Digital Sanskrit Buddhist Canon

लोकेश्वरशतकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Lokeśvaraśatakam

लोकेश्वरशतकम्

वज्रदत्ताचार्यविरचितम्



ॐ नमो लोकनाथाय।



भास्वन्माणिक्यभासो मुकुटभृति नमन्नाकनाथोत्तमाङ्गे

भक्तिप्रह्वे सरोजासनशिरसि हसन्मालतीमालिकाभः।

मौलौ मीलन्मृगाङ्गामकृशकपिशतां शाम्भवे शातयन्त्यो

लोके लोकेशपादामलनखशशभृत्कान्तयः सन्तु शान्त्यै॥ १॥



निर्धूता धूर्जटीन्दोर्न खलु पटु जटापिङ्गमासङ्गशारैः

सारैरारान्मयूखैर्न च हरिमुकुटामन्दमाणिक्यभाभिः।

कालिम्नो नापि लीना विबुधगणललत्कुन्तलालीनलीना-

ल्लोकेश्वर्योऽनिवार्याश्चरणनखरुचः सन्तु वो ध्वान्तशान्त्यै॥ २॥



पर्याप्तोदारकोषस्फुटतरकमलाभोगसंपत्तिहेतु -

र्दूरीभूतप्रियाणामपहृतविषमातङ्कशङ्का जनानाम्।

न क्षिप्तालङ्घनैरप्युपशमिततमोदुर्ग्रहोद्भूतभीति-

र्लोकेशाङ्घ्र्योरपूर्वा नखशिशिररूचां चन्द्रिका वः पुनातु॥ ३॥



निःशेषं क्लेशराशीन्धनदहनमहापावकोच्चैः शिखा वो

लीलालोकास्त्रिलोक्यामपहृतगहनाबद्धमोहान्धकाराः।

वह्निस्कन्धेष्वबन्ध्या नरकभुवि सुधावारिविस्तारधाराः

संसारीं संहरन्तां नखनिवहरुचः पद्मभृत्पादजाताः॥ ४॥



स्वच्छन्दच्छेदिवाञ्च्छावितरणचतुराचिन्त्यचिन्तामणीनाम्

उद्गाढातङ्कशङ्कोद्गमशमनमनोहारिणी हारभासाम्।

स्पष्टाविर्भूतनानागुणनिवहधृतादर्शबिम्बच्छवीनां

छाया वः पातु लोकेश्वरचरणभुवामुन्मयूखा नखानाम्॥ ५॥



नाथस्योदञ्चदुच्चामितरुचिरुचिभी रोचमानोरुचूडा-

रोचिष्णोरुच्चकासच्चरणनखरुचां संचयोऽसौ चिरं वः।

अत्युच्चीयात् तदर्चाचतुरसुरशिरश्चारुरत्नोच्चयोच्चै -

र्नानानिश्चारिरोचिश्चयरचितशचीरुच्यचापोपचारः॥ ६॥



श्रीमद्भोगोन्नतीनामभिमतविषयप्राप्तिदानादहीनां

सेवाभाजां समन्तादविचलितरुचः प्रीतिमुत्पादयन्तः।

वैमल्यातुल्यबिम्बोपहसितशशिनः शातितध्वान्तदोषा -

स्तोषं माणिक्यदीपा इव ददतु नखाः पद्मपाणेः पदोर्वः॥ ७॥



राजद्राजीवपाणेर्नखनिवहरुचां पादपद्मोद्भवानाम्

उद्भेदो भेदकोऽसौ भवतु भवभियां निर्भराणां भरं वः।

जातस्तद्देहभूमेचविरतकरुणावारिदत्तोपकारो

योऽनल्पः कल्पवृक्षाङ्कुरनिकर इवोपात्तविज्ञानबीजः॥ ८॥



लोकेशस्याङ्‍घ्रिपद्मप्रभवनखरुचो दत्तमारारिसेना-

संत्रासाः शोणतूणोन्मुखनिहितफलामोघबाणांशुशोभाः।

शश्वत्संसारघोरावटपतितजनोत्तारणासज्जरज्जु-

प्रारोहा रोहयन्तां दुरधिगममहासंपदुच्चैः पदं वः॥ ९॥



भास्वन्तः क्लेशकर्मश्रमविवशजगत्तापविच्छेदशूरां

दूराद्दोषोपलब्धेः पटुबुधगुरवस्तारका ये जनस्य।

सान्द्रानन्दं ददानाः सकलशशधरश्रीभृतो निष्कलङ्का-

स्ते वश्चिन्तामचिन्त्याः कमलकरनखाः पादजाता जयन्तु॥ १०॥



भास्वत्खण्डेन्दुखण्डैरपचितिरचना किं कृता शम्भुनेयं

न्यस्ता रत्नावली वा किमु निरतिशयोत्कण्ठया बोधिलक्ष्म्या।

देवैर्दिव्याद्भुतानामसमसुमनसां लम्बिता मालिका नु

प्रीयात्पङ्‍क्तिर्नखानामिति जनितमतिर्लोकनाथाङ्‍घ्रिजा वः॥ ११॥



क्वायं राजीवजन्मा नमदमरशिरस्तुङ्गमाणिक्यशय्या -

शश्वत्सुप्ताङ्‍घ्रिरेणुः क्व च धरणितलालम्बमौलिप्रणामः।

इत्थं संजातहासा इव रुचिनिचयैर्दन्तुरा ये दुरन्ता

ध्वान्तच्छेदाय लोकेश्वरचरणभवास्ते नखा वो भवन्तु॥ १२॥



शूरास्तापापहारे शिशिरतरसुधाशीकरासारकाराः

प्राकाराः क्रूरदूरप्रसरदुरुशरासारमारापकारे।

संसाराकारकारागृहबृहदुदरोदारदुःखप्रकारं

घोरं वः संहरन्तां चरणनखरुचः श्रीकराः पद्मपाणेः॥ १३॥



भासो लोकेशपादप्रभवनखभुवां दूरदुर्वारमार-

व्यामुक्तव्यापिबाणावरणजवनिकाभ्रान्तिमुत्पादयन्त्यः।

संक्लेशानीकनाशस्फुटपिशुनमहाकेतुसंघातकल्पा -

स्त्रैलोक्याशक्यशक्तित्रिभवजयबृहद्वैजयन्त्यो जयन्ति॥ १४॥



सम्यक्संबोधिचेतः शशिन इव समुद्भासिभासां समूहो

निर्दग्धक्लेशभूतिप्रचय इव बृहन्मुक्तिमार्गानिलास्तः।

विन्यस्तादभ्रशुभ्रोपलफलक इव क्रूरमारैरभेद्यः

पायादुत्प्रेक्षितो वो नखरुचिनिकरः पादजः पद्मपाणेः॥ १५॥



वैलक्ष्येणेक्षणीयाः क्षणमसमतमःक्षेपदक्षाः क्षपाणां

नाथेनाक्षुण्णपक्षक्षतिनिजविपदा निष्कलङ्काक्षया ये।

अक्षीणारातिपक्षक्षपणपटुजगद्रक्षणाक्षुण्णदीक्षा-

रक्षा रक्षन्तु लोकेश्वरचरणनखास्तेऽक्षणक्षेपतो वः॥ १६॥



सत्संपत्साधनस्य प्रवरकमलभृत्पाददुर्गाश्रयस्य

त्रैलोक्यश्रीजिगीषोर्नखरुचिनिवहस्यातुलोऽभ्युच्चयो वः।

मित्रेणाप्तोदयेन स्फुटमनुवलतालम्भितात्यन्तवृद्धेः

पायात् सापायसर्वव्यसनरिपुमहायानसंसिद्धिहेतुः॥ १७॥



अव्रीडश्चूडयाऽसौ वहति पशुपतिः काममर्धेन्दुभूषां

शौरेः शोभाभिलाषः कथमपि कृतिनः कौस्तुभेनास्तमेति।

दृष्टेऽस्मिन् सोऽपि मोघो मघवमणिमहामौलिरित्याप्तचित्तै-

र्यत्कान्त्याचिन्ति लोकैश्चरणनखगणः पद्मपाणेः स जीयात्॥ १८॥



आरादुच्चैरुदञ्चत्कृतविततिरधस्तारको नारकाणाम्।

उद्यन्नीहाररोचिः शुचिररिवदनश्यामतापातहेतुः।

दुर्विज्ञेयानुभावो निखिलजगदतिस्पष्टदृष्टिप्रकाशः

पादाम्भोजावलम्बी नखकिरणचयः पातु वो बुद्धमौलेः॥ १९॥



दृष्टो हृष्टामरेशार्चनचतुरवधूमुक्तकर्पूरपांशु-

प्रोद्भासो भक्तिभारप्रवणहरजटाभूतिविभ्रान्तभूमिः।

पूजाविक्षिप्तलक्ष्मीकरकमलगलत्केशराग्राणुरेणु-

च्छायः पायादपायान्नखकरविसरः पद्महस्ताङ्‍घ्रिजो वः॥ २०॥



मेरौ निष्पीतपीतद्युतिरमरकरिस्फारसिन्दूरधूली-

शोणश्रीशान्तशूरो हरितहरिहयाहीनहारित्यहारी।

मीलन्नीलावभासो नखरुचिविसरः पद्मभृत्पादपद्माद्

उद्यद्दुग्धाब्धिवृद्धित्रसदमरवधूवीक्षितो रक्षताद् वः॥ २१॥



शोभा संभाव्यतेऽस्मिन् हिमकरधवलैर्नामरैश्चामरैर्वा

भक्त्यारम्भेण रम्भे परिकिरसि मुधा किं नु कर्पूरधूलीः।

किं ते पुष्पैः प्रकीर्णैः शचिशुचिभिरिति स्वामिना स्वर्भुवां वः

पूजायामब्जपाणेर्नखरुचिनिवहः पादजो वर्णितोऽव्यात्॥ २२॥



कैलासोद्भासिविन्ध्ये कवलितबलिजित्कायकालिम्नि काली-

लीलालावण्यलेपे विहतहरितिमश्वेतपूषाश्वरश्मौ।

लोकेशाङ्घ्रेर्नखानामुरुकरनिकरे किं मयेतीव शीर्णं

शीतांशोः पातु पूजाचतुरसुरजनाकीर्णकुण्डच्छलाद् वः॥ २३॥



पादाः पादोद्भवानामतिविततिभृतां बुद्धमौलेर्नखानां

पारे संसारयादःपतिगमनमहासेतुबन्धायमानाः।

उद्यद्दुर्वारदुःखानलशमनमहापुण्यसंभारवारि-

स्वच्छन्दाच्छच्छटाभा झटिति विघटनं कुर्वतां वो भवस्य॥ २४॥



कालीकान्तेन्दुकान्तेः परिभवविधृतिर्भूरिकैलासभूभृद्-

भासां हासावगीतिर्हतिरपि हिमवद्गौरतागौरवस्य।

क्षीराकूपारपूरप्लुतिरपि ककुभां नाकनागीयदन्त-

च्छेदच्छायाक्षतिर्वो नखरुचिविततिः पातु लोकेश्वराङ्घ्र्योः॥ २५॥



यत्पूजापारिजाते वलितमलिकुलं मीलति श्रीसरोजे

सेवासक्तः स्वयंभूर्मुकुलितनलिनाद् दुःस्थितो यत्र तस्थौ।

येनाश्यामा दिनश्रीः शमितसुरवधूक्लान्तिदोषा निशाऽभूत्

पादोऽसौ पद्मपाणेर्नखविधुविलसच्चन्द्रिकः पातु युष्मान्॥ २६॥



कान्तो विभ्रान्तकान्तामरयुवतिजनैरर्चितो दृष्टिपातैः

शुभ्रं विभ्राण्मृणालीनिकरमिव नखोद्योतनोद्भूतशोभः।

कामीवानल्पकामप्रसरपरवशानेकचर्याप्रवृत्तः

पादो वः पद्मपाणेरवतु सुरपुरीचन्दनामन्दचर्चः॥ २७॥



आनन्दामन्दभारोल्लसदमरकरैः पारिजाते विकीर्णे

कालीयः कालकूटोत्कटपटल इव प्रोल्लसद्भृङ्गसार्थे।

श्रेयो वः श्रीर्विधत्तामलममलनखद्योतदुग्धाब्धिमध्याद्

उद्यन्ती पद्मपाणेश्चरणसरसिजस्याच्युतप्रीतिहेतोः॥ २८॥



वाञ्छाविच्छित्तिखेदोच्छलदनलशिखाछेदकच्छोच्छ्र्यो वः

पद्मच्छायानुकारच्छलितमधुकराच्छादनाच्छादितश्रीः।

स्वच्छन्दानच्छमूर्छच्छुचिनखकिरणोच्छूनगुच्छैरतुच्छो

देयात् पादोऽब्जकान्तिच्छुरितकररूचोऽच्छिन्नमिच्छामकृच्छ्रात्॥ २९॥



उद्भूतोद्भासिचक्रद्युतिरमलनखैरद्वितीयोदितश्री-

र्बिभ्राणो लक्षणानां गणमतुलगुणागण्यपुण्योपनीतम्।

निःशेषद्वीपदीपप्रभवदतिमहद्वैभवो बुद्धमौलेः

पायात् पादो नमस्यद्भुवनपतिशिरश्चक्रवर्ती चिरं वः॥ ३०॥



कीर्णैराकाशगङ्गाकनककमलिनीकुड्मलैः को गुणोऽस्मिन्

किं गीतैर्गीतमेव स्फुटसरसिरूहभ्रान्तिभृङ्गावलीभिः।

शक्यं माणिक्यदाम्नामिह रूचिरनखे शोभितुं नेत्यवादीद्

यत्पूजायां सुरेशः स जयति चरणो वारिजव्यग्रपाणेः॥ ३१॥



यो नाथस्यैव नासीदपि खलु सुगतेः कारणं जन्मभाजां

यस्मिन् पद्माभिलाषी न मधुपनिवहः पक्षपाती जनोऽपि।

येनोर्वी नातिगुर्वी नतिमतिगुरुणा लम्भितापि त्रिलोकी

लोकं पादः स पायात् सुगतशशधरद्योतविद्योतमौलेः॥ ३२॥



योऽलीनां पानदानादकृत धृतमुदं संहतिं सेवकानां

यस्मिन्नालं विहीनं न खलु हरिततात्यन्तशोभोपधानम्।

देयाद्वो लौकनाथिश्चिरममरशिरःशायिरेणूत्करोऽसौ

श्रेयः श्रीवासभूमिर्नखकिरणहसत्केशरः पादपद्मः॥ ३३॥



देहद्रोहावहोग्राहितहतिविहितो देहिनां हेतिरीहा-

सिद्धेराहूतिराहो हृतिरतिमहतो बृंहतांहोमहिम्नः।

क्लेशव्यूहाहितेहाहुतिविहितबृहद्द्रोहिदुःखाग्निदाह-

व्यापोहा वाहिनी स्ताद्वहुविहितहिता पद्महस्ताङघ्रिभावः॥ ३४॥



बुद्धालंकारमौलेरविकलकमलभ्रान्तिभृद्भृङ्गमाला

वाचाला निर्विचारा रचयतु चरणोत्सर्पिणी संपदं वः।

सत्त्वत्राणैककार्या स्थिरतरसुचिरावस्थितिस्थापनार्थं

विन्यस्ता शृङ्खलेव प्रचुरकरुणया स्थूलकालायसस्य॥ ३५॥



राजीवान्तःपलाशावलिरुचिरमृदुर्वज्रसारो विसारो

क्रुध्यद्वैरिप्रमुक्तप्रहरणनिवहस्योद्भवद्भङ्गभूमिः।

रक्तो रागोपशान्तेरतिशयबलवत्कारणं तारणायां

संसाराम्भोनिधेर्वः सुगतशशिभृतोऽपास्तखेदोऽस्तु पादः॥ ३६॥



जम्भारेर्जृम्भिताम्भोरुहरुचिरचये चापलेनाप्यलीना

नालं लोलापि लोला हरकरविहितानन्दकुन्दोत्करेऽपि।

भ्राजिष्णौ विष्णुकीर्णे परिमलिनि पुरः पारिजातेऽप्यजात-

प्रीतिर्यत्रालिमाला रमति जिनभृतः सोऽङघ्रिपद्मोऽवताद् वः॥ ३७॥



भूयादुद्भूतभूरिद्युतिनिवहलसत्केशरोद्भासुरो वो

रक्तच्छायानुविद्धोन्मुखनखदशनोद्भासिकान्त्या करालः।

त्रस्यद्दुर्वृत्तवैरिद्विपतरलचलल्लोचनालोकनीयो

लोकेशस्याङघ्रिसिंहः कमलभवजटारण्यशायी शिवाय॥ ३८॥



अच्छीयानप्यनच्छो लघुरपि न लघुर्लङ्घने दिङ्मुखानां

त्रैलोक्यानन्दनोऽपि प्रबलपरपुरव्यापिसन्तापहेतुः।

लावण्यालेपलिप्तोऽप्यतिशयमधुरो वैधुराधेर्निरोद्धा

पादोद्‍द्योतः क्रियाद् वो जिनरूचिविकसन्मालिकाशेखरस्य॥ ३९॥



राजीवै राजराजो हरिरपि हरितैर्हारिभिः पारिजातैः

कुन्दैः सानन्दमिन्दुर्बहुवसुविसरैर्वासवो भासमानैः।

प्रीतः पाशी पलाशैरिति विबुधजनः प्राज्यपूजाविशेषं

यत्रानुप्रासकाव्यायितमतत स वः पातु पादोऽब्जपाणेः॥ ४०॥



भानुर्भासां विकाशे नुतिमकृत नखेषून्मुखो नाकनाथः

शर्वः शाखाग्रपर्वण्यविचलनयनोऽप्यन्तकः प्रान्तकान्तौ।

यस्यासामान्यशोभाविषयमतिशयं द्रष्टुमासीदनीशो

निःशेषं दिव्यलोकः स जयति चरणो बुद्धबिम्बाङ्कमौलेः॥ ४१॥



सम्यक्संबुद्धभानुस्फुटविकटजटापुञ्जकुञ्जोरुमूर्तेः

संसाराम्भोधिमज्जद्गुरुतरजनतामेदिनीस्तम्भनस्य।

भूयाद् भद्राय पादः कमलधरगिरेः सेवितः सिद्धसार्थैः

पर्यन्तोद्वान्तकान्तिस्रवदरुणमहाधातुमन्निर्झरो वः॥ ४२॥



संसाराध्वप्रबन्धश्रमसकलजगत्क्लान्तिसंशान्तिहेतु-

च्छायस्येच्छाफलस्य स्फुटनखकुसुमोद्भासिशाखाभृतो वः।

लोकेशाङघ्रिद्रुमस्य प्रणतसुरजनैर्मौलिमालालवाले

मूले संपादितोऽव्यान्मणिकलशभृतः स्वच्छधामाम्बुसेकः॥ ४३॥



संमूलक्लेशजालप्रबलरिपुबलोन्मूलनस्थूललाभा-

ल्लब्धोल्लासो विलासी बलविजयिलसन्मौलिलीलालयो वः।

पाद पायादतुल्यामलकमलभृतोऽलीकफुल्लाब्जलोभ-

व्यालोलानल्पलापोल्लसदलिपटलाल्लुप्तसंगीतिलोलः॥ ४४॥



त्रैलोक्यैश्वर्यलक्ष्मीचपलकरिवधूसंयमालानदण्डः

कष्टक्लेशाहिदष्टस्खलदखिलजगत्पालने दक्षतर्क्षः।

दुर्वारान्तःप्रवेशाकृशनरकपुरे द्वारगाढार्गलो वो

भूत्यै लोकेशपादो भवजलधिसमुल्लङ्घनैकप्लवोऽस्तु॥ ४५॥



इति पादुकादेशना



वृत्तो नृत्तप्रकारः सपदि विघटिता वाद्यविद्यानवद्या

नो गीतं नावगीतं कृतरसरचनैर्नैव भावैरभावि।

इत्यन्तः स्मेरशाक्रे सदसि न शकिता यत्र पूजाप्सरोभिः

कर्तुं भावातुराभिः स जयति जनितातृप्तिरूपः सरोजी॥ ४६॥



उद्दामस्थामवामक्रमविषममिलन्मारमानप्रमाथी

मध्यादुन्माथिमोहोद्गमममितमहोमौलिरायामभीमम्।

श्रीमन्निःसीमभूमासममहिममहाकामधामातिभूमौ

सत्त्वप्रेमप्रकामप्रथितमृदुमना निर्विरामाश्रयो वः॥ ४७॥



सारप्राकारघोरावरणनिवरणो बन्धनक्रूरदूर-

स्फारावारातिरौद्रे नरकनगरिकाकारधारिण्यरीणाम्।

कारागारोदरे यः स्मरणशरणतां कारणाकातराणां

यातः सत्कारकारी गुरुतरकरुणः पातु लोकेश्वरो वः॥ ४८॥



कल्पान्तोल्लासिहेलाचलदनिलचलोल्लोलकल्लोलमाला-

वाचाले नक्रजालाकुलकलिलजले वारिधावुल्ललन्तः।

आलम्बे यस्य नीलोत्पलविमलमहाकुट्टिमालीनलीलाम्

आलीयन्ते लधीयः स जगति कमली पालनायाल मस्तु॥ ४९॥



धूमौघोबन्धबन्धीकृतविधुरविधुब्रध्ननिर्बन्धधामा

नीरोधोद्भेदबाधाबुधविबुधवधूधीरतोद्धारधुर्यः।

यन्नामाधीतिधाराधरविधृतिकृतामेति धूमध्वजोऽपि

प्रध्वंसं साधु धेयान्निरवधि स विधिं बुद्धधारो धृतेर्वः॥ ५०॥



क्रोधादुत्क्षिप्तकालायुधकरनिकरः क्रूरसूत्कारकारी

दानक्लिद्यत्कपोलाकुलमधुपकुलाकाण्डकालोरुकायः।

क्रान्तो यन्नामकष्टाङ्कुशहतिकृपणः कातरेण करीन्द्रो

लोकेशः स प्रकामोपकरणकरुणः कामकृत्यं क्रियाद् वः॥ ५१॥



सूत्कारिश्वासपोषाकृशविषवमथुप्लोषिरोषाश्रयाशा

दंशाशादर्शितास्या भृशततशिरसो नाशने दन्दशूकाः।

यन्नामाशीविषेशद्विषि विशति विषां धीषु नश्यन्त्यनीशा

लोकेशः सोऽस्तु विश्वश्रयदतिविषमक्लेशराशेः शमाय॥ ५२॥



गन्धोद्गारोरुगर्वग्रहणगजगणग्रासगीतोग्रवेगः

सावेगोदग्रगामी गलगहनगुहागाढगम्भीरगर्जः।

योगैर्युग्योपयोगानगमि मृगपतिर्यद्गणोद्गीतियोगाद्

दुर्योगं वः स योगी स्थगयतु सुगतासङ्गितुङ्गोत्तमाङ्गः॥ ५३॥



भूयोऽपायानुमेयः क्षतदयहृदयो भीविधायी विहाय

स्थेयान् शैलोपमेयः श्रयदलिगवयच्छायकायो निकायः।

सद्योगोपायमायामय इव विलयं यातवान् यातवीर्यो

यत्पादध्यायिनेयः स सुगतनिलयो जायतां वो जयाय॥ ५४॥



संत्रासावासभूमिं कलिविसरसरद्यादसं भास्वरासि-

प्रासप्रोल्लासिभङ्गं प्रसृतसितलसत्केतुसत्फेनहास्याम्।

यत्सेवासाधुनावा द्विषदसमसमित्सारसेनास्रवन्तीं

सोत्साहाः संचरन्ते सुखमसुखमसौ संह्रियाद् वः सरोजी॥ ५५॥



भूभृत्संभारभेदप्रभुकरविभवो भूरिभूभोगभीमं

बिभ्राणश्चित्रभानुं भवदतिभरभीसंभ्रमोद्भ्रान्तिभूतः।

दम्भोलिर्भीतिभाजामभवदभिपतन्नाशुनाभावभूमि-

र्भक्तेर्यस्य प्रभावात् स भवतु भवभिद्वो भृताम्भोजशोभी॥ ५६॥



आबाधाधूतधैर्यश्च्युतिविधिसविधो दुर्विधक्रोधवेधो

बाधादुःसाधरोधोद्धुरबहुविविधव्याधिसंबाधदेहः।

यस्य ध्यानावधानादधिकधृतिसुधाधानसंधारितासु-

र्धीमान्नाधेर्विधेयो धियमवतु स वो बोधये बुद्धमूर्धा॥ ५७॥



आरादाहूतियातृक्षितिपतिरतुलारातिशातिप्रताप-

प्रोद्गीतिर्दण्डनीतिप्रथितपितृपतिख्यातिजिद्दण्डनीतिः।

यत्पादाधीतिशक्तेः कुपितमतिरतिप्रीतिमायाति भूते-

र्व्याघातोद्भूतिहेतुर्जिनवृषवसतिः संह्रियाद् वः स भीतिम्॥ ५८॥



ब्रह्मा जिह्मायितोऽभूदगुरुरपि गुरुः खण्डिताखण्डलोक्ति-

र्विष्णुस्तूष्णीमधृष्टो वचनविरचने वीतगर्वोऽपि शर्वः।

तुष्टास्तुष्टूषवोऽपि स्फुटमिति विबुधा नो बुधा यद्गुणोक्तौ

स श्रीमानब्जपाणिर्जयति जिनमनोगोचरान्तर्गुणौघः॥ ५९॥



धात्रा चित्रं चरित्रं सुररिपुरिपुणा सत्रिनेत्रेण नेत्रे

गोत्रामित्रेण गोत्रं गतिरपि गुरुणा रात्रिपेणापि गात्रम्।

मैत्रं मित्रेण पुत्रीयितसकलजगत्प्रेम पुत्रेण चात्रे-

र्यत्रेदं स्तोत्रपात्रं स्तुतमवतु स वोऽमात्रसत्तोऽब्जपाणिः॥ ६०॥



यस्मिन् ब्रह्मा बहुत्वं बहुबहुमतवानाननानां निजानां

स्कन्दोऽप्यानन्दगर्भं नुतिषु नतिकृतौ नागनाथोऽपि मूर्ध्नः।

शक्रः श्लाघ्यामनैषीन्नयनदशशतां यं विलोक्य त्रिलोकी-

लोकेशो निर्विरामानतिनयनरतिस्तोत्रपात्रं स पायात्॥ ६१॥



खेदी खे दीप्तरश्मिः किल विफलमसावध्वनीनोध्वनीनो

लोकालोकार्थमास्ते ननु कमलभृतो दीप्ततापः प्रतापः।

धीरैर्धीरैरकारि स्तुतिरिति विहितोल्लासभासां सभासां

यस्यार्यस्यास्तु तस्माज्जगति कृतरिपुक्षिप्रसादः प्रसादः॥ ६२॥



न्यस्ता यस्मिन्नमस्ये नतिरपि नितरामुन्नतिः पुण्यधाम्नां

निःसामान्यैकमान्येऽपचितिरुपचितिर्भूयसी भक्तिभाजाम्।

ध्यानस्थानस्य यस्य स्मृतिरपि सहसा विस्मृतिर्भूतभीतेः

सोऽनन्ताचिन्त्यलोके विहितहितपथो लोकनाथोऽवताद्वः॥ ६३॥



दम्भो दम्भोलिरैन्द्रः क्वचिदकृत सुरारातिशातोऽतिशातो

हारी हारीरणासौ बलवति विफलाभीषु राजीषु राजी।

चक्रे चक्रेण नार्थं हरिरिति जनता नूनमाहेति हेति-

व्यासव्यासक्तिमुक्तान् जयति रिपुजनोल्लासरोजी सरोजी॥ ६४॥



लोकातोतं दधानः सुखमपि जगतां तीव्रदुःखेन दुःखी

नित्यं नित्यानुरक्तोऽप्यशरणकृपणप्राणभृद्योगयुक्तः।

त्रैलोक्यस्यैकनाथोऽप्यसमरुचिजनाराधनाबन्धुरो यः

सोऽव्यात् संबुद्धमौलिर्विहितविसदृशाचिन्त्यचर्यश्चिरं वः॥ ६५॥



निर्विच्छेदत्रिलोकीनिहितनिरुपमस्नेहयोगानुयोगा-

न्निर्वाणो न प्रकम्प्यो बलवदलघुभिस्तीर्थिकोन्मत्तवातैः।

जीयाल्लोकेशदीपः स भुवनभवनोद्भूतमोहान्धकार-

ध्वंसोऽविध्वंसधामा परहितकरणोद्योगसंवृत्तवर्त्तिः॥ ६६॥



क्वासौ सर्वत्र मैत्री क्व विषमबहलक्लेशविद्वेषिदाहः

क्व प्रौढा मुक्तिशक्तिः क्व च दृढकरुणापाशनिष्पन्दबन्धः।

क्वोपेक्षापक्षपातः क्वपरहितकृतिव्यग्रता तद्विचित्रं

चित्रं राजीवपाणेश्चरितमतिजगज्जायतां ज्योतिजिद्वः॥ ६७॥



सर्वाग्रः सर्वरूपप्रथनपृथुनयः सर्वदा सर्वनाथः

सर्वेषां सर्वथा यो विनयविधिमहासर्वगुर्वर्थसिद्ध्यै।

सर्वैः सातोतगर्वैर्गुरुमहिमगुणैः खर्वयन् सर्वगर्वान्

सर्वः सर्वप्रदो वः सफलयतु रूचीः सर्वविन्मौलिरुर्वीः॥ ६८॥



ईशः स्वामी प्रजानां पतिरमरगुरुर्लोकपालो महेन्द्रो

भास्वान् दत्तारिदण्डः परजयबलिजिद् वित्तदो जैत्रपाशः।

इत्यन्तर्हासगर्भं भणति परिजनेऽन्वर्थनाम्नां निजानां

पात्रे यत्रानुलज्जैर्नतममरगणैरब्जपाणिः स जीयात्॥ ६९॥



वर्यार्याणां वरेण्यो वरपरविधुरोत्सारणा संवरो वो

दुर्वारैः सारमारैरमितकरधरो दुर्धरो वैरिवीरैः।

वीरो वीरारिवारी प्रचुरतरवरोदारसंभारवारि-

स्फारासारोरुधाराविसरवितरणाधीरधाराधरः स्यात्॥ ७०॥



नित्योद्युक्तेऽतिशक्ते प्रभवति नलिनोद्भासि हस्ते समस्तो

नाथी संसारयादःपतिपथपथको लोक इत्याकलय्य।

यस्मिन् विन्यस्य भारं लघुरलघुकृपो विश्वदीपं प्रपेदे

बुद्धोऽवन्ध्यप्रतिज्ञाकृतधृतिविधृतिर्निर्वृतिं सोऽवताद्वः॥ ७१॥



उच्चैरूढो गरीयान् सुगत इव जगत्कार्यसंभारभारो

न्यस्ता हस्ते प्रशस्ता निज इव कमलालंकृतिर्भक्तिभाजाम्।

निर्वाणं नारकाग्नेर्निचय इव चिरं प्रापितः सत्त्वसार्थः

तीव्रक्लेशप्रबन्धो जन इव शमितो येन पायात् स युष्मान्॥ ७२॥



यो नानानन्तरूपप्रकटनपटिमख्यातमायोऽप्यमायः

संशान्ताशेषभीरप्यतिकरुणतया कातराचारकारी।

वीतक्रोधोऽपि दुष्टाशयदमनबुधक्रोधनित्यानुबन्धः

संबुद्धोद्भासिमौलिः स जयति महतां चिन्तनीयोऽप्यचिन्त्यः॥ ७३॥



धत्ते नैवोत्तमाङ्गं परमपितु वपुर्योऽमिताभाभिरामं

सन्नालं नारविन्दं गुरुभयविधुरा वैरिसेनापि यस्य।

येनाबद्धा जटा नो जगदहितहतिव्यापृतेनापि कक्षा

दक्षोऽसौ रक्षताद्वः कुपितयममुखालोकनाल्लोकनाथः॥ ७४॥



शेषाशङ्की चकम्पे भवसलिलनिधिः क्लेशसार्थैः प्रलीनं

विश्रान्तं बोधिसत्त्वैर्मुनिरपि शुशुभे श्लाघ्यनिर्वाणलीलः।

यस्मिन्नाबद्धकक्षे प्रसरति परितोऽशेषसत्त्वार्थकार्य-

व्यायामे स प्रकामं शमयतु सुगतावासमौलिर्मलं वः॥ ७५॥



इति भगवद्वर्णना।



प्रत्यूहव्यूहबाधाविघटनविषमे मानसस्याप्यभूमौ

कर्मण्येकान्तशर्मच्छिदि जगदहितोच्छित्तये पद्मपाणिः।

निघ्नः क्रीतोऽथ भीतो बलवदिव यया निर्विकारो नियुक्तः

सा नाथस्यातिगुर्वी प्रभुरवतु कृपा निष्कृपादन्तकाद्वः॥ ७६॥



भूमिर्नैवाभिभूतेर्मृदुतरमपि यल्लोकधातूननन्तान्

अत्यन्तावीर्यवीर्यं युगपदपि भृशं भासयंस्त्रासशान्त्यै।

खद्योतोद्योतलेशानुकृतिविलिसिताशेषतेजस्वितेज-

स्तेजो लोकेश्वरं वो हरतु हृदि भवद्भूरिमोहान्धकारम्॥ ७७॥



निःशेषाकाशधातुर्जन इव जनितापूरिताशः समन्तात्

प्रारब्धः सर्वभासामिव निरतिशयापायराशेर्विलोपः।

सार्धं सान्द्रान्धकारैः शममगमि महानृद्धिमान्मानिमारो

येनोद्भासः स भूयात् सरसिरूहभृतो भूतये जायतां वः॥ ७८॥



ईशोऽन्यद्योतनाशो बलभिदितरभादुःशमध्वान्तराशेः

सत्त्वद्रोहाशयानामनुपमतपनो योऽच्युतश्चित्रभानुः।

नानानन्ताचलादिव्यवहितविषयोद्भासने शक्तिधारी

लोकेशोद्भास एकोप्यमरगणनिभो भीभिदे वः स भूयात्॥ ७९॥



संपन्नाशेषसत्त्वप्रचुरजलचरेच्छासुखं यत्र दूरं

दुर्लङ्घये यान्त्यधस्ताद् गिरय इव जनानर्थदुस्तीर्थ्यसार्थाः।

दुर्वारोऽसौ समन्तात् पृथुभवभुवनाभावसंरम्भजृम्भी

भीदावाग्निप्रशान्त्यै करकमलविभाम्भोनिधिर्जृम्भताद्वः॥ ८०॥



निर्वाणो नारकाग्निः किमिति यदि विनेयेषु धर्मामृतौघो-

राशिर्बद्धो जटानां यदि गतिरहितः किं समहो रिपूणाम्।

मर्धागारे गरीयान् यदि वसति जिनो बन्धुरा किं त्रिलोकी

नाथस्येत्थं विचित्रा व्यवहृतिरहितं हन्तु वो लोकबन्धोः॥ ८१॥



मूर्च्छत्येकापि सत्त्वाशयवशविहिताकारभेदाभिरामा

दुर्भेदाभूतकल्पा चलदचलमहारम्भदम्भोलिकोटिः।

लौकेशी सन्मनीषाकुमुदशशिरुचिस्तीर्थिकानर्थकोटि-

ध्वान्तान्तर्धानभानुर्भवतु भवभिदे देशना शासनी वः॥ ८२॥



दुर्वादोन्मादनादिप्रचुरमदकणादाक्षपादादिवादि-

प्रोद्यन्नानाविवादास्पदमदसदसां सापवादो विवादः।

उत्सादः सप्रमादोन्मदजनविपदां कोविदानां प्रसादो

भावानुत्पादवादो जयति जिनवपुः पादसंपादमौलेः॥ ८३॥



त्रस्तव्यस्तारिशस्त्रं त्रयि जगति चकास्ति स्तुतो यद्गभस्ति-

स्तोमो विस्तीर्णतोयं मरुनिलयसदां विस्तरध्वस्ततापः

स स्तादस्ताहितास्त्रो बलिवलिकुलिशः पद्महस्तस्य हस्तो -

ऽनापास्त्यैः वं समस्तत्रिभुवनविकसत्साध्वसापास्तिशस्तः॥ ८४॥



संवर्तोद्वृत्तवातव्यतिकरविषयोत्तुङ्गशैलद्रुमाली-

निर्मूलोन्मूलनाय प्रभुररिकरिणां शातितानल्पदर्पः।

भद्रो लोकेश्वरस्य प्रणयिमधुकराकर्षदानौघवर्षी

हस्तस्तम्बेरमो वो भवरिपुनगरीभञ्जनायालमस्तु॥ ८५॥



सत्कोषं सन्निधानं घनरुचिजिनतावाञ्छिताच्छेदसिद्धौ

यद्यातं शातकोटिमनुकृतिमहितत्रासिसत्पत्रकोटि।

सम्यक्संबोधिलक्ष्मीकृतवसतिगुणश्लाघयैवाविमुक्तं

मुक्तेस्तत्कारणं वः करकमलमलं लोकनाथस्य भूयात्॥ ८६॥



शश्वद्वर्धिष्णुतृष्णाविकलगलदरीविह्वलप्रेतराशे-

राह्लादोत्पादि सत्यं कमलमधिवसद्बोधिलक्ष्मीकमब्जम्।

सत्पद्मं भूतिवाञ्च्छाविनिहितमनसां साधुसेवापदं यत्

तल्लोकेशस्य युष्मान् पटुरुचिपटलीराजिराजीवमव्यात्॥ ८७॥



नानादुःखप्रतानां तनुकिरणघनोत्तापनक्लेशभानु-

म्लानं दीनाननं यज्जनमनुजनयत्यातपत्रोपमानम्।

ग्लानिं मा गादहीनं तदखिलभुवनान्यूनभानूद्वितानं

लीनं लोकेशपाणौ नलिनममलिनं म्लानिमेनो नयेद्वः॥ ८८॥



स्थाम्नः स्थानं महिम्नो महदुदयपदं धामधाम्नां प्रथिम्न-

स्त्रासावासो रिपूणां दुरभिभवभवाद्भीभिदोद्भूतिभूमिः।

कान्तं शोभानिशान्तं वसतिरतिजगद्वीर्यविस्तारिराशे-

र्लोकेशस्यास्तु बाहुर्बहुजगदहितोच्छेदनाचण्डदण्डः॥ ८९॥



यल्लावण्यामृतौघं क्षरदपि जनितातङ्कमेवाहितानां

तृप्तिं नैव प्रयच्छत्यथ पुनरतनुप्रीणनं लोचनानाम्।

शोभागारं विशोभीकृतसकलजगद्भूषणं भूषणानां

तद्भुयादेकचीरं सुखमसुखनुदे भास्वदम्भोजिनो वः॥ ९०॥



म्लानं रूपाभिमानैर्जगति सफलतां लोचनैः पुण्यभाजां

यातं घातं तु तृष्णाततितरलतरैर्यत्र लावण्यसिन्धौ।

मन्येऽसंख्यैः शशाङ्कप्रभृतिभिरतुलं कान्तिमद्भिः कृतं स्याद्

एकं यद्यास्यमस्याप्यतिजयि जयतां तन्मुखं पद्मपाणेः॥ ९१॥



यस्मिन् विद्वेषभाजामविरतविलसत्कान्तितोयौघमेघैः

संवृत्तं दाहदायि स्फुटतरमसकृद्दुर्दिनं देहिनां तु।

धौता ध्वस्तानुबन्धा बहुलमलमषीपङ्कलेपप्रबन्धाः

तद्बुद्धागारमूर्द्धामुखमतिसुखदं स्ताद्विचित्रक्रियं वं॥ ९२॥



इष्टाब्जाक्लिष्टपाणेः स्फुटविकटकुटीकुट्टिमान्तोपविष्ट-

स्पष्टश्लिष्टामिताभद्युतिपटुपटलापाटलाभापटिम्नः।

शोभाविष्टैरदृष्टोपरिघनघटनस्योत्कटाटोपबन्धः

कूटस्याव्याज्जटानां कटुरकटसुहृत्संकटात्कङ्कटो वः॥ ९३॥



अत्यन्ताह्लादहेतोरविरतविस्तृतस्यामिताभप्रभाम्भः

संभारस्यैव सेकान् निरतिशयमृजासुन्दरो लब्धवृद्धिः।

उद्दामामोदिदिव्याद्भुतकुसुमचयैरर्चितश्चिन्तितार्थ-

प्राप्तेः संपत्तये स्तान्नलिनधरजटाकल्पवल्लीचयो वः॥ ९४॥



यासां बद्धो विमुक्तिं गमयति नियतामुज्झितान्याधिवासो

निःसामान्यां विभूषां जनयति वपुषा यासु नाथोऽमिताभः।

सर्वामोदच्छिदो या निरुपमवहलामोदलिप्ताखिलाशा

लौकेश्योऽवश्यलभ्यां मृतिमतिविकटास्ता जटा वो हरन्तु॥ ९५॥



संघातो नो जटानामखिलजनमनोबन्धने पाशराशि-

र्लावण्यं नापि दुःखानलविकलजगज्जीवनीयोऽमृतौघः।

नाम्भोजं दुष्टदम्यान्तकतुरगकशाक्लेशदोषातिमोषः

प्रत्याशा पोषसिद्धिं दिशतु जिनशशिश्लेषिकेशः श्रियो वः॥ ९६॥



उद्दामापिङ्गतेजःप्रसरविरचिताशेषदिग्दाहमोह-

त्रस्तात्राणात्रिलोकीकवलनरभसोल्लासिकालाग्निकल्पम्।

दष्टौष्ठं दुष्टदृष्टिज्वलितमनुहयग्रीवमाबद्धलक्ष्म्या

जाता लोकेश्वरी वः क्षणमतुलकृपाकातरा दृष्टिरव्यात्॥ ९७॥



लोपं लोकः प्रयाति स्फुटमखिलमहाभूभृतामद्य तूर्णं

चूर्णीभावो धराणामपि जलनिधयः शोषमायान्त्यनन्ताः।

इत्थं यस्यान्तकोपभ्रुकुटिभरभवद्भङ्गभीमाल्ललाटा-

न्निर्यान्तीं वीक्ष्य देवीमतुलभुजबलैस्त्रस्तमब्जी स जीयात्॥ ९८॥



स्तुत्यैः स्तुत्या गुरूणामपि जगति गुरुर्वन्दिता वन्दनीयै-

र्मूर्तेवानल्पकल्पार्जितसकलजगत्त्राणनिर्व्याजशक्तिः।

लोकस्यार्तिच्छिदा यैः स्वयमतुलकृपैवाब्जिनो निर्गता स्तात्

तारा संसारकारोदरगुरुविलसत्कारणाहारिणी वः॥ ९९॥



गीर्वाणग्रामगीतो गुरुगणनगुणो गीष्पतेरग्रगाभि-

र्ग्राह्योनुद्गाढवर्गस्फुटगतिगहनो हंसगाम्युग्रगाभिः।

गम्भीरोद्गारिणीभिर्निगदितगरिमागेयपूगाल्पभागः

सम्यग्गम्यः समग्रोऽवतु सुगतगिरामब्जिनो वो गुणौघः॥ १००॥



कविरपि जन्मनि जन्मनि भक्तश्चरणेऽवलोकितेश्वरस्य।

प्रकृतिशरणगोत्तरधीः परहितगुरुकार्यकार्यः स्याम्॥ १०१॥



महाक्षपटलिकश्रीवज्रदत्तकविविरचितं

श्रीलोकेश्वरशतकं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project