Digital Sanskrit Buddhist Canon

लोकातीतस्तवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Lokātītastavaḥ
लोकातीतस्तवः



लोकातीत नमस्तुभ्यं विविक्तज्ञानवेदिने।

यस्त्वं जगद्धितायैव खिन्नः करुणया चिरम्॥ १॥



स्कन्धमात्रविनिर्मुक्तो न सत्त्वोऽस्तीति तेन तम्।

सत्त्वार्थं च परिखेदमगमस्त्वं महामुने॥ २॥



तेऽपि स्कन्धास्त्वया धीमन् धीमद्भयः संप्रकाशिताः।

मायामरीचिगन्धर्वनगरस्वप्नसन्निभाः॥ ३॥



हेतुतः संभवो येषां तदभावान्न सन्ति ये।

कथं नाम न तत्स्पष्टं प्रतिबिम्बसमागताः॥ ४॥



भूतान्यचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम्।

रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः॥ ५॥



वेदनीयं विना नास्ति वेदनाऽतो निरात्मिका।

तच्च वेद्यं स्वभावेन नास्तीत्यभिमतं तव॥ ६॥



संज्ञार्थयोरनन्यत्वे मुखं दह्येत वह्निना।

अन्यत्वेऽधिगमाभावस्त्वयोक्तो भूतवादिना॥ ७॥



कर्ता स्वतन्त्रः कर्माऽपि त्वयोक्तं व्यवहारतः।

परस्परापेक्षिकी तु सिद्धिस्तेऽभिमताऽनयोः॥ ८॥



न कर्ताऽस्ति न भोक्ताऽस्ति पुण्यापुण्यं प्रतीत्यजम्।

यत्प्रतीत्य न तज्जातं प्रोक्तं वाचस्पते त्वया॥ ९॥



अज्ञाप्यमानं न ज्ञेयं विज्ञानं तद्विना न च।

तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वमूचिवान्॥ १०॥



लक्ष्याल्लक्षणमन्यच्चेत् स्यात्तल्लक्ष्यमलक्षणम्।

तयोरभावोऽनन्यत्वे विस्पष्टं कथितं त्वया॥ ११॥



लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम्।

शान्तं जगदिदं दृष्टं भवता ज्ञानचक्षुषा॥ १२॥



न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च।

न स्वतो नापि परतो न द्वाभ्यां जायते कथम्॥ १३॥



न सतः स्थितियुक्तस्य विनाश उपपद्यते।

नासतोऽश्वविषाणेन समस्य समता कथम्॥ १४॥



भावान्नार्थान्तरं नाशो नाप्यनर्थान्तरं मतम्।

अर्थान्तरे भवेन्नित्यो नाप्यनर्थान्तरे भवेत्॥ १५॥



एकत्वे नहि भावस्य विनाश उपपद्यते।

पृथक्त्वेन हि भावस्य विनाश उपपद्यते॥ १६॥



विनष्टात् कारणात्तावत् कार्योत्पत्तिर्न युज्यते।

न वाऽविनष्टात् स्वप्नेन तुल्योत्पत्तिर्मता तव॥ १७॥



निरुद्धाद्वाऽनिरुद्धाद्वा बीजादङ्कुरसंभवः।

मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते॥ १८॥



अतस्त्वया जगदिदं परिकल्पसमुद्भवम्।

परिज्ञातमसद्भूतमनुत्पन्नं न नश्यति॥ १९॥



नित्यस्य संसृतिर्नास्ति नैवानित्यस्य संसृतिः।

स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदांवर॥ २०॥



स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम्।

तार्किकैरिष्यते दुःखं त्वयातूक्तं प्रतीत्यजम्॥ २१॥



यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।

भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः॥ २२॥



सर्वसङ्कल्पहानाय शून्यतामृतदेशना।

यस्य तस्यामपि ग्राहस्त्वयाऽसाववसादितः॥ २३॥



निरीहावशिकाः शून्या मायावत् प्रत्ययोद्भवाः।

सर्वधर्मास्त्वया नाथ निःस्वभावाः प्रकाशिताः॥ २४॥



न त्वयोत्पादितं किञ्चिन्न किञ्चिच्च निरोधितम्।

यथा पूर्वं तथा पश्चात् तथतां बुद्धवानसि॥ २५॥



आर्यैर्निषेवितामेतामनागम्य हि भावनाम्।

अनिमित्तस्य विज्ञानं भवतीह कथंचन॥ २६॥



अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान्।

अतस्त्वया महायाने तत् साकल्येन दर्शितम्॥ २७॥



यदवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम्।

निमित्तबन्धनापेतं भूयात् तेनाखिलं जगत्॥ २८॥



श्रीलोकातीतस्तवः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project