Digital Sanskrit Buddhist Canon

स्वयंभूस्तवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Svayaṁbhūstavaḥ
स्वयंभूस्तवः



नमस्ते विश्वरूपाय ज्योतीरूपाय ते नमः।

नमः स्वयंभवे नित्यं जगदुद्धारहेतवे॥ १॥



त्वं बुद्धस्त्वं च धर्मो दशबलतनयस्त्वं तथा बोधिसत्त्व-

स्त्वं भिक्षुः श्रावकस्त्वं कुलिशवरधरस्त्वं तथा धर्मधातुः।

त्वं ब्रह्मा त्वं च विष्णुः प्रमथगणपतिस्त्वं महेन्द्रो यमस्त्वं

त्वं पाशी त्वं धनेशस्त्वमनलपवनौ नैरृतस्त्वं महेशः॥२॥



भूताः प्रेताश्चतिर्यक् त्वममरमदितिमार्नवास्त्वं वयं च

चातुर्योनिस्त्वमेव त्रिगुणवरतनुः पञ्चज्ञानैकमूर्तिः।

वर्णास्त्वं कालमासा दिनमपि रजनी पञ्चभूतास्त्वमेव

अन्नं रत्नं च सर्वं मतिरति महती नः सदा त्वां नताः स्मः॥ ३॥



पञ्चज्ञानेन बुद्धान् सृजसि स्वयमथो बोधिसत्त्वांश्च पञ्च-

भूतानेतान् गुणांस्त्रीनजहरिगिरिशान् स्थावराञ्जङ्गमांश्च।

सर्वेषां चेतसि स्थो नटयसि सकलं सर्वतो रक्षकोऽसि

त्वं बीजं चाङ्कुरस्त्वं फलमपि विटपी सर्वदा त्वां नताः स्मः॥ ४॥



श्रेष्ठं क्षत्रं त्वमस्मिन् प्रभवसि भगवान् सर्वतः सर्वदेवान्

ग्रामांस्तीर्थानि देशान् नृपसहितनरान् नैगमांश्चापि सर्वान्।

द्वीपेष्वन्येष्वपि त्वं विभजसि सकलं ज्योतिषां संविभागम्

बीजीभूतैकदीपोऽस्यखिलमपि जगद्वयापकस्त्वां नताः स्मः॥ ५॥



ज्योतिस्त्वदीयं परितो विसारि सितारुणश्यामकपीतरक्तं

दृष्टं ततः सर्वमिदं भवन्तं मन्यामहे त्वां प्रणताः स्म नित्यम्॥ ६॥



नुतिं महाराजकृतां ये पठिष्यन्ति मानवाः।

चक्रवर्तिपदं प्राप्य ते हि मुक्तिमवाप्नुयुः॥ ७॥



श्रीचातुर्महाराजकृतं स्वयंभूस्तवं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project