Digital Sanskrit Buddhist Canon

शाक्यसिंहस्तोत्रम् (सुरपतिकृतम्)

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Śākyasiṁhastotram (surapatikṛtam)
शाक्यसिंहस्तोत्रम्

सुरपतिकृतम्



नौभि श्रीशाक्यसिंहं सकलहितकरं धर्मराजं महेशं

सर्वज्ञं ज्ञानकायं त्रिमलविरहितं सौगतं बोधिराजम्।

धर्माधारं मुनीन्द्रं दशबलबलिनं श्रीघनं विश्वरूपं

संबुद्धं लोकनाथं सकलभयहरं संस्थितं मर्त्यलोके॥ १॥



यस्त्वं धर्माधिमेशं (पेशः) सकलजिनसुतैः संश्रितः श्वेतकेतु-

रित्याख्यां बोधिहेतुस्तदनु च तुषिता चागता बोधिराज।

मैत्रेयं स्थापयित्वा प्रमुदितमनसं स्वासने चाभिषिञ्च्य

मायागर्भे पवित्रेऽशुचिमलरहिते रत्नव्यूहे निवेश॥ २॥



गर्भे स्थित्वाऽपि यस्त्वं सकलहितकरीं धर्मव्याख्यां करोषि

काले मातुः सुकक्षात्सकलनिजकरैः काशयत् संप्रजातः।

लोकाचारं च कृत्वा विहितदशविधिं वै विवाहादि तत्तत्

त्यक्त्वा सर्वांश्च राज्यं सकलजनहिते निर्गतं त्वां नमेऽहम्॥ ३॥



ऊर्णाकोशाच्च यस्य प्रतिदिनमसकृत् दक्षिणावर्तरोचिः

प्रोद्यद्देदीप्यमानत्रिभुवनकुहरध्वस्तमोहान्धकारम्।

चत्वारिंशत्सुदन्तोद्गलितकरचयैर्भापयन्नारकीयान्

प्रोद्धृत्वा स्वर्गलोके सुरतरुकलिते स्थापिता येन वन्दे॥ ४॥



यत्पाणी चक्रचिह्नावभिमतफलदौ दानपारंगतत्वो-

द्यत्कान्ता भूमिदेवी स्वगणपरिवृता भेदयित्वाऽवनिं ताम्।

स्थित्वाग्रे पूजयित्वा नमुचिमभिगतं भर्त्सयित्वा द्विषन्तं

साक्षीभूता निलीना प्रणमितशिरसा त्वां नमेऽहं जिनेन्द्रम्॥ ५॥



यस्योद्ग्रीवस्य चाग्रे विधिहरमधुहृल्लोकसंस्थैः प्रवीणै-

र्द्रष्टुं नैवाभिशक्त्या किमु मनुजपुरे वासितैर्मादृशैश्च।

ब्रह्माण्डं लङ्घयित्वा तरणिशशधरौ द्यौश्च नक्षत्रलोकं

ऊर्ध्वं लोकोत्तराख्ये निजभुवनवरे भासितं त्वां नमेऽहम्॥ ६॥



यद्वक्त्रं पङ्कजाभं सुरदनवसनाकर्णिकाकेसराढ्यं

ब्रह्माण्डं जूम्भतेऽस्मिन् भुवनगणवृत्तं संश्रितं कर्णिकावत्।

दृष्ट्वा संमूर्च्छितोऽभून्नमुचिरनुचरैस्त्रासि सर्वज्ञनाथ

कृत्वा केचित्प्रयाताः शरणमभिमतं श्रीघनं त्वां नमेऽहम्॥ ७॥



संख्याज्ञानप्रवीणास्त्रिभुवनसदने पण्डिता ये वसन्ति

तैः सर्वैर्मीलयित्वा यदि तव महिमा वर्ण्यते कल्पकालम्।

पारं गन्तुं समर्था नहि निखिलगुणक्षीरसिन्धोः कथञ्चि-

देकाकी किं समर्थास्तदपि मम मनो बोधनार्थं नमे त्वाम्॥ ८॥



पठ्यन्ते स्तोत्रमेतत्सुरपतिरचितं स्रग्धरावृत्तसंज्ञं

शक्राद्या लोकपालाः प्रतिपदनुचराः संकरिष्यन्ति रक्षाम्।

सौख्यं भुक्त्वेह लोके तदनु सुरपतेः कल्पवृक्षाभिकीर्णे

स्थित्वा गच्छन्ति चान्ते सुगतसुतमहीं सर्वलौकैकगम्याम्॥ ९॥



सुरपतिकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project