Digital Sanskrit Buddhist Canon

गण्डीस्तवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Gaṇḍīstavaḥ

गण्डीस्तवः

आचार्य-आर्यदेवकृतः



आपातालान्तदेवाः सुरनरगरूडा दैत्यगन्धर्वयक्षाः

सिद्धा विद्याधराद्या जलधितटगता नागसत्त्वाः समग्राः।

गण्डीशब्दं समन्ताद् रभसितमनसः स्वासनेऽस्मिन् प्रसन्नाः

श्रोतुं [साधो]रधीरा विमलगुणगणस्यास्य त्रैलोक्यबन्धोः॥ १॥



लीलावासितचामरैश्चलदहो काञ्चीप्रपञ्चालसत्

प्राञ्चत्काञ्चनकिङ्किणीभिररणत् स्वासीवहंसस्वनाः।

तारुण्यामलनीलनीरजदल श्यामाङ्कमाराङ्गना-

श्चक्रूर्यस्य न मानसस्य विकृतिं बुद्धाय तस्मै नमः॥ २॥



येषामस्ति प्रसादो भगवति सुगते मारभिद्योगयुक्ते

ये वा सद्यः प्रसन्नाः सुगतसुतकृते स्वस्ति येषां च भक्तिः।

गण्डीमाहत्य चास्मिन् जगति शुभकरां शाक्यसिंहस्य शास्तुः

कृत्वा शुद्धान्तसंस्थां सुविहितमनसः श्रोतुमायान्ति सर्वे॥ ३॥



बुद्धं त्रैलोक्यनाथं सुरनरनमितं पारसंसारतीरं

धीरं गम्भीरवन्तं सकलगुणनिधिं धर्मराज्याभिषिक्तम्।

तृष्णामारान्तकारं कलिकलुषहरं कामलोभान्तवन्तं

तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि॥ ४॥



ऋम्पं ऋम्पं ऋऋम्पं टम टम टटमं तुन्दतुन्दं तुतुन्दं

सं सं सं सं सं सं सं समसममसमं दुर्म दुर्म द्रुदुर्मम्।

नागिर्नागिर्ननागिस्तखितखितखितस्तत्यजुर्ये रणे वै

कैः कैः कैः कैश्च कैः कैर्जगति भयहरा कीर्त्यते धर्मगण्डी॥ ५॥



कुरुत कुरुत श्रीपं ध्यानसन्नाहमग्नं

ग्रसति न खलु यावद् दुर्निवारः कृतान्तः।

इति वदति जनौघे बोधिता भिक्षुसङ्घाः

क्षपितदुरितपक्षाकीर्णनिःशेषदोषाः॥ ६॥



यस्मिन्नभ्युदितेऽखिलं त्रिभुवनं यात्यस्तमस्तङ्गते

येन ज्ञानगभस्तिहस्तविसरैर्हस्तं यतस्तन्यते।

सद्धर्मामलमण्डलो दशबलः संसाररात्र्यन्तकः

पायाद्वै मुनिभास्करः सुरगणान् बुद्धः प्रजाबान्धवः॥ ७॥



चित्तं येन जितं गजेन्द्रचपलं ज्ञानाक्षरैर्नाङ्कुशै-

र्नष्टं रागतमोऽन्धकारपटलं ज्ञानाग्निना नाग्निना।

ध्वस्तं मारबलं प्रशान्तमतिना क्षान्त्यायुधैर्नायुधै-

स्तं वन्दे प्रणतार्तिनाशनपटुं बुद्धं प्रबुद्धं मुनिम्॥ ८॥



तीर्थ्यानामाशु सैन्यं झटिति विघटयन् नाकनिष्ठप्रतिष्ठं

भूयिष्ठाभिः प्रभाभिर्भुवनमवतरंस्त्रासयन् भासुराभिः।

लक्ष्मीः पातालमूले स्थितकनकमहागर्भसिंहासनस्था

गीतज्योतिः स्वयं वो दिशतु दशबलो दर्शितप्रातिहार्यः॥ ९॥



पादाङ्गुष्ठे निविष्टां क्षिपति पृथुशिलाद्यैः स राजातिगुर्वी

चोग्रं ग्रीष्मप्रतापप्रशममुपगतो वल्गुना मन्त्रपूताम्।

तामेव त्रास्यमानो विघटयति सुखं श्वासनिःश्वासवातान्

लोकं सिद्धाः प्रणेमुः स दिशतु भगवान् सम्पदं सर्वदर्शी॥ १०॥



भग्ना मारादिरूपाः प्रलयभयकरा बद्धसन्नद्धकक्षा

नाना तीक्ष्णाग्रहस्ताः करितुरगमुखाः सिंहनादं नदन्तः।

बुद्धत्वं येन नीताः कुवलयदलदृशा [प्रेक्षिता] भिक्षुसङ्घाः

धर्मं कान्तं [नितान्त]मघदलनपटुं तीर्थिकाणां शृणुध्वम्॥ ११॥



चित्तं यस्याङ्गनाया रतितरलदृशाऽपाङ्गभङ्गैः सुभङ्गैः

क्षोभं नैवाशु नीतं कुचकलशभरैर्हारलीढैः सुलीढैः।

तस्यैषा धर्मगण्डी मधुरकलरवं रावते भिक्षुसङ्घं

धर्मं कान्तं तदीयं परमभयकरं तीर्थिकाणां शृणुध्वम्॥ १२॥



यः श्रीमान् धर्मचक्रे प्रमुदितमनसा धर्मरत्नैकमौलि-

र्भूयांसं पूर्णदेहं विकसितवदनं धर्मरत्नोदगिरन्तम्।

सिंहाक्रान्तासनस्थः कनकगिरिनिभो धर्मनादं नदन्तं

तस्येयं धर्मगण्डी प्रणदति सततं संशृणुध्वं जिनस्य॥ १३॥



मा मा मा मीयकण्ठैर्डिमडिमगगता गागगागैर्गलन्तैः

ना ना ना नोपनीतं ननु ननु ननु मा धुर्यमाधुर्यकान्तैः।

गीतैः कामाङ्गनानां प्रचलितमभवद् यस्य चेतो न शर्मि

तस्यैषा धर्मकेतोः पटुपटहरवा रारटीत्युग्रगण्डी॥ १४॥



किं संवर्तप्रदत्तप्रसववनचरा दीर्घसंरम्भनादाः

किं वा निर्वाटघातः किमुत भगवती हुकृतिर्वज्रपाणेः।

तत्सर्वं वै जनानां प्रवचनमतयो द्रष्टुमन्तःप्रवृत्ता

बुद्धस्योदारमूर्तेस्त्रिदशभयकरो गण्डिवादः स एषः॥ १५॥



ऊर्जासंघातिमारा विकृतनखमुखा रौद्रसिंह[स्व]रूपाः

पाताले रत्नदीपे प्रकटमणिगणाः शब्दिताः पर्वतेन्द्राः।

देवेन्द्रैर्मौलिरत्नैः प्रणमितचरणस्यास्य विश्वैकबन्धो

रौत्येषा हन्यमाना यतिषु शुभविदः शाक्यसिंहस्य गण्डी॥ १६॥



कीर्तिर्नाथ प्रमथकमनङ्गोऽस्तु वा तत्त्वदीया

दीनानाथोद्धरण पुरतो गीयते मारशत्रोः।

खिन्दं खिन्दं खिखिन्दं खुद खुद सुखदं दत्तके दत्तुतुन्दं

तुन्दं तुन्दं तुतुन्दं ध्वनिपटुपटहैः सिद्धगन्धर्वनागैः॥ १७॥



मारैर्नानाप्रकारैर्विकृतशतमुखैर्भूरिवक्त्रैर्ज्वलद्भि-

र्भीमैरट्टाट्टहासैः पललकवलितैः सिंहनादं नदद्भिः।

कालाकारैरनेकैर्गहनभयकरैः सर्वतो भीषयद्भि-

र्व्याप्तं चेतो न यस्य क्षणमपि नियतं मारभङ्गः स वोऽव्यात्॥ १८॥



राजा निष्कण्टराज्यो भवतु वसुमती सर्वसस्याभिपुर्णा

काले वर्षन्तु मेघा व्यपगतविपदः सन्तु लोकाः समस्ताः।

वीहारे कर्मपूर्णं यदखिलनृणां सर्वविध्नोपशान्ति-

रन्योन्यप्रीतिभावाद् भवतु सुखमयो वीतरागार्यसङ्घः॥ १९॥



शास्तुः सद्धर्मरत्नं सुगतवरसुतान् प्रेरयन्ती विशुद्धयेद्

रागद्वेषैर्विमूढान् विषमपथगतान् रावयन्ती जयन्ती।

सत्त्वानुत्तारयन्ती प्रशमशरशतैर्विद्यमानार्थवन्तं

शास्तुः संप्रीतिहार्यं विविधवररुतैः शान्तिकारी जनस्य॥ २०॥



स्फेटन्तं वारनार्या विकटगणघटाट्टाट्टहासं नदन्तं

खेलन्तं विस्फुरन्तं ज्वलदनलशिखाकान्तलीलां ददन्तम्।

भन्तं प्रेमप्रकामं स्फुटदुरुवचसं कामधात्वीश्वरत्वं

तं वन्दे वन्दनीयं सकलभयहरं बुद्धवीरं सुवीरम्॥ २१॥



संपन्नेऽङ्गुष्ठपद्मे झटिति हृदि तथा कण्ठ एवोपकण्ठे

ढक्कासंकाशतालैःकलपटुपटहैः शङ्खनिर्घोषिघोषैः।

हा हा हुँ हूँ कृता ये झटिति कटकटैर्भीमनादानुमोदैः

क्षुद्रं चेतो न चैतत् सुरवरजयिनो यस्य तस्मै नमोऽस्तु॥ २२॥



गर्जन्तं वाग्विशेषं प्रकटपटुरवैर्दिव्यगान्धर्वशब्दै-

र्नानानागेन्द्रयक्षैः स्तुतिचटुलशतैः पूज्यमाना महद्भिः।

सांख्ये माहेश्वरीयानसुरगुरुतम्.................................

.............................मारभन्ती करकमलगता शान्तिमारारटीति॥ २३॥



दत्त्वा सर्वस्वदानी क्रतुकनकमयं वाराणानां शतं वा

राज्यं पुत्रं कलत्रं स्वतनुमपि शिरश्चक्षुषां वा सहस्रम्।

येना...........................भिरपि शतैर्वत्सराणां व्ययत्वात्

सम्यक्सम्बोधिरग्रा स जयति सुगतः शान्तये सज्जनानाम्॥ २४॥



नानारूपविरूपदृश्यविकृतेर्भूयो ग्रसेद् भूतिभि-

र्बोधैर्योषिति रोधनप्रजनितज्योतिर्ज्वल[द्बन्ध]नैः।

मारस्यानुचरैर्न यस्य सुधियः किञ्चिन्मनः कम्पितं

नृत्यैर्वा सुगतस्य मारजयिनो गण्डी रणत्यद्भूतम्॥ २५॥



यस्या नादं निशम्य श्रवणसुखकरं यान्ति तृप्तिं समन्तात्

प्रेता भूमीमुखाद्याः पृथुतरवपुषः क्षुत्पिपासाभिभूताः।

सम्यगभक्त्या प्रसन्नैः सुरनरवपुषैः श्रूयते चातुरैर्या

सा गण्डी पातु विश्वं दशबलबलिनस्तस्य माना मनोज्ञा॥ २६॥



नानावाद्यकरीन्द्रवाजिमहिषव्याघ्रादिशब्दैर्युतं

चञ्चत्कुन्तसुबाणतोमरगदाचक्रादिशस्त्रोद्यतम्।

भग्नं सैन्यमनेन योधसहितं मारस्य येन क्षणात्

तस्येयं करुणानिधेर्भगवतः पायाज्जगद् गण्डिका॥ २७॥



धर्मे संरम्भचित्ताः प्रभवहतविधिः पापतः सर्वदैव

दाने शीले क्षमायां पठति सकरुणे सज्जनाः संयताः स्युः।

इत्येवं सर्वसत्त्वान् सुमधुररणितैर्बोधयन्ती विशुद्धा

तन्नः पुण्यैर्वचोभिस्त्रिजगति सकलं बुद्धवीरस्य गण्डी॥ २८॥



शृण्वन्ती सावधाना प्रशमततशराभ्यासनैर्नैव शब्दं

सेन्द्रादानन्दवज्री स्वभुवननृपतेस्तुङ्गवेलेव देवान्।

वन्दीभूतान् मुनीन्द्रान् प्रवचनपटुताकारसंरम्भशब्दै-

र्या गण्डी दण्डघातक्रममनुरणनाद् दुन्दुभीवद् धुनोति॥ २९॥



हुंकारी पद्मयोनिस्त्रिपुरविजयिनो वल्लभः शूलपाणि-

र्विष्णुर्यद् वज्रपाणिः सुरपतिरसुरध्वंसनश्चक्रपाणिः।

ये वा चान्ये स्तुवन्ति प्रमतनिजरवे क्षोभभावे किमास्ते

सर्वे तस्याङघ्रिमूले विनयमुपगता गेयमन्त्रं स्तुवामि॥ ३०॥



अज्ञान् सर्वज्ञनाथान् मुनिपदसहितान् भ्रामयन्ती त्रिलोकं

मारांश्चान्यप्रकारैर्विविधभयकरान् त्रासयन्ती समस्तान्।

पापान् प्रोत्सारयन्ती विषयरतिधियः पण्डितान् बोधयन्ती

प्रोच्चैः संरुद्धबोध्यान् प्रवदति भुवने शाक्यसिंहस्य गण्डी॥ ३१॥



व्याघ्रयै दत्त्वा स्वदेहं गुणशतनिवहं पुण्यसम्भारलब्धं

बुद्धत्वं यः प्रयातः प्रतिहतदुरितो मन्मथोन्मादनार्थी।

शास्ता यश्चाद्वितीयो भवभयभिदुरो भिन्नपापाभिसन्धि-

स्तस्येयं वै विचित्रा स्तनति भगवतः शाक्यसिंहस्य गण्डी॥ ३२॥



मायादेव्याश्च कुक्षौ जनितजिनवरः शाक्यसिंहो मुनीन्द्रो

भूम्नि प्रायात्तु मध्ये प्रवरसुमुनिना लोकवृक्षस्य मूले।

देवेन्द्रब्रह्मरुद्रासुरनरविबुधैः स्नापितो यः स देव-

स्तं वन्दे भक्तिरत्नैः शशधरकिरणाक्षोदिदेहं मुनीन्द्रम्॥ ३३॥



मारैर्नानाप्रकारैरसिपरशुधनुर्बाणहस्तैर्ज्वलद्भि-

र्भीमास्यैर्दुष्टदंष्ट्रैर्गजभुजगमुखैः सिंहवक्त्रैः श्ववक्त्रैः।

प्रत्यञ्चेनोनमस्य क्षणमपि शमितस्तस्य बुद्धस्य पादौ

गन्तुं लोकोऽपि सर्वो ध्रुवमिति गतभीश्चैषु गण्डी निनाद्या॥ ३४॥



श्री गण्डीस्तवः समाप्तः।

कृतिरियम् आचार्य-आर्यदेवपादानाम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project