Digital Sanskrit Buddhist Canon

शिष्यलेख

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Śiṣyalekha
Testing

शिष्यलेख

ॐ नमो रत्नत्रयाय॥
पूर्वावदानचरितेषू सुदुष्करेषु गीतेषु यस्य सुरकिंनरसुन्दरीभिः।
अद्यापि चन्द्रकिरणौरिव संकुचन्ति माराङ्गनावदनपङ्कजकाननानि॥१॥
सौभाग्यहृद्यवपुषः परमादुतस्य यस्याल्पपुण्यजनदुर्लभदर्शनस्य।
संपादिताभिमतलोकमनोरथस्य चिन्तामणेरिव परार्थरसैकवृत्तिः॥२॥
यः सर्वदापरसुखैकरसो बभूव दुःखेन दुःखमगमत्परमं परेषाम्।
अत्यर्थमाहितमहाकरुणागुणस्य यस्यात्मदुःखसुखमन्तरितं तदेव॥३॥
बिच्छि सावयसि यस्य शिरः परार्थ सन्नयनपङ्कजतामबाप।
स्वार्थ पुन सितातपत्रा पृथ्वी बभूव निशितेव कृपाणधारा॥४॥
लोकोपकारनिरतप्रकटोदयेन शुल्क गुणोऽऽबलेन।
दोषान्धकारभिदुरेण मनोरमेण येनोदितेन शशिनेव जगत्प्रकाशम्॥५॥
चूडाविभूषणमिबोत्तमरत्नकल्पमूढं शिरोभिरुरुभिः फणिनां ।
यच्छासनं शुभमखण्डबिशुद्धबृत्तं पातालमूर्धनि लयतिमिरं प्रमार्‍ष्टि॥६॥
धर्माम्बुवाह इव यो ऽभ्युदितो हिताय धर्मामृतं जलमिबैकरसं बबर्ष।
तापाप यदनेकरस ॥७॥
विस्तीर्णनिम्नबिमलप्रकटाश्रयेषु पात्रेषु सर्वपरिमर्दसहेषु येषु।
तत्संस्थितं भवति सर्वजनोपकारं ॥८॥
तज्जागरं मरणजन्मजरापहारि ये नाप्नुवन्ति न पिबन्ति न धारयन्ति।
ते माहिता बडुलमोहमहामदेन धमाद्रियन्ते॥९॥
चक्षुर्यदेकममलं जगतो ऽखिलस्य साधारणं त्रिभुवनस्य यदेकदिपः।
तच्छामनं समधिगम्य यदुत्सृजन्ति मोहस्य तद्विलसितं परमाद्धुतस्य॥१०॥
शिक्षा बिदितेष्यिव बोधिसौधसोपानपद्धतिपदेषु पदं दधानाः।
तुङ्गां प्रयान्ति पदवीमनिवर्तमाना भुमिं निजामवतरन्ति विवर्तमानाः॥११॥
जन्मार्णबं परमदुस्तरमुत्तितीर्षुः शीलप्लबं क इह हस्तगतं जहाति।
कान्तारमध्यपतितः कथमार्यसाथीदष्टो न शोचति चिरं सुपथानभिज्ञः॥१२॥
संसारभूधरदरिजठरप्रपातादुत्थातुमुद्यतपराः परमान्धकारात्।
मुञ्चत्ति ये जिनगुणाबलिमन्तराले बेगेन ते विषमपातमधः पतन्ति॥१३॥
एकाकिनो ऽपि मनसा नियमं प्रकल्प्य ये कर्मणा समुदितेन समुन्नयन्ति।
ते साधबो भुवनमण्डलमौलिभूतास्तैरेव यान्ति गुरुतां गुरवः सुशिष्यैः॥१४॥
लब्धा गुणौघजननी जननीमिवायमित्यन्तशुद्दहृदयामनुबर्तमानाः।
तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम्॥१५॥
तिष्ठन्तु तावदिह सर्वजनापवादाः सर्वाश्च पापगतयो निरयाश्च घोराः।
सद्यो जहाति सहजां प्रकृति यदेष दुःख ततः किमपरं भुबि सज्जनस्य॥१६॥
यः प्रप्य नाबमिब धर्ममयीं बिशालां भूयो जहाति पदंवी मुनिभिः प्रल्क्तृप्ताम्।
संसारसागरबिवर्तननर्तनेषु चेतःस्पृहा तरलिता नियमेन तस्य॥१७॥
संसारचक्रमनिशं परिवर्तमानमारुह्य यः सुखभवैति विवर्तमानः।
सो ऽबश्यमेव तरिबशं मसः क्रमेण सर्वाः समाश्च बिसमाश्च गतीः प्रयाति॥१८॥
अत्युयगन्धमशुचिप्रकरोपरुद्धमत्यन्तसंकटमुपोढघनान्धकारम्।
आविश्य गर्भनिलयं निरयं यथैव दुःखं महत्स सहते परिपिण्डताङ्गः॥१९॥
कालक्रमेन स ततो दृढतैलयन्त्रनिष्पीद्र्यमान इव याति भुवं कथंचित्।
सद्यस्तथापि यदयं न जहाति जीवं दुःखोपभोगगतिदुर्लभि तत्तदेव॥२०॥
तत्र स्थितं तमशुचौ परिवर्तमानमार्द्रोल्बवेष्टिततनु बहलोग्रगन्धम्।
पूर्वस्मृतिव्रणमिबोल्बणदोषपाकं भिन्नं जहाति घृणयेव निपीद्र्यमानः॥२१॥
सर्वोपचारविवशं शिथिलाकुलाङ्गमुत्सृज्य बाल्यमुपजातकणैरभावः।
तुङ्गेषु यौवनगिरीन्द्रदरीतढेषु मोहायते विषयदृष्टिबिषालयेषू॥२२॥
स ततोऽपि पतत्यचेतनः पतितो नैब जहाति बिक्रियाम्।
अजरामरमात्मबिग्रहं ललितं मन्यत एवं बालिशः॥२३॥
स विहाय मुनीन्द्रसेवितं सुपथं यात्यपथेन मोहितः।
रमसेन परां बिचूर्णयन् गजवज्जातमदो निरङ्कुशः॥२४॥
अथ तस्य बलादनिच्छतः शिरसि न्यस्तपदा सुनिर्दयम्।
निशितं पलिताङ्कुशं जरा करिणो हस्तिपकीव यच्छति॥२५॥
स तथापि बिजिह्यचेष्टितः कुशलेनापि भयादिवोज्कितः।
सुकृतानि करोति मोहितः शरवत्स्वात्मबधाय पुष्पितः॥२६॥
अथ तं प्रहसन्निवान्तकः पलितौघैदर्शनैरिवोल्बणैः।
शिरसि ग्रसितुं प्रवर्तते निरुपायप्रशमो जरारुजः॥२७॥
विदलन्ति ततो ऽस्य सन्वयो मतिरुत्क्रामति हीयते गतिः।
क्षयमेति वपुः परिश्‍लषं नियतं वर्धत एव जीविताशा॥२८॥
क्रमशश्च निमीलितेन्द्रियो हतशक्तिर्विषयेषु लालसः।
उपगच्छति यामयं दशां नरके सा यदि भीम एव सः॥२९॥
कथमेवमिदं मया कृतं कथमेवं न कृतं हता गतिः।
कथमेवमयं मयास्तकः शिरसि न्यस्तपदो न लक्षितः॥३०॥
इति चित्तमाधिभिः कुकृतैः शोकमयैरुपद्रुतः।
व्यधितेन सवाष्पवारिणा करुणं बन्धुजनेन बीक्षितः॥३१॥
बिनिपीडितमर्मबन्धनस्तिमिरं घोरतरं बिशन्निव।
विजहाति निजं कडेवरं दयितं यत्नपरेण रक्षितम्॥३२॥
स विरौति गृहीतमूर्धजो यमदूतैर्दृढपाशसंयतः।
न शृणोति जनोऽस्य भाषितं स्वकृताक्रन्दरवादिवाकुलः॥३३॥
प्रस्तारशैलसरिदन्तरदुर्गमेषु मार्गेषु तीक्ष्णतरकण्टकसंकटेषू।
घोरैः कृतान्तपुरुषैर्यमदण्डघातमाकृष्यते गलनिषेवितकालपाशः॥३४॥
दूरान्निरीक्ष्य विमलं सलिलं पिपासुरभ्येति गाढतृषितो यदयं तदेव।
केशौघशैवलबिमिश्रितपूतिपूयपङ्कापङ्कितं क्षतजवं जलता प्रयाति॥३५॥
बेलानिलाकुलितशीकरशीतसानुमानीलचन्दनतरुं मलयं प्रयाति।
सो ऽप्यस्य चण्डवनदावशिखावलीढशीर्णोल्मुकप्रकरदन्तुरतां प्रयाति॥३६॥
यध्येति वोरिनिधिमुद्वतभीमलोलकध्नोलभेदजनितोल्वणफेनहानम्।
सो ऽप्यस्य तप्तविषदारुणसैकताभ्रविभ्रात्तर्कशमरुन्मरुतां प्रयाति॥३७॥
तत्र स्थितस्य जलदागमशंसिनो ऽस्य साङ्गारधूमकुलिशोपलबिस्फुलिङ्गम्।
बिद्युलॄताकनकराजिपिशङ्गमङ्गे नाराचबर्षमभिबर्षति वारिवहः॥३८॥
तापार्दितस्य दहनं तु हितानिलोऽपि शोतार्दितस्य दहनो ऽपि करोति शीतम्।
अत्युग्रकर्मपरिणामविमोहितस्य विश्वं तदास्य विपरीतमिदं विभाति॥३९॥
शूचीमुखस्य बडुयोजनभीमकुक्षेरार्तस्य वारिपिबतो ऽपि महासमुद्रे।
अप्राप्त एव पृथुकण्ठदरीप्र तश्‍लेष्मोष्मणा जललवः परिशोषमेति॥४०
चञ्चच्छटानिक पीवरसारमेयदंष्ट्राङ्कुराग्रकुलिशक्षतचूर्णिताङ्गः।
क्षाराम्बुपूर्णतरवैतरणीतटेषु निष्कृष्यते विषमकोटिशितोपलेषू॥४१॥
धावञ्जवेन निशितक्षुरसंस्तरेपु बिच्छिन्नमूर्तिरसिपन्त्तलतावनेषू।
कूपे पतत्यशरणः शितशूलशक्तिप्रासासिहासनिजितान्तकबक्त्त्ररन्धे॥४२॥
तीव्रातपक्कषित दुःसहाखिन्नदेहो वृक्षान्निरीक्ष्य घननीलदलानुपैति।
तत्पत्तशस्त्रशतपातबिभिन्नमूर्तिस्तत्रैव तिष्ठति चिरं बिरुतैकबन्धुः॥४३॥
पर्यन्तनिर्गतशिखाशतविस्फुलिङ्गमालाकुलज्वलितमण्डमणिडताभिः।
प्रेमान्तरप्रणयनिर्दयमङ्गनाभिरालिङ्गयते क्रकचकर्कशविसहाभिः॥४४॥
शैलाभभीषणविसंकटमेषयूथसंघटृचूर्णितविशोर्णसमस्तगात्रः।
आपातवातलवशैत्यसमर्पितासुः संचूण्‍र्यते पुनरसौ शतशस्तथैब॥४५॥
उत्त्रासितो सुखरखड्गशिवासहस्रैरारोहति द्रुतपदं पुनरेव रौहान्।
तां कूटशाल्मलिमधोमुखकण्ठकौघनिर्भिद्यमानवपुरर्पितगाढशल्यः॥४६॥
मृत्योः करान्तगलितैरिव कालपाशैराशीविषैर्धृनफणैर्दृढसंयतस्य।
उत्पाटयन्ति नयने स्फुरतः प्रसह्य तत्र स्थितस्य बकवायसकङ्कगृधाः॥४७॥
तेषां मुखैः कुलिशकोटिनिभैः प्रसह्य निद्रायमानवपुरेष कृतार्तनादः।
लोहोन्मुखप्रचुरपोवरतीक्ष्णशङ्कुनिर्भिन्नमूर्तिरवरोहति नष्टचेताः॥४८॥
आदीप्तशूलशितशल्यविभिन्नदेहास्तत्रैव केचिदवरोढुमशक्नुवन्तः।
घोरैर्यदा निशितशस्त्रमुखैरयोभिराकृष्यमाणविसरदलितान्त्रसूत्राः॥४९॥
केचित्पतन्ति विषमेषू गिरेस्तटेषु केचित्परिक्कषित तैलकटाहकुक्षौ।
उत्तप्तवालुकभुवं विसृतस्फुलिङ्गा मेन्य विशन्ति पदसङ्गमनाप्नुवन्तः॥५०॥
एके पुनः सिमिसिमायितमूक्ष्मजत्तुसंघातजर्जरितमूनविपूतिकायाः।
संचालमात्रमपि हर्तुमशक्नुवन्तो जीवन्ति कर्ममयपाशनिबद्रजीवाः॥५१॥
अस्थीन्यपि प्रणयता रहितोपमेन शीतेन जर्जरितवेपितपिणिडताङ्गाः।
उत्पन्नभिन्नपिटका शतजातजन्तुजग्धक्षतश्रुतसमज्जवशालशीकाः॥५२॥
संदष्टलग्नदशनास्तनुलोमकेशाः संघतृतब्यधितलोचनकर्णकण्ठाः।
आ चेतसो जडतरत्वमुपेतकायास्तिष्ठन्ति शीतनरकेषु भृशं नदन्तः॥५३॥
बिकीर्णबहलोग्रगन्धकटुधूमधूम्रान्तरं बिजृम्भितशिखाकरप्रकररुद्रदिग्मण्डलम्।
सितास्थिसकलाटलीरचितभूषणं भीषणं प्रवृत्तमिव भैरवं ससुजचर्म हाहारवम्॥५४॥
चटच्छढदिति क्कचित्स्फुरद्रुरुस्फुलिङ्गाकुलं छमच्छमदिति क्षणस्थगितजृम्भितं मेदसि।
कटत्कददिति क्कणन्तमुरसो ऽस्थिरन्धान्तरे पतन्ति नरकानलं बिजितकल्पकालानलम्॥५५॥
पुराणतृणजर्जरज्वलितपर्शुका लतालवो धगिति वान्तदीप्तार्चिषः।
स्फुटज्जठरनिःसृनप्रसरदन्त्रसंत्रासिताः विमुक्तगुरुघर्घरध्वनितमात्रशेषक्रियाः॥५६॥
निरिक्ष्य विवरान्तरं मुडुरपावृतं दूरतः प्रयान्ति कथमप्यमी प्रमतदुःखमोक्षाश्रयाः।
यदा तदपि घटृतं भवति कर्मपटृर्दृढैस्तदा बिफलवाञ्छिताः किमपि यान्ति दुःखान्तरम्॥५७॥
ज्वलन्निशिततोमरप्रकरवर्षणानन्तरं द्रवीकृतमयोरसं दहनरश्मिमालाकुलम्।
पिबन्ति गलदस्रवो नरकप्रालदण्डाहता मुखश्रवणनासिकाबिबरलब्धधूमोद्रमाः॥५८॥
आदग्धबिस्फुटितनेत्रशिरः कपालमस्तिष्कदीपितपिशङ्गशिखाकलापः।
शुष्केन्धनप्रकरनिर्दयतामुपैति शोकाग्निकोष इव गात्रचयेषु तेषाम्॥५९॥
ते जन्तबो गिरिनदीजललोलजीवा औष्ठ्यं तदेव नरकेषु त एव चाग्निः।
कर्माणि तत्खलु तथा परिणमयन्ति सर्व यथा परमदारुणमाबिभाति॥६०॥
आत्मीयकर्मविवशाकुलवेष्टितस्य मुक्तस्य पापनिलयान्निरयां कथ्ंचित्।
लोकेष्वनन्तगतिभेदभयाकुलेषु मानुष्यकं परमदुर्लभमेव जन्तोः॥६१॥
म्लेच्छेषू वा नरकपालसमव्रतेषु तिर्यक्षु वा कृतपरस्परभक्षणेषू।
जातिं लभेत यदि तत्र तदेव शीलमासेवते पतति येन पुनः प्रपातम्॥६२॥
यत्प्राप्य जन्मजलधेरपि यान्ति पारमारोपयन्ति शिवमुत्तमबोधिबीजम्।
चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफलीकरोति॥६३॥
अत्यन्तदुर्लभमुपेत्य मनुष्यभावं यद्वाञ्छितं तदभिबाञ्छितमेव कुर्यात्।
चण्डानिलाकुलितदीपशिखाचलस्य न ह्यायुषः क्षणमपि स्थितिनिश्चयोऽस्ति॥६४॥
श्वः कार्यमेतदिदमद्य परं मुडूर्तादेतत्क्षणादिति जनेन विचिन्त्यमाने।
तिर्यग्निरीक्षणपिशङ्गितकालदण्डः शङ्के हसत्यसहनः कुपितः कृतान्तः॥६५॥
आयाति फुलॄकुसुमः कुसुमागमो ऽयमेषा शशाङ्कतिलका शरदागतेति।
नर्वः प्रहृष्यति जनो न पुनर्ममैतदायुः प्रहीणमिति याति परं विषादम्॥६६॥
आसन्नपीनशशिमण्डलमण्डनासु विश्रान्तवारिगुरुवारिदमेखलासु।
निःसङ्गमासु गिरिशङ्गवनस्थलीषु धन्या नयन्त्यनिलचञ्चलशीलमायुः॥६७॥
किं सा रतिर्भवति नन्दनभूमिकासु दिव्याङ्गनाजघनपष्ठशिलातलासु।
या मुग्धमुग्धहारणीगणसेबितासु निःसङ्गचारुसुभगासु वनस्थलीशु॥६८॥
दिव्याङ्गनापरिमलाविलये निभिन्नसंतानकस्तवकहासवितण्वनीषु।
किं सा रविः सुरमरित्सु बिविक्तरम्यतीरासु या शुचिजलासु वने नदीषु॥६९॥
विशालाः शैलानां विरतजनसंपातसुभगा गुहा गाढाभोगा हरितवनलेखापरिकराः।
सरित्तीरासन्ना सुरजमधुरैर्निर्जरवैर्न गम्याः ल्केशाग्नेरयमिति वदन्तीव पथिकान्॥७०॥
मायामरीचिदकचन्द्रतरंगकल्पाः कामा जिनेन गदिता बिभवाः स्त्रियश्च।
स्वप्नान्तदुर्लभितबिभ्रमविप्रलब्धा बालाः पतन्ति निरयेष्वपि येषु सत्ताः॥७१॥
आपातमांत्रमधुरा बिषया बिषश्च घोरा विषाककटुका बिषया बिषश्च।
मोहान्धकारगहना बिषया बिषश्च दुर्वारवेगचपला विषया बिषश्च॥७२॥
कामा विषश्च बिषयाश्च नित्रुप्यमानाः श्रेयो विषं न विषया विषमस्वभावाः।
एकत्र जन्मति विषं विषतां जन्मान्तरेऽपि विषया विषतां प्रयान्ति॥७३॥
बिषस्य बिषयाणां च दुरमत्यन्तगोचरम्। उपयुक्तं विषं हन्ति बिषयाः स्मरणादपि॥७४॥
संसृष्टं व्रजति विषं बिषेण शन्तिं सन्मन्त्रैरगदधरैश्च साध्यमानम्।
युक्तं वा भवति विषं हिताय नॄणां न त्वेवं विषयमहाबिषं कदाचित्॥७५॥
यद्वद्वषो बिषमकूपतटान्तत्रूढो दुर्वाप्रवाललवलालसमानसः सन्।
श्वभ्रे पतत्यथ च नास्तु त एव लाभस्तद्वत्सुखान्वितमतिः खलु जीवलोकः॥७६॥
मन्दाकिनीजलरयाकुलितालकाभिः क्रीडाबिहारमनुभूय सहाप्सरोभिः।
भूयो भ्रमन्ति खरवैतरणे तरंगसंपर्कजर्जरितदारुणदुःखभाजः॥७७॥
आस्तीर्णकल्पतरुपलॄवसंस्तरेषु कान्तासखाः सुरवनेषु मखं विहृत्य।
भूयो भ्रमन्ति निशिताकुलशस्त्रपातविच्छिन्नगात्रमसिपत्त्रवनस्थलीषु॥७८॥
स्पर्शे सुखासु पदपातनतोन्नतासु मेरोर्नितम्बपदबीषु चिरं विहृत्य।
उत्तप्तसैकतकुकूलकृशानुराशिं संसीर्यमाणचरणोरुभुहो भ्रमन्ति॥७९॥
गत्वा दिवं मुखरभासुरकिङ्कनीकहाराबलीनिकरदन्तुरितैर्विमानैः।
घोरं स्थिराश्रयममेयमनन्तपारमन्धं तमः पुनस्धःशिरसा पतन्ति॥८०॥
शक्रोऽपि यत्र सुरकिंनरनागयक्षमौलिप्रभाप्रकरपिञ्जरपादपीठः।
कर्मानिलकुलगतिः कुगतिः प्रयाति को नाम तत्र पुरुषो न भयं भजेत॥८१॥
प्रल्माफ्मानकुसुमाः श्रु दिग्धा ल्मानाम्बराः करुणदीक्षितबन्धुवर्गाः।
दुःखं परं यदमरा मरणे व्रजन्ति तन्मानवा न जलबुद्वुदलोलजीवाः॥८२॥
दुःखाग्निप्रकरनिरोधभैरवेऽस्मिन्यलोके वहति जनः सुखाभिमानम्।
तन्मत्योर्बदनमपावृतं बिशालं तद्वीजं पुनरपि जन्मपादपस्य॥८३॥
तं तृष्णामयदृढदीर्घतन्तुबध्हं पर्यस्तप्रणिहितभीमकालदण्डम्।
सत्वानां भवजलधौ परिल्पुतानां मत्स्यनां बडिशमिवान्तकेन दत्तम्॥८४॥
कुम्भीपाकक्कथितकलिलादुष्णसंरम्भवेगात्कृत्वोद्धिवं क्षणमपि सुखं लब्धनिश्वासमोक्षाः।
क्रोधापूर्णेः सुबडुभिरयोमुद्ररैस्ताड्यमाना मन्यते तं परमिव सुखं नारका यद्वदेव॥८५॥
तद्धदुःखैरनिशमवशो दारुणैः पीड्यमानस्तावत्कालं जरणमणरक्षोभमुक्तः कथंचित्।
भन्दीभूते क्षणमपि निजे दुःसहे दुःखबड्नौ सर्धो लोकस्तनुसुखलबग्रामतृष्णां करोति॥८६॥
यावद्याबज्जगति सकले जायते सौख्यसंज्ञा तीवत्तावद्वडुतरशिखो जायते रागबड्निः।
यावद्यबद्विसरति शुभा भावना भाव्यमाना तावत्तावद्वहलतरतामेति मोहान्धकारम्॥८७॥
यावद्याबन्नियतमशुभा भावना याति वृद्धिम्।
तावत्तावत्तरलतरतमिति मोहान्धकारम्॥८८॥
दुर्गन्धिपूतिविकृतैररविन्दमिन्द्रुमिन्दीवरं च तुलयन्ति यदाङ्गनाङ्गैः।
तस्यानृतस्य फलमुग्रमिदं कवीनां तास्वेव गर्भनिलयं पदमी बिशन्ति॥८९॥
का सौगतिर्जगति या शतशो न याता किं तत्सुखं यदशकृन्न पुरानुभूतं।
कास्ताः श्रियश्चपलचामरचारुहासाः प्राप्ता न यास्तदपि वर्धत एव रागः॥९०॥
नद्यो न ता न बिहृतं पुलिनेषु यासां स्थानं न तज्जगति यत्र कृतो न वासः।
व्योम्नापि तन्न पदमस्ति न यत्र यातं दुष्पूरणस्तदपि वर्धत एव रागः॥९१॥
दुःखं न तद्यदसकृन्न पुरानुभूतं कामा न ते जगति यैरिह तृप्तिरासीत्।
सत्त्वो न सोऽस्ति जठरे शयितं न यस्य संसारिणस्तदपि नास्ति कथं विरागः॥९२॥
अत्यायते जगति जन्मपरिग्रहे ऽस्मिन्दुःखे सुखे च बहुशः परिवर्तमानः।
नासौ जनो जगति यो न बभूव बन्धुर्द्वेषोरगस्तदपि तिष्ठति भीमभोगः॥९३॥
यैः सार्धमेत्य हसितं ललितं प्रगीतमेकत्र पीतमशितं च कृताश्च गोष्ठ्यः।
कालक्रमेण गमिताः कति केऽपि रम्या नीताः समाश्च विषमाश्च दशाः कथंचित्॥९४॥
तानार्जबं जबविवर्तनदष्टनष्टानावर्तमध्यपतितानिव वीक्ष्यमाणः।
संसारसागरगतानपहाय बन्धूनेकः प्रयाति यदि नास्ति ततः कृतघ्नः॥९५॥
अङ्कस्थितेन शिशुना विवशेन यासां पीतः पयोधररसं प्रणयानुयातः।
तन्निष्फलप्रचुरदुर्ललितैकभाजः को नाम दस्युरपि हातुमिहोत्सहेत॥९६॥
या संस्थितोऽयमुदरेऽपि कृतावकाशो याः स्नेहविल्कवधियः श्लथमेनमूडुः।
ता दुःखिता अशरणाः कृपणा बिहाय को नाम शत्रुरपि गन्तुमिहोत्सहेत॥९७॥
बिकीर्णे दुःखौघैर्जगति विवशे ऽस्मिन्नशरणे परार्थे यदुःखं तदिह सुखमादुः सुपुरुषाः।
क्षणं क्षुत्तृष्णोष्णश्रमबिगमरभ्यनरुचः परं कृत्वा तेषामपि यदिह क इवास्य प्रतिसमः॥९८॥
न सारम्थैर्या नैव च नृपतिलक्ष्मीपरिकरैर्न दारैर्नापत्यैर्न सुरभवने नासुरगतौ।
कथंचित्संप्राप्यं विषयसुखं भोगपरमैर्लभन्ते या प्रीतिं परहितसुखाधाननिरताः॥९९॥
स्वयं घासग्रासं पशुरपि करोत्येव सुलभं यदृच्छा लब्धं वा पिबति सलिलं गाढतृषितः।
परस्यार्थ कर्तु यदिह पुरुषोऽयं प्रयतते तदस्य स्वं तेजः सुखमिदमहो पौरुषमिदम्॥१००॥
यदालोकं कुवन् भ्रमति रविरश्रान्ततुरगः सदालोकं धत्ते यदगणितभारा वसुमती।
नं स स्वार्थः कश्चित्प्रकृतिरियमेव महतां यदेते लोकानां हितसुखरसैकान्तरसिकाः॥१०१॥
अविद्याधूम्रान्धभ्रमपरिगतब्याकुलगतिप्रदिप्ते दुःखाग्नौ पतितमवशं बीक्ष्य भुवनम्।

स्फुरद्वड्निज्वाला प्रमथितशिरोवेष्टननिभा यातन्ते येऽत्राद्रुत इह पुरुषास्ते सुकृतिनः॥१०२॥
अबीचिं गाहन्ते डूतबहशिखापूरितमपि प्रसर्पद्रोमाञ्चा हिमनिकरचन्द्रांशुशिशिरम्।
परार्थे स्फुटनलिनहासापि नलिनी करोत्येषां तापं डूतवहशिखासंहतिरिव॥१०३॥
परहितकरणाय बद्वकक्षाः सुखमसिपत्त्रवने वसन्ति सन्तः।
न पुनरमरसुन्दरीसहायाः क्षणमपि नन्दनकानने रमन्ते॥१०४॥
अशरणजनतारणाय तीर्णाः पुनरपि वैतरणीं तरन्ति धीराः।
न तु गगनसरित्तरंगभङ्गब्यतिकरसङ्गसुखं स्वयं भजन्ते॥१०५॥
इति सुचरितरन्तं भूषणं भूषणानां शिवममृतमुदारं भासुरं भासुराणाम्।
असुलभमकृतज्ञैर्नन्दनं नन्दनानां भज समसुखहेतुं मङ्गलं मंङ्गलानाम्॥१०६॥
सुगतवचनपुष्पं सर्वदा सेबनीयं फलति फलमुदारं पुष्पमेव द्रुमाणाम्।
सुगतवचनपुष्पादर्थराशिर्निषेब्यो मधुनि मुधकराणां यस्य वाञ्छाप्रकर्षम्॥१०७॥
विसृज विषयान्नीत्याकीर्णां क्षणब्ययसङ्गिनो भज समसुखं साकाङ्क्षं कृतान्तभयोज्कितम्।
विकर तिमिरं मोहब्याजं विमोक्षयथार्गलं न खलु सुचिरं निद्रायन्ते सदश्वकिशोरकाः॥१०८॥
विनयविसरो वीर्यस्कन्धः क्षमासमपलॄवः शमथकुसुमः प्रज्ञाशाखः प्रदानघनच्छदः।
प्रणिधिशिखरः शीलच्छायः प्रशान्तिफलप्रदो भव भव मरौ तापार्तानां त्वमेकमहाद्रुमः॥१०९॥
बडुजनहितो माभैर्वादप्रदानमहास्वनः पृथुतरशोधारामारः कृपानिलचोदितः।
प्रशमितरजः शीलच्छायाविभूषितभूतलो भव भव मरौ तापार्तानां त्वमेकमहाघनः॥११०॥
प्रकटविपुलं पङ्कागाधः प्रमन्नतराश्रयः सततशिशिरो जालब्यालप्रमादविवर्जितः।
प्रकृतिसुभगस्तृष्णाच्छेदाबिमर्दभरक्षनो भव भव मरौ तापार्तानां त्वमेकमहाहदः॥१११॥
इति तिगदता यदुपार्जितं पुण्यं मया कियत्सुगतचरिते कृत्वा श्रद्वामनेन जनो ऽखिलः।
सततसुखितो रम्याभोगः समृद्वमनोरथः परहितरतः सर्वज्ञत्वं प्रयातु ततः शनैः॥११२॥
करतलसमाः स्पष्टालोकाः प्रशान्तकृशानवः स्थलकमलिनीपत्त्रच्छन्ना बिसाङ्कुरदन्तुराः।
शुचिसुरभयः स्फुल्लाम्भोजैर्बिभूषितभूमयो दधतु नरकाः स्फीतां शोभां सशीकरवायवः॥११३॥
बिजितंबिरुतमारानीकाः कृताभयघोषणा गगनसलिलक्रीडा रम्या समेत नरामराः।
जननमरणल्केशायासप्रबन्धविघातिनो दिशि दिशि सदा बुद्वोत्पादा भवन्तु समीहिताः॥११४॥
भवतु जगतां धर्मामोदः प्रबन्धमहोत्सवः सुचिरगुणिता मृत्योर्बन्ध्या भवन्तु मनोरथाः।
मुनिजनकथागोष्ठीबन्धैः समाबृतवर्षिभिः सततशिशिरः सुभगचन्द्रालोकः प्रयातु कृतार्थताम्॥११५॥
॥ इति शिष्यलेखनाम् धर्मकाव्यं समाप्तम्॥
॥कृतिराचार्यचन्द्रगोमिपादस्य॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project