Digital Sanskrit Buddhist Canon

पीठस्तवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pīṭhastavaḥ
पीठस्तवः





ब्रह्माणी तत्त्वरूपा विविधघनरवा घोरचण्डी च रौद्री

कौमारी कीर्तिकामा पिबति मधुमदं वैष्णवी गायमाना।

वाराही वादयन्ती पटुतरपटहान् नृत्यमाना तथैन्द्री

चामुण्डा चापि लक्ष्मीर्हरगणसहिता मातरो वः पुनन्तु॥ १॥





गणपतिं च हेरम्बं विघ्नराजं विनायकम्।

देवपुत्रं महावीर्यं महाबलपराक्रमम्॥ २॥



महोदरं महाकायमेकदन्तं गजाननम्।

श्वेतवर्णं महादीप्तिं त्रिनेत्रं गणनायकम्॥ ३॥



अक्षमाला (च) वरदं दक्षिणकरसंस्थितम्।

परशुर्मुण्डपात्रं च वामहस्तविधारणम्॥ ४॥



नानापुष्परतं देवं नानागन्धावलेपनम्।

नागयज्ञोपवीताङ्गं नानाविघ्नविनाशनम्॥ ५॥



देवासुरमनुष्यैश्च सिद्धगन्धर्वकिन्नरैः।

पूजितं विघ्नहन्तारं मूषकाटं नमाम्यहम्॥ ६॥





ब्रह्माणी ब्रह्मसावित्री ब्रह्मतत्त्वविवेदिनी।

चतुर्भुजा चतुर्वक्त्रा चतुर्देवपरायणा॥ ७॥



चतुर्देशे चिरं व्यापी चतुर्युगोपकारिणी।

हंसयुक्तविमानस्था सौम्यरूपा पितामही॥ ८॥



पुस्तकं पुष्पमालां च वरदाभयधारिणी।

पीतपुष्परता देवी पीताङ्गा पीतसन्निभा॥ ९॥



पीतोपहारसंयुक्ता पीतगन्धानुलेपिनी।

उदुम्बरद्रुमस्था च प्रयागक्षेत्रवासिनी॥ १०॥



पूर्वपीठे स्थिता नित्यं ब्रह्मशक्तिर्नमोऽस्तु ते।



माहेश्वरी महादेवी मोहमायानिरंज(कृंत) नी॥ ११॥



महावृषसमारूढा महाहुंकारनादिनी।

हेममुक्त(क्ता)निभदेहा कपालशशिशेखरा॥ १२॥



त्रिलोचना त्रिशुली च अक्षसूत्रकमण्डलू।

नानालङ्कारसर्वाङ्गी दक्षिणेन वरप्रदा॥ १३॥



सृष्टिस्थितिविनाशानां सर्वथापीश्वरेश्वरी।

श्वेतपुष्परता देवी श्वेतगन्धानुलेपिनी॥ १४॥



श्वेतवस्त्रपरीधाना मुद्राभरणभूषिता।

वाराणस्यां महाक्षेत्रे तार(ल)वृक्षनिवासिनी॥ १५॥



उत्तरे संस्थिता पीठे माहेश्वरी नमोऽस्तु ते।



बालभावे महारौद्री कौमारी रक्तलोचनी॥ १६॥



रक्तवर्णधरा देवी सिन्दूरारूणविग्रहा।

चतुर्भुजा शक्तिसूत्रसिद्धपात्रधरा शुभा॥ १७॥



कौमारी परमा शक्तिर्मयूरवरवाहिनी।

रक्तवस्त्रपरीधाना रक्तमांसावसायिनी॥ १८॥



कोलापुरमहाक्षेत्रे वटवृक्षनिवासिनी।

अग्निपीठस्थिता नित्यं कौमारी ते नमो नमः॥ १९॥





वैष्णवी विष्णुमाया च दैत्यदुर्दान्तनाशिनी।

हरितश्यामवर्णाङ्गी गरुडोपरि संस्थिता॥ २०॥



शङ्खचक्रगदाहस्ता चतुर्बाहुविभूषिता।

रक्तज्वाला महाक्रीडा नानाभरणभूषिता॥ २१॥



हरितपुष्पगन्धा च हरितवस्त्रधारिणी।

अट्टहासे महाक्षेत्रे कदम्बवृक्षवासिनी॥ २२।



स्वर्गे मर्त्ये च पाताले स्थितिरूपेण संस्थिता।

तिष्ठन्ती पीठनैरॄत्ये नारायणी नमोऽस्तु ते॥ २३॥





वाराही घोररक्ताङ्गी रक्तकेशी महोदरी।

दंष्ट्रावादिनी गम्भीरा रक्तनेत्रा त्रिलोचनी॥ २४॥



कपालमालिका माला विचित्रपुष्पशोभिता।

महाशूकसमारूढा ज्वलिताग्निसमप्रभा॥ २५॥



अङ्कुशकर्तिकादण्डहाडाभरणभूषिता।

त्रिनेत्रा ज्वलितदेहा च दुष्टदर्पविनाशिनी॥ २६॥



जयन्तीक्षेत्रसंस्थाना निम्बवृक्षसमाश्रिता।

याम्यपीठे स्थिता नित्यं कोलरूपी नमोऽस्तु ते॥ २७॥





शक्रेश्वरी सहस्राक्षो कुङ्कुमारुणविग्रहा।

सुरेश्वरी देवदेवी सर्वालङ्कारभूषिता॥ २८॥



चतुर्भुजा विशालाक्षी छत्रघण्टाविधारणी।

महावज्रधरा देवी स्थिता चैरावते गजे॥ २९॥



नानापुष्परता देवी नानारत्नविभूषिणी।

नानागन्धविलिप्ताङ्गी नानावस्त्रविराजिनी॥ ३०॥



चीर(न)क्षेत्रे महाक्षेत्रे करञ्जवृक्षसंस्थिता।

नागपीठस्थिता नित्यं शक्रेश्वरि नमोऽस्तु ते॥ ३१॥





चामुण्डा चण्डिका चण्डी प्रचण्डसुरसुन्दरी।

चण्डाट्टहासा चण्डाक्षी प्रचण्डचण्डनाशिनी॥ ३२॥



दंष्ट्राकराला रक्ताङ्गी कपिलकेशी महोदरी।

कृषा(पा)णी भीषणी रौद्री जिह्वाललनभीषणा॥ ३३॥



महाप्रेतासनारूढा भुजाष्टकसुशोभिनी।

असिचर्मयुता हस्तैः डमरुखट्वाङ्गधारिणी॥ ३४॥



कर्तिकपालहस्ता च वरदाभयभूषिता।

हाडालङ्कारसर्वाङ्गी अरिप्रत्यसुदा प्रिया॥ ३५॥



सहस्रसूर्यसंकाशा रोपकूपं प्रति प्रति।

ज्वालामालाकुला देहे (सूर्य)कोटिसमप्रभा॥ ३६॥



भूतवेतालडाकिन्यः परिवाराश्च राक्षसाः।

एकमक्षमहाक्षेत्रे अश्वत्थवृक्षवासिनी।

पीठे मरुतसंस्थाने चामुण्डायै नमोऽस्तु ते॥ ३७॥



१०

महालक्ष्मीर्महादेवी भोगाढ्या गुणसुन्दरी।

वैदूर्यपादुकारूढा सिंहासनस्थिता सुधीः॥ ३८॥



चतुर्भुजा विशालाक्षी खड्गखेटकधारिणो।

पात्रबिन्दुधरा देवी हार्धयुक्(हारार्धयुग)कुण्डली॥ ३९॥



रत्नखचितसर्वाङ्गी चूडामणिविभूषिता।

विचित्रपुष्परत्ना च वस्त्रगन्धानुलेपना॥ ४०॥



त्रैलोक्यव्यापिनी देवी सर्वस्था सचराचरा।

सिद्धगन्धर्वनमिता विद्याधरसुरार्चिता॥ ४१॥



देवीकोटमहाक्षेत्रे प्लक्षसंस्था वरा बला।

ईशानपीठसंस्थाना महालक्ष्मीः नमोऽस्तु ते॥ ४२॥



११

जननी सर्बबुद्धानां सर्वसन्तोषकारिणी।

त्वमेव सर्वरूपा च त्वमेव विश्वरूपिणी॥ ४३॥



भैरवं भीषणं रौद्रं घोरगम्भोररूपिणम्।

निरञ्जननिभं देहं सर्वकाममहोत्सवम्॥ ४४॥



नानाभुजसमाकीर्णा नानावस्त्रधरा शुभा।

बभ्रुरर्धशिरोरूहा दावाग्निसमतेजसा॥ ४५॥



त्रिलोचना महातेजा अग्निसूर्यसमप्रभा।

त्रिशूलं मुण्डं खट्वाङ्गं डमरुं तर्जनीं ध्वजम्॥ ४६॥



१२

प्रज्ञां तत्पुस्तकं चैव खड्गचर्मधरा शुभा।

पाशाङ्कुशधरं देवं वज्रसूचीमहाधरम्॥ ४७॥



कपालकर्तिकं चक्रं गजचर्मावगुण्ठितम्।

दंष्ट्राकरालवदनं व्याघ्रचर्मकटीवृतम्॥ ४८॥



सालङ्कारेण सर्वाङ्गं नरास्थिपुष्पशोभितम्।

शीर्षमालाधरा देवी कापालिकोटरं शुभम्॥ ४९॥



चूडामणिं महातेजं कपालं चन्द्रभूषितम्।

महाप्रेतासनं नित्यं नीयमाना सदा प्रिया॥ ५०॥



१३

सहस्रसूर्यसंकाशा छत्रबिन्दुसमन्विता।

चतुष्पीठस्थिता नित्यम् अष्टक्षेत्रनिवासिनी॥ ५१॥



अष्टमूर्तिस्थिता देवी अष्टकयोगिनीप्रिया।

भद्रपीठे स्थिता नित्यं भद्रकालीसमावृता॥ ५२॥



१४

भद्रकारणकर्ता त्वं वीरभद्र नमोऽस्तु ते।

असिताङ्गो रुरुश्चैव चण्डोऽथ क्रोधभैरवः॥ ५३॥



उन्मत्तभैरवश्चैव कपाली भीषणस्तथा।

संहारभैरवश्चाष्टभैरवाय नमोऽस्तु ते॥ ५४॥



१५

स्वस्थाना स्वाधिकारा च स्वस्वरूपा स्ववीरका।

स्वस्वच्छवृक्षतानं न दिव्याक्षं चैव भूमिगाः॥ ५५॥



दशदिक्क्षेत्रपालं च क्षेत्राणि च चतुर्दश।

पञ्चाशक्षेत्रपालं च क्षेत्रपाल नमोऽस्तु ते॥ ५६॥



१६

नाथनाथ महानाथ आदिनाथ महामते।

श्रीनाथ सिद्धनाथ मीननाथ नमोऽस्तु ते॥ ५७॥



क्षेत्रनाथ पीठनाथ द्वीपनाथ महात्मने।

प्रेतनाथ भूतनाथ बढनाथ नमोऽस्तु ते॥ ५८॥



त्रिनाथं नवनाथं च षोडशनाथमुत्तमम्।

सप्तविंशतिपञ्चाशचतुरशीति नमोऽस्तु ते॥ ५९॥



सर्वेषां नाथसिद्धानां मतं चक्षुस्त्वमव्ययम्।

पोतसद्म तथा वीरस्ततः सर्व नमोऽस्तु ते॥ ६०॥



१७

एकवारं द्विवारं च त्रिवारं यः पठेन्नरः।

शतमावर्तयेद् येन प्राप्नोति फलमुत्तमम्॥ ६१॥



नाशयेच्छोकचिन्तादि नाशयेद् विघ्नमण्डलम्।

नाशेयेद् रोगकलहान् नाशयेद् दुःखदुष्करम्॥ ६२॥



नाशयेद् भयदारिद्रयं नाशयेद् रिपुजं भयम्।

नाशयेदग्निचौरादि नाशयेद् राजकोपजम्॥ ६३॥



नाशयेद् विग्रहं घोरं परकृताभिचारकम्।

नाशयेद् द्वेषरागादि नाशयेत् सर्वपातकम्॥ ६४॥



आयुरारोग्यमैश्वर्यधनधान्यप्रवर्धनम्।

धर्मार्थकाममोक्षाणां यशःसौभाग्यवर्धनम्॥ ६५॥



ऋद्धिं सिद्धिं श्रियं लक्ष्मीं विद्यां ज्ञानं सुतादि च।

बुद्धिं प्रजां सुमित्राणि वर्धयेच्च दिने दिने॥ ६६॥



नाकाले मरणं चैव उत्पातं नाशयेत् सदा।

सर्वे रोगाः प्रशाम्यन्ति दीर्घमायुरवाप्यते॥ ६७॥



श्रीपीठस्तवस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project