Digital Sanskrit Buddhist Canon

चित्रलक्षणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Citralakṣaṇam

चित्रलक्षणम्

अथ भारतीयभाषायां चित्रलक्षणम्।

प्रथमः परिवर्त्तः

ब्रह्माणं च महादेवं नारायणं सरस्वतीम्।
वरदां च मया नत्वा क्रियते जयमंगलम्॥१

प्रजापतेस्तथा शम्भोः पद्मास्यायास्तथा गिरम्।
पार्वत्या अनुसृत्यैव जायतां किल पण्डिताः॥२

तदनन्तरं चित्रलक्षणमुच्यते।
मंगलमस्तु।

महादेवाय देवाय सर्वविद्यविजानते।
नमो नमो मया सम्यगुच्यते चित्रलक्षणम्॥३

आदौ चन्द्रमसं वन्दे हरं च चन्द्रशेखरं।
विष्णूविन्द्रौ सूर्यमग्निं च वरुणं मरुतं तथा॥४

नमस्करोम्यहं चैव विश्‍वकर्मप्रजापती।
नग्नजितं नमस्कृत्य त्वाचार्यांश्‍च पुनः पुनः॥५

वर्णं च चित्रकर्माथ शास्त्रानुसारतस्तथा।
यथाज्ञानं यथाशक्ति संक्षेपेण मयोच्यते॥६

विश्वकृन्नग्नजिद्देवप्रह्लादसारमुज्ज्वलम्।
लक्षणमनुसृत्यैच विदुषां सुधियां पुनः॥७

संगृह्य मतिवृद्धये नानाशास्त्रसमुद्धृतम्।
उच्यते चित्रलक्षणं शृण्वन्तु तद्वि‍दा जनाः॥८

पुरेदं लक्षणं श्रुत्वा नरराजो महोधरः।
धर्मज्ञः सत्यनिष्ठश्च बुद्धिमांश्च यशोऽन्वितः।
विश्रुतो भयजिन्नाम्‍ना तथाभूत् धरणीतले॥९

गुणोत्तमस्य भूपस्य धार्मिकस्य प्रशासने।
शतसहस्रवर्षाणि चायुः प्रजाः प्रपेदिरे॥१०

नीरोगा न च हन्तारो मनोरोगविवर्जिताः।
अकालमृत्युहीनास्ताः कुतः क्रोधाः कुतो मलाः॥११

वायुः सुप्रवहश्चैव शक्रः सुवर्षकस्तथा।
वर्ण्रससमेतानि वीजमूलफलानि च॥ १२

वर्णाश्रमा हि चत्वारो न च्युता धर्मतत्पराः।
ऋद्धिगुणसमायुक्तं श्रीमद् विकसितं जगत्॥ १३

एवम्भूते स्थिते राष्ट्रे सुखशान्तिसमन्विते।
भयजितो मनः शुद्धं प्रवृत्तं तपसि द्रुतम्॥ १४

सुदुष्करं तपः कृत्वा राज्ञातिशुद्धचेतसा।
वरा बहुविधा प्राप्ता देवाल्लोकपितामहात्॥ १५

विषयस्तस्य शत्रुभिर्देवास्त्रैरपि दुर्जयः।
उत्तमाप्रतिरोध्या च सर्वशास्त्रे मतिस्त्वथ॥ १६

सर्वगुणैरुपेतस्य पराक्रान्तस्य धीमतः।
महाभागस्य देवानां प्रभावैः प्राप्तविश्रुतेः॥ १७

सर्वविद्याश्रयस्यास्य मूर्त्तधर्मस्य बोधिनः।
मणिपुत्रसमाख्यस्प एतादृशस्य भूपतेः॥ १८

सविधे त्वागतः कश्चिद् रुदन् विप्रोऽतिदुःखितः।
कथं रोदिष् भो विप्र चेत्यपृच्छद् द्विजं नृपः॥ १९

क्रुद्धेन तेन विप्रेण कथितो नृपतिस्तदा।
तव शासनकालेऽस्मिन् देशेऽकालमृतियतः॥ २०

ततोऽधर्मेण राज्यं तं शास्सीदं नृप निश्चितम्।
विष्मयो य इतः पूर्वं न जातोऽसौ प्रवर्तते॥ २१

मदीयवंशरक्षाकृत् लक्षणाकृतिसुन्दरः।
अकालमृत्युना कस्मात् क्रोड़तोऽपहृतः सुतः॥ २२

ब्रम्ह प्रियौ हि राजन् त्वं सर्व जानासि भूतले।
प्राणतुल्यं सुतं मह्यं देहि स्वामिन् कृपान्वितः॥२३

दयां यदि न कुर्यास्त्वं शक्तिमन् गुणवन् नृप।
तृणखण्डाणिव प्राणान् त्वत्सविधे त्यजाम्यहम्॥ २४

भाषिते तु द्विजेनैवं बुद्धिमान् पुरषोत्तमः।
आकर्षणे सुतं तस्य मतिं चक्रे नृपालकः॥ २५

सान्त्वितस्तु नृवाक्येन " आगच्छ मम दास हि"।
सूर्यवर्चोधरं यममुदितं तत्र दृष्टवान्॥ २६

धर्मराजं जगद्‍बन्द्यं प्रणम्य भयजिन्नृपः।
ब्राह्मणस्य हितार्थाय सादरं वाक्यमब्रवीत्॥ २७

प्रत्युपकृद्द्विजातेस्तु प्राणेभ्योऽपि सुतः प्रियः।
चाकालेऽपहृतो योऽसौ तव दूतेन दुर्धिया॥ २८

प्रभो त्रिभुवनस्यापि दीयतां तनयः प्रियः।
विश्‍वकर्मन् द्विजन्मने अस्मै प्रीत्या च धीमते॥ २९

श्रुत्वा प्रेताधिपो वाक्यं पूजनीयं हसन् नृपम्।
ददौ प्रत्युत्तरं मृदु तेजसा पूरितं वचः॥ ३०

स्वकीयकर्मवशाद् जीवाः सर्वे मद्‍वशगा ध्रुवम्।
कस्याप्याकर्षणे त्यागे स्वेच्छाशक्तिः कुतो मम॥ ३१

सुखं वा यदि वा दुःखं सर्वं कर्मवशं सदा।
तस्मात् राजन् विजानीयान् मया नैव प्रगृह्यते॥ ३२

मद्‍गृहं प्रतिपद्याथ शरीरी न निवर्तते।
कालेन महताकृष्टो द्विजपुत्रो बलीयसा॥ ३३

कुशलं चाकुशलं वा सर्वमिहानुभूयते।
कर्मानुसारिणी भूमिर्विज्ञेया च सदा नृणाम्॥३४

एवमुक्तः पुनर्भूपः प्राह वैवस्वतं यमम्।
मत्प्रार्थनावशाद् देव देह्यस्मै पुत्रमुत्तमम्॥ ३५

न शक्यते न शक्यते यम आह पुनः पुनः।
देहि देहि सुतं देव राज्ञापि प्रार्थितः पुनः॥ ३६

आग्रहस्यातिशय्यं च तयोरित्थं बभूव ह।
व्याकुलौ ती महायुद्धे तदा लिप्तौ बभूवतुः॥ ३७

तिष्ठ तिष्ठेति त राजा बहुशः प्राह वीरहा।
स्थितोऽस्मीति रणे राजन् तमवोचद् नृपं यमः॥ ३८

असंख्यानां च वाणानां तीक्ष्णानां परिवर्षणम्।
अकरोद् भयजिद् राजा यमस्योपरि सर्वतः॥ ३९

श्रुतघ्नं सर्वतो दिव्यं मेघतो वारिवर्षवत्।
अप्रतिरोधरुपं तदस्त्रं ववर्ष धर्मराट्॥ ४०

तेन राजा महाक्रुद्धो महाप्रभावशालिभिः।
यमदूतांश्चदेवास्त्रैः प्रपीड्य मुमुदे भृशम्॥ ४१

शूलासिप्रासमुद्‍गरा यमदूतविनिर्गताः।
भूपेन सर्वथा नष्टा भयप्रवर्तका इमे॥ ४२

प्रेतो दारुणरुपी च प्रतिदिशमधावत।
नष्टः सेनापतिश्‍चैव आगमदाहवाद् द्रुतम्॥४३

ततः प्रेताधिपो देवो दृष्ट्वा तं तु पराजितम्।
यथाज्ञाकारिणं दण्डं जग्राह प्रतिहिंसया॥ ४४

कालाग्निसदृशं दृष्ट्वा उत्क्षिप्तं पृथिवीपतिः।
ब्रह्मशिरोऽङ्कित चास्त्रमात्महस्ते गृहीतवान्॥ ४५

सर्वे भूता भयत्रस्ता महाभूतोऽपि सर्वतः।
बभूवुरातुरा सर्वे तेन दुर्लक्षणेन वै॥ ४६

दुःखितां सकलां पृथ्वीं दृस्ट्वा ब्रह्मा तथा सुरैः।
आजगाम स्वयं तत्र तस्मिन् देशे रणाकुले॥ ४७

ब्रह्माणं स्वागत दृष्ट्वा भयजिन्‍नृपसत्तमः।
साञ्जलिः पूजयित्वा तं प्राह यथायथं वचः॥ ४८

यमोऽपि प्रणिपत्याथ सर्वामकथयत् कथाम्।
वैक्‍लव्यकारणनि च श्रुत्वा शेषाणि सृष्टिकृत्।
प्रत्यावृत्य रणाद् देवः कथयामास तौ तदा॥ ४९

न दोषो भवतां नाथ मृत्युपतेर्महात्मनः।
सत्यनराधिपस्यैव कालस्य न तु कर्मणः॥ ५०

पुरा शुभाशुभं कर्म तथा च शिशुना कृतम्।
लब्धञ्च मरणं शीघ्र जन्म प्राप्य च मानुषम्॥५१

साफल्यमेति ते श्रमो ब्राह्मणस्यास्य पूजनात्।
तस्मिन्नुपायविद्येयं मत्प्रसादात् प्रपूज्यताम्॥ ५२

वर्णादीनां समायोगैः एतद्‍द्विजसुताकृतिम्।
रुपमालिख भो राजन् सर्वलोकहिताय वं॥ ५३

आविर्भूतेन ब्रह्मणा इत्थमुक्ते सुवुद्धिमान्।
जीवयितुं लिलेख तं द्विजपुत्रं महोपतिः।
ब्रह्मा तच्चित्रमादाय योजयामास जीवितम्॥ ५४

विकचोत्पलचक्षुष्मान् सुकुमारशरीरधृक्।
चक्षुरुन्मील्य सानन्दं पुनर्जीवनमापेदे॥ ५५

जीवितं पुत्रमासाद्य हृष्टो ब्राह्मणसत्तमः।
ब्रम्हाणमभिवन्द्याथ स्वीयपुत्रं गृहितवान्॥ ५६

ब्रह्माब्रवीत् ततो भूपं ब्राह्मणप्रीतये इमे।
यमदुता जिताः शक्‍त्या साधु साधु कृतं त्वया॥ ५७

ब्रह्माणा कथिते त्वेवं स राजा हर्षमाप्तवाम्।
सर्वदमन्कारी तु दौर्मनस्यं यमो गतः॥ ५८

अप्रसन्नं यमं दृष्ट्वा वचोभिर्मधुरैर्भृशम्।
ब्रह्मा स्वयं समाश्‍वास्य भूपतिं प्राह सत्तमः॥ ५९

धर्मनीतिः सुविज्ञाय न निन्देत् कामपि प्रजाम्।
सदानन्दप्रदोभव्यस्त्वभिमानं च वर्जयेत्॥ ६०

यत्र सेवा सतां नास्ति तत्र निन्दा भवेद् ध्रुवम्।
नाल्पमपि सुखं किञ्चिदान्पोति निन्दुकः सदा॥ ६१

द्वेषिणोऽपि बुधाः स्वर्गाद् भवन्ति विच्युतास्तहा।
अहङ्कानरयुत भूतं त्यजन्ति सर्वमानवाः॥ ६२

निरहङ्कारिणा तस्मात् भवितव्यं सदा खलु।
जात्या बलेन दानेन नैपुण्येन च विद्यया॥६३

देवतानाञ्च विप्राणां विशेषण समादरः।
प्रकर्तव्यो न कर्तव्यो निन्दोपायः कथञ्चन॥ ६४

अविरोधेन सत्कारः करणीयः सदा नृपैः।
क्षमावलम्बनीया स्यात् निन्दा त्याज्या तथैव च।
सर्वज्ञो निरहंकरो गुणिने न द्विषेन्नृपः॥६५

पुरुषं वचनं त्याज्यमाघातं विसृजेत् सदा।
प्रत्यक्षं प्राप्यते यत्तु सार्थक्यं तस्य चिन्तयेत्॥ ६६

देवविप्रविरोधिनां कुत्रापि न सुखं भवेत्।
विधियं नैव कार्यं हि यमस्यापि ततो नृप॥ ६७

ब्रह्मणेत्थं स भूपालो ह्युपदिष्टो द्विजप्र्यः।
नमस्कृत्य यमस्वार्थे कृतवान् सुप्रियं तथा। ६८

यमोऽपि प्रीतिमापन्नो ब्रह्मा प्रसन्नतां गतः।
अशोकं प्रीतिमापेदे जगदेतञ्चराचरम्॥ ६९

अथ ब्रह्मा नृपं प्राह नग्नं प्रेतं निवारय।
यमदासैः सदा विश्वं न पातयेद् भवान् खलु॥ ७०

बलेन तेजसा चापि तपसेमं गुणं नृपाः।
अनुकुर्युर्न कर्त्तव्योऽकुशल इह भाविनि॥ ७१

भवान् महायशस्वी च करणीयो मया क्षितौ।
निवर्तस्व कुमार्गेभ्यस्त्वं सदा पृथिवीपते॥ ७२

प्रेतपर्यायकं नग्नमजैषीस्त्वं यतो बलात्।
मम प्रसादाद् राजेन्द्र ब्राह्मणानुग्रहात्तथा।
प्रजापतितुलः पृथ्वां यशस्वी त्वं भविष्यसि॥ ७४

वेदज्ञो व्रतनिष्ठश्च तपसा शुद्धमानसः।
प्रजाः पालय निष्पापः अनुमतिस्तथा मम॥ ७५

अस्य ब्राह्मणपुत्रस्य चित्रस्य लेखनेन च।
तादृशेण क्षितावादिचित्राविष्कारको भव॥ ७६

लोकानां हितसाधनात् पूजनीयो भविष्यसि।
अद्य प्रभृति तच्चित्र जगद्‍वन्द्यं भवेत् सदा॥ ७७

पापघ्नं च मनोहारि प्रोतिसुखप्रदं नृणाम्।
मङ्गलश्रोप्रदायकं रक्षोघ्नं शत्रुनाशनम्॥ ७८

तवादौ लेखकख्यातिः ममेयं वचनेन च।
चित्रमिति प्रसिद्धं तत् सर्वत्रैव भविष्यति॥ ७९

ब्रह्मणेत्थं वचस्युक्ते यमो विप्रश्च नग्नजित्।
सर्वे नेमुश्च भक्त्या तं ब्रह्माणं लोकपालकम्॥ ८०

सर्वेषां मङ्गलं कृत्वा त्रिलोकेशः प्रजापतिः।
सर्वदेवगणैः सार्धं जगाम् स्वगृहं मुदा॥८१

राजाथ धर्मराजं तं पूजयित्वा प्रयन्ततः।
स्वस्थानमागतो धीमान् प्रीणयित्वा यमं तथा॥ ८२

अथासौ ब्राह्मणस्तुष्टः प्रपयौ नगरं द्रुतम्।
यस्माद् देशात् समापन्नस्तत्रैव प्रविवेश च॥ ८३

हृष्टो राजा समित्रश्च चित्रसंरचनाय वै।
उद्यतोऽभूत् सदैवासौ सपुत्रे प्रस्थिते द्विजे॥ ८४

सर्वरूपानुकूलं तत् मानं वा कीदृशं भवेत्।
तत् प्रष्टुं सृष्टिकत्तरिं ब्रह्मलोकं जगाम सः॥८५

कृपया ब्रूहि मे ब्रह्मन् चित्रसंलेखनक्रमम्।
चित्रस्य लक्षणानि मे नानाविधानि सन्ति च॥ ८६

परिमाणं किमस्य स्यात् विधिना कीदृशेन वा।
उत्पादनीयमेतद्धि साञ्जलिः पृष्ठवान् नृपः॥८७

ब्रह्माथ प्राह भूपेन्द्रं शृणु राजन् समाहितः।
अतिगुह्यं महद् वाक्यं परमं कथयामि ते॥ ८८

सृष्टेरादौ समायाता वेदा यज्ञाश्च भूपते।
ततः प्रजा मया सृष्टा उपदिष्टाश्च ता मया॥ ८९

चैत्यानां करणायैव चित्रं संलिख्यते यतः।
वेदाच्चित्रं प्रजातं वै तस्माद् ज्ञेयं तथैव तत्॥ ९०

आदौ संलिखितत्वाच्च चित्रमित्युच्यते ततः।
चराचरयुता वृक्षा जङ्गमाश्च यथास्थिताः।
तथा प्रलिखनात्तेषां तच्चित्रमिति कथ्यते॥ ९१

गिरीणां सुमेरुः श्रेष्ठः अण्डजानां खगाधिपः।
यथा नरेषु भूपेन्द्रस्तथा चित्रं कलासु वै॥ ९२

पतन्ति सागरे नद्यः समुद्रा रत्नमाश्रिताः।
नक्षत्रैश्चाश्रितः सूर्यो ब्रम्हा ॠष्याश्रयो यथा।
तथैव चित्रकर्मणि कलाः सर्वाः समाश्रिताः॥ ९३

हिमालयो यथा श्रेष्ठो नगेषु सकलेषु च।
गङ्गा नदिषु श्रेष्ठैव ग्रहेषु सोमभास्करौ॥ ९४

समेषु वैनतेयश्च महेन्द्रो देववृन्दके।
तथा श्रेष्ठं भवेच्चित्रं सर्वासु हि कलासु च॥ ९५

नग्नजिद् गच्छ तस्मात् त्वं विश्वकर्म समीपतः।
लक्षणविधिमानं च तुभ्यं स उपदेक्ष्यति॥ ९६

उपदेशमनुसृत्य ब्रह्मणो भूपतिस्ततः।
विश्वकर्मसमीपे तु प्रसन्नो ह्यगमद् द्रुतम्॥ ९७

दृष्टोऽसौ विश्वकर्मा च राज्ञा नमस्कृतस्तथा।
आतिथ्यं विधिवत् कृत्वा राज्ञे सोऽदददासनम्॥ ९८

राजाह विश्वकर्मन् भो ब्रह्मज्ञया ह्युपस्थितः।
चित्र्स्य लक्षणं कर्म उपदिशतु मे प्रभो॥ ९९

विधिर्वा परिमाणं वा कीदृशं वा भवेत्तथा।
उपदिशतु कार्त्स्न्येन रहस्यं सप्रकारकम्॥ १००

एवमुक्ते नरेन्द्रेण विश्वकर्मा मुदान्वितः।
चित्रशिल्पस्य शास्त्रं तु तस्मै राज्ञे ह्युपादिशत्। १०१

एकाग्रमनसा तत्तु श्रूयतां यद् मद्‍भाषितं।
परिमाणं तथास्थानं वर्णोपायौ यथायथम्॥ १०२

प्रदाय सर्वमीशेन देवेन पद्मयोनिना।
निर्दिष्टं चित्रलक्षणं बुद्धिमन्तः कृते शृणु॥ १०३

सर्ववस्तुसमाकीर्णा आकृतीर्लक्षणान्विताः।
लोकश्रद्धास्पदं मह्यं लिखित्वादौ ह्युपाहरत्॥ १०४

केन मानेन शोभनाः स्थानोपायैश्च कीदृशैः।
ब्रह्मणः कृपया लब्धाः सर्वे शिल्पा मया कृताः॥ १०५

आकारेणेदृशेनैव प्रजा मया विनिर्मिताः।
देवैश्चित्रं विवर्द्धितं विविधं लक्षणान्वितम्॥ १०६

ज्ञेयं मत्तस्त्वथा राजन् लक्षणमाकृति तथा।
सादृश्यं वेशसौन्दर्यं परिमाणं कलान्वितं॥ १०७

चित्रमीदृशं संलेख्यं यत्नाद् बुद्धिमता त्वया।
दर्शनीयं मनुष्येभ्यो विद्वभ्यो गुणयुक्तेभ्यः।
चित्रसन्दर्शने तावदुत्साहमतियुक्तेभ्यः॥ १०८

मुनिनागासुराणां च प्रेतानां यक्षरक्षसाम्।
गन्धर्वाणां च राजेन्द्र विधिवत् कक्षणादिकम्।
लिखित्वा विविधं सम्यक् तुभ्यं मया प्रदश्र्यते॥ १०९

॥इति नग्नजिच्चित्रलक्षणनिर्देशे नग्नजयो नाम प्रथमः परिवर्त्तः॥

द्वितीयः परिवर्त्तः

यथोक्तं ब्रह्मणा पूर्वमाचष्टे भूपतिं तथा।
लिखनादिविधिं सम्यक् चित्रस्य परिनिर्मितो॥ १

स्थावरे जंगमे नष्टे प्रलयान्ते च वै पुरा।
प्रादुरभूत् सुवर्णाण्डं तमो हत्वा जलात् किल॥ २

तस्मादण्डात् प्रादुरभूत् लोकपितामहः स्वयम्।
ओमित्येकाक्षरं तस्माद् वेदविद्याश्च कल्पना॥ ३

चतस्रश्च प्रजास्तासां रुपसंज्ञादयस्तदा।
आयुषा सहितस्यैव ब्रह्मणो जातिरेव च॥ ४

स्थानं चर्या च धर्मश्च न्यायश्च प्राभवन् तदा।
एवं कृते सति ब्रह्माचिन्तयत् जगतो हितम्॥ ५

एवं चिन्तयतस्तस्य मतिरित्थं बभूव ह।
कथं जनाश्च जानीयुः संज्ञां देवमहीभूजाम्।
अप्रमादेन चादरः सदा तेषु कथं भवेत्॥ ६

ब्रह्मेत्थं चिन्तयित्वा तु विष्णोः शिवस्य चात्मनः।
शक्रस्य सर्वदेवानां परिमाणं गुणं तथा॥ ७

सवस्त्रं विविधस्थितमलंकारास्त्रसंयुतं।
मनोरमं सुरुपं च अत्यन्तस्रदृशं तथा॥ ८

ससविभक्तसर्वाङ्गं प्रत्यङ्गं च यथायथम्।
मिश्रितेन च वर्णेन चित्राकारं विनिर्ममे॥ ९

विलोक्य तानि चित्राणि नेत्रमूलात् प्रमोदिताः।
साधु साध्विति संपूज्य प्रशंशसुर्विधिं सुराः॥ १०

इमे देवाः प्रसन्नाश्च स्वप्ताकारं च लेभिरे।
अधिष्ठानं प्रभावं च कृतवन्तस्तथा इमे॥ ११

प्राह सप्तसुरान् ब्रह्मा अस्तु पुण्यं समाश्रितम्।
अद्य प्रभृति सर्वत्र युष्माकं प्रतिमासु च॥
नात्र शङ्का कृथा नरः पूजयिष्यति वः सदा॥ १२

शूद्धया दानेन विधिवत् तत्परायणमानसः।
मनुष्येषु च यो नाम् भवन्तं पूजयिष्यति।
तस्मै कामस्य सिद्धये नैरुज्यं संप्रदास्यति॥ १३

नाना प्रकारदुःस्वप्नात् द्वेषग्रस्तेभ्य एव च।
सर्वेषा रक्षण कृत्वा पापान् नाशयति ध्रुवम्॥ १४

धर्मश्च सदृशो भाव्यः रक्षोहानिर्भवेद् ध्रुवम्।
यशोवृद्धिर्भवेद् विश्वे युष्माकं परिपूजनात्॥ १५

लोकपूजाव्यवस्थायै प्रतिमानां यथायथम्।
नामादिकीर्तनं कार्य स्तवपूजादिकं तथा॥ १६

प्रतिमां यां प्रतिदिनं पुण्यात्मा पूजयिष्यति।
तयैव दीयते शान्तिस्तस्मै भक्ताय सर्वतः॥१७

एवं ववत्विति प्राहुर्देवाः प्रसन्नमानसाः।
स्वीयवेषैः स्वचेतसा स्वाधिष्ठानं समागताः।
इत्थं पूजाभवद् विश्ववासिभिस्ते प्रपूजिताः॥ १८

परिमाणादिकं तेषां मत्तः श्रुत्वा च लक्षणम्।
अद्य मनुष्यलोकेषु प्रचारय प्रयत्नतः॥ १९

ब्रह्मणश्च मया प्राप्तं विद्योत्तमा च लक्षणम्।
अशेषं परिमाणं च तुभ्यमद्य प्रदीयते॥ २०

त्रिलोकेषु च पूज्यानां सर्वेषां देहिनां तथा।
पापहानिकरं भीतेनशिकम् नेत्रमोदकं॥ २२

आद्युत्पन्नञ्च दोषेण हीनं नानाश्रयं परम्।
विजानीहि क्षितीन्द्र त्वं यशोराशिविवर्धकम्॥ २३

॥इति चित्रलक्षणे पूजोत्पत्तिर्नाम् द्वितीयः परिवर्त्तः॥

तृतीयः परिवर्त्तः

लोकस्य कायमानं मां स्वयम्भूरुपदिष्टवान्।
तत् तथैव प्रवक्ष्यामि मानं ब्रूहि प्रजासु च॥ १

देवराक्षसगन्धर्व सिद्धनर्तककिन्नराः।
विद्याधराश्च नागेन्द्राः पिशाचप्रेतकायिकाः॥ २

ये भवन्ति च तेषां वै भूपतोनां ततस्तथा।
सर्वेषां प्राणिजातानां मानमिदं प्रवर्तते॥ ३

परमाणुश्च वालाग्रं लिक्षा यूको यवोऽङ्गुलिः।
अष्टाष्टगुणवृद्धया वै ज्ञातव्यमिति निश्चितम्॥ ४

परमाणुभिरष्टाभिरेकं वालाग्रमुच्यते।
वालाग्राष्टौ च लिक्षा सा परिमाणज्ञकीर्तिता॥
अष्टलिक्षा भवेद् यूकः अष्टयूका यवः स्मृतः॥ ५

द्वयङ्गुलोद्धर्यङ्गुलं मानमङ्गुलिः स्याद् यवाष्टकम्।
अर्धाङ्गुलिश्चतुर्यवा इति मानं निगद्यते॥ ६

विस्तारस्य यथैवार्थ आयामेन प्रकाशितः।
तथारोहसमुच्छ्रायौ पर्यायवाचिनौ मतौ॥
परिमाणानुसरेण वर्णनोयाः क्षितौ नराः॥७

उच्छ्रायश्च तथायामो राज्ञां न्यग्रोधवृक्षवत्।
विस्तृतश्चक्रवर्तिनां श्रुयतां वर्ण्यते मया॥ ८

उच्छ्रायश्चक्रवर्तिनां स्वाङ्गुलेः परिमाणतः।
अष्टोत्तरशतं ज्ञेयं कदाचिन्न पराङ्गुलेः॥ ९

चक्रवर्तिमहीपानामुच्छ्रायपरिमाणकम्।
साक्षात् सवर्ण्यते चात्र पुर्वोक्तं विस्तरेण च॥ १०

मुखादीनां परिमाणं श्रुयतामुच्यते मया।
त्रिभागेन विभक्तं च समानेन तथा बुधैः॥
चिवुनासाललाटं वा चतुरङ्गुलमानकम्॥ ११

आयामो मुखभागस्य भवेच्चतुर्दशाङ्गुलिः।
उर्द्धभागे त्वधीभागे आयमो द्वादशाङ्गुलिः॥
आरोहो वदनस्यात्र द्वादशाङ्गुलिमानकः॥ १२

आरोहश्चतुरंगुलमुष्णीषस्य भवेद् ध्रुवं।
आयामश्च तथैवास्य षढ़ङ्गुलसमायुतः॥ १३

शीर्षं छत्रसमाकारमायामो द्वादशाङ्गुलः।
द्वात्रिंशत् तस्य मण्दलमङ्गुलीनां हि मानतः॥ १४

कर्णदेशस्य चायमो द्वयङ्गुलिपरिमाणकः।
चतुरङ्गलिसमुच्छ्रायो रन्ध्रमर्धाङ्गलं मतम्।
कर्णारन्ध्रस्य चारोह एकाङ्गुलो भवेद् ध्रुवम्॥ १५

समानतलविज्ञेयं भ्रुपृष्ठकर्णयोस्तथा।
अक्षिकोषस्य विस्तारः कर्णरन्ध्रसमानकः॥ १६

कर्णस्य लुटिकामानं निश्चयेन न कीर्त्यते।
भ्रुवोरुच्छ्राय आरोहो द्वौ यवौ चतुरंगुलिः॥ १७

सर्वेषामेव शान्तानां भ्रुःस्यान्नवशशाङ्कवत्।
नर्त्तने रोदने क्रोधे चापाकारा भवेत् सदा॥ १८

भये शोके च भ्रुप्रान्तावुन्नतौ क्रमिकौ स्मृतौ।
नासाकोशात् समुत्थाय अर्धललाटगामिनौ॥ १९

एकाङ्गुलिस्तथा मध्यः रोमकोषसमावृतः।
भ्रूमध्यात् केशपर्यन्तं मानं द्वयर्धाङ्गुलं मतम्॥ २०

भ्रूवः प्रभृति भालान्तं मानं स्याच्चतुरङ्गुलम्।
द्वयङ्गुलौ ह्यक्षिकोषः स्यान्नेत्रमध्यं तथैव तु॥ २१

चक्षुषोद्वर्यङ्गुलारोह आयामश्चैककाङ्गुलिः।
त्रिभागस्तारका ह्यस्य मुखमानसुसम्मता॥ २२

चक्षुवत् तारकोच्छ्रायो नयनं चापसन्निभम्।
यद् भवेत्तस्य मानं स्याद् यवत्रयप्रमाणकम्॥ २३

उत्पलपत्रनेत्रस्य प्रमाणंषड़्यवं स्मृतम्।
मत्स्योदरसुनेत्रस्य मानमष्टयवं भवेत्॥२४

पद्मपत्रनिभं नेत्रं नवयवैः सुसंनितम्।
वराटकाभनेत्रस्य मानं दशयवं भवेत्॥२५

उच्छ्रायश्च तथायामो नेत्राणां वर्णितो मया।
निर्विकल्पं भवेच्चक्षुर्योगिनां चापसन्निभं॥२६

कामिनां च तथा स्त्रीणां नेत्रं मत्स्योदरं भवेत्।
सामान्यानं तु कर्त्तव्यमुत्पलदलसन्निभम्॥२७

त्रस्तस्य रुदतश्चैव पद्मपत्रनिभं वरम्।
क्रुद्धस्य दुःखितस्यैव वराटकनिभं सदा॥ २८

उत्पलदलवन्नेत्रं रक्तान्तं कृष्णतारकम्।
दीर्धाग्रसुन्दरं पक्ष्म शुवर्णं सर्लं मृदु॥ २९

गोक्षीरवर्णवत्‍स्निग्धं प्रजाहितकरं भवेत्।
राजन्नेतत् विजानीयाद् यथा स्यात् नेत्रलक्षणम्॥ ३०

प्रसन्नपद्मवन्नेत्रां नीलवल्कलसुन्दरं।
अन्तराखचितं कृष्णं तारकं श्रीसुखप्रदम्॥
विलिखयेत् तथा धीमान् चित्रशास्त्रेषु दीक्षितः॥ ३१

नेत्रमानमिदं ज्ञेयं यथाशास्त्रमुदीरितम्।
षट्त्रिंशद्दृष्टिनियमलक्षणमग्र उच्यते॥३२

नासायाः पुनरारोहश्‍चतुरङ्गुलिमात्रकः।
मासाग्रस्य समुच्छ्रायौ द्वयङ्गुलिपरिमाणकः। ३३

वक्रतायाः पुटस्यापि आयामः स्वाङ्गुलिद्वयम्।
नासारन्ध्राग्रदेशस्य मानवं स्याच्चतुर्यवम्॥
उच्छ्रायश्च तथैवास्य यवद्वयसमायुतः॥ ३४

देशस्तुरन्ध्रयोर्मध्ये द्वियवपरिमाणकः।
आरोहः षड़्यवस्तस्य ओष्ठ एकाङ्गुलिः स्मृतः॥ ३५

अधरोऽर्धाङ्गुलिस्तस्य गोजी चार्धाङ्गुलिस्तथा।
अधरोष्ठस्य चारोहश्चतुरङ्गुलिमानकः॥ ३६

ओष्ठान्तौ विम्बवद् रक्तौ तथा चापानुकारकौ।
अल्पोच्चो मुखकोणः स्यात् सदासुस्मितसंयुतः॥ ३७

उच्छ्राये द्वयङ्गुलिर्हनुरायामे त्र्यङ्गुलिस्तथा।
कण्ठस्य तु समुच्छायश्चतुरङ्गुलकं स्मृतम्।
उत्क्षिप्तकण्ठमानं हि ज्ञेयमेतन्न चान्यथा॥३८

अधाधः कण्ठदेशय चायमः स्याद् दशाङ्गुलिः।
कशोऽष्टाङ्गुलकं मानं ततः स्थूलस्त्रिमानतः॥ ३९

कण्ठस्त्रिबलिभिर्युक्तः कर्त्तव्यः कम्बुवत् सदा।
उन्नतः पृष्ठभाग स्यात् परिमण्डलसंयुतः॥ ४०

पञ्चाङ्गुलं तु गण्डोध्वं अधः स्यात् चतुरङ्गुलम्।
चिवुकस्य तथा मानं चतुरङ्गुलकं मतम्॥ ४१

आयामो मुखगागस्य तथौष्ठस्य विवर्णितः।
चतुरस्रं मुखं पूर्णं प्रसन्नं चारुलक्षणम्॥ ४२

त्रिकोणा कुटिला वृत्ता नैव कार्या मुखाकृतिः।
क्रोधयुक् रोषयुक् चैव न मुखं स्यात् कदाचन॥ ४३

ईदृशैर्लक्षणैर्युक्तं मुखं विलिखयेद् यदि।
सुसम्पन्नो भविष्यति नर इह च सर्वदा॥ ४४

शान्तिकामि मुखं यत् स्याद् दीर्घं रवर्तं च वर्तुलम्।
त्रिकोणं वा प्रजानाञ्च सामान्यानां भविष्यति॥ ४५

तदितरञ्च यद् भवेत् पूर्वलक्षणसंयुतं।
तद् विज्ञेयं च देवानां मुखस्य मानमीदृशम्॥ ४६

अत ऊध्‍र्वं प्रवक्ष्यामि कायमान विचारतः।
अविक्षिप्तेन गृह्यतां मनसा च महिपते॥४७

यत् स्थानं कटिदेशस्य उदरस्य तथान्तरा।
ज्ञेयं तद् द्वयङ्गुलं नूनं स्कन्धायामः षड़ङ्गुलः॥
दैघ्‍र्ये त्वष्टाङ्गुलो ज्ञेयो वक्षस्तु द्विगुणं स्मृतम्॥ ४८

आरोहः स्यात्तु मेट्रस्य षड़ङ्गुलप्रमाणकः।
अष्टादशाङ्गुला श्रोणी आरोहे कथिता बुधैः॥ ४९

जत्रुतो हृदयं यावन्न कुटिलः प्रदेशकः।
हृदयान् नाभिरन्ध्रकः बन्धुरः स्यान्न संशयः।
नाभितो मेट्रपर्यन्तं समानं च भवेद् ध्रुवम्॥ ५०

चतुर्दशाङ्गुलं कट्या नाभेरर्धाङ्गुलं मतम्।
मानं च दहिणावर्त्तं यवैकं चुचुकं स्मृतम्॥ ५१

मण्डलो द्वयङ्गुलो वासः पुनर्देयं चुचूकयोः।
बन्धनं च प्रदातव्यं कटिदेशस्य शोभनम्॥
कटिदेशस्तथा नाभेरधस्ताच्चतुरङ्गुलिः॥ ५२

आयामे द्वयङ्गुलं मेढ्रं वास्तेयस्तु षड़ङ्गुलः।
बृषणौ नातिलम्बौ हि स्थूलत्वे सप्तकाङ्गुलौ॥
परिवृतिः समानैव उच्छ्राये चतुरङ्गुलौ॥ ५३

मेदं षड़ङ्गुलं प्रोक्तमन्तरं स्वोदरान्ननु।
षड़ङ्गुलं भवेत् मानं लक्षणज्ञैरुदाहृतम्॥ ५४

आयामो जङ्घयोः कार्यः पञ्चविंशतिरङ्गुलः।
ऊर्बोर्गुल्फयोश्‍चैव मानं स्याच्चतुरङ्गुलम्॥ ५५

प्रान्तद्वयं च जङ्घाया विख्यातं चित्रकर्मणि।
गुल्फलग्नप्रदेशस्य आयामश्चतुरङ्गुलः।
तथैव मध्यदेशी हि आरोहेण षड़ङ्गुलिः॥ ५६

ञ्यङ्गुलं जानुभागस्य आयामे न तथारोहे।
जङ्घाद्वयस्य तस्योर्धं मानमष्टाङ्गुलं मतम्।
जङ्घयोः स्थूलतामानं भवेद् द्वादशकाङ्गुलम्॥ ५७

जङ्घाग्रमुन्नतं कुर्यात् पुष्टमसिन संयुतम्।
मृदु करिकराकारं न कार्यं विषमं क्वचित्॥ ५८

गुल्फादेशस्तथा नाड़ी प्रगच्छन्नैव दृष्टिताम्।
जङ्घायाः पश्‍चिमो भागः सुवृत्तोऽल्पोन्नतौ भवेत्॥ ५९

उच्छ्रायेण तु पार्ष्णीनां मानं पञ्चाङ्गुलं मतम्।
आयामस्त्र्यङ्गुल प्रोक्तः पादौ चतुर्दशाङ्गुलौ॥ ६०

चतुरङ्गुलिकोऽङ्गुष्टो रक्तं पादतलं स्मृतम्।
रक्तपद्माग्रसादृश्यं लाक्षारससमायुतम्॥ ६१

चक्रादिलक्षणैर्युक्तं परस्परसमीपगम्।
पादस्य बन्धनं स्यात्तु द्वयुङ्गुलं भूपदेशगम्॥ ६२

चक्रवर्तिमहीपस्य हंसवच्चरणौ मतौ।
भूस्पर्शौ जालवृद्धौ च अष्टाङ्गुलिप्रमाणकौ॥ ६३

कूर्मपृष्टसमाकारौ सुन्दरचिन्हसंयुतौ।
पञ्चाङ्गुलिसमायामौ दर्शने सुमनोहरौ॥ ६४

कनिष्टिकात्तयारोहः षड़ङ्गुलिसुसंयतः।
अङ्गुष्टस्य तथायामो द्वयङ्गुलः साधुनिश्‍चितः॥
परिवृतिः षड़ङ्गुलिः आरोहे चतुरङ्गुलिः॥ ६५

अग्रे समुन्नता कार्या दीर्घा अङ्गुलयस्तथा।
अङ्गुष्ठापेक्षया स्थूला आरोहे त्र्यङ्गुला मताः॥ ६६

एकैकाङ्गुलितो न्यूनाः सर्वाः स्युः क्रमिकागताः।
कनिष्ठिकासमुच्छ्रायपरीवृत्तिर्द्विरङ्गुलि॥ ६७

अङ्गुलीनां तु जालाश्च सन्नद्धाः सुन्दरास्तथा।
नाड्यविषमसंपुष्टा अस्थि चादर्शनं गतम्॥ ६८

नखाश्चार्धशशाङ्कवत् रक्तिमाः स्‍निग्धवर्णकाः।
सिन्दुरलिप्तसर्वाङ्गाः प्रदिप्ताग्निशिखा यथा॥ ६९

चन्द्रकान्तसमुज्ज्वलास्तथा सुस्पष्टसंयुताः।
अव्रणा मृदवः पूर्णाः यवमानेन पूरिताः॥ ७०

अङ्गुलिस्तु त्रिभागः स्यात् स्पष्टा वृद्धाङ्गुलिस्तथा।
तस्याः पार्श्‍वाङ्गुलेर्मध्ये स्थानमर्धाङ्गुलं मतम्॥ ७१

गुल्फादेशादधोभागश्‍चरणमितिसंज्ञितम्।
तच्चरणसमुच्छ्रायः चतुरङ्गुलको मतः।
इत्थं चरणमानं स्यान् मया प्रोक्तं सुचिन्तितम्॥ ७२

हस्तस्य लक्षणान्यत्र श्रुयन्तां कथयाम्यहम्।
तलं सप्ताङ्गुलं दीर्घं विस्तारः पञ्चकाङ्गुलिः॥ ७३

मध्याङ्गुलेः समुच्छ्रायः पञ्चाङ्गुलं प्रकीर्तितम्।
तर्जन्या न्यूनता बोध्या पर्वार्धेन सुसंमता॥ ७४

अनामिकाङ्गुलीमानं तदूवदेव भवेद् ध्रुवम्।
कनिष्ठिकाप्यदीर्घा स्यात् पार्श्‍वाङ्गुलिक्रमादनु॥७५

अङ्गुष्ठस्य सदोरहोश्‍चतुरङ्गुलको मतः।
अङ्गुष्ठे द्वे तु पर्वणी समेनैक यवो भवेत्॥ ७६

तस्याधो मांसपिण्डश्च त्र्यङ्गुलिसम्मितो भवेत्।
अङ्गुष्ठस्य प्रमाणं तु नवयवकसम्मतम्॥
आयामोऽष्टयवः कार्य आरोहस्तु यवा नव॥ ७७

अङ्गुष्ठात्तु चतुर्भागा नद्धा जालक्रमादनु।
नखा रक्तास्तथा स्वच्छाः शुक्तिवच्चारुतान्विता॥ ७८

अङ्गुष्ठपार्श्‍वमांसं त्वायामे अङ्गुलकं मतम्।
अङ्गुष्ठान्तं तु करभात् सप्ताङ्गुलमानकम्॥ ७९

आयामश्‍च तथारोहः क्रमादङ्गुष्ठयोर्मिथः।
यथाशास्त्रमुपन्यस्तः शुभं कार्यं विचारयन्॥ ८०

पर्वार्धेन मिताः कार्या नखाः सूक्ष्मां नखाग्रकाः।
सृष्यन्ते च यवादृशः पर्वतरेखा त्वदोषभाक्॥ ८१

पर्वं दीर्घं च वृतं च करतलसुशोभनम्।
तलौ पद्मसमौ रक्तौ करस्यैवं विधानतः॥ ८२

अकुटिलमवक्रं च गम्भीरं सूक्ष्मकं तथा।
रेखात्रयं करे प्रोक्तं रक्तवर्णं सुशोभनम्॥ ८३

श्रीवत्सचक्रचिन्हस्वस्तिलक्षण समन्वितम्।
कार्पासस्पर्शकोमलं क्षौमसूत्रमनोहरम्।
सुखदं चारु सुस्पर्शं कुर्यात् करतलं शुभम्॥ ८४

समन्तान् मांसपूर्णं वै नाड़ी दृश्या कदापि न।
हस्तपृष्ठं सदा स्‍निग्धमुन्नतं च भवेद् ध्रुवम्।
सूक्ष्मा अङ्गुलिजाला हि सुन्दरं च तनुस्तथा॥ ८५

उत्पलाभः सदा रक्तो नागेन्द्राभोगसन्निभः।
नखोदरस्तनुः स्निग्ध उन्नतः करशोभकः॥ ८६

आरोहायाममानं तु हस्तस्य गदितं मया।
बाहूनां मानमारोहं धीमन् शृणु वदानि ते॥ ८७

उभयोस्तु तथा बाह्वीर्मानं कुर्याद् यथाविधि।
षट्‍त्रिशकं प्रमाणं वै अङ्गुलीनां विधानतः।
अष्टादश प्रबाहोश्‍च बाहोश्‍चापि तथैव च॥ ८८

स्कन्धाग्रस्य भवेन् मानं षड़ङ्गुलिसुसम्मतम्।
आयामो बाहुभागस्य ज्ञेयं पञ्चाङ्गुलं सदा॥ ८९

अङ्गुलिर्मणिबन्धः स्यात् प्रवाहू चतुरङ्गुली।
विशालो वर्त्तुलाकारः सुस्पष्टोरंशो भवेत् पुनः॥ ९०

आरोहो भुजयोर्यस्तु भवेदष्टादशाङ्गुलिः।
आकरादष्टचत्वारिशत् नाड़िपर्व त्वदृश्यकम्॥ ९१

हस्तौ न जानुपर्यन्तौ दीर्धौ सूक्ष्र्मौ च सुन्दरौ।
समन्तान् मांसपूर्णौ च भवेतामानपूर्ण्यतः॥ ९२

गोपुच्छाग्रसमौ तावत् क्रमेणोच्चावचौ पुनः।
बाहू दण्डायमानस्य जानुपर्यन्तगामिनौ॥ ९३

तस्माद् राजेन्द्र हस्तेन जानुप्राप्त उदीर्यते।
बाहुप्रबाहुमानानि आयामारोहः कीर्त्तितः॥ ९४

पुनरग्रे प्रवक्ष्यामि लक्षणानि शुभानि वै।
यानि पुर्वं न चोक्तानि तानि तुभ्यं वदाम्यहम्॥ ९५

केशानां प्रान्तभागात्तु स्थानं कट्यास्थिविस्तृतम्।
परिमाणं षड़ङ्गुलं ज्ञेयं सदा महीपते।
स्कन्धस्थलस्य मानं हि षोड़शाङ्गुलिसम्मितम्॥ ९६

आरोहस्तस्य मध्यस्य दशाङ्गुलं भवेद् ध्रुवम्।
आयामे चाङ्गुलीनां ही संख्या यायाद् नवान्विता॥ ९७

स्कन्धदेशस्य मध्यांश आरोहायामशोभितः।
पृष्ठमध्यः षड़ङ्गुलिरुर्ध्वे तु विंशतिर्मता॥ ९८

मध्यस्य द्वयङ्गुलायामः पृष्ठं भागेन सुन्दरम्।
पुरुषाणामिदं मानं स्त्रीणां भागः स एव हि।
मांसपेश्यल्पसंयुतः सर्वशरीरशोभनः॥ ९९

नितम्बपार्श्‍वमानं स्यात् षड़ङ्गुलिसमन्वितम्।
चतुरस्रं च विज्ञेयं मण्डलान्वितनिम्नगम्॥ १००

स्थानात् तस्मात् समारभ्य श्रोणीसीमासमीपगम्।
चतुरङ्गुलं स्थानं स्यात् पायुस्तु द्वयुङ्गुलं मतम्॥ १०१

नितम्बदेश आरोहे चाष्टाङ्गुलिसमन्वितः।
नातिसंकोचमापन्न आयामः सप्तकाङ्गुलिः।
चारुमण्डलयुक्तश्‍च नातिप्रसारितो भवेत्॥ १०२

आरोहायामयोः सर्वं लक्षणं शास्त्रसम्मतम्।
निर्दिष्टं चावबोधार्थं पुनरत्र प्रवक्ष्यते।
अविक्षिप्तेन चित्तेन गृह्यतां लोकहेतवे॥ १०३

दन्तशिरस्य लोभानां व्यवस्था क्रमशो यथा।
वर्णस्य लक्षणं चैव देवमुखे न दीयते॥ १०४

सुग्रथिताः समादन्ताः स्‍निग्धवर्णाः सुतीक्ष्णकाः।
दधिमुक्ताब्‍जवच्छुक्ल्‍आः स्वच्छाः श्‍वेता हिमा इव॥ १०५

चत्वारिशच्छुभा दन्ताः श्‍वदन्तैश्‍च सुशोभिताः।
आरोहे त्रियवा ज्ञेया आयामे यवयुग्मकाः॥ १०६

दन्तमूलं तथा तालु जिह्वासीमा च लोहितम्।
जातीकुसुमसंकाशं श्‍वदन्ताभं सुशोभनं॥ १०७

श्‍वदन्तानां यवार्धेन वृद्धिः कार्या विचारयन्।
तीक्ष्णाग्रपरिमण्डलं मृदु मृणालतन्तुवत्॥ १०८

पद्मपत्रप्रतीकाशः कोमलष्च सुलक्षणः।
स्थिरतडीन्निभो जिह्वादेशः स्पष्टष्च रक्तिमः।
नवार्धपर्णवच्चारुः मुखे वै विततो भवेत्॥ १०९

ऐरावतस्य वृंहती हयराजस्य नादव्त्।
मेघरवस्य गम्भीरा वाणी प्रोक्ता सुलक्षणा॥ ११०

जालरेखानिभा केशाः शिरोऽलंकरणं गताः।
इन्द्रनीलसभाः कृष्णा भ्रमराञ्जनसन्निभाः॥ १११

मयूरकण्ठरोमाभाः कोकिलाभाः शिरोरुहाः।
नीला देदीप्यमानाश्च पृष्टमूलसमागताः॥ ११२

सुन्दरा दक्षिणावर्त्ताः केशरिणः सटाप्रभाः।
जालरेखाङ्किताः कोणाः केशचूड़ा मनोहराः॥ ११३

बाहुमूलोपजङ्घासु नासाकर्णमुखेषू च।
जङ्घासु कण्ठगण्डेषु केशा न स्युर्महात्मनाम्॥ ११४

मृदुसूक्ष्मैस्तथा स्‍निग्धैर्जालरेखैः सुशोभनैः।
केशानां परिमण्डलैर्नीलाञ्जनसमप्रभैः।
वक्षस्थलं नृपाणां च शोभितं स्यात् सुलक्षणम्॥ ११५

देवभूतमनुष्याणां मुखे श्मश्रु न रोम च॥ ११६

एतेषां देवदेहस्तु रोमभिः परिवर्जितः।
षोड़शवर्षपूरकं शरीरं तद्धि कथ्यते॥ ११७

सुराणां केशजालं तु सूक्ष्मलतेव संगतम्।
नीलं चक्षुर्मनोग्राहि सर्वसत्त्वसुखप्रदम्॥ ११८

जम्बुनदसमाहृततप्तकाञ्चनवर्णकः।
देदिष्यते च देहोऽस्य पातचम्पकपुष्पवत्॥ ११९

कमलदलकोषस्य प्राकार इव तृप्तिदः।
उत्तमः पुरुषो ज्ञेयः लक्ष्मणं चक्रवर्त्तिनः॥ १२०

गजराजगतिर्यस्य वृषराजपदोन्नतिः।
मृगराजगतिस्थैर्यं लक्ष्मणं चक्रवर्त्तिनः॥ १२१

गजवत् सबलौ पादौ वृषवदाननं खरम्।
वदनं सिंहवद् राजहंसतेजः समायुतः॥ १२२

वेशदृशां गतिं चाथ अतिक्रम्य च सर्वेषाम्।
दृश्यवन्नाटकस्येव भूतानां शिक्षको च मनोरमा॥ १२३

सुगन्धस्त्वक् कृशः स्‍निग्धी दर्पणस्पर्शकोमलः।
धूलिमलेन निर्लिप्तः लक्षणं चक्रवर्त्तिनः॥ १२४

प्रदीप्तमणिसंकाशः स्‍ह्वेतवस्त्रसुशोभितः।
समन्तात् किरणावृतः राजा लेख्यः कृशः सदा ॥ १२५

निर्मेधशशिच्चारु प्रभामण्डलमण्डितम्।
शरीरं यस्य राजेन्द्र लक्षणं चक्रवर्त्तिनः॥ १२६

मुखं चन्द्रदृशं स्‍ह्वेतं सुग्निग्धश्‍चापरः शशी।
धरापृष्टे समायात इत्त्थं माधुर्यमण्डितः।
भ्रूवोः कण्ठस्य भालस्य सौन्दर्यं हि मुखस्य च॥ १२७

आकुञ्चितमृदुस्‍निग्ध चारुकेशः सुनासिकः।
चार्वोष्टं रक्तिमापूर्णं स्वच्छा दन्ता नभो यथा॥ १२८

दीर्धोत्तम च पक्ष्म हि स्‍निग्धवर्णं भवेत्तथा।
नीलं कृष्णं दीर्घं च चक्षुः स्यात् सुमनोहरम्।
भ्रूवौ दीप्तौ सदा ज्ञेयौ नेत्रानन्दविधायकौ॥ १२९

फुल्लारविन्दकोषस्य कर्णयोराकृतिः समा।
ईषद्‍रोमौ मनोहरौ शरीराङ्गविभूषणौ॥ १३०

कर्णयोर्लुटिके तस्य क्रमिके शङ्खसन्निभौ।
बद्धस्कन्धौ सुपूर्णांशौ शोभनमङ्गमण्डलम्॥ १३१

मांसपुर्णं भवेद् वक्षः तस्यारोहो यथाक्रमन्।
आयामश्‍च यथायथं चानुपूर्व्येण संगता॥ १३२

सिंहोदरवद् विज्ञेया कटिरावर्तिता भवेत्।
दक्षिणावर्तिनो नाभिः गभीरा स्याद् यथायथम्॥ १३३

ऐरावतसमानौ हि लिङ्गकोषश्‍च सुन्दरः।
समन्तात् मण्डलाकारः आभादृश्या भवेद् ध्रुवम्॥ १३४

गजशुण्डसमा जङ्घा अनुक्रमेण विस्तृता।
मुखेषु चोन्नता ज्ञेया गुल्फोऽदृश्पो भवेत् तथा॥ १३५

सुबद्धाङ्गुलिसुन्दरौ कूर्मवत् मांसलौ तथा।
अर्धचन्द्रप्रभायुक्ताङ्गुलिचक्रपदाङ्कितौ।
पादपृष्टोमृदू स्यातां कोमलौ हरितौ स्मृतौ॥ १३६

वृषपुच्छानुपूर्वियौ दीर्घाङ्गुलियुतौ करौ।
नखप्रभासमुज्ज्वलौ प्रसारे दीर्घकौ यथा।
परिमण्डलसम्पन्नौ चक्ररेखास्वलङकृतौ॥ १३७

चम्पकदामशोभितः मरालगातसंयुतः।
सुसंस्थानसमापन्नः सर्वाङ्गेण मनोहरः॥ १३८

तेजस्वी वीर्यवान् राजन् चक्रवर्त्ती सदा भवेत्।
आयामारोहमानं च लक्षणं तदुदाहृतम्॥ १३९

देहे जङ्घोपजङ्घा च भृशं विकशिता भवेत्।
सुहस्तौ चरणौ स्यातां तथा पर्व च दृश्यते॥ १४०

कुक्षिपृष्टे सुशोभिते मुखं चारु मनोहरम्।
शोभितौ च भुजौ स्यातां देहो मानान्वितो भवेत्॥ १४१

अङ्गानि मांसपूर्णानि शरीरं स्निग्धवर्णकम्।
प्रियौदार्यगुणा यत्र राजहंसगतिस्तथा।
चारुदेहो महीपतेः चक्रवर्ती स उच्यते॥ १४२

प्रसिद्धैः शिल्पिभिः कार्यं मानवाङ्गेषु यत्‍नतः।
शीर्षकष्टभुजद्वन्दं जङ्खोपजङ्खसुन्दरम्॥ १४३

उपयुक्तेषु सर्वेषु परिमाणं तु यत्र च।
तत्र स्वाङ्गुलिना कार्यं मानं सर्वत्र कर्मणि॥ १४४

आरोहायामपीनत्वे प्रत्यङ्गं समतां भजेत्।
विधिना परिमाणेन सम्म्पन्नं शोभितं भवेत्॥ १४५

अती ज्ञेयञ्च पण्डितैः परिमाणं सुयत्नतः।
परिमाणप्रतिष्टानोपायादिभिर्विहीना या।
प्रतिमा सा परित्यक्ता सुरदेवैः सदा खलु॥ १४६

पिशाचा राक्षसा भूता वसन्ति त्वरित तथा।
शोभितान् नाशयन्ति च अमङ्गलं भयं भवेत्॥ १४७

आरोहायामयोः राजन् लक्षणं कथितं मया।
यथेच्छं वै विभक्तव्यं चतुर्भागेन मुख्यतः॥ १४८

वलिः सूर्यो दाशरथिः रामो मनुसुतस्तथा।
परिमाणानुसारेण कार्यो भिन्नो वीचक्षणैः॥ १४९

भद्रौ द्वयङ्गुलिना न्यूनो मालव्यश्‍चतुरङ्गुलिः।
रुचकोऽष्टाङ्गुलिन्यूनः शशकश्च दशाङ्गुलिः॥ १५०

अप्रियो न यथा यायात् तथा मानं विचारयेत्।
किं भवेत् परिमाणेन शरीरं चेदसुन्दरम्॥ १५१

चतुर्णां च तथा राज्ञां परिमाणस्य लक्षणम्।
ब्रह्मणा तु प्रदर्शितं विस्तरं ब्रवीमि ते॥ १५२

सर्वस्य लेखने ग्रन्थे विस्तारो भवति ध्रुवम्।
तेन त्रस्यन्ति चाल्पज्ञा अश्रुतिकारणान् ननु॥ १५३

नारीपुरुषयोः सत्सु लक्षणेषु प्रजापतिः।
द्वादशेषु सहस्रेषु पञ्चश उपदिष्टवान्॥ १५४

नरलक्षणयुक्तेषु तथानिर्दिष्टपञ्चधा।
तुभ्यं प्रदर्शयामि चेद् गच्छेद् ग्रन्थो विशालताम्॥ १५५

चक्रवर्त्तिनरेन्द्रस्य लक्षणं कथितं मया।
विधिवत् परिमाणञ्च अन्यप्रदर्शनेन किम्।
उत्तमपुरुषादीनां तेन मानं ध्रुवं भवेत्॥ १५६

अतो बुद्धया सुनिश्‍चित्य भद्रो लेख्यो विचारयन्।
स च भवेत् समुच्छ्राये षडुत्तरशताङ्गुलम्॥ १५७

रुचकस्य समुच्छ्रायः शतसंख्यान्वितो भवेत्।
मालवस्य तथोच्छ्रायश्‍चतुःशतमिताङ्गुलम्॥ १५८

शशकस्य समुच्छ्राये संख्याष्टनवतिः सदा।
अङ्गुलीनां विधातव्या चित्रशास्त्रविशारदैः॥ १५९

अतोऽन्योमाननियमो न भूतो न भविष्यति।
उत्तमाधममध्यमप्रधानानाञ्च भूभृताम्।
आरोहाथाममानं तु आलोच्यात्र प्रदर्शिनम्॥ १६०

उच्छ्रायो नवरत् स्त्रीणा ज्ञेय एकाङ्गुलिः कृशः।
एकाङ्गुलिस्तथा राज्ञा पुष्टिर्ज्ञेया महामते॥ १६१

नाभिजङ्खोपजङ्खानां लटिकण्ठोपजानुनाम्।
शीर्षदेशस्य वक्षसस्तथा चरणयोर्नृप।
आरोहो नाप्रियो यायात् तथा मानं विधीयताम्॥ १६२

उत्तममध्यमाधममानं तु क्रमिकं मतम्।
आरोहश्‍च तथायामः तेषामत्र प्रदर्शितः।
नारीणां परिमाणं च सर्वं शृणु क्रमेण हि॥ १६३

राज्ञां यथा प्रदर्शितं मानेन च तथायुतम्।
सम्यग् विचार्य शेमुष्या बहुस्थानप्रतिष्ठितम्॥ १६४

समद्विभागसम्पन्नं निष्कुटिलं सुकोमलम्।
लेख्यं चित्रमनिन्दितं नेत्रप्रीतिविवर्द्धनं॥ १६५

इति चित्रलक्षणे परिमाणो नाम्स्तृतीयः परिवर्तः।
यावत् ब्रह्मणः परिमाणलेखयः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project