Digital Sanskrit Buddhist Canon

सुहृल्लेखः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Suhṛllekhaḥ

आचार्यनागार्जुनविरचितः



सुहृल्लेखः



प्रकृतिसुकृतार्हगुणाढ्य सुगतवचोभ्यः समुदानीताश्च मया।

शुभमालक्ष्य कृता वै काश्चिदार्यागीतयस्त्वया च श्रव्याः॥१॥



दारुमयी ह्यपि प्रतिमा सम्पूज्यते काऽपि सुगतस्य विद्वद्भिः।

तथाऽमनोज्ञं काव्यं सद्धर्माश्रयाच्च ममेदं न निन्द्यम्॥२॥



महामुनेरतिमधुरं मन्ये वचनं भवताऽवगतमेव स्यात्।

आकल्पितं तु सुधया नन्वतिधवलं न दृश्यते चन्द्रिकया?॥३॥



जिनैर्बुद्धधर्मसंघशीलत्यागदेवादिषडनुस्मृतयः।

प्रदर्शितास्तास्तु तद्गुणसम्भारैः पृथगनुस्मरणीयाश्च॥४॥



दशकुशलाः कर्मपथाः कायवाक्चित्तैः सर्वदाऽभ्यसनीयाः।

मद्यादिभिर्निवृते पुण्यमयैश्चाजीवैः सुप्रसन्नः स्याः॥५॥



ज्ञात्वा चलामसारां सम्पत्तिं द्विजभिक्षुदीनमित्रेभ्यः।

दानं देयं विधिना जन्मान्तरेषु न दानात् परं मित्रम्॥६॥



शीलं सेव्यममिश्रं त्वयानुपहतालंघितानुपलिप्तं च।

चराचरप्रतिष्ठं तु गुणाश्रयं भूवच्च राजते शीलम्॥७॥



षडिमा दानं शीलं क्षान्तिवीर्यध्यानप्रज्ञाः पारमिताः।

अप्रमेयाः संवर्ध्य भवेच्च भवसागरपारगो जिनेन्द्रः॥८॥



यत्र पूजा पितॄणां कुलं तदाचार्यब्रह्मभिः समृद्धम्।

तत्पूजया च कीर्तिस्तदनन्तरं चाधिगम्यतेऽभ्युदयोऽपि॥९॥



हिंसाचौर्ये मदिरा कामातिचारमृषोक्तिनृत्यगीतानि।

त्याज्यान्यकालभक्तं मालागन्धादिविशेषोच्चशयनानि॥१०॥



अनुकृत्यार्हच्छीलं कुर्यादुपोषधमष्टाभिरङ्गैश्चेत्।

लभते हि पुमान् स्त्री वा सुरम्यकामावचरादिदेवकायम्॥११॥



मात्सर्यशाठ्यमायाभिमानासक्तिकौसीद्यरागद्वेषान्।

कुलरूपयौवनश्रुतबलादिजं मदं रिपुमिव परिपश्येच्च॥१२॥



अप्रमादोऽमृतपदं प्रमादो मृत्युपदमिति मुनिनादिष्टम्।

कुशलधर्मस्य वृद्धये सदाऽप्रमादोऽभ्यसनीयस्त्वया चैव॥१३॥



पूर्वप्रमत्तः कोऽपि मेघान्निर्गतेन्दुरिव ततोऽप्रमादी।

स हि नन्दाङ्गुलिमालोदयनाजातशत्रुसदृशः सुशोभेत॥१४॥



क्षान्तिसमं नैव तपस्ततस्त्वया न क्रोधावसरो देयः।

बुद्धेनानुमतं वै पदमवैवर्तिकं क्रोधप्रहाणेन॥१५॥



अक्रोशीदवधीन्मामजैषीन्मामहार्षीद् वै वित्तं मे।

वैरैरेभिः कलहस्त्यजति य एतद् वैरं स सुखं शेते॥१६॥



जलेऽवनौ पाषाणे चित्रमिव चित्तं त्रिधा खलु सत्त्वानाम्।

क्लेशवतां हि प्रथमो धर्माभिलाषिणामन्तिमो ज्यायान्॥१७॥



वाचस्त्रिधा जनेभ्यः प्रोक्ता जिनेन मधुरसत्यमिथ्याख्या।

क्रमशो मधुः पुष्पाशुचितुल्याश्चरमा च परिहर्त्तव्यैतासु॥१८॥



चतुर्विधा वै पुरुषाः प्रकाशात्प्रकाशे तमसस्तमसि पुनः।

तमः प्रकाशाद् गच्छति तमसस्तेजसि पुद्गलो वरः प्रथमः॥१९॥



जनानां त्वाम्रफलमिव पक्वमपक्वे पक्वेऽपक्वतुल्यं च।

अपक्वेऽपक्वं तथा पक्वे पक्वमिव भाति चातुर्विध्यम्॥२०॥



परदारान्न तु पश्येद् दृष्टे च ज्ञेया अवस्थानुरूप्येण।

कन्याम्बाभगिनीवद् आसक्तावप्यशुचिमेव चिन्तयेच्च॥२१॥



रक्षेच्चञ्चलचित्तं श्रुति-पुत्र-निधि-प्राणसदृशं च नितराम्।

चित्तं परिहर्त्तव्यं शत्रुसर्पविषायुधाग्निसमात् कामात्॥२२॥



कामस्त्वनर्थजनकः प्रोक्तः किम्पाकफलसमो जिनेन्द्रेण।

पाशैस्तस्य हि बद्धो भवचारके लोकः स प्रहातव्यः॥२३॥



चलाध्रुवाणि षडक्षाणि जयन्ति समरे वा शत्रूनपि चैके।

तयोश्च सुधियः प्रथमं वरमिन्द्रियविजेतारं च मन्यन्ते॥२४॥



युवतिशरीरं हि पूति यन्नवाशुचिद्वारमशुचिभाण्डसमम्।

चर्मावृतदुष्पूरं भूषितमपि भूषणैः पृथग् द्रष्टव्यम्॥२५॥



कृमिपीडितो हि कुष्ठी सुखलिप्सया च यथा वह्निमाश्रयते।

पीडा न याति शान्तिं तथैव हि कामासक्तिरपि बोद्धव्या॥२६॥



परमार्थं प्रतिवेत्तुं सर्वभावेषु सविधि मनसि निधायैव।

स च खलु भावयितव्यो न हि तत्तुल्योऽपरो गुणयुतो धर्मः॥२७॥



सुकुलीनोऽपि न पूज्यो ज्ञानशीलविमुखो श्रुतिरूपवान् पुमान्।

गुणद्वयैतद्युक्तः पूज्यते सोऽन्यगुणैर्हीनोऽपि सततम्॥२८॥



अष्टसु लोकधर्मेषु लोकवित् समतया प्रवर्तयेच्चित्तम्।

हानिलाभयशोऽयशोऽनुशंसानिन्दासुखदुःखेष्वशोच्येषु॥२९॥



भवद्भिर्ब्राह्मणभिक्षुदेवातिथिमातापितृकुलमहिषीभ्यः।

पापं नाचरणियं यतः कतमोऽपि न नरकफलस्य भागी॥३०॥



न च कृन्तति पापकर्म तत्क्षणमस्त्रपातवत् कमपि पापिनम्।

मृत्योर्हि समये किन्तु तत्कर्मणः फलमभिमुखीभवत्येव॥३१॥



सप्तधनान्युक्तानि श्रद्धाशीलत्यागामलश्रुतधियः।

अपत्रपा ह्री मुनिना मुधैवापरधनानि हि साधारणानि॥३२॥



द्यूतक्रीडा कौतुकदर्शनालस्यकुमित्रसङ्गमदिराश्च।

निशाविहरणं षडिमे त्याज्या दुर्गतिदा यशोविनाशकाश्च॥३३॥



सनरामरशासकेन सन्तोषः सर्वधनप्रधानमुक्तम्।

सन्तोषोऽनुष्ठेयः धनं विनैव स धनिकः सति सन्तोषे॥३४॥



यथा समृद्धाः पुरुषा दुःखिनो भवन्ति नैव तथाऽल्पेच्छुकाः।

यावत्यः सन्ति फणा आर्य, दुःखकराः, नागस्य तावत्यः॥३५॥



पत्नी त्याज्या त्रिविधा प्रकृत्या रिपुसम्बद्धा स्वघातिकेव।

पत्युरपमानकर्त्री स्वैरा लघुवस्तुचौर्यरता स्तेयीव॥३६॥



भगिनीसमानुकूला मित्रवद् हृदयङ्गमा च सेवनीया।

मातेवोपकारिणी पूज्या सेविकेवाज्ञाकृद् देवीव॥३७॥



विहाय रागद्वेषौ भोजनमौषधिवदवगत्य सेवेत।

कायस्थित्यै नितरां न च सौन्दर्यगर्वमानार्थं सेव्यम्॥३८॥



दिनमखिलं शुभकार्ये यापयेद् रात्रेराद्यन्तौ यामौ च।

धीमन्, मध्ये यामे शयीत यतो हि न भवेद् विफला निद्रा॥३९॥



मैत्रीकरुणोपेक्षामुदिताश्च सदा सम्यग् भावयितव्याः।

अलब्धेऽनुत्तरपदे ध्रुवमेव ब्रह्मलोके सुखावाप्तिः॥४०॥



कामान् प्रीतिविचारौ सुखञ्च दुःखञ्च विहाय चतुर्भिरेव।

ध्यानैर्ब्रह्माभास्वरशुभकृत्स्नबृहत्फलभागिनश्च भवन्ति॥४१॥



कुशलाकुशलं च कर्म सदाभिनिवेशाप्रतिपक्षवस्तुगुणैः।

पञ्चभिश्चोत्पद्यते तस्माद् यतनीयं कुशलचर्यायाम्॥४२॥



यथाल्पक्षारनीरं परिवर्तयत्यल्पजलरसं न गाङ्गम्।

पापं तथैव चाल्पं नाशयत्यल्पकुशलं न पूर्णकुशलम्॥४३॥



औद्धत्यं कौकृत्यं व्यापादः स्त्यानमिद्धे च कामेच्छा।

विचिकित्सेति पञ्चैव कुशलधनहारकाणीमानि ज्ञेयानि॥४४॥



उत्तमाः पञ्चधर्माः श्रद्धावीर्ये स्मृतिसमाधिप्रज्ञाश्च।

बलेन्द्रियाणि चाग्र्याणि कथ्यन्ते यतनीयमेतेषु तस्माद्॥४५॥



व्याधिजरामरणप्रियवियोगवच्च कर्मपरायणाः सर्वे।

पुनः पुनस्तु चिन्तया प्रतिपक्षेणैवं प्रहीयते मानः॥४६॥



स्वर्गं मोक्षं चेच्छेत् सम्यग्दृष्टिस्तावद् भावनीयैव।

कृतानि मिथ्यादृष्ट्या पुरुषैः सुचरितान्यपि विषमविपाकानि॥४७॥



अनात्माऽशुचिर्दुःखी पुद्गलोऽनित्यश्च सम्यग्विज्ञेयः।

स्मृत्युपस्थानरहिता विनश्यन्ते च विपर्यासैश्चतुर्भिः॥४८॥



उक्तं रूपं नात्मा रूपवांश्च नात्मा रूपे नैवात्मा।

न चात्मन्यस्ति रूपं शून्यमेवं स्कन्धचतुष्कमपि ज्ञेयम्॥४९॥



स्कन्धा न हि जायन्ते यदृच्छया न प्रकृतीश्वरकालेभ्यः।

नाहेतोः स्वभावतो ज्ञेया अज्ञानेन तृष्णया जाताः॥५०॥



कालः पचति भूतानि कालः संहरते प्रजाः।

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥



आत्मनि मिथ्यादृष्टिः शीलव्रतपरामर्शो विचिकित्सा च।

मुक्तिपुरद्वाराणां बाधकं संयोजनत्रयमवगच्छेत्॥५१॥



आत्मापेक्षो मोक्षः परस्मान्न लभ्यते किमपि साहाय्यम्।

चत्वार्यार्यसत्यानि वृत्तस्थः श्रुतचिन्ताभिरभ्यस्येच्च॥५२॥



अधिशीलचित्तप्रज्ञास्तिस्त्रोऽपि शिक्षाः सदैव शिक्षणीयाः।

एतास्वन्तर्भूतानि शतमेकपञ्चाशच्च शिक्षापदानि॥५३॥



राजन्, बुद्धेनोक्तः कायगता स्मृतिश्चैकायनो मार्गः।

रक्षेदिमं सयत्नं स्मृतिनाशाच्च सर्वधर्मप्रध्वंसः॥५४॥



बहुबाधं तु जीवनं वायूद्भूतजलबुद्बुदवदनित्यं च।

आश्चर्यं जागर्तेः क्षणमिदं निःश्वासोच्छ्वासनिद्राभ्यः॥५५॥



विशरणगलनः पूतिः शोषासारशुचिस्वभावः कायः।

रजःसधर्मी चान्ते सदा वियोगशीलो नश्वरो ज्ञेयः॥५६॥



पृथ्वीमेरुसमुद्राः सप्तार्कज्वालैर्नावशिष्यन्ते।

धूलिमात्रं हि मूर्ताः का कथा दुर्बलवपुषां मानवानाम्॥५७॥



इत्थं सर्वमनित्यं ह्यनात्मकमशरणमनाथमनिकेतम्।

कदलीतरुरिव राजन् चित्तमपसारयासारसंसारात्॥५८॥



महार्णवयुगच्छिद्रे हि कूर्मग्रीवार्पणाच्च मानुषं जन्म।

तिर्यगादिसुदुर्लभं सफलीकुरु सद्धर्माभ्यासान्नरेन्द्र॥५९॥



केचिद् रत्नालङ्कृतकनकपात्रं च पूरयन्ति पुरीषेण।

ततोऽप्यसावतिमूढो यश्च नृजन्म लब्ध्वापि पापमाचरति॥६०॥



प्रतिरूपदेशवासः सत्पुरुषसमाश्रयः शुभप्रणिधानं च।

स्वकीयपूर्वकुशलं ह्येतच्चक्रचतुष्कं हि विद्यते त्वयि॥६१॥



कल्याणमित्रसेवा ब्रह्मचर्यपूर्तये देशिता मुनिना।

सेव्यः सदा सुपुरुषः शमः प्राप्तो यतो जिनमपेक्ष्य बहुभिः॥६२॥



मिथ्यादृक् प्रत्यन्ते नरकप्रेततिर्यक्षूत्पद्यमानः।

म्लेच्छो जडश्च सत्त्वो यो ह्युत्पन्नो बुद्धविरहिते॥६३॥



दीर्घायुषि देवकुले जनिलब्धश्चाष्टाक्षणा इमे दोषाः।

एभी रहितो भूत्वा क्षणं लब्ध्वा जन्मनिवृत्तौ प्रयतेत॥६४॥



इष्टविघातव्याधिमृत्युजरादिदुःखावहः संसारः।

विरज्य ततः शृणु तावद् दोषानेतस्यावगच्छन् नरदेव॥६५॥



मित्रत्वेन च शत्रुः पुत्रत्वेन पिताऽम्बा च भार्यात्वेन।

परिवर्त्योत्पद्यन्ते तस्मान्न नियतं किमपीह संसारे॥६६॥



चतुःसमुद्रजलादपि जनैरधिकं जनन्याः स्तन्यं पीतम्।

पृथग्जनाननुसृत्य हि पुनस्ततोऽप्यधिकञ्च पास्यन्ति लोकाः॥६७॥



आत्मनश्चास्थिपुञ्जं मेरुसमं ततोऽधिकमुच्चैर्जायेत।

भूमिमृदा बदराणां गुलिकाभिर्न गणना सम्भवाऽम्बानाम्॥६८॥



लोकपूज्योऽपि शक्रः पतति च पुनः कर्मवशाद्धि संसारे।

तद्वच्च चक्रवर्ती राजाऽपि पुनर्भवति हि दासो लोके॥६९॥



स्वर्गेऽप्सरसां सौख्यं कुचतटिस्पर्शजं चैव चिरमनुभूय।

नरके दुःसहदुःखं पेषणछेदनभेदनयन्त्रैर्भुङ्क्ते॥७०॥



सुखदे सुमेरुशिखरे चिरमनुभवंश्चरंश्चरणस्पर्शसुखम्।

चञ्चलकुक्कुलकुणपैर्गाढं दुःखं चिन्तयेत् सदा मनसा॥७१॥



देवाङ्गनासेविते नन्दने रम्ये चोपवने च विहृत्य।

असिपत्रवने तेषां हस्तपादकर्णनासाश्च छिद्यन्ते॥७२॥



सुवदनदेवसुताभिः स्वर्णोत्पलैर्युतायां मन्दाकिन्याम्।

स्नात्वा पुनश्च नरके क्षारोष्णोदकवैतरण्यां हि पतन्ति॥७३॥



देवेषु कामसुखं च कामवीतरागसुखं ब्रह्मलोकेषु।

प्राप्यावीचौ सततं लभ्यतेऽग्नेरिन्धनीभूय च दुःखम्॥७४॥



पदमवाप्य सुर्येन्द्वोः स्वकायप्रभया प्रदीप्य हि संसारम्।

तमसि च घने प्रविष्टः प्रसारितमपि च स्वीयकरं न पश्यति॥७५॥



एवं मृत्युं ज्ञात्वा ग्राह्यस्त्रिविधपुण्यमयदीपालोकः।

अन्यथा रवीन्दुभ्याममर्दनीयेऽन्धतमसि प्रवेष्टव्यम्॥७६॥



दुष्टाचरणे लग्नाः सत्त्वाः संजीवकालसूत्रतपनेषु।

रौरवावीच्यादौ हि संघाते चापि नरके सदा दुःखम्॥७७॥



निष्पीड्यन्ते तिलवत् केचनान्ये चूर्णवत् पेष्यन्ते च।

छिद्यन्ते शाणेनान्ये दीर्यन्ते तथा तीक्ष्णपरशुनाऽपि॥७८॥



आस्येऽन्येषां तद्वत् पात्यते ज्वलितं तावल्लौहद्रवम्।

आरोप्यन्ते केचन सकण्टके तप्तायसे सदा शूले॥७९॥



श्वभिः केचन क्रूरैर्लौहदन्तैर्विदीर्यन्ते गर्जद्भिः।

उत्थाय करौ विवशा लुञ्च्यन्ते तीक्ष्णनखतुण्डैश्च काकैः॥८०॥



केचित् कृमिसंस्पर्शाद् मांसादकृष्णमक्षिकायुतपाताच्च।

वृद्धं व्रणन्त्वसह्यं भक्ष्यमाणं रुदन्ति चाकुला भूम्याम्॥८१॥



दह्यन्तेऽग्निकुण्डेषु तेन तदाननानि च भवन्ति विवृतानि।

पच्यन्ते च कटाहे तण्डुलवल्लौहमयेऽधःशिरसस्ते॥८२॥



श्वासावरोधसमये पापः कालंकृते च नरकं प्रयाति।

श्रुत्वाऽपि नरकदुःखं सहस्रशो वज्रस्वभावात्र बिभेति॥८३॥



श्रुत्वा दृष्ट्वा स्मृत्वा पठित्वा चापि चित्राङ्कनं नरकस्य।

आकृतिरपि भयजनिका का कथा तदसह्यविपाकानुभवस्य॥८४॥



यथा समस्तसुखानां तृष्णाक्षय एव सर्वोत्तमं सुखमिति।

तद्वत् सर्वदुःखेष्ववीचिनरकदुःखमत्यसहनीयं तत्॥८५॥



इहैकस्मिंश्च दिवसे, त्रिशतशूलघाताद् भवति च यद् दुःखम्।

नारकीयदुःखस्य हि तत्राप्नोति समतां न लघुकलां चापि॥८६॥



कोटिवर्षपर्यन्तं दारुणातिदुःखेष्वनुभवत्सु सत्स्वपि।

यावत्तान्यकुशलानि न क्षीणानि तावत्र जीवनान्मुक्तिः॥८७॥



अनिष्टफलबीजानि तु कायवाक्चित्तानां हि दुराचरणानि।

भवतैवं यतनीयं शक्त्या येन तदणुमात्रं न शिष्येत॥८८॥



तिर्यग्योनिषु नाना दुःखानि भवन्ति च बधबन्धनादीनि।

परस्परं भक्षयन्ति शममूलशुभकर्मपरिहर्तारस्ते॥८९॥



केचिद् वै हन्यन्ते मुक्तोर्णास्थिमांसचर्मार्थं जीवाः।

योज्यन्ते खलु विवशा अन्ये पदमुष्टिकशाङ्कुशैः पशवश्च॥९०॥



प्रेतयोनौ न क्षयं यातीष्टालाभजनिता दुःखधारा च।

दुःखमसह्यं लभते शीतोष्णक्षुत्तृषाश्रमभयजनितं हि॥९१॥



सूचीछिद्रवदास्यं केषाञ्चिदुदरमतिविशालं नगवच्च।

तच्च पीडितं क्षुधया क्षिप्तमशुचि वस्तु न प्रतिकारक्षमम्॥९२॥



केचित् प्रेता नग्नाः शुष्कतालशिखरवदस्थिचर्माणः।

नक्तमग्निमुद्गिरतां मुखे पतत्तप्तसिकताशनं तेषाम्॥९३॥



निम्नकोटिकैः कैश्चित् पूयरक्ताद्यशुचीनि न च लभ्यन्ते।

आक्रम्यान्यमुखोपरि गलनिर्गतलसिकादीनि च खाद्यन्ते॥९४॥



चन्द्रो ग्रीष्मे तप्तः शैत्ये शीतो भानुश्च ह्येतेभ्यः।

तेषां दृष्टि पाताच्च निष्फलास्तरवो नद्यश्च शुष्यन्ते॥९५॥



सततं दुःखभाजस्ते दुश्चरितकर्मपाशसुदृढबद्धा वै।

न च म्रियन्ते केचित् पञ्च वा दश सहस्रवर्षाणि सत्त्वाः॥९६॥



यच्च लभन्ते प्रेता नानादुःखास्वादमेकविधमित्थम्।

प्रीतिरत्र कार्पण्ये मात्सर्यमनार्यमुक्तमतो बुद्धेन॥९७॥



स्वर्गे चातिसुखं यत् ततोऽप्यधिकदुःखं ततश्च्युतेर्नूनम्।

एवं विचिन्त्य तज्ज्ञैः क्षरत्सुखाय न तृष्णा कार्या स्वर्गे॥९८॥



वैवर्ण्यं देहस्य स्वासने न रतिर्म्लायतेऽपि माला च।

वसनेष्वपि दौर्गन्ध्यं स्वेदश्चापूर्वो निर्याति देहात्तु॥९९॥



लक्षणानि हि पञ्चैव मृत्योर्भवन्ति स्वर्गस्थदेवेषु।

भूलोकीयनराणां सदृशान्यपि तानि मृत्युलक्षणैश्च॥१००॥



देवेभ्यश्च्युतस्य यदि नावशिष्येत् कुशलमणुमात्रमपि।

विवशतयोषितव्यं हि ततस्तिर्यक्प्रेतनरकेष्वेकस्मिन्॥१०१॥



दुःखं स्यान्मानसिकं देवैश्वर्यं प्रतीर्ष्ययाऽसूरेष्वपि।

न कुर्वन्ति धीमन्तो जन्मावरणाच्च ते सत्यदर्शनानि॥१०२॥



संसारेऽस्मिन्नेवं देवनरकप्रेततिर्यग्योनिषु।

जन्मग्रहणमयुक्तं बहुबाधं जन्म तत्रेति विज्ञेयम्॥१०३॥



ज्वलिते शिरसि च वसने तन्निवृत्त्युपायमुपेक्ष्य त्वरितमेव।

अपुनर्भवाय यतेत यतस्तस्मान्महत्प्रयोजनं नान्यत्॥१०४॥



शीलसमाधिज्ञानैर्भूजलतेजोवायुरविविधुरहितं च।

अजरामरणमक्षयं प्राप्यं शान्तदान्तविमलं निर्वाणम्॥१०५॥



प्रस्रब्धिवीर्यप्रीतिधर्मविचयस्मृतिसमाध्युपेक्षाः सप्त।

बोध्यङ्गानीमानि प्राप्त्यै निर्वाणस्य कुशलसम्भारः॥१०६॥



प्रज्ञाभावे ध्यानं ध्यानाभावेऽपि न जायते सा प्रज्ञा।

यत्रोभे विद्येते ज्ञेयस्तस्य भवसागरो गोष्पदवत्॥१०७॥



येऽव्याकृतधर्माश्चादित्यबन्धुना चतुर्दशोपदिष्टाश्च।

लोके न चिन्तनीया यतो तैर्नाप्नोति चित्तमेव शान्तिम्॥१०८॥



एवं प्रोक्तं मुनिनाऽविद्यया कर्म कर्मणा च विज्ञानम्।

तस्माच्च नामरूपं ततः षडायतनानि ततः स्पर्शा वै॥१०९॥



तत उत्पन्ना वित्तिर्वेदनाश्रयेण जायते खलु तृष्णा।

तस्याश्चोपादानं ततो भवोऽपि भवाच्च जायते जातिः॥११०॥



सत्यां जातौ दुःखव्याधिजरेष्ट वस्त्वलाभभयमरणानि।

दुःखस्कन्धो विपुलः सति जातिनिषेधे निषिद्धानीमानि॥१११॥



गम्भीरोऽनर्घकोशः प्रियः प्रतीत्योत्पादो जिनवचनानाम्।

सम्यगिमं यः पश्यति स च पश्यति तत्त्वदर्शिनं बुद्धमेव॥११२॥



शमाय भाव्याः सम्यग्दृष्टिसंकल्पवाक्कर्माजीवस्मृति-।

समाधिव्यायामेत्यार्याष्टाङ्गिकमार्गाश्चैते चारुतया॥११३॥



जातिरियं दुःखमेव तृष्णा च तस्य समुदयो महान् ज्ञेयः।

निर्वृतिस्तन्निरोधस्तदधिगमाय चाष्टाङ्गिकोऽयं मार्गः॥११४॥



यत्नः सदा विधेयश्चतुरार्यसत्यप्रतिवेधायैवम्।

क्रोडे श्रियश्च येषां गृहस्थास्तरन्ति क्लेशनदीं ज्ञानात्॥११५॥



ये दृष्टार्यसत्याश्च नाविर्भवन्ति तेऽङ्कुरवत् पृथिवीतः।

नावतरन्ति च गगनात् तेऽपि पृथग्जनाः क्लेशवशा हि पूर्वम्॥११६॥



चित्तं हि धर्ममूलं भगवतोक्तमतस्तदपि साधु दमयेच्च।

भो निर्भय, किं बहुना कथनेन यतोऽयमेव हितोपदेशः॥११७॥



यन्मयोपदिष्टं तत्सप्रयासैरपि भिक्षुभिर्दुःसाध्यम्।

चर्यागुणान् सेवस्व शिक्षामाचर जीवनं च कुरु सार्थम्॥११८॥



सर्वेषां कुशलानि तु सर्वार्थमनुमोद्य स्वचर्यात्रयीं च।

बुद्धत्वाय परिणाम्य ततस्तदनेन पुण्यराशिना भवता॥११९॥



जन्मस्वप्रमेयेषु देवनरलोकयोगिनश्च वशीकृत्य।

दुःखिनोऽनुग्राह्यास्त्वसहाया अवलोकितेश्वरचर्याभिः॥१२०॥



चरमं भवं गृहीत्वा व्याधिजरारागद्वेषांश्च प्रहाय।

बुद्धक्षेत्रे भगवानमिताभ इव लोकेशोऽमितायुर्भव॥१२१॥



प्रज्ञाशीलत्यागोद्भूतविमलख्यातिं भुवि खे स्वर्गे च।

लोके प्रसार्य शमयन् नरान् युवतिसुखरतदेवांश्च भूमौ॥१२२॥



क्लेशोपहतसत्त्वस्य जातिभयमरणनाशकं जिनेन्द्राख्यम्।

लोकोत्तरमक्लिष्टं शान्ताभयाक्षयनामैव पदमाप्नुहि॥१२३॥



इति सुहृल्लेख समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project