Digital Sanskrit Buddhist Canon

आत्रेयतिलकम्

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



आत्रेयतिलकम्



(प्रतिबिम्बलक्षणम् )



 



नमो बुद्धाय।



 



आत्रेयतिलके बौद्धशास्त्रेऽन्यत्र पुरातनैः।



उक्तं यत्पूर्वमुनिभिः प्रतिमामानलक्षणम्॥१॥



 



तत्संहृत्येह चैकत्र पिण्डीकृत्य यथाक्रमम्।



नत्वा सर्वविदं देवमर्च्चालक्षणमुच्यते॥२॥



 



द्वादशाङ्गुलितालञ्च वितस्तिर्मुखमेव च।



ज्ञेयमेवार्च(र्चा)नामेतत् द्व्यङ्गुलं गोलकं कला॥३॥



 



पल्लवानां चतुर्भागो मापनाङ्गुलिका स्मृता।



ततोऽङ्गुल्यष्टभागेन यवं विन्द्याद्विचक्षणः॥४॥



 



अर्चानामङ्ग प्रत्यङ्गमापनार्थमिति स्मृतम्।



अनेनैव विधानेन मापयेत्प्रतिमां बुधः॥५॥



 



यत्किञ्चिद्रूपकायामं विभज्य नवभागतः।



एकतालं मुखं कुर्याद्विस्तारञ्च तथैव च॥६॥



 



वकाराकृति चूताभं मुखं खगाण्डाभं तिलाकृति।



सार्द्धाङ्गुलविहीनं यत्तत् वकाराकृतीष्यन्त (ते)॥७॥



 



द्व्यङ्गुलेन विहीनेन चूताभमाननं भवेत्।



सार्द्धद्व्यङ्गुलहीनं तु खगाण्डाकारमुच्यते॥८॥



 



वर्जयेत्त्र्यङ्गुलं यत्तु नामधेयं तिलाकृति।



चतुर्ण्णामपि वक्त्राणां कपोलेषु विवर्जयेत्॥९॥



 



केवलं तिलसंस्थानं नारीणामिष्यते मुखम्।



अशास्त्रेण मुखं कृत्वा यजमानो विनश्यति॥१०॥



 



सशास्त्रेण मुखं कृत्वा बर्द्धते सहबान्धवैः।



एवं शास्त्रागमं कृत्वा अर्चानां कारयेद्बुधः॥११॥



 



द्वीता(गो)लं शीर्षभागञ्च छत्राकारं प्रयोजयेत्।



अङ्गुलार्द्धं द्विगोलञ्च ललाटं परिकीर्तितम्॥१२॥



 



तिर्य्यञ्चं ललाटस्य नियतं पञ्चगोलकम्।



द्विकलो द्वियवश्चैव नासिकायाम उच्यते॥१३॥



 



द्वियवश्चाग्रविस्तारो निष्कासं सार्द्धमङ्गुलम्।



द्व्यङ्गुलं पार्श्वयोरूर्ध्वं नाशा(सा)चययवत्रयम्॥१४॥



 



अर्द्धाङ्गुलिसमे वृत्ते वंशमूले यवद्वयम्।



श्रोतसी त्रियवे स्यातां शङ्खाकृतिसुशोभना(ने)॥१५॥



 



इति मानसमायुक्ता जिह्वापिण्डी प्रशस्यते।



तिलपुष्पसमाकारा शुकसेनमुखोपमा॥१६॥



 



त्र्यङ्गुलं द्वियवं तस्य अधोभागं प्रचक्षते।



षड्यवं भोजकं कुर्यादुत्तरोष्ठं चतुर्यवम्॥१७॥



 



त्रिभागाङ्गुलिका कार्या गोजी(धिः)तस्योपरिः स्थिता।



अधरं भोजकं तुल्यं विस्तारमङ्गुलद्वयम्॥१८॥



 



निष्कासं षड्यवं मध्ये विश्वरेखां च कारयेत्।



सृक्कणीं चाङ्गुलार्द्धेन किञ्चिन्निम्नां तु कारयेत्॥१९॥



 



द्व्यङ्गुलं चिबुकं तिर्य्यगायामेन यवा दश।



अर्द्धाङ्गुलं भ्रुवोर्मध्ये दीर्घं पञ्चाङ्गुलं भवेत्॥२०॥



 



यवार्द्धमाना भ्रूरेखा चापाकृतिरखण्डिता।



द्व्यङ्गुलं द्वियवं नेत्रमायतं तन्ति(त्त्रि)भागतः॥२१॥



 



लोचनस्य त्रयो भागं (गा)तथा तारं प्रकीर्तितम्।



तस्य भागत्रयं कुर्यादसितं संप्रकीर्तितम्॥२२॥



 



कुमुदोत्पलपत्राभं पद्मपत्रं झषोदरम्।



अपाङ्गे द्वे कले ज्ञेये तेत्रमध्यञ्च द्व्यङ्गुलम्॥२३॥



 



कर्णौ द्व्यङ्गुलविस्तारौ दीर्घं तु चतुरङ्गुलम्।



पृष्ठतः कर्णनिष्कासं द्व्यङ्गुलं परिकीर्तितम्॥२४॥



 



तुटिका द्व्यङ्गुलं सम्पत्तदर्द्धा ककुना भवेत्।



अङ्गुलस्य चतुर्थांशः कर्णवर्त्यास्तु विस्तरः॥२५॥



 



त्रि(द्वि)यवैः कर्णयोर्गुह्यं यथाशोभा च पाशिका।



कर्त्तरीमूलसंस्थानं कर्णनालं प्रकीर्तितम्॥२६॥



 



कर्णयोरुभयोर्मध्ये मस्तकोऽष्टादशाङ्गुलः।



चतुर्दशाङ्गुलं पृष्ठं ललाटस्य न संशयः॥२७॥



 



भ्रूरेखा नेत्रयोर्मध्ये गोलकं परिकीर्तितम्।



अष्टाङ्गुलं भवेन्मध्यं चिबुकाकर्णमूलयोः॥२८॥



 



तथा चिबुललाटं च कर्तव्यं नेत्रयोः समम्।



सृक्कणी तारका पार्श्वे समसूत्रेण मापयेत्॥२९॥



 



भ्रूरेखा कर्णशीर्षं च समसूत्रेण ताडयेत्।



तुटिका नेत्रमध्यं च तथैव समताडनम्॥३०॥



 



द्विगोलं मुखनिष्कासं ग्रीवायामस्तथैव च।



स्कन्धमूलाच्छ्रुतेर्मूलं यावत् स्यात् गोलकत्रयम्॥३१॥



 



चिबुकाधो यथाशोभं कर्तव्यं मांसवर्तन(र्तुल)म्।



तदा लम्बप्रमाणेन गृहिनीं ह्रासयेत्सनाक्॥३२॥



 



मौलिकोथ जटाबन्धः कुञ्चिताश्च शिरोरुहाः।



किरीटि त्रिशिखं चैव मुकुटं खण्डमेव च॥३३॥



 



तेषामष्टाङ्गुलं दीर्घं कर्तव्यं नाधिकं ततः।



मुखाता(खद्वा)रं प्रवक्ष्यामि शुभं वा यदि वाऽशुभम्॥३४॥



 



किञ्चित्प्रहसितं कुर्यान्माधुर्यलवणान्वितम्।



कषायं कटुकं क्रुद्धमाम्लं च तिक्तमेव च।



वक्त्रं वेदनसंस्थानं दूरतः परिवर्जयेत्॥३५॥



 



अतःपरं प्रवक्ष्यामि देहानां मानलक्षणम्।



हिक्कातो नाभिपर्यन्तं द्विमुखं कारयेद्बुधः॥३६॥



 



नाभितो वृषणामूलं तिर्य्यक् पार्श्वौ स्फिचौ तथा।



हिक्काचूचुकयोर्मध्ये चूचुकान्तरमेव च॥३७॥



 



ग्रीवापार्श्वात् भुजाशीर्षं तालमेकं प्रकीर्तितम्।



नाभिचूचुकयोर्मध्ये भागश्चतुर्दशाङ्गुलम्॥३८॥



 



समसूत्रं च कर्तव्यं हिक्का चांसाग्रमेव च।



अंसयोर्मध्यविस्तारः त्रितालः समुदाहृतः॥३९॥



 



अक्षं(पृष्ठं)षडङ्गुलं कुर्यात्तथा कक्षस्तनान्तत(र)म्।



एकगोलप्रमाणं च चूचुकापार्श्वमण्डलम्॥४०॥



 



द्वियवं चूचुकं वृत्तं त्रियवं नाभिमण्डलम्।



निम्ना नाभिश्च कर्तव्या दक्षिणावर्तलाञ्छना॥४१॥



 



त्र्यङ्गुलौ वृषणौ स्यातां मेढ्रं तु चतुरङ्गुलम्।



हि(स्फि)चावष्टाङ्गुलादूर्ध्वं पीनवृत्तौ सुशोभनौ॥४२॥



 



भुजायामं प्रशंसन्ति तज्ज्ञा मुखचतुष्टयम्।



बाहू चाष्टकलौ स्यातां प्रबाहू नवगोलकौ॥४३॥



 



त्रिगोलं करदीर्घं तं भावती मध्यमाङ्गुलिः।



कुर्याद् द्विगोलमङ्गुष्ठं तत्तुल्या च कनीयसी॥४४॥



 



मध्यमाया नखार्द्धेन हीना चानामिकाङ्गुलिः।



हीना नखेन विज्ञेया मध्यमस्य प्रदेशिनी॥४५॥



 



अङ्गुष्ठस्य तु विस्तारं कल्पयेत यवा नव।



सार्द्धमष्टयवं तिर्यक् मध्यमायाश्च योजयेत्॥४६॥



 



उभौ चाष्टयवं कृत्वा सप्तयवा कनीयसी।



कनिष्ठामूलतो बन्धं मणेः पञ्चाङ्गुलं मतम्॥४७॥



 



तत्प्रमाणेन जानीयात्तिर्यक् करतलस्य तु।



अङ्गुष्ठमूलतो बन्धमणेर्यावद् द्विगोलकम्॥४८॥



 



अङ्गुष्ठमूलात्तर्ज्जिन्या मूलं सार्द्धकलं कलेत्।



अङ्गुल्यस्तास्त्रिपर्वाः स्युर्द्विपर्वोऽङ्गुष्ठको भवेत्॥४९॥



 



अङ्गुष्ठस्याङ्गुलीनां च समपर्वो विधीयते।



सुवर्तिताग्रसूक्ष्माश्च सुसन्धाश्च प्रयोजयेत्॥५०॥



 



स्वाङ्गुलार्द्धं नखं तिर्यक् पर्वार्द्धदीर्घमेव च।



मूलेऽर्द्धचन्द्रसंयुक्तं करजं कारयेद्बुधः॥५१॥



 



पाणिं पञ्चाङ्गुलं कुर्यात्तत्पार्श्वमङ्गुलद्वयम्।



पूर्णं करतलं कुर्यात् शुभले(रे)खोपशोभितम्॥५२॥



 



हस्तरेखां प्रवक्ष्यामि देवानां शुभलक्षणम्।



शङ्खं पद्मं ध्वजं वज्रं चक्रं स्वस्तिककुण्डलम्॥५३॥



 



कलशं शशिनं छत्रं श्रीवत्सांशुकमेव च।



त्रिशूलं यवमालाश्च कुर्वीत वसुधां तथा॥५४॥



 



नाभिगुह्यकयोर्मध्येनोरुमूलं समं कलेत्।



द्विवितस्त्युरुदीर्घत्वं जङ्घां दीर्घं मुखद्वयम्॥५५॥



 



जानुनी द्विकले स्यातां गुल्फाके(वे)ककलौ स्मृतौ।



द्विकलौ पार्ष्णिकौ ज्ञेयौ पक्वबिम्बफलाकृती॥५६॥



 



अङ्घ्रेः सप्ताङ्गुलं तिर्यगायामेन दशाङ्गुलम्।



चतुर्भागेन पादस्याङ्गुष्ठायामं विधीयते॥५७॥



 



तत्समा सूचिका हीना मध्यमा द्वियवेन तु।



अनामिकानखार्द्धेन हीनपर्वा कनीयसी॥५८॥



 



अङ्गुष्ठस्य च विस्तार एकादशयवः स्मृतः।



सूच्यङ्गुष्ठकयोरग्रे चान्तरं त्रियवं भवेत्॥५९॥



 



सूच(ची)नवयवा तिर्यक् सार्द्धाष्टयवमध्यमा।



अनामाष्टयवा तिर्यक्कीर्त्यते मानलक्षणे॥६०॥



 



बाले चूतकसंस्थानावङ्गुष्ठौ परिकीर्तिताः (तौ)।



कूर्मपृष्ठसमाकारं पादस्योपरि कारयेत्॥६१॥



 



जलूकपदसंस्थाना अङ्गुल्यः परिकीर्तिताः।



पादौ समतलौ कार्यौ शुक्त्याकारा नखाः स्मृताः॥६२॥



 



अतः परं प्रवक्ष्यामि परिणाहस्य लक्षणम्।



षट्त्रिंशदङ्गुलं ज्ञेयं शिरसः परिमण्डलम्॥६३॥



 



ग्रीवाष्टाङ्गुलिविस्तारा त्रिगुणं परिमण्डलम्।



कक्षयोर्मध्यविस्तारौ विंशत्यङ्गुलिरत्र तु॥६४॥



 



ऊन विंशतिकलं कुर्यात्परिणाहेन बुद्धिमान्।



भुजयोर्मूलमध्याग्रमष्टषट्चतुरङ्गुलम्॥६५॥



 



स्वविस्तारप्रमाणेन मण्डलं त्रिगुणं भवेत्।



कुक्षेश्च मध्यविस्तारो ज्ञेयः पञ्चदशाङ्गुलः॥६६॥



 



षोडशाङ्गुलिरस्याधः कटिरष्टादशाङ्गुलिः।



षट्गोलमुरुमूले च जंघामध्ये षडङ्गुलिः॥६७॥



 



जङ्घान्ते द्विकलं विन्द्याद्विस्तारत्वेन पण्डितः।



एतेषामेव सर्वेषां मण्डलं त्रिगुणं भवेत्॥६८॥



 



तथाङ्गुलीनां सर्वेषां वृत्तत्वं यत्र विद्यते।



पृष्ठतः शीर्षनिष्कासं कलमेकं प्रकीर्तितम्॥६९॥



 



पृष्ठाद् वंशसमं कुर्यात् स्फिचौ तुल्यावलम्बिनौ।



ऊरू च पिण्डिका पार्ष्णिः कुर्यात्तुल्यावलम्बिनः॥७०॥



 



पृष्ठस्य लक्षणं विन्द्यादेतत्संक्षेपतो द्विजः।



मुक्ताहारादिरसनाकटककेयूरकुण्डलम्॥७१॥



 



वस्त्रसाटकविन्यासं शरीरस्थं च कारयेत्।



अथार्चानां गुणदोषौ चोच्येतेऽधिकहीनतः॥७२॥



 



दीर्घविस्तारसंयुक्तं दद्यात्स्थानं तु सुस्थिरम्।



शिरश्च्छत्रसमं कार्यं धनधान्यसमृद्धिदम्॥७३॥



 



ललाटे सुभ्रु रेखा च शाश्वतीं ददतः श्रियम्।



सुकृता सा भवेदर्चा जायते ससुखा प्रजाः॥७४॥



 



कम्बुग्रीवा भवेदर्चा सर्वसिद्धिकरी सदा।



शरीरं सिंहसंस्थानं सुभिक्षबलबर्द्धनम्॥७५॥



 



भुजौ करिकराकारौ सर्वकामार्थसाधकौ।



शस्यसम्पत्करं नित्यं सूदनं च सुभिक्षकृत्॥७६॥



 



रम्भोरुच्छागगोबृद्धिर्ग्रामबृद्धिः सुपिण्डिका।



सुपादा च भवेदर्चा शीलविद्याप्रसाधिका॥७७॥



 



इत्यर्चानां प्रशंसोक्ता हीनदोषमथाह च।



दुर्भिक्षो राष्ट्रभङ्गः स्याद् हीना विस्तारदीर्घयोः॥७८॥



 



देहहीना भवेत् कुब्जो नासाहीना च रोगिकः।



वामदृष्टिः पशोर्नाश ऊर्ध्वदृष्टिर्धनक्षयः॥७९॥



 



अल्पाक्षी मण्डलाक्षी च केकराक्षी तथैव च।



हीनदृष्टिरधोदृष्टिर्दूरतः परिवर्जयेत्॥८०॥



 



निम्नकुक्षिर्भवेदर्चा शस्यनाशं सदा भवेत्।



उरुहीना भवेदर्चा गर्भं पतति शाश्वतम्॥८१॥



 



त्रयो ह्रस्वा महादोषो नासिका नेत्रमङ्गुलिः।



त्रयो दीर्घा महादोषा जङ्घा ग्रीवा चिबुस्तथा॥८२॥



 



त्रयः सूक्ष्मा महादोषाः शिरः कर्णञ्च नासिका।



त्रयः स्थूला महादोषाः सन्धिः कुक्षिर्नखस्तथा॥८३॥



 



त्रयो निम्ना महादोषा हस्तौ पादौ च लोचनौ।



त्रयो ह्रस्वा महादोषा ग्रीवांसौ भुज एव च॥८४॥



 



इति दोषगुणं ज्ञात्वा कर्तव्यार्चा विपश्चिता।



नवताललक्षणायामपरिणाहौ संप्रकीर्तितौ॥८५॥



 



न च वक्त्रे ध्रुवं देवे अष्टाद्वा देवमानुषा।



मानुष्यं अष्टतालं च जनन्या चाष्टसप्तमम्॥८६॥



 



मुखं (शुभं)षट्सप्ततालानां परिणाहे समुच्छ्रयम्।



कीर्तिता(तं)च यथान्यायमात्रेयं लक्षणनिर्मितमिति॥८७॥



 



दीर्घं चाष्टमुखं कृत्वा देवीणां(नां)लक्षणं बुधः।



मुखं षत्कलं कृत्वा देहं चैकादशकलम्॥८८॥



 



त्रिय(स्त्रियाः)ग्रीवास्तनश्चैव अङ्गौ चुचुमुखान्तरौ।



सर्वे ते मुखं म(मू)र्द्धा च देवीनाञ्च विधीयते॥८९॥



 



मध्यं चाष्टाङ्गुलं कृत्वा स्रोणी पञ्चकला स्मृता।



कटी विंशाङ्गुलं कुर्यादुरू चैकादशौ कलौ॥९०॥



 



जानुनी अ(त्र्य)ङ्गुला चैव पिण्डी वा विंशदङ्गुला।



गुल्फं द्व्यङ्गुलं कुर्याद्देवीनां लक्षणं शुभम्॥९१॥



 



कृत्वा त्रिंशाङ्गुलं चैव शिरसि परिमण्डलम्।



पञ्चाङ्गुलं भुजो मूलं त्रिगुणं मण्डलं भवेत्॥९२॥



 



त्र्यङ्गुलं मणिबन्धञ्च मण्डलानां तथैव च।



ऊरुमध्ये कलाषड्भिस्त्रिगुणं परिमण्डलम्॥९३॥



 



मध्ये पञ्चाङ्गुलं जङ्घो मण्डलं त्रिगुणं भवेत्।



सर्वत्र त्रिगुणं कार्यमङ्गुलीनां तथैव च॥९४॥



 



अपाङ्गलोचनञ्चैव स्तनौ तु कटिरेव च।



ईषन्मानाधिकं कुर्याद्येन वृ(दृ)ष्टिसु(दुः)खं भवेत्॥९५॥



 



॥इति देवीलक्षणम् अष्टतालस्य॥



 



अथातः सम्प्रवक्ष्यामि बालानां मानलक्षणम्।



षड्गुणं बालरूपीणां सैनापत्यञ्च षड्गुणम्॥९६॥



 



विनायकानां यक्षाणां प्रतिमालक्षणं शुभम्।



गोलकं मूर्ध्नि विज्ञेयं मुखं षड्गोलकस्य तु॥९७॥



 



ग्रीवा द्व्यङ्गुलं कुर्वीत देहे विंशाङ्गुलं भवेत्।



अर्द्धगोलकला नाभ्यां खनितं त्र्यङ्गुलं तथा॥९८॥



 



ऊरू सप्तकला कुर्यात् गोलकं जानुनी तथा।



पिण्डिकं षट्कलं कुर्याद् गुल्फमेकाङ्गुलं स्मृतम्॥९९॥



 



पार्ष्णिकं त्र्यङ्गुलं चैव यथावदनुपूर्वशः।



पादौ पञ्चकलं दीर्घमङ्गुष्ठगोलकं ततः॥१००॥



 



सूच्यङ्गुष्ठसमा कुर्याद् द्वियव [हीना]मध्यमा।



नखहीनं अनामञ्च पर्व(यव)हीना कनीयसी॥१०१॥



 



अष्टाङ्गुलेन हिक्कासो(तो)बाहू चैव नवाङ्गुलम्।



प्रबाहू पञ्चगोलञ्च करदीर्घं द्विगोलकम्॥१०२॥



 



मध्यमाङ्गुलं द्वौ गोलं नखहीना प्रदेशिनी।



मध्यं पर्वनखाहीनं कारयेत्तदनामिका।



अनामिकापर्व(यव)हीना दीर्घाङ्गुष्ठकनीयसा॥१०३॥



 



अथातः संप्रवक्ष्यामि विस्तारेण कलानि च।



द्विकलार्द्धं भवेन्मूर्ध्नि त्रिगुणं परिमण्डलम्॥१०४॥



 



षट्कलं मुखमध्यं च कर्णनासाग्रमेव च।



त्रिकरं(लं)ग्रीवमध्ये च कुक्षौ तु षोडशाङ्गुलम्॥१०५॥



 



मध्ये षड्गोलं कायस्य कटिञ्च सप्तगोलकम्।



ऊरूमध्यचतुर्गोला जानुद्विकलषड्यवम्॥१०६॥



 



मध्ये पञ्चाङ्गुलञ्जङ्घं गुल्फं त्र्यङ्गुलमेव च।



द्विकलाद्व्यङ्गुलं पादौ विस्तारेण प्रकीर्तितम्॥१०७॥



 



नवयवाङ्गुष्ठकं चैव अन्तरं त्रियवं स्मृतम्।



यवाष्टसूचिकं कुर्यात् यवसप्त च मध्यमम्॥१०८॥



 



षड्यवानामिकां यस्य यवपञ्च कनीयसी।



एवं कारयते विद्वान्पादाङ्गुलसुशोभनम्॥१०९॥



 



त्र्यङ्गुलञ्च तथा पार्ष्णि विस्तरेण प्रकीर्तिता।



अष्ट चाङ्गुष्ठका चैव नवसप्तञ्च मध्यमा॥११०॥



॥इति आत्रेयतिलके षड्रूपलक्षणम्॥



 



अतः परं प्रवक्ष्यामि दशतालस्य लक्षणम्।



ब्रह्मा च चर्च्चिकादेवी ऋषीणां ब्रह्मरक्षसाम्॥१११॥



 



दिव्यानां चैव बुद्धानां कारयेत्प्रतिमां शुभाम्।



एतेषां कारयेद्विद्वान् अन्येषां नैव (चैव)कारयेत्॥११२॥



 



द्विगोलकं भवेच्छीर्षं मुखं षड्गोलमेव च।



ग्रीवां द्विगोलकं कुर्याद्देहं षड्विंशमङ्गुलम्॥११३॥



 



नितम्बं द्विकलं विद्धि कटिः पञ्चकलं भवेत्।



षड् विंशाङ्गुलकं ऊरू जानु पञ्चाङ्गुलौ स्मृतौ॥११४॥



 



षड् विशाङ्गुलकौ जङ्घौ गुल्फौ त्र्यङ्गुलकौ स्मृतौ।



अधो भागा प्रकर्तव्या पञ्चाङ्गुलसुसंस्थिता॥११५॥



 



बाहुभागाः प्रकर्तव्या अष्टगोलकमेव च।



दशगोलकविज्ञेया प्रबाहू च विपश्चिता॥११६॥



 



करपल्लवभागञ्च षट्कलं तु विजानन्तुः(त)।



एतेषां चेष्टमानानां कर्तव्यं शास्त्रचिन्तकैः॥११७॥



 



॥ इति आत्रेयतिलके दशताललक्षणम्॥



 



अथातः संप्रवक्ष्यामि सप्ततालस्य लक्षणम्।



शिरो त्र्यङ्गुलविज्ञेयं मुखं षट्कलमेव च॥११८॥



 



ग्रीवा त्र्यङ्गुलविज्ञेया कम्बुग्रीवञ्च कारयेत्।



ऊनविंशाङ्गुलं देवमानवृत्तसुशोभितम्॥११९॥



 



एकाङ्गुलि नितम्बं च गोलं [च]कटिदेशकम्।



ऊनविंशाङ्गुलं उरूजानु त्र्यङ्गुलमेव च॥१२०॥



 



ऊनविंशाङ्गुलं जङ्घं गुल्फमेकाङ्गुलं मतम्।



त्र्यङ्गुलञ्च अधोभागं प्रतिमा सप्ततालकम्॥१२१॥



 



अष्टाङ्गुलं प्रकर्तव्यं हिक्का चास्या(चांसा)ग्रमेव च।



बाहू अङ्गुलिविज्ञेया एकतालं प्रकीर्तितम्॥१२२॥



 



प्रबाहूसप्तगोलकं च कर्तव्यं मुनिसत्तम।



करपल्लवभागं च अष्टाङ्गुलं प्रकीर्तितम्।



मानुष्यप्रमाणं तु कर्तव्यं शास्त्रचिन्तकैः॥१२३॥



 



॥ इति आत्रेयतिलके सप्तताललक्षणम्॥



 



अथातः सम्प्रवक्ष्यामि चतुस्तालस्य लक्षणम्।



एकाङ्गुलिशिरः कुर्यात् मुखं द्वादशमङ्गुलम्॥१२४॥



 



ग्रीवा एकाङ्गुलं विद्धि देहं द्वादशमङ्गुलम्।



अर्द्धाङ्गुलनितम्बं च कटिमेकाङ्गुलं मतम्॥१२५॥



 



नवाङ्गुलं भवेदूरु जानू एकाङ्गुलं स्मृतम्।



जङ्घा नवाङ्गुला ज्ञेया गुल्फमर्द्धाङ्गुलं भवेत्॥१२६॥



 



अधो भागा प्रकर्तव्या एकाङ्गुलप्रकीर्तिता।



चतुःकलं च विज्ञेया हिक्का चास्या(चांसा)ग्रमेव च॥१२७॥



 



बाहू त्रिगोलकं चैव प्रबाहू अष्टमङ्गुलम्।



सप्ताङ्गुलमितं ज्ञेयं उच्छ्रितं करपल्लवम्॥१२८॥



 



यथाशोभेन विज्ञेया कर्तव्या मांसवर्तनम्(नी)।



वामनस्य प्रमाणं तु कथितं मुनिसत्तम॥१२९॥



 



॥ इति आत्रेयतिलके चतुस्तालस्य लक्षणम्॥



 



महाप्रतिमाविन्यासं प्रवक्ष्याम्यधुना शृणु।



दशपञ्चाधिकैर्हस्तैः प्रतिमा कन्यसी स्मृताः॥१३०॥



 



द्विगुणा मध्यमा ज्ञेया ज्येष्ठा तु त्रिगुणा स्मृताः।



अतः परं न कुर्वीत यदिच्छेत् श्रेयमात्मनः।॥१३१॥



 



दग्धा जीर्णा च भग्ना च स्फुटिता चापि देवताः।



स्थितावस्थाप्यमाना वा सदा दोषकरा भवेत्॥१३२॥



 



दग्धार्चया अनावृष्टिर्जीर्णार्चया धनक्षयः।



भग्नार्चया कुले नाशः स्फुटिता युद्धमादिशेत्॥१३३॥



 



अर्च्चा वा यदि वा लिङ्गं देवी मातृगणस्तथा।



शीघ्रमुत्पाटयेदेव विधिदृष्टेन कर्मणा॥१३४॥



 



पुष्पार्घं च तथा धूपं नैवेद्यं बलिमेव च।



दत्त्वा च वाससी चैव होमकर्मसमन्वितः॥१३५॥



 



विप्रशान्त्युदकं चैव वेद(देव)मन्त्रेण कारयेत्।



बालरज्जु तथा मौञ्जं दुकूलक्षोमकस्तथा॥१३६॥



 



विधिरेवं समुद्दिष्टं रज्जु चात्र विधीयते।



वृषस्य ककुदे बद्ध्वा आकर्षेज्जीर्णदेवताम्॥१३७॥



 



शैलीमयी भवेदर्च्चा तीर्थे बहूदकेषु च।



नदीसङ्गमसंस्थाने तस्मिंश्चैव तु निक्षिपेत्॥१३८॥



 



सौवर्णं रजतं चैव ताम्रं रैत्यमयीमपि।



द्रावयेदग्निना सर्वं यदिच्छेच्छ्रेयमात्मनि॥१३९॥



 



दारुमयी भवेदर्चा नववस्त्रेण वेष्टयेत्।



घृतेन मधुना स्निग्धं दीप्तमग्नौ प्रदापयेत्॥१४०॥



 



पार्थिवी च भवेदर्च्चा यदि स्यान्मृण्मयीमपि।



भूखनित्वा शिरो मात्रे न्यसेत्तस्मिन् प्रपूरयेत्॥१४१॥



 



अर्च्चा [वा]यदि वा लिङ्गं पुनः शीघ्रं तु स्थापयेत्।



सर्वलक्षणसम्पन्ना विधिदृष्टेन स्थापयेत्॥१४२॥



 



द्विजश्च (जानां)बालवृद्धानां मानुषाणां शुभाय च।



राजा जयमवाप्नोति शस्यवृद्धिकरं भवेत्॥१४३॥



 



जीर्णोद्धारणमर्च्चानां कृत्वा(तं)येन महात्मना।



युगकोटिशतसहस्रं देवलोके महीयते॥१४४॥



 



॥आत्रेयतिलके जीर्णोद्धारः समाप्तः॥



 



पार्थिवी च भवेदर्च्चा यदि स्यान्मृण्मयीमपि।



भूखनित्वा शिरो मात्रे न्यसेत्तस्मिन् प्रपूरयेत्॥१४१॥



 



अर्च्चा [वा]यदि वा लिङ्गं पुनः शीघ्रं तु स्थापयेत्।



सर्वलक्षणसम्पन्ना विधिदृष्टेन स्थापयेत्॥१४२॥



 



द्विजश्च (जानां)बालवृद्धानां मानुषाणां शुभाय च।



राजा जयमवाप्नोति शस्यवृद्धिकरं भवेत्॥१४३॥



 



जीर्णोद्धारणमर्च्चानां कृत्वा(तं)येन महात्मना।



युगकोटिशतसहस्रं देवलोके महीयते॥१४४॥



 



॥आत्रेयतिलके जीर्णोद्धारः समाप्तः।


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project