Digital Sanskrit Buddhist Canon

लोकेश्वरस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Lokeśvarastotram
लोकेश्वरस्तोत्रम्



नानाकृतिं सुकृतिनं जगतः शरण्यं

लोकेशकेशवहरात्मधरैरवश्यम्।

संसारसागरतरं कमलायताक्षं

श्रीलोकनाथविबुधं शुभदं भजामि॥१॥



रक्षाकरं सकलभीतिवतां जनानां

वामाननं कनककुण्डलचारुकर्णम्।

ग्रैवेयकादिमणिकाभरणेन शोभं

श्रीलोकनाथविबुधं शुभदं भजामि॥ २॥



भक्त्या नतस्य मनुजस्य विपद्विरामं

स्वर्गापवर्गफलदं वरदं दयालुम्।

देवाधिदेवममरं जिनसंघवन्तं

श्रीलोकनाथविबुधं शुभदं भजामि॥३॥



सन्तप्तरूपतिलकं तिलकं सुराणां

रत्नाकरं कनककुन्तकशोभहस्तम्।

भ्राजिष्णुमाभरणधारणदिक्प्रदं तं

श्रीलोकनाथविबुधं शुभदं भजामि॥ ४॥



दुर्गन्धदुर्गतिहरं दुरितापहारं

दुर्भिक्षनाशकरणं करुणाकरं तम्।

विद्याप्रदं गुणनिधिं शुभशुद्धदेहं

श्रीलोकनाथविबुधं शुभदं भजामि॥ ५॥



इत्थं वरं सकलभूतगणाधिनाथं

त्रैलोक्यनाथममरैरपि वन्द्यमानम्।

एवं क्वचिद् रथवरे सुखसंप्रविष्टं

श्रीलोकनाथविबुधं शुभदं भजामि॥ ६॥



यक्षादिकिन्नरनरैर्मुनिभिश्च नागै-

र्विद्याधरैः सुरगणैर्दनुजैः पिशाचैः।

सर्वोपकारनमितं पुटिता ग्रहस्तैः

श्रीलोकनाथविबुधं शुभदं भजामि॥ ७॥



गन्धादिचन्दनयुतं मृगनाभिभिश्च

कर्पूरकुङ्कुमवरैर्हरिचन्दनैश्च।

तस्यानुलेपनकृतेन सुशोभिताङ्गं

श्रीलोकनाथविबुधं शुभदं भजामि॥ ८॥



रोगादिनाशनकरं भजतां सुनाम

शोकादिदुःखहरणं सुखचिन्तनीयम्।

पीयूषतुल्यवचनं मृदुजातगात्रं

श्रीलोकनाथविबुधं शुभदं भजामि॥ ९॥



आजानुलम्बितकरं गजराजमध्यं

सौन्दर्यकुण्डशिखरं स्फटिकाभदन्तम्।

अत्यन्तसुन्दरतनुं शुभलक्षणाङ्गं

श्रीलोकनाथविबुधं शुभदं भजामि॥ १०॥



ये लोकनाथस्य सदा सुरभ्यं स्तोत्रं पठिष्यन्ति जना सभावाः।

श्रीलोकनाथोऽपि तदीप्सितार्थं स्वहस्तग्रस्तस्त्वरितं ददाति॥ ११॥



श्रीलोकेश्वरस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project