भवन्तः। अयं पञ्चमस्तु न सम्भवति। आत्मास्तित्ववादस्येदृशा दोषा भवन्ति। किमात्मेति मिथ्यासंज्ञाविकल्पेन। अतो भवता पूर्वमुक्तम्-तीर्थिकाः पञ्चस्कन्धान् विहाय पृथगात्माऽस्तीति मन्यन्ते। वयन्तु न तथा इति। तदयुक्तम्। यद्भवानाह-आत्मा प्रज्ञप्तिमात्रमितीदं गाढतरं चिन्तनीयम् इति। तदप्ययुक्तम्। कस्मात्। जिनशासने ह्युच्यते लोकसत्यवस्तु न प्रगाढं चिन्तनीयम् इति। यत् भवतोक्तं मृषावादिनो विपर्ययदर्शिनः स्युरिति। इदमपि तथैव। यदवादीः ‘सूत्रगतानि पारमार्थिकानि’ [इत्यादि] वचनं न स्यादिति। तत्तथा प्रतिवक्तव्यं यथा परमार्थो ज्ञायेत। यदवोचद्भवान् लोकोक्तानि सर्वाणि अनुसर्तव्यानि यद्वदन्ति ईश्वरादुत्पन्नानि न युतानि वस्तूनि इत्यादि। न तदुपादेयम्। यद्धितकरं परमार्थाविलोमकं तदुपादेयमित्यतोऽनवद्यम्। यल्लोकसत्यतो गुणोत्पादकं हितकरञ्च। ईदृशं सर्वमुपादेयम् इति पश्चाद्वक्ष्यते। यदवादीः-मृण्मयगवादिहनने नास्ति पापमिति। तदिदानीं प्रतिवक्तव्यम्। सविज्ञानानां स्कन्धानां सन्तत्या समुदाचारे सति अस्ति कर्म अस्ति विपाकः। मृण्मयगवादिषु तु नेदमस्ति। तस्मात् पञ्चस्कन्धानां कलापः प्रज्ञप्त्या आत्मा इत्याख्यायते। न वस्तुसत्तया इति ज्ञातव्यम्॥

आत्मास्तित्वनास्तित्ववर्गः पञ्चत्रिंशः।

सत्यसिद्धिशास्त्रे प्रथमः प्रस्थानस्कन्धः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project