Digital Sanskrit Buddhist Canon

भक्तिशतकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Bhaktiśatakam

भक्तिशतकम्



महापण्डित-रामचन्द्रभारतीविरचितम्



नमस्तस्मै भगवतेऽर्हते सम्यक्संबुद्धाय



ज्ञानं यस्य समस्तवस्तुविषयं यस्यानवद्यं वचो

यस्मिन् रागलवोऽपि नैव न पुनर्द्वेषो न मोहस्तथा।

यस्याहेतुरनन्तसत्त्वसुखदाऽनल्पा कृपामाधुरी।

बुद्धो वा गिरिशोऽथवा स भगवान् तस्मै नमस्कुर्महे॥ १॥



देवः शम्भुर्न वैरी हरिरपि न रिपुः केवली नो सपत्नो

नोदासीनः स्वयम्भुर्न च पुनरपरे ते परे वासवाद्याः।

शास्ता बुद्धो न बन्धुर्जगति न जनको नैकगोत्रैकजातिः

किन्त्वेषां वीतरागो भवति सकलविद् यः सुधीभिः स सेव्यः॥ २॥



ब्रह्मा विद्याभिभूतो दुरधिगममहामाययालिङ्गितोऽसौ

विष्णू रागातिरेकान्निजवपुषि धृता पार्वतौ शङ्करेण।

वीताविद्यो विमायो जगति स भगवान् वीतरागो मुनीन्द्रः

कः सेव्यो बुद्धिमद्भिर्वदत वदत मे भ्रातरस्तेषु मुक्त्यै॥ ३॥



ब्राह्मं वैष्णवमैश्वरञ्च बहुधा लब्ध्वा पदं हेतुतैः (तः)

संसारे वत संसरन्ति पुनरप्येकान्तदुःखास्पदे।

किन्तैर्देहभृतामपायबहलैराद्यन्तवद्भिः पदै-

स्तस्मान्नित्यमनादिमध्यनिधनं बौद्धं पदं प्रार्थ्यताम्॥ ४॥



चिदाकारं सूक्ष्मं विभुविशदमाकाररहितं

निरीहं नीरूपं निरवधिकृपाबीजमजरम्।

समस्तज्ञं सर्वोपधिरहितमैश्यादमृतदं

जितानङ्गैः सेव्यं भवतु मम तद्वस्तु शरणम्॥ ५॥



अणीयोऽणोः क्लेशाप्रतिहतमनन्तं च महतो

महीयो माहात्म्यप्रविजितजगद्भूरिकरुणम्।

द्विबाहुं निर्बाहुं द्विपदमपदं सत्रिवदानम्

द्विनेत्रं निर्नेत्रं सगुणमगुणं तत्तु शरणम्॥ ६॥



सदानन्दं तथ्यं सरसहृदयं सूक्तिसदनं

सतां सेव्यं सम्यक्समधिगततत्त्वं सममनः।

स्वतः सिद्धं साध्यं सकलफलदं सौम्यवदनं

सदीयं सर्वीयं भवतु मम तद् वस्तु शरणम्॥ ७॥



स्वयम्भूताभिज्ञं भवभयहरं भीतिरहितं

स्फुरद्भाग्यो भोगोज्झितमहतवीर्यं मदनजित्।

चतुर्मार्गं शुद्धप्रकृति च तथाकर्तृकमिदं

मुदं लोकोत्कृष्टामतनु तनुतां वस्तु जगताम्॥ ८॥



क्वचिन्नीलं पीतं क्वचिदपि च रक्तं क्वचिदपि

क्वचिच्चन्द्रच्छायं क्वचिदपि च माञ्जिष्ठरुचिरम्।

क्वचित् प्राभास्वर्य्यं यदयति च वर्णव्यतिकरा-

च्छिखाषट्कं तैस्तैर्दधदुपरि तद्वस्तु शरणम्॥ ९॥



पराभेद्यं जाम्बूनदरूचिरवर्णं त्रिशरणं

त्रियानं त्रिप्रज्ञं त्रिभुवनशरण्यं त्रिवचनम्।

कृपापात्रं मन्दस्मितमरुणसच्चीवरधरं

कृतध्यानं सिद्धासनघटितपाद् वस्तु शरणम्॥ १०॥



प्रसन्नं फुल्लेन्दीवरनयनयुग्मं त्रिपिटकं

मुहुर्व्याकुर्वाणं सुरनरगणेभ्यः करुणया।

परं शान्तं स्वर्णोपलरजतलोष्ट्रेषु च समं

दृशां नव्यातिथ्यं भवतु मम तद् वस्तु शरणम्॥ ११॥



शरणमिति सदग्रं साधु गच्छामि बुद्धं

शरणमिति विरागाग्रीयमन्वेमि धर्मम्।

शरणमिति गणानामग्रियं यामि संघं

शरणमिति पुनस्त्रिं द्वित्रिवारं व्रजामि॥ १२॥



पुनरपि शरणं व्रजामि बुद्धं

पुनरपि लोकगुरुं गुरुं करोमि।

पुनरपि कथयामि नौमि वन्दे,

त्वयि मम गौतम नैव तृप्तिरास्ते॥ १३॥



त्रिभुवनमसकृन्निरूप्य युष्मत्-

पदसरसीरुहरेणुमाश्रितोऽहम्।

शरणमयमयञ्च दैवतम्मे

गतिरपरा मम नास्ति नास्ति नास्ति॥ १४॥



अनित्यमखिलं दुःखमनात्मेति प्रवादिने।

नमो बुद्धाय धर्माय सङ्घाय च नमो नमः॥ १५॥



भो वीतराग भगवंस्तव पादमेव

वन्दे मुनीन्द्र मुहुरेवमिमं प्रवन्दे।

भूयः पुनः पुनरिमं परतः परस्तात्

पार्श्वद्वयोरुपरि दिक्षु विदिक्षु वन्दे॥ १६॥



गतमिह भवता पथा च येन

स्थितमपि यत्र च यत्र वा निषण्णम्।

शयितमपि मुनीन्द्र यत्र योगात्

तदपि शतं प्रणमामि पुण्यतीर्थम्॥ १७॥



समजनि भगवान् स्वयं स्म यस्मिन्

सकलमबोधि च यत्र धर्मचक्रम्।

विशदतरमदीपि यत्र यस्मि-

न्नमृतमपूरि तदप्यहं नमामि॥ १८॥



सर्वज्ञचक्रसरसीरुहराजहंस

कुन्देन्दुसुन्दररुचिं सुरवृन्दवन्द्यम्।

सद्धर्मचक्रसहजं जनपारिजातं

श्रीदन्तधातुममलं प्रणमामि भक्त्या॥ १९॥



नागालयोपरि धरालयचक्रवाल-

मूर्ध्नि त्रिकूटगतकाञ्चनशैलशृङ्गे।

बोधिद्रुमूलनिहिताक्षयधातुबिम्बं

विभ्रन्नमामि शिरसा जिनचैत्यमग्रम्॥ २०॥



हैमालवालवलयान्तरत्नवेधी

वज्रासनोल्लसितमूलमगेन्द्रबोधम्।

यं प्राप्य मारविजयानुपदं प्रपेदे

सर्वज्ञतां स भगवान् तमहं नमामि॥ २१॥



मूर्द्धन् बुद्धं नम त्वं श्रवण शृणु सदा धर्ममद्वैधवादि

प्रोक्तं सर्वत्र रूपं नयन निरुपमं पश्य जिघ्राङघ्रिपद्मम्।

घ्राण त्वं चार्कबन्धोः स्तुहि सखि रसने श्रीघनं पूजयेथाः

सिद्धं पाणे व्रजाङ्घ्रे जिनसदनमदस्मद्गुणं चित्त चिन्त्य॥ २२॥



बुद्धो धर्मश्च संघस्त्रितयमिति महानर्घरत्नं मुमुक्षो-

रद्यारभ्याहमस्मै त्रिभवभयभिदे सन्ददाम्यात्मभाजम्।

एषोऽहं तत्परः स्याम्परमयनमितो नास्ति मे सत्यमेतत्

स्यामस्याहन्तु शिष्यस्त्रिदशनुतमिदं कोटिकृत्वो नमामि॥ २३॥



नाहं लाभार्चनार्थी न च भयचकितो नापि सत्कीर्तिकामो

न त्वं धर्मांशुवंशप्रभव इति मुने नापि विद्याशया ते।

पारम्पर्यान्नच त्वां शरणमुपगतः किन्तु ते सार्वजन्यं

सम्यग्ज्ञानं समीक्ष्य त्वयि भवजलधिं सन्तरीतुं प्रवृत्तः॥ २४॥



त्वद्वैराग्यसमस्तभूतकरुणा प्रज्ञादिनानागुण-

स्फूर्ज्जच्चन्दनपङ्कसिन्धुपतितो गन्तुं क्षमो नान्यतः।

भूपा वा यदि दण्डयन्ति विबुधा निन्दन्ति वा बान्धवा

मुञ्चन्ति क्षणमप्यहं जिन पितर्जीवामि न त्वां विना॥ २५॥



स्वर्गे वा वसतिर्ममास्तु निरये तिर्यक्षु किं वाऽऽसुरे

प्रेतानां नगरेऽथवा नरपुरे क्वाप्यन्यतः कर्मणा।

भो सर्वज्ञ ततस्ततस्तव गुणान् कर्णामृतस्यन्दिनो

निष्पापानवलम्बतां मम मनो नान्या सुखप्रार्थना॥ २६॥



तवैवाहं दासो गुणपणगृहीतोऽस्मि भवता

तवैवाहं शिष्यः स्ववचनविनीतोऽस्मि भवता।

तवैवाहं पुत्रः स्मृतिकृतसुखस्तद्गतिगतो

गुरो बुद्धस्वामिन् मम जनक मां पाहि भवतः॥ २७॥



पिता माता भ्राता त्वमसि भगिनी त्वं च विपदि

स्थिरं मित्रं बन्धुः प्रभुरमृतदीक्षागुरुतमः।

त्वमैश्वर्य्यं भोगो त्वमसि धनधान्यं च महिमा

यशो विद्या प्राणस्त्वमसि मम सर्वज्ञ सकलम्॥ २८॥



वीतराज मुनीन्द्र दयाम्बुधे

सुगत भग्नबृहद्भवपञ्जर।

अधिगतामृत बुद्ध मनोऽम्बुजं

मम तवानघ गन्धकुटीयताम्॥ २९॥



अनात्मन्यनित्येऽशुभे दुःखदुःखे

दुरन्तेऽत्र संसारचक्रे भ्रमन्तम्।

त्वमेकोसि मां त्रातुमीशो दयाब्धे

प्रभोऽतः प्रसीद प्रसीद प्रसीद॥ ३०॥



प्रसीदेश देवेश लोकेश जिष्णो

जगद्वन्द्य मद्वन्द्य सद्वन्द्य बुद्ध।

अघोरे भवारे स्मरारे तमोरे

तवैवास्मि भक्तो वपुर्वाङ्मनोभिः॥ ३१॥



स तव कुलसुतः स एव भक्तः

स भवति शासनधूर्वहः स शिष्यः।

स च शरणगतः स एव दासः

कथमपि यो न विलङ्घयेत् तवाज्ञाम्॥ ३२॥



जगदुपकृतिरेव बुद्ध ! पूजा

तदपकृतिस्तव लोकनाथ ! पीडा।

जिन जगदपकृत् कथं न लज्जे

गदितुमहं तव पादपद्मभक्तः॥ ३३॥



धनजनविभवासुदेहराज्यं

यदुपकृते शतधा त्वया प्रदत्तम्।

तमहितमपकर्त्तुरस्य लोकं

क्व मम कृपा मुदिता क्व वा च मैत्री॥ ३४॥



उपपतिमसतीव चित्तवृत्ति-

र्व्रजति भवन्तमपास्य पञ्चकामम्।

अपि च विषयिणो न मोक्षसिद्धिः

किमु करवाणि मुनीन्द्र देहि दास्यम्॥ ३५॥



प्रियतम पुरुषोत्तमाग्रबुद्ध

श्रमहर सिद्ध जगत्प्रसिद्धकीर्ते।

भव शरणमनुत्तरप्रसादिन्

प्रतिपदमस्मि तवैव दासदासः॥ ३६॥



दशबल कलिकालदुर्बलोऽहं

चिरदुरितार्णवतुङ्गभङ्गमग्नः।

तव कथमनुयामि धर्मनावं

जिन मम देहि कृपाकरावलम्बम्॥ ३७॥



प्रणतिरियमनेकशस्तवाहं

बहु भवदुःखमवेक्ष्य भीतिभीतः।

धर गुरुतरतृष्णया पतन्तं

जिन मम देहि कृपाकरावलम्बम्॥ ३८॥



जगति तव कृपा हि निर्विशेषा

प्रपवतया जिन मां च दोषदुष्टम्।

अलमहमिह नो सुखी भवेन्दु-

र्न समकरश्चरतीव साध्वसाध्वे (ध्वोः)॥ ३९॥



उपचितबहुमोहजातमन्धं

विगतदयं विगतात्मबन्धुगन्धम्।

अपगतगुणविद्यमुद्गताघं

जनमविवेकमवाशु दीनबन्धो॥ ४०॥



अकरवमुरुदुष्कृतं पुरा यद्

मम वपुषा मनसा च चेतसा च।

अनुकलमखिलं प्रलीयतां तत्

तव चरणस्मरणेन सर्ववेदिन्॥ ४१॥



सुगत तव पुरः पुरः पृथिव्यां

मधुरमते पतितोऽस्मि दण्डनत्या।

अकुशलमखिलं तवानुभावात्

प्रपततु नोत्पततात् पुनः सहैव॥ ४२॥



तव चरणसरोजमेव वन्दे

तव पदपङ्कजमेव पूजयामि।

तव पदयुगमेव भावयेऽहं

तव पदमेव सदैव दैवतं मे॥ ४३॥



कमपि न कथयामि नार्चयामि

कमपि न नौमि न चिन्तयामि नेहे।

कमपि न शरणं व्रजामि हित्वा

तव चरणं पितरस्मि किङ्करस्ते॥ ४४॥



सदसि सदसि वाचि सिद्धं

पथि पथि सद्मनि सद्मनीह बुद्धम्।

भुवि भुवि मम वारि वारि चेतः

कलयतु नित्यमिमं हि लोकनाथम्॥ ४५॥



अविरतमवलोकयामि बुद्धं

गतरजसा मनसापि चक्षुषेव।

स्वपिमि निशि निधाय यद्धृदि त्वां

न मम समं विरहस्त्वया त एव॥ ४६॥



मम तदिह दिनं हि दुर्दिनं स्याद्

अशितघनस्थगितं न दुर्दिनं मे।

यदमृतसमबुद्धरत्ननाम

स्मृतिरहितं दिनमस्य मा तदस्तु॥ ४७॥



अमृतद षडभिज्ञ धर्मराज

त्रिभुवनवन्द्य मुनीन्द्र गोतमेति।

अहरहरनुकीर्त्त्यते नृभिर्यै-

रहमहितानपि तान्नमामि धन्यान्॥ ४८॥



दशबल जिन सिद्ध वज्रबुद्धे

सुगत तथागत बुद्ध शाक्यसिंह।

इति निगदति यः क्वचित् कदाचित्

तमभिनमाम्यपि दासवंशजातम्॥ ४९॥



मदनजित पराजितेभ्य शास्त-

र्विभव विनायक विश्वविद्वरेण्य।

कविवर वदतांवरेश शुद्धो-

दनसुत शाक्यमुने मुने प्रसीद॥ ५०॥



अमृतमपि निपीय निर्जरेन्द्र

पुनरपि तेऽपि शुनीस्तनं धयन्ति।

सकृदपि तव वाक्सुधारसज्ञो

न विशति जातु स मातुरेव गर्भम्॥ ५१॥



अहमिह भगवन्नलं न सोढुं

जननजरामरणा(म)यादिबाधाम्।

कुरु मम करुणं दिशो न जाने

गुरु तदवेक्ष्य च तिर्यगादिदुःखम्॥ ५२॥



तदुपरि परिचिन्त्य वृद्धकाले

करचरणादिदृगादिपारवश्यम्।

अगतिकमतिवेपते मनो मे

जिन किमहं करवै प्रभो प्रसीद॥ ५३॥



श्रवणपथगतेऽप्यदृष्टपूर्वे

सुखकृति वस्तुनि यत्तनोमि तृष्णाम्।

अविरतमत एव शान्तिबीजे

त्वयि वलते रमते ममात्र चेतः॥ ५४॥



सविपदि रमते न मे मनोऽतः

सुरनरशर्मणि पूर्वपूर्वभुक्ते।

अनुदिनमनुभूय शर्कराया-

मपि विरतिं कुरुते हि दृष्टदोषः॥ ५५॥



करतलगतमप्यमूल्यचिन्तामणि-

मवधीरयतीङ्गितेन मूर्खः।

कथमहमपहाय बुद्धरत्नं

जगति धनी गुणवांश्च पण्डितश्च॥ ५६॥



स भवति मतिमान् स नाकुलीनः

स च गुणवान् स च कीर्तिमान् स शूरः।

स जगति महितः सुखी स एव

त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः॥ ५७॥



अपि सकलमधीतमत्र तेन

श्रुतमपि सर्वमनुष्ठितं च तेन।

अपि जितमजितेन तेन विश्वं

त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः॥ ५८॥



त्यजति निजपरम्परादरेणे-

तरसमयस्य जनो न दृष्ट दृष्टिम्।

असुहरमपि गौरवेण मातु-

र्न खलु शिशुर्विषमोदकं तु मुञ्चेत्॥ ५९॥



कविवरमहमस्मि पण्डितस्ते

जिन न जहामि कथन्नु कुर्गृहीतम्।

नुदति हि तमसन्ततिं प्रवृत्तां

मिहिरमरीचिसहायिनी सुदृष्टिः॥ ६०॥



सुगतपदपराङ्मुखस्य पुंसः

किमु तपसा यशसा च किं किमन्यैः।

सुगतपदपराङ्नुखस्य पुंसः

किमु तपसा यशसा च किं किमन्यैः॥ ६१॥



सुगतपदि न भक्तिरस्ति येषा-

मजननिरेव महीतलेऽस्तु तेषाम्।

कथितमिह कृतागसां नराणां

निरयगतिर्नियतं न चान्यतो यत्॥ ६२॥



विदितसकलशास्त्रमुन्नतानां

कुलभवमुत्तमरुपयौवनाद्यम्।

जिन भवदनुपासकं नृपासं

त्यजतु मनो मल नीचवत्तु जात्या॥ ६३॥



परिहृतमदमानमत्सरादिः

सकरुणशीलसमाधिमान् विवेकी।

तव पददृढभक्तिरन्त्यजोऽपि

प्रतिभवमस्तु नरोत्तमः सखा मे॥ ६४॥



विहितजिनपदार्चनस्य भक्तु-

र्दशदिवसानपि जीवितं प्रशस्तम्।

न तु नियुतसहस्रकल्पकोटी-

रकृतमुनीन्द्रपदाब्जपूजनस्य॥ ६५॥



स भवति सुरसुन्दरीसखोऽन्यैः

कृतमभिनन्दति वार्चनं च भक्त्या।

त्रिदशनरगुरो त्वदीयपूजा-

मगतितया यदि कर्तुमक्षमः स्यात्॥ ६६॥



सुरुचिरमतिचित्रचित्ररूपं

नयनपथं नयतीह यस्तवार्चाम्।

रहयति पुरुषं तमप्युदारं

चिरतरसञ्चितदुष्कृतं कवीन्द्र॥ ६७॥



मणिकनकशिलादिनिर्मितां यः

प्रणमति ते प्रतिमां तयोश्च तुल्यम्।

फलमिह मनसश्च सम्प्रसादा-

दनुपरतं जिन योऽग्रतो नमेत् त्वाम्॥ ६८॥



सकृदपि तव पादपद्मपूजा

वनकुसुमैरपि यः करोति धीमान्।

अवनतसुरसंघमौलिमालो-

ज्ज्वलममलं श्रयते तमाधिपत्यम्॥ ६९॥



यदि भवति सरूपमेकचित्त-

क्षणशरणोद्भवपुण्यवृन्दमुच्चैः।

गणशरण समन्तभद्रसाधोऽखिल-

नभसोऽप्यतिरिच्यते तदा तत्॥ ७०॥



तव गुणकथने तु यः प्रसन्न-

स्तमनुविशन्ति मुने गुणास्त्वदीयाः।

उदयति शशिनि प्रसन्नमिन्दू-

पलमिव तत्किरणावलीतुषारः॥ ७१॥



सकृदपि समदायि देव किञ्चिद्

भवरतिमुत्सृजता जनेन तुभ्यम्।

सुगत तदखिलान् लुनाति धारा-

वदसिरिव द्रुममाश्रवादिदोषान्॥ ७२॥



कृतमिह सुकृतं मृषादृशा यज्ज-

नयति तत् किल तस्य दुर्विपाकम्।

क्षितिसलिलरसं स्वतिक्तभावं

नयति यथा पिचुमर्दबीजमुप्तम्॥ ७३॥



तव पदनलिने निपत्य भूयो

निपतति नैव चतुर्ष्वपायकेषु।

नहि कुशलकरो नरः कदापि

क्वचिदपि दुर्गतिमेति नाथ कश्चित्॥ ७४॥



इति भवदुपदेशतो विदित्वा

तव पदपङ्कजपूजने रतोऽस्मि।

दृढयतु भगवान् युगे युगे मे

कुमतिमुदस्य भवे भवेऽर्यभक्तिम्॥ ७५॥



स्थिरमपि भगवन् क्षणं तवोक्तौ

करचरणानि दृगादि वैरिवर्गः।

व्यथयति हृदयं बलाद्विचाल्य

त्वमिदमनाथमनीश पाहि पाहि॥ ७६॥



यदि नयनमयं वशे विधातुं

यतति तदा द्रवति श्रवो यदा तत्।

तदनु रसन-नासिकाशरीरा-

ण्यहह परस्परदुर्ग्रहाणि चैवम्॥ ७७॥



गतिरतिचपलस्य चेतसः स्या-

दिह नभसीव नभस्वतोऽसुरोधा।

कभमपि भजते क्रमेण धैर्यं

चिरमिदमभ्यसनेन संविरक्त्या॥ ७८॥



विशदमपि मनः स्वभावतो मे

चिरकृतकिल्विषकालिमाहृतं स्यात्।

कुशलजललवैः कथन्नु धौतं

भवति मयेदृशचेतसार्जितैस्तैः॥ ७९॥



शुचितरवचनामृतप्रवाहैः

रघमलिनीकृतचित्तसन्ततिं माम्।

अनधिवर नितान्तमाधितप्तं

सपदि विशोधय दण्डवन्नमामि॥ ८०॥



सति सकलगुरो मुने प्रसन्ने

किमिह दुरापममुत्र किं दुरापम्।

यदमलमनसस्त्वदीयदासाः

सुरपतितां मनसापि नाद्रियन्ते॥ ८१॥



विदधति भयमिन्द्रियाणि भूम्ना

विषयविषग्रहणेषु दोषदृष्ट्या।

नहि सुविदितभाविदाहदोषः

शिशुरपि दीपशिखाग्रसङ्गृही स्यात्॥ ८२॥



न भवति जिन यावदेष जीर्णो

विषयपिशाचनिषेवणेन तावत्।

झटिति सुकृतकर्मणि प्रयोज्य

स्वव शरणागतवत्सलागतं माम्॥ ८३॥



इदमपि यदि वेद्मि पुत्रदार-

स्वतनुगृहादि मरीचिकाम्बुतुल्यम्।

स्थगयति ममता च मामहन्ता

तदपि हि मोहविजृम्भितं गरीयः॥ ८४॥



अजनि च निजकारणेन सर्वं

निरसति जीर्यति नश्यति स्वहेतोः।

अहमपि हि तथैव धातुपुञ्जः

कथमहमस्य कथं मुने ममेदम्॥ ८५॥



आत्मबुद्धिरिह यस्य जायते

सा च तस्य जनयेदहङ्कृतिम्।

सा तनोति सुतरां भवस्पृहां

सैव मोहजननी मुहुर्मुहुः॥ ८६॥



तेन कर्म कुरुते शुभाशुभं

तद्धि दुःखजनकं भवत्रये।

दुःखमूलमत एव सात्मधीः

तां लुनीहि जिन मे वचोऽसिना॥ ८७॥



अथ सकलविदं दयासमुद्रं

त्रिभुवनकारणकारणं कुलीनम्।

निखिलगतमनन्तमस्तिशान्तिं

मुनिजनमानसहंसमीशमीडे॥ ८८॥



स्नाने कर्मणि भोजने वितरणे घ्राणे तथाऽऽकर्णने

ध्यानस्पर्शनदर्शनादिषु तथा सम्भाषणादावपि।

प्रातः सायमथो दिवा च निशि च त्वत्पादपद्मे विभो

चित्तं मे रमतां मुनीन्द्र सततं यूनां युवत्यामिव॥ ८९॥



मत्स्वामिन् मदभीष्टकल्पविटपिन् मद्देवते मद्गुरो

मन्मातर्मदुपास्य मत्प्रियसखे मत्सद्गते मत्पितः।

मद्विद्ये मदशेषदुःखशमकृद् मद्भावने मन्निधे

मन्मुक्ते मदुदारभाग्य मदसो मद्बुद्ध मां पालय॥ ९०॥



ब्रह्मा जिह्माननोऽभूद् गुरुरगुरुरहर्णायकोऽनायकोऽसौ

विष्णुस्तृष्णां प्रपेदे कविरकविरभूदीश्वरोऽनीश्वरोऽपि।

शेषः शेषानुभावस्तव सुगत नुतौ खण्डिताखण्डलोक्तिः

कोऽहं मूढो वराकस्त्रिदशनरपते कीर्त्तने ते गुणानाम्॥ ९१॥



दशद्वयधिकविंशतिस्फुरदशीत्यनुव्यञ्जनैः

महापुरुषलक्षणं वपुषि यस्य देदीप्यते।

कलामपि न षोडशीं भजति तस्य पुण्यात्मन-

श्चतुर्मुखमुखो गणो दिविषदां नृणां का कथा॥ ९२॥



महेन्द्रनवचापवत् कनकपर्वते सर्वतः

सदा तव मनोहरं स्फुरति सुप्रभामण्डलम्।

दृशो भवति गोचरं तदिह यस्य तस्य त्वरान्

तमस्ततिमनुत्तमां हरति दूरमन्तर्बहिः॥ ९३॥



रूपं लोचनलोभनं श्रवणयोरानन्दसन्दोहदा

वाणी विश्वविमोहकृत् तव कृपावेशोऽतिशान्तस्तव।

पाण्डित्यं प्रथितं जगत्सु भगवन् सर्वज्ञनाम्नैव ते

साम्राज्यस्य च यौवने निरसनं वैराग्यसीमा स्फुटम्॥ ९४॥



शौर्यं त्वद्विषमेषु दर्पदलनादङ्गीकृतं दैवतैः

यद्वाणैः स सुरासुरः प्रविजितो लोकोऽयमोशत्करम्।

वीर्यं ते प्रकटीचकार नितरां निर्वाणसाक्षात्कृतिः

किं ब्रूमो बलवैभवं भगवतस्तत्ते जगद्दुर्वहम्॥ ९५॥



यत्र च्छागतुरङ्गमारणविधिर्वेदेऽपि तं निन्दसि

प्रेम्णा प्राणभृतामतः सकरुणस्त्वत्तो महान्नापरः।

एवं ते गुणसम्पदो न विषया बुद्धेरसूयात्मनां

ते मूढाः प्रलपन्ति हन्त सुगतो मद्वेदनिन्दीत्ययम्॥ ९६॥



निर्मज्जत्सुरसुन्दरीकुचचलन्निर्मन्दमन्दाकिनी-

फेणक्षीरसमुद्रकैरवसखी सत्कीर्तिलक्ष्मीस्तव।

यन्नालिङ्गति मन्दभाग्यमधुना भूयान्न तेनापि मे

सङ्गः सङ्गगदादिवैद्य भगवन्नेषापि मे प्रार्थना॥ ९७॥



ये त्वां गच्छन्ति बुद्धं शरणमिति न ते दुर्गतिं यान्ति सन्त-

स्त्यक्त्वा कायान्मनुष्यान्निरतिशयसुखान् ते लभन्तेऽथ दिव्यान्।

दुःस्वप्नो दुर्निमित्तं दुरहिदुरहिता दुर्ग्रहा दुष्टसत्त्वा

दुःखं दुर्व्याधयोऽपि क्वचिदिह कुशलान् नोपसर्पन्ति चैवम्॥ ९८॥



छत्रं ब्रह्मा व्यधात्ते मणिमयममलं चामरं चक्रपाणि-

स्तोतारो गद्यपद्यैर्हरगुरु-फणिनः शाङ्खिकोऽभून्महेन्द्रः।

अन्ये दीपोदकुम्भध्वजकुसुमलसत्पाणयो भक्तिनम्रा-

स्तस्थुर्व्याख्याय धर्मं भुवमवरुहतः स्वर्गतस्ते मुनीन्द्र॥ ९९॥



मातेवासीत् परस्त्री भवति परधने न स्पृहा यस्य पुंसो

मिथ्यावादी न यः स्यान्न पिबति मदिरां प्राणिनो यो न हन्यात्।

मर्यादाभङ्गभीरुः सकरुणहृदयस्त्यक्तसर्वाभिमानो

धर्मात्मा ते स एव प्रभवति भगवन् पादपूजां विधातुम्॥ १००॥



सर्वप्राणातिपातात् परधनहरणात् सङ्गमादङ्गनाया

मिथ्यावादाच्च मद्याद्भवति जगति योऽकालभुत्क्तेर्निवृत्तः।

सङ्गीतस्रक्सुगन्धाभरणविलसितादुच्चशय्यासनाद-

प्यासीद्धीमान् स एव त्रिदशनरगुरो त्वत्सुतो नात्र शङ्का॥ १०१॥



श्रोतापत्त्यादिमार्गाः सदवयवयुता घ्नन्ति रागादिदोषान्

दोषास्ते छिन्नमूला हतभवगतयस्तत्फलैर्यान्ति शान्तिम्।

मार्गाणां क्लेशहानिः सदमृतमजरं कारणं स्यान्नवानां

धर्माणां हेतुरेषां तव जिन वचनं तस्य हेतुस्त्वमेव॥ १०२॥



विंशत्सत्कायदृष्टिक्षितिधरममलज्ञानवज्रेण भित्त्वा

रागद्वेषादिपापान्तदुदितमखिलं कर्म चोन्मूलयन्तः।

चत्वारो लब्धमार्गास्तदनुगुणफलास्तेऽपि चत्वार एवं

त्वतश्चाष्टार्यसङ्घः पृथगिति न पुनश्चिन्तयामो मुनीन्द्र॥ १०३॥



अपि गगणमनन्तं सर्वसत्त्वोऽप्यनन्तः

सकलमिदमनन्तं चक्रवालं विशालम्।

वदसि जिन विदित्वानन्तया ज्ञानगत्या

तव च गुणमनन्तं वेदसी बुद्ध चैवम्॥ १०४॥



भगवति भवतीति ध्वंसकारिण्यमोघे

भवतु भवतु भक्तिर्जन्मजन्मान्तरेऽपि।

भवतु भवतु धर्मः सर्वथा मेऽनुशास्ता

भवतु भवतु संघोऽनुत्तरा पुण्यभूमिः॥ १०५॥



त्रिभुवनमहनीयं त्वामभिष्टुत्य बुद्धं

विशदतरमदभ्रं पुण्यमत्रार्जितं यत्।

जगति सकलसत्त्वास्तेन सम्बुद्धबोधिं

विधुतविविधपापा भावनाभिर्व्रजन्तु॥ १०६॥



भास्वद्भानुकुलाम्बुजन्ममिहिरे राजाधिराजेश्वरे

श्रीलङ्काधिपतौ पराक्रमभुजे नीत्या महीं शासति।

सद्गौडः कविभारतिक्षितिसुरः श्रीरामचन्द्रः सुधीः

श्रीतृणामकरोत् स भक्तिशतकं धर्मार्थमोक्षप्रदम्॥ १०७॥



श्रीशाक्यमुनेर्भगवतः सर्वज्ञस्य परमोपासकेन गौडदेशीय-

श्रीबौद्धागमचक्रवर्त्तिना भूसुरेणाचार्येण महापण्डितेन

विरचितं भक्तिशतकं समाप्तम्।



नृपः पराक्रान्तिभुजो महीभुजो शिरोमणिः पण्डितमण्डलीसखः।

स रामचन्द्रं कविभारतिद्विजं चकार बौद्धागमचक्रवर्तिनम्॥ १॥



बुद्धो मे जयतां जिनः स भगवान् तद्देशना निर्मला

स्थेयात् सत्त्वहिताय भातु भणिता सङ्घस्तदाधारकः।

लङ्केशप्रमुखाश्चिरं वसुमतीं रक्षन्तु नित्यं नृपा

वर्षन्तु स्तनयित्नवश्च समये मैत्रीं लभन्तां प्रजाः॥ २॥



तीर्थग्रामपतेर्यतेस्त्रिपिटकाचार्यस्य भूपान्वया-

चार्यश्रेष्ठमुनीश्वरस्य सुगिरः श्रीराहुलस्वामिनः।

शिष्यो योऽवरजः सुमङ्गलमुनिर्धीमान् स्वया भाषया

कारुण्येन मुनीन्द्रभक्तिशतकव्याख्यानमाख्यातवान्॥ ३॥



नमो बुद्धाय गुरवे नमो धर्माय शासिने।

नमः सङ्घाय महते त्रिभ्योऽपि सततं नमः॥ ४॥



सिद्धिः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project