Digital Sanskrit Buddhist Canon

मङ्गलाष्टकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Maṅgalāṣṭakam
मङ्गलाष्टकम्



मञ्जुश्रीर्लोकनाथो जिनवरमकुटो जम्भलो वज्रसत्त्वः

मैत्रेयो वज्रपाणिः सुखकरकमलो राहुलो भद्रपालः।

बुद्धो वैरोचनाद्यस्त्रिभुवननमितः क्षीणनिःशेषदोष-

स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ १॥



हृष्टो हूँकारवज्रः पशुपतिदमको वज्रघण्टा च हृष्टा

पीतो हालाहलास्यो रिपुगणमथनो टक्किराजो महात्मा।

अक्षोभ्यो रत्नकेतुः प्रतिदिनमचलो गण्डहस्तिर्यमारि-

स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ २॥



संघस्त्रैलोक्यबन्धुर्गुणगणनिलयो बोधिचित्तः सुचित्तः

बोधिश्चानन्दसिद्धो विजितकलिमलो हेरुको नीलदण्डः।

बुद्धः सारङ्गराजो विजितजिनगुणो सर्वसत्त्वानुकम्पी

तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ ३॥



प्रज्ञा चन्द्रावतारा तदनुजभृकुटी ज्ञानसंभारभारा

मारीची मारमारा सकलभयहरा पीतवर्णा त्रिवक्त्रा।

मायूरी मामकी च क्षपितरिपुगणा पाण्डरा रोचनाद्या-

स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ ४॥



गान्धारी जाङ्गुली च भुजगहृतफणा खड्गपाशाङ्कुशोग्रा

वाराही वज्रहस्ता असिपरशुधरा धर्मधात्वीश्वरी च।

केयूरी ज्ञानसारा ध्वजनिहितकरा षट्करा शाबरी च

तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ ५॥



वैण्या माल्या सुगीता प्रथितजिनवरे शाबरी धूपवज्रा

वैताली गन्धवज्रा प्रहसितवदना स्वर्गतिरार्यतारा।

लक्ष्मीर्बुद्धस्य बोधिः सकलभयहरा शारदा दीपवज्रा

तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ ६॥



वैशाल्यां धर्मचक्रे प्रथितनिजबले पर्वते गृध्रकूटे

श्रावस्त्यां लुम्बिनीके क्षितिनिहितकरा कोंकणे बोधिवृक्षा।

श्रीवत्साश्वत्थपत्रं सुरवरनमितं श्रीफलं शङ्खचक्रं

तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ ७॥



छत्रं दूर्वा च पद्मं ध्वजमपि निहितं लो(रो)चना मत्स्यकूर्मौ

वाराहः पूर्णकुम्भो मुनिवरवचनं वज्रघण्टानिनादः।

बुद्धानां प्रातिहार्यं सुरवरनमितं हास्यलास्ये विलासा-

स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः॥ ८॥



मङ्गलाष्टकं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project