Digital Sanskrit Buddhist Canon

गणेशस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Gaṇeśastotram
गणेशस्तोत्रम्



खर्वं स्थूलतरं गजेन्द्रवदनं लम्बोदरं सुन्दरं

विध्नेशं मधुगन्धलुब्धमधुपव्यालोलगण्डस्थलम्।

दन्तोद्घाटविदारिताहितजनं सिन्दूरशोभाकरं

वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्॥ १॥



हेरम्बः परमो देवः कार्यसिद्धिविधायकः।

सैभाग्यरुपसम्पन्नां देहि मे सुखसम्पदम्॥ २॥



एकदन्तं महाकायं लम्बोदरं गजाननम्।

सर्वसिद्धिप्रदातारं गङ्गापुत्रं नमाम्यहम्॥ ३॥



वन्दे तं गणनाथमार्यमनघं दारिद्रयदावानलं

शुण्डादण्डविधूयमानशमलं संसारसिन्धोस्तरिम्।

यं नत्वा सुरकोटयः प्रभुवरं सिद्धिं लभन्ते परां

सिन्दूरारूणविग्रहं परिपतद्दानाम्बुधाराहृतम्॥ ४॥



उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः

प्रेषन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरामः।

देवः शम्भोरपत्यं भुजगपतितनुस्पर्द्धिवर्धिष्णुहस्त-

स्त्रैलोक्याश्चर्यमूर्तिर्जयति त्रिजगतामीश्वरः कुञ्जरास्यः॥ ५॥



गणपतिश्च हेरम्बो विध्नराजो विनायकः।

देवीपुत्रो महातेजा महाबलपराक्रमः॥ ६॥



महोदरो महाकायश्चैकदन्तो गजाननः।

श्वेतवस्त्रो महादीप्तस्त्रिनेत्रो गणनायकः॥ ७॥



अक्षमालां च दन्तं च गृह्णन् वै दक्षिणे करे।

परशुं मोदकपात्रं च वामहस्ते विधारयन्॥ ८॥



नानापुष्परतो देवो नानागन्धानुलेपनः।

नागयज्ञोपवीताङ्गो नानाविध्नविनाशनः॥ ९॥



देवासुरमनुष्याणां सिद्धगन्धर्ववन्दितम्।

त्रैलोक्यविध्नहर्तारमाख्वारूढं नमाम्यहम्॥ १०॥



सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।

लम्बोदरश्च विकटो विध्नराजो विनायकः॥ ११॥



धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।

वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः॥ १२॥



षोडशैतानि नामानि यः पठेच्छुणुयादपि।

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा॥ १३॥



संग्रामे संकटे चैव विध्नस्तस्य न जायते।

विध्नवल्लीकुठाराय गणाधिपतये नमः॥ १४॥



श्रीगणेशस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project