Digital Sanskrit Buddhist Canon

नामाष्टशतकय

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 14, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
नामाष्टशतकय

नमः शाक्यसिंहाय

१. सम्बुद्धं पुण्डरीकाक्षं सर्वज्ञं करुणास्पदम्
समन्तभद्रं शास्तारं शाक्यसिंहम् नमाम्य् अहम्।

२. श्रीघनं श्रीमतिं श्रेष्ठं शीलराशिं शिवङ्करम्
श्रीमन्तं श्रीकरं शान्तं शान्तवेशं नमाम्य् अहम्।

३. नैरात्म्यवादिनं सिद्धं निरवद्यं निराश्रवम्
नीतिज्ञं निर्मलात्मानं निष्कलङ्कम् नमाय् अहम्।

४. निर्वादं निरहङ्कारं निर्विकल्पं तथागताम्
निर्धूतनिखिलक्लेशं निष्प्रपञ्चं नमाम्य् अहम्।

५. विश्वेश्वरं विमुक्तिज्ञं विश्वरूपं विनायकम्
विश्वलक्षणसम्पूर्णं वीतरागं नमाम्य् अहम्।

६. विद्याचरणसम्पन्नं विश्वेशं विमलप्रभम्
विनीतवेशं विपुलं वीतदोषं नमाम्य् अहम्।

७. दुर्दान्तदमकं सर्व्यं शुद्धं शौद्धोदनिं मुनिम्
सुगतं सुगतिं सौम्यं शुभ्रकीर्त्तिं नमाम्य् अहम्।

८. योगीश्वरं दशबलं लोकज्ञं लोकपूजितम्
लोकाचार्य्यं निराचार्य्यं लोकनाथं नमाम्य् अहम्।

९. कलङ्कमुक्तं कामारिम् अकलङ्कं कलाधरम्
कान्तमूर्त्तिं दयापात्रं कनकाभं नमाम्य् अहम्।

१०. परमार्त्थं परज्योतिं परमं परमेश्वरम्
भवाभवकरं भव्यं भगवन्तं नमाम्य् अहम्।

११. महामतिं महावीर्य्यं महाभिज्ञं महाबलम्
महोद्यमं महाधैर्य्यं महाबाहुं नमाम्य् अहम्।

१२. आद्यं पवित्रं सर्वीयम् अपराजितम् अच्युतम्
मितं परहितं नाथम् अमिताभं नमाम्य् अहम्।

१३। चतुर्-मारारिविजितं तत्वज्ञं शङ्करं शिवम्
सत्वसारं सदाचारं सार्त्थवाहं नमाम्य् अहम्।

१४. देवदेवं महादेवं देववन्दितम् अव्ययम्
प्रमाणातीतदेवेशं दिव्यरूपं नमाम्य् अहम्।

१५. जितेन्द्रियं जितक्लेशं जिनेन्द्रं पुरुषोत्तमम्
उत्तमं सत्तमं ब्राह्मं पुण्यक्षेत्रं नमाम्य् अहम्।

१६. भक्त्येदं यः पठेन् नित्यं प्रातर् उत्थाय मानवः
नामाष्टशतकं पुण्यं पवित्रं पापनाशनम्,

१७. स लभेतमितान् भोगान् भौमान् स्वर्गोद्भ्वांस् तथा
व्याधयस् तं न बाधन्ते दुःस्वप्नं तस्य नश्यति।

१८. आयुरारोग्यसम्पन्नस् सर्वैश्वर्य्यसमन्वितः
मेधावी कुलजो वाग्मी भवेज् जन्मनि जन्मनि।

नामाष्टशतकय निमि।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project