Digital Sanskrit Buddhist Canon

अध्यर्धशतकं नाम स्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Adhyardhaśatakaṁ nāma stotram

अध्यर्धशतकं नाम स्तोत्रम्

आचार्यमातृचेटविरचितम्



१ उपोद्घातः

नमो बुद्धाय



सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह।

सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः॥ १॥



तमेव शरणं गन्तुं तं स्तोतुं तमुपासितुम्।

तस्यैव शासने स्थातुं न्याय्यं यद्यस्ति चेतना॥ २॥



सवासनाश्च ते दोषा न सन्त्येकस्य तायिनः।

सर्वे सर्वविदः सन्ति गुणास्ते चानपायिनः॥ ३॥



न हि प्रतिनिविष्टोऽपि मनोवाक्कायकर्मसु।

सह धर्मेण लभते कश्चिद्भगवतोऽन्तरम्॥ ४॥



सोऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम्।

महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्॥ ५॥



अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम्।

आत्तसारां करिष्यामि कथं नेमां सरस्वतीम्॥ ६॥



इत्यसंख्येयविषयानवेत्यापि गुणान्मुनेः।

तदेकदेशप्रणयः क्रियते स्वार्थगौरवात्॥ ७॥



स्वयम्भुवे नमस्तेऽस्तु प्रभूताद्भुतकर्मणे।

यस्य संख्याप्रभावाभ्यां न गुणेष्वस्ति निश्चयः॥ ८॥



इयन्त इति नास्त्यन्त ईदृशा इति का कथा।

पुण्या इत्येव तु गुणान्प्रति ते मुखरा वयम्॥ ९॥

उपोद्घातस्तवो नाम प्रथमः परिच्छेदः।



हेतुस्तवः



विषह्यमविषह्यं वेत्यवधूय विचारणाम्।

स्वयमभ्युपपन्नं ते निराक्रन्दमिदं जगत्॥ १०॥



अव्यापारितसाधुस्त्वं त्वमकारणवत्सलः।

असंस्तुतसखाश्च त्वमनवस्कृतबान्धवः॥ ११॥



स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा।

प्राणैरपि त्वया साधो मानितः प्रणयी जनः॥ १२॥



स्वैः शरीरैःशरीराणि प्राणैःप्राणाः शरीरिणाम्।

जिघांसुभिरुपात्तानां क्रीतानि शतशस्त्वया॥ १३॥



न दुर्गतिभ्यां नेष्टा[भ्या] मभिप्रार्थयता गतिम्।

केवलाशयशुद्धयैव शोलं सात्मीकृतं त्वया॥ १४॥



जिह्मानां नित्यविक्षेपादृजूनां नित्यसेवनात्।

कर्मणां परिशुद्धानां त्वमेकायनतां गतः॥ १५॥



पीडयमानेन बहुशस्त्वया कल्याणचेतसा।

क्लेशेषु विवृतं तेजो जनः क्लिष्टोऽनुकम्पितः॥ १६॥



परार्थे त्यजतः प्राणान् या प्रीतिरभवत् तव।

न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत्॥ १७॥



यद्रुजा निरपेक्षस्य च्छिद्यमानस्य तेऽसकृत्।

वधकेष्वपि सत्त्वेषु कारुण्यमभवत् प्रभो॥ १८॥



सम्यक्सम्बोधिबीजस्य चित्तरत्नस्य तस्य ते।

त्वमेव वीर सारज्ञो दूरे तस्येतरो जनः॥ १९॥



नाकृत्वा दुष्करं कर्म दुर्लभं लभ्यते पदम्।

इत्यात्मनिरपेक्षेण वीर्यं संवर्धितं त्वया॥ २०॥



विशेषोत्कर्षनियमो न कदाचिदभूत् तव।

अतस्त्वयि विशेषाणां छिन्नस्तरतमक्रमः॥ २१॥



सुसुखेष्वपि सङ्गोऽभूत् सफलेषु समाधिषु।

न ते नित्यानुबद्धस्य महाकरुणया हृदि॥ २२॥



त्वादृशान् पीडयत्येव नानुगृह्णाति तत् सुखम्।

प्रणीतमपि सद्वृत्त यदसाधारणं परैः॥ २३॥



विमिश्रात् सारमादत्तं सर्वं पीतमकल्मषम्।

त्वया सूक्तं दुरुक्तं तु विषवत् परिवर्जितम्॥ २४॥



क्रीणता रत्नसारज्ञ प्राणैरपि सुभाषितम्।

पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु॥ २५॥



इति त्रिभिरसंख्येयैरेवमुद्यच्छता त्वया।

व्यवसायद्वितीयेन प्राप्तं पदमनुत्तरम्॥ २६॥



हेतुस्तवो नाम द्वितीयः परिच्छेदः।

३ निरुपमस्तवः

अकृत्वेर्ष्यां विशिष्टेषु हीनाननवमत्य च।

अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः॥ २७॥



हेतुष्वभिनिवेशोऽभूद् गुणानां न फलेषु ते।

तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः॥ २८॥



तथात्मा प्रचयं नीतस्त्वया सुचरितैर्यथा।

पुण्यायतनतां प्राप्तान्यपि पादरजांसि ते॥ २९॥



कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः।

गुणास्तेन सुनीतेन परां सिद्धिं त्वमध्यगाः॥ ३०॥



तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया।

यथैषामात्मसन्ताने वासनापि न शेषिता॥ ३१॥



तथा संभृत्य संभृत्य त्वयात्मन्याहिता गुणाः।

प्रतिरुपकमप्येषां यथा नान्यत्र दृश्यते॥ ३२॥



उपघातावरणवन्मितकालं प्रदेशि च।

सुलभातिशयं सर्वमुपमावस्तु लौकिकम्॥ ३३॥



अद्वन्द्विनामगम्यानां ध्रुवाणामनिवर्तिनाम्।

अनुत्तराणां का तर्हि गुणानामुपमाऽस्तु ते॥ ३४॥



गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः।

यदा ते बुद्धिगाम्भीर्यमगाधापारमीक्ष्यते॥ ३५॥



शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम्।

अकम्प्ये सर्वधर्माणां त्वत्स्थैर्येऽभिमुखीकृते॥ ३६॥



अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने।

न रविर्विषये भूमिं खाद्योतिमपि विन्दति॥ ३७॥



मलिनत्वमिवायान्ति शरच्चन्द्राम्बराम्भसाम्।

तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः॥ ३८॥



अनेन सर्वं व्याख्यातं यत् किञ्चित्साधु लौकिकम्।

दूरे हि बुद्धधर्माणां लोकधर्मास्तपस्विनः॥ ३९॥



यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस्त्वमग्रताम्।

तेनैव केवलं साधो साम्यं ते तस्य च त्वया॥ ४०॥



आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किंचन।

यत्रोपक्षिप्य कथ्येत सा वक्तुरतिलोलता॥ ४१॥



निरुपमस्तवो नाम तृतीयः परिच्छेदः।



४ अद्भुतस्तव ः



प्रतन्विव हि पश्यामि धर्मतामनुचिन्तयन्।

सर्वं चावर्जितं मारविजयं प्रति ते जगत्॥ ४२॥



महतोऽपि हि संरम्भात् प्रतिहन्तुं समुद्यताः।

क्षमाया नातिभारोऽस्ति पात्रस्थाया विशेषतः॥ ४३॥



यत्तु मारजयान्वक्षं सुमहत्क्लेशवैशसम्।

तस्यामेव कृतं रात्रौ तदेव परमाद्भुतम्॥ ४४॥



तमोविधमने भानोर्यः सहस्रांशुमालिनः।

वीर विस्मयमागच्छेत् स तीर्थ्यविजये तव॥ ४५॥



सरागो वीतरागेण जितरोषेण रोषणः।

मूढो विगतमोहेन त्रिभिर्नित्यं जितास्त्रयः॥ ४६॥



प्रशंससि च सद्धर्मानसद्धर्मान् विगर्हसि।

अनुरोधविरोधौ च न स्तः सदसतोस्तव॥ ४७॥



नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति।

यस्य ते चेतसोऽन्यत्वं तस्य ते का स्तुतिर्भवेत्॥ ४८॥



गुणेष्वपि न संगोऽभूत् तृष्णा न गुणवत्स्वपि।

अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता॥ ४९॥



इन्द्रियाणां प्रसादेन नित्यकालानपायिना।

मनो नित्यप्रसन्नं ते प्रत्यक्षमिव दृश्यते॥ ५०॥



आबालेभ्यः प्रसिद्धास्ते मतिस्मृतिविशुद्धयः।

गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः॥ ५१॥



अद्भुतस्तवो नाम चतुर्थः परिच्छेदः।



५ रुपस्तवः



उपशान्तं च कान्तं च दीप्तमप्रतिघाति च।

निभृतं चोर्जितं चेदं रुपं कमिव नाक्षिपेत्॥ ५२॥



येनापि शतशो दृष्टं योऽपि तत्पूर्वमीक्षते।

रुपं प्रीणाति ते चक्षुः समं तदुभयोरपि॥ ५३॥



असेचनकभावाद्धि सौम्यभावाच्च ते वपुः।

दर्शने दर्शने प्रीतिं विदधाति नवां नवाम्॥ ५४॥



अधिष्ठानगुणैर्गात्रमधिष्ठातृगुणैर्गुणः।

परया संपदोपेतास्तवान्योन्यानुरुपया॥ ५५॥



क्वान्यत्र सुनिविष्टाः स्युरिमे ताथागता गुणाः।

ऋते रुपात्तवैवास्माल्लक्षणव्यञ्जनोज्ज्वलात्॥ ५६॥



धन्यमस्मीति ते रुपं वदतीवाश्रितान् गुणान्।

सुनिक्षिप्ता वयमिति प्रत्याहुरिव तद्गुणाः॥ ५७॥



रुपस्तवो नाम पञ्चमः परिच्छेदः।



६ करुणास्तवः



सर्वमेवाविशेषेण क्लेशैर्बद्धमिदं जगत्।

त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम्॥ ५८॥



कं नु प्रथमतो वन्दे त्वां महाकरुणामुत।

ययैवमपि दोषज्ञस्त्वं संसारे धृतश्चिरम्॥ ५९॥



विवेकसुखसात्म्यस्य यदाकीर्णस्य ते गताः।

काला लब्धप्रसरया तत् ते करुणया कृतम्॥ ६०॥



शान्तादरण्याद् ग्रामान्तं त्वं हि नाग इव ह्रदात्।

विनेयार्थं करुणया विधयेवावकृष्यसे॥ ६१॥



परमोपशमस्थोऽपि करुणापरवत्तया।

कारितस्त्वं पदन्यासं कुशीलवकलास्वपि॥ ६२॥



ऋद्धिर्या सिंहनादा ये स्वगुणोद्भावनाश्च याः।

वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते॥ ६३॥



परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा।

त्वय्येव केवलं नाथ करुणा करुणाभवत्॥ ६४॥



तथा हि कृत्वा शतधा धीरा बलिमिव क्वचित्।

परेषामर्थसिद्धयर्थं त्वां विक्षिप्तवती दिशः॥ ६५॥



त्वदिच्छयैव तु व्यक्तमनुकूला प्रवर्तते।

तथा हि बाधमानापि त्वां सती नापराध्यते॥ ६६॥



करुणास्तवो नाम षष्ठःपरिच्छेदः।



७ वचनस्तवः



सुपदानि महार्थानि तथ्यानि मधुराणि च।

गूढोत्तानोभयार्थानि समासव्यासवन्ति च॥ ६७॥



कस्य न स्यादुपश्रुत्य वाक्यान्येवंविधानि ते।

त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः॥ ६८॥



प्रायेण मधुरं सर्वमगत्या किञ्चिदन्यथा।

वाक्यं तवार्थसिद्धया तु सर्वमेव सुभाषितम्॥ ६९॥



यच्छ्लक्षणं यच्च परुषं यद्वा तदुभयान्वितम्।

सर्वमैवैकरसतां विमर्दे याति ते वचः॥ ७०॥



अहो सुपरिशुद्धानां कर्मणां नैपुणं परम्।

यैरिदं वाक्यरत्नानामीदृशं भाजनं कृतम्॥ ७१॥



अस्मद्धि नेत्रसुभगादिदं श्रुतिमनोहरम्।

मुखात् क्षरति ते वाक्यं चन्द्राद्द्रवमिवामृतम्॥ ७२॥



रागरेणुं प्रशमयद्वाक्यं ते जलदातये।

वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति॥ ७३॥



दिवाकरायते भूयोऽप्यज्ञानतिमिरं नुदत्।

शक्रायुधायते मानगिरीनभिविदारयत्॥ ७४॥



दृष्टार्थत्वादवितथं निष्क्लेशत्वादनाकुलम्।

गमकं सुप्रयुक्तत्वात् त्रिकल्याणं हि ते वचः॥ ७५॥



मनांसि तावच्छ्रोतॄणां हरन्त्यादौ वचांसि ते।

ततो विमृश्यमानानि रजांसि च तमांसि च॥ ७६॥



आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम्।

संवेजनं च सुखिनां योगवाहि वचस्तव॥ ७७॥



विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम्।

तिमिरघ्नं च मन्दानां सार्वजन्यमिदं वचः॥ ७८॥



अपकर्षति दृष्टिभ्यो निर्वाणमुपकर्षति।

दोषान् निष्कर्षति गुणान् वाक्यं तेऽभिप्रवर्षति॥ ७९॥



सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः।

अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव॥ ८०॥



यन्नादेशे न चाकाले नैवापात्रे प्रवर्तसे।

वीर्यं सम्यगिवारब्धं तेनामोघं वचस्तव॥ ८१॥



वचनस्तवो नाम सप्तमः परिच्छेदः।



८ शासनस्तवः

एकायनं सुखोपायं स्वनुवन्धि निरत्ययम्।

आदिमध्यान्तकल्याणं तव नान्यस्य शासनम्॥ ८२॥



एवमेकान्तकान्तं ते दृष्टिरागेण बालिशाः।

मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः॥ ८३॥



अनवभुङ्क्था यदस्यार्थे जगतो व्यसनं बहु।

तत् संस्मृत्य विरुपेऽपि स्थेयं ते शासने भवेत्॥ ८४॥



प्रागेव हितकर्तुश्च हितवक्तुश्च शासनम्।

कथं न नाम कार्यं स्यादादीप्तशिरसापि ते॥ ८५॥



भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः।

प्राप्यते त्वन्मतात् सर्वमिदं भद्रचतुष्टयम्॥ ८६॥



त्रासनं सर्वतीर्थ्यानां नमुचेरुपतापनम्।

आश्वासनं नृदेवानां तवेदं वीर शासनम्॥ ८७॥



त्रैधातुकमहाभौममसङ्गमनवग्रहम्।

शासनेन तवाक्रान्तमन्तकस्यापि शासनम्॥ ८८॥



त्वच्छासननयज्ञो हि तिष्ठेत् कल्पमपीच्छया।

प्रयाति तत्र तु स्वैरी यत्र मृत्योरगोचरः॥ ८९॥



आगमस्यार्थचिन्ताया भावनोपासनस्य च।

कालत्रयविभागोऽस्ति नान्यत्र तव शासनात्॥ ९०॥



एवं कल्याणकलितं तदेवमृषिपुङ्गव।

शासनं नाद्रियन्ते यत् किं वैशसतरं ततः॥ ९१॥



शासनस्तवो नामाष्टमः परिच्छेदः।



९ प्रणिधिस्तवः

श्रवणं तर्पयति ते प्रसादयति दर्शनम्।

वचनं ह्लादयति ते विमोचयति शासनम्॥ ९२॥



प्रसूतिर्हर्षयति ते वृद्धिर्नन्दयति प्रज्ञाः।

प्रवृत्तिरनुगृह्णाति निवृत्तिरुपहन्ति च॥ ९३॥



कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम्।

अन्वेषणं मतिकरं परिज्ञानं विशोधनम्॥ ९४॥



श्रीकरं तेऽभिगमनं सेवनं धीकरं परम्।

भजनं निर्भयकरं शंकरं पर्युपासनम्॥ ९५॥



शीलोपसम्पदा शुद्धः प्रसन्नो ध्यानसम्पदा।

त्वं प्रज्ञासम्पदाऽक्षोभ्यो ह्रदः पुण्यमयो महान्॥ ९६॥



रुपं द्रष्टव्यरत्नं ते श्रव्यरत्नं सुभाषितम्।

धर्मो विचारणारत्नं गुणरत्नाकरो ह्यसि॥ ९७॥



त्वमोघैरुह्यमानानां द्वीपस्त्राणं क्षतात्मनाम्।

शरणं भवभीरुणां मुमुक्षूणां परायणम्॥ ९८॥



सत्पात्रं शुद्धवृत्तत्वात् सत्क्षेत्रं फलसम्पदा।

सन्मित्रं हितकारित्वात् सर्वप्राणभृतामसि॥ ९९॥



प्रियस्त्वमुपकारित्वात् सुरतत्वान्मनोहरः।

एकान्तकान्तः सौम्यत्वात् सर्वैर्बहुमतो गुणैः॥ १००॥



हृद्योऽसि निरवद्यत्वाद्रम्यो वागरुपसौष्ठवात्।

धन्यः सर्वार्थसिद्धत्वान्माङ्गल्यो गुणसंश्रयात्॥ १०१॥



प्रणिधिस्तवो नाम नवमः परिच्छेदः।



१० मार्गावतारस्तवः



स्थायिनां त्वं परिक्षेप्ता विनियन्तापहरिणाम्।

समाधाता विजिह्मानां प्रेरको मन्दगामिनाम्॥ १०२॥



नियोक्ता धुरि दान्तानां खटुङ्कानामुपेक्षकः।

अतोऽसि नरदम्यानां सत्सारथिरनुत्तरः॥ १०३॥



आपन्नेष्वनुकम्पा ते प्रस्वस्थेष्वर्थकामता।

व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता॥ १०४॥



विरुद्धेष्वपि वात्सल्यं प्रवृत्तिः पतितेष्वपि।

रौद्रेष्वपि कृपालुत्वं का नामेयं तवार्यता॥ १०५॥



गुरुत्वमुपकारित्वान्मातापित्रोर्यदीष्यते।

केदानीमस्तु गुरुता त्वय्यत्यन्तोपकारिणि॥ १०६॥



स्वकार्यनिरपेक्षाणां विरुद्धानामिवात्मनाम्।

त्वं प्रपाततटस्थानां प्राकारत्वमुपागतः॥ १०७॥



लोकद्वयोपकाराय लोकातिक्रमणाय च।

तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस्त्वया॥ १०८॥



भिन्ना देवमनुष्याणामुपभोगेषु वृत्तयः।

धर्मसम्भोगसामान्यात्त्वय्यसम्भेदमागताः॥ १०९॥



उपपत्तिवयोवर्णदेशकालनिरत्ययम्।

त्वया हि भगवन् धर्मसर्वातिथ्यमिदं कृतम्॥ ११०॥



अविस्मितान् विस्मितवत्स्पृहयन्तो गतस्पृहान्।

उपासते प्राञ्जलयः श्रावकानपि ते सुराः॥ १११॥



अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता।

मानुष्यं यत्र देवानां स्पृहणीयत्वमागतम्॥ ११२॥



मार्गावतारस्तवो नाम दशमः परिच्छेदः।



११ दुष्करस्तवः



खेदः शमसुखज्यानिरसज्जनसमागमः।

द्वन्द्वान्याकीर्णता चेति दोषान् गुणवदुद्वहन्॥ ११३॥



जगद्धितार्थं घटसे यदसङ्गेत चेतसा।

का नामासौ भगवति बुद्धानां बुद्धधर्मता ॥ ११४॥



कदन्नान्यपि भुक्तानि क्वचित्क्षुदधिवासिता।

पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्वपि॥ ११५॥



प्राप्ताः क्षेपावृताः सेवा वेषभाषान्तरं कृतम्।

नाथ वैनेयवात्सल्यात् प्रभुणापि सता त्वया॥ ११६॥



प्रभूतमपि ते नाथ सदा नात्मनि विद्यते।

वक्तव्य इव सर्वैर्हि स्वैरं स्वार्थे नियुज्यसे॥ ११७॥



येन केन चिदेव त्वं यत्र तत्र यथा तथा।

चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे॥ ११८॥



नोपकारपरेऽप्येवमुपकारपरो जनः।

अपकारपरेऽपि त्वमुपकारपरो यथा॥ ११९॥



अहितावहिते शत्रौ त्वं हितावहितः सुहृत्।

दोषान्वेषणनित्येऽपि गुणान्वेषणतत्परः॥ १२०॥



यतो निमन्त्रणं तेऽभूत् सविषं सहुताशनम्।

तत्राभूदभिसंयानं सदयं सामृतं च ते॥ १२१॥



अक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च।

सत्येन चापवक्तारस्त्वया मैत्र्या जिघांसवः॥ १२२॥



अनादिकालप्रहता बहृयः प्रकृतयो नृणाम्।

त्वया विभावितापायाः क्षणेन परिवर्तिताः॥ १२३॥



दुष्करस्तवो नामैकादशः परिच्छेदः।



१२ कौशलस्तवः



यत्सौरत्यं गतास्तीक्ष्णाः कदर्याश्च वदान्यताम्।

क्रुराः पेशलतां यातास्तत् तवोपायकौशलम्॥ १२४॥



इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः।

क्षमित्वं चाङ्गुलीमाले कं न विस्मयमानयेत्॥ १२५॥



बहवस्तृणशय्यासु हित्वा शय्यां हिरण्मयीम्।

अशेरत सुखं धीरास्तृप्ता धर्मरसस्य ते॥ १२६॥



पृष्टेनापि क्वचिन्नोक्तमुपेत्यापि कथा कृता।

तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया॥ १२७॥



पूर्वं दानकथाद्याभिश्चेतस्युत्पाद्य सौष्ठवम्।

ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः॥ १२८॥



न सोऽस्त्युपायः शक्तिर्वा येन न व्यायतं तव।

घोरात् संसारपातालादुद्धर्तृं कृपणं जगत्॥ १२९॥



बहूनि बहुरुपाणि वचांसि चरितानि च।

विनेयाशयभेदेन तत्र तत्र गतानि ते॥ १३०॥



विशुद्धान्यविरुद्धानि पूजितान्यर्चितानि च।

सर्वाण्येव नृदेवानां हितानि महितानि च॥ १३१॥



न हि वक्तुं च कर्तुं च बहु साधु च शक्यते।

अन्यथानन्यथावादिन् दृष्टं तदुभयं त्वयि॥ १३२॥



केवलात्मविशुद्धयैव त्वया पूतं जगद्भवेत्।

यस्मान्नैवंविधं क्षेत्रं त्रिषु लोकेषु विद्यते॥ १३३॥



प्रागेवात्यन्तनष्टानामनादौ भवसंकटे।

हिताय सर्वसत्त्वानां यस्त्वमेवं समुद्यतः॥ १३४॥



कौशलस्तवो नाम द्वादशः परिच्छेदः।



१३ आनृण्यस्तवः



न तां प्रतिपदं वेद्मि स्याद्ययापचितिस्तव।

अपि ये परिनिर्वान्ति तेऽपि ते नानृणा जनाः॥ १३५॥



तव तेऽवस्थिता धर्मे स्वार्थमेव तु कुर्वते।

यः श्रमस्तन्निमित्तं तु तव का तस्य निष्कृतिः॥ १३६॥



त्वं हि जागर्षि सुप्तानां संतानान्यवलोकयन्।

अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः॥ १३७॥



क्लेशानां वध आख्यातो मारमाया विघाटिता।

उक्तं संसारदौरात्म्यमभया दिग्विदर्शिता॥ १३८॥



किमन्यदर्थकामेन सत्त्वानां करुणायता।

करणीयं भवेद् यत्र न दत्तानुनयो भवान्॥ १३९॥



यदि संचारिणो धर्माः स्युरिमे नियतं त्वया।

देवदत्तमुपादाय सर्वत्र स्युर्निवेशिताः॥ १४०॥



अत एव जगन्नाथ नेहान्योऽन्यस्य कारकः।

इति त्वमुक्तवान् भूतं जगत् संज्ञापयन्निव॥ १४१॥



चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया।

बहूनुत्पाद्य सच्छिष्यांस्त्रैलोक्यानुग्रहक्षमान्॥ १४२॥



साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च।

ऋणशेषं किमद्यापि सत्त्वेषु यदभूत् तव॥ १४३॥



यस्त्वं समाधिवज्रेण तिलशोऽस्थीनि चूर्णयन्।

अतिदुष्करकारित्वमन्तेऽपि न विमुक्तवान्॥ १४४॥



परार्थावेव मे धर्मरुपकायाविति त्वया।

दुष्कुहस्यास्य लोकस्य निर्वाणेऽपि निदर्शितम्॥ १४५॥



तथाहि सत्सु संक्राम्य धर्मकायमशेषतः।

तिलशो रुपकायं च भित्त्वासि परिनिर्वृतः॥ १४६॥



अहो स्थितिरहो वृत्तमहो रुपमहो गुणाः।

न नाम बुद्धधर्माणामस्ति किञ्चिदनद्भुतम्॥ १४७॥



उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि।

त्वय्यपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम्॥ १४८॥



पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम्।

ये त्वां सत्त्वा नमस्यन्ति तेभ्योऽपि सुकृतं नमः॥ १४९॥



अक्षयास्ते गुणा नाथ शक्तिस्तु क्षयिणी मम।

अतः प्रसङ्गभीरुत्वात् स्थीयते न वितृप्तितः॥ १५०॥



अप्रमेयमसंख्येयमचिन्त्यमनिदर्शनम्।

स्वयमेवात्मनाऽऽत्मानं त्वमेव ज्ञातुमर्हसि॥ १५१॥



न ते गुणांशावयवोऽपि कीर्तितः

परा च नस्तुष्टिरवस्थिता हृदि।

अकर्शनेनैव महाह्रदाम्भसां

जनस्य तर्षाः प्रशमं व्रजन्ति ह॥ १५२॥



फलोदयेनास्य शुभस्य कर्मणो

मुनिप्रसादप्रतिभोद्भवस्य मे।

असद्वितर्काकुलमारुतेरितं

प्रयातु चित्तं जगतां विधेयताम्॥ १५३॥



आनृण्यस्तवो नाम त्रयोदशमः परिच्छेदः।

अध्यर्धशतकं समाप्तम्। कृतिराचार्यमातृचेटस्य॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project