Digital Sanskrit Buddhist Canon

स्रग्धरापञ्चकस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sragdharāpañcakastotram
स्रग्धरापञ्चकस्तोत्रम्



वन्देऽहं तत्त्वरूपं ततविततभवं भव्यहव्यस्वभावं

बुद्धानामादिबुद्धं कृतविविधहितं तेजसां सन्निधानम्।

सम्यक्संबोधिमूर्ति त्रिगुणविलसितं पञ्चज्ञानैकहेतुं

नैराकारं निरञ्जं गगनवदनिशं निर्मलं चित्तचैत्यम्॥ १॥



ज्योतीरूपे त्वदीये विनिलयतपसा दानशीलक्षमासु

वीर्यध्यानाख्यप्रज्ञोदधिकृततरणो माणिवृन्दे सुजातौ।

बोधिं प्राप्तोऽस्मि चास्मिन् सकलपूरवरे चाकनिष्ठे महिम्नि

वन्दे त्वां विश्वरूपं स्फटिकमणिरिवोपात्तनानाप्रभेदम्॥ २॥



नाना वैध्यं सुपूज्योपकरणमनिशं ढौकितं सर्वलोकैः

किं चाहं ढौकयिष्ये त्वदनुनयमनास्त्यक्तराज्यादिद्रव्यः।

जातौ जातौ च जातौ कृतसुकृतचयं कायवाङ्मानसैस्तै-

स्तत्सर्वं ढौकयिष्ये निजतनुसहितं संगृहाण सुबुद्धे॥ ३॥



एकं युग्मं तृतीयं युगलयुगमथो पञ्चमं षष्ठसंज्ञं

सप्ताष्टौ वै नवाख्यं दशममथ तथैकादशं द्वादशाख्यम्।

त्रायोदश्यं चतुर्दश्यमथ शरकमठं चैकतः संप्रसूतम्

आनन्त्यं स्वं तदैवं जगदखिलमभूत् त्वां नमे चैकरूपम्॥ ४॥



एको वैरोचनाख्यस्तदपरजिनो बुद्ध अक्षोभ्यसंज्ञः

रत्नाद्यः संभवोऽसौ त्रितय अमृतरुक्संज्ञकस्तुर्यसंख्यः।

पञ्चाख्योऽमोघसिद्धिस्तदनु च जगति ख्यातसंख्याद्यसंख्या

देवा दैत्याश्च मर्त्या भवदवयवजाः सर्वदाऽहं नतोऽस्मि॥ ५॥



श्रीशाक्यसिंहबुद्धकृतं स्रग्धरापञ्चकं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project