Digital Sanskrit Buddhist Canon

गुरुरत्नत्रयस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Gururatnatrayastotram
गुरुरत्नत्रयस्तोत्रम्



ॐ नमोरत्नत्रयाय



तृष्णाजिह्वमसद्विकल्पशिरसं प्रद्वेषचञ्चत्फलं

कामक्रोधवितर्कदर्शनमथो रागप्रचण्डेक्षणम्।

मोहास्यं स्वशरीरकोटिशतचिन्तातिगं दारुणं

प्रज्ञामन्त्रबलेन यः शमितवान् बुद्धाय तस्मै नमः॥ १॥



बुद्धं प्रबुद्धं वरधर्मराजं शान्तं विशुद्धं समकीर्तिदं तं।

गुणाकरं सत्त्वमुनीन्द्रराजं श्रीमन्महाबोधिमहं नमामि॥ २॥



इति बुद्धरत्नस्तोत्रम्।



यो जात्यादिकदुःखतप्तमहसां चक्षुः सतां प्राणिनां

यस्त्रैधातुकपञ्जरादहरहः सत्त्वान् समाकर्षति।

अत्राणं च जगत्समुद्धरति यः संक्लेशदुःखार्णवात्

संबुद्धांश्च पुनश्च्युताच्च महते धर्माय तस्मै नमः॥ ३॥



या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्

या मार्गज्ञतया जगद्धितकृता लोकार्थसम्पादिका।

सर्वाकारमिदं वदन्ति मुनयो विश्वस्य या संगता

तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः॥ ४॥



इतिधर्मरत्नस्तोत्रम्।



चत्वारः प्रत्युत्पन्नगा भवसुखे सुस्वादविद्वेषिण-

श्चत्वारश्च फले स्थिताः शमरताः शान्ता महायोगिनः।

इत्यष्टौ वरपुंगला भगवता यस्मिन् गणे व्याकृताः

प्रज्ञाशीलसमाधितप्तवपुषा संघाय तस्मै नमः॥ ५॥



बुद्धं नमामि सततं वरपद्मपाणिं

मैत्र्यात्मकं गगनगंजसमन्तभद्रम्।

यक्षाधिपं परिहितोद्धृतमञ्जुघोषं

विष्कम्भिणं क्षितिगर्भं प्रणमामि भक्त्या॥ ६॥



इति संघरत्नस्तोत्रम्।



गुरुर्बुद्धो गुरुर्धर्मो गुरुः संघस्तथैव च।

गुरुर्वज्रधरः श्रीमान् तस्मै श्रीगुरवे नमः॥ ७॥



श्री गुरुरत्नत्रयस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project