Digital Sanskrit Buddhist Canon

सप्तजिनस्तवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saptajinastavaḥ
सप्तजिनस्तवः



जगद्गुरुं सुरनरलोकपूजितं कृपापटुं परहितमोक्षदेशकम्।

विपश्यिनं त्रिभवमहौघसारगं नमामि तं सुगतगतिं तथागतम्॥ १॥



अनन्तपारे भवसागरेऽस्मिन् निमज्यमानं प्रसमीक्ष्य लोकम्।

प्रकाशितो येन हिताय धर्मो नमोऽस्तु तस्मै शिखिने जिनाय॥ २॥



वन्दे विश्वभुवं बुद्धं चन्द्रार्काधिकतेजसम्।

सागरौघमिवागाघं ज्ञानेन विनयेन च॥ ३॥



यस्येन्दुरश्मिप्रतिमैर्यशोभिरलंकृता भाति वसुन्धरेयम्।

औदुम्बरं पुष्पमिवाद्भुतं तं वन्दे ककुप्छन्दमहामुनीन्द्रम्॥ ४॥



विसारिणा विगतमलेन चेतसा विरागिणा सततहितानुकारिणा

हतं तमो विगतमलेन येन तं सुरार्चितं कनकमुनिं नमाम्यहम्॥ ५॥



प्रतप्तचामीकररश्मिगौरं सहस्रसूर्याधिकदीप्ततेजसम्।

लोकोत्तमं सर्वजनाभिवन्द्यं वन्दाम्यहं काश्यपनामधेयम्॥ ६॥



वाक्यांशुजालैः प्रतिबोध्य लोकं सूर्याशुजालैरिव पद्मषण्डम्।

यो निर्वृतः शाक्यमुनिप्रदीपस्तस्मैः नमः परमकारुणिकाय शास्त्रे॥ ७॥



मैत्रेयनामा तुषितालयस्थो यस्यैकजन्मान्तरिता हि बोधिः।

उत्पत्स्यते यः सुगतः पृथिव्यां सर्वात्मनाऽहं प्रणतोऽस्मि तस्मै॥ ८॥



स्तुत्वा मया सप्तजिनानतीताननागतं चाष्टमबोधिसत्त्वम्।

यत्पुण्यमासादितप्रमेयं निरामयास्तेन भवन्तु सत्त्वाः॥ ९॥



श्रीसप्तजिनस्तवः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project