Digital Sanskrit Buddhist Canon

अवलोकितेश्वरस्तोत्रम् (चरपतिपादविरचितम्)

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अवलोकितेश्वरस्तोत्रम्

चरपतिपादविरचितम्



ॐ नमोऽवलोकितेश्वराय



देवमनुष्यासुरनुतचरणः प्रतिहतजन्मजरारुजमरणः।

लोकेश त्वं मामशरण्यं रक्ष कृपालो कुरु कारुण्यम्॥ १॥



संसारोदधिमध्यनिमग्नं क्लेशमहोर्मिसमाहितभग्नम्।

मामवधारय मा विरुवन्तं त्राहि महाकृप नौमि भवन्तम् ॥ २॥



तृष्णातिमिरोपद्रुतनेत्रं मरणमहाभयविह्वलगात्रम्।

पालय भगवन्नवलोकय मां यावदवीचिं यामि न विषमाम्॥ ३॥



कृतमन्यस्त्रीग्रहणमजस्रं हतमज्ञेयं प्राणिसहस्रम्।

नाथ मया कृतपापमशेषं नाशय संप्रति कायिकदोषम्॥ ४॥



यज्जोवितसत्कारनिमित्तं लोकान् नित्यं भणितमसत्यम्।

तल्लोकेश्वर शमय समस्तं वाचिकनरकं चिरमभ्यस्तम्॥ ५॥



सत्त्वानामिह चिन्तितमहितं स्वयमनुमोदितमपि नरविहितम्।

अधुना तन्मम मानसपापं स्फोटय नाथ करोमि विलापम्॥ ६॥



देवमनुष्यासुरजातीनां तिर्यङ्नारकप्रेतगतीनाम्।

सत्त्वा ये निवसन्ति सदाऽऽर्ता रक्षसि तानिति तव मयि वार्ता॥ ७॥



तेन ममोपरि सृज कारुण्यं वीक्ष्य शरीरगतं तारुण्यम्।

इति शृणु भगवन् भवति भणामि यावन्नरकं नैव विशामि॥ ८॥



किं चोपेत्य करोषि परार्थं मुञ्चसि भगवन् मामकृतार्थम्।

अथवा प्रेक्ष्य कृपा तव पुण्यं जनयसि दृष्टं कथमविपन्नम्॥ ९॥



स्मरणेनापि भवसि परितुष्टः क्षिपसि च कलुषं किमिति न दृष्टः।

यस्माद् भगवन् परहितदक्ष क्षेपं मा कुरु मामिह रक्ष॥ १०॥



दन्तितुरङ्गमपुत्रकलत्रं राज्यमकण्टकवेश्मविचित्रम्।

अस्थिशिरोऽसृङ्मांसपर्यन्तं भवतार्थिभ्यो दत्तमनन्तम्॥ ११॥



अञ्जनगुटिकापादुकसिद्धिः सिद्धौषधिमणिमन्त्रविशुद्धिः।

सिद्धयति यक्षस्त्रीपुरवेशः तुष्यसि यस्य त्वं लोकेश॥ १२॥



ये करचरणविलोचनहीना विविधव्याधिमहाभयदीनाः।

ते त्वयि तुष्टे पुष्टशरीरा विलसन्त्यरुजो गुणगम्भीराः॥ १३॥



गरलं व्याधिर्ग्रहडाकिन्यः शान्तिं यान्ति सदा योगिन्यः।

सरति न तस्य पुरो यमदूतः प्रोतो यस्य च त्वं जिनभूतः॥ १४॥



इति लोकेश्वर किं क्रियमाणं मुञ्चसि भगवन् मामत्राणम्।

रौम्यहमनुदिनमुद्यतपाणिर्नाशय त्राससमाकुलवाणिः॥ १५॥



यद्विषयेन्द्रियचञ्चलमनसा कृतबहुपापं व्याकुलमनसा।

नीतं जन्म मयाऽस्मिन् सकलं जठरनिमित्तं भ्रमता विकलम्॥ १६॥



तत्कुरु संप्रति मम लोकेश प्रणतो विविधाञ्जलिरहमेषः।

येनाभुक्त्वापायिकदोषं सुगतिं भवतो यामि न मोक्षम्॥ १७॥



मोहद्वेषविनाशनहेतुस्त्वं संसारमहोदधिसेतुः।

पतितस्त्रस्तोत्थापितबाहुस्त्वं गुरुदुरितनिशाकरराहु ः॥ १८॥



देशितसुगतानुत्तरतत्त्वस्त्वं पालितबहुदुःखितसत्त्वः।

निर्जितदुर्जयमन्मथमारस्त्वं संतीर्णभवार्णवपारः॥ १९॥



सकलालाननिकृन्तनदेहस्त्वं परिभावितजगतसुदेहः।

भगवन्ननुपमकरुणासिन्धुस्त्वं जनविदितोऽकारणबन्धुः॥ २०॥



लीलाविदलितकर्मविभङ्गस्त्वं परहितविषयव्यासङ्गः।

दिव्यध्यानसमाहितचित्तस्त्वं याचकसाधारणचित्तः॥ २१॥



परमपकुर्वंन्नपि करुणावान् मयि परितोषं न करोषि भवान्।

कथमिह मोहमहोरगदष्टं विषयशरीरमकुशलं भ्रष्टम्॥ २२॥



सकलजनार्थं प्रति या करुणा सा किं भवतो नियतस्फरणा।

येन न रक्षसि किल्विषवन्तं भवतः पुरतो मां विरुवन्तम्॥ २३॥



नाथ कृपा ते व्योमविशाला सत्त्वेषु हि यथाम्बुदधारा।

स्थलजलनिम्नोन्नतबहुदेशे सरति निरन्तरमनिशमशेषे॥ २४॥



इति भगवत्स्मरणाद्यत्पुण्यं मम तेनेदं जगदक्षुण्णम्।

लभतां श्रीपोतलकाचलवासं जनयतु सुन्दरविविधविलासम्॥ २५॥



श्रीमदार्यावलोकितेश्वरभट्टारकस्य चरपतिपादविरचितं स्तोत्रं

समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project