Digital Sanskrit Buddhist Canon

मङ्गलषोडशस्तुतिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Maṅgalaṣoḍaśastutiḥ
मङ्गलषोडशस्तुतिः



ॐ नमः समन्तभद्राय

येन पुण्याटवीस्थेनानेके शासनवर्तिनः।

दिवोदासादयो भूपाः स नो रक्षतु मारजित्॥ १॥



लोकानां ग्रहबद्धानां रक्षार्थं पुण्यकानने।

ग्रहानदमयद् यो वै स नो रक्षतु तद्भयात्॥ २॥



काश्यपाद्यान् महर्षींस्तान् आनन्दाद्यांश्च ब्राह्मणान्।

प्राव्राजयत् सुमुक्त्यर्थं स नो रक्षतु मुक्तिदः॥ ३॥



सौवर्णधान्यदानेन दीनं विप्रमपालयत्।

दुर्भिक्षभयतो नित्यं स नो रक्षतु शाक्यराट्॥ ४॥



यो मैत्रकन्यको भूत्वा मातृद्रोहिणमत्यगात्।

चक्रं दूरीकृतं येन स नो रक्षतु मातृवान्॥ ५॥



सुप्रियो बदरद्वीपयात्राप्तमणिवृष्टिभिः।

काशीयान् प्राकरोदाढ्यान् स नो रक्षतु काञ्चनैः॥ ६॥



भूत्वा यः सुधनो नाम निधानं समदर्शयत्।

दारिद्रयदुःखतो नित्यं स नो रक्षतु सर्ववित्॥ ७॥



कुष्ठादिरोगहरणे राजगृहमुपाविशत्।

तत्तद्रोगभयान्नित्यं स नो रक्षतु धर्मराट्॥ ८॥



यः कुशो भूपतिर्भूत्वाऽष्टमीमाहात्म्यमुत्तमम्।

प्रकाशयन्निजे देहे स नो रक्षतु धर्मवित्॥ ९॥



सौदासं सत्यवचसा काश्यामस्थापयन्नृपान्।

बन्धनान्मोचयामास स नो रक्षतु सर्ववित्॥ १०॥



गोपान् ररक्ष यो देव्याः प्रभावं संप्रकाशयन्।

वह्निदाहारिभयतः स नो रक्षतु भीतिहा॥ ११॥



योऽन्धीभूतां मातरं स्वां चूडारत्नं जले व्यधात्।

दिव्यनेत्रान् जनान् कृत्वा स नो रक्षतु नेत्रदः॥ १२॥



विरूपं प्राकरोत् पुत्रं छायासीनं सुसुन्दरम्।

सर्वलक्षणसम्पन्नं स नो रक्षतु सर्वदः॥ १३॥



सकलानन्दनामानं राज्ये यः प्राभ्यषेचयत्।

सन्ततिस्थितिकुर्वाणः स नो रक्षतु स्थैर्यकृत्॥ १४॥



विषदं भ्रातरं यश्चाक्षमद् भिक्षुन् विषाशिनः।

ररक्ष धारणीविज्ञः स नो रक्षतु निर्विषः॥ १५॥



श्रीस्वयंभुदर्शनाय नैपालीयान् प्रयासितुम्।

कपिलान् प्रस्थितो योऽसौ स नो रक्षतु सन्ततम्॥ १६॥



भद्रकल्पावदानोद्धृता शाक्यसिंहस्य

मङ्गलषोडशस्तुतिः समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project