Digital Sanskrit Buddhist Canon

वज्रमहाकालस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vajramahākālastotram
वज्रमहाकालस्तोत्रम्



आचार्यनागार्जुनकृतम्



हां हां हांकारनादैः किलिकिलितरवैः भूतवेतालवृन्दै-

र्हु हुंकारैः समन्तान्नरपिशितमुखै रक्तमालाकुलाङ्गैः।

खट्वाङ्गस्कन्नपाणिर्नरकरकधरः कामरूपी विरूपी

पिङ्गाक्षः पिङ्गकेशः शवगणनलकः क्षेत्रपालोऽवताद्वः॥ १॥



फें फें फेंकारनादैः प्रतिजनितबृहद्वह्निगर्भाङ्गवक्त्रे

मालां कण्ठे निधाय प्रकटभयवपुर्भूषिताङ्गोपशोभः।

ईषद्रक्ताधरोष्ठोऽसृकसकलवृतामालिना मुक्तपाणिः

क्लीं डां क्लीं डां निनादैर्वरदहनभुवि क्षेत्रपः पातु युष्मान्॥ २॥



क्षं क्षं क्षं क्षान्तिमूर्तिः कलकलकलकृत् क्षान्तिवृद्धिं प्रकुर्वन्।

क्रान्ताक्रान्तैकविश्वः कहकहकथनो नीलजीमूतवर्णः।

ह्रीं श्रीं क्लीं मन्त्रदेहः पच पच दहनैर्जातमन्त्रः समन्ताद्

विघ्नानुत्सार्यमाणः शमयतु नियतं शात्रवान् क्षेत्रपालः॥ ३॥



हा हा हा हाट्टहासैरतिशयभयकृत् सर्वदाऽसत्पशूनां

पापानाम्, विघ्नहन्ता प्रतिदिवसमसौ प्राप्तसंबोधिलाभः।

हुं फट् हुंफटनिनादैस्त्रिभुवनकुहरं पूरयन् पूर्णशक्तिः

पायाच्छ्रीक्षेत्रपालः कपिलतरजटाजूटक्लेशाङ्गभारः॥ ४॥



खं खं खं खङ्गपाणिर्ललललललितो रूपतो रक्तपाणिः

रं रं रं रक्तनेत्रो रु रु रुधिरकरश्चर्चितश्चण्डवेगः।

क्रुं क्रुं क्रुं क्रोधदृष्टिः कुह कुह कुटिलः कुञ्चिताशेषदुष्टः

डं डं डं डामराङ्गो डमरुकसहितो रक्षतात् क्षेत्रपालः॥ ५॥



यं यं यं याति विश्वं यमनियमयुतो यामिनोऽयामिनो वा

वं वं वं वातवेगो झटिति करकधृत् प्राप्तलोकोपचारः।

भ्रूं भ्रूं भ्रूं भीषणाङ्गो भृकुटिकृतभयो मुक्तिवान् साधकानां

क्षं क्षं क्षं क्षेमकारी क्षपयतु दुरितं रक्षतात् क्षेत्रपालः॥ ६॥



क्लां क्लां क्लां क्रान्तिमूर्तिस्त्रिभुवनमनिशं क्लेदयन् सर्वदा यः

पं पं पं पाशहस्तः परशुधृतकरः पालयन् पालनीयान्।

मुद्राणां मन्त्रमूर्तिस्त्वमभिमतफलदो मन्त्रिणां मन्त्रतुल्यः

क्षेत्राणां पालकोऽसौ सकलजिततनुः पातु युष्मांश्चिरायुः॥ ७॥



क्लीं क्लीं क्लीं कृत्तिवासा कृतरिपुनियमः क्लेशितानां सदेशः

कं कं कं कपालमाली कलिकलुषहरः कालवृन्दाभकायः।

चं चं चं चण्डवेगः प्रचरितसमयाः कालभूतैकलोकः

सं सं सं संयतात्मा समयशुभफलं लक्ष्यतां पातु युष्मान्॥ ८॥



मन्त्राणां मन्रकायो नियतयमद्युतिः सत्पथे शूद्धतीरे

आचार्यः साधको वा जपति च नियतं पुण्यवान् जायतेऽसौ।

आयुः श्रीः कीर्तिलक्ष्मीर्धृतिबलमतुलं शान्तिपुष्टी प्रभा च

सर्वज्ञत्वं च नित्यं दिननिशमतुलं नश्यते विघ्नजातम्॥ ९॥



श्रीवज्रमहाकालस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project