Digital Sanskrit Buddhist Canon

विक्रमारच्चिवैभवम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2014
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
॥ विक्रमारच्चिवैभवम्॥

श्रीमानयं सिंहलभूमिभागः
स्थितस्तनूजैः सगरस्य खाते।
आभाति कामीव रसेन नृत्यन्
स्पृशन् कुमारीं स्वकरोत्तरंगैः॥ १॥

बुद्धानुपूता त्रिरियं धरित्री
यक्षाधिराजस्य विभीषणस्य।
लंकेश्वरस्य प्रणयावभंगान्
इहैव चक्रे जनकस्य पुत्री॥ २॥

लंकावताराख्य्तमहोपदेशान्
इहैव ताञ् छाक्यमुनिश्चकार।
प्रदीप्यते येषु परानुकंपा
सत्त्वामिषाहारनिषेधयुक्ता॥ ३॥

संयोजयामास विजित्य यक्षान्
इहैव धर्मे विजयो जितात्मा।
इहैव धर्मस्थितिमेत्य चक्रे
रत्नैर्महेन्द्रः सहितो भगिन्या॥४॥

विहृत्य भूमाविह कालिदासः
कुमारदासस्य सखा सुमेधाः।
कायान्तरं प्राप विनापराधं
रम्यां समस्यां परिपूर्य हन्त॥ ५॥

कुमारदासः सुहृदं विपन्नं
दृष्ट्वेह नान्यत्प्रतिकार्मत्र।
तनुं स्वकीयां दहने चितायां
क्षिप्त्वानृणी मित्रऋणाद् बभूव॥ ६॥

लेखार्पितोऽत्रास्ति जिनस्य धर्मो
यो मूलव्चा म्गगधेषु दिष्टः।
व्याख्यासु सम्यग् विवृत्तोऽत्र पूर्वं
स बुद्धघोषानुवचःसु भाति॥ ७॥

रत्नाकरे तिष्ठति भूमिरेषा
रत्नैः समृद्धा विविधरिमहार्थैः।
मनुष्यरत्नैरपि चास्ति पूर्णा
नानाप्रकारैरपदानवद्भिः॥ ८॥

ग्रामैरनेकैर्नगरैश्च रम्या
नानाविधोद्यानवनैः सनाथा।
दिवं हसत्येकपुरेण युक्तां
वनेन चैकेन समीक्ष्य दीनाम्॥ ९॥

ग्रामाः फलाड्यैस्तरुभिर्मनोज्ञा
लताभिरिष्टाः सुकुमानिव्ताभिः।
प्रिया दृशोः स्वैर्हरितैः प्रदेशैर्
उपर्युपर्येव पुराणि सन्ति॥ १०॥

ग्रामे गृहणां खलु संनिवेशाः
कृताः प्रकृत्यैव सुखाधिवासाः।
यद्दर्शनादेव जनास्तु पौरं
गर्हन्ति सौख्यं बहुयत्नसाध्यम्॥ ११॥

ग्रामेषु वै रम्यतमंव् अदन्ति
नेदुंगमूवाख्यमिहाद्य लोकाः।
नास्त्येव चान्यो मदिति प्रकृष्तं
तदाहुरेतस्य निरुक्तमेव॥ १२॥

पूगै रसालैरथ नारिकेलैः
फ्लैर्मनोज्ञैरिह कन्दलीनाम्।
व्याप्तस्तथा यो विपुलैर्विशालैर्
निजां समृद्धिं पनसैरिहाह॥ १३॥

सुभिक्षमेवात्र विवर्तमानं
सदेति मन्ये कथयन्ति हर्षात्।
श्यामायमानानि विनैव वाचं
क्षेत्राणि शालिप्रभवाणि यस्य॥ १४॥

हरन्ति चित्तं सततं हि यूनां
यस्मिन्वासान वसने मनोज्ञे।
रम्यावभासा वयसा नवेन
श्यामाश्चलन्त्यः पथि सापदेशम्॥ १५॥

व्रतेन शुद्धे वसने शरीरे
जिनालयं नक्तमुखे प्रयाताः।
भक्त्यर्द्रचित्ता अपि न त्यजन्ति
कटाक्षपातं युवतौ युवानः॥ १६॥

वयःप्रकर्षेऽपि विलोक्य यूनोः
कयोश्चिदुत्कान् रमणीयभावान्।
हृष्टो भवत्येव जनोऽनुरागात्
पत्राणि शुष्कस्य रसेन नूनम्॥ १७॥

बोधौ स्थिते कश्चन दीपपात्रे
दशा निधत्ते सहिता अनेकाः।
मन्ये तदुद्भूतवरप्रकाशे
समीक्षितुं स्वां दयितां चलन्तीम्॥ १८॥

त्यक्त्वा प्रियांयो सुगतोऽत्र जातस्
तं वन्दितुं कान्तप्रभिप्रयातम्
अन्वेति काचिद् वनिता भयेन
प्रियं निवृत्तं विदधातुकामा॥ १९॥

इहास्ति यावद् विधृतं शरीरं
तावन्न कार्यस्य समाप्तिरस्ति।
एह्येहि यावः सुगतालयेषु
चित्तं क्षणं शुद्ध्यति येन तत्र॥ २०॥

दृष्ट्वा पवित्रं जिनमूर्तरूपं
नवो स्थितस्यान्स्ति न सोऽत्र लोके
यावस्ततो वै सुगतालयेषु॥ २१॥

शीलग्रहात्पापमपैति पूर्वं
नवं तथोदेति सदैव पुण्यम्।
इतीह चित्तेन परानुरक्त्या
लोकाः क्षणे शीलमुदाहरन्ति॥ २२॥

धर्मक्षणः स्वल्पतमोऽत्र लोके
क्षणो विवादस्य महाप्रमाणः।
धर्ने-धने गच्छति सर्वमायू
रोगैश्च दोषैश्च जने जनस्य॥ २३॥

इति प्रबोध्य स्वसखं वचोभिस्
तत्त्वान्न चान्यद्धृदि भावयन्तम्।
जिनालयं कर्षति कश्चिदुत्कः
स्वां प्रेयसीं दर्शयितुं छलेन॥ २४॥
(पंचभिः कुलकम्)

लालित्यभावानुपतिष्ठमाना
धर्मापदेशादपि ये युवानः।
कथं न शृंगारयुतानि कुर्युर्
दिनानि लब्ध्वा कुसुमाकरस्य॥ २५॥

निगूढरूपेण सदा वसन्तो
विराजते यत्र समृद्धशोभः।
व्यक्तिं समायाति कदाचिदेव
स आम्रराजीषु कुहूरुतेन॥ २६॥

प्रावृड्भ्रमानेव तनोति देवो
वर्षन् मुहुर्यत्र सुरेन्द्रचापः।
आपः प्रणीताः सुलभा यथा स्युर्
भुवीह दिव्यं रसमावहन्त्यः॥ २७॥

वसन्तवर्षोदयधर्षितानाम्
ऋत्वन्तराणां ललितं क्षणेषु।
काकस्य तालेन समागमस्य
विलोक्यते यत्र समानमेव॥ २८॥

हिमं विजित्यैव शरत् प्रकाशा
शालिप्रभाभिर्भवतीह लक्ष्या।
वसन्तभावेन विभिन्नभावा
रम्यानुभावाम्ररसैर्विनापि॥ २९॥

वेलुन्परेरामथ सारनोनां
दोनां महाधर्मवतीं प्रतीत्य
ग्रेब्रीलयोऽनेहसि तादृशेऽत्र
स विक्रमारच्चिकुलेऽवतीरणः॥ ३०॥

निध्यष्टवस्विन्दु (१८८९) तमेऽत्र वर्षे
मासे निधौ स द्विजराजकान्तः।
ख्रीष्टे भवन्मातृमुदं ततान॥ ३१॥

स्तनंधयो मातृकरावलम्बी
ख्याता लृतं वा ऋतमाप्य कर्णे।
मन्येऽक्षराम्नायगणे तदर्थं
विधिरॢकारं पृथगुद्दिदेश॥ ३२॥

श्रुत्वा महाप्राणमयं हि वक्तां
प्राणैर्यदल्पैर् घझढ्ध्भथादि।
सरस्वती तेन ततान वाचं
स्वल्पासुयुक्तामिह सिंहलानाम्॥ ३३॥

वोहे लिखन्नंकलिपी स बाल्ये
मेरुं पठन्नंकमयं विशुद्धम्।
चकार तोषं सततं विनेतुः।
पितुश्च मातुश्च मुदं दधानः॥३४॥

वदन् विरेजे ध्वनिभिः स्वभाषां
देश्यैः समृद्धां समतद्भवैश्च।
स्वान्ते स्थितानीह सुभाषितानि
समुद्गिरन्मुग्धतनुर्बभासे॥ ३५॥

ग्रामे गुरूणां हि मितेन वाचां
परिष्कृतात्मा वयसा नवेन।
प्राप्तुं विशेषं विहिताभिलाषो
विद्योदयं धाम समाजगाम॥ ३६॥

हिक्कड्डुवास्तव्यमुदाररूपं
सुमङ्गलं मङ्गलमावहन्तम्।
समेत्य विद्याधिगमेन चक्रे
स्व मानवन्तं च विमानवन्तम्॥ ३७॥

वैद्योत्तमो यो मनसो रुजानां
धर्मान्वयः शाक्यकुलावतंसः।
वचांसि तस्यात्र महार्थवन्ति
प्रयत्नपूर्वं हृदये दधार॥ ३८॥

आत्रेयमुख्यैर्मुनिभिः प्रदिष्टं
यद् वैद्यकं लोकहितैकशास्त्रम्।
स्पृहास्य तस्मिन् नितरां बभूव
सदर्थकारिण्यतिसौखसाध्ये॥ ३९॥

वाचं स्वदेशप्रभवां जनार्थां
जग्राह लालित्यगुणैः सनाथाम्।
प्रवक्तुमेवाधिगतां स्वविद्यां
वैद्यानुभावेन विशोभमानाम्॥ ४०॥

गृहीतविद्यो वयसोत्तमेन
तारोनसंख्येन शरद्गणेन।
विभ्राजमानोऽधिजगाम रम्यां
धियो विवृद्ध्या किल पंडिताख्याम्॥ ४१॥

लब्ध्वा पदं नोपजगाम गर्वं
प्रारम्भमालोक्य न शास्त्रपारम्।
समुत्पतन्तं खगवत्स्वमैक्ष्य
नीलावभासं गगनं जिगृक्षुः॥४२॥

सारस्वतं मार्गमपूर्वमेतं
संप्रस्थिताः सन्ति जना असंख्याः।
अवाप्त्यवान् किं तु जनो न कश्चिन्
न चाप्यवाप्स्यत्यखिलेन संख्याम्॥४३॥

एकादि दृष्टं गणितं शिशूनाम्
अन्तं परार्धेऽपि च कल्पयति।
बुधा वदन्त्यत्र न तस्य चादिं
न वस्तुतोऽन्तं कथयन्ति धीराः॥ ४४॥

भूतादि तत्त्वं गणयन्ति येऽत्र
तद् द्रव्यतस्ते समुदाहरन्तः।
अणुं विलोक्यान्तत एव भंगं
सविस्मयं शून्यमुखा भवन्ति॥ ४५॥

विज्ञानमादिं कथयन्ति तत्त्वं
ये सुप्रवीणा मनसा दृढेन
बहिस्त्वविज्ञानमिदं हि सर्वं
विलोक्य ते यान्ति सुषुप्तिमेव॥ ४६॥

शब्दादि तत्त्वं कथयन्नपीह
जगद् विलोक्यार्थमयं समस्तम्।
अपामलाभाद् भवतीह मूढो
जपादप्वां शब्दमयात्मवादी॥ ४७॥

दोषादि तत्त्वं वपुषो वदन्तं
प्रत्यक्षतस्तन्न हि दर्शयन्तम्।
धन्वन्तरिं चापि विलोक्य तूष्णीं
विद्यान्तचर्चामिह को विदध्यात्॥ ४८॥

न शास्त्रपारं हृदये विभाव्य
तस्यैकदेशेन विलोक्य यात्राम्
कर्तुं प्रयोगं स्वधियां समस्तं
स लोकमार्गप्रवणो बभूव॥ ४९॥

दृष्ट्वा मर्हत्त्वं तु लिबिंकराणां
परिक्षणे चात्र लिबिंकरीये।
यत्नात् समुत्तीर्य सुधीर्बभूव
लिबिंकराणां हि गणेऽद्वितीयः॥ ५१॥

विधातुकामे भिषजां हिवृत्तिं
तत्त्वेन वेत्तुं भिषजां हि विद्याम्।
व्यातान् न लोके भिषजां स्थितेन
जगाम बङ्गान् भिषजां प्रवालः॥ ५२॥

निजाननैराशु समन्वितानां
गंगामुखानां रसमाददान्तः।
जलधिनानाथो विहरन् विभाति
यस्मिन् प्रदेशे सततोत्तरंगः॥ ५३॥

गंगापयोनाथसमागमेऽस्मिन्
कृताभिषेकानबुधानपीन्द्रः।
स्वर्गद्वारि सर्वैर्विबुधैः समेतः
पुण्यागतं तिष्ठति वक्तुकामः॥ ५४॥

सरोजषण्डैः समलंकृतानि
शृंगाटकैः श्यामवपुष्टमानि।
विहंगमानां कलुकूल्ह्तेन
शब्दायमानानि सरांसि यत्र॥ ५५॥

जीवज्झषैर्यत्र च पुष्करिण्यः
समृद्धिमाख्यान्ति मृणालजाः।
भद्रान्वयानां विपुलाः पयोभिर्
गृहे-गृहे स्वां स्थितिमादधा॥ ५६॥

तस्मिन्मनोहारिणि देशभेदे
पुरीं विशालां बहुरूपशालाम्।
शंभुप्रियावासविशेषकान्तां
स कालिकात्तां सुखमध्युवास॥ ५७॥

संवत्सराणामिह पञ्चभिः स
कर्माणि पञ्च प्रगुणीचकार।
समस्तशास्त्राधिगमं च कृत्वा
यत्नैः कृती साधुमतिर्भभूव॥ ५८॥

श्रीयामिनीभूषणरायनामा
भिषग्वरेण्यः प्रवदत्सु धीरः।
गुरुर्भभूवास्य लघूद्ग्रहीतुर्
विद्याप्रकर्षेण विभासमानः॥ ५९॥

स सुश्रुते सुश्रुतवान् बभूव
पटुत्वमाप्तश्चकरे समग्रम्।
क्रियाविधौ शास्त्रमतौ विवेकी
यत्नादथो वाग्भटतां दधार॥ ६०॥

द्वात्रिंशतैवं वयसा सनाथो
बभौ भिषग्रत्नपदाभिधेयः।
रत्नानुभावेन परिष्कृतात्मा
बभूव दोषोद्धरणाय शक्तः॥ ६१॥

शक्तोऽथ भक्तः प्रणनाम तत्तत्
पदं हि यस्मिन् भगवान् विहृत्य।
लोकेषु कारुण्यमना दिदेश
वृतः स्वशिष्यैः कुशलं स्वधर्मम्॥ ६२॥

पुण्या गया या मगधेषु दिष्टा
जनेषु यत्पादरजोऽभिमृष्टा।
वंद्यां महाबोधिमहीरूहेण
तां वंदमानः स सुखी बभूव॥ ६३॥

यस्मिंस्तरौ शक्यकुलावतंसो
जहार मारस्य मदान्धभावम्।
बुद्धाभिधामाप्य बभूव शास्ता
ननाम तं नम्रतरान्तरात्मा॥ ६४॥

न कापि यस्यात्र गतिर्नृलोके
गतिः शिवा तस्य सुखं भवन्ती।
वाराणसी नाम पुरी पवित्रा
दृष्टाथ तेनैत्य बुधैः सनाथा॥ ६५॥

परिक्रमं कर्तुमशक्नुवानः
सर्वा विशालां भरतस्य भूमिम्।
पश्येदिमामेव ससर्ज यत्नाद्
धाता पुरीं तत्प्रतिबिम्बरूपाम्॥ ६६॥

पूरीसमीपे सुगतोपदेशात्
सारेण धर्मस्य सनाथभावात्।
रुद्रो निवासं न विमुच्य याति
बुद्धस्य भक्त्या किल सारनाथः॥ ६७॥

एतां परिव्त्रा मृषिपत्तनाख्यां
स्थलीं हि गत्वा मृगदावरभ्याम्।
नमन्नतेनापि निजेन मूर्ध्ना
समुन्नतः सोऽतितरां बभासे॥ ६८॥

कुशीनगर्यां सुगतस्य चान्त्यां
लीलाभुवं प्राप्य पवित्रचेताः।
लुठन् धरित्र्यां प्रणतैः स्वगात्रैः
भक्त्या ववर्षाश्रु परिस्रुतात्मा॥ ६९॥

एवं पवित्रीकृतचित्तभूमिर्
भूमिं स्वकीयां पुनराजगाम।
गृहीतविद्यो विदिवद्गुरुभ्यो
विद्याप्रसाराय गृहीतसर्गः॥ ७०॥

गम्फापुरे वैद्यकपीठमाद्यं
ह्यधिष्ठितं स्वप्रभवं प्रवीणम्
दिग्भ्यश्चतुर्भ्यः समुपेत्य शिष्याः।
समन्ततस्तं परिवार्य तस्थुः॥ ७१॥

विद्याविनीतैरिह सोऽद्य शिष्यैः।
सुकीर्तिमान् सर्वधनैरुपेतः।
संशोधकानां चरकस्य चैकः
सभ्यः सभायां नृपतेर्बभूव॥ ७२॥

श्रीदासगुप्ताधिकृतेऽधिकारी
स्वजीवने गान्धिपदानुसारी।
विद्योदयादाप्य पदे गुरुत्वं
विरोचते वैद्यकचक्रवर्ती॥ ७३॥

भुङ्क्तां स लोके बहुशः सुखानि
दिव्यानि वा यानि च पार्थिवानि।
युङ्क्तां स्वचित्तं सुकृतेन नित्यं
जीवन् धरित्र्यां शरदां शतानि॥ ७४॥

प्रज्ञायां चावदाने सततमतुलिते सिंहलद्वीपभूमौ
विद्यालंकारनाम्नि प्रथित इह परे चाश्रमे सौगतानाम्।
श्रीधर्मानन्दपादैः श्रमणवरमते दीक्षितस्य द्विजातेर्
एतद् वै शान्तिभिक्षोर्नृषु भवतु मुदे विक्रमारच्चिपद्यम्॥ ७५॥

इति सिंहलेषु भार्यासुताभ्यां सह प्रोषितस्य भदन्तश्रीधर्मानन्दनायकपादशिष्यस्योत्तरभारते कोसलेषु लक्ष्मणपुरान्तिकबीबीपुरग्रामवास्तव्यस्य लाइप्छिग्विश्वविद्यालयाल्लब्धडोक्टरपदवीकस्य विद्यालंकारविश्वविद्यालये संस्कृतमहाचार्यस्य पण्डित-श्रीशान्तिभिक्षुशास्त्रिणः साहित्याचार्यस्य कृतिर्विक्रमारच्चिपद्यम्। शुभम्। गतबुद्धाब्दाः २५१०॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।
तेषां च यो निरोध एवंवादी महाश्रमणः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project