Digital Sanskrit Buddhist Canon

षट्‍त्रिंशत्संवरस्तुतिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaṭtriṁśatsaṁvarastutiḥ
षट्‍त्रिंशत्संवरस्तुतिः



श्रीसंवरं महावीरं वाराहीं चापि योगिनीम्।

नमामि सर्वभावेन योगिनीजालनायकम्॥ १॥



डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम्।

चतुरोऽमृतभाण्डांश्च बोधिचित्तेन पूरितान्॥ २॥



पुल्लीरमलयोद्भूतं खण्डकपालसंवरम्।

प्रचण्डालिङ्गणं वीरं नमामि शिरसि स्थितम्॥ ३॥



जालन्धरात्समुत्पन्नं महाकंकालसंवरम्।

चण्डाल्यालिङ्गणं वीरं शिखादेशे स्थितं नमे॥ ४॥



ओडियानात्समुद्भूतं कंकालनाम संवरम्।

प्रभावतीसमापन्नं सव्यकर्णस्थितं नमे॥ ५॥



अर्बुदपीठमध्यस्थं संवरं विकटदंष्ट्रिणम्।

महानासासमापन्नं पृष्ठदेशे स्थितं नमे॥ ६॥



गोदावरीसमुद्भूतं सुरावीरिणसंवरम्।

संपुटं वीरमत्याख्या वामकर्णस्थितं नमे॥ ७॥



रामेश्वरोद्भवं वीरं अमिताभाख्यसंवरम्।

खर्वरोसंपुटं नाथं भ्रुवोर्मध्यस्थितं नमे॥ ८॥



देवीकोटोद्भवं नाथं वज्रप्रभाख्यसंवरम्।

लङ्केश्वरीसमापन्नं नमामि नेत्रकोणगम्॥ ९॥



मारवाख्यात्समुत्पन्नं वज्रदेहाख्यसंवरम्।

द्रुमच्छायासमापन्नं नमामि स्कन्धदेशगम्॥ १०॥



कामरूपोद्भवं वीरं अङ्गुलिकाख्यसंवरम्।

ऐरावतीसमापन्नं नमामि कक्षदेशगम्॥ ११॥



ओकारस्थानसंजातं वज्रजटिलसंवरम्।

भैरवालिङ्गणं वीरं तनुयुगोद्भवं नमे॥ १२॥



त्रिशकुन्यद्भवं नाथं महावीराख्यसंवरम्।

वायुवेगासमापन्नं नाभिदेशस्थितं नमे॥ १३॥



कौशलायां समुद्भूतं वज्रहूँकारसंवरम्।

सुराभक्षीसमापन्नं नमामि नासिकाग्रजम्॥ १४॥



कलिङ्गपीठसंजातं सुप्रभानाम संवरम्।

श्यामादेवी समापन्नं नमामि मुखभागजम्॥ १५॥



लम्पाकस्थानसंभूतं वज्रप्रभाख्यसंवरम्।

सुभद्रालिङ्गणं वीरं कण्ठदेशोद्भवं नमे॥ १६॥



काञ्च्याख्यपीठसंजातं महाभैरवसंवरम्।

हयकर्णासमापन्नं नमामि हृदिमध्यगम्॥ १७॥



हिमालयोद्भवं वीरं विरूपाक्षाख्यसंवरम्।

खगाननासमापन्नं मेढ्रस्थानगतं नमे॥ १८॥



प्रेतपुर्यां समुद्भूतं महाबलाख्यसंवरम्।

चक्रवेगासमापन्नं लिङ्गस्थानगतं नमे॥ १९॥



गुहदेशात्समुद्भूतं रत्नवज्राख्यसंवरम्।

खण्डरोहासमापन्नं नमामि गुदमध्यगम्॥ २०॥



सौराष्ट्रदेशसंभूतं हयग्रीवाख्यसंवरम्।

शौण्डिन्यालिङ्गणं वीरं नमामि उरुमध्यगम्॥ २१॥



सुवर्णद्वीपसंजातम् आकाशगर्भसंवरम्।

चक्रवर्मिणीसमापन्नं जङ्घामध्यगतं नमे॥ २२॥



नगरपीठमध्यस्थं श्रीहेरुकाख्यसंवरम्।

सुवीरालिङ्गणं वीरं नमाम्यङ्गुलिवर्तिनम्॥ २३॥



सिन्धुदेशसमुद्भूतं पद्मनृत्याख्यसंवरम्।

महाबलासमापन्नं पादपृष्ठगतं नमे॥ २४॥



मरुतीपीठसंजातं वैरोचनाख्यसंवरम्।

चक्रवर्तिनीसमापन्नं नमाम्यङ्गुष्ठमध्यगम्॥ २५॥



कुलतायाः समुद्भूतं वज्रसत्त्वाख्यसंवरम्।

महावीर्यासमापन्नं जानुद्वयगत नमे॥ २६॥



पूर्वद्वारे स्थितं वीरं वज्रचण्डाख्यसंवरम्।

काकास्यालिङ्गणं वीरं नमामि सुरनायकम्॥ २७॥



उत्तरद्वारमध्यस्थं वज्रानलाख्यसंवरम्।

उलूकास्यासमापन्नं नमामि यक्षनायकम्॥ २८॥



पश्चिमद्वारमध्यस्थं वज्रोष्णीषाख्यसंवरम्।

श्वानास्यासम्पुटं वीरं नमामि पन्नगाधिपम्॥ २९॥



दक्षिणद्वारमध्यस्थं वज्रकुण्डलिसंवरम्।

शूकरास्यासमापन्नं नमामि यमनायकम्॥ ३०॥



आग्नेयदिग्विमात्रस्थं वज्रयक्षाख्यसंवरम्।

यमदाढीसमापन्नं नमामि वह्निनायकम्॥ ३१॥



नैरृत्यदिग्विभाषस्थं वज्रकीलाख्यसंवरम्।

यमदूतीसमापन्नं नमामि राक्षसाधिपम्॥ ३२॥



वायव्यदिग्विभागस्थं वज्रमहाबलाह्वयम्।

यमदंष्ट्रीसमापन्नं नमामि पवनाधिपम्॥ ३३॥



ईशानदिग्विभागस्थं वज्रभीषणसंवरम्।

यममथनीसमापन्नं नमामि भूतनायकम्॥ ३४॥



एतान्देवान् नमस्यामि दिग्विदिक्षु सुसंस्थितान्।

वीरान् वीरेश्वरीः सर्वा हेरुकं परमेश्वरम्॥ ३५॥



सहजानन्दात्मकं देवं विशुद्धं ताण्डवान्वितम्।

डाकिनीजालमध्यस्थं प्रत्यात्मवेद्यगोचरम्॥ ३६॥



स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम्।

तेन पुण्येन लोकोऽस्तु वज्रडाकपरायणः॥ ३७॥



श्री षट्‍त्रिंशत्संवरगणचक्रमण्डलस्तुतिः समाप्ताः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project