Digital Sanskrit Buddhist Canon

बुद्धगण्डीस्तवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Buddhagaṇḍīstavaḥ
बुद्धगण्डीस्तवः



आचार्य-अश्वघोषकृतः



यः पूर्वं बोधिमूले रविगमनपथे मारगान्नृत्यगीतान्

गंगौ गंगौ गगंगौ घघनघनमृदुद्वन्द्वमन्त्रैरजस्रैः।

यः स्त्रीभिर्दिव्यरूपैरुपरतरभितुं दूदुभिर्दुर्भिदूर्भिः

क्षोभं नैवाभियातः सुरनरनमितः पातु वः शाक्यसिंहः॥ १॥



यः कन्दर्पाङ्गनानां ककहकहकहा हाहहेति प्रहासै-

र्यः स्फीताडम्बराणां तटिति तटतटा तातटीति प्रलापैः।

कुत्कुद् बुद्बुद् कुकूचित् कुकुहकुहकुहैः किङ्कराणां च वाग्भि-

र्नो त्रस्यः सोऽस्तु सौम्यः श्रुतसकलमलः शान्तये वो मुनीन्द्रः॥ २॥



भ्रूक्षेपापाङ्गभङ्गैः स्मरशरविलसत्पक्ष्मताराक्षिपातैः

प्रौढानङ्गाङ्गनानां ललितभुजलतालास्यलीलायिताङ्गैः।

सव्रीडैः सस्मितोक्तैः कलमृदुमधुरामोदरम्यैर्वचोभि-

र्भ्रान्तिं चेतो न चित्रं स्मरबलजयिनो यस्य तस्मै नमोऽस्तु॥ ३॥



उर्वीं सञ्चालयन्तः खरशरनिकरैश्छादयन्तोःन्तरीक्षं

ज्वालाभिः क्रोधंवह्नेर्ज्वलितदशदिशः क्षोभयन्तोऽम्बुराशिम्।

हेलोत्खातासिचक्रक्रकचपटुरवाराविणो मारवीराः

मैत्रीशस्त्रेण येन प्रसभमभिजिताः पातु वः सो मुनीन्द्रः॥ ४॥



विस्फूर्जज्जातकोपप्रकटितविकटाटोपनिर्घोषघोरं

गर्जज्जीमूतजालप्रकटगजघटाटोपबद्धान्धकारम्।

कन्दर्पोद्दामवह्निस्फुरदसिकिरणोद्भासिताशेषविश्वं

पुष्पेषोः सैन्यमुच्चैर्झटिति विघटितं येन बुद्धः स वोऽव्यात्॥ ५॥



दिव्यैराकणंपूरैः कमलदलनिभैः पक्ष्मलैर्लोलतारै-

र्भावस्निग्धैर्विदग्धैः प्रचलितललितैः सस्मितैर्भ्रूविलासैः।

नेत्रैर्माराङ्गनानां परिगतवलयैर्लोहितान्तैरशान्तै-

र्नाकृष्टः सर्वथा यस्तमहमृषिवरं वान्तदोषं नमामि॥ ६॥



नोद्भ्रान्तं यस्य चित्तं स्फुटविकटसटान्तोत्कटैर्लोलजिह्वै-

र्मारैः शूलाग्रहस्तैर्गजतुरगमुखैः सिंहशार्दूलवक्त्रैः।

प्रद्युम्नः कामदेवस्तृणवदगणितो येन संरम्भभीरुः

संबुद्धः पातु युष्मान् व्यपगतकलुषो लोकनाथो मुनीन्द्रः॥ ७॥



अक्षोभ्या यस्य बुद्धिर्धरणिनगनदीसागराम्भोधरद्भि-

र्गर्जद्भिर्मारवीरैर्विविधमुखशतैर्घोररूपैरनन्तैः।

येनासौ पुष्पकेतुस्तृणवदगणितः सर्वविद् वीतरागः

स श्रीमान् बुद्धवीरः कलुषभयहरः पातु वो वीतरागः॥ ८॥



मारानीकैर्महोग्रैरसिपरशुधनुःशक्तिशूलाग्रहस्तै-

रुल्कापातैरनेकैर्गहनपटुरवैर्भीषणैर्भीमनादैः।

न क्षुब्धं यस्य चित्तं गिरिसममचलं गाढपर्यङ्कबन्धं

तं वन्दे वन्दनीयं त्रिभवभयहरं बुद्धवीरं प्रवीरम्॥ ९॥



उच्चैरट्टाट्टहासैः प्रकटपटुभटाबद्धघण्टै रणद्भिः

साटोपास्फोटटङ्कस्फुटजटिलजटैः किङ्करैः कोटराक्षैः।

भग्नं कर्तु न शक्ताः पटुपटहपटस्फालनैर्यस्य बोधौ

दृप्तानां गृध्रकूटे पटुपटहपटुः सोऽस्तु वो बुद्धवीरः॥ १०॥



कोकण्डं रामकण्डं प्रतिभयकुहरं दर्पदर्पं रणाण्डं

डिम्बं डिम्बं डडिम्बं डुह डुहक डुहं तृंखलस्तृंखलस्तृम्।

झिम्बं झिम्बं झझिम्बं खमु खमु खमुखं मंखु मंखुः खुमंखु-

रेभिर्ध्वानैर्न भीतः सुरवरनमितः पातु वः शाक्यसिंहः॥ ११॥



यं माराङ्गारधाराधरसमयसमारम्भसंरम्भयुक्तं

नक्तं माराङ्गनानां मुखकमलवनश्रीविपक्षैकपक्षा।

सम्यक्संबोधिलक्ष्मीः शशिनमिव शरत्कौमुदी संप्रपेदे

तस्येयं धर्मदूती ध्वनति भगवतो धर्मराजस्य गण्डी॥ १२॥



निघ्नन्नप्राप्तदृष्टिः क्षणमपि च चिरादन्तको यद् दुरन्तं

तस्मिन्निक्षिप्तचित्ताः कुरुत सुचरितेष्वादरं सर्वकाले।

इत्थं रत्नत्रयाज्ञामिव वदति मुहुः प्राणिनां यस्य सैषा-

मेषा शब्दायमाना प्रथितमुखरदिङ्मण्डला धर्मगण्डी॥ १३॥



मार्तण्डमण्डलमिवोडुगणं विजित्य

भातीह तीर्थिकजनं जिनशासनं च।

रंरम्यते धरणिमण्डलमण्डनस्य

गण्डी यमस्य जयडिण्डिमवत्प्रचण्डा॥ १४॥



यस्यात्यन्तं दृढत्वं जमि जमि डुडुभं रञ्जितेनालिनालिं

डिम्बं डिम्बं डिडिम्बं डुभडुभडुडुभं नाडिवन्नाडिभण्डम्।

रुण्डं रुण्डं रुरुण्डं यरलव खखुमं मंखुमंखुः खुमंखुः

पश्य त्वं जीवलोके दशबलबलिनः पीड्यते मारसैन्यम्॥ १५॥



भूकम्पोत्कम्पजाता प्रचलितवसुधा कम्पते मेरुराज

उत्त्रस्ता देवसंघा ग्रहगणसहिता नागराजाः समस्ताः।

श्रुत्वा गण्डीं प्रचण्डां विविधभयकरीं त्रासनीं तैर्थिकानां

बौद्धानां शान्तिहेतोः प्रतिरणति महीं रावयन्तीव सद्यः॥ १६॥



एषा विहारशिखरे प्रविरौति गण्डी

मेघस्वनेन कुरुते च मनोज्ञघोषान्।

मातेव वत्सलतया सुबहिर्गतांश्च

पुत्रान् समाह्वयति भोजनकालगण्डी॥ १७॥



संसारचक्रपरिवर्तनतत्परस्य

बुद्धस्य सर्वगुणरत्नविभूषितस्य।

नादं करोति सुरदुन्दुभितुल्यघोषा

गण्डी समस्तदुरितानि निवारयन्ती॥ १८॥



एषा हि गण्डी रणते नराणां

संबोधिनी देवनरासुराणाम्।

भद्राः शृणुध्वं सुगतस्य गण्डी-

मापूरितां भिक्षुगणैः समग्रैः॥ १९॥



नागैः संवर्तकालक्षुभितजलधराकारवद् व्योम्नि कीर्णैः

क्वास्मिन् विघ्वंसशङ्का भयचकितजनैस्तत्प्रतीकारहेतोः।

कुर्वन्त्यद्यापि यस्या ध्वनिमुपशमिताशेषतीर्थ्यावलेपं

सा गण्डी पातु युष्मान् सकलमुनिवरैः स्थापिता धर्मवृद्ध्यै॥ २०॥



एषा सुरासुरमहोरगसत्कृतस्य

शान्तिं परामुपगतस्य तथागतस्य।

गण्डी रणत्यमरदुन्दुभितुल्यघोषान्

कृत्वान्यतीर्थ्यहृदयानि विदारयन्ती॥ २१॥



पुण्ये तत्परमानसा भवत भोः स्वर्गापवर्गप्रदे

पापं दुर्गतिदायकं कुरुत मा लोकाश्चलं जीवितम्।

इत्थं मध्यविलीनभृङ्गविरुतं यत्नान्निवार्यं मया

मारारेश्चरणाब्जयोर्विनिहितः पुष्पाञ्जलिः पातु वः॥ २२॥



मुञ्जद्भिः कुसुमानि तूर्यरणितैरापूरयद्भिर्दिशो

जोजोकारपुरःसरैः सुरगणैः शक्रादिभिः सादरैः।

स्वर्गाद् यस्य भुवं किलावतरतो दत्तानुयात्रा चिरं

तस्याव्यात् करुणानिधेर्भगवतो गण्डी प्रचण्डा जगत्॥ २३॥



गत्वा सप्त पदानि मातुरुदरान्निष्क्रान्तमात्रः स्वयं

संसारश्रवसं ममेति वचनं प्रोवाच योऽनन्यधीः।

यस्मिन्नात्मभुवे पुनस्त्रिभुवनं भ्राजिष्ण्वभिव्याहृतं

कुर्याद्वः सुगतस्य तस्य जयिनो गण्डी तमःखण्डिनी॥ २४॥



जित्वा मारबलं महाभयकरं कृत्वा च दोषक्षयं

सर्वज्ञं पदमाप यत् सुरुचिरं तत्रैव रात्रौ बहिः।

तस्याशेषगुणाकरस्य सुधियो बुद्धस्य शुद्धात्मनो

गण्डी खण्डितचण्डकिल्विषहरा भूयाद् विभूत्यै नृणाम्॥ २५॥



ब्रह्मा जिह्म इवाभवत् सुरगुरुर्गर्वं जहौ सर्वथा

शर्वः खर्वमतिर्बभूव भगवान् विष्णुश्च तूष्णीं स्थितः।

इत्थं यद्गुणकीर्तनेषु विबुधा याता ह्रिया मूकतां

गण्डी तस्य मुनेरियं जयति वः पायादपायाज्जगत्॥ २६॥



ब्रह्मादित्यशशाङ्कशङ्करशताक्षोपेन्द्रयक्षादयो

गन्धर्वोरगकिन्नरासुरसमीरप्रेतपीडाम्बराः।

ये तिष्ठन्त्यमरा नरा क्षितितले पाताललोकेषु च

श्रोतुं धर्ममिमं तथागतगुरोः सर्वे समायान्तु ते॥ २७॥



यस्या जन्मनि दीनहीनमतयः प्रापुः शुचं तीर्थिकाः

हर्षोत्कर्षविशेषवर्धितधियो बौद्धा धृतिं लेभिरे।

यामासाद्य गुणाः प्रयान्ति विततिं दोषा व्रजन्ति क्षयं

सा गण्डी कलिकालकल्मषहरा भूयाद् भवद्भूतये॥ २८॥



यां नत्वा विधिवद् विशुद्धमतयो गच्छन्ति तुङ्गां गतिं

यस्याः क्षिप्रतरं प्रयान्ति विवशाः सर्वे विपक्षाः क्षयम्।

ध्वस्तव्यस्तसमस्तमोहपटला सा धर्मगण्डी मुनेः

संभूयाद् भवभाविसाध्वसभिदे युष्माकमायुष्मताम्॥ २९॥



श्रुत्वा यां पतिता महीतलमलं ब्रह्मादयः स्वर्भुवः

कम्पन्ते धरणीधराः क्षितिरपि क्षिप्रं गता क्ष्मातलम्।

तीर्थ्यानां भयकारिणी परहितायारम्भशुद्धात्मनां

बौद्धानामुपशान्तये सपदि सा संताड्यतां गण्डिका॥ ३०॥



प्रौढालीढाभिरुढो गुरुतरचरणक्रान्तगौरीस्तनाग्रं

सर्वज्ञस्योत्तराङ्गं स्फुटविकटशता गर्जयन् वज्रमुख्या।

ज्वालामालोज्ज्वलाङ्गं त्रिभुवनविवरव्याप्तहुंकारभीमो

बद्धव्याबद्धमौलिर्जयति सुरनरादित्यचन्द्रासुरेन्द्रः॥ ३१॥



पीनोत्तुङ्गस्तनीनां हरिणदृशदृशां हंसलीलागतीनां

दं दं दं दं द दं दं तनि तनि तनितस्तालिका कामिनीनाम्।

तुं तुं तुं तुं ततुं तुं नकटिनमभितो गीतितो गीतवाद्यैः

टुं टुं टुं टुं टुटुं टुं टुमिति मितनता हन्यते गण्डिकेयम्॥ ३२॥



बुद्धगण्डी समाप्ता।

कृतिरियमाचार्यश्री-अश्वघोषपादानाम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project