Digital Sanskrit Buddhist Canon

(आर्य)तारास्रग्धरास्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

(ārya)tārāsragdharāstotram

(आर्य)तारास्रग्धरास्तोत्रम्

आचार्य सर्वज्ञमित्रविरचितम्



नमस्तारायै

बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री-

सम्पत्संपर्करागानतिचिररचितालक्तकव्यक्त भक्ती।

भक्त्या पादौ तवार्ये करपुटमुकुटाटोपभुग्नोत्तमाङ्ग-

स्तारिण्यापच्छरण्ये नवनुतिकुसुमस्रग्भिरभ्यर्चयामि॥ १॥



दुर्लङ्‍ध्ये दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीकः

किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः।

श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मी-

मालोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम्॥ २॥



सर्वस्मिन् सत्त्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता

तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम्।

सामर्थ्यं च द्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं

दुःख्येवाहं तथापि प्रतपति धिगहो दुष्कृतं दुर्विदग्धम्॥ ३॥



धिग्धिङ् मां मन्दभाग्यं दिवसकररुचाप्यप्रणूतान्धकारं

तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः।

रत्नद्वीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं

नाथीकृत्याप्यनाथं भगवति भवतीं सर्वलोकैकधात्रीम्॥ ४॥



मातापि स्तन्यहेतोर्विरुवति तनये खेदमायाति पुत्रे

क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः।

त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली

सर्वेभ्योऽभ्यर्थितार्थान् विसृजसि न च ते विक्रिया जातु काचित्॥ ५॥



यो यः क्लैशौघवह्निज्वलिततनुरहं तारिणी तस्य तस्ये-

त्यात्मोपज्ञं प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने।

वर्धन्ते यावदेते परुषपरिभवाः प्राणिनां दुखवेगाः

सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावदेवानुकम्पा॥ ६॥



इत्युच्चैरुर्ध्ववाहौ नदति नुतिपदव्याजमाक्रन्दनादं

नार्हत्यन्योऽप्युपेक्षां जननि जनयितुं किं पुनर्यादृशी त्वम्।

त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनाः प्राप्तकामा

दह्ये सह्येन भूयस्तरमरतिभुवा सन्ततान्तर्ज्वरेण॥ ७॥



पापी यद्यस्मि कस्मात्त्वयि मम महती बर्द्धते भक्तिरेषा

श्रुत्या स्मृत्या च नाम्नाप्यपहरसि हठात्पापमेका त्वमेव।

त्यक्तव्यापारभारा तदसि मयि कथं कथ्यतां तथ्यकथ्ये

पथ्यं ग्लाने मरिष्यत्यपि विपुलकृपः किं भिषग् रोरुधीति॥ ८॥



मायामात्सर्यमानप्रभृतिभिरधमैस्तुल्यकालक्रमाच्च

स्वैर्दोषैर्वाह्यमानो मठकरभ इवानेकसाधारणांशः।

युष्मत्पादाब्जपूजां न क्षणमपि लभे यत्तदर्थे विशेषा-

देषा कार्पण्यदीनाक्षरपदरचना स्यान्ममावन्ध्यकामा॥ ९॥



कल्पान्तोद्भ्रान्तवातभ्रमितजलचलल्लोलकल्लोलहेला-

संक्षोभोत्क्षिप्तवेलातटविकटचटत्स्फोटमोट्टाट्टहासात्।

मज्जद्भिर्भिन्ननौकैः सकरुणरुदिताक्रन्दनिष्पन्दमन्दैः

स्वच्छन्दं देवि सद्यस्त्वदभिनुतिपरैस्तीरमुत्तीर्यतेऽब्धेः॥ १०॥



धूमभ्रान्ताभ्रगर्भोद्भवगगनगृहोत्सङ्गरिङ्गत्स्फुलिङ्ग-

स्फूर्जज्ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः।

त्वय्याबद्धप्रणामाञ्जलिपुटमुकुटा गद्गदोद्गीतयाच्‍ञाः

प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैराध्रियन्ते क्षणेन॥ ११॥



दानाम्भःपूर्यमाणोभयकटकटकालम्बिरोलम्बमाला-

हूङ्काराहूयमानप्रतिगजजनितद्वेषवह्नेर्द्विपस्य।

दन्तान्तोत्तुङ्गदोलातलतुलिततनुस्त्वामनुस्मृत्य मृत्युं

प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरःकोटिकोट्टोपविष्टः॥ १२॥



प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवायां

शून्याटव्यां कराग्रग्रहविलसदसिस्फेटकस्फीतदर्पान्।

दस्यून् दास्ये नियुङ्क्ते सभृकुटिकुटिलभ्रूकटाक्षेक्षिताक्षां-

श्चिन्तालेखन्यखिन्नस्फुटलिखितपदं नामधाम श्रियां ते॥ १३॥



वज्रकूरप्रहारप्रखरनखमुखोत्खातमत्तेभकुम्भ-

श्च्योतत्सान्द्रास्रधौतस्फूटविकटसटासङ्कटस्कन्धसन्धिः।

क्रुध्यन्नापित्सुरारादुपरि मृगरिपुस्तीक्ष्णदंष्ट्रोत्कटास्य-

स्त्रस्यन्नावृत्य याति त्वदुचितरचितस्तोत्रदिग्धार्थवाचः॥ १४॥



धूमावर्तान्धकाराकृतिविकृतफणिस्फारफूत्कारपूर-

व्यापारव्याप्तवक्त्रस्फुरदुरुरसनारज्जुकोनाशपाशैः।

पापात्सम्भूय भूयस्तवगुणगणनातत्परस्त्वत्परात्मा

धत्ते मत्तालिमालावलयकुवलस्रगविभूषां विभूतिम्॥ १५॥



भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेश-

श्चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः।

क्षुत्‍तृट्क्षामोपकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां

यो यायादार्यताराचरणशरणतां स्निग्धबन्धूज्झितोऽपि॥ १६॥



मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्या-

रूपारम्भानुरूपप्रहरणकिरणाडम्बरोड्डामराणि।

त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्यावहन्त्यप्रधृष्यां

प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्रञ्जि रक्षांसि रक्षाम्॥ १७॥



गर्जज्जीमूतमूर्तित्रिमदमदनदीबद्धधारान्धकारे

विधुद्‍द्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे।

रुद्धः सङ्ग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्द्विषद्भि-

स्त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहीमेकवीरः पिनष्टि॥ १८॥



पापाचारानुबन्धोद्धृतगदविगलत्पूतिपूयास्रविस्र-

त्वङ्मांसासक्तनाडीमुखकुहरगलज्जन्तुजग्धक्षताङ्गाः।

युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता

जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीकायताक्षाः॥ १९॥



विश्रान्तं श्रौतपात्रे गुरुभिरुपहृतं यस्य नाम्नायभैक्ष्यं

विद्वद्गोष्ठीषु यश्च श्रुतधनविरहान्मूकतामभ्युपेतः।

सर्वालङ्कारभूषाविभवसमुदितं प्राप्य वागीश्वरत्वं

सोऽपि त्वद्भक्तिशक्त्या हरति नृपसभे वादिसिंहासनानि॥ २०॥



भूशय्याधूलिधूम्रः स्फुटितकटितटीकर्पटोद्‍द्योतिताङ्गो

यूकायूंषि प्रपिंषन् परपुटपुरतः कर्परे तर्पणार्थी।

त्वामाराध्याध्यवस्यन् वरयुवतिवहच्चामरस्मेरचार्वी-

मूर्वी धत्ते मदान्धद्विपदशनघनामुद्धृत्तैकातपत्राम्॥ २१॥



सेवाकर्मान्तशिल्पप्रणयविनिमयोपायपर्यायखिन्नाः

प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः।

दैवातिक्रामणीं त्वां कृपणजनजनन्यर्थमभ्यर्थ्य भूमे-

र्भूयो निर्वान्तचामीकरनिकरनिधीन् निर्धनाः प्राप्नुवन्ति॥ २२॥



वृत्तिच्छेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो

दूरादात्मम्भरित्वात् स्वजनसुतसुहृद्बन्धुभिर्वर्ज्यमानः।

त्वय्यावेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणा-

मीष्टे स्वान्तःपुरस्त्रीवलयझणझणाजातनिद्राप्रबोधः॥ २३॥



चङ्क्रद्दिक्‍चक्रचुम्बिस्फुरदुरुकिरणा लक्षणालङ्कृता स्त्री-

षट्दन्तो दन्तिमुख्यः शिखिगलकरुचिश्यामरोमा वराश्वः।

भास्वद्भास्वन्मयूखो मणिरमलगुणः कोषभृत् स्वर्णकोषः

सेनानीर्वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात्॥ २४॥



स्वच्छन्दं चन्दनाम्भःसुरभिमणिशिलादत्तसङ्केतकान्तः

कान्ताक्रीडानुरागादभिनवरचिताऽऽतिथ्यतथ्योपचारः।

त्वद्विद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः

खङ्गांशुश्यामपीनोन्नतभुजपरिघप्रोल्लसत्पारिहार्यः॥ २५॥



हाराक्रान्तस्तनान्ताः श्रवणकुवलयस्पर्द्धमानाऽऽयताक्ष्यो

मन्दारोदारवेणीतरुणपरिमलामोदमाद्यद्‍द्विरेफाः।

काञ्चीनादानुबन्धोद्धततरचरणोदारमञ्जीरतूर्या-

स्त्वन्नाथान् प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः॥ २६॥



रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमाला-

मुन्मज्जत्पारिजातद्रुममधुपवधूद्धूतधूलीवितानाम्।

वीणावेणुप्रवीणामरपुररमणीदत्तमाधुर्यतूर्यां

कृत्वा युष्मत्सपर्यामनुभवति चिरं नन्दनोद्यानयात्राम्॥ २७॥



कर्पूरैलालवङ्गत्वगगुरुनलदक्षोदगन्धोदकायां।

कान्ताकन्दर्पदर्पोत्कटकुचकुहरावर्तविश्रान्तवीच्याम्।

मन्दाकिन्याममन्दच्छटसलिलसरित्क्रीडया सुन्दरीभिः

क्रीडन्ति त्वद्गतान्तःकरणपरिणतोत्तप्तपुण्यप्रभावाः॥ २८॥



गीर्वाणग्रामणीभिर्विनयभरनमन्मौलिभिर्वन्दिताज्ञः

स्वर्गोत्सङ्गेऽधिरूढः सुरकरिणि झणद्भूषणोद्भासिताङ्गे।

शच्या दोर्दामदोलाविरलवलयितोद्दामरोमाञ्चमूर्तिः

पूतस्त्वद्दृष्टिपातैरवति सुरमहीं हीरभिन्नप्रकोष्ठः॥ २९॥



चूडारत्नावतंसासनगतसुगतव्योमलक्ष्मीवितानं

प्रोद्यद्बालार्ककोटीपटुतरकिरणापूर्यमाणत्रिलोकम्।

प्रौढालीढैकपादक्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णुं

त्वद्रूपं भाव्यमानं भवति भवभयच्छित्त्ये जन्मभाजाम्॥ ३०॥



पश्यन्त्येके सकोपं प्रहरणकिरणोद्गीर्णदोर्दण्डखण्ड-

व्याप्तव्योमान्तरालं वलयफणिफणादारुणाहार्यचर्यम्।

द्विष्टव्यत्रासिहासोड्डमरडमरुकोड्डामरास्फालवेला-

वेतालोत्तालतालप्रमदमदमहाकेलिकोलाहलोग्रम्॥ ३१॥



केचित्त्वेकैकरोमोद्गमगतगगनाभोगभूभूतलस्थ-

स्वस्थब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिद्धगन्धर्वनागम्।

दिक्‍चक्राक्रामिधामस्थितसुगतशतानान्तनिर्माणचित्तं

चित्रं त्रैलोक्यवन्दयं स्थिरचररचिताशेषभावस्वभावम्॥ ३२॥



लाक्षासिन्दूररागारुणतरकिरणादित्यलौहित्यमेके

श्रीमत्सान्द्रेन्द्रनीलोपलदलितदलक्षोदनीलं तथान्ये।

क्षीराब्धिक्षुब्धदुग्धाधिकतरधवलं काञ्चनाभं च केचित्

त्वद्रूपं विश्वरूपं स्फटिकवदुपधायुक्तिभेदाद् विभिन्नम्॥ ३३॥



सार्वज्ञज्ञानदीपप्रकटितसकलज्ञेयतत्त्वैकसाक्षी

साक्षाद्वेत्ति त्वदीयां गुणगणगणनां सर्ववित् तत्सुतो वा।

यस्तु व्यादाय वक्त्रं वलिभुजरटितं मादृशो रारटीति

व्यापत् सा तीव्रदुःखज्वरजनितरुजश्चेतसो हास्यहेतुः॥ ३४॥



यन्मे विज्ञाप्यमानं प्रथमतरमदस्त्वं विशेषेण वेत्त्री

तद्वयाहारातिरेकश्रमविधिरबुधस्वान्तसन्तोषहेतुः।

किन्तु स्निग्धस्य बन्धोर्विषमिव पुरतो दुःखमुद्गीर्य वाचां

ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव॥ ३५॥



कल्याणानन्दसिन्धुप्रकटशशिकले शीतलां देहि दृष्टिं

पुष्टिं ज्ञानोपदेशैः कुरु धनकरुणे ध्वंसय ध्वान्तमन्तः।

त्वत्स्तोत्राम्भःपवित्रीकृतमनसि मयि श्रेयसः स्थानमेकं

दृष्टं यस्मादमोघं जगति तवगुणस्तोत्रमात्रं प्रजानाम्॥ ३६॥



संस्तुत्य त्वद्गुणौघावयवमनियतेयत्तमाप्तं मया यत्

पुण्यं पुण्यार्द्रवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम्।

लोकस्तेनार्यलोकेश्वरचरणतलस्वस्तिकस्वस्तिचिह्ना-

मह्नायायं प्रयायात् सुगतसुतमहीं तां सुखावत्युपाख्याम्॥ ३७॥



श्री सर्वज्ञमित्रविरचितमार्यतारास्रग्धरास्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project